________________
धारयत्यर्थनिर्वचनम् ]
व्युत्पत्तिवादः ।
( ४६३ )
नान्वाय कर्तृत्वं तत्र चतुर्थः । न च ऋणापरिशोधनमेव दुरदृष्टजनकम् - उपपातकमध्ये तस्य परिगणनात् न तु ऋणादानम्- तस्य तथात्वें मानाभावादिति वाच्यम, ऋणादानस्य दुरदृष्टविशेषजनकत्वोपे परिशोधनेन तस्य नाश इति बोधनायाsपरिशोधनस्य नरकरूपफलोपधानप्रयोजकत्वाभिप्रायेण तस्योपपातकमध्ये परिगणनोपपत्तेः । ऋणमादायापरिशोधकस्य नरकभागितया ऋणादानस्यैव दुरदृष्टसाधनतायाः कल्पनीयत्वात्, गृहीतर्णापरिशोधनापेक्षया लघुत्वात् । अपरिशोधनस्य हेतुत्वे परिशोधन पूर्वका लेप्यऽपरिशोधनसत्त्वेन दुरदृष्टोत्पतेरावश्यकतया परिशोधनस्य तन्नाशकताया. आवश्यकतयाऽस्माकं तत्क ल्पनाधिक्पविरहात् । परिशोधनोत्तरकालं परिशोधनाभावसत्त्वेन तद्वलात् तदुत्तरं दुरदृष्टवारणाय परिशोधनध्वंसस्य प्रतिबन्धकतायाः कल्पनीयतया भवन्मते गौरवाच्च ।
दृष्टस्य ऋणाऽऽदानोत्तरमेव जायमानत्वेन ऋगादानात्पूर्वमसत्त्वाद् ऋणादानात् पूर्वकाले ' विप्राय शतं धारयति ' इतिप्रयोगापत्तिर्नास्ति, एवं तस्य ऋणादानजन्यादृष्टस्य परिशोधननाश्यत्वेन परिशोधनानन्तरमसत्त्वात् परिशोधनानन्तरम् ' विप्राय शतं धारयति' इतिप्रयोगापत्तिरपि नास्ति, ऋणादानादनन्तरमापरिशोधनं तादृशादृष्टस्य सत्त्वादेवोक्तप्रयोगानुपपत्तिरपि नास्तीति न कोपि दोष इत्यर्थः । शङ्कते - न चेति । तस्य ऋणापरिशोधनस्यैव । तस्य = ऋणादा नस्य । तथात्वे = दुरदृष्ट ( पाप ) जनकत्वें । परिहारमाह- ऋणादानस्येति, यद्यपि ऋणादानस्यैव दुरदृष्टजनकत्वमस्ति तथापि परिशोधनं विना तस्य ऋणादानजन्यदुरदृष्टस्य नाशों न भवतीति परिशोधनावश्यकत्वबोधनायैवाऽपरिशोधनस्य नरकरूपफलोपधान ( उत्पत्ति ) प्रयोजकत्वाभिप्रायेण तस्य=अपरिशोधनस्य निन्दितत्वादुपपातकमध्ये परिगणनास्ति न तु वस्तुतो दुरदृष्टजनकत्वेनेत्यर्थः । मतद्वयमध्ये ऋणादानस्य दुरदृष्टजनकतामते लाघवमाह - ऋणमाबायेति । उक्ते हेतुमाह- गृहीतर्णेति, ऋगापरिशोधनं हि ऋणपरिशोधनाभाव एवेति तत्राभावपदार्थप्रवेशेन तादृशाभावज्ञानार्थं प्रतियोगि भूतपरिशोधनपदार्थज्ञानापेक्षया चापरिशोधनस्य गुरुत्वात् तदपेक्षया ऋणाऽऽदानस्य लघुत्वात्तस्यैव दुरदृष्टजनकत्वं स्वीकार्यमित्यर्थः । अपरिशोधनस्य दुरदृष्टजनकत्वे गौरवान्तरमाह- अपरिशोधनस्येति अपरिशोधनस्य हेतुत्वे = दुरदृष्टजनकता मते परिशोधनपूर्वकालेपि नाम न केवलमृणग्रहणादनन्तरमेत्र परिशोधनपूर्वकालेऽपरिशोधनमस्तिकिंतु ऋणग्रहणात् पूर्वमप्यऽपरिशोधनमस्त्येवेति ऋणग्रहणात् पूर्वमेव विद्यमानतादृशाऽपरिशोधनेन दुरदृष्टमुत्पद्येत तस्यापि परिशोधनेन: विनाशो भवन्मते कल्पनीयो न चैतादृशकल्पनाऽस्मनमस्ति - ऋणादानस्यैव दुरदृष्टजनकत्वादिति भावः प्रतीयते । गौरवान्तरं प्रदर्शयति- परिशोधनोत्तरकालमिति, परिशोधनस्य क्षणिकत्वेन परिशोधनोत्तरमप्यऽपरिशोधनसत्वेन दुरदृष्टमुत्पयेतेति तदुत्तरम्= परिशोधनोत्तरं तद्बलात् = परिशोधनाभाव ( ध्वंस ) बलात् दुरदृष्टवारणाय
1
"Aho Shrutgyanam"