________________
(१६०)
सादर्श:
[प्रथमाकारके__ यत्तु द्वित्वाद्यवच्छिन्नोद्देश्यताकबुद्धावुद्देश्यतावच्छेदकव्यापकता नियमतो विधेयसंसर्गे भासते इतिव्युत्पत्तिः, यत्र चौद्देश्यतावच्छेदकविशिष्टाधिकरणाप्रसिद्ध्या तव्यापकत्वमप्रसिद्धं तत्रापि खण्डशः प्रसिद्धानां तत्तद्घटकपदार्थानां विशेष्यविशेषणभावापन्नानां भानसंभवान्न 'पीतशखावत्र ' इत्यादौ तादृश स्वस्यान्वयितावच्छेदकावेपि द्वित्वपर्याप्त्यऽनाश्रयीभूतायामप्याकाशैकव्यक्तावेतद्देशवृत्तित्वाश्रयत्वरूपपदार्थान्तरस्यान्वयादित्यर्थः । तथा च प्रकृतेपि द्वित्वपर्याप्त्यऽनाश्रयीभूतायामप्येकघटव्यक्तावेतद्देशवृत्तित्वाश्रयत्वरूपपदार्थान्तरस्यान्वयसंभवाद् एतदेशे एकघटव्यक्तिदशायामपि ' अत्र घटौ स्तः , ' अत्र घटाः सन्ति ' इति प्रयोगः स्यादेव बाधकाभावादिति भावः । द्वित्वादिनेति तृतीयार्थः प्रकारत्वम् , द्वित्वप्रकारकैकव्यक्तिमात्रविषयक इत्यर्थः ।।
एकघढव्यक्तिदशायाम् ' अत्रं घटौ स्तः । इतिप्रयोगस्याप्रामाण्योपपादकं मतान्तरं परिहारायानुवदति- यत्त्विति, यस्मिन् वोधे उद्देश्यता द्वित्वावच्छिन्ना भवति तस्मिन् बोधे नियमेनोद्देश्यतावच्छेदकव्यापकता विधेयसंसर्गे भासते इति नियमः, यथा 'नीलो घटौ ' इत्युक्ते घटस्वसमानाधिकरणद्वित्वव्यापकता विधेयस्य नीलत्वस्य संसर्गे समवाये भासते तथा च ' अत्र घटौ स्त. ' इत्यत्रापि घटत्वसमानाधिकरणद्वित्वव्यापकत्वं विधेयसंसर्गे-एतद्देशवृत्तित्वाश्रयत्वरूपविधेयस्य संसर्गे स्वरूपसंबन्धे भासते ( आश्रयत्वस्य स्वरूपसंबन्धैन वर्तमानत्वात् ) इति यत्र पौतद्देशविद्यमानघटद्वये घटत्वसमानाधिकरणद्वित्वमस्ति तत्रैतद्देश विद्यमानघटद्वये एतद्देशवृत्तित्वाश्रयत्वस्य स्वरूपसंबन्धोपि वर्तते अर्थात् स्वरूपसंबन्धेनैतदेशवृत्तित्वाश्रयत्वमपि वर्तत ए तथाचैकघटादिव्यक्तिमात्राधिकरणपरस्य एतद्देशे एकघटव्यक्तिदशायामेकघटव्यक्तावेतद्देशवृत्तित्वाश्रयत्वबोधनपरस्य ' अत्र घटौ स्तः । इतिवाक्यस्याऽप्रामाण्यं सुघटमेव स्पष्टमेवास्ति, अप्रामाण्ये हेतुमाह- उद्देश्यतावच्छेदकेति, 'अत्र घटौ स्तः ' इति वाक्येनोक्तव्युत्पत्त्या यत्र यत्र घटत्वासमानाधिकरणं द्वित्वं तत्र तत्रैतदेशवृत्तित्वाश्रयत्वस्य संसर्ग इति प्रतिपाद्यते एतदेशे चक एवं घटो न तु वटद्वयं घटत्वसमानाधिकरणद्वित्वं च देशान्तरस्थद्वितीयघटेप्यस्ति तत्रैतदेशवृत्तिलश्रयत्वसंबन्धो नास्त्येवेति विधेयसंसर्गे घटत्वसमानाधिकरणद्वित्वव्यापकताया बाधेन बाधितार्थप्रतिपादकत्वाद् एतद्देशे एकघटव्यक्तिदशायाम् ' अत्र घटौ स्तः । इतिवाक्यस्य प्रामाण्यापत्तिर्नास्त्ये. चेत्यथः । ननु 'अत्र पीतराखौ स्तः' इत्यादौ द्वित्वसमानाधिकरणं पीतशङ्खस्वमुद्देश्यतावच्छेदकमेव प्रसिद्धं नास्ति येनैतद्देशवृत्तित्वाश्रयत्वादिविधेयसंसर्गे तद्व्यापकता स्यादिति व्यमिचारानैषा व्युत्पत्तिः स्वीकतुं शक्यते येनैकघटव्यक्तिदशायाम् ' अत्र घटौ स्तः । इतिवाक्यस्याऽप्रामाण्यमुक्तरीत्या सुघर्ट स्यादित्याशयोक्तम्- यत्र चेति, उद्देश्यतावच्छेदकं यद्वित्वसमानाधिकरणपीतशङ्खत्वं तद्विशिष्टस्याधिकरणभूतस्य पीतशङ्खस्याऽप्रसिद्धत्वेनोद्देश्यतावच्छेदकस्याप्यप्रसिद्धया तद्व्यापकत्वम्-उद्देश्यतावच्छेदकव्यापकत्वमप्रसिद्धं यत्र तत्रापि तदूघटकपदार्थानाम् व्यापकताघटकपदार्थानां पीतत्वशङ्खत्वादीनां खण्डशः प्रसिद्धानाम्-यथा पीतत्वं पटादौ
"Aho Shrutgyanam"