________________
यूपाय दारु इत्यदि ]
व्युत्पत्तिवादः ।
( ४६५ )
पाकादैर्निरुक्तव्रजनाद्यर्थतयैव तद्वाचकपदाच्चतुर्युपपत्तेः । आपे तु समभिव्याहतपदार्थनिष्ठ व्यापारेच्छानुकूलेच्छाविषयत्वं तत्प्रयोजनत्वम्, तत्प्रयोजनकत्वरूपतादर्थ्य च तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वम्- दारुणो यूपेच्छाधीनेच्छाविषयतक्षणादिरूपव्यापारवत्तया यूपार्थत्वमिति तद्विवक्षया यूपपदाच्चतुर्थी, इच्छाधीनेच्छाविषयव्यापाराश्रयत्वं चतुर्थ्यर्थः, प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयतयाऽन्वयः । एवम्- ( रन्धनाय स्थाली' इत्यादावूह्यम्, तत्र तादृशव्यापार स्तण्डुलधारणादिः ।
"
पुण्यादेः स्वर्गेच्छाधीनेच्छाविषयव्यापारानाश्रयतया न 'स्वर्गाय पुण्यम् इत्यादिप्रयोगः । ब्रजनादेः पाकानुकूलव्यापारानाश्रयतया नृ पाकाय व्रजति इत्यादावनेन चतुर्थीति " तुमर्थाच्च " इत्यादिसूत्रम्, तदर्थश्व - 'तुमुन्नन्तयद्धातुना यादृशोर्थः प्रत्याय्यते समभिव्याहृतक्रियान्विततदर्थपरात् तद्धातुघटितभाववाच्या " इतिवार्तिकेन चतुर्थीप्राप्त्या उपपद्येतेति "तुमर्थाच्च" इतिसूत्रं व्यर्थमेव स्यादित्यर्थः । उक्तवैयर्थ्ये हेतुमाह-- पाकादेरिति । तद्वाचकपदात् = पाकपदात् । स्वाभीष्टं प्रयोजनत्वपदार्थमाह - अपित्विति, समभिव्याहृतपदार्थो दारुपदार्थस्तनिष्ठं यत् तक्षणादिरूपव्यापारविषयकेच्छाया जनकीभूता या यूपेच्छा तादृशेच्छाविषयत्वं तदेव तत्प्रयोजनत्वम्, ( दारुणो यूपप्रयोजनकत्वम् ), अत्र यूपेच्छया तक्षणादिव्यापारेच्छा जायते इति यूपेच्छायास्तक्षणादिव्यापारेच्छाजनकत्वमस्तीति तक्षणादिव्यापारेच्छानुकूलेच्छाविषयत्वं यूपस्य प्राप्तम् । तादर्थ्यपदार्थमाहतत्प्रयोजनकत्वेति, तदिच्छा- यूपेच्छा यूपेच्छाधीना या व्यापारविषयकेच्छा तादृशेच्छाविषयो यो तक्षणादिव्यापारस्तदाश्रयत्वमित्यर्थः । लक्षणसमन्त्रयमाह- दारुण इति । चतुर्थ्यर्थमाह- इच्छाधीनेति, तथा च यूपेच्छाधीनेच्छा विषयतक्षणादिव्यापाराश्रयो दारु इति वाक्यार्थः । प्रथमेच्छाविषयमाह - प्रथमेच्छायामिति । उक्तप्रतिपादनमन्यत्रातिदिशति - एवमिति, तादृशव्यापारः = चतुर्थ्यर्थादिघटकव्यापारः । रन्धनेच्छाधीनेच्छाविषयतण्डुलधारणादिव्यापाराश्रयत्वं स्थाल्यास्तदेव चतुर्थ्यर्थः ।
,
पुण्यस्यादृष्टरूपत्वेन गुणत्वाद् व्यापाराश्रयत्वमेव न संभवति येन "तादर्थ्ये चतुर्थी" इतिया+ तिकेनोक्तरीत्या 'स्वर्गाय पुण्यम् इतिप्रयोगः स्यादित्याह - पुण्यादेरिति । स्वर्गेच्छाधीनेच्छाविषयव्यापारश्च यागादिर्विज्ञेयः । 'पाकाय व्रजति' इतिप्रयोगस्य साधुत्वेपि व्रजनस्य व्यापाररूपत्वेन व्यापाराश्रयत्वाऽसंभवादत्र पाकपदोत्तरं न अनेन = " तादर्थे चतुर्थी " इत्यनेन चतुर्थी प्राप्नोति किं तु तुमर्थाच्च भाववचनात् " इतिसूत्रेणेत्याह- व्रजनादेरिति । पाकानुकूलेत्यत्र "पाकेच्छाधीनेच्छा विषयव्यापारानाश्रयतया' इत्येवं वक्तव्यम्, पाकेच्छाधीनेच्छाविषयव्यापारश्चात्र जनव्यापार एव तदनाश्रयत्वं व्रजने स्पष्टमेव । अत्र " गुणादिर्निर्गुणक्रियः" इति स्मर्तव्यम् । तुमर्याच्च " इति सूत्रस्यार्थमाह- तदर्थश्चेति, यथात्र तुमुन्नन्तेन यद्धातुना-पक्तुमिति पच्
66
३०
64
"
" Aho Shrutgyanam"