________________
घट घट इति विवादः ]
व्युत्पत्तिवादः ।
( ५५ )
न च पदार्थेपि प्रकारतासंवन्धेन शाब्दबोधोत्पत्या तंत्र तादृशप्रकारता संबन्धेन पदार्थोपस्थतेरभावात् प्रकारनिष्ठप्रत्यासत्या पदार्थोंपस्थितेर्हेतुता व्यभिचारेण कल्पयितुमशक्येतिवाच्यम्, परामर्शकारणताविचारदर्शितदिशा व्यभिचारस्य ननु कार्यकारणभावस्यान्वयव्यतिरेकाभ्यामवधार्यत्वादुक्तप्रकारतासंबन्धेनोपस्थितेः कारणत्वमेव न संभवति व्यभिचारादित्याशङ्कते - न चेति 'द्रव्यं घटः ' इत्यत्र द्रव्यं विशेष्यं घटध प्रकार इति यथा द्रव्ये विशेष्यतासंबन्धेन द्रव्यत्ये च विशेष्यतावच्छेदकता संबन्धेन शाब्दबोधो जायते तथा पदार्थेपि= घटेपि प्रकारतासंबन्धेन शाब्दबोधो जायते एव तत्र = घंटे च तादृशप्र-कारतासंबन्धेन=उक्तप्रकारतासंबन्धेन पदार्थोपस्थितिः = घटोपस्थितिस्तु नास्त्येव यसः - घटप
Prachपस्थिती घटो विशेष्यतयैव भासते न तु प्रकारतयेति घंटे घटपदजन्योपस्थितीयप्रकारतैव नास्तीति कथं प्रकारतासंबन्धेन घंटे उपस्थितिः स्यादिति घटे प्रकारतासंबन्धेनोपस्थित्य भावेपि ' द्रव्यं घट: ' इतिवाक्यजन्यशाब्दबोधस्तु प्रकारतासंबन्धेन घटे उत्पद्यते एवेत्युपस्थिते
प्रकारासंबन्धेन व्यभिचारित्वात्कारणत्वं न संभवति । तथा चात्मनिष्ठप्रत्यासत्त्या योग्यज्ञानस्य कारणत्वं वक्तव्यं आत्मनिष्ठप्रध्यासत्त्या योग्यताज्ञानं च द्रव्यत्वावच्छिन्नधर्मिकमेव द्रव्यं घटः ' इत्यत्रोक्तरीत्या कारणं तस्य च ' घटो घटः' इत्यत्राऽसंभचान्न शाब्दबोधापतिरित्यर्थ: : घटपदजन्योपस्थितौ घटस्य विशेष्यत्वेन पदार्थत्वादुक्तं- पदार्थोंपीति । घटेपि द्रव्यं घटः इतिवाक्यजन्यशाब्दबोधीया प्रकारतास्स्येव घटस्य द्रव्ये विशेषणत्वादिति घटे कारतासंबन्धेन शाब्दबोधसंभवः । उपस्थितिश्चोपस्थितीयप्रकारतासंबन्धेनैव घटादौ शाब्दबोवाधिकरणेऽपेक्ष्यते न त्वन्यदीयप्रकारतासंबन्धेन घंटे उपस्थितीय प्रकारता तु नास्त्येव - उपस्थितौ घटस्य विशेष्यत्वेनोपस्थितीय विशेष्यताया एवं घटे वर्तमानत्वादित्युक्तं तादृशप्रकारतेति ।
पत्वं तु द्रव्यप्रकारतयैव द्रव्यपदजन्योपस्थितौ भासते इति द्रव्यत्वे प्रकारतासंबन्धेन द्रव्यपदजिन्योपस्थितिरस्त्येवेति द्रव्यत्वे शाब्दबोधोत्पत्तौ न कोपि दोष इत्यवधेयम् । प्रकारनिष्ठ प्रत्यासया प्रकारनिष्ठा या प्रकारता तल्लक्षणप्रत्यासत्त्या |
परिहारमाह- परामर्शेति, यथा वह्यनुमितिं प्रति धूमपरामर्शस्यापि कारणत्वमस्स्यालोकपरामशस्यापि कारणत्वमस्ति तयोश्च परामर्शयोः परस्परजन्यानुमितौ व्यभिचारे प्राप्ते धूमपरामर्शान्यन - हितोत्तरस्वविशिष्टानुमितिं प्रत्येव धूमपरामर्शस्य कारणत्वमालोकपरामर्शाव्यवहितोत्तरत्वविशिष्टानुमिति प्रत्येवालोकपरामर्शस्य कारणत्वमित्येवं कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्व निवेशेन मिचारो निवारितस्तथात्रापि कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशेष व्यभिचारी ' निवारणीयस्तथा च स्वजनकज्ञानीयवृत्तिनिष्ठ प्रकारतानिरूपित विशेष्यतावच्छेदकता विशिष्टप्रकारतासंबन्धेनोपस्थित्यव्यवहितोत्तरत्व विशिष्टशाब्दबोधं प्रति स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारता निरूपितविशेष्यतावच्छेदकता विशिष्टप्रकारतासंबन्धेनोपस्थितेः कारणत्वं यथा ' द्रव्यं घटः इतिवाक्यजन्यं द्रव्यत्वे जायमानशाब्दबोधं प्रति । घटे जायमानशाब्दबोधं प्रति तूक्तप्रकारतासंबन्धेनो
"Aho Shrutgyanam"