SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ वटो घट इसिविवादः ] न्धुत्पत्तिवादः। वस्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकोपस्थित्यादिकं कारणमित्येवं पूर्ववत् पृथक् पृथगेवोक्तवाक्यानां शाब्दबोधतत्कारणयोः कार्यकारणभावो वक्तव्य इति महद् गौरवम् । विषयनिष्ठप्रत्यासत्त्या शाब्दबोधपक्षे च अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारता. निरूपितविशेष्यतावच्छेदकतासंबन्धेन तत्पुरुषीयशाब्दबुद्धित्वावच्छिन्नं प्रति अभेदसंबन्धावच्छिन्ननीलस्वावच्छिन्न प्रकारतानिरूपितविषयता ( धर्मितावच्छेदकता ) संबन्धेन तत्पुरुषायोपस्थित्यादिकं कारणमित्येवमेकेनेव वाक्येन 'पटो नीलः' 'घटो नीलः, 'मठो नीलः' इत्यादीनामेकनीलविशेषणकानां सर्वेषामपि वाक्यानां शाब्दबोधतत्कारणयोः कार्यकारणभावस्थानुगमः संभवति यतो यत्र यत्र पटत्ववटत्वमटत्वादी धर्मितावच्छेदकतासंबन्धेन शाब्दबोधकारणीभूतमुपस्थित्यादिकं. भविष्यति तत्र तत्रैव धर्मितावच्छेदकतासंबन्धेन शाब्दबोधोपि भविष्यतीति बहूनां विशेष्यभूतानां घटपटमठादीनां नामग्रहणापेक्षा नास्ति विशेषणस्यैकत्वात्तस्यैव नामग्रहणं कृतम्-- नीलत्वावच्छिनेति इत्यात्मनिष्ठप्रत्यासत्त्यपेक्षया लाघवम् , तत्र समवायसंबन्धेन कार्यकारणभावनियमाद् विषयतासंबन्धेन च कार्यकारणभावासंभवेनैवंप्रकारेण लाघवाऽसंभवात् । __एवमन्यत्रापि विशेषणविशेष्ययोविषमसंख्याकत्वे ज्ञेयम्- यत्र विशेषणानि बहूनि तत्र प्रकारतावच्छेदकतासंबन्धेन कार्यकारणभावो वक्तव्यो बहूनां विशेषणानां नामग्रहणं न कर्तव्यम् । यत्र च विशेष्याणि बहूनि तत्र धर्मितावच्छेदकतासंबन्धेन कार्यकारणभावो वक्तव्यो बहूनां विशेष्याणां नामग्रहणं न कर्तव्यमिति लाघवं स्यादेवेतियाक्त् । आत्मनिष्टप्रत्यासत्त्या कार्यकारणभावे विषयप्रवेशोप्यस्त्येव ' कृष्णोहं गौरोहम् । इत्यादा. वात्मनो विषयत्वेनात्मप्रवेशापेक्षाप्यस्त्येवेत्युभयप्रवेशेन गौरवं विषयनिष्ठप्रत्यासत्तौ तूमयप्रवेशापे. क्षा नास्ति केवलमात्ममात्रप्रवेशस्यावश्यकत्वादिति लाधवमित्यपि केचित् । . प्रकृते च यद्यात्मनिष्ठप्रत्यासत्या शाब्दबोध उच्येत तदा विषयप्रवेशस्याऽवश्यंभावात 'द्रव्य घटः ' इत्यत्र द्रव्यपदेन द्रव्यत्वेन घटपदेन च घटत्वेनोपस्थितिरस्ति, एवम्- 'घटो घटः , इत्यत्र तु नास्ति किं तूभाभ्यामेव घटपदाभ्यां घटत्वेनैवोपस्थितिरिति दृष्टान्तदान्तिकयोर्वेषम्यात् ' द्रव्यं घटः । इतिदृष्टान्तेन 'घटो घटः' इत्यत्राऽभेदान्वयबोधापत्तिर्न संभवतीत्याऽऽत्मनिष्ठप्रत्यासत्तिं त्यक्त्वा विषयनिष्ठप्रत्यासत्या शाब्दबोधमाह- धर्मितेति । अत्र च दृष्टान्तदासन्तिकयो(पम्यसत्त्वपि कार्यकारणभावे विषयप्रवेशाभावेन तन्न प्रतीयते तथा च यथा ' द्रव्यं घटः' इत्यत्र धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वेऽभेदसंबन्धेन घटप्रकारको बोधो भवति तथा 'घटो घटः । इत्यत्रापि धर्मितावच्छेदकतासंबन्धेन घटत्वे घटप्रकारकाभेदान्वयबोधस्यैव मदिष्टवात् स कथं न स्यात् , ' द्रव्यं घटः । इत्यत्र या घटप्रकारकबोधसामग्री तस्याः 'घटो घटः' इत्यत्रापि सत्त्वात्, घटस्य स्वात्मनाऽभेदस्यापि सत्त्वेन योग्यताज्ञानसत्वात् ' घटो घटः । इत्यत्र घटत्वावछिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेभ्यताकशाब्दबोधस्यापत्तिरस्त्यवेति पूर्वप्रक्षाभिप्रायः । "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy