________________
( ४६२ )
[ चतुर्थीकर
द्रव्यदानीत्तरं तदभ्युपगम विषयद्रव्यदानविशिष्टान्यप्रागभावासत्वात् ' धारयति इति व्यवहारामुपपत्तिरिति चेत् ?,
अत्राहुः - ऋणग्रहणेनाधमर्णानिष्ठः परिशोधननाश्योऽदृष्टविशेषो जन्यते तेनैचादृष्टेन ऋणमपरिशोध्य मृतस्य नरकादिकमुत्पद्यते तथा च द्रव्यान्तरदानाभ्युपगमपूर्वक परदत्तद्रव्यादानजन्याऽदृष्टविशेषवस्वमेव धारयतेरर्थः, तद्घटकदाचैत्रेण मैत्राद् यावद्द्रव्यं ऋगत्वेन गृहीतं तावद्द्रव्यं देवदत्ताय दत्तं न च स देवदत्तो मैत्रोत्तराधिकार्यस्ति तत्र चैत्र कर्तृकेतादृशद्रव्यदानोत्तरम् ' धारयति ' इति व्यवहारो न स्यादेव द्रव्यदानरूपपरिशोधनस्य जातत्वेन धारयत्यर्थैकदेशस्य परिशोधनप्रागभावस्याऽसत्त्वात् एतदेवाहतदभ्युपगमविषयद्रव्यदानविशिष्टान्यप्रागभावाऽसत्त्वादिति भत्र हि धारयत्यर्थभूतादानध्वंसे विशेषणीभूतोपि परिशोधनप्रागभावो नास्ति-परिशोधनस्य जातत्वात् एतादृशपरिशोधनप्रागभावे विशेषणीभूतो यो भेदस्तत्प्रतियोगिभूतपरिशोधनप्रागभावोपि नास्ति तस्य पूर्वोक्तॠणद्वयस्थले एव संभवात् इष्टश्वेतादृशस्थ लेप्यऽन्योद्देश्यकलत्कर्तृकसानद्द्रव्यदानोत्तरमपि ' धारयति' इतिव्यवहारः-येन ऋणं दत्तं तस्मै वा तदुत्तराधिकारिणे वा गृहीतधनप्रतिदानस्वाऽजतत्वात् यच ताषद्द्रव्यं प्रतिदत्तं तद्धि तटस्थायैव कस्मैचित् प्रतिदत्तमस्तीति । एतावद्रव्यं मया तुभ्यं देयम् इत्यभ्युपगमेन च साक्षाद् दात्रे वा तदुत्तराधिकारिणे वा प्रतिदानप्रतिज्ञाषा: 'कृतस्थात् 'मंत्र' चान्योद्देश्यक्तावद्द्रव्यदानेनापि कृतप्रदर्शितप्रतिदानप्रतिज्ञापरिपालनस्याजातत्वात्, दात्रुदेश्यके एवं परिशोधनरूपे प्रतिदानं जाते एव ' धारयति ' इति व्यवहारनिवृत्तेरिष्टत्वादित्यर्थः । अत्र धान्योद्देश्यतत्कर्तृक तावद्द्रव्यदानात् पूर्वमादानध्वंसोप्यस्ति तादृशादानध्वंसविशेषणीभूतः परिशोधनप्रागभावोप्यस्तीति ' धारयति ' इति व्यवहारानुपपतिर्नास्तीत्युक्तम् - " अन्योद्देश्य कताबद्द्रव्यदानोत्तरम् " इति । वस्तुतस्त्वत्र कृताभ्युपगमविषपरिशोधनस्याजातत्वादाऽऽदानध्वंसे साक्षाद्विशेषणीभूतस्य परिशोधनप्रागभावस्य सत्त्वेपि तादृशप्रागभावविशेषणीभूतो यो भेदस्तत्प्रतियोगिभूतप्रागभावस्याऽप्रसिद्ध्यैव ' धारयति' इति व्यचहारानुपपत्तिर्ज्ञेया तथा चैकर्णस्थले सर्वत्रैव 'धारयति' इतिव्यवहारस्यानुपपत्तिरस्ति ऋणद्वयस्थले एवैतत्परिष्कारस्य समन्वय संभवात्तदर्थमेवो हितत्वादिति ध्येयम् ।
¿
अथेत्यादिनाऽऽशङ्कितं समाधत्ते - अत्राहुरित्यादिना । स्पष्टार्थोयं ग्रन्थः । धारयत्यर्थमाहतथा चेति । द्रव्यान्तरदानाभ्युपगमः = ' कालान्तरे एतावद् द्रव्यमहं तुभ्यं दास्यामि' इत्याकारको यः परिशोधनविषयकोभ्युपगमस्तत्पूर्वकं यत् परदत्तद्रव्यस्याऽऽदानम् ऋणग्रहणं सज्जन्याऽदृष्टविशेषवत्त्वमेव धारयत्यर्थः । 'विप्राय शतं धारयति' इत्यत्रत्यचतुर्थ्यर्थमाह- तद्घटकेति, धारयत्यर्थघटकं यद्दानं परदत्तेतिदाधात्वर्थदानं तदन्वयिकर्तृत्वं दाननिरूपितकर्तृत्वम् चतुर्थ्यर्थः - दानस्य कर्तृत्वनिरूपकत्वेन निरूपकत्वसंबन्धेन कर्तृत्वस्य दानेऽन्वयस्तथा च “विप्रकर्तृकं यद् ऋणदानं सदादानजन्याऽदृष्टविशेषाश्रयश्चैत्रः' इति शाब्दबोधः । ऋणादानजन्या
साद
"Aho Shrutgyanam"