________________
सादर्श:
[ प्रथमाकारके -
( ४८ ) मम्याश्वात्मनिष्ठप्रत्यासत्या द्रव्यत्वाद्यवच्छिन्न विशेष्यकघटत्वाद्यवच्छिन्नाद्यभेदः बुद्धित्वरूपस्वीकार्यतावच्छेदकावच्छिन्नोत्पतेरेव व्याप्यतया घटत्वादौ धर्मि -: तावच्छेदकतासंबन्धेन घटत्वावच्छिन्नाभेदबोधापादकत्वं न संभवतीति वाच्यम् योग्यताज्ञानस्य धर्मितावच्छेदकं निवेश्य तद्भेदेनाऽनन्तकारणता कल्पनमपेक्ष्य जोधे जननीये प्रयोजिका न स्यात् कारणाभावात् समवायेनात्मन्युक्तशाब्दबोधे जननीये धर्मितावच्छेदकतायाः कार्यतावच्छेदकधर्मघटकत्वाभावात् । अस्ति चात्र धर्मितावच्छेदकतायाः का यतावच्छेदकधर्मघटकत्वमिति यादृश्युक्तसामग्री आत्मनिष्ठप्रत्यासत्त्या धार्मेतावच्छेदकता विशिष्टशाब्दबोधप्रयोजिका तादृश्येवोक्त सामग्री धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वे शाब्दबोधप्रयोजिका भवति-धर्मितावच्छेदकता विशिष्टस्य शाब्दबोधस्य कार्यत्वे तेन सह धर्मितावच्छेदकताया अपि कार्यत्वापत्त्या तया सामन्या विना धर्मितावच्छेदकतासंबन्धेन शाब्दबोधोत्पत्त्यनुपपत्तेः । द्रव्यत्वनिष्ठाया धर्मितावच्छेदकताया आत्मनिष्ठप्रत्यासत्त्याऽऽत्मनि शाब्दबोधोत्पत्तौ कार्यतावच्छेदकसंबन्धत्वाभावेपि उक्तसंयोगस्येव द्रव्यत्वे उक्तशाब्दबोधे जननीये तु कार्यतावच्छेदकसंबन्ध भवत्येव ( नानुपपन्नम् कार्यशाधिकरणद्रव्यत्वनिष्ठत्वादिति धर्मेतावच्छेदकता संब-न्धेन द्रव्यत्वे तादृशान्त्रयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्येत्यायुक्तसामग्र्येव तादृशसामग्र्याश्चात्म-निष्ठप्रत्यासत्या ( समवायेन ) द्रव्यत्वाद्यवच्छिन्न विशेष्यकघटरवाद्यवच्छिन्नाद्यभेदबुद्धित्वरूपस्त्री-: कार्यतावच्छेदकावच्छिन्नोत्पत्तेरेव = अभेद संबन्धावच्छिन्न घटत्वावच्छिन्नपकारता निरूपितद्रव्यत्वावच्छिन्न विशेष्यकशाब्दबोधत्वावच्छिन्नो ( शाब्दबोधो ) त्पत्तेरेव) ( द्रव्यं घट इतिस्थले ) व्याप्यतया = प्रयोजकतया घटत्वादी धर्मितावच्छेदकतासंबन्धेन घटत्वावच्छिन्नाभेदबोधापादकत्वं न संभवति किं वोक्तसामग्र्या घटत्वे वटत्वावच्छिन्नाभेदबोधापादकत्वं धर्मितावच्छेदकतासंबन्धेनापि संभवति किमुतात्मनिष्ठप्रत्यासत्त्या आत्मनिष्ठप्रत्यासत्त्या हि बोधापादकत्वं सामग्र्या आत्मन्येक संभवति नान्यत्र संबन्धभूतस्य बोधसमवायस्यात्ममात्रनिष्ठत्वात् धर्मितावच्छेदकतापि यात्र संव धरूपास्ति तस्या द्रव्यत्वमात्रनिष्ठत्वात् तादृशाधर्मितावच्छेदकतासंबन्धेन च सामग्र्या द्रव्यत्वी एव शाब्दबोधापादकत्वं संभवति न घटत्वादावित्यर्थः । किं च द्रव्यत्वावच्छिन्न विशेष्य कशाब्द-: 'बोधं प्रति द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानस्यैव कारणत्वात् तादृशयोग्यताज्ञानस्य च द्रव्यत्वनिष्ठधर्मितावच्छेदकतासंबन्धेन द्रव्यत्वे एव संभवात् घटले चासंभवात् न केवलं घटत्वे शाब्दबोवापत्यसंभव एव किं तु तादृशशाब्दबोधकारणीभूतयोग्यताज्ञानस्याप्यऽसंभव एव योग्यताज्ञानस्वरूपेनि द्रव्यत्वविशेष्यकत्वप्रवेशात् कारणाभावे कार्यासंमवाच्चेत्यलम् ।
पूर्वपक्षी उक्तं परिहरन् अभेदसंबन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधकारणीभूतयोयताज्ञानमात्रं घटत्वे आपादयति- योग्यताज्ञानस्येति, धर्मितावच्छेदकं द्रव्यत्वं निवेश्य = द्रव्यत्वावच्छिन्न विशेष्यक योग्यताज्ञानस्वीकारे हि तद्भेदेन=धर्मितावच्छेदकभेदेन यथा- 'घटः प्रमेयः " इत्यत्र प्रमेयत्वं धर्मितावच्छेदकम् 'घटो द्रव्यम्' इत्यत्र द्रव्यत्वं धर्मितावच्छेदकमिति तपस्थलीय
"Aho Shrutgyanam"