________________
(९६)
सादर्श:
[प्रथमाकारकेवारणसंभवादिति वाच्यम्, मन्मते तादृशप्रत्यक्षं प्रति तथाविधसामन्याः प्रतिबन्धकताधिक्येपि निरूपितत्वादिसंबन्धावच्छिन्न प्रतियोगिताकराजाद्यभावविशिष्टस्वत्वादिवैशिष्टयबोधे तथाविधसामग्याः प्रतिबन्धकताऽकल्पनेन तदंशे साम्यात, तथा च पूर्वोक्तराजस्वत्वाभाववान पुरुषः सुन्दर इत्यादिविशिष्टवैशिष्टयप्रत्यक्षं प्रति 'राज्ञः पुरुषः' इत्यादिसामग्र्याः प्रतिबन्धकत्वकल्पनं संसर्गतावादिनां मतेऽधिकमिति ।
न च स्वत्वादेः प्रकारतामते घटप्रत्यक्षादिकं प्रति तादृशसामग्रीप्रतिबन्धकववान् पुरुषः सुन्दरः' इति प्रत्यक्षस्य वारणसंभवात् अनुत्पत्तिसंभवात् न शाब्दबोधसामग्र्या: प्रतिबन्धकत्वकल्पनापत्तिः । यद्युक्तप्रत्यक्षोत्पत्तिः संभवेत् तदोक्तप्रत्यक्ष प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिः स्यादपि नैवमस्तीत्यर्थः ।
प्रकारतावादी प्रत्युत्तरमाह- मन्मत इति, उक्तरीत्या प्रकारतामते तादृशप्रत्यक्ष प्रति='स्वत्वसंबन्धेन राजाभाववान् पुरुषः सुन्दरः । इति प्रत्यक्षं प्रति तथाविधसामग्र्याः= राज्ञः पुरुषः । इति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वाधिक्येपि निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकराजाद्यभावविशिष्टस्वत्वादिवैशिष्टयबोधे= निरूपितत्वसंबन्धेन राजाभाववत्स्वत्वं प्रमेयम् । इति निरूपितत्वसंबन्धेन राजाभावविशिष्टे स्वत्वे प्रमेयत्ववैशिष्टयावगाहिप्रत्यक्षं प्रति तथाविधसामन्या:= राज्ञः पुरुषः । इति शाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिर्नास्ति यतः-- 'राज्ञः पुरुषः' इत्यत्र प्रकारतामते स्वत्वस्याश्रयतासंबन्धेन पुरुषेऽन्वयः स्वत्वे च निरूपितत्वसंबन्धेन राजान्बयोस्तीति निरूपितत्वसंबन्धेन राजविशिष्टं स्वत्वं पुरुषवृत्तित्वेन भासते निरूपितत्वसंबन्धेन राजविशिष्टस्वत्वज्ञानस्य च ' निरूपितत्वसंबन्धेन राजाभाववरस्वत्वम् । इतिज्ञानमेव बाधः 'राज्ञः पुरुषः' इतिशाब्दसामग्री चोक्तबाधाभावेन घटितास्ति. ' निरूपितत्वसंबन्धेन राजाभाववरस्वत्वं प्रमेयम् । इति प्रत्यक्षे च 'निरूपितत्वसंबन्धेन राजाभाववत्स्वत्वम्' इतिज्ञानं कारणं तच्च नास्तीति कारणविरहात्स्वयमेव ' निरूपितत्वसंबन्धेन राजाभाववत्स्वत्वं प्रमेयम् ' इति प्रत्यक्षस्योत्पत्तिर्न संभवतीति नेशप्रत्यक्ष प्रति शाब्दसामन्याः प्रतिबन्धकत्वकल्पनापत्तिरिति तदंशे साम्यात् यथा तव 'स्वत्वसंबन्धेन राजामाक्वान् पुरुषः सुन्दरः' इति प्रत्यक्ष प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिर्नास्ति मम चास्ति तथा 'निरूपितत्वसंबन्धेन राजाभाक्वत्स्वत्व प्रमेयम् ' इतिप्रत्यक्षं प्रति शाब्दसामन्याः प्रतिबन्धकत्वकल्पनापत्तिर्मम नास्ति तव चास्तीत्येतदंशे साम्यात्= साम्येपि 'राजस्वत्वाभाववान् पुरुषः सुन्दरः' इति प्रत्यक्ष प्रति शाब्दासामग्र्याः प्रतिबन्धकत्यकल्पनापत्तिर्मम नास्ति तव त्वस्त्येवेत्येतत्प्रयुक्तं गौरवं तव मतेऽधिकमेवेत्याह- तथा चेति ।
पुनः संसर्गतावादी प्रकारतामते गौरवं प्रदर्शयति- न चेति । स्वत्वादेः प्रकारत्वस्वीकारेऽनुपस्थितस्य प्रकारत्वासंभवात् डसादिपदेनोपस्थितिः स्वीकार्या । शाब्दसामग्र्याः प्रतिबन्धकत्वे शाब्दसामग्रीघटकसर्वेषामेव पदार्थानां प्रतिबन्धकत्वं प्रामोतीति 'राज्ञः पुरुषः' इति वाक्यजन्य
"Aho Shrutgyanam"