________________
(५०)
सादर्श:
[ प्रथमाकारकेग्यताज्ञानात् तत्र ताशप्रत्यासत्या शाब्दबोधापतिः, आत्मनिष्ठप्रत्यासत्त्या हेतुभूतां द्रव्यत्वाद्यवच्छिन्नोपस्थितिमन्तरेणापि तादृशप्रमेयत्वाद्यवच्छिन्नोपस्थिस्वादिवशाया प्रमेयत्वादौ धर्मितावच्छेदकतासंबन्धेन ज्ञानस्य फलजनकत्वाव ताशद्रव्यत्वाद्यवच्छिन्नोपस्थितिविरहस्याकिंचिदकरत्वादिति वाच्यम्, समानप्रकारतामत्वासत्त्या पदार्थोपस्थिते शाब्दबोधे हेतुत्वोपगमात् । धर्मितावच्छेदकतासंबन्धेन शाब्दबोधापत्तिः संभवतीत्युपस्थित्यऽभावेपि शाब्दबोधसंभवे कय सुपस्थितेः कारणत्वं स्यात् ? कार्यकारणभावस्यान्वयव्यतिरेकाभ्यामेवावधार्यत्वात्. किं चउपस्थितिर्हि प्रकारविशेष्यभूतपदार्थयोः स्वरूपमात्रविषया भवति न तु कमपि पदार्थ धर्मिता ( विशेष्यता) बच्छेदकत्वेनावगाहते. यथा-'द्रव्यं घटः' इत्यत्र घटपदेन घटघटत्वयोरुपस्थि तिर्भवति भ्रव्यपदेन च द्रव्यद्रव्यत्वयोरुपस्थितिर्भवति स्वरूपेणैव न हि ध्यत्वादौ धर्मितावच्छेदकत्वं भासते तथा चोपस्थितौ धर्मितावच्छेदकत्वेन कस्यापि पदार्थस्याऽभानात् कथमुपस्थिति कचिदपि द्रव्यत्वादी धर्मितावच्छेदकतासंबन्धेन वर्तेत ? तस्माद् धर्मितावच्छेदकतासंबन्धेन तूप स्थितेः कारणत्वमेव नास्त्यसमवात्, मेधा-आरमनिष्ठप्रत्यासत्योपस्थितिरात्मन्युत्पद्यते इत्या मनिष्ठ पत्यासत्या उपस्थितेः कारणखे संभवत्यपि सति द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविषयकोपस्थितेस्त्वात्मनिष्ठप्रयासत्त्याप्यत्र कारणत्वं न संभवति- उक्तव्यभिचारादित्याह- आत्मनिष्ठेति मात्मनिष्टप्रत्यासत्या समवायेन हेतुभूताम् हेतुत्वेन संभाव्यमानां द्रव्यस्वावच्छिन्नोपस्थिति वि नापि तादृशः-आत्मनिष्ठप्रत्यासत्त्या हेतुभूत प्रमेयत्वावच्छिन्नोपस्थितिदशायाम् ( सत्त्वे) प्रमेयर धर्मितावच्छेदकतासंबन्धेन ज्ञानस्य योग्यताज्ञानस्य फलजनकत्वात्-शाब्दबोधजनकत्वात् (यो ग्पताज्ञानेन शान्दबोधे संभवति ) तादृश-आत्मनिष्ठप्रत्यासत्त्या हेतुभूतद्रव्यत्वावच्छिन्नोपस्थितेरमावस्याऽकिंचित्करत्वात् शान्दबोधाऽप्रतिबन्धकवान द्रव्यत्गवच्छिन्नोपस्थितेः कारणत्वम्, एवम्-द्रव्यपदजन्यद्रव्यस्वावच्छिन्नविषयकोपस्थितिदशायी प्रमेयत्वे शाब्दबोधो जायत एवेति प्रासेयत्वावच्छिन्नविषयकोपस्थितेरपि न कारणत्वं व्यभिचारात्, चालनीन्यायेनोपस्थितिमात्रस्य व्यभिचारित्वादिस्यर्थः । योग्यताज्ञाने तु द्रव्यावादीनां नितारच्छेदकविधया भानाद् योग्यताज्ञानं तादृशद्रव्यत्वादिनिष्ठधर्मितावच्छेदकताख्यसंबन्धेन द्रव्यत्वादी संभवत्येवेति योग्यताज्ञानस्यैव धर्मितावच्छेदकतासंबन्धेन शाब्दबोधं प्रति कारणत्वं वक्तव्यम्, यदा चोपस्थितेर्व्यभिचारित्वात्कारणत्वमेव नास्ति तदा तादृश-आत्मनिटसर गसत्त्य हेतुभूनाया द्रव्यत्वावच्छिन्नोपस्थितेरभाष-- स्याकिंचित्करत्वमशाब्दबोधप्रतिबन्धक न संभवतीति उक्तयोग्यताज्ञानबलादेव शाब्दबोपों जायते स्वीकर्तव्यश्चेत्यभिप्रायः । अत्र घटो घटः । इत्यत्र शाब्दबोधापत्तिरस्ति नास्तीति वा न विचार्यते किं तूपस्थितेः धर्मितावच्छेदकतासंबन्धेन तय त्मनिष्ठप्रत्यासत्त्या कारणत्वं न संमचतीति पूर्वपक्षतात्पर्यम् । अत एवोत्तापक्षे प्रकारतासंबन्धनोपस्थिते; कारणत्वं व्यवस्थाध्यते इत्यवधेयम् ।
"Aho Shrutgyanam"