________________
सादर्श:
[प्रथमाकारके न च तत्रापादकाभावः-- तात्पर्यज्ञानविशेषादिघटिताया धर्मितावच्छेदकतया द्रव्यत्वादौ तदुत्पादनियामकसामग्या एवापादकत्वात् । . न च धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्नविशेष्यकोपस्थितितदवच्छिन्नविशेष्यकयो
'द्रव्यं घटः । इत्यत्र द्रव्यं धर्मी द्रव्यत्वं धर्मितावच्छेदकं द्रव्यत्वनिष्टा च विषयता धर्मितावच्छेदकतारूपा सैथ संबन्धस्तेन संबन्धेन शाब्दबोधो द्रव्यत्वे वर्तते तथा च 'द्रव्यं घटः। इत्यत्र धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वे प्रसिद्धो यथा शुद्धघटत्वावच्छिन्नप्रकारकाभेदान्चयबोधस्तथा 'घटो घटः । इत्यत्रापि घटत्वे धर्मितावच्छेदकतासंबन्धेन शुद्धघटत्वावच्छिन्नप्रकारकाभेदान्वयबोधस्यापत्ति: संभवतीत्याह- द्रव्यत्वादाविति ।। __ ननु' द्रव्यं घटः ' इत्यत्राभेदान्वयविषयकतात्पर्यज्ञानादिघटितसामाग्र्याः सत्त्वात् तत्कार्यभूतो घटत्वावच्छिन्नप्रकारकाभेदान्वयबोधो भवति 'घटो घटः ' इत्यत्र वस्तुगत्याउभेदश्य सत्त्वेपि तद्वोधानुकूलसामग्र्यभावात् कथमभेदान्वयबोधः स्यादित्याशङ्कयाह- न चेति । तत्र= 'बटो घटः । इत्यत्र । आपादकाभावः कारणीभूतसामग्र्यभावः । परिहारहेतुमाह- तात्पर्यज्ञानेति, धर्मितावच्छेदकतया धर्मितावच्छेदकतासंवन्धेन द्रव्यत्वे तदुत्पादनियामकसामन्या:-अभेदान्वयबोधोत्पतेनियामिकायास्तात्पर्यज्ञानविशेषादिघटितायाः सामग्र्या एव 'घटो घटः' इत्यत्रापि घटत्वावच्छिन्न प्रकारकाभेदान्वयबोधापादकत्वात् । यया तात्पर्यज्ञानादिघटितसामच्या 'द्रव्यं घटः । इत्यन्न घटत्वावच्छिन्नप्रकारकाभेदान्वयबोधस्तयैव 'बटो घटः ' इत्यत्रापि घटत्वावच्छिनप्रकारकाभेदान्वयबोधो भविष्यतीत्यर्थः । तात्पर्यज्ञानं. चात्र- 'घटपदं द्रव्यपदार्थान्वितस्वार्थ बोधर्यतु ' इति । योग्यताज्ञानं च ' द्रव्यपदार्थो घटत्वावच्छिन्नाभेदसंसर्गवान् ' इति, द्रव्यत्वे योग्यताज्ञानं तु धर्मितावच्छेदकतासंबन्धेन वर्तते । तात्पर्यज्ञानं च-- 'द्रव्यं घट इत्येतद्वाक्यजग्यकिंचिद्धर्मावच्छिन्न प्रकारककिंचिद्धर्मावच्छिन्नविशेष्यताशालिशाब्दबोधविषयकेच्छावानयम् ' इति, एतादृशज्ञानीया या इच्छानिष्ठाविषयता तन्निरूपिता या बोधनिष्ठा विनयता तनिरूपिता या विशेष्यतानिष्ठा विषयता तनिरूपिता या अवच्छिन्नत्वनिष्ठा विषयता तन्निरूपितविषयतासंबन्धेन । एषा विषयता विशेष्यतावच्छेदके द्रव्यत्वादौ वर्तते ) द्रव्यत्वे वर्तते ।।
ननु ' द्रव्यं घटः' इत्यत्र द्रव्यत्वे तादृशान्वयबोधोत्पत्तिप्रयोजिका अभेदान्वयबोधोत्पत्तिप्रयोजिका तु धर्मितावच्छेदकतासंबन्धेन द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितिघटिता तथा नदेवच्छिन्नद्रव्यत्वावच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितेव सामग्री भवतीति वक्तुमारभते-न चेत्यादिना । ननु त्वयाऽऽत्मनिष्ठप्रत्यासत्तेरेव कार्यतावच्छेदकसंबन्धत्वमाश्रित्य घटो घटः । इत्यत्राभेदान्वयबोधः परियिते इति कथमत्रेदानी वा धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वेऽभेदान्वया बोधप्रयोजकत्वं सामग्र्या उक्तमिति पूर्वपक्ष्यांशङ्कामालोच्य सिद्धान्त्याह- धर्मितावच्छेदकताया इति, धर्मितापच्छेदकतायास्तत्कार्यतावच्छेदकसंबन्धताविरहेपिउक्तसामग्रीजन्यं यच्छाब्दबोधरूप
"Aho Shrutgyanam"