________________
घटो घट इति विवादः ] व्युत्पत्तिवादः ।
(४७) ग्यताज्ञानादिघटितसामग्येव-धर्मितावच्छेदकतायास्तत्कार्यतावच्छेदकसंबन्धताविरहेपि द्रव्यत्वादिनिष्ठायास्तस्यास्तत्कार्यतावच्छेदकधर्मघटकत्वात् तादृशसाकार्य तादृशकार्यतावच्छेदकसंबन्धताविरहेपि ( आत्मनिष्ठप्रत्यासत्तेः समयायस्यैव तादृशकार्यतावच्छेदकसंबन्धत्वात् , द्रव्यत्वादिनिष्ठायास्तस्या:-धर्मितावच्छेदकतायास्तत्कार्यतावच्छेदकधर्म. घटकत्वात्-उक्त सामग्रीकार्यतावच्छेदकधर्मघटकत्वाद्धेतोः द्रव्यत्वादौ धर्मितावच्छेदकतासंबन्धेत तादृशान्वयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितितदवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटिता सामग्र्येवेत्यन्वयः ।
अयं भावः- यया वयवयवेषु वह्निप्रतियोगिकसंयोगविशिष्टबही जननीये यादृशीन्धनादिसामग्री प्रयोजिका भवति तादृश्येव सामग्री महानसादी संयोगेन वह्नौ जननीये प्रयोजिका भवति । किं चात्र वह्नयययवेषु वयुत्पत्तौ समवाय एव कार्यतावच्छेदकसंबन्धो भक्ति न तु संयोग इति संयोगस्य कार्यतावच्छेदकसंबन्धवाभावपि कार्यतावच्छेदकधर्मबटकत्वं त्वत्येववह्निमतियोगिकसंयोगविशिष्ट उत्पाद्यमानबह्नौ वह्नित्यस्येव वहिप्रतियोगिकसंयोगवैशिष्टयस्यापि सत्त्वाद् बह्निप्रतियोगिकसंयोगिविशिष्टवशित्वस्य कार्यतावच्छेदकत्वात् संयोगस्यापि तद्घटकत्वाद् यदि चात्र संयोगः कार्यतावच्छेदकधर्मवटको न स्यात्तदा समवायेन बयुत्पत्ति प्रति यादृशी सामग्री प्रयोजिका भवति तादृशी सामग्री संयोगेन वद्युत्पत्तिं प्रति प्रयोजिका न स्यात् कारणाभावात्. यदा च संयोगः कार्यतावच्छेदकधर्मघटको भवति तदा तु यादृशी सामग्री संयोगविशिष्टवहिप्रयोजिका भवति तादृश्येव संयोगेन वहिप्रयोजिका भवति संयोगस्यापि वहिना सह कार्यत्वात् । किं चात्र समवायेन वह्नयुत्पत्ती संयोगस्य कार्यतावच्छेदकसंबन्धत्वाभावेप्यान्यत्र पर्वतादौ बढ्युत्पत्तौ तु पर्वतानुयोगिकवह्निप्रतियोगिककार्यतावच्छेदकसंबन्धत्वं भवत्येव ।
तथा प्रकृतेप्यात्मनिष्ठप्रत्यासत्त्या ' द्रव्यं घटः ' इत्यत्राऽभेदान्वयबोधे जननीये समवायस्यैव कार्यतावच्छेदकसंबन्धत्वेन धर्मितावच्छेदकतायाः कार्यतावच्छेदकसंबन्धत्वाभाषेपि द्रव्यत्वनिष्ठाया धर्मितावच्छेदकतायाः कार्यतावच्छेदकधर्मघटकत्वं त्वस्त्येव- द्रव्यत्वनिष्ठाप्येषा विषयतारूमा धर्मितावच्छेदकता स्वनिरूपितविषयितासंबन्धेन शाब्दबोधे वर्तते इति शाब्दबोधत्वस्येवोक्तधर्मितावच्छेदकतावैशिष्टयस्यापि शाब्दबोधे सत्त्वाद् अभेदसंबन्धावच्छिन्नघटत्यावच्छिन्नप्रकारतानिरूपि-- तद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधत्वस्य कार्यतावच्छेदकत्वाद् उक्तधर्मितावच्छेदकताया अपि उद्घटकत्वात् स्वनिरूपितविषयितासंबन्धेन तत्र वर्तमानत्वात् । तादृशधर्मितावच्छेदकताविशिष्टशा
बोधे समवायेनात्मनि जननीये यादृशी द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितितदेवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्री प्रयोजिका भवति तादृश्येव सामग्री धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वादौ तादृशशाब्दबोधप्रयोजिका भवति । यदि चात्र धर्मितावच्छेदकाता कार्यतावच्छेदकधर्मघटिका न स्यात्तदात्मनिष्ठप्रत्यासत्या समवायेनात्मन्युक्तशाब्दबोधे जननीये यादृश्युक्तसामग्री प्रयोजिका भवति तादृशी सामग्री धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वे इक्तशाब्द
"Aho Shrutgyanam"