________________
विभत्तयर्थसंख्याबोधवि० ] व्युत्पत्तिवादः ।
तदर्थकपदोत्तरविभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थविषयता लिशाब्दबोधसामग्री अपेक्षिता, तादृशश्च बोधस्तदर्थविशेष्यकः तदर्थनिरूपितभेदान्वयविषयकश्च । 'नीलो घटौ ' इत्यादौ च विशेष्यवाचकपदोत्तर. विभक्त्यैव द्वित्वादिकं प्रत्याय्यते एवं च-क्रियाविशेषणवाचकपदोत्तरविभक्त्याऽबाधितयोरपिं द्वित्वबहुत्वयोः प्रत्यायनाऽसंभवात् तादृशपदोत्तरमौत्सर्गिकमेकवचनमेव भावाख्यातस्थलवदित्यवधेयम् ।।
" केचित्तु " इत्यारभ्य “ इतिवदन्ति ': इतिपर्यन्तं परमतं प्रदर्थ यत् (पृ. १७) विशेषणविभक्तेः साधुत्वमानार्थकत्वोक्त्या विशेषणवाचकपदोत्तरविभक्त्यर्थसंख्यायाः शान्दबोधे भानं न भक्तीति व्यजितं तस्य वचनमात्रेण सिद्धयसंभवात् कार्यकारणभावमाह- तदर्थकेत्यादिना । यथा--'घटोस्ति' इत्यत्र तदर्थकं घटार्थकं पदम् 'घटः' इतिपदं तजन्यशाब्दबोधे घटे या विषयता भासते सा अभेदसंबन्धावच्छिन्नप्रकारताभिन्नैव भासते नीलादिवद् घटस्य कचिदम्यभेदसंबन्धेन प्रकारत्वाभावादिति घटपदोत्तरविभक्त्यर्थसंख्यायाः शाब्दब्रोधे भानं भवति 'एको घटः ''द्वौ घटौ ' इत्यादि । 'नीलो घटः । इत्यत्र च नीले प्रकारता वर्तते साप्यमेदसंबन्धावच्छिन्नैव नीलस्याभेदसंबन्धेन घटे प्रकारत्वादिति — नीलो घटः । इति वाक्यजन्यशाब्दबोधे भासमाना नीलविषयता ह्यऽभेदसंबन्धावच्छिन्नप्रकारतामिन्ना नास्तीति नीलपदोत्तरविभक्त्यर्थसंख्यायाः शाब्दबोधे भानं न भवतीत्यर्थः । तथा च-' किंचिदर्थनिष्ठविशेष्यतानिरूपितामेदसंबन्धावच्छिन्नप्रकारताश्रयत्वज्ञानं तद्वाचकपदोत्तरविपक्त्यर्थसंख्याबोधे प्रतिबन्धकम् ' इतिवक्त. व्यम् । बोधस्वरूपमाह- तादशश्चेति । तादृशः विभक्त्यर्थसंख्यावगाहनशीलः। तदर्थविशे. ध्यकः संख्यावोधकविभक्तिप्रकृत्यर्थविशेष्यको भवति यथा- 'घटः । इत्यत्र, 'नीलो घटः । इत्यत्र च धटपदजन्यो घटविशेष्यकः । द्वितीयं बोधस्वरूपमाह- तदर्थनिरूपितेति, संख्याबोधकविभक्तिप्रकृत्यर्थनिरूपितो यो भेदस्तदन्ययविषयक इत्यर्थः । यथा- 'राज्ञः पुरुषः । इत्यत्र यपि पुरुषनिष्ठविशेष्यतानिरूपिता प्रकारतैव राज्ञि वर्तते तथापि राजनिष्ठा सा प्रकारताऽभेदन्धावच्छिन्ना नास्ति भेदसंबन्धेनैव राज्ञः पुरुषविशेषणत्वादिति राजपदोत्तरसूविभक्त्यर्थै कस्वसख्यायाः शाब्दबोधे भानं भवत्येव यथा- एकराजनिरूपितस्वत्ववान् पुरुषः । इति । तथा च 'राज्ञः पुरुषः : इतिवाक्यजन्यबोधो भेदसंबन्धविषयक एव- राजपुरुषयोरभेदभानाभावात् । प्रत्युदाहरणमाह- 'नीलो घटी' इति, अत्र नीलनिष्टप्रकारताया अभेदसंबन्धावच्छिन्नत्वान्नीम्पदोत्तरविभक्त्या द्वित्वं न प्रत्याय्यते किं तु घटपदोत्तरविभक्त्यैव । एवं चेति-संख्यानोधने झमेदसंबन्धावच्छिन्नप्रकारताभिन्नविषयताज्ञानस्य कारणत्वस्वीकारे क्रियाविशेषणानां च स्तोकादेनां क्रियायामभेदसंवन्धेनैव प्रकारत्योपगमेन तन्निष्ठप्रकारताया अभेदसंबन्धावच्छिन्नत्वात् क्रियाविशेषणवाचकस्तोकादिपदोत्तरविभक्त्यर्थसंख्यायाः शाब्दबोधे भानं नैव भवतीति तारशपदो. त्तरम्= क्रियाविशेषणवाचकस्तोकादिपदोत्तरं साधुत्वार्थमौत्सगिकमेकवचनमेव ' स्तोकं स्थीयते ।
"Aho Shrutgyanam"