________________
संख्याऽनुयोगिविचारः ] व्युत्पत्तिवादः ।
(१५७) आख्यातोपस्थापित द्वित्वादिकं चोभयादिरूपान्वयितावच्छेदकावच्छिन्ने एवान्वेतीति व्युत्पत्तिः, तेनोक्तमयोगदर्शनात् क्रियापदस्य विशेष्यवाचकपदसमानवचनकत्वाऽनियमपि घटद्वयादितात्पर्येण 'घटस्तिष्ठतः '. इत्यादयो न प्रयोगाः । एकवचनान्तं क्रियापदं च तादृशविशेष्यवाचकपदप्रयोगे एव साधुअतः 'घटास्तिष्ठति ' इत्यादयो न प्रयोगाः।
अथैकघटादिव्यक्तरेतद्देशवृत्तितादशायाम् अत्र घटौ स्तः घटाः सन्तिः। येनात्रोक्तैकवाक्यता प्राप्नुयात् तया च समासः प्राप्नुयादित्याशझ्याह- तत्रेति । प्रतियोगी संबन्धी ( तद्वान् ) तद्विषयक इतियावत्, ‘प्रतियोगी नाम निरूपकः । इत्यपि केचित्,' चैत्रो मैत्रश्च गच्छतः' इत्यत्र विशेष्यताभेदेन भिन्ना या द्वित्वनिष्ठा प्रकारता तादृशप्रकारताद्वयविषयक: समूहालम्बनात्मक एव बोधो जायते इत्यर्थः । परिहरति- तथासतीति, तथासति विशेष्यताभेदेन द्वित्वनिष्ठप्रकारताया भेदे सति, उक्तयुक्त्या= अथोद्देश्यतावच्छेदकव्याप्यपर्याप्तेः (१५० पृ.) इत्युक्तयुक्ता । यद्यत्र विशेष्यताभेदेन द्वित्वनिष्ठा प्रकारतापि भिन्ना स्यात्तदा चैत्रमैत्रोभयविशेषणतर्यक द्वित्वं न प्रतीयेत किं तु चैत्रविशेषगतया पृथग् द्वित्वं प्रतीयेत मैत्रविशेषेणतया च पृथग द्विस्वं प्रतीयेत तथा च चैत्रद्वयमैत्रद्वयतात्पर्येणैव ' चैत्रो मैत्रश्च गच्छतः । इति प्रयोगः स्याद् एकैकचैत्रमैत्रतात्पर्येण च तथा प्रयोगो न स्यात् तत्तु नेष्टमित्यर्थः । तथाप्रयोगानुपपत्तेः'चैत्रो मैत्रश्च गच्छतः । इतिप्रयोगानुपपत्तेः ।
आख्यातेति- 'चत्रो मैत्रश्च गच्छतः ' इत्यादावाऽऽख्यातद्विवचनोपस्थितं द्वित्वं चैत्रनमैत्रत्वरूपं यदुभयं तदन्वयितावच्छेदकम् धर्मितावच्छेदकं यदुभयत्वं चपदोपस्थाप्यं साहित्यं वा तद्वच्छिन्ने चैत्रमैत्रद्वये एवान्वेतीति नियमः । “ तेन " इत्यस्य " धटस्तिष्ठत; इत्याल्यो न प्रयोगाः " इत्यनेनान्वयः । उक्तप्रयोगदर्शनात्- चैत्रो मैत्रश्च गच्छतः । इतिप्रयोगदर्शनात् । अत्र च विशेष्यवाचकचैत्रमैत्रपदयोरेकवचनान्तत्वेपि क्रियापदस्य द्विवचनान्तत्वेन क्रियापदस्य विशेष्यवाचकपदसमानवचनकत्वाऽनियमेपि घटद्वयतात्पर्येण 'घटस्तिष्ठतः' इत्यादयो न प्रयोगा भवन्ति, ' तिष्ठतः ' इत्याख्यातोपस्थाप्यद्वित्वस्य घटद्वये एवान्चयसंभवात् ' घटः ' इत्येकवचनान्तघटपदस्य घटद्वयानुपस्थापकवादित्यर्थः । एकवचनान्तक्रियापदम् तिष्ठति । इत्यादिक च तादृश-एकवचनान्तविशेष्यवाचकघटादिपदस्य प्रयोगे एव साधु भवतीति 'धटास्तिष्ठति' इत्यादयोपि न प्रयोगा भवन्ति । आख्यातोपस्थापितैकत्वस्यकव्यक्तावेवान्वयसंभवात् ।
नन्वेतदेशे घटद्वयसत्त्वे 'अत्र घटौ स्तः' इति प्रयोगो भवति तत्कस्य हेतोः घटत्वव्याप्य, पर्याप्तिसंबन्धेन घटद्वये द्वित्वस्यापि सत्त्वात् क्रियापदबोध्यस्यैतद्देशवृत्तित्वाश्रयत्वस्यापि सत्त्वाद् एतद्देशवृत्तित्वं घटेस्तीति तदाश्रयत्वमस्त्येव तथा चैतद्देशे एकपटसत्त्वेपि 'अत्र घटौ स्तः अत्र घटाः सन्ति' इत्यादिप्रयोगः स्यादेष वर्तमाने एकस्मिन्नपि घटे स्वरूपसंबन्धेनेतद्देशवृत्तित्वाश्रयत्वस्यापि सत्त्वादेव घटत्वव्याप्यपर्याप्तिसंबन्धेन च द्वित्वस्यापि सत्त्वादेव, देशान्तरस्थे एतदेशस्थे चः घटे
"Aho Shrutgyanam"