________________
धारयत्थर्थनिर्वचनम] :: व्युत्पत्तिषादः ।
(४६१) - न च स्वप्रतियोग्यादाननिर्वाहकाभ्युपगमविषयीभूतं यद् द्रव्यदानमेकक्षणा. वच्छिन्नैकाधिकरणवृत्तित्वसंबन्धेन तद्विशिष्टान्यप्रागभावविशिष्टादानध्वंसस्तथा उक्तस्थले चोदीच्यपरिशोधनप्रागभावः प्रथमादानप्रयोजकाभ्युपगमविषयप्रथ. मपरिशोधनविशिष्टः प्रथमपरिशोधनप्रागभावश्च प्रथमपरिशोधनोत्तरं नास्त्येवेति. नोक्तातिप्रसङ्ग इति वाच्यम्, एवमपि यस्य ऋणस्य परिशोधनमप्रसिद्धं तदादानपूर्वकालीनस्थ 'एतावद् द्रव्यं मया तुभ्यं देयम् ' इत्यभ्युपगमस्य तदुत्तमोद्देश्यकत्वेन स्वकर्तृकान्योद्देश्यकतावद्रव्यदानमेव विषय इत्युपेयम्-तदुत्तमोंदेश्यकतत्कर्तृकतावद्रव्यदानस्याप्रतिद्धत्वात् तथा चान्योद्देश्यकतत्कर्तृकतावद्
ननूक्तध्वंसस्य प्रतियोगिभूतं यदाऽऽदानं तन्निर्वाहको योभ्युपगमः= ऋणमिदं परिशोधयिष्यामि ' इत्यङ्गीकारस्त द्विषयीभूतं यद् द्रव्यदानम् परिशोधनं तेन एकक्षणावच्छिन्नैकाधिकरण ( अधमर्णतव्यक्ति ) वृत्तित्वसंबन्धेन विशिष्टो यः प्रागभावः नाम प्रथमादानप्रयोजका (निर्वाहका ) भ्युपगमविषयप्रथमपरिशोधनविशिष्ट उदीच्य (ग्रहीष्यमाणधनविषयक ) परिशो. धनप्रागभावस्तदन्यो यः प्रागभावः प्रथमपरिशोधनप्रागभावस्तद्विशिष्टो य आदानध्वंसः स तथा धारत्यत्यर्थस्तथा चोक्तस्थले उदीच्यपरिशोधनप्रागभावस्तु प्रथमादाननिर्वाहकाभ्युपगमविषयप्रथमपरिशोधनविशिष्ट एवोक्तसंबन्धेन भवति-यस्मिन् क्षणे तदधमर्णव्यक्तौ प्रथमादाननिर्वाहकाभ्युपगमविषयप्रथमपरिशोधनं तिष्ठति तस्मिन्नेव क्षणे तदधमर्णव्यक्तौ उदीच्यपरिशो. धनप्रागभावोपि तिष्ठतीति वैशिष्टयम् एतादृशोदीध्यपरिशोधनप्रागभावश्च न धारयत्यर्थघटक इति नोक्तस्थले प्रथमपरिग्रहीतपरिशोधनोत्तरमपि परिशोधितमृणमादाय 'धारयति' इतिप्रयोगापत्तिः, धारयत्यर्थघटकस्तु तत्रोक्तोदीच्यपरिशोधनप्रागभावान्यः प्रथमपरिशोधनप्रागभाव एवं स च प्रथमपरिशोधनेन विनाश्यमानत्वात् प्रथमपरिशोधनोत्तरं न तिष्ठतीति प्रथमपरिशोधनोत्तरं प्रथमादानध्वंसस्याऽविनाशिस्वेन सत्त्वेपि धारयत्यर्थैकदेशभूतस्य प्रथमपरिशोधनप्रागभावस्याऽमत्त्वान्न प्रथमपरिशोधनोत्तरं तादृशप्रथमपरिगृहीतपरिशोधितमृणमादाय ' धारयति । इति प्रयोगापत्तिः, प्रथमपरिशोधनपूर्वकाले च प्रथमपरिशोधनप्रागभावोप्यस्ति प्रथमादानध्वंसोप्य. स्तीति तदा 'धारयति' इतीष्टप्रयोगस्योपपत्तिरप्यस्त्येवेति न कोपि दोष इत्याशङ्क्याह-न चेति, परिशोधनस्य क्रियारूपत्वेनैकमात्रक्षणस्थायित्वेनोक्तम्-एकक्षणावच्छिन्नेति । अत्रापि दोषमाह-एवमपीति, यस्य ऋणस्य परिशोधनमसंभवित्वादप्रसिद्धं जातम्-येन केनापि कारणेन गहीतधनपरिमितधनस्य दात्रे वा तदुत्तराधिकारिणे वाऽदेयत्वात् तादृशस्य ऋणस्य पूर्वकाले यः 'एतावद् द्रव्यं मया तुभ्यं देयम्' इत्यभ्युपगमः कृतस्तस्य तदुत्तमर्णोद्देश्यकत्वेन स्व ( अधमर्ण) कर्तृकमऽन्योदेश्यकम् तदुत्तमोत्तराधिकार्युद्देश्यकमेव द्रव्यदानम्-परिशोधनं विषय इत्युपेयम्= स्वीकार्यम्-- तदुत्तमद्देश्यकस्य-साक्षात्तद्वत्तमाय तत्कर्तृकतावद्रव्यदानस्य-अधमर्णकर्तृकर परिशोधनस्याऽप्रसिद्धत्वात् तथा चन्तादृशस्थले अन्योद्देश्यकतत्कर्तृकतावद्व्यदानोत्तरं यथा
"Aho Shrutgyanam"