________________
घटो घट इति विवादः ] व्युत्पत्तिवादः।
(५१) येन संबन्धेन यद्धर्मावच्छिन्नकार्य प्रति येन संबन्धेन यद्धर्मावच्छिन्नकार्यस्य व्यापकता तेन संबन्धेन तद्धर्मावच्छिन्नकार्योत्पादकसामग्या अपि तेन संबन्धन तधर्मावच्छिन्नकार्योत्पत्तावपेक्षिततया प्रकारतासंबन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थोपस्थित्यऽसखे तत्र धर्मितावच्छेदकतासंबन्धेन शाब्दबोधापत्तेरयोगात् ।
परिहारहेतुमाह- समानेति, योग्यताज्ञाने द्रव्यत्वं धर्मितावच्छेदकविषया भासते इति योग्य. ताज्ञानं शाब्दबोधं प्रति धर्मितावच्छेदकतासंबन्धेनैव कारणमिति समानधर्मितावच्छेदकतासंत्रन्धेन शाब्दबोधयोंग्यताज्ञानयोः कार्यकारणभावः । उपस्थितौ च कस्यचिदपि द्रव्यत्वादेर्धर्मितावच्छेदकतया मानामावादुपस्थितेर्धर्मितावच्छेदकतासंबन्धेन कारणत्वासंभवेपि समानप्रकारताप्रत्यासत्त्या समानप्रकारतासंबन्धेन कारणत्वं संभवत्येव, अयं भावः- 'द्रव्यं घटः ' इतिवाक्यजन्योपस्थितौ घटत्वं घटे प्रकारो घटश्च द्रव्ये प्रकारो द्रव्यत्वं च द्रव्ये प्रकारो द्रव्यमेकं विशे. म्यम्, यद्यप्यत्रोपस्थितौ प्रकारताया विशेष्यतायाश्च निरवच्छिन्नत्वात् प्रकारतावच्छेदकतया विशेष्यतावच्छेदकतया च कस्यचिदपि भानं न भवति तथापि द्रव्यत्वस्य प्रकारतया मानं तु भवत्येव द्रव्यप्रकारतयोरस्थितत्वात् तच्च द्रव्यत्वं शाब्दबोधेपि द्रव्यप्रकारतया द्रव्यं घटः ! इत्यत्र भासत एवेति द्रव्यत्वनिष्ठा प्रकारता समानप्रकारता प्राप्ता तादृशसमानप्रकारतासंबन्धेनोपस्थिते; कारणत्वमस्ति-- द्रव्यत्वे प्रकारतासंबन्धेनोपस्थितिशाब्दबोधयोरुभयोरपि सत्त्यादेवेति नोपस्थितेरकारणत्वमुपस्थितिविरहस्याऽकिंचित्करत्वं चेति ।।
ननु धर्मितावच्छेदकतासंबन्धेन शान्दबोधे जननीये प्रकारतासंबन्धेनोपस्थितेव्यत्वादी संभवेपि कथमुपयोगः स्यादित्याशङ्कय प्रकारतासंबन्धनोपस्थितेर्धर्मितावच्छेदकतासंबन्धावच्छिन्नशाब्दबोधं प्रति कारणत्वमुपपादयति- येनेति, यथा-- येन संबन्धन-समवायसंबन्धेन यद्धविच्छिनकार्य प्रति घटत्वावच्छिन्नकार्य प्रति येन संयन्वेन तादात्म्यसंबन्धेन यद्धर्मावच्छिन्न कार्यस्य-द्रव्य. स्वावच्छिनकार्यस्य व्यापकतास्तीति तेन संबन्धेन तादात्म्यसंबन्धेन तद्धर्मावच्छिन्नकार्योत्पादकसामायाः-द्रव्यत्वावच्छिन्नकार्योत्पादकसमवायिकारणादिसमवधानादिरूपसामघ्या अपि तेन संबन्धेन-समवायसंबन्धेन तद्धर्मावच्छिनकार्योत्पत्तौ घटत्वावच्छिन्नकार्योत्पत्तौ अपेक्षितत्वं भवति-व्याप्यधर्मावच्छिन्नकार्योत्पत्तेः व्यापकधर्मावच्छिन्नकार्योत्पादकसामग्रीसापेक्षत्वेन समवायिकारणनिमिसकारणादिसमवधानादिरूपां द्रव्योत्पादकसामग्री विना द्रव्यव्याप्यस्य घटस्योत्पत्तेरसंभवान् * समवायसंबन्धेन कार्यत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन द्रव्यत्वेन द्रव्यं समवायिकारणमिति व्यापककार्यकारणभावः । समवायसंबन्धेन घटत्वावच्छिन्न कार्य प्रति तादात्म्यसंबन्धेन कपालस्वेन कपाल: समवायिकारणमिति व्याप्यकार्यकारणभावः, तथा- प्रकृतेपि येनं संबधेनः धर्मितावच्छेदकतासंबन्धेन यद्धर्मावच्छिन्न कार्य प्रति घटत्वाच्छिन्न प्रकारकाऽभेदसंसर्गकशाब्दबोधत्वावच्छिन्नकार्य प्रति येन -संबन्धेन= प्रकारतासंबन्धेन यद्धर्मावच्छिन्नकार्यस्य शाब्दबोधन्वरूपसामान्यधर्मावच्छिन्नकार्यस्य व्यापकता=अधिकदेशवृत्तित्वं तेन संबन्धेन प्रकारतासंबन्धेन तद्धर्मा
"Aho Shrutgyanam"