SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अकाङ्क्षावि० ] व्युत्पत्तिवादः । (३७) धात्वर्थपाकादौ प्रत्ययार्थान्वयबोधे प्रातिपदिकान्तरार्थाऽभेदान्वयबोधे च ल्युघञाद्यन्तसमुदायप्रत्यययोरानुपूर्वीरूपाऽव्यवहितपूर्वापरीभावस्य समानविभक्तियस्ता समुदाय पदपदान्तरयोः समभिव्याहारस्य चाकाङ्क्षत्वोपगमे ? दशिताधिकरणार्थ कल्युट्प्रत्ययस्थलीयातिप्रसङ्गस्य दुरुद्धरतया न तत्संभवः । 7 " C अथ घञन्तसमुदायस्य पाकाद्यर्यकत्वे घञन्तसमुदायस्य संयोगविभागत्वादिविशिष्ट वाचकत्वं व्युत्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वनिराकaf भावार्थदन्तस्थले विशिष्टे घञन्ते शक्तिर्न स्वीकार्य किं तु घञो निरर्थकत्वमाश्रिय धातोदेव पाकादौ शक्तिः स्वीकार्या तत्र च धात्वर्थपाकादौ प्रत्ययार्थान्वयबोधे ल्युइघञाद्यन्तसमुदायस्य पाकः पचनम् ' इत्यस्य प्रत्ययस्य च विभक्तेर्यः पूर्वापरीभाव: स एवाकाङ्क्षा, पदार्थान्तरान्वयबोधे च समानविभक्तिकयोस्तादृशसमुदायपदपदान्तरयो:--' शोभनः पाकः ' शोभनं बचनम् ' इत्याद्योः समभिव्याहार एवाकाङ्क्षा, उक्तप्रयोगेषु चैतादृशाकाङ्क्षयोः सत्त्वेन धात्वर्थपाकादौ प्रत्ययार्थान्वयस्य पदार्थान्तरान्वयस्य च न काप्यनुपपत्तिरिति कृतं घञाद्यन्तस्य पाकादौ शक्तिस्वीकारेण तथा च- * प्रत्ययार्थनिष्ठप्रकारतानिरूपितधात्वर्थ पाकादिनिष्टविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति ल्युड्ङ्घनाद्यन्तसमुदायस्य विभक्त्यव्यवहितपूर्ववर्तित्वज्ञानमा - काङ्क्षारूपं कारणम् अमेदसंबन्धावच्छिन्नपदार्थान्तरत्वा सुन्दरत्वा प्रकारता - .निरूपितधात्वर्थपाकादिनिष्ठविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति ल्युड्ङ्घनाद्यन्तसमुदायस्य पाक इत्यादेर्विशेषणवाचक सुन्दरादिपदस्य च समानविभक्तिकत्वज्ञानमाकाङ्क्षास्वरूपं कारणम् ' इतिवक्तव्यमित्याशङ्कयाह - धात्वर्थेति । उक्ते दोषमाह - दर्शितेति, उक्तस्य पूर्वापरीभाचस्य समभिव्याहारस्य च धात्वर्थपाकादौ प्रत्ययार्थान्वयबोधे पदार्थान्तरान्चयबोधे चाकाङ्क्षाखोपगमे हि यत्राधिकरणार्थको ल्युट् भवेत्तत्राप्युक्ता काङ्क्षास्वरूपसत्त्वेन प्रत्ययार्थस्य पदार्थान्तरस्य च धात्वर्थपाकादावेवान्वयापत्तिः स्यान्न तु प्रत्ययार्थे पाकाधिकरणे इष्टश्च तत्र पाकाधिकरणे एवान्वय इति न तत्संभवः = ' पाकः ' इत्यादौ उक्तस्य पूर्वापरीभावस्य समभिव्याहारस्य चाऽऽकाङ्क्षात्वसंभवः । तथा च पाक: ' इत्यादौ तु घनाद्यन्तस्यैव पाकादौ शक्तिस्वीकारेणाऽधिकरणार्थ कल्युट्स्थले पाकाधिकरणे प्रत्ययार्थादीनामन्वये न काप्यनुपपत्तिः । उपकुम्भम् ' इत्यत्र च कुम्भपदस्यैव कुम्भसमीपे लक्षणास्वीकारेण तत्र प्रत्ययार्थदीनामन्वये न काप्यनुपपत्तिरित्यर्थः । 家 " , पाक: ' इत्यादी घञन्तस्यैव पाकादौ शक्तिस्वीकारे दीधितिग्रन्थविरोध प्रदर्शयतिअथेति, दीधितिकारेण हि घञन्तस्य संयोगपदस्य विभागपदस्य च संयोगत्वविभागत्वविशिष्टवाचकत्वं नास्तीति व्युत्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वं निराकृतम्, डित्थकपित्थाया संज्ञा", यदृच्छासंज्ञा, घटपटाचा संज्ञा नैमित्तिकसंज्ञास्ति घटत्व पटत्वादिकं प्रवृत्तिनिमित्तं कृत्वा प्रवृत्तत्वात् एवं यदि घञन्तसंयोगविभागादिपदानामपि संयोगत्वविभागत्वाद्यवच्छिन्ने शक्तिः स्यात्तदा संयोगत्व विभागत्यादिकं प्रवृत्तिनिमित्तं कृत्वा प्रवृत्तत्वाद् "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy