________________
मेदान्वपत्रादः ]
व्युत्पत्तिवादः ।
( १११ )
यदि च धातुत्वप्रत्ययत्वादीनामनुगतानां दुर्निर्वचतया नैतादृशानुगत कार्यकारणभावकल्पनं संभवतीति मन्यते ? तदापि यत्र ज्ञाधातोरेव पाकादौ लक्षणा तत्र ' जानाति ' इत्यादिवाक्यात् पाककृत्यादिप्रकारकान्वयबोधोत्पत्त्या ज्ञाधात्वर्थप्रकारकान्वयबोधे तदव्यवहितोत्तरतिप्त्वादिप्रकारकज्ञानजन्योपस्थितेः समानविशेष्यत्वप्रत्यासत्त्या हेतुतायास्तत्र कल्पनीयतया तादृशकारणबाधात् 'चैत्रो जानाति ' इत्यादौ चैत्रादेर्ज्ञानविशेष्यतया भानानुपपत्तिर्दुवरैिवेति ।
*यत्वेन विशेष्यता संबन्धेनाख्यातरूपप्रत्ययजन्योपस्थितिरप्याश्रयतायां वर्तत ( आश्रयताया आख्यातप्रत्ययेनोपस्थितत्वात् ) शाब्दबोधोपि वर्तते एव शाब्दबोधेप्याश्रयताया एव विशेव्यत्यात्. ) इत्येषैव समानविशेष्यताप्रत्यासत्तिः धात्वर्थो ज्ञानं चाश्रयतायामेव प्रकार इति ' धात्वर्थप्रकारकान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः समानविशेष्यतासंबन्धेन कारणत्वम् ' इति कार्यकारणभावोप्युपपन्नः, आख्यातस्य ' जानाति ' इत्यादी सार्थकत्वमप्युपपन्नमित्यर्थः ।
यदि चेति - ननु यदि धातुत्वप्रत्ययत्वादीनामनुगतत्वेन निर्वचनमुपपद्येत तदा 'धात्वर्थप्र कारकान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः कारणत्वम् ' इति कार्यकारणभावोप्युपपद्येत नैवमस्तीति नोक्त कार्यकारणभावकल्पनं संभवतीति. ( यदि मन्यते ? ) उक्तकार्यकारणभावानुपपत्त्या धात्वप्रकारकान्वयata प्रत्ययजन्योपस्थितेरकारणत्वात् ' जानाति इत्यत्राख्यातप्रत्ययेनाश्रयतोपस्थितेरपेक्षाभावादनुपस्थितस्य च प्रकारत्वविशेष्यत्वे न संभवत इत्याश्रयताविशेष्यकशाब्दबोधं त्यक्त्वा ' चैत्रो जानाति ' इत्यत्र ' माश्रयतासंबन्धेन ज्ञानवश्चित्र ' इत्येवं चैत्रविशेष्यक एव बोधः स्वीकार्यो न स्वाश्रयताविशेष्यक इत्युक्तबोधे आश्रयतायाः संसर्गत्वेन मानेन प्रकारतया विशे
यावा मानाभावात् तत्राख्यातस्य वृत्तिकल्पनं व्यर्थमेवेति ' जानाति ' इत्यादावाख्यातस्य निरर्थकत्वमेव : आश्रयतासंबन्धेन ज्ञानमश्चैित्रः ' इत्यत्राश्रयतायाः संसर्गमात्रत्वेन संसर्गस्याकाङ्क्षाबलेन मानसंभवादाख्यातेन तदुपस्थितेरपेक्षैव नास्ति येनात्राख्यातस्याश्रयतार्थकत्वं कल्पनीयं स्यादिति यदि मन्यते इत्यर्थः ।
एवमाक्षिप्य पुनरपि ' जानाति " इत्यादावाख्यातस्य सार्थक्यमुपपादयति- तदापीति । तदापि=धातुत्वप्रत्ययत्वादीनामननुगततया धात्वर्थप्रकारकान्वयबोधे प्रत्ययजन्योपस्थितेरका - रणत्वेपि यत्र ज्ञाधातोः पाके लक्षणा तत्र ' जानाति ' : इतिवाक्यात् अनुकूलता संबन्धेन पाकविशिष्टकृतिमांश्चैत्रः ' इत्येवं पाककृतिप्रकारकान्वयबोधोत्पत्त्या ज्ञाधात्वर्थप्रकारकान्वयबोधे= कृतिनिष्ठविशेष्यता निरूपितज्ञाधात्वर्थप्रकारताकान्वयबोधं प्रति ज्ञाधात्त्रऽन्यवहितोत्तरतिप्त्वादिप्रकारकतिबादिज्ञानजन्यतिबर्थ कृतिविशेष्यको पस्थितेः समानविशेष्यताप्रत्यासत्यास्तत्र लक्षणास्थळे देतुता कल्पनीया ज्ञाधातुत्व तिष्यादीनामनुगततया च नैतत्कार्यकारणभावकल्पने काचिदनुपपत्तिरित्यर्थः । तथा च-- ज्ञाधातुत्वतिप्त्वादीनामनुगततयोक्तलक्षणास्थले इव मुख्यार्थज्ञानपराधातुप्रयोगस्थलेपि ज्ञाधात्वर्थज्ञानप्रकारकान्वयबोधे ज्ञाधात्वव्यवहितोत्तर तिप्त्वादिप्रकारकतिवादिज्ञानजन्योपस्थिते: समान विशेष्यताप्रत्यासत्त्या हेतुत्वम् । इत्येवं कार्यकारणभावस्य
C
"Aho Shrutgyanam"
“
L