________________
( ४० )
सादर्श:
[ प्रथमा कारके -
अभेदान्वयबोधश्च विरूपोपस्थितयोरेवेतिव्युत्पत्तिः - 'घंटो घटः ' ' दण्डवान् दण्डवान्' 'पाकं पचति' इत्यादौ घटत्वदण्डवस्वपाकत्वाद्यवच्छिन्ने तत्तद्रूपावच्छि नस्य तथाविधान्वयबोधानुदयात् ।
अथ तत्प्रयोजकसमानविभक्तिकत्वादेः सत्त्वात् कथं न तादृशबोध: ? । अत्राहुः - यादृशं फलं कचित् प्रसिद्धयति तादृशस्यैवापत्तिः संभवति क्लृप्तसामग्रीबलात् । यादृशं च सर्वथैवाप्रसिद्धं तादृशस्य चाऽऽपादकाऽप्रसिद्धेरापत्तिरशक्यैवेति घटत्वाद्यवच्छिन्नावेशेष्यताकाऽभेदसंसर्गकवटत्वाद्यवच्छिन्नप्रकारताकशाब्दबोधस्य कचिदप्यनुयात् कथं तदापत्तिः ।
इतिभावाख्यातस्थलवत् 'स्तोकं पाकः ' 'स्तोकं पचति' इत्येवं प्रयोक्तव्यमित्यर्थः । अबाधितयो - रिति यत्रक एव कर्ता पाकद्वयं पाकत्रयं वा करोति तत्र पाके यद्यपि द्वित्वहुवयोर्बाधो न भवति तथापि पाकादिक्रियाविशे षणवाचकस्तोकादिपदोत्तरद्विवचनादिविभक्त्या केनापि प्रकारेण पाकादिक्रियागत द्वित्वबहुत्वयोः प्रत्यायनं न संभवत्यनुभवविरोधादिति क्रियाविशेषणवाचकपदोतरमेकवचनमेव साधुत्वार्थं प्रयुज्यते ।
ननु यद्यमेदसंबन्धेनान्वये समानविभक्तिकत्वमेव प्रयोजकं तदा यथा 'नीलो घटः' इतिप्रयोगो भवति नीलवयोश्चाभेद संबन्धेनान्वयो भवति तथा 'घटो घटः' इत्यपि प्रयोगः स्याद् घटस्य स्वात्मन्यभेदसंबन्धेनान्ययोपि स्यात्तत्र घटस्य स्वात्मना मेदाभावाद् योग्यताप्यस्त्येवेत्याशङ्क्याह- अभेदान्वयेति । विरूपोपस्थितयो : = विरुद्धधर्माभ्यामुपस्थितयोरेवा मेदान्ययो भवति यथा-'नीलो घटः' इत्यत्र नीलवघटत्वाभ्यां विरुद्धधर्माभ्यामुपस्थितयोनीलघटयोः । ततद्रूपा - पि-प्रत्याद्यवन्नस्य । तथाविधान्वयः अभेदान्वयः । तथा च घटत्वावच्छिन्ने घट त्वावच्छिन्नस्याभेदसंवन्धेन शाब्दबोधो न भवतीति लब्धम् । एवं दण्डवत्त्वावच्छिन्ने दण्डवस्वावच्छिन्नस्य पाकत्वावच्छिन्ने पाकवावच्छिन्नस्य चामेदान्यवोच विज्ञेयः । 'पार्क पचति' इत्यत्रवाकपदेनानि पाक पाकनेत्र रूोगोपस्थितिर्भवति पचतिपदेनापि कर्तृविशेगतया पाकस्य योपस्थितिर्भवति सा पाकयेनैव रूपेण भवति पाकत्वेनोपस्थिते च पाकत्वेनोपस्थितस्याभेदान्वयबोधासंभवातू 'पाकं पचति' इति प्रयोगोपि न भवति ।
नवदान्यप्रयोजकस्य समानविभक्तिकत्वादेः सत्त्वात् कथं नाऽभेदान्वयबोवः कारणसामग्रीसत्त्वे कार्यावश्यंभावादित्याशङ्कते - अथेति । तत्प्रयोजक = अभेदान्वयप्रयोजक । तादृशबोधः= अभेदान्वयबोधः । उत्तरमाह - यादृशमिति । यथा तन्तुभ्यः पदस्योत्पत्तिरूपफलं भवतीति तन्त्यादिपोत्पादक सामग्रीबलात् पटरूपं फलं संभवति यादृशं च शशविषाणादिकं कचिदपि न प्रसिद्धं तदापादकस्यात्पप्रसिद्धेः तस्य शशविषाणादेरापत्तिरशक्यैव तथा चाsभेद संबन्धावच्छिघटत्वावच्छिन्नप्रकारता निरूपितवत्वावच्छिन्न विशेष्यताकः शाब्दबोधः कदापि कचिदपि न दृष्ट इति तदापत्तिरपि कथं स्यादित्यर्थः । अत्रापत्तिर्नाम तदभावप्रयोजकीभूताभावप्रतियोगिवि
"Aho Shrutgyanam"