________________
( ११० )
सादर्श:
[ प्रथमाकार के
प्रकार कशाब्दबोधोत्पत्त्या तत्राख्यातजन्य कृत्युपस्थितेर्हेतुत्वकल्पनमावश्यकम्, तया च तत्तदर्थविशेषान् निवेश्यात्मनिष्ठप्रत्यासत्या पदार्थोपस्थितेर्हेतुत्वकल्पने शक्यलक्ष्य सहस्त्रार्थभेदेनाख्यातजन्योपस्थितेः कारणता बाहुल्यमित्यर्थविशेषाननिवेश्य धात्वर्थप्रकार कान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः समानविशेष्यतामत्यासत्यैव हेतुत्वमुपेयते तथा च तादृशकारणबाधेन चैत्रादेर्धात्वर्थज्ञानविशेष्यतया चैत्रो जानाति ' इत्यादौ भानं न संभवति ।
•
'पचति
इत्यत्राश्रयता
'कृतेरुपस्थितिः स्वीकार्या कृत्युपस्थितेश्च शाब्दबोधं प्रति हेतुत्वमत्रश्यं स्वीकार्यमन्यथात्र कृते: प्रकारत्वं न स्यात्, तथा च शाब्दबोधोपस्थित्यो स्थलमेदेन भिन्नत्वाद् आत्मनिष्ठप्रत्यासत्त्या हेतुत्वे हि ' पचति ' इत्यत्र पाककृत्युपस्थितित्वेन कारणता ' जानाति ' इत्यत्राश्रयत्वोपस्थितिस्पेनकारणता ' नश्यति' इत्यत्र नाशप्रतियोगित्वोपस्थितित्वेन कारणतेत्येवं तत्तदर्थविशेष (पाककृत्यादि प्रवेशः स्यादिति तत्तदर्थविशेषान्निवेश्यात्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेर्हेतुत्वे इत्यादावाख्यातजन्यकृत्याद्युपस्थितेर्हेतुत्वं प्राप्तं तत्राख्यातस्याप्यनेके शक्यार्था लक्ष्यार्था भवन्तीति शक्यलक्ष्य सहस्रा (अनेका) र्थभेदेन तत्तद्विषयकाख्यातजन्योपस्थितेरपि भेदात् कारणतावाहुल्यम्===अनन्तकार्यकारणभावकल्पनेन गौरवं स्याद् यथा - ' पचति इत्यत्र पाककृतिप्रकार कशाब्दबोधं प्रत्याऽऽख्यातजन्यकृत्युपस्थितेः कारणत्वम् ' जानाति का र कशाब्दबोधं प्रत्याऽऽख्यातजन्याश्रयत्वोपस्थितेः कारणत्वमित्याऽऽत्मनिष्ठप्रत्यासत्त्या न कारणत्वमुपस्थिते: स्वीकार्य किं तु विषयनिष्ठप्रत्यासत्त्या तथा चोक्तरीत्याऽख्यातोपस्थिताख्यातार्थकृत्यादिप्रवेशस्यापेक्षाभावेन कारणताबाहुल्यं न स्यात् तथाचार्थविशेषानऽ निवेश्य ' धात्वर्थकरकान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्त्या प्रत्ययजन्योपस्थितेः कारणत्वम् ' इत्येवमनु · गत एकः कार्यकारणभाव: स्त्रीक्रियते 'पचति' इत्यादौ च अनुकूलतासंबन्धेन पाकवती कृतिः : इत्येवं धात्वर्य प्रकारकाकृतिविशेष्यक एव शाब्दबोधः स्वीक्रियते. अत्र च धात्वर्थः । पाकः कृतौ प्रकारः कृतौ च विशेष्यता वर्तते तादृशकृतिनिष्ठविशेष्यता संबन्धेन शाब्दबोध आख्यातरूपप्रत्ययजन्यकृतिविषयको पस्थितिश्च कृतौ वर्तते एव कृतेः प्रत्ययेनोपस्थितत्वाद्विशेष्यत्वाचेत्यर्थः । तथा च धात्वर्थप्रकारकान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः कारणत्वस्वीकारे च तादृश'कारणबाधेन = 'चैत्रो जानाति' इत्यत्र चैत्रस्य प्रत्ययेनोपस्थित्यभावात् चैत्रे समान विशेष्यता संबन्धेनोपस्थित्यभावेन धात्वर्थज्ञानप्रकारक चैत्र विशेष्यकबोधासंभवात् चैत्रादेर्धात्वर्थज्ञानविशेष्यतया भा न संभवतीति जानाति ' इत्यत्राख्यातस्याश्रयत्वार्थकत्वं स्वीकार्यम् अथ च ' पचति इत्यत्र यथा ' अनुकूलतासंबन्धेन पाकवती कृतिः ' इत्येवमाख्यातार्थकृतिविशेष्यकबोधो जायते तथा “चैत्रो जानाति ' इत्यत्रापि ' स्वरूपसंबन्धेन चत्रनिष्ठा निरूपितत्वसंबन्धेन ज्ञानवत्याऽऽश्रयता' इत्येवमाख्यातार्थाश्रयता विशेष्यकधात्वर्थप्रकारकः शाब्दबोधः स्वीकार्य इति 'पचति । इत्यादाविव ' जानाति इत्यादावप्याख्यातस्य सार्थकत्वं प्राप्तमेवेत्यर्थः । अत्र चाश्रयताया विशे
C
"Aho Shrutgyanam"