________________
अभेदान्वयविचारः ]
व्युत्पत्तिवादः ।
'स सः' इत्यादिवाक्याज्जातित्वाद्यवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिनमकारतावच्छेदकताकाऽभेदान्वयबोधस्य वारणाय तद्धर्मावच्छिन्नावच्छेदकता
स्वं अभेद संबन्धावच्छिन्ना प्रकारता, ' घटो घटः' इत्यत्र तद्धर्मः घटत्वगतैकत्वं तद्तिर्या स्वरूपसंबन्धेन घटनिष्ठा अभेदसंबन्धावच्छिन्ना प्रकारता ( घटे या स्वरूपसंबन्धेनाभेदसंबन्धावच्छिन्ना प्रकारता वर्तते सोक्तसंबन्धेन तद्धर्मे घटत्वगतैकत्वेपि वर्तते ) तादृशप्रकारतानिरूपिता या घटनिष्ठा विशेष्यता ( क्टो घट इत्यत्र प्रकारखं विशेष्यत्वं च घटस्यैव- घटप्रकारकघटविशेष्यकबोधस्यैवापाद्यमानत्वात् ) तादृशविशेष्यतावच्छेदकता घटत्वे, विवक्षितपर्याप्तिसंन्यस्य प्रतियोगिता तादृशविशेष्यतावच्छेदकतायां वर्तते तत्र विशेष्यतावच्छेदकतात्यमपि वर्तते इति सा प्रतियोगिता विशेष्यतावच्छेदकतात्वावच्छिन्ना जाता तथा चोक्त विशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोषिताकपर्याप्तेरनुयोगितावच्छेदकं वटत्वगतैकत्वम् ( विशेष्यतावच्छेदक
पर्याप्तिर्घट विवक्षिता घटत्वमनुयोगी अनुयोगितावच्छेदकं घटत्वगतैकत्वं प्राह्यम् ) इति तन्निष्ठानुयोगितावच्छेदकत्व संबन्धेन ( तद् = घटत्वगतैकत्वम् ) शाब्दबुद्धित्वावच्छिन्नं प्रति तस्य कारणत्वमस्ति तच घटो घट: ' इत्यत्र नास्त्येव - विशेष्यतावच्छेदकतात्वावच्छिप्रतियोगिताक पर्याप्त्यनुयोगितावच्छेदकमपि घटत्वगतैकत्वमेव प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्यात्यनुयोगितावच्छेदकमपि घटत्वगतैकत्वमेवेति न' घटो घटः मेदान्वयबोधापत्ति:- घटत्वगतैकत्वयोः पर्याप्त्यनुयोगितावच्छेदकयोः परस्परं मेदाभावात्, एकत्वाश्रयीभूतघटत्वस्य भेदाभावात् । 'घटो नीलघटः' इत्यत्र तु विशेष्यतावच्छेदकतात्वावच्छिन्नप्र तियोगिता पर्याप्त्यनुयोगितावच्छेदकं घटत्वगतैकत्वम्, प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिता - पर्याप्त्यनुयोगितावच्छेदकं च नीलत्वघटत्वैतदुभयगतं द्वित्वमिति एकत्वद्वित्वयोश्च परस्परं भेदात तद्धर्मभेदस्य सत्त्वादभेदान्वयबोध उपपद्यते इत्याशयेनाह - अन्यत्रदर्शितरीत्येति
इत्यत्रा
५९
<
स सः
ननु यदि ' स घटः ' इत्यादावऽभेदान्वयबोधोपपत्तये ' यत्र विशेष्यतावच्छेदकता प्रकारतावच्छेदकता च निरवच्छिन्ना स्यात्तत्रैवाऽभेदान्वयबोधं प्रति तद्धर्ममेदस्य कारणत्वम् ' इति स्वीक्रियते यथा ' द्रव्यं घटः ' इत्यादौ तदा इत्यत्र तत्पदयोर्जातिमति शक्तत्वाद् : विशेष्यतावच्छेदिका प्रकारतावच्छेदिका व जातिरेव जातिनिष्ठा हि विशेष्यतावच्छेदकता प्रकारबावच्छेदकता च जातित्वावच्छिन्नास्ति न तु निरवच्छिन्नेत्यत्राभेदान्वयबोधं प्रति तद्धर्मभेदस्य=विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोः किं वा विशेष्यतावच्छेदकतावच्छेदकप्रकारतावच्छेदकतावच्छेदकधर्मयोर्भेदस्य हेतुत्वाभावाद विशेष्यतावच्छेदकीभूतायाः प्रकार तावच्छेदकीभूतायाश्च जातेः किं वा विशेष्यतावच्छेदकतावच्छेदकस्य प्रकारतावच्छेदकतावच्छेदकस्य तित्वस्य भेदाभावेप्यऽभेदान्वयबोधः स्यादेवेत्याशङ्कयाह- स स इति । स स इति वाक्यानिवार्यमाणशाब्दबोधस्य स्वरूपमाह - जातित्वादीति । स सः इत्यस्य " जातिमान् जाति-
"
" Aho Shrutgyanam"