________________
मादर्श:
[प्रथमाकारकेपिप्पल्यादिपदानामेव कुम्भसमीपपिप्पल्यर्धादौ लक्षणायाः पूर्वपदस्य तात्पर्यग्रहमात्रोपयोगितायाश्च स्वीकारात् ।'
वस्तुतस्तु-तत्रोत्तरपदार्थविशेषितपूर्वपदार्थसमीपार्धादी प्रत्ययान्वयबोधे तादृशसमस्तपदप्रत्ययपदयोरऽव्यवहितपूर्वापरीभावोप्याकाङ्क्षा । एवं तत्र प्रातिपदिकान्तरार्थाभेदान्वयबोधे समानविभक्तिकयोस्ताहशसमस्तपदपदान्तरयोश्च समभिव्याहारोप्याकाङ्क्षा तथा सत्यतिप्रसङ्गविरहात् ।
प्रत्ययार्थान्वयेपि नानुपपत्तिः- उपकुम्भपदस्य विशिष्टस्य विभक्तिप्रकृतित्वाद् विशिष्टस्यैव कुम्भसमीपार्थोंपस्थापकत्वादित्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह- तदनुरोधेनेति, उक्तदोघप्राप्त्यनुरोधेनैव तत्र' उपकुम्भम् । इत्यादौ कुम्भपदस्य कुम्भसमीपे लक्षणा उपेतिपूर्वपदं तात्पर्यग्राहकमिति स्वीक्रियते, तथा चात्र कुम्भपदस्य विभक्तिप्रकृतित्वमस्त्येवाव्यवधानेन पूर्वव. तित्वात् कुम्भसमीपोपि तदर्थ एवेति तत्र प्रत्ययार्थान्वये न काप्यनुपपत्तिरिति कृतं समासे-समस्तस्य विशिष्टस्य शक्तिस्वीकारेणेत्यर्थः । एवम् — अर्धपिप्पली । इत्यत्रापि । इदानीं कुम्भसमीपार्थस्य पदार्थत्वमेव न तु पदार्थैकदेशस्वमिति तत्र सुन्दरादिपदार्थान्तरान्वयेप्यनुपपत्तिर्नास्तीत्यर्थः ।
शाब्दबोधौपयिकाकाङ्क्षासत्त्वे शाब्दबोधानुपपत्तिर्न भवतीति 'उपकुम्भम्' इत्यादौ प्रत्ययार्थस्य पदार्थान्तरस्य चान्वयबोधौपयिकाकाङ्क्षास्वरूपमाह-- वस्तुत इत्यादिना । उत्तरपदार्थेन कुम्भादिना विशिष्टो यः पूर्वपदार्थः समीपादिस्तत्र प्रत्ययार्थान्वयबोधे तादृश=' उपकुम्मम् इत्यादिसमस्तपदप्रत्ययपदयोश्च यः पूर्वापरीभावः स एवाकाङ्क्षा, तस्य चात्र सत्त्वेन पूर्वपदा. प्रत्ययार्थान्वये न काप्यनुपपत्तिः, तथा चात्र ' प्रत्ययार्थनिष्ठप्रकारतानिरूपितपूर्वपदार्थनिष्ठ विशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्न प्रति विभक्त्यव्यवहितपूर्ववर्तिकुम्भपदाव्यवहितपूर्ववर्युप पदज्ञानं कारणम् । आकाङ्क्षा )' इति वक्तव्यम् । पदार्थान्तरान्वयप्रकारमाह- एवमिति । तत्र पूर्वपदार्थे । अत्र च 'अभेदसंबन्धावच्छिन्नसुन्दरत्वाद्यवच्छिन्नप्रकारतानिरूपितसमस्तों पकुम्भादिपदार्थनिष्ठविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति समानविभक्तिकयोः सुन्दरादिपदोपकुम्भादिपदयोः सममिव्याहार आकाङ्क्षा । इत्येवमाकाङ्क्षास्वरूपं वक्तव्यम् । समानविभक्तिकयोस्तादृशसमस्तपदपदान्तरयोः सुन्दरमुपकुम्भम् । इत्यनयोः। तथासति उक्तास्वरूपाकाङ्क्षयोर्नियामकत्वस्वीकारे सति, अतिप्रसङ्गस्य-पूर्वपदार्थे प्रत्ययार्थान्क्यस्य पदान्तरार्थान्वयस्यानुपपत्तेरभावात् । किं वाऽतिप्रसङ्गस्य नाम विशिष्टे समासे शक्तिस्वीकाररूपातिप्रसङ्गस्याभावादित्यर्थः।
• ननु यथा त्वया 'उपकुम्भम् ' इत्यादौ विशिष्टे समासे शक्तिमस्वीकृत्योक्ताकाक्षास्वरूपं च परिकल्प्य तेन पूर्वपदार्थे प्रत्ययार्थस्य पदान्तरार्थस्य चान्वय उपपादितस्तथा 'पाकः' इत्यादा
"Aho Shrutgyanam"