________________
सादर्श:
[ प्रथमाकारकेवारणीयत्वादिति चेत् ?,तर्हि तद्धर्मावच्छिन्नाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्यापि हेतुतायाः स्वीकरणीयतया न 'घटो घटः ' इत्यादिस्थले शाब्दबोधापत्तिः । . 'स घटः' इत्यादिवाक्याजातित्वादिनाघटत्वादिधर्मितावच्छेदककस्य स्वरूपतो
घटत्वादिप्रकारतावच्छेदककस्य, 'घटः सः' इत्यादिवाक्यात् स्वरूपतो घटत्वापस्थितेः कारणत्वमेव नास्ति येन घटेऽसत्वाद् व्यभिचारित्वं स्यात् किं तु घटे यादृशप्रकारतासंबन्धेनोपस्थित्यनन्तरं शाब्दबोधो जायते तादृशप्रकारतासंबन्धेनैवोपस्थितेः कारणत्वमिति न व्यभिचारः । तथा च विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे दोषाभावाद् योग्यताज्ञाने द्रव्यत्वा.. वच्छिन्नधर्मिकत्वस्य प्रवेशापेक्षाभावेन 'द्रव्यं घटः । इत्यत्र यद् घटत्वावच्छिन्नप्रकारकाभेदसंसगेंकयोग्यताज्ञान शाब्दबोधजनकं तस्य 'घटो घटः' इत्यत्रापि सत्त्वाद् घटत्वावच्छिन्नप्रकारकाभेदसंसर्गकशाब्दबोधः स्यादेव कारणसत्त्वे कार्यावश्यंभावादित्यर्थः । __ अथेत्यादिनाशङ्कित सिद्धान्ती परिहरति-तीति । तद्धर्मपदेन प्रकारतावच्छेदकधर्मों घटत्वादिर्ग्राह्यः । तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्न प्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्द बोधोत्पत्ति प्रति तद्धर्मभेदस्य-प्रकारतावच्छेदकधर्मभेदस्य हेतुत्वम् । यत्र विशेष्यतावच्छेदकप्र. कारतावच्छेदकधर्मयोर्भेदो भवति तत्रैवाइभेदान्वयबोधो भवति यथा 'द्रव्यं घटः' इत्यत्र विशे. ध्यतावच्छेदकं द्रव्यत्वं प्रकारतावच्छेदकं च तद्भिन्नं घटत्वमिति । 'घटो घटः' इत्यत्र तु घट त्वमेव विशेष्यतावच्छेदकं प्रकारतावच्छेदकं चेति विशेष्यतावच्छेदकप्रकारतावच्छेदकयोर्भेदाभावानाऽभेदान्वयबोधो भवतीत्यर्थः । अत्र- " तद्धर्मावच्छिन्नाऽभेदसंसर्गावच्छिन्ना च या घटनिष्टा प्रकारता तन्निरूपिता विशेष्यता द्रव्ये तदवच्छेदकता ( विशेष्यतावच्छेदकता) संबन्धेन 'द्र घटः । इति शाब्दत्वावच्छिन्नं द्रव्यत्वे जायते तत्र द्रव्यत्वे तद्धर्मभेदो घटत्वभेदो हेतुरस्तिा 'घटो घटः' इत्यत्र तु न शाब्दबोधापत्तिः- घटत्वे घटत्वभेदाभावादित्यर्थः" इति कृष्णभट्टाः ।
किं च 'द्रव्यं घटः' इत्यत्र घटमुद्दिश्य द्रव्यत्वविधानाद् द्रव्यमुद्दिश्य घटत्वविधानासंभवाच घटविशेष्यक एव शाब्दबोधो युक्तो न तु घटप्रकारको येन 'द्रव्यं घटः' इतिदृष्टान्तेन 'घटो घटः' इत्यत्र घटप्रकारकशाब्दबोधापत्तिः स्यादित्यपि विज्ञेयम् ।
ननु यद्युक्तरीत्याऽभेदसंसर्गकशाब्दबोधं प्रति तद्धर्मभेदस्य नाम विशेष्यतावच्छेदकप्रकारतार च्छेदकधर्मयोर्भेदस्य हेतुत्वं स्वीक्रियते तदा ‘स घटः' 'घटः सः' इत्यादौ योऽभेदसंसर्गकशाब्दबो इष्टः स नोपपद्यत- विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोर्भेदाभावात्, यतः- 'यः खल्या जातिमानस्ति स घट आनेतव्यः' इतिवाक्यघटके ‘स घटः' इति वाक्ये तत्पदेन जातिमान् बो. ध्यते इति जात्यवच्छिन्नेऽत्र तत्पदस्य शक्तिः तत्पदवाच्यो जातिमानेव विशेष्य उद्देश्यत्वान् घटश्च प्रकारो घटे प्रकारतावच्छेदकधर्मो घटत्वं तत्पदवाच्ये जातिमति विशेष्ये च विशेष्यतावच्छेदकधर्मो जातिरेव जातौ च घटत्वमेदो नास्त्येव जातेघटत्वादिरूपत्वात. अत्रापि वस्तुतो विशेष्य
"Aho Shrutgyanam"