________________
(६०) सादर्श:
[ प्रथमाकारकेकाकारतानिरूपितमितावच्छेदकतावच्छेदकत्वप्रत्यासत्या शाब्दबोधं प्रति तद्धर्मभेदस्यापि पृथक कारणत्वं कल्पनीयम् । मान् ' इत्यर्थः, तत्र जातिमान् धर्मी धर्मितावच्छेदिका जातिः सा च जातित्वावच्छिन्नेति जातित्वावच्छिन्ना धर्मितावच्छेदकता यस्य स जातित्वाद्यवच्छिन्नधर्मितावच्छेदकताकः तथा तद्धर्मावच्छिन्ना--जातित्वधर्मावच्छिन्ना प्रकारतावच्छेदकता यस्य तस्य जातित्वाद्यवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिन्नप्रकारतावच्छेदकताकस्याभेदान्वयबोधस्य ‘स सः' इतिवाक्यात्संभाव्यमानस्थ वारणाय. तद्धर्मावच्छिन्नावच्छेदकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकत्वप्रत्यासत्त्या शाब्दब्रोधं प्रत्यपि तद्धर्मभेदस्य कारणत्वं पृथक् कल्पनीयम् , तद्धर्मावच्छिन्नावच्छेदकतेति-तद्धर्मः जातित्वं जातित्वावच्छिन्नावच्छेदकता जातौ तादृशावच्छेदकताका तादृशावच्छेदकतानिरूपिता प्रकारता द्वितीयतत्पदयोध्ये घटे तादृशप्रकारतानिरूपितधर्मिता प्रथमतत्पदबोध्ये घटे धर्मितावच्छेदकत्वं घटत्वरूपजातौ धर्मितावच्छेदकताबच्छेदकत्वं च जातित्वे, तथा च जातित्वे जातित्वनिष्ठं यत् तद्धर्मावच्छिन्नावच्छेदकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छदकत्वं तेन संबन्धेन शाब्दबोधे जननीये तद्धर्मभेद:-प्रकारतावच्छेदकतावच्छेदकभेदः कारणमस्तिं तच्च ‘स सः ' इत्यत्र नास्ति, अत्र विशेष्यतावच्छेदकतावच्छेदकं तथा प्रकारतावच्छेदकतावच्छेदकं एक जातित्वमेव तथा विशेष्यतावच्छेदिका प्रकारतावच्छेदिका चैका जातिरिति तद्धर्मदस्य कारणीभूतस्याभावादेव 'स सः' इत्यत्र नाऽभेदान्वयबोधापत्तिरित्यर्थः । अपिमिन्नक्रम इति प्रत्यासत्यापीत्यन्वयः ।
अस्य कार्यकारणभावस्योदाहरणं तु 'जातिमान् प्रमेयवान् ' इति, अत्र विशेष्यतावच्छेदिमर जातिः प्रकारतावच्छेदकं प्रमेयम् ( प्रमेयवतः प्रकारत्वात् ) तयोः परस्परं भेदादभेदान्चयबोधो जायत एव, किं वा विशेष्यतावच्छेदकतावच्छेदकं जातित्वं प्रकारतावच्छेदकतावच्छेदकं च प्रमेयत्वं तयोः परस्परं भेदादभेदान्धयबोधो जायते इति । वस्तुतस्तु यत्र प्रकारतावच्छेदकता. विशेष्यतावच्छेदकते उभे अपि निरवच्छिन्ने वा स्यातां सावच्छिन्ने वा स्यातां तत्राभेदान्वयबोधं प्रति तद्धर्मभेदस्य कारणत्वं तथा च ' द्रव्यं घटः ' इत्यत्र विशेष्यतावच्छेदकप्रकारतावच्छेदकयो.
व्यत्वघटत्वयोरुभयोरपि निरवच्छिन्नत्वात् तद्धर्मभेदस्य कारणत्वमस्ति. अस्ति च तद्धर्मभेदो द्रव्य त्वघटत्वयोभिन्नत्वादित्य भेदान्वयबोधे न काप्यनुपपत्तिः, 'जातिमान् प्रमेयवान्' इत्यत्र च विशे. व्यतावच्छेदकप्रकारतावच्छेदकयोरुभयोरपि जातिप्रमेययोर्जातित्वप्रमेयत्वाभ्यां सावच्छिन्नत्वाद् अभेदान्वयबोधं प्रति तद्धर्मभेदस्य कारणत्वमस्ति. अस्ति चोक्तरीत्या तद्धर्मभेद इति नाऽभेदान्वयत्रोधानुपपत्तिः । ‘स सः' इत्यत्र च विशेष्यतावच्छेदकताप्रकारतावच्छेदकते जातिनिष्ठे उभे अपि जातित्वेन सावच्छिन्ने स्तः न चात्र विशेष्यतावच्छेदकप्रकारतावच्छेदकयोर्भेदोस्ति जातेस्वैकाया विशेष्यतावच्छेदकत्वात् प्रकारतावच्छेदकत्वाच्चेति कारणीभूतस्य तद्धर्मभेदस्याभावान्नाइभेदान्वयबोधापत्तिः । 'स घटः' इत्यत्र चोक्तरीत्या केवलं विशेष्यतावच्छेदकतैत्र सावच्छिन्नास्ति
"Aho Shrutgyanam"