________________
( १६४ )
सादर्श:
[ प्रथमाकारके
अत्रोच्यते - व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यताकशाब्दबुद्धौ स्वव्याप्यतादृशधर्मवस्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः । व्याप्यत्वं च तद्वदन्यावृतित्वं व्यतिरकिविधेयस्थले । तादृशधर्मवत्त्वं । चोद्देश्यतावच्छेदकताघटकसंबन्धेन बोध्यम् ।
संसर्गस्यापि नाशे प्राप्ते भिन्नभिन्नसंसर्गाणां च संसर्गत्वे प्राप्ते संसर्गभेदाद्वाक्यभेदप्रसङ्ग इत्यर्थः । वाक्यार्थज्ञानभेदे व वाक्यभेद इत्युच्यते वाक्यार्थज्ञानं च संसर्गज्ञानमेव संसर्गज्ञानं चात्र संसर्गघटकतत्तद्वित्वानां मेदेन संसर्गभेदात् प्रतितृतीयक्षणं भिन्नं भिन्नं स्यादेवेति भावः । अत्र - वाक्यार्थघटकसंसर्गस्याननुगमे ' अत्र घटौ स्तः इत्यादी वाक्यभेदप्रसङ्गाचेति- एतद्देशवृत्तित्वं प्रकारो द्वौ घटौ विशेष्यौ तत्तद्वित्वव्यापकेत देशवृत्तित्वीय स्वरूपमेतद्देशवृत्तित्व संबन्धस्तत्र तसद्वित्वं तत्तदपेक्षा बुद्धिजन्यमपेक्षा बुद्धिनाशनाश्यं चेति, नानाविधसंसर्गभेद एव वाक्यभेदनियामकः, संसर्गज्ञानं वाक्यार्थज्ञानं शाब्दबोध इत्येते पर्यायशब्दाः " इति कृष्णभट्टाः । द्वित्वसामान्यस्य संसर्गघटकत्वे तु तस्य द्वित्वत्वेन रूपेणानुगमसंभवात् तद्द्घटितसंसर्गस्याप्यनुगमः संभवत्येव । तत्तद्वित्वव्यक्तीनां त्वनुगमो नैव संभवतीत्यर्थः ।
L
<
अथेत्यादिना (पृ. १५७ ) आशङ्कितस्योत्तरमारभते - अत्रोच्यते इत्यादिना । व्यासज्य - वृत्तिद्वित्वादिनाऽवच्छिन्ना उद्देश्यता यस्थामेतादृशशाब्दबुद्धी, यथा- अत्र घटौ स्तः इत्यत्र घटनिष्ठोद्देश्यता व्यासज्यवृत्तिद्वित्वेनावच्छिन्नास्तीत्येतादृशवाक्यजन्यशाब्दबोधे, स्वव्याप्येत्यत्र स्वम्=विधेयम्, तथा चैतद्देशवृत्तित्वाश्रयत्वलक्षण विधेयव्याप्यो यस्तादृशधर्मः = व्यासज्यवृत्तिधर्मो द्वित्वं तद्वत्त्वमपि विधेयस्य ( एतद्देशवृत्तित्वाश्रयत्वरूपविधेयस्य ) संसर्गतया भासते इति व्युत्पत्तिः, व्याप्यत्वं चात्र व्यतिरेकि विधेयस्थले ( अत्यन्ताभावप्रतियोगिविधेयकस्थले ) तद्वदन्यावृत्तित्वरूपं बोध्यम्, तादृशधर्मवत्त्वम् = विधेयव्याप्यव्यासज्यवृत्तिद्वित्वादिधर्मवत्त्वं चोद्देश्यतावच्छेदकताघटकसंबन्धेन = उद्देश्यतावच्छेदकघटत्वादिव्याप्यपर्याप्तिसंबन्धेन बोध्यम्, तथा च अत्र घटौ स्तः' इत्यत्रैतद्देशवृत्तित्वाश्रयत्वरूपविधेयस्य यथा स्वरूपसंबन्धेनान्वयो भवति तथा एतद्देशवृत्तित्वाश्रयत्वव्याप्यद्वित्वयत्त्यसंबन्धेनाप्यन्ययो भवतीति प्राप्तम्, संबन्धभूतं द्वित्ववत्त्वमपि उद्देश्यतावच्छेदकघटत्वव्याप्यपर्याप्तिसंबन्धेन बोध्यमित्यर्थः । एतदेशे घटद्वयसत्त्वे तादृशघटद्वये घटत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्ववत्त्वं ( द्वित्वं ) वर्तत एवेति तादृशद्वित्ववत्त्वसंबन्धेन घटद्वये एव विधेयस्यैतद्देशवृत्तित्वाश्रयत्वस्यान्वयः संभवति न त्वेकस्मिन् घटे तत्रोक्तसंबन्धेन संबन्धभूतद्वित्ववत्त्वस्यासंभवादिति घटद्वयसत्ये ' अत्र घटौ स्तः ' इति प्रयोग उपपद्यते । एतद्देशवर्तमानघटद्वयवृत्ति द्वित्वं चात्र विधेयव्याप्यमेव एतद्वित्वस्यैतद्देशवृत्तित्वाश्रयत्वरूपविधेयाभावयति देशान्तरस्थघटेऽसत्त्वाद् विधेयवत्येतद्देशवृत्तिघटद्वये एव सत्त्वाचेति बोध्यम् । एतद्देशे एकघटसत्त्वे च वर्तमानैकघटे उद्देश्यतावच्छेदक घटत्वव्याप्यपर्याप्तिसंबन्धेन विधेयव्याप्यद्वित्ववत्त्वस्याभाबाद् घटत्वव्याप्यपर्याप्तिसंबन्धावच्छिन्नविधेयव्याप्यद्वित्ववत्त्वसंबन्धेनैतद्देशवृत्तित्वाश्रयत्वरूपविधे
26
"
"Aho Shrutgyanam"