________________
पदार्थान्तरान्वयविचारः] व्युत्पत्तिवादः ।
(१६१) व्युत्पत्तिभङ्गः, एवं चैकघटादिव्यक्तिमात्राधिकरणपरस्य 'अत्र घटौ स्तः'इत्यादिवाक्यस्याप्रामाण्यं सुघटमेव-उद्देश्यतावच्छेदकीभूतघटमात्रवृत्तिद्वित्वव्यापकतावास्तादृशवाक्यप्रतिपाद्याया विधेयसंसर्गे बाधादिति । ___ तदपि तुच्छम्- 'अत्र घटौ स्तः' इत्यादौ द्वित्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वस्य द्वित्ववद्घटनिष्ठाभावप्रतियोगितानवच्छेदकवस्वस्य च तदधिकरणावृत्तिघटादिनिष्ठाभावप्रतियोगितावच्छेदकीभूते तत्तद्विधेयसंसर्गे बाधाद् घटदयाधिकरणपरतादृशवाक्यस्याप्यप्रामाण्यापत्तेः । तत्तद्वित्वपसिद्धं शङ्खत्वं शुक्लशखे प्रसिद्धमिति तेषाम् 'पीतशखौ ' इत्यत्रापि विशेष्यविशेषणमावेन मानसंभवात् न 'पीतशङ्खावत्र स्तः ' इत्यत्रोक्तव्युत्पत्तेर्व्यभिचारस्तथा च ' अत्र पीतशखौ स्तः । इत्यत्रापि शङ्खद्वयसत्त्वे विधेयसंसर्गे उद्देश्यतावच्छेदकव्यापकता भासते एव । ज्ञानमिदं भ्रमात्मकमित्यन्यदेतत् किं वात्र व्यापकताभानमपि भ्रमात्मकमेवास्तु. उक्तव्युत्पत्तेः भ्रमप्रमासाचारणत्वादित्यर्थः। - परिहरति- तदपीति, एवं ह्येतद्देशे घटद्वयसत्त्वेपि घटद्वयाधिकरणपरतादृशवाक्यस्य= अत्र घटी स्तः । इतिवाक्यस्य यदिष्टं प्रामाण्यं तन्न स्यादित्यन्वयः । तथा हि- व्यापकत्वं द्विविधं भवति भेदटितमऽत्यन्ताभावघटितं च, तत्र भेदघटितं हि तत्समानाधिकरणान्योन्सधानातियोगितानवच्छेदकत्वं व्यापकत्वं ज्ञेयं यथा- धूमसमानाधिकरणो यो जलादिमान्नेत्याकारकोऽन्योन्यामावस्तत्प्रतियोगी जलादिमान् प्रतियोगितावच्छेदकत्वं जलादी प्राप्तं न तु वही धूमाधिकरणे वह्निमान्नेतिभेदस्याऽसंभवाद् धूमाधिकरणस्य वह्निमत्त्वादेव तथा च वह्नौ धूमसमानाधिकरणभेदप्रतियोगितानवच्छेदकत्वरूपं व्यापकत्वं प्राप्तम् , अत्यन्ताभावघटितं च व्यापकत्वम्- तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवत्त्वं ज्ञेयं यथा- धूमसमानाधिकरणो यः पर्वते जलं नेत्यन्ताभावस्तत्प्रतियोगि जलं प्रतियोगितावच्छेदकं यजलत्वं तद्वत्त्वं जले प्राप्तं वह्नित्वं च तादृशाभावप्रतियोगितानवच्छेदकमेव तद्वत्त्वं वह्नौ प्राप्तमिति वहिधूमव्यापकः । प्रकृते च ' अत्र घटौ स्तः । इत्यत्र विधेयसंसर्गे- एतद्देशवृत्तित्वाश्रयत्वस्य विधेयस्य संसर्गे स्वरूपसंबन्धे उद्देश्यतावच्छेदकव्यापकत्वम्-घटत्वसमानाधिकरणद्वित्वव्यापकत्वं त्वदुक्तव्युत्पत्त्याऽपेक्षितमस्ति तन्न संभवति. तथा हि तदधिकरणावृत्तिघटायन्तरनिष्ठाभावप्रतियोगितावच्छेदकीभूते इति- एतदधिकरणावृत्ति यद् घटद्वयं तस्मिन् एतद्देशवृत्तित्वाश्रयत्वसंसर्गवन्नेति भेदो वर्तते एव तादृशान्योन्याभावप्रतियोगी ह्येतद्देशवृत्तित्वाश्रयत्वसंसर्गवदेव तादृशान्योन्याभाषप्रतियोगितावच्छेदकं चैतदेशवृत्तित्वाश्रयत्वसंसर्ग एवेति तदधिकरणावृत्तिघटाद्यन्तरनिष्ठाभाव ( भेद ) प्रतियोगितावच्छेदकीभूते तत्तद्विधेयसंसर्गे भेदघटितं यद् द्वित्वसमानाधिकरणाभाव ( भेद ) प्रतियोगितानवच्छेद-. कत्वं व्यापकत्वं तदपि नास्ति यतः- एतद्देशावृत्तिघटद्वयेपि द्वित्वं तु वर्तते एतद्देशवृत्तित्वाश्रयत्व. ससर्गवत्त्वं तु न वर्तते इत्येतदेशावृत्तिघटद्वये य एतद्देशवृत्तित्वाश्रयत्वसंसर्गवन्नेतिभेदस्तादृशभेदप्र.
"Aho Shrutgyanam"