________________
( ३८ )
सादर्श:
[ प्रथमाकारके
-
रणदीधितिकृतां विरुद्धमितिचेत् ? का क्षतिः न हि कस्यचिद् ग्रन्थकृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धौ बाधकम् ।
एवं च यत्र धातुमात्रस्यैव पाकादौ तात्पर्यं तत्र तद्विशेषणवाचकपदाद् द्वितीमैव । यत्र तु कृदन्तसमुदायस्य पाकादौ तात्पर्यं तत्र तादृशपदं तथाविधकृदन्तसमुदायसमानविभक्तिकमेव । तदुक्तं कातन्त्र परिशिष्टकृता- " कथं स्तोक:पाकः ? कृदन्त विशेषणत्वात् ", धात्वर्थैकाधिकरण्ये तु ' स्तोकमोदनस्य पाकः इति स्यादेवेति वदन्ति ।
6
:
नैमित्तिकसंज्ञात्वं स्यात् न च संयोगविभागादिपदानां संयोगविभागत्वायवच्छिन्ने शक्तिरस्ति, अन्यथा-- संयुनक्ति संयुज्यते विभजते ' इत्यादी : संयोगविभागपदयोरभावेन संयोगविभागरूपार्थयोरुपस्थितिर्न स्यात् भवति चात्रापि संयोगविभागरूपार्थोपस्थितिरिति ' संयुनक्ति संयोगः विभजते विभाग: ' इत्यादौ सर्वत्रानुगतस्य धातोरेव : लाघवात् संयोगविभागादी शक्तिः स्वीकार्या न घञन्तसंयोगविभागपदयोरिति घञः साधुत्वमात्रार्थकत्वेन निरर्थकस्वमेवेति दीधितिकारस्यैतद्द्मन्यस्य चामिप्रायस्तथा च वन्तस्य पाकादौ शक्तिस्वीकारे उक्ता - प्रायदीधितिग्रन्थस्य विरोधः स्यात् संयोगादिपदानां पाकादिपदतुल्यत्वादित्यर्थः । उक्तविरोथे स्वक्षत्यभावमाह- केति । हेतुमाह- न हीति । युक्तिबलादितिपदस्य वस्तुसिद्ध इतिपदेनान्वयः, मया हि युक्तिवलेन घञन्तसमुदायस्यैव पाकादौ शक्तिः स्वीकार्येति साधितमिति तत्र दीधितिकारस्य संयोगादिपदानां नैमित्तिकसंज्ञात्वनिराकरणं बाधकं भवितुं नार्हतीत्यर्थः । एवं संयोंगादिपदेष्वपि घञन्तस्यैव संयोगाद्यर्थे शक्तिः स्वीकार्या । धातोरेव पाकादौ शक्तिर्न घञायन्तस्येति स्वीकारे ऽधिकरणल्युट् स्थले विशेषणीभूतशोभनादिपदार्थस्य पाके एवान्वयः स्यान्नाधिकरणे इति दोष: पूर्वमुक्तः स्मरणीयः ।
·
"
7
ननु यदि वन्तसमुदायस्यैव पाकादौ शक्तिस्तदा विशेषणत्राचकस्तोकादिपदात् विशेष्यवापदोत्तर विभक्तिसजातीयविभक्तिप्राप्तिप्रसङ्गेन द्वितीयानुपपत्त्या ' स्तोकं पाकः इति नैव स्वाद् भवति चेत्याशङ्क्य के द्वितीया भवति क च न भवतीति निर्वक्ति एवं चेति । स्तोकं पाकः इत्यत्र धातोरेव पाके तात्पर्यम् = पाकोपस्थापकत्वमिति तद्विशेषणत्राचकपदात् धात्वर्थविशेषणवाचकस्तोकपदादू द्वितीया प्राप्तेत्यर्थः । यत्र च कृदन्तसमुदायस्य पाक इत्यादिपदस्य पाकोपस्थापकत्वं तत्र तादृशपदम् = विशेषणवाचकस्तोकादिपदं तथाविध = पाकाद्यर्थोपस्थान नक्शे यः कृदन्तसमुदायः पाकः ' इति तत्समानविभक्तिकं भवति यथा - ' स्तोकः पाकः ' इति तदाह - यत्र त्विति । अत्र प्रमाणमाह- तदुक्तमिति, स्तोकपदस्य कृदन्तपाकपद विशेषणत्वात् ' स्तोक : ' इतिप्रथमान्तप्रयोगो जात इत्यर्थः । धात्वर्थैकाधिकरण्ये धात्वर्थ सामानाधिकरण्ये =धात्वर्थीभूतपाकादिविशेषणत्वे तु ( धातुमात्रेण पाकोपस्थितौ तु ) द्वितीयापत्या ' स्तोक पाक: ' इत्यपि भवत्येवेत्याह- धात्वर्थेकेति ।
.
,
"Aho Shrutgyanam"