________________
प्रत्यासत्योर्निवचनम् ] व्युत्पत्तिवादः । चाभेदसंसर्गरूपा, इति । तत्र 'नीलो घटः' इति शाब्दबोधो धर्मितारूपविषयतासंबन्धेन घटे जायते, धर्मितावच्छेदकतारूपविषयतासंबन्धेन घटत्वे जायते, धर्मितावच्छेदकतावच्छेदकतारूपविषयतासंबन्धेन घटघटत्वयोः समवाये जायते, प्रकारताख्यविषयतासंबन्धेन नीले जायते, प्रकारतावच्छेदकतारूपविषयतासंबन्धेन नीलत्वे जायते, प्रकारतावच्छेदकतावच्छेदकतारूपविषयतया नीलनीलत्वयोः समवाये जायते, अभेदसंसर्गाख्यविषयतासंबन्धेन च नीलस्य घटस्य चाभेदसंसर्गे जायते, घटघटत्वतत्समबायनीलनीलस्वतत्समवायघटनीलाभेदसंसर्गाणामेषां सर्वेषामेव
नीलो घटः । इतिशाब्दबोधविषयत्वादित्यवधेयम् । एवमन्यत्रापि कार्यकारणभावो विज्ञेयः । तथा च विषयतासंवन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विषयतासंबन्धेनोपस्थित्यादिकं कारणमिति वक्तव्यम् । अत्र च समवायेन देवदत्तात्मन्युपस्थित्यादिसत्त्वे यज्ञदत्तस्यापि शाब्दबोधः स्यादिति तद्वारणाय तत्पुरुषीयत्वनिवेशः कर्तव्यः- यज्ञदत्तीयघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति यज्ञदत्तीयवटत्वावच्छिन्नविषयकोपस्थित्यादिकं कारणमिति ।
आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे हि तत्पुरुषीयत्वप्रवेशस्यापेक्षा नास्ति कार्यकारणयोः सामानाधिकरण्यनियमस्य सर्वप्रसिद्धत्वात्समवायेनात्मन्येवोपस्थित्यादिकं संभवतीत्यात्मन्येव शाब्दवोधस्य संभवादात्मनां च नानात्वेन यदात्मन्युपस्थित्यादिकं कारणं तदात्मन्येव शाब्दबोधरूपकार्यस्यापि संभवादिति विषयनिष्ठप्रत्यासत्यपेक्षया लाघवम् । किं तु समवायेन यज्ञदत्तात्मनि घटस्वावच्छिन्नविषयकोपस्थितिसत्त्वेपि पटत्वावच्छिन्नविषयकशाब्दबोधापत्तिरस्तीति तद्वारणाय विषयनिवेशः कर्तव्यः- पटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति पटत्वावच्छिन्नविषयकोपस्थितिः कारणमिति विषयनिष्टप्रत्यासत्त्यपेक्षया गौरवम् ।
विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे हि विषयप्रवेशस्यापेक्षा नास्ति विषयतासंबन्धेन शान्द, बुद्धित्वावच्छिन्नं प्रति विषयतासंबन्धेनोपस्थित्यादिकं कारणमित्युक्ते विषयस्य घटादेविषयताख्यसंबन्धान्तःप्रवेशेन पृथक् निवेशापेक्षाऽभावात्, कार्यकारणयोः सामानाधिकरण्यनियमेन च यदा कारणीभूतमुपस्थित्यादिकं विषयतासंबन्धेन घटे तदा तत्कार्यस्य शाब्दबोधस्यापि विषयतासंबन्धेन घटे एव संभवात् . विषयभेदेन विषयनिष्ठविषयतानामपि मिन्नत्वाद् यस्मिन्नेव घटे विषयतासंबन्धेनोपस्थित्यादिकं तस्मिन्नेव घटे तत्कार्यस्य शाब्दबोधस्यापि संभवात् पटादौ चासंभवादिति विषयनिवेक्षापेशाभाव इत्यात्मनिष्ठप्रत्यासत्यपेक्षया लाघवम् । किं तु विषयस्य घटादेरेकरवेन देवदत्तयज्ञदत्तादिसकालपुरुषसाधारणत्यात् संबन्धभूताया विषयताया अप्येकत्वेन सर्वसाधारणत्वाद् य एव घटो देवदत्तज्ञानविषयः स एव यज्ञदत्तज्ञानविषयोपि भवितुमर्हत्येवेति विषयतासं. बन्धेन यज्ञदत्तस्योपस्थित्यादिसत्त्वे देवदत्तस्यादि शाब्दबोधः स्यात् कार्यकारणयोरुपस्थितिशा. लेबोधयोर्विषयतासंबन्धेन घटे एवं सत्त्वेन सामानाधिकरण्यस्याऽक्षुण्णत्वाद् उपस्थितिशाब्दबोध. समवायिनोर्यज्ञदत्तदेवदत्तयोर्भेदस्याऽकिंचित्करत्वाद् विषयतासंबन्धेन तयोरुपस्थितिशाब्दबोधानधिकरणवाद् संप्रति विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावपक्षस्वीकारेण विषयतासंबन्धेन घटादे
"Aho Shrutgyanam"