________________
पदार्थान्तरान्वयविचारः] व्युत्पत्तिवादः ।
(१६३) कतात्पर्यज्ञाने संसर्गस्य विशेषणतया तद्भाननिर्वाहाय संसर्गघटकोपस्थितेरपि शाब्दबोधात् प्रागावश्यकत्वात् । प्रकृतसंसर्गेणैकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्यार्थविषयकतया प्रागसंभवेनोपदर्शिततात्पर्यज्ञानस्यैव शाब्दधीहेतुत्वोपगमात् . एवं वाक्यार्थघटकसंसर्गस्थाननुगमे 'घटौ स्तः ' इत्यादौ वाक्यभेदप्रसङ्गाच्च । संसर्गो विशेषणत्वेनैव भासते प्रकारतावच्छेदकत्वादिति तद्भाननिर्वाहाय=उक्तसंसर्गमानस्य निर्वाहार्थ संसर्गघटकोपस्थितेः संसर्गघटकस्य तद्वित्वादेरप्युपस्थिते: शाब्दबोधात् पूर्वमावश्यकत्वात् ( उपस्थितिं विना विशेषणीभूतसंसर्गघटकतद्वित्वादेर्भानासंभवात् ) 'अत्र घटौ स्तः' इत्यत्र च द्विवचनेन द्वित्वस्य तद्वित्वत्वेनोपस्थितेरभावाद् न तद्वित्वव्यापकत्वस्यैतद्देशवृत्तित्वाश्रयत्वसंसग मानं संभवति किं तु द्वित्वत्वेनोपस्थितद्वित्वव्यापकत्वस्यैव. द्वित्वव्यापकत्वं तु विधेयसंसर्गे नास्त्ये. वेति प्रतिपादितमेवेति घटद्वयदशायामपि “अत्र घटौ स्तः' इतिवाक्यस्याप्रामाण्यं तदवस्थमेवेस्पर्थः । ननु यद्युक्ततात्पर्यज्ञानस्यात्र शाब्दबोधकारणत्वं स्यात्तदोक्ततात्पर्यज्ञाने उक्तसंसर्गस्य प्रकारतावच्छेदकतया विशेषणत्वेन तस्य तद्घटकतद्वित्वादिपदार्थानां च भाननिर्वाहायोपस्थितेरपेक्षा स्यात् तथा च द्वित्वस्य तद्वित्वत्वेन रूपेणोपस्थिस्यभावात् तद्वित्वव्यापकत्वभानं विधेयसंसर्गे न स्यादपि न चैवमस्ति- उक्ततात्पर्यज्ञानस्य कारणत्वास्वीकारात् किं तु प्रकृतिसता तद्वित्वव्यापकैतद्देशवृत्तित्वाश्रयत्वीयस्वरूपसंसर्गेण एकपदार्थविशिष्टः एतद्देशवृत्तित्वविशिष्टो योऽपरपदार्थः बटादिस्तबोधनपरम् 'अत्र घटौ स्तः । इति वाक्यमित्याकारकतात्पर्यज्ञानस्यैकात्र शाब्दबोधकारणत्वं स्वीक्रियते अस्मिंश्च तात्पर्यज्ञाने नोक्तसंसर्गस्थ किंचिदवच्छेदकतया प्रवेशो येनावच्छेदकत्वेन विशेषणत्वप्रात्या तस्य तद्धटकतद्वित्वादेश्च मानार्थमुपस्थितेरपेक्षा स्यात्, तथा चोक्तसंसर्गघटकतद्वित्वस्य तद्वित्वत्येनोपस्थित्यभावेपि तद्व्यापकत्वस्य भाने न काप्यनुपपत्तिः ( शेषं पूर्ववत् इत्याशङ्कयाह- प्रकृतेति, प्रकृतसंसर्गेणेत्याधुक्ततात्पर्यज्ञानं हि प्रकृतवाक्यार्थविषयकमेव= 'अत्र घटौः स्तः । इति वाक्यार्थबोधस्वरूपमेवेत्यस्य तात्पर्यज्ञानस्य शाब्दबोधात् प्रागऽसंभवेन कारणत्वं न संभवतीत्युपदर्शितं यत् तत्संसर्गावच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिशाब्दबोधपरमेतद्वाक्यमित्याकारकं तात्पर्यज्ञानं तस्यैवात्र शाब्दबोधकारणत्वं स्वीकार्य तत्र चोक्तसंसर्गस्य प्रकारतावच्छेदकतया विशेषणत्वेन तस्य तद्घटकतद्वित्वादीनां च भानायोपस्थितेरावश्यकत्वात् तद्वित्वत्वेन तद्वित्वस्योपस्थितेरभावाच्च न विधेयसंसर्गे तद्वित्वव्यापकत्वभानं संभवति. उपस्थितिश्च द्वित्वत्वेन द्वित्वसामान्यस्यास्ति द्वित्वमात्रव्यापकत्वं च विधेयसंसर्गे नास्त्येवेति प्रदर्शितमेवेति घटद्वयदशायामपि ' अत्र घटौ स्तः । इत्यस्याप्रामाण्यं तदवस्थमेवेत्यर्थः । तद्वित्वस्य संसर्गघटकत्वे दोषान्तरमप्याह-एवमिति, संसर्गमेदे वाक्यभेदनियमो स्ति. अत्र च तद्वित्वं संसर्गघटकम्, द्वित्वं चापेक्षाबुद्धिजन्यमपेक्षाबुद्धिनाशनाश्यं च बुद्धिश्च तृतीयक्षणे नश्यत्येवेति तथा सह तत्तद्वित्वानामपि नाशेन तद्घटित.
"Aho Shrutgyanam"