________________
अभेदान्त्र यविचारः] व्युत्पत्तिवादः ।
(५७) दिधर्मितावच्छेदककस्य जातित्वादिविशिष्टघटत्वावच्छिन्नप्रकारताकस्य शाब्दबोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये। तावच्छेदकधर्मो घटत्वमेव तत्पदस्य घटबोधकत्वादेव किंतु तस्य घटत्वस्य घटत्वत्वेन रूपेण प्रतीतिन भवति किं तु जातित्वेन प्रतीतिर्भवति तत्पदस्यात्र जातिमति शक्तत्वात, जातिमद्रूपेणैव घटबोधकत्वात् तयोश्च विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयो तिघटत्वयोर्भेदाभावादत्राभेदसंसर्गकशाब्दबोधो न स्यादेव, तथा घटः सः' इत्यत्रापि तत्पदस्योक्तरीत्या जातिमति शक्तत्वात् विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोर्घटत्वजात्योर्भेदाभावादिष्टोऽभेदसंसर्गकशाब्दबोधो न स्यादेथेत्याशङ्क्याह- स घट इत्यादीति ।
'स घट:' 'घटः सः' इत्यादावभेदसंसर्गकविवक्षितशाब्दबोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये अर्थात्-यत्र विशेष्यतावच्छेदकता प्रकारतावच्छेदकता च निरवच्छिन्ना भासते तादृशशाब्दबोधं प्रत्येव तद्धर्मभेदस्य हेतुत्वमस्ति तथा च- निरवच्छिन्नावच्छेदकताकविशेष्यताकम् ( निरवच्छिन्नविशेष्यतावच्छेदकताकम् ) निरवच्छिन्नावच्छेदकताकप्रकारताकम् ( निरवच्छिन्नप्रकारतावच्छेदकताकम् ) च शाब्दबोधं प्रति तद्धर्मभेदस्य हेतुत्वम्, 'द्रव्यं घटः' इत्यत्र द्रव्यत्वनिष्ठा या विशेष्यतावच्छेदकतास्ति सा निरवच्छिन्नास्ति द्रव्यत्यस्य स्वरूपेणैव भासमानत्वात् तथा घटत्वनिष्ठा प्रकारतावच्छेदकतापि निरवच्छिन्नास्ति घटत्वस्यापि स्त्ररूपेणैव भासमानत्वादिति तादृशशाब्दबोधं प्रति तद्धर्मभेदस्योक्तरीत्या हेतुत्वमस्ति. अस्ति च तत्र द्रव्यत्वघटल्वयोर्भेदः । अत्र तु 'स घटः' इत्यस्य 'जातिमान् घटः' इत्यर्थः जातिमानेव च विशेष्यः विशेष्यतावच्छेदकता जातौ वर्तते जातेश्च जातित्वेन रूपेण भासमानत्वात् जातिनिष्ठा भाष्यतावच्छेदकता जातित्वावच्छिन्नास्ति तथा चात्र शाब्दबोधः सावच्छिन्नविशेष्यतावच्छे. एकताको जायते न तु निरवच्छिन्न विशेष्यतावच्छेदकताकः, सावच्छिन्नविशेष्यतावच्छेदकताक. शाब्दबोधं प्रति तु तद्धर्मभेदस्य हेतुत्वमेव नास्तीत्यऽत्र विशेष्यतावच्छेदकप्रकारतावच्छेइकधर्मयोर्जातिघटत्वयोर्भेदाभावेपि नाभेदसंसर्गकशाब्दबोधस्यानुपपत्तिः । एवम्-'घटः सः' इत्यस्य 'घटो जातिमान्' इत्यर्थः जातिमानेव च प्रकारः प्रकारतावच्छेदकतात्र जातौ वर्तते जातेश्च जातित्वेन रूपेण भासमानत्वात् जातिनिष्ठा प्रकारतावच्छेदकता (प्रकारता जातिमतीति जातिमद्विशेषणीभूतजातौ प्रकारतावच्छेदकता) जातित्वावच्छिन्नास्ति. तथा चात्र शाब्दबोधः सावच्छिन्नप्रकारतावच्छेदकताको जायते न तु निरवच्छिन्नप्रकारतावच्छेदकताकः सावच्छिन्नप्रकारतावच्छेदकताकशाब्दबोधं प्रति च तद्धर्मभेदस्य हेतुत्वमेव नास्तीत्यत्र विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोर्घटत्वजात्योर्भेदाभावेपि नाऽभेदसंसर्गकशाब्दब्रो. धस्थानुपपत्तिः । .
‘स घटः ' इत्यस्य शाब्दबोधस्वरूपमाह-- जातित्वादिनेति । अत्र धर्मितावच्छेदकतया घटत्वमेव जातित्वेन रूपेण भासते इत्युक्तं जातिवादिनेति, जातित्वेन भासमानं घटत्वं धर्मिता
"Aho Shrutgyanam"