________________
( १६२ )
सादर्श:
[ प्रथमाकारके -
समानाधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य ततद्विधेयसंसगांशे भानोपगमस्तु न संभवति तत्तद्वित्वत्वेनानुपस्थितेः ।
न च तदवच्छिन्नस्य संसर्गतथा भाने तेन रूपेणोपस्थितेनऽपेक्षेति वाच्यम्, तत्संसर्गावच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिशाब्दबोध परमित्याकार
तियोगितावच्छेदकत्वमेवोक्तरीत्या विधेयस्यैतदेशवृत्तित्वाश्रयत्वस्य संसर्गे प्राप्तं न तूक्तं व्यापकत्वरूपं तादृशसंसर्गवन्नेतिभेदप्रतियोगितानवच्छेदकत्वम् । एवमत्यन्ताभावघटितं यद् द्वित्ववद्घट निष्ठाभावप्रतियोगिता नवच्छेदकवत्त्वं व्यापकत्वं तदपि नास्ति यतः - एतदेशावृत्तिघटद्वये द्वित्वं तु वर्तते एतदेशवृत्तित्वाश्रयत्वसंसर्गस्तु न वर्तत इत्येतदेशावृत्तिघटद्वये य एतद्देशवृत्तित्वाश्रयत्वसंसस्याभावस्तादृशाभावप्रतियोगितावच्छेदकं यत् तादृशसंसर्गत्वं तद्वत्त्वमेव तादृशे विधेयसंसर्गे प्राप्तं नक्तं व्यापकत्वरूपं द्वित्ववद्यटनिष्ठामात्र प्रतियोगितानवच्छेदकवत्त्वमिति विधेयसंसर्गे उक्तस्य द्विविधस्यापि व्यापकत्वस्य बाधाद् बाधितार्थबोधकत्वाद् घटद्वयाधिकरणपरस्य घटद्वयाधिकरबोधकस्यापि ( घटद्वयसत्तादशायामपि ) तादृशवाक्यस्य = ' अत्र घटौ स्तः ' इतिवाक्यस्याSप्रामाण्यं स्यादित्यर्थः । ननु न घटत्वसमानाधिकरणद्विखमात्र ( यावद्वित्व ) व्यापकत्वं विधेयसंसर्गे उच्यते येनैतद्देशावृत्तिघटद्वये द्विश्वसत्त्वेप्येतद्देशवृत्तित्वाश्रयत्वसंसर्गस्याऽसत्त्वेनाऽव्यापकत्वं स्यात् किं तु तत्तद्विखसमानाधिकरणाभाव ( भेद ) प्रतियोगितानवच्छेदकत्वरूपं तत्तद्वित्वव्यापकत्वमुच्यते. अस्ति चेतदेशवृत्तिघटयनिष्ठतद्वित्वव्यापकत्वं विधेयसंसर्गे द्वित्ववत्येतद्देशवृतिघटद्वये एतद्देशवृत्तित्वाश्रयत्वसंसर्गस्य स्वरूपसंबन्धस्य सत्त्वात् तथा च घटद्वयसत्तादशायाम्
अत्र घटौ स्तः ' इतिवाक्यस्य नाऽप्रामाण्यापत्तिरित्याशङ्क्याह- तत्सद् द्वित्वेति । न संभवतीन्यत्र हेतुमाह - तत्तद्वित्वत्वेनेति, ' अत्र घटौ स्तः ' इत्यादौ द्विवचनेन द्वित्वस्य सामान्यतो द्वित्वत्वेनैव रूपेणोपस्थितिर्भवति न तु तद्द्द्वित्वत्वेन रूपेण येन स्वदीयेनाऽनेन निवेशेनोक्तम् अत्र घटौ स्तः ' इत्यस्याप्रामाण्यं परिहृतं स्यादित्यर्थः । कृष्णभट्टमहाशयानामभिप्रायस्तु तेषामैन टीकायां द्रष्टव्यः ।
6
मनु संसर्गस्य संसर्गघटकपदार्थानां चोपस्थितेरपेक्षा न भवति अत्र च विधेषसंसर्गे एव ब्यापकत्वभानमुक्तं विधेयसंसर्गश्चात्र तदुद्वित्वव्यापकीभूतै तदेशवृत्तित्वाश्रयत्वसंसर्गः ( स्वरूपसंबन्धः ) एवेति तदवच्छिन्नस्य=तद्वित्वत्वावच्छिन्नस्य तदुद्वित्वस्य संसर्गतया=संसर्गघटकतया माने स्वीकृते तेन रूपेण तद्वित्वत्वेन रूपेणोपस्थितेरपेक्षत्र नास्ति येन तद्वित्वत्वेन रूपेणोपस्थिन्यभावाद् विधेयसंसर्गस्य तद्वित्वव्यापकत्वेन भानं न स्यादित्याशङ्क्याह-- न चेति । परिहारमाहतसंसर्गेति, तत्संसर्गावच्छिन्ना = तद्वित्वव्यापकैतद्देशवृत्तित्वाश्रयत्वस्य स्त्ररूप संसर्गेणावच्छिन्ना या नरप्रकारता = एतद्देशवृत्तित्वाश्रयत्वनिष्ठा प्रकारता तन्निरूपिता या तत्तद्विशेष्यता = घटादिनिष्ठ विशेष्यता तच्छालिशाब्दबोधपरम् ' अत्र घटौ स्तः ' इति वाक्यमित्या कारकतात्पर्यज्ञाने उक्त
,
"Aho Shrutgyanam"