________________
(१५६)
सादर्शः
[प्रथमाकारके--
थिवीत्वाद्यवच्छिन्नविशेष्यतात्मकप्रकारताद्वयनिरूपिताधेयत्वप्रकारतानिरूपितं य. द्धर्मितावच्छेदकद्वित्वादिनिष्टंकप्रकारतानिरूपकं स्नेहत्वगन्धवाद्यवच्छिन्नविशेव्यताइयं तद्वानिति, अतो न कुत्राप्येकवाक्यताभङ्गः। . 'चैत्रो मैत्रश्च गच्छतः' इत्यादावाख्यातार्थद्वित्वादिप्रकारेण भासमाने चैत्रमैत्रोभयादौ गमनाश्रयत्वाद्यन्वयेन निरुक्तैकवाक्यतासंभवेपि समासविधेर्विभाषाभिकारीयत्वादसमासः। तत्र विशेष्यताभेदभिन्नाद्वित्वनिष्ठप्रकारताव्यप्रतियोगी समूहालम्बनात्मकबोध इति तु न सम्यक् तथा सत्युक्तयुक्त्या एकैकचैत्रमैत्रादितात्पर्येण तथाप्रयोगानुपपत्तेः । रतानिरूपित तथा स्नेहगन्धपदोत्तरद्विवचनार्थद्वित्वनिष्ठप्रकारतानिरूपकं स्नेहगन्धोभयवृत्तिविशेष्यताद्वयं यत्तद्वान् बोधो जायते इति न कुत्रापि समासे उक्तैकवाक्यताया भङ्गः अभाव: (व्यभिचारः येनोक्तैकवाक्यतायाः समासं प्रति कारणत्वं न स्यात्, तथाचोक्तैकवाक्यतायाः समासकारणत्वे सिद्धे ‘धवखदिरौ ' इत्यादौ विशेष्यताभेदेन प्रकारताभेदस्वीकारे उक्तैकवाक्यता न स्याद् एकवाक्यताया भभावे च समासोपि न स्यादित्याह- अत इति । अत्र च "जल. पृथिव्योः स्नेहगन्धावित्यत्र सप्तम्यर्थो द्वित्वमाधेयत्वं च तथा च जलपृथिवीवृत्तिद्वित्वादिनिष्ठैकप्रकारतानिरूपितं यजलत्वावच्छिन्नपृथिवीत्वावच्छिन्नविशेष्यताद्वयात्मकप्रकारताद्वयं तनिरूपिता या सप्तम्यर्थाधेयत्वनिष्ठविशेष्यतारूपप्रकारता तन्निरूपितं यद्धर्मितावच्छेदकं द्वित्वादिनिटैकप्रकारतानिरूपकं स्नेहत्वावच्छिन्नगन्धत्वावच्छिन्नविशेष्यताद्वयं तद्वान् स्नेहो गन्धश्चेति बोधः, द्वौ स्नेहगन्धौ जलपृथिव्युभयवर्तिनौ इतिबोधाकारः" इतिकृष्णंभट्टाः ।
निर्नु यदि यत्र विशेष्यताभेदेन प्रकारताभेदो न भवति तत्रोक्तैकवाक्यतायाः सत्त्वेन समासो भवति यथा 'धवखदिरौ' इत्यत्रेतिनियमस्तदा 'चैत्रो मैत्रश्च गच्छतः' इत्यत्रापि चैत्रमैत्रनिष्ठविशेष्यत्वयोर्मेदेपि धातूत्तरद्विवचनार्थद्वित्वनिष्ठा प्रकारतात्वेकैयास्ति न तु भिन्नेति चैत्रनिष्ठविशेष्यतानिरूपितद्वित्वनिष्ठप्रकारतानिरूपितमैत्रनिष्ठविशेष्यतायाः सत्त्वाद् द्वित्वद्वारा चैत्रमैत्रयोः परस्परं प्रयोज्यप्रयोजकभावापन्नविषयताशालित्वेन 'धवखदिरौ । इत्यत्रेव · चैत्रो मैत्रश्च गच्छतः । इत्यत्र कथं न समासः ? समासकारणीभूताया उक्तैकवाक्यतायाः सत्त्वादेवेत्याशक्याह- चैत्रो मैत्रश्चेति, यद्यप्यत्रास्त्येकवाक्यता तथापि समासविधेर्वैकल्पिकत्वादेव नात्र समासः । एकवाक्यतायाः सत्त्वाच्च 'चैत्रमैत्री गच्छतः' इतिसमासोप्येकपक्षे भवत्येवेत्यर्थः । द्वित्वादिप्रकारेणेति- द्वित्वं प्रकारोऽत्रेति बहुव्रीहिसमासेन द्वित्वस्यैव चैत्रमैत्रोभयप्रकारत्वं ज्ञेयम् । ननु यत्र विशेष्यताभेदेपि प्रकारताभेदो न भवति तत्रोक्तैकवाक्यतायाः सत्त्वात्समासो भवत्येवेति नियमस्तादृशनियमपरिरक्षणाय च तत्र='चैत्रो मैत्रश्च गच्छतः' इत्यत्र विशेष्यताभेदेन द्वित्वनिष्ठप्रकारतापि भिन्नैव स्वीकार्या यथा- चैत्रनिष्ठविशेष्यतानिरूपिता द्वित्वनिष्ठा प्रकारता मिन्ना मैत्रनिष्ठविशेष्यतानिरूपिता च द्वित्वनिष्ठा प्रकारता भिन्नेति प्रकारताया अभेदो नास्त्येव
"Aho Shrutgyanam"