________________
(५४)
सादर्श:
[ प्रथमाकारकेकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासंबन्धेनो पस्थितेहेतुतां स्वीकृत्य तादृशापत्तेारणात् ।
परिहारमाह- स्वजनकज्ञानीयेति, याद्बोधकान्तरजन्योपस्थित्या शाब्दबोधवारणाय विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावस्वीकारेपि 'तद्धर्मावच्छिन्नविशेष्यकशाब्दबोधं प्रति तद्धर्मावच्छिनविशेष्यकवृत्तिज्ञानजन्यतद्धर्मप्रकारकोपस्थितेर्हेतुत्वम् । इत्येवं कार्यकारणभावे विषयप्रवेशापेक्षा स्याद् विषयप्रवेशेन गौरवापत्त्या विषयनिष्टप्रत्यासत्त्या कार्यकारणभावस्त्यक्तः स्यादात्मनिष्टप्रत्यासत्या च स्वीकृतः स्यात् तदात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे विषयप्रवेशापश्यंभावेन 'द्रव्य घटः । इत्यत्र शाब्दबोधकारणं या द्रव्यत्वावच्छिन्नधर्मिकयोग्यताज्ञानादिरूपा सामग्री तस्याः ‘बटो घटः ' इत्यत्र द्रव्यत्वस्य धर्मितावच्छेदकत्वाभावेमाऽभावात् शाब्दबोधापत्तिने स्यादपि न चैवमस्ति गतः- स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदमाताविशिष्टप्रकारतासंबन्धेनोपस्थितेः कारणत्वं स्वीक्रियते ( स्वं उपस्थितिः) । प्रकारतासंबन्धश्च विषयनिष्ठप्रत्यासत्तिरेव, तथा च द्रव्यं घटः ' इत्यत्र स्वं द्रव्यपदजन्योपस्थितिस्तज्जनकं यत् 'द्रव्यं द्रव्यपद शक्तिमत्' इतिशक्तिरूपवृत्तिज्ञानं तादृशज्ञाननिरूपिता या शक्तिरूपवृत्तिनिष्ठा प्रकारता ( उक्तशक्तिज्ञाने शक्तेरेव प्रकारत्वात ) तन्निरूपिता विशेष्यता द्रव्ये वर्तते ( उक्तशक्तिशाने द्रव्यस्वैग विशेष्यत्वात् ) विशेष्यतावच्छेदकता च द्रव्यत्वे वर्तते अथ च तत्र द्रव्यत्वे द्रव्यपदजन्यद्रव्यपदार्थोपस्थितिनिरूपिता प्रकारतापि वर्तते ( उपस्थिती द्रव्यस्य विशेष्यत्वेन तत्र द्रव्यत्वस्य प्रकारत्वेन भानाद् उपस्थितिनिरूपिता द्रव्यत्वे प्रकारतास्ति ) इति द्रव्यत्वे स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताप्यस्ति उपस्थितीयप्रकारताप्यस्तीत्येषा प्रकारता सामानाधिकरण्यसंबन्धेन स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टा जातेति स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्ट प्रकारतासंबन्धेनोपस्थितेः शाब्दबोधं प्रति कारणत्वं स्वीक्रियते, एतादृशप्रकारतासंबन्धेन च ' द्रव्यं बटः ' इत्यत्र द्रव्य उपस्थितेः सत्त्वेन तत्र द्रव्यत्वे शाब्दबोधोपि जायते, उद्बोधकान्तरेण द्रव्योपस्थितिकाले च द्रव्ये नैतादृशप्रकारतासंबन्धेनोपस्थितिर्जायते- तस्या उपस्थितेः वृत्तिज्ञानजन्यवाभावाद् उद्बोधकान्सरजन्योपस्थितिनिरूपितद्रव्यनिष्ठप्रकारतायाश्च स्व ( उपस्थिति ) जनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टत्वाभावादिति कारणीभूताया उक्तंप्रकारतासंबन्धेनोपस्थितेरभावादेव शाब्दबोधो न संभवतीत्येवंरीत्या तादृशापत्तेः= उक्तोढोधकान्तरजन्योपस्थित्या शाब्दबोधापत्तेारणात्, तथा चोक्तोद्बोधकान्सरजन्योपस्थित्या शाब्दबोधापत्तिवारणार्थ विषयप्रवेशापेक्षा नास्तीति विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे उक्तदोषस्याभावात् — द्रव्यं घटः । इत्यत्र विषयनिष्ठप्रत्यासत्त्या घटत्वावच्छिन्नप्रकारकाभेदसंसर्गकयोग्यताज्ञानस्य यस्य शाब्दबोधकारणत्वमस्ति ताशयोग्यताज्ञानस्य " घटो घटः' इत्यत्रापि सत्वाच्छाब्दबोधापत्तिरस्त्येव विष: यनिष्ठप्रत्यासत्त्या कारणत्वस्वीकारेण द्रव्यत्वावच्छिन्नधार्मिकरवस्य प्रवेशापेक्षाभावादित्यर्थः ।
"Aho Shrutgyanam"