________________
अथ टीकाकारकृता शिवाष्टपदी
भज विषमविलोचनवेशम् । चन्द्रकिरणसमशुभ्रसुदर्शनशैलनितम्बनिवेशम् । ध्रु० ॥ निटिलविलोचनलोचनतः कृतभस्मशरीररतीशम् । हिमनिधिसानुसमाधिसमश्चितचक्रधरं धरणीशम् ॥ १॥ यामवतीपतिपूर्वकलापरिकलितविशालललाटम् । हैमवतीपरिरम्भपवित्रितचित्रितवत्सकपाटम् ॥ २॥ व्यालवलयकमनीयकरम्बितभूषितहस्तसरीजम् । शैलसुतावदनेन्दुविलोचनचञ्चलहृदयमनोजम् ॥ ३ ॥ विष्णुपदीपरिभोगपरिष्कृततुङ्गकपर्दकतल्पम् । गानकलाकुतुकेन नवीकृतताण्डवकल्पमनल्पम् ॥४॥ भक्तजननमरणादिमहास्रवमोचनकौशलवेषम् । त्रिभुवनमण्डलमण्डनपण्डितवन्दितपादविशेषम् ॥ ५ ॥ विष्णुमतीयतृतीयविचक्षणवल्लभवादनिदानम् । चाटुकथाचातुर्यनिकृन्तितगिरिजामानसमानम् ॥ ६ ॥ संहृतसागरमथनविनिस्मृतदारुणदारदशोकम् । मन्मथविशिखभुजगविषाहतिसंहतिसमवितलोकम् ॥ ७ ॥ गीतमिदं हरहर्षकरं किल सुखयतु पुररिपुदासम् । अष्टपदीनिपुणाय पिनाकी वितरतु निजपदवासम् ॥ ८॥ म. म. सी. आई. ई. श्रीगङ्गाधरशास्त्रिणामन्तेवासी
चञ्चनदीयः सुदर्शनाचार्यशास्त्री
काशी.
"Aho Shrutgyanam"