________________
( ४६४ )
सादर्श:
[ चतुर्थी कार के --
न च परिशोधनानुत्तरमरणमेव पापजनकं वाच्यं तथा च नोक्तातिप्रसङ्ग इति वाच्यम्, गृहीतद्रव्यमपरिशोध्य मरणस्थले तद्द्रव्य परिशोधनाप्रसिद्धया तदनुत्तरत्वादिघटितरूपेण हेतुतायाः कल्पयितुमशक्यत्वादित्यलम् |
"
4
6
'यूपाय दारु ' इत्यादौ न सप्रदानचतुर्थी. अपि तु तादर्थ्ये सूत्रान्तरेण सा, तादर्थ्यं च स एवार्थः-प्रयोजनं यस्य तखम् । समभिव्याहतपदार्थे तादर्थ्यविवक्षायां तद्वाचकपदाच्चतुर्थी' इति तत्सूत्रार्थः । प्रयोजनत्वं चात्र न जन्यत्वम् - दुःखादेः पापादिजन्यतया 'दुःखाय पापम् ' इत्यादिप्रयोगापत्तेः । नापि जन्यतयेच्छाविषयत्वम्- स्वर्गादेः पुण्यादिजन्यत्वेने च्छाविषयत्वात् स्वर्गाय पुण्यम् ' इत्याद्यापत्तेः, न चेष्टापत्तिः- तथा सति 'पक्तुं व्रजति' इत्यर्थे ' पाकाय व्रजति ' इति निर्वाहाय तुमर्थाच्च भाववचनात् " इति सूत्रप्रणयनवैयर्थ्यात्परिशोधनध्वंसस्य दुरदृष्टप्रतिबन्धकत्वमपि कल्पनीयमित्यपि गौरवम्, अस्मन्मते च ऋणादानस्यैव दुरदृष्टजनकत्वेन ऋणादानजन्यदुरदृष्टे परिशोधनेन: नष्टे पुनश्च ऋणादानं विना दुरदृष्टोत्पत्तिरेव न संभवतीति न परिशोधनध्वंसस्य दुरदृष्टप्रतिबन्धकत्वकल्पनापत्तिरितिभावः प्रतीयते ।
८५
-
पुनराशङ्कते -- न चेति । नोक्तातिप्रसङ्गः = परिशोधनोत्तरकाले दुरदृष्टोत्पत्तिलक्षणातिप्रसङ्गो नास्त्येव - परिशोधनानन्तरं दुरदृष्टोत्पादकस्य परिशोधनानुत्तरमरणस्याऽसत्त्वात् तस्यैव दुरदृष्टोत्पादकत्वस्वीकारादित्यर्थः 1 परिशोधनानुत्तरमरणम् = अपरिशोध्यमरणम् । परिहारमाह - गृहीतेति, विशेषणीभूतस्य परिशोधनस्य सत्त्वे एव परिशोधनानुत्तरत्वस्य प्रसिद्धिः . संभवति गृहीतद्रव्यमपरिशोध्यैव मरणस्थले च तद्रव्यपरिशोधनस्याप्रसिद्धया परिशोधनानुत्तरत्वस्याप्यप्रसिद्धिर्जातेति परिशोधनानुत्तरत्वघटितस्य परिशोधनानुत्तर मरणस्याप्यऽप्रसिद्धया दुरदृष्टहेतुत्वं न संभवति प्रसिद्धस्यैव पदार्थस्य हेतुत्वसंभवात् । परिशोध्य मरणस्थलेपि परिशोधनानुत्तरमरणप्रसिद्धिर्नास्ति - परिशोधनोत्तरमरणस्यैव सत्त्वादिति ऋणादानस्यैव दुरदृष्टोत्पादकत्वं युक्तमित्यर्थः ।
प्रयोगान्तरमुदाहरति- यूपायेति । सूत्रान्तरेण = " तादृयें चतुर्थी वाच्या" इतिवार्तिकेन । तादर्थ्यस्वरूपमाह— तादर्थ्यं चेति, यथा सः = यूप एवार्थः = प्रयोजनं यस्य दारुणस्तदेव तत्त्वम् = तादर्थ्यम् ( यूपार्थत्वम् ) । अत्र चतुर्थीप्रापकवार्तिकार्थमाह- समभिव्याहृतेति, यथा समभिव्याहृतपदार्थे==दारुपदार्थे तादर्थ्यविवक्षायाम् = यूपार्थत्वविवक्षायां तद्वाचकपदातू = यूपवाचकपदात् चतुर्थीत्यर्थः । उक्ततादर्थ्यलक्षणघटकप्रयोजनपदार्थमाह- प्रयोजनत्वमिति । अत्रउक्ततादलक्षणे । यदि जन्यत्वमेव प्रयोजनत्वं स्यात्तदा दुःखस्य पापजन्यत्वात् ' दुःखाय पापम् ' इतिप्रयोगः स्याद् न चैतदिष्टम् । जन्यतयेच्छाविषयत्वमपि प्रयोजनत्वं न संभवतीत्याह - नापीति । विपक्षे बाधकमाह- न चेति । तथा सति 'स्वर्गाय पुण्यम्' इति प्रयोगस्येष्टत्वे सति ' पक्तुं व्रजति ' इत्यर्थे ' पाकाय व्रजति ' इति प्रयोगः " तादर्थ्ये चतुर्थी
" Aho Shrutgyanam"