________________
घंटो वट इति विवादः ]
व्युत्पत्तिवादः ।
( ४१ )
लाववाद धर्मितावच्छेदक संबन्धेन शाब्दबुद्धौ तादृशसंबन्धेन तस्य धर्मितावच्छेदकमनिवेश्य हेतुताकल्पनस्यैव युक्तत्वात्, घटत्वादिधर्मितावच्छेदककघटत्वरः द्यवच्छिन्नमकारक योग्यताज्ञानबलादेव घटत्वादौ धर्मितावच्छेदकतासंबन्धेन तदापत्तेः ।
न च योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठप्रत्यासत्या हेतुत्वोपगमे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेपि द्रव्यत्वादौ वाराप्रत्यासत्त्या प्रत्यासन्नयोधर्मितावच्छेदकभेदेन तद्घटितयोग्यताज्ञानस्यापि भेदप्राप्या तत्तत्स्थलीयभिन्नभिन्नवर्मितावच्छेदकप्रतिभिन्नभिन्नयोग्यताज्ञानानां कारणता कल्पनेनाऽनन्त कारणताकल्पनं स्यादिति तदपेक्षया लाघबाद् धर्मितावच्छेदकं द्रव्यत्वमनिवेश्य धर्मेतावच्छेदकतासंबन्धेन शाब्दबोधं प्रति तादृशसंबन्धेनधर्मितावच्छेदकतासंबन्धेन तस्य - योग्यताज्ञानस्य ( अभेदसंबन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताक्रयोग्यताज्ञानस्य द्रव्यत्वावच्छिन्नविशेष्यकत्वनिवेशरहितस्य च ) हेतुताकल्पनं युक्तम्, तथा चं विटत्वादिधर्मितावच्छेदककघटत्वाद्यवच्छिन्नप्रकारकयोग्यताज्ञानबलादेव = घटत्वं धर्मितावच्छेदक स्य तद् घटत्वधर्मितावच्छेदककं घटखावच्छिन्नप्रकारकं च यद् योग्यताज्ञानं तस्य धर्मिंतावरच्छेदकतासंबन्धेन घटत्वे संभवाद् घटत्वे धर्मितावच्छेदकतासंबन्धेन तदापत्तेः-अभेदसंबन्धावच्छि घटत्वावच्छिन्नप्रकारताकशाब्दबोधापत्तेः संभवात् तथा च 'द्रव्यं घटः' इत्यत्रेव 'घटो घटः ' इत्यत्राप्यभेदान्वयबोधानुपपत्तिर्नास्त्येवेत्यर्थः । अत्र च " धर्मितावच्छेदकम निवेश्य" इत्यनेन योग्यताज्ञाने धर्मितावच्छेदकनिवेशो न कर्तव्य इति यदुक्तं तस्य धर्मितावच्छेदकविशेष्यकत्वस्योचारणमात्रं न कर्तव्यमित्येवार्थो वस्तुतो योग्यताज्ञाने धार्मेतावच्छेदकविशेष्यकत्वस्य सत्त्वादेव तदेव केवलं प्रदर्शितम् - घटत्वादिधर्मितावच्छेदककेति, उच्चारणं तु- अभेदसंबन्धावच्छिन्नघटस्वावचिप्रकार योग्यताज्ञानस्य घटत्वेपि सत्त्वादित्येव कर्तव्यमित्यवधेयम् । तथेदानी संबन्धस्वमपि शुद्धाया एव धर्मितावच्छेदकताया ज्ञेयं न तु द्रव्यत्वनिष्ठायाः द्रव्यत्वनिष्ठाया धर्मितावच्छेदकताया द्रव्यत्वमात्रे एव संभवाद् घटत्वे चासंभवात् द्रव्यत्वनिष्ठत्वनिवेशरहितायास्तु शु. द्धाया धर्मितावच्छेदकतायाः संबन्धभूताया घटत्वेप्यनुपपत्त्यभावादित्सवधेयम् ।
ननु यद्येवं योग्यताज्ञानबलादेव शाब्दबोधः स्यात्तदा "धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वादौ तादृशान्वयबो चोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्न विशेष्यको पस्थितितदवच्छिन्न विशेष्यकयोग्यताज्ञानादिघटितसामय्येव (पृ. ४६ ) " इत्यनेन यदुपस्थितेः शाब्दबोधकारणत्वमुक्तं तन्न युक्तं योग्यताज्ञानबलादेव शाब्दबोधसंभवात् उपस्थितेर्व्यभिचारित्वाच्चेत्यभिप्रायेगाशङ्कते योग्यताज्ञानकारणतावादी- न चेति, योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठ प्रत्यासत्त्या धर्मितावच्छेदकता संबन्धेन शाब्दबोधं प्रति हेतुत्वस्वीकारे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेरि=द्रव्यपदजन्यद्रव्यत्वावच्छिन्न विषयको पस्थि तेरभावेपि द्रव्यत्यादौ तादृशप्रत्यासत् गतावच्छेदकतामंत्रन्वेनं प्रत्यासन्नात्=संबद्धात् ( वर्तमानात् ) योग्यताज्ञानात् तत्र द्रव्ये तादृशप्रत्यासत्या=
"Aho Shrutgyanam"