________________
व्युत्पत्तिवादः ।
( ५३ )
घटो बट इति विवादः ] तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञानजन्य तद्ध में प्रकारकपदार्थोपस्थितेर्हेतुता वाच्या तथा च प्रकारविशेष्यनिवेशस्यावश्यकत्वे विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पनमयुक्तम्, तथा सति पुरुषभेदेन कार्यकारणभावबाहुल्यप्रसङ्ग इतिवाच्यम्, स्वजन - -पदार्थोपस्थितेर्हेतुत्वं वक्तव्यं तथा चोक्तस्थले द्रव्यस्य योपस्थितिर्जाता सोद्बोधकान्तरादेव जाता न तु द्रव्यपदवृत्तिज्ञानजन्यास्तीति तादृशोद्बोधकान्तरजन्योपस्थितेः शाब्दबोधं प्रति कारणत्वमेव नास्ति येनोद्बोधकान्तरादुपस्थितद्रव्ये शाब्दबोधापत्तिः स्यादित्यर्थः । तथा चेति-तथा च 'तद्धर्मावछिन्न विशेष्यकशाब्दबोधं प्रति तद्धर्मावच्छिन्न विशेष्यकवृत्तिज्ञानजन्यतद्धर्मप्रकारकपदार्थोपस्थितेर्हेतुत्वम् ' इत्येवं कार्यकारणभात्रे स्वीकृते कार्यकारणभावे प्रकारविशेष्य योर्निवेशस्यावश्यकावे प्राप्ते विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पनमयुक्तमेवेत्यर्थः । अयं भावः- शाब्दबोधतत्कारणयोश्च कार्यकारणभाव आत्मनिष्ठप्रत्यासत्त्यापि भवति विषयनिष्ठ प्रत्यासत्त्यापि च भवति तत्रात्मनिष्ठप्रत्यासत्त्या यदात्मन्युपस्थित्यादिकं कारणं भवति तदात्मन्येव शाब्दबोधोप्यर्थादव
ते नान्यत्र प्रसङ्ग इति तत्पुरुषीयत्वप्रवेशापेक्षा न भवति किं तु पटाद्युपस्थित्यादिसत्त्वे घटाविषयको पिशाब्दबोधः स्यादिति तद्वारणाय विषयनिवेशापेक्षा भवत्येव यथा - घटत्वावछन्नविषयक शाब्दबोधं प्रति घटत्वावच्छिन्नविषयको पस्थितेः कारणत्वमिति, विषयनिष्ठप्रत्यासत्या च यस्मिन् विषये उपस्थित्यादिकं भवति तत्रैव शाब्दबोधोपि संभवति नान्यत्रेति विषय निवेशापेक्षा नास्ति किं तु तत्पुरुषीयत्वनिवेशापेक्षा भवत्येव यथा -- यज्ञदत्तीयशाब्दबोधं प्रति यज्ञदत्तीयोपस्थित्यादिकं कारणमिति. अन्यथा देवदत्तस्योपस्थित्यादिसत्त्वे यज्ञदत्तस्यापि शाब्दबोधः स्यादित्येवं स्थिते उक्तोद्बोधकान्तरजन्योपस्थितेद्रव्यादौ प्रकारतासंबन्धेसत्त्व तत्र द्रव्ये शाब्दबोधोपि स्यादेवेति तद्वारणाय यदि विषयनिष्ठप्रत्यासत्त्या कार्यकारणस्वीकारेप प्रकारविशेष्ययो निवेशस्योक्तस्यापेक्षा प्राप्ता तदा विषयनिष्ठप्रत्यासत्त्या ( प्रकारसंबन्धेनापि ) उपस्थितेः कारणत्वाश्रयणमयुक्तमेव यतो विषयनिष्टप्रत्यासत्त्या कारणत्वं हि .वैषयप्रवेशप्रयुक्तगौरवपरिहारार्थमेवाश्रीयते विषयप्रवेशापेक्षा तूक्तरीत्या प्राप्तैव पुरुषान्तरस्य शाब्दबोधवारणाय तत्पुरुषीयत्व निवेशोपि कर्तव्य एवेति विषयनिष्टप्रत्यासत्त्या हेतुताकल्पनमयुतमेव तथा चात्मनिष्ठप्रत्यासत्त्यैवोपस्थितेर्हेतुत्वं स्वीकार्यम् आत्मनिष्ठप्रत्यासत्त्या हेतुत्वापगमे विषयप्रवेशापेक्षासत्त्वेपि तत्पुरुषीयत्वप्रवेशापेक्षाभावेन लाघवात् एतदेवाह - तथा सतीति । तथा सति विषयनिष्ठप्रत्यासत्या हेतुत्वोपगमे सति तत्पुरुषीयत्वप्रवेशापेक्षया देवदत्तादिपुरुषमेदेनाऽनन्तकार्यकारणभावकल्पनाप्रसङ्गः, उक्तोद्बोधकान्तरजन्योपस्थित्या शाब्दबोधवारणाय विषप्रवेशापेक्षाप्यस्त्येवेति महद् गौरवम् । आत्मनिष्ठसमवाय प्रत्यासत्त्या च द्रव्यत्वावच्छिन्नधर्मिकबटत्वावच्छिन्नप्रकारकाभेदसंसर्ग कशाब्दबोधं प्रति क्लृप्ता या द्रव्यत्वावच्छिन्नधर्मिकयोग्यताज्ञानरूपा सामग्री तदभावान्न 'बटो घट:' इत्यत्र शाब्दबोधापत्ति:- अत्र द्रव्यत्वस्य धर्मिताव-च्छेदकत्वाभावादितिभावः ।
"Aho Shrutgyanam"