________________
समानवचनत्ववादः ]
व्युत्पत्तिवादः ।
(७)
,
न च " पदार्थः पदार्थेनान्वेति " इति व्युत्पत्तिविरोधः, 'संपन्नो व्रीहिः इत्यनेकत्रीहितात्पर्यकेप्येकवचनदर्शनेन तादृशव्युत्पत्तिसंकोचस्यावश्यकत्वात् ।
यदि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्स्व संबन्धेन प्रकृत्यर्थ एवैकत्वान्वयः, व्रीहित्वजातेः स्वरूपत एव व्रीह्यादिपदशक्यतावच्छेदकतयाऽन्वयितावच्छेदकरूपेणाSनुपस्थितेस्तत्र पदार्थान्तरस्याऽन्वयानुपपत्तेरिति मन्यते ? तदा प्रकृतेऽपीह इयेव गतिः ।
ननु ' पदार्थान्तरनिष्टप्रकारतानिरूपित विशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितिः कारणम् इतिनियमेन पदार्थस्य नीलादेः पदार्थेन घटादिनैवान्चयो भवति घटादेरन्वयितावच्छेदकरूपेण घटत्वेन रूपेणोपस्थितेर्न तु घटत्वादिना, घटत्वादेर्घटत्वत्वादिरूपेणोपस्थितेरभावात् स्वरूपत एवोपस्थिति स्वीकारात्, उक्त नियमानङ्गीकारे तु लोमलाङ्गलादीनामपि दीर्घ चाभिप्रायेण ' दीर्घः पशुः ' इतिप्रयोगः स्यात् पश्वेकदेशेन लोमादिना दीर्घस्वान्वये बाधकाभावप्रसङ्गात् न च लोमादिनात्र दीर्घत्वान्वय इष्ट इति पदार्थ: पदार्थेनैवान्वेति न तु पदार्थैकदेशेनेतिव्युत्पत्तिः स्वीकार्या तथा च ' वेदाः प्रमाणम्' इत्यत्रापि एकत्वपदार्थस्य वेदरूप पदार्थेनैवान्वयो युक्तो न तु वेदैकदेशेन प्रमितिकरणत्येनेति कथमेकत्वस्य प्रमितिकरणत्वेऽन्वय उक्त इत्याशङ्क्याह- न चेति । ' संपन्नो व्रीहि:' इति वाक्यस्य नोकव्रीहिकणसंपन्नत्वे तात्पर्यं किं त्वनेकव्रीहिसंपन्नत्वस्ति तथाप्यत्रैकत्रचनदर्शनेनैकत्वस्य चानेकव्रीहिषु बाधेन व्रीहित्वजातायेवान्वयोस्तीत्यसति बाधके पदार्थः पदार्थेनैवान्वेति सति बाधक तु पदार्थैकदेशेनाप्यन्वे तीति व्युत्पत्तिसंकोचे कृते ' संपन्नो व्रीहिः ' इत्यत्रेव ' वेदाः प्रमाणम्' इत्यत्राप्येकत्वपदार्थस्य पदार्थैकदेशेन प्रमितिकरणत्वेनान्वये न कोपि दोषः । वस्तुतस्त्वयं नियमः संख्यातिरिक्तस्थलार्थ मस्ति संख्यायास्तु पदार्थैकदेशेनाप्यन्वयो भवति ' संपन्नो व्रीहिः' इत्यादिप्रयोगदर्शनात तथा वेदाः प्रमाणम्' इत्यत्राप्येकत्वस्य पदार्थैकदेशे प्रमितिकरणत्वेऽन्वये न दोषः ।
6
9
C
ननु गत्यभावे एव नियमसंकोच उचितो न तु सत्यां गतावपीति न व्रीहित्वजातावेकत्वान्चयो युक्तः - व्रीहित्वं हि स्वरूपत एव व्रीहिपदस्य शक्यतावच्छेदकमस्तीति व्रीहिपदेन व्रीहित्वस्य स्वरू पस एवोपस्थितिर्भवति न त्वन्वयितावच्छेदकेन व्रीहित्यत्वेन रूपेण पदार्थान्तरान्वयं प्रति चान्वयितावच्छेदकरूपेणोपस्थितिः कारणमस्तीति न व्रीहित्खजातावत्रैकत्वान्वय उपपद्यते किं तु स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंबन्धेन प्रकृत्यर्थे = व्रीहिष्वेवैकत्वान्वयः संभवतीति नोक्तनियमर्सकोचस्यावश्यकतेत्याह-- यदीति, स्वं एकत्वं तदाश्रयीभूतं यत् प्रकृत्यथतावच्छेदकं व्रीहित्वं तत्वसंबन्धेन त्रीहित्यवत्त्वं संबन्धरूपं व्रीहिष्वस्त्येवेत्यर्थः । उत्तरमाह - तदेति, यथा 喜 संपन्नो व्रीहिः ' इत्यत्रैकत्वस्य व्रीहिष्वेवान्वयस्त्वयोपपादितस्तथा प्रकृतेपि = ' वेदाः प्रमाणम् ' इत्यत्रापि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंबन्धेनैकत्वस्य वेदेष्वेवान्वयो ज्ञेयः । स्वं एकत्वं तदाश्रयीभूतं यत प्रकृत्यर्थतावच्छेदकं प्रमितिकरणत्वं तद्वत्त्वसंबन्धेन वेदेष्वेवैकत्वस्यान्ययः । प्रमितिकरणत्ववत्त्वं वास्त्येव वेदेष्वित्यर्थः
"Aho Shrutgyanam"