________________
'act घट इतिविवादः ]
व्युत्पत्तिवादः ।
( ४१ )
अथ 'घटो नीलघटः ' ' दण्डवान् रक्तदण्डवान्' इत्यादौ तादृशशाब्दबोधस्य प्रसिद्धि:- विधेयकोटावधिकावगाहिनः शाब्दबोधस्य नवीनैः स्वीकारादिति: चेत् ?, तर्हि घटावंशे विशेषणतावच्छेदकविधया नीलादिभाननियामकनीलाद्युपस्थितितात्पर्यज्ञानविशेषादिवटितैव सामग्री घटत्वावच्छिन्नविशेष्यकनीलघटत्वाद्यवच्छिन्नाभेदान्वयबोधप्रयोजिका, तदभावादेव 'घटो घटः' इत्यादिषु न तादृशशाब्दबोधापत्तिरिति केचित् ।
-
या जिज्ञासा यथा दण्डाभावे घटाभावो भवतीति घटाभावप्रयोजकीभूतो यो दण्डाभावस्त-प्रतियोगिनो दण्डस्य जिज्ञासाऽऽरत्तिः । एवमत्र घटत्वावच्छिन्न प्रकारताकघटत्वावच्छिन्न विशेष्यताकशाब्दबोधस्यासंभवाद् योऽमात्र उक्तस्तत्प्रयोजकीभूताभावस्य यः प्रतियोगी तद्विषया या जिज्ञासा सेवापत्तिपदार्थः । किमऽभावप्रयुक्तः उक्तशाब्दबोधाभाव इति पूर्वपक्षिजिज्ञासा, सा च जिज्ञासा न संभवत्युक्तशाब्दबोधस्य सर्वयाऽप्रसिद्धत्वेन तत्कारणस्याप्यऽप्रसिद्धत्वात् सद्विषयाया एव जिज्ञासायाः संभवादित्यर्थः ।
ननु 'घटो नीलवट : ' ' दण्डवान् रक्तदण्डवान्' इत्यादौ घटे नीलघटाभेदान्वयावगाहनेन दण्डवति रक्तदण्डवदभेदान्वयावगाहनेन नवीनैर्विधेयकोटौ = विशेषण कोटावऽधिकावगाहिनः शाब्दबोधस्य स्वीकाराद् यथा- 'वटो नीलघट:' इत्यत्राऽभेद संबन्धावच्छिन्ननीलत्वावच्छिन्नघटत्वावच्छि
प्रकारता निरूपितवटत्वावच्छिन्न विशेष्यताकः शाब्दबोधो भवति तत्र प्रकारतावच्छेदकं विशेष्यतावच्छेदकं चैकं घटत्वमेव तथा 'घटो घटः' इत्यत्रापि घटत्वमेव प्रकारतावच्छेदकं विशेष्यतावच्छेदकं चेति 'घटो घट:' इत्यनेनाप्यमेदसंबन्धावच्छिन्न घटत्वावच्छिन्न प्रकारता निरूपितवटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः कथं न भवति, यथा च- 'दण्डवान् रक्तदण्डवान्' इत्यत्राइमेद संबन्धावच्छिन्न रक्तत्वावच्छिन्न दण्डवत्त्वावच्छिन्नप्रकारता निरूपितदण्डवत्त्वावच्छिन्न विशेष्यताकः शाब्दबोधो भवति प्रकारतावच्छेदकं विशेष्यतावच्छेदकं चैकं दण्डवत्त्वमेवेत्यादौ तादृशशाब्दबोधस्य = रकधर्नप्रकारताकविशेष्यताकशाब्दबोधस्य ( एकधर्मे गोपस्थितयोरप्यमेदान्वयबोधस्य ) प्रसिद्धिरस्येव तथा 'दण्डवान् दण्डवान्' इत्यत्रापि दण्डवत्त्वमेव प्रकारतावच्छेदकं विशेष्यतावच्छेदकं चेति 'दण्डवान् दण्डवान्' इत्यनेनाऽभेद संबन्धावच्छिन्नदण्डवत्त्वावच्छिन्नप्रकारता निरूपितदण्डवत्वावच्छिन्नविशेष्यताकः शाब्दबोधः कथं न भवतीत्याशङ्कते - अथेति । उत्तरमाह - तहति, 'घटो नीलवट:' इत्यत्र न घंटे शुद्धघटस्यामेदान्वयः किं तु नीलवटस्यैव तथा च घटे विशेषणीभूतो यो घटस्तत्र विशेषणीभूतो नीलपदार्थ इति विशेषगतावच्छेदकत्वेन नीलमानं भवति नीलपदार्थमानस्य नियामकं च नीलपदजन्यनीलोपस्थितिर्नील विषयक तात्पर्यज्ञानं च एतादृशनीलभान नियामकसामग्री सत्त्वे एव घटत्वावच्छिने नीलवटत्वावच्छिन्नस्याभेदसंबन्धेयो भवति तस्य मूलं च नीलपदसमभिव्याहार एव, 'घटो घटः' इत्यत्र च नीलपदाभावेन नीलमान नियामक सामथ्र्यभावात् तादृश = अभेदान्वयबोधो न भवति । एवमेव 'दण्डवान् दण्डवान्' इत्यत्रापि रक्तपदाभावेन रक्तमान नियामकसामग्र्यभावादभेदान्वयबोधो न भवतीत्यर्थः ।
"Aho Shrutgyanam"