________________
(४६०)
सादर्श:
[चतुर्थीकारकेन च परिशोधनप्रागभावविशिष्टो निरुक्तादानध्वंसस्तथा ऋणीकृतद्रव्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादाय 'धारयति ' इति प्रयोगापत्तेः । न च स्वप्रतियोगिनिर्वाहकाङ्गीकारविषयद्रव्यदानप्रागभावविशिष्टादानध्वंसस्तथा-यद् ऋण परिशोधितं तावद् द्रव्यं च पुनर्ग्रहीत्वा पुनः परिशोधनीयं तदादाय · धारयति । इतिव्यवहारापत्तेः, उदीच्यपरिशोधनस्यापि स्वकर्तव्यतया पूर्वाभ्युपगमविषयत्वात् तत्प्रागभावस्य पूर्वपरिगृहीतपरिशोधनोचरमपि सत्त्वात् ।
तेन च तत्कर्तृत्वं युक्तमेव धंसस्य स्वप्रतियोग्याश्रये एवाश्रितत्वस्वीकारादिति नाऽऽदानानन्तरम् ‘धारयति । इति प्रयोगानुपपत्तिरित्याशयाह-न चादानमिति, परिहारहेतुमाह-- एवमिति, यद्यादानध्वंस एवं धारयत्यर्थस्तदा ध्वंसस्याऽविनाशित्वेन परिशोधनोत्तरमपि वर्तमानत्वात् तदानीम्=परिशोधनोत्तरमपि 'धारयति । इतिप्रयोगः स्यात्, न चैतदिष्टमित्यर्थः ।
ननु परिशोधनप्रागभावविशिष्ट उक्तादानध्वंसस्तथा धारयत्यर्थस्तथा च परिशोधनोत्तर परिशोधनप्रागभावस्य विनाशेन तद्वैशिष्टयमुक्तध्वंसे न संभवतीति परिशोधनोत्तरं परिशोधनप्रा. गमावविशिष्टध्वंसस्य धारयत्यर्थस्याऽसत्त्वान्न परिशोधनोत्तरम् ' धारयति । इतिप्रयोगापत्तिरित्याशङ्कयाह-न चेति, परिहारमाह-ऋणीकृतेति, यत्र ऋणद्वयं कृतमेकं च यदा ऋणं परिशो. धितमेकं च न परिशोधितं तत्राऽपरिशोधितर्णपरिशोधनप्रागभावविशिष्टस्यादानध्वंसस्य सत्त्वाव परिशोधितर्णमादाय 'धारयति । इतिप्रयोगः स्यादेव न चैतदिष्टमित्यर्थः । ननूक्तध्वंसस्य प्रतियोगिभूतं यदाऽऽदानं तन्निर्वाहको योङ्गीकारः= ऋणमिदं परिशोधयिष्यामि' इत्पङ्गीकार: ( अधमर्गकृतपरिशोधनाङ्गीकारं विना ऋणप्राप्तेरसंभवादङ्गीकारस्याऽऽदाननिर्वाहकत्वम् ) ताहशाङ्गीकारविषयीभूतं यद् द्रव्यदानम् परिशोधनं तादृशद्रव्यदानस्य प्रागभावेन विशिष्टो य उक्तादानध्वंसः स तथा धारयत्यर्थस्तथा च द्रव्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादाय नोक्ता — धारयति । इतिप्रयोगापत्तिः-द्रव्यान्तरपरिशोधनप्रागभावस्यैतद्धारयत्यर्थघटकत्वाभावात् तद्र्व्यपरिशोधनप्रागमावस्यैव धारयत्यर्थघटकत्वात् तद्र्व्यपरिशोधनप्रागभावकाले च तद्रव्यमादाय 'धारयति । इति प्रयोगस्येष्टत्वादेवेत्याशझ्याह-न चाते । स्वम् आदानध्वंसः । परिहारमाह-यदिति, यत्र मुद्रासहस्रदयग्रहणपरिशोधनयोः संकेतो जातः किं तु प्रथममऽर्धमेवर्ण मुद्रासहस्ररूपं गृहीतं परिशोधितं च पुनश्च शेषभूतमेकसहस्रं कालान्तरे ग्राह्यं परिशोधनीयं चास्ति तत्रोदीच्यस्य:-भाविनः परिशोधनस्यापि स्वीकृतत्वेनागाकारविषयत्वात् तत्प्रागभावस्य तादृशोदीच्यपरिशोधनप्रागमावस्य पूर्वपरिगृहीतपरिशोधनोत्तरमपि सत्त्वात् पूर्वादानध्वंसस्यापि च सत्त्वात् तदादाय परिशोधितमृणमादाय ' धारयति । इति प्रयोगः स्यादेव. न चैतदिष्टमित्यर्थः ।
"Aho Shrutgyanam"