________________
(५८)
सादशे:
[ प्रथमाकारके'घटो नीलघटः ' इत्याद्यन्वयबोधस्य प्रामाणिकत्वेऽन्यत्र दर्शितरीत्या सोऽप्युपपादनीयः । वच्छेदकं यस्य तस्य तथा स्वरूपतः--स्वरूपेण भासमानं च घटत्वं प्रकारतावच्छेदकं यस्य तस्य (घटे प्रकारतास्ति ) एवंभूतस्य शाब्दबोधस्योपपत्तये । घटः सः । इत्यत्र च स्वरूपतःस्वरूपेण भासमानं घटत्वं धर्मितावच्छेदकं यस्य तस्य तथा जातित्वविशिष्टं जातित्वेन भासमानं च यद् घटत्वं तदवच्छिन्ना प्रकारता यस्य ( जातित्वावच्छिन्ना घटत्वनिष्ठा प्रकारतावच्छेदकता यस्य ) तस्यैवंभूतस्य शाब्दबोधस्योपपत्तये इत्यन्वयस्तथा च ' स घटः । इत्य 'जातिवावच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपिता या विशेष्यता तनिरूपिता याऽमेदसंबन्धावच्छिन्ना घटत्वावच्छिन्ना प्रकारता तादृशप्रकारताशालिशाब्दबोधः । 'घटः सः' इत्यत्र घटत्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपिता या विशेष्यता तादृशविशेष्यतानिरूपिता या जातिका नघटत्वनिष्ठावच्छेदकतानिरूपिता घटनिष्ठा प्रकारता तादृशप्रकारताशालिशाब्दबोधः। 'स घट; ' इत्यत्र विशेष्यतावच्छेदकता जातिनिष्ठा सावच्छिना जातित्वावच्छिन्नत्वात, घटः सः' इत्यत्र च तथैव प्रकारतावच्छेदकता जातिनिष्ठा सावच्छिन्नास्तीति व्यतिरेकः ।
'घटो नीलघरः । इति- 'घठो नीलघटः' इत्यत्र कस्यचिन्मते घटत्वापेक्षया नीलधटत्वस्य मिनावेन विशेष्यतावच्छेदकप्रकारतावच्छेदकयोर्घटत्वनीळघटत्वयोर्मेदादऽभेदसंसर्गकशाब्दबोधस्य नानुपपत्तिः 'द्रव्यं घटः' इत्यनेन तुल्यत्वात् । नवीनमते चात्र विधेयांशेऽधिकावगाहिशाब्दबोधस्वीकाराद् उद्देश्य (विशेष्य ) कोटौ केवलं घटस्यैव प्रवेशाद् विधेय (विशेषण). कोटौ घदापेक्षयाधिकस्य नीलस्यापि प्रवेशाद् भानाच नाऽभेदान्वयबोधे काचिदनुपपत्तिः । न चैवम् ' घटो घटः । इत्यत्राप्यभेदान्वयापत्तिरिति वाच्यम्, “घटो घटः' इत्यत्र उद्देश्यकोव्ये विधेयकोटौ च केवलं घटस्यैव प्रवेशाद् घटातिरिक्तनीलादेरप्रवेशेनाधिकावगाहित्वाभावात् ।। किं वा यत्र विशेष्यतावच्छेदकताप्रकारतावच्छेदकता चैकधर्मपर्याता स्यात्तत्राऽभेदान्वयबोध) प्रति सद्धर्मभेदस्य हेतुत्वमस्ति नान्यत्र यथा- 'द्रव्यं घटः । इत्यत्र विशेष्यतावच्छेदकता केवलं द्रव्यत्वे पर्याप्तास्ति प्रकारतावच्छेदकता च केवलं घटत्वे पर्याप्तास्तीति तत्राभेदान्वयबोधं प्रति तद्धर्मभेदस्य हेतुत्वमस्ति. अस्ति च तत्र द्रव्यत्वघटत्वयोः परस्परं भेद इति नाऽभेदान्वयबोधानुपपत्तिः । 'घटो नीलघटः । इत्यत्र तु प्रकारतावच्छेदकता नैकधर्मपर्याप्तास्ति किं तु नीलत्वघटत्वैतदुभयधर्मपर्याप्तास्तीत्यत्राऽभेदान्वयबोधं प्रति तद्धर्मभेदस्य हेतुत्वाभावाद् विशेष्यः तावच्छेदकीभूतस्य घटत्वस्य प्रकारतावच्छेदकीभूतस्य च नीलघटत्वस्य भेदाभावेप्यऽभेदा: न्वयबोधे न काप्यनुपपत्तिरित्याह- अन्यत्र दर्शितरीत्येति । किं वा-तद्धर्मवृत्तिाऽभेदसंबन्धावच्छिन्ना प्रकारता तादृशप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसंबन्धेन शान्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदः कारणम्, तद्धर्मवृत्तित्वं च प्रकारतायां स्वनिरूपितावच्छेकतात्यावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसंबग्वेन
"Aho Shrutgyanam"