________________
(५२)
सादर्श:
[ प्रथमाकारके
न च यत्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकवृत्तिज्ञानजन्यप्रमेयत्वाद्यवच्छिन्न विशे orकोपस्थितावेव उद्बोधकान्तराद् द्रव्यत्वाद्यवच्छिन्नस्य भानं तत्र द्रव्यत्वाद्यवच्छिन्नविषयक शान्दापत्तिवारणाय तद्धर्मावच्छिन्न विशेष्य कशाब्दबोधं प्रति वच्छिन्नकार्योत्पादकसामाग्र्याः = शाब्दबोधत्यरूपसामान्यधर्मावच्छिन्न कार्योत्पादकसामाग्र्या अपि तेन संबन्धेन=धर्मितावच्छेदकता संबन्धेन तद्धर्मावच्छिन्न कार्योत्पत्तौ घटत्वावच्छिन्न प्रकारताकाभेदसंसर्गकशाब्दबोधत्वावच्छिन्न कार्योत्पत्तौ अपेक्षितत्वं भवतीति प्रकारतासंबन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थौपस्थित्यभावे तत्र = द्रव्यत्वादौ धर्मितावच्छेदकतासंबन्धेनापि शाब्दबोधापत्तेः= शाब्दबोधोत्पत्तेरसंभवादित्यन्वयः ।
अयं भावः - अधिकदेशवृत्तित्वं हि व्यापकत्वम् ' द्रव्यं घटः इत्यत्र च विशेष्यता तु केवलं द्रव्ये व बर्तते प्रकारता च घटघटत्वद्रव्यत्वेषु त्रिषु वर्तते इति प्रकारताया विशदत्वात् प्रकारता संबन्धेन शाब्दबोधस्य घटघटत्वद्रव्यत्वेषु संभवादधिक देशवृत्तित्वमस्तीति व्यापकत्वम्, शासंबन्धेन तु शाब्दबोधो द्रव्यत्वमात्रे एव वर्तते इति तस्य व्याप्यत्वम् । तथा न्दबोधत्वरूपसामान्यधर्मावच्छिन्नस्य व्यापकत्वम्, घटत्वावच्छिन्नप्रकारका मेदसंसर्गकशाब्दबोधत्वावच्छिन्नस्य व्याप्यत्वम् । व्याप्यधर्मावच्छिन्ने च कार्ये जननीये व्यापकधर्मावच्छिन्न कार्योस्वादकसामग्री अपेक्ष्यते यथा - करीषजन्यत्वविशिष्टवह्नित्वरूपव्याप्यधर्मावच्छिन्नवह जनीये शुद्धवह्नित्वरूपव्यापकधर्मावच्छिन्नवहयुत्पादक सामग्री इन्धनादिरूपाऽपेक्षिता भवति तदभावे वह्नयुत्पत्यसंभवात्, यथा च घटत्वरूपव्याप्यधर्मावच्छिन्ने घटे जननीये द्रव्यत्वरूपव्यापकधर्मावच्छिन्न कार्योत्पादिका समवायिकारणादिसमवधानादिरूपा सामग्र्यऽपेक्षिता भवति, तथा - प्रकृतेपि घटत्वावच्छिन्नप्रकारका भेदसंसर्गकशाब्दबोधत्यरूपव्याप्यधर्मावच्छिन्ने शाब्दबोवे जननीये शुद्धशाब्दबोधःवरूपव्यापकधर्मावच्छिन्नशाब्दबोधोत्पादिका या प्रकारतासंबन्धेनोपस्थितिस्तस्या अवश्यमपेक्षा भवत्येवेति प्रकारतासंबन्धेन द्रव्यत्वे द्रव्यपदजन्योपस्थित्यऽसत्त्वे द्रव्यत्वे धर्मितावच्छेदकतासंबन्धेनापि शाब्दबोधोत्पत्तिर्न संभवतीति प्रकारतासंबन्धेनोपस्थितेः शाब्दबोधकारणत्वमवश्यमभ्युपगन्तव्यम् ।
न चेति- यदि समानप्रकारताप्रत्यासत्त्योपस्थितेः शाब्दबोधं प्रति कारणत्वं स्वीक्रियते तदा यत्र प्रमेयपदेन प्रमेयत्वावच्छिन्नविषयको पस्थितिः स्याद् उद्बोधकान्तराच द्रव्यत्वावच्छिन्न विषयको - पस्थितिः स्यात्तत्र तादृशसमूहालम्बनात्मकप्रमेयद्रव्ययोरुपस्थितौ प्रमेयपदजन्यत्वेन पदजन्यत्वमप्यस्त्येव तत्र प्रमेयस्यैव विशेष्यत्वेन द्रव्यस्य प्रकारत्वाच्च उद्बोधकान्तरादुपस्थितद्रव्ये प्रकारतासंत्र न्धेनोपस्थितेः सत्त्वाद् द्रव्ये शाब्दबोधोपि स्यादेव कारणसत्त्वे कार्यावश्यंभावात् न चैत्रमुद्दोकान्तरादुपस्थित पदार्थे उद्बोधकान्तरजन्योपस्थितिसत्त्वेपि शाब्दबोध इष्ट इत्युक्तस्थले तद्वारनाय= शाब्दबोधापत्तिवारणाय तद्धर्मावच्छिन्नविशेष्यकशान्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्नविशेष्यकं यद् ' इव्यं द्रव्यपदशवयम्' इत्याकारकं वृत्तिज्ञानं तादृशवृत्तिज्ञानजन्यतद्धर्मप्रकारक -
"Aho Shrutgyanam"