________________
(४२)
सादर्श:
[प्रथमाकारकेअथ द्रव्यत्वादी धर्मितावच्छेदकतासंसर्गेण प्रसिद्धस्य शुद्धघटत्वाद्यवच्छिन्नप्रकारकाऽभेदान्वयबोधस्य घटत्वादावाऽऽपत्तिः संभवात् ।
ननु यदि नीलपदसत्त्व एवाभेदान्वयबोधो भवति तदा 'घटो रक्तघटः' 'घटः पीतघटः' इत्यादाबप्यभेदान्वयवोधो न स्यात्- नीलपदाभावादितिचेत, तर्हि-घटस्वेतरधर्मोपस्थापकसामऔसत्त्वेऽभेदान्वयो भवति घटत्वेतरधर्मोपस्थापकसामग्र्यमावे चाभेदान्वयबोधो न भवति तथा च "घटो नीलघटः ' 'घटो रक्तघटः 'घटः पीतघटः' इत्यादौ घटत्वेतरस्य नीलत्वरक्तत्वपीतत्वादिधर्मस्योपस्थापकसामग्री नीलादिपद ; सत्त्वादभेदान्वयबोधो भवति । 'घटो घटः' इत्यत्र च घटेतरनीलादिपदामावेन घटत्वेतरधर्मोपस्थापकसामन्यभावादभेदान्वयबोधो न भवतीत्यवधेयम् ।
उक्तरीत्या 'घटो घटः । इत्यत्राभेदान्वयशाब्दबोधापत्तिवारणे कृतपि पूर्वपक्षी 'द्रव्यं वटः' इत्यस्य दृष्टान्तेन 'घटो घटः । इत्यत्राभेदान्वयबोधापत्ति प्रदर्शयति-अथेति । कार्यतावच्छेदककोटी धर्मितावच्छेदकाऽनिवेशप्रयुक्तलाघवेन विषयनिष्ठप्रत्यासत्या शाब्दबोधतत्कारणयोः कार्यकारणभावमाह-- धर्मितेति, अय भावः- शाब्दबोधतत्कारणयोर्द्विधा कार्यकारणभावोस्ति- आत्मनिष्ठप्रत्यासत्त्या विषयनिष्टप्रत्यासत्या च. तत्रात्मनिष्ठप्रत्यासत्त्या नाम शाब्दबोधस्य तत्कारणीभूतोपस्थितियोग्यताज्ञानतात्पर्यज्ञानानां च ज्ञानरूपत्वेन. समवायसंबन्धनात्मनि स्थितिर्भवतीति शाब्दबोधादिप्रतियोगिकेनात्मनिष्ठेन समवायेन कार्यकारणभावः । प्रत्यासत्तिः संबन्धस्तथा च समवायसंबन्धेन शाब्दबोधकारणान्यात्मनि भवंतीति समवायसंबन्धेन शाब्दमोहलपकार्यमप्यारमन्येवोल्पद्यते तथा च-- समवायसंबन्धेन शाब्दबुद्धित्वावच्छिन्ने प्रति समवाय
समिति वयम् । अत्र व समवायेन पटविषयकोपस्थितिसत्त्वेपि समवायेनात्मनि घटत्वावन्छिन्नविषयकशाब्दवापितिः स्यात् तद्वारणाय विषयप्रवेशः कर्तव्य:समवायसंबन्धन घटत्वावच्छिन्नविषयकशाब्दबुद्धिवावच्छिन्न प्रति समवायसंबन्धेन घटत्वावन्छिनविषयकोपस्थितिः कारणमिति, अत्रानन्तधर्मितावच्छेदकानां वाऽनन्त विषयाणां वा प्रवे. शाद् गौरवम् ।
यथा समवायसंबन्धेन ज्ञानमात्मनि तिष्ठति तथा विषयतासंबन्धेन ज्ञानं विषयेपि तिष्ठतीति जानस्वरूपाणां शाब्दबोधतत्कारणानां विषयतासंबन्धन विषयेवि संभवाद् विषयनिष्ठप्रत्यासत्या= विषयनिष्ठा या विषयता तल्लक्षणप्रत्यासत्या संबन्धेन शाब्दबोधतत्कारणयोः कार्यकारणभावः । रषा च विषयता विविधस्वरूपा भवति यथा 'नीलो घटः' इत्यत्र धटनिष्ठा विषयता विशेष्यतारूपा धर्मितारूपा वा, घटत्वनिष्ठा च धर्मितावच्छेदकतारूपा, घटघटत्वयोः समवायनिष्ठा धर्मितावच्छेदकतावच्छेदकसंबन्धरूश, नीलनिष्ठा प्रकारतारूपा, नीलत्वनिष्ठा प्रकारतावच्छेदकतारूपा, नीलनीलत्वयोः समवायनिष्ठा प्रकारतावच्छेदकतावच्छेदकसंबन्धरूपा किं वा प्रकारतावच्छेदकजापच्छेदकतारूपा- समवायसंबन्धस्यैवात्र प्रकारतावच्छेदकतावच्छेदकत्वात्, नीलघटोभयनिता
"Aho Shrutgyanam"