Page #1
--------------------------------------------------------------------------
________________
आचार्यशर्ववर्मप्रणीतं
कातन्त्रव्याकरणम्
द्वितीयो भागः
द्वितीयखण्डम्
व्याख्याचतुष्टयोपेतम्
कुलपतेः प्रो. राममूर्तिशर्मणः प्रस्तावनया समलङ्कृतम्
सम्पादकः
डॉ. जानकीप्रसादद्विवेदी
सम्पूर्णानन्द संस्कृत विश्वविद्यालयः वाराणसी
Page #2
--------------------------------------------------------------------------
________________
ISBN 81-7270-005-9 (Vol. II, Pt. II) ISBN 81-7270-006-7 (Set)
Page #3
--------------------------------------------------------------------------
________________
SARASVATIBHAVANA-GRANTHAMALA
( Vol. 135 )
KATANTRAVYAKARANA
OF
ACĂRYA SARVAVARMA
[PART-TWO)
[VOLUME-2) with four Commentaries 'VRTTI' & 'Tina'
Ву ŚRI DURGA SINGH "KĀTANTRAVRTTIPAÑJIKĀ
ŚRI TRILOCANADĀSA 'KALAPACANDRA'
Ву KAVIRAJA SUŞEYAŠARMA
'SAMIKSA
By Editor
FOREWORD BY PROF. RAMMURTI SHARMA VICE-CHANCELLOR
EDITED BY DR. JANAKĪPRASADA DWIVEDI
Reader, Sanskrit Department Central Institute of Higher Tibetan Studies (Deemed University) Samath, Varanasi
10.
VARANASI
1999
Page #4
--------------------------------------------------------------------------
________________
Research Publication Supervisor - Director, Research Institute, Sampurnanand Sanskrit University Varanasi
Published by -
Dr. Harish Chandra Mani Tripathi Director, Publication Institute Sampurnanand Sanskrit University Varanasi-221 002
Available at - Sales Department,
Sampurnanand Sanskrit University Varanasi-221 002
First Edition, 500 Copies Price: Rs. 600.00
Printed by - Anand Printing Press C27/170-A, Jagatganj Varanasi-221 002.
ISBN: 81-7270-005-9 (Vol.II,Pt.II) ISBN :81-7270-006-7 (Set)
Page #5
--------------------------------------------------------------------------
________________
सरस्वतीभवन-ग्रन्थमाला
[१३५]
आचार्यशर्ववर्मप्रणीतं
कातन्त्रव्याकरणम्
[ द्वितीयो भागः ] (द्वितीयखण्डम्)
श्रीदुर्गसिंहकृताभ्यां कातन्त्रवृत्ति-टीकाभ्यां श्रीमत्रिलोचनदासकृतया 'कातन्त्रवृत्तिपञ्जिका'-टीकया कविराजसुषेणशर्मकृतया 'कलापचन्द्र'-टीकया
__ सम्पादकीयसमीक्षया कुलपतेः प्रो. राममूर्तिशर्मणः प्रस्तावनया च समलङ्कृतम्
सम्पादकः डॉ० जानकीप्रसादद्विवेदः
उपाचार्यः, संस्कृतविभागे केन्द्रीय-उच्च-तिब्बतीशिक्षा संस्थानम्
सारनाथः, वाराणसी
कट-कि
सम्पूण
पलिया
गोपाय
वाराणस्याम् १९२१ तमे शकाब्दे
२०५६ तमे वैक्रमाब्दे
१९९९ तमे खैस्तादे
Page #6
--------------------------------------------------------------------------
________________
अनुसन्धानप्रकाशनपर्यवेक्षक:निदेशकः, अनुसन्धानसंस्थानस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये
वाराणसी ।
प्रकाशक:
डॉ० हरिश्चन्द्रमणित्रिपाठी
निदेशकः, प्रकाशनसंस्थानस्य
सम्पूर्णानन्द संस्कृत विश्वविद्यालये वाराणसी - २२१००२
प्राप्तिस्थानम् - विक्रय-विभागः,
सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य वाराणसी - २२१००२
प्रथमं संस्करणम्, ५०० प्रतिरूपाणि मूल्यम् - ६००.०० रूप्यकाणि
मुद्रक :आनन्द प्रिंटिंग प्रेस
सी. २७/१७० -ए, जगतगंज वाराणसी- २२१००२
ISBN: 81-7270-005-9 (Vol.II, Pt.II) ISBN: 81-7270-006-7 (Set )
Page #7
--------------------------------------------------------------------------
________________
प्रस्तावना
इदं हि महत्प्रमोदास्पदं स्थानं यत् साम्प्रतं द्वितीयभागात्मकस्य ‘कातन्त्रव्याकरणस्य' द्वितीयः खण्डः प्राकाश्यं यातीति । व्याकरणमिदं विविधैष्टीकाभिः परिशिष्टादिभिश्च समलङ्कृत्य सम्पादितं डॉ० जानकीप्रसादद्विवेदिमहोदयेन । व्याकरणस्यैतस्य द्वौ भागौ पूर्वमेव विश्वविद्यालयादस्मात् प्रकाशितौ । सम्पूर्णानन्दसंस्कृतविश्वविद्यालयोऽयं केन्द्रस्थानं सकलानां शास्त्राणां प्राच्यभारतीयविद्यानां हस्तलिखितपाण्डुलिपिग्रन्थानाञ्च । पारेलक्षं हस्तलिखितपाण्डुलिपिग्रन्थाः सगृहीताः सन्तो राजन्ते विश्वविद्यालयस्य सरस्वतीभवनाख्ये विश्वविख्याते पुस्तकालये । जानन्त्येव विद्वांसो यत्तासां पाण्डुलिपीनां प्रकाशने सम्पादने गवेषणे विश्लेषणे च सर्वात्मना सन्नद्धोऽयं विश्वविद्यालयः । अस्यामेव शृङ्खलायां डॉ० द्विवेदिसम्पादितं कातन्त्रव्याकरणमपि प्रकाशपथातिथीभवति ।
पाणिनीयादिव्याकरणापेक्षया संक्षिप्तत्वात् कातन्त्राभिधानेन लोके यद् विदितं व्याकरणं तदेव रचनाकारादिविविधाश्रयवशात् कलाप - कौमार - शार्ववर्मिकदौर्गसिंहीयनामभिर्व्यवह्रियते विदितवेदितव्यैर्बुधैर्वैयाकरणैः । अर्थलाघवप्रधानमिदं व्याकरणं न केवलं भारते, अथ च तिब्बत - नेपाल-भूटान-श्रीलङ्कादिदेशान्तरेष्वपि अध्ययनाध्यापनादिविधौ प्रवर्तितमभूत् । वङ्ग-उत्कल-शारदालिपिमयैर्हस्तलेखैः, द्वादशग्रन्थानां भोटभाषानुवादेन, पञ्चविंशतिभोटभाषाव्याख्याभिः, जैनाचार्यकृताष्टाविंशतिटीकाभिः, विविधाचार्यकर्तृकवङ्गभाष्यटीकाटिप्पणीभिः, एतदाधारितबालशिक्षागान्धर्वकलाप-कच्चायनादिव्याकरणैर्मुद्रितैश्चापि बहुभिर्ग्रन्थैरस्य समृद्धं वाङ्मयं वीक्ष्य को नाम सुधीजनो महतीं मुदं नाप्नुयात् । दिगम्वरजैनमुनिर्विद्यानन्दः कातन्त्रम् अधीयानः समीक्षमाणश्च स्वनामान्वर्धतां भजते । सुकृती मान्यो वदान्यश्च स आचार्य-उमास्वामी - पुरस्कारेण कातन्त्रसिन्धुसम्मानोपाधिना च सम्पादकं डॉ० जानकीप्रसादद्विवेदं १४- ३ - ९९ तमे दिनाङ्के दिल्लीमहानगरे महता समारोहेण सम्भूपितवान् । चतुर्दशदलाईलामा श्रीतेनजिनग्यात्सोमहोदयो गुरुमुखादधीतं कलापमद्यापि स्वकीयव्याख्यानेषु स्मरन्नास्ते । जैनमुनयो मन्यन्ते कातन्त्रकारमाचार्यशर्ववर्माणं दिगम्बरजैनमुनिम्, तस्मात् ते सर्वात्मना जैनव्याकरणमिदमुद्घोषयन्ति ।
Page #8
--------------------------------------------------------------------------
________________
(२) अस्तु, अद्यत्वे जैनाचार्या जैनेन्द्र-शाकटायन-हैमव्याकरणापेक्षया, बौद्धाचार्याश्च चान्द्रव्याकरणापेक्षया कातन्त्रं यदधिकं समाद्रियन्ते तेन कातन्त्रेऽस्ति सन्निहितं शब्दानुशासनान्तरातिशायि किञ्चिद् वैशिष्ट्यवैभवमिति निश्चप्रचं वक्तुं शक्यते ।
व्याकरणं नाम स्मृतिः, स्मृतयश्च नियतकाला भवन्ति । एतेनाशास्यते यन्नटराजराजमहेश्वरप्रवर्तितपाणिनीयव्याकरणसमनन्तरं स्वामिकात्तिकयप्रवर्तितं माहेन्द्रपरम्पराप्रतिनिधिप्रधानं कातन्त्रमिदं भूयस्त्वेन पृथिव्यां प्रचरेत् । संक्षेपसारल्यादिवैशिष्ट्यविभूषितमिदं व्याकरणं छान्दसान्, शास्त्रान्तररतान्, तृष्णादिसंसक्तान् वणिजः, वाच्यनिरतान् ईश्वरान्, आलस्ययुतांश्चापि जिज्ञासून स्वल्पसमये क्षिप्रप्रबोधेनातितरामुपकरोति । एतादृशीमस्य वैलक्षण्यपरम्परां मनसिकृत्य विश्वविद्यालयोऽयं टीकाचतुष्टयसम्पादन-परिशिष्टसंयोजन-समीक्षासंवलितस्यास्य महतीं प्रकाशनयोजनामिमामङ्गीचकार । इतः पूर्वं प्रथमो भागः, द्वितीयभागस्य प्रथमखण्डश्च प्रकाशितः सँल्लोकार्पितोऽभूत् । द्वितीयभागस्य द्वितीयखण्डोऽयं कारक-समास-तद्धितविषयविवेचनपर उपयोगिताबाहुल्येन पूवपिक्षया महनीयं गौरवं बिभर्ति । उच्यते च वाररुचसङ्ग्रहे कारकीयावबोधप्राधान्यविषये -
___ 'प्रयोगमिच्छता ज्ञातुं ज्ञेयं कारकमादितः'।इति । सम्पादकः श्रीद्विवेदो न केवलं विषयमिममधिकृत्य वाचस्पति - (डी० लिट्०) शोधोपाधिमधिगतवान् विश्वविद्यालयादस्मात्, अपि च स ततो निरन्तरमिदं महता श्रमेण, यलेन चाधीयानो लेख-ग्रन्थमाध्यमेनास्य वाङ्मयश्रियं संवर्धितवान् । प्रकृते खण्डे वृत्ति-टीका-विवरणपज्जिका-कलापचन्द्रेति प्रख्यातटीकाचतुष्टयस्य वचनसन्दर्भादिनिर्देशपुरस्सरं वैज्ञानिकं सम्पादनम्, पाणिनीयव्याकरणेन, प्रातिशाख्यैः, बृहदेवता-नाट्यशास्त्रादिभिः सह समीक्षात्मकमध्ययनं च प्रस्तुतमस्ति । सुदुस्तरे समीक्षाभागे शब्दरूपांसद्धिप्रक्रियाप्रदर्शनमपि महते उपकाराय प्रकल्पते ।
इदमपि ध्यातव्यं तथ्यमाभाति यट्टीकाचतुष्टयानन्तरं संयोजितेषु परिशिष्टेषु कातन्त्रपरिशिष्ट-रूपसिद्धिशब्दोद्धृतश्लोकवचन-व्युत्पत्तिपरकशब्द-पारिभाषिकशब्दविशिष्टशब्द-ग्रन्थ-आचार्यनामावलीनामक्षरानुक्रमयोजनया कातन्त्रीय-मुद्रितग्रन्थहस्तलेखानां संक्षिप्तपरिचयेन च विदुषां मनसि सन्तोषो भवेदेव | भूमिकाभागे सम्पादकेन पाणिनीयव्याकरणापेक्षया कातन्त्रीयविध्यादिनिर्देशे साम्यम्, वैषम्यम्, व्याख्याकाराणां सङ्ग्राह्याभिमतानि, केषाञ्चिद् वचनानां पक्षाणां वा सुखप्रतिपत्तिप्रपञ्च-वैचित्र्य लक्ष्यानुरोधार्थ-बालावबोधाद्यर्थप्रदर्शन-सिद्धान्तादिसूचकवचनसङ्ग्रहश्च कृतः, तत्सर्वं सुखेन कातन्त्रीयविषयावबोधाय नूनमलं भवेत् ।
Page #9
--------------------------------------------------------------------------
________________
(३)
इदं नाविदितं कातन्त्रतत्त्वविदां विपश्चितां यदस्य मुद्रिता सामग्री नागराक्षरेषु प्रायेण नगण्यैवास्ते, ततोऽधिका वङ्गाक्षरेषूपलभ्यते, परं शताधिकवर्षपूर्वं मुद्रितत्वात् सा जीर्णप्रायैव काठिन्येन लभ्यते । विपुला सामग्री व्याकरणस्यास्य वङ्ग-शारदाउत्कल-भोटप्रभृतिलिपिषु निबद्धा तत्र तत्र सुरक्षिताऽवलोक्यते । सम्पादकेन डॉ० द्विवेदेन प्रायेण सर्व एवैते हस्तलेखाः समयेऽधीता आसन् । यथास्थानमंशतस्तेषामुपयोगोऽपि कृतः । प्रकीर्ण-दुरूह -महनीयकार्यस्यास्य समीचीनसम्पादनाय श्रीद्विवेदमहोदयः प्रशंसामर्हति । आशास्यते यद् अधिगतयाथातथ्या गुणैकपक्षपातिनो विद्वांसः कार्यादस्मादवश्यं मुदिताः सन्तो लाभान्विताः स्युरिति ।
प्रौढपाण्डित्यस्य समीक्षाशक्तेश्च समन्वयो बहुधा अङ्गुलिगणनीयेष्वाचार्येषु समुपलभ्यते, तयोः सङ्गमो ग्रन्थेऽस्मिन् सर्वत्रैव द्रष्टुं शक्यते । एतेन केचन शिक्षका मन्यन्ते यत् कार्यमिदमितिहासनिर्माणकरमस्तीति तस्मादत्र सम्पादकस्य योगदानं निष्ठा श्रमः प्रयत्नश्च स्पष्टमनुमातुं शक्यते ।
एवंविधं नानाटीका - व्याख्यासंवलितं 'कातन्त्रव्याकरणम्' संस्कृतवाङ्मयस्य निधिभूतं विदुषां करकमलयोः समुपाहरन् नितरां मोमुदीति मे चेतः । अस्य महनीयस्य ग्रन्थस्य सम्पादको डॉ० जानकीप्रसादद्विवेदिमहाशयो नितरां वाङ्मयस्यास्योद्धारकः कामं निरतिशयप्रशंसार्हः । कातन्त्रव्याकरणस्य विश्लेषणे श्रीद्विवेदिना व्यतीतानि बहूनि वर्षाणि । श्रीद्विवेदिमहोदयस्यैतादृशं सारस्वतकार्यं दर्शं दर्शमहं धन्यवादैराशीवदिश्च संयोजयामि श्रीद्विवेदिमहोदयम् । ग्रन्थस्यास्य सौष्ठवपूर्णप्रकाशने सन्नद्धाथ प्रकाशननिदेशकाय डॉ० हरिश्चन्द्रमणित्रिपाठिने, ईक्ष्यशोधकाय डॉ० हरिवंशकुमारपाण्डेयाय, मुद्रकाय 'आनन्द - प्रिंटिंग प्रेस' सञ्चालकाय श्रीदिवाकरत्रिपाठिने च प्रभूतमाशीराशिं वितरन्नहमत्यन्तं हर्षमनुभवामि । अन्ते च ग्रन्थमिमं सान्नपूर्णाय श्रीकाशीविश्वेश्वराय समर्पयन् तं श्रीभवानीजानिं प्रार्थये यद् ग्रन्थोऽयं पाठकानां महते श्रेयसे स्यादिति ।
वाराणस्याम्
आग्रहायणपूर्णिमायाम्, वि० सं० २०५६ (२२-१२-१९९९ ख्रस्ताब्दः ) |
राममूर्ति शर्मा
राममूर्तिशर्मा
कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
Page #10
--------------------------------------------------------------------------
Page #11
--------------------------------------------------------------------------
________________
भूमिका
‘मोदकं देहि' इति वचनाश्रितस्य कालाप - कौमार-शार्ववर्मिक दौर्गसिंहीयेति नामचतुष्टयापरपर्यायस्य कातन्त्रव्याकरणस्य प्रथमे पञ्चपादात्मके सन्ध्यध्याये वर्णकार्यं दर्शितम्, तदात्मकः प्रथमो भाग : १९९७ तमे यीशवीयाब्दे प्रकाशितः । द्वितीये नामचतुष्टयाध्याये षट् पादा - विलसन्ति । चतुष्टयाभिधानेनास्मिन्नध्याये चत्वारो विषयाश्चत्वारि प्रकरणानि वा निरूपितानि सन्तीति विज्ञेयम् । चत्वारि प्रकरणानि च सन्ति - स्याद्यन्तशब्दाः कारकम् समासस्तद्धितश्चेति । यथोच्यते
शब्दानां साधनं यत्र कारकाणां च निर्णयः ।
समासस्तद्धितो यत्र तच्चतुष्टयमुच्यते ॥ इति ।
विभक्तयोऽर्थमाश्रित्य प्रवर्तन्ते, अर्थश्च भवति कर्तृकर्मादिकारकलक्षण:, तस्मात् पादत्रितये स्यादिविभक्त्यन्त शब्दसाधनमङ्गीकृत्य चतुर्थे पादे आचार्य - शर्ववर्मणा कारकाणि विवेचितानि । यद् वा वाक्यं हि क्रियाप्रधानम् । क्रियाया विशेष्यत्वात् कारकं च विशेषणम्, ततश्च नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते, अर्थाद् विशेषणज्ञानमन्तरेण विशेष्यज्ञानं न भवतीति पदकार्ये कर्तव्ये आख्यातात् प्राक् चतुष्टयप्रकरणं प्रारब्धम्, तत्र च स्यादिविभक्तिकार्यं निरूप्य कर्तृकर्मादिरूपार्थप्रदर्शनाय कारकमुच्यते चतुर्थे पादे । ततः स्याद्यन्तपदेषु स्यादिप्रत्ययानां तदीयप्रकृतीनां चैकार्थीभावम् आख्यातुकाम आचार्यः पञ्चमे पादे समासप्रकरणं प्रारब्धवान् । स्याद्यन्तशब्देभ्यो ये प्रत्ययाः प्रवर्तन्ते तेषामभिधानाय षष्ठे पादे तद्धितप्रकरणं प्रस्तुतमस्ति । एवं नामचतुष्टयाख्यद्वितीयाध्यायस्योत्तरार्धे विनियोजिता एते चतुर्थ - पञ्चम-षष्ठपादाः कारक - समास-तद्धितविषयका द्वितीयभागस्य प्रकृते द्वितीयखण्डे संगृहीताः सन्ति । इतः पूर्वं नामपदसाधकं प्राथमिकपादत्रितयात्मकं प्रथमं खण्डं द्वितीयभागस्य १९९८ तमे यीशवीयाब्दे प्रकाशनपूर्णतामाप्नोत् । तदीयानि वैशिष्ट्यानि भूमिकायां निदर्शनार्थं संगृहीतानि । प्रकृतखण्डे पाणिनीयव्याकरणापेक्षया यद् यद् वैशिष्ट्यं विभाति, तत् सर्वं प्रायेण संक्षेपत इह
"
Page #12
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
प्रस्तूयते । कातन्त्रीयं किञ्चिद् विधानं पाणिनीयव्याकरणेन सह साम्यं भजते, किञ्चिच्च ततो भिन्नरूपमालक्ष्यते । तद् यथा -
विध्यादिनिर्देशे साम्यम् (सप्तदश कार्याणीह दर्शितानि) १. अव्ययीभावसमासेऽमादेशः (उपकुम्भम्)
कातन्त्रे - अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः (२।४।१)। पाणिनीये - नाव्ययीभावादतोऽम्त्वपञ्चम्याः (अ०२।४।८३) । अपादानसंज्ञा (वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति) कातन्त्रे- यतोऽपैति भयमादत्ते वा तदपादानम् (२।४।८)। पाणिनीये - ध्रुवमपायेऽपादानम्, भीत्रार्थानां भयहेतुः (अ० १।४।२४-२५)।
एवं सम्प्रदानादयोऽन्या अपि कारकीयाः संज्ञाः समाना एव । ३. प्रथमाविभक्तिविधानम् (उच्चैः, वृक्षः, एकः, द्रोणः, हस्तः, काष्ठम् )
कातन्त्रे- प्रथमा विभक्तिर्लिङ्गार्थवचने, आमन्त्रणे च (२।४।१७-१८)। पाणिनीये - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, संबोधने च
(अ० २।३।४६ - ४७)। एवमन्यासामपि विभक्तीनां विधाने प्रायेणैकरूपतैवावलोम्यते । ४. कर्तृकर्मकारकयोः षष्ठीविभक्तिः (भवतः शायिका, अपां स्रष्टा)
कातन्त्रे- कर्तृकर्मणोः कृति नित्यम् (२।४।४१) । पाणिनीये - कर्तृकर्मणोः कृति (अ० २।३।६५) । नकारस्य णकारादेशः (पुरुषेण, अhण, अर्केण, दर्पण, तिसृणाम्) कातन्त्रे- रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि (२।४।४८)। पाणिनीये - रषाभ्यां नो णः समानपदे:-क्षुम्नादिषु च (अ० ८।४।१-३९)। विशेष्यविशेषणपदयोः समासस्य कर्मधारयसंज्ञा (नीलोत्पलम्) कातन्त्रे- पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः (२।५।५)। पाणिनीये - तत्पुरुषः समानाधिकरणः कर्मधारयः (अ० १।२।४२)।
अन्या अपि समाससंज्ञाः समानरूपतां बिभ्रति ।
Page #13
--------------------------------------------------------------------------
________________
भूमिका
७. ईषदर्थक - 'कु' शब्दस्य कादेशः (कालवणम्, काम्लम्)
कातन्त्रे - का त्वीषदर्थेऽक्षे (२।५।२५) ।
पाणिनीये - का पथ्यक्षयोः, ईषदर्थे (अ० ६ |३|१०४, १०५ ) । अपत्यार्थे अणूप्रत्ययः (औपगवः, पाण्डवः, शैवः) कातन्त्रे - वाऽणपत्ये (२।६।१)।
८.
पाणिनीये - तस्यापत्यम् (अ० ४। १ । ९२) ।
९. इदमः स्थाने इकारादेशः ( इतः, इह, इदानीम् ) कातन्त्रे - तत्रेदमिः (२।६।२५)।
पाणिनीये - इदम इशू (अ० ५।३।३) ।
१०. सर्वनामशब्देभ्यस्तस्प्रत्ययः ( सर्वतः, यतः, ततः बहुतः) कातन्त्रे - पञ्चम्यास्तस् (२।६।२८ ) |
पाणिनीये - पञ्चम्यास्तसिल् (अ० ५।३।७) ।
११. सर्वनामशब्देभ्यस्त्रप्रत्ययः ( सर्वत्र, तत्र, यंत्र, कातन्त्रे - त्र सप्तम्याः ( २ । ६ । २९ ) ।
पाणिनीये - सप्तम्यास्त्रल् (अ० ५ । ३ । ११०) ।
१२. किमादिशब्देभ्यो दाप्रत्ययः (कदा, सर्वदा, यदा, एकदा, अन्यदा) कातन्त्रे - काले किंसर्वयत्तदेकान्येभ्य एव दा (२ | ६ | ३४ ) | पाणिनीये - सर्वेकान्यकिंयत्तदः काले दा (अ० ५।३।१५) । १३. सर्वनामशब्देभ्यः 'था' प्रत्ययः (सर्वथा, यथा, तथा, अन्यथा ) कातन्त्रे - प्रकारवचने तु था (२ । ६ । ३८ ) |
पाणिनीये - प्रकारवचने थालू (अ० ५ | ३ | २३) । १४. इवर्णावर्णयोर्लोपः (आत्रेयः, दाक्षिः, गार्ग्यः, तुल्यः )
बहुत्र)
कातन्त्रे - इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च (२|६|४४) । पाणिनीये - यस्येति च (अ० ६ |४| १४८) ।
१५. ओकारौकारयोरवावादेशौ ( औपगवः, गव्यम्, नाव्यम् ) कातन्त्रे - कार्याववावावादेशावोकारौकारयोरपि (२।६।४८) ।
३
Page #14
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
पाणिनीये - वान्तो यि प्रत्यये (अ० ६।१।७९)। १६. आदिस्वरस्य वृद्ध्यादेशः (शैवः, औपगवः, कार्पण्यम्)
कातन्त्रे - वृद्धिरादौ सणे (२।६।४९) ।
पाणिनीये - तद्धितेष्वचामादे (अ०७।२।११७)। १७. ऐकारौकाररूपवृद्ध्यागमः (वैयाकरणः, सौवश्विः)
कातन्त्रे- न य्योः पदाद्योवृद्धिरागमः (२।६।५०)। पाणिनीये - न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् (अ०७।३।३)।
भिन्नरूपा विधयः १. जनपदसमानक्षत्रियावबोधार्य रूढशब्दप्रयोगस्तद्राजसंज्ञा च
‘पञ्चालाः- वङ्गाः' इत्यादिशब्दसाधनार्थं "ते तद्राजाः, ज्यादयस्तद्राजाः" (अ० ४।१।१७४; ५।३।११९) इति सूत्राभ्यां तद्राजसंज्ञां विधाय पश्चात् पाणिनिः अपत्यार्थे बहुत्वार्थे चाणादिप्रत्ययानां लुकं विदधाति, कातन्त्रकारस्तु जनपदसमानक्षत्रियवाचकशब्दानामवबोधार्थं 'रूढ' शब्दं निर्दिशति । एवं लुविधौ भेदाभावेऽपि तद्राजसंज्ञाव्यवहारे रूढशब्दव्यवहारे च भेदः सुतरामास्थित एव । २. करणाधिकरणसंज्ञयोः पौर्वापर्याङ्गीकारे भेदः
कादिषट्कारकाणां क्रमः क्वचिद् अपादान-सम्प्रदान करण-अधिकरण-कर्मकर्तृरूपो व्यवस्थापितः, क्वचिच्च कर्तृ-कर्म-अधिकरण-करण-सम्प्रदान-अपादानरूपः । पूर्वक्रमानुसारेणैकत्र कारकद्वयसम्प्राप्तौ परकारकम्, परवर्तिक्रमानुसारेण च पूर्वकारकं प्रवर्तते । पाणिनीये कातन्त्रे चापादानादिक्रमः समादृतस्तत्रापि च पाणिनिना पूर्व करणसंज्ञा शर्ववर्मणा चाधिकरणसंज्ञा निर्दिष्टा । तेन ‘धनुषा शरान् क्षिपति' इत्यत्र धनुश्शब्दस्य करणसंज्ञा प्रवर्तते कातन्त्रे न तु अधिकरणसंज्ञा | ३. हिंसार्थ-रुजार्थयोर्भेदाभेदौ
'चौरस्य निहन्ति - चौरस्य रुजति' इत्यादौ षष्ठीविधानार्थं पाणिनिः “रुजाना भाववचनानामज्वरेः, जासिनिप्रहणनाटक्राथपिषां हिंसायाम्' (अ०२।३।५४,५६) इति सूत्रद्वयमुक्तवान्, परं कातन्त्रकारः “हिंसार्थानाज्चरेः" (२।४।४०) इत्येकेनैव
Page #15
--------------------------------------------------------------------------
________________
भूमिका सूत्रेण समीहितं सर्वं साधयति । टीकाकारः ‘अज्वरेः' इति प्रतिषेधवशाद् हिंसार्थग्रहणेन रुजार्थानामपि ग्रहणं मनुते, प्राण्युपघातस्य हिंसायास्तत्रापि संभवात् । ४. मकार-नकारयोरनुस्वारादेशे धुट्-झल्शब्दव्यवहारः _ 'पुंसः- शान्तिः-स्वाम्पि' इत्यादौ मकार-नकारयोरनुस्वारः उभयत्र विधीयते । पाणिनीयव्याकरणे प्रत्याहारप्रक्रियायाः प्रवर्तनाद् झल्प्रत्याहारो निमित्तरूपेण निर्दिष्टः "नश्चापदान्तस्य झलि" (अ० ८।३।२४) इति सूत्रे । कातन्त्रे प्रत्याहारा नैवाङ्गीकृतास्तेन झकारादीप्सितवर्णानां 'धुड् व्यञ्जनमनन्तःस्थानुनासिकम्" (२।१।१३) इत्यनेन धुट्संज्ञा तत्र विहिता, तस्या एवात्रापि प्रयोगो दृश्यते - “मनोरनुस्वारो धुटि' (२।४।४४)। । ५. समासे विभक्तिलोपविधौ भेदः
'नील + सि + उत्पल + सि, राजन् + ङस् + पुरुष + सि' इति स्थितौ कर्मधारयषष्ठीतत्पुरुषसमासे संप्रवृत्ते कातन्त्रे 'सि-ङस्' विभक्त्योर्लोपः प्रवर्तते “तत्स्था लोप्या विभक्तयः" (२।५।२) इत्यनेन सूत्रेण । पाणिनिस्तु समासस्य “कृत्तद्धितसमासाश्च" (अ० १।२।४५) इत्यनेन प्रातिपदिकसंज्ञां विधाय ततः "सुपो धातुप्रातिपदिकयोः" (अ०२।४।७१) इति सूत्रेण सुप्प्रत्ययानां लुविधानमाचरति । " ६. समुच्चयस्य समासासमासरूपभेदः
धवश्च खदिरश्च पलाशश्चेति विग्रहे धवखदिरपलाशाः, वाक् च दृषच्चेति विग्रहे वाग्दृषदम्, छत्रं चोपानच्चेति छत्रोपानहम् इति शब्दरूपं साध्यते उभयत्र, परं पाणिनिः “चार्थे द्वन्द्वः' (अ०२।२।२९) इत्यत्र समुच्चय-अन्वाचय-इतरेतरयोगसमाहारांश्चतुरश्चार्थानङ्गीकृत्य इतरेतरयोगे समाहारे च समासं विदधाति न तु समुच्चयान्वाचययोः, परं शर्ववर्मा समुच्चये एव द्वन्द्वसमासं निर्दिशति, इतरेतरसमाहारौ समुच्चयस्यैव भेदौ स मनुते । परमयं समुच्चयो राशीभावरूपोऽवगन्तव्यः, न तु मुख्यः । मुख्ये तु समुच्चये परस्परासंबद्धानां प्रधानानां क्रियाभिसंबध्यमानानां नास्ति समासः । ७. नञ्- स्वरादिशब्दसमासे नुडागम-विपर्यासविधिभेदः
'न अजः, न अश्वः' इत्यवस्थायां समासे सति पाणिनिना "नलोपो नत्रः" (अ० ६।३।७३) इत्यनेन नलोपम्, “तस्मान्नुडचि" (अ० ६।३।७४) इत्यनेन नुडागमं च
Page #16
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
विधाय ‘अनजः, अनश्वः' इति शब्दरूपं संसाधितम्, परं कातन्त्रे नकाराकारयोर्विपर्यासमात्रेणैव समीहितं सिद्धं भवतीति कातन्त्रप्रक्रिया सरलतामातनोति । ८. प्रत्ययादेशविधौ प्रत्ययविधौ च भेदः
'नाडायनः, वैनतेयः, आक्षिकः, शालीयः' प्रभृतिशब्दरूपसाधनाय पाणिनिः पूर्वं च्फञ्-ढक्-ठक्-छप्रत्ययान् विधाय पश्चात् फ् -द-ठ-छवर्णानाम् आयन्-एय्-इकईयादेशान्निर्दिशति ।परं कातन्त्रकारः साक्षादेव आयनण्-एयण-इकण्-ईयप्रत्ययान्निर्दिश्य प्रक्रियासारल्यं महदारचयति । ९. प्रत्ययगतमकारस्य वकारादेशविधाने वकारघटितप्रत्ययविधाने च भेदः
'वृक्षवान्, मालावान्, लक्ष्मीवान्, भास्वान्' प्रभृतिशब्दसाधनाय पाणिनिः मतुप्प्रत्ययम्, मकारस्य वकारादेशम्, नुमागमं च विदधाति, परं शर्ववर्मा “तदस्यास्तीति मन्त्वन्त्वीन्” (२।६।१५) इत्यनेन मन्तुप्रत्यययातिरिक्तं वन्तुप्रत्ययमेकं कृतवान्, यत्र वकारादेशस्य नुमागमस्य चावश्यकता नैव भवति ।
व्याख्याकाराणां कानिचिद् विशिष्टवचनानि विचारा वा १. कलापचन्द्रकारमते केचिदाचार्या मूर्खपदवाच्याः सन्ति
मूर्खास्तु बुद्धावकारान्तत्वमारोप्य प्रत्युदाहर्तव्यमित्याहुः, अन्ये तु ‘उपकुम्भकम्' इति चारुतरं प्रत्युदाहर्तव्यमिति (क० च०२।४।१)। २. वस्तुतः-प्रभृतिशब्दैः सिद्धान्तपक्षव्यवस्थापनम्
दुर्गसिंह-त्रिलोचनदास-सुषेणविद्याभूषणाचार्यैः पञ्चविंशतिस्थानेषु 'वस्तुतः' - पदव्यवहारेण, पञ्चस्थलेषु ‘परमार्थतः' पदेन, विंशतिस्थानेषु अस्यायमर्थः' इति शब्देन, पञ्चविंशतिस्थलेषु 'अयमर्थः' इति सङ्केतेन, पञ्चस्थानेषु 'अयमाशयः' इति शब्देन चतुर्षु स्थलेषु 'अयमभिप्रायः' इति प्रतीकव्यवहारेण, विंशतिस्थलेषु लोकोपचारादिति शब्देन च सिद्धान्तपक्षाः विचारणीयविषयस्य निष्कर्षा मननीयं वस्तु वा प्रतिष्ठापितं दृश्यते । ३. उक्तार्थानामप्रयोगविषये पक्षान्तरमप्यभिमतम्
उक्तार्थानामप्रयोगः कृत्त्यादितद्धितसमासेषु न्यायसिद्धः (दु० टी० २।४।१३)। उक्तार्थानामपि प्रयोगो दृष्टः । यथा 'द्वौ घटावानय' इति (दु० टी० २।४।१७)।
Page #17
--------------------------------------------------------------------------
________________
भूमिका
उक्तार्थानामप्रयोग इति यथा न द्वितीया तथा कर्मणि विहिता षष्ठ्यपि न भवति (दु० टी० २।४।३८) ।
४. शर्ववर्माचार्यस्यार्थलाघवमभिमतम्
समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थम् अनुष्टुब्बन्धेन विरचित इत्यत्र विज्ञेयग्रहणम् । एवमुत्तरेष्वपि योगेषु शब्दलाघवं न चिन्तनीयम्, अर्थप्रतिपत्तिलाघवस्य शर्ववर्मणोऽभिप्रेतत्वाद् इति (वि० प० २।५/५ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः) । ५. स्वर्थस्य ऋद्धेद्वैविध्यम्
ऋद्धिर्द्विधा - समृद्धिरात्मभावसंम्पत्तिश्च । सुमद्रम् । मद्राणां समृद्धिरित्यर्थः । आत्मभावसम्पत्तौ च – सब्रह्म । सम्पन्नं ब्रह्मशरीरमित्यर्थः (दु० टी०, वि० प० २।५।१४) ।
६. समुदायस्य द्वैविध्यव्यवस्थापनम्
द्विविधा हि समुदायाः - पुरुषनिर्माणा दैवनिर्माणाश्च । तत्र पुरुषनिर्माणेषु पटादिषु तन्त्वादिप्रकृतयः पटादयो भवन्ति । दैवनिर्माणेषु वृक्षादिषु समुदायादेकदेशान् यूपादीनुपलभामहे । तथा च ' खादिरो यूप:' इति विकारविधिः प्रदर्श्यते (दु० टी० २।६।११) ।
व्याख्याकारैः केषांचिद् वर्णानां पदानां विषयाणां वा प्रदर्शनं सुखप्रतिपत्तिउच्चारणाद्यर्थं प्रतिपाद्यते, तदिह निदर्शनार्थं प्रस्तूयते । तथाहि, १. [ सुखप्रतिपत्त्यर्थम् ]
१. एवं तर्ह्यन्तग्रहणमिह सुखप्रतिपत्त्यर्थमेव ( दु० टी० २|४|१) ।
२. योगग्रहणं सुखप्रतिपत्त्यर्थमेव (दु० टी०, वि० प० २ । ४ । २० पर्यपाङ्योगे ) । ३. अर्थशब्दः सुखप्रतिपत्त्यर्थ एव ( दु० टी० २ | ४ | ३० - हेत्वर्थे) ।
४. एवं सति षष्ठीविधानप्रकरणमिदं मन्दधियां सुखार्थम् (दु० टी० २।४ । ३८) । मन्दधियां सुखार्थमेव कृद्ग्रहणम् (दु०टी०, वि० प० २ । ४ । ४० ) ।
५.
६. उदाहरणप्रपञ्चस्तु मन्दधियां सुखार्थं दर्शितः (दु० टी० २।४।४७) ।
७. गणोदाहरणप्रपञ्चस्तु सुखप्रतिपत्त्यर्थ एव कृत इति (दु० टी० २।४।५०)।
Page #18
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
८. चकारस्तु सुखार्थ एव (क० च० २।५।३)। ९. समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थमनुष्टुब्बन्धेन विरचित इत्यत्र
विज्ञेयग्रहण (वि०प०२।५।५)। १०. यदिह पुनर्विधानं तत् सुखार्थमेव (वि०प० २।५।८)। ११. एतदपि परग्रहणं सुखार्थं प्रत्ययत्वात् परत्वं सिद्धमेव (दु० टी०२।६।२४)। १२. तस्मादाचार्येण सुखप्रतिपत्त्यर्थं श्लोकबद्धः प्रतिज्ञातः, स मा भजीति
वृद्धिग्रहणम् (दु० टी०२।६।५०)। १३. विभक्तिलिङ्गवचनानि (दु० टी० २।४।१७), १४. आङ्-योगग्रहणम् (क० च० २।४।२०), १५. सूत्रकरणम् (वि० प०, क० च० २।४।३५), १६. प्रयोगग्रहणम् (दु० टी० २।४।३७), १७. तिपा निर्देशः (दु० टी० २।४।३९), १८. सूत्रग्रहणम् (वि०प० २।४।४०), १९. सूत्रकरणम् (क० च० २।४।४०), २०. कृद्ग्रहणम् (क० च० २।४।४१), २१. अन्तग्रहणम् (दु० टी० २।४।४२), २२. आगमग्रहणम् (दु० टी० २।४।४७), २३. युक्तार्थग्रहणम् (दु० टी० २।५।१), २४. स्थग्रहणम् (दु० टी० २।५।२), २५. अन्तग्रहणम् (क० च० २।५।३), २६. वाक्यम् (वि० प० २।५।५), २७. उभौग्रहणम् (दु० टी० २।५।७), २८. अर्थग्रहणम् (दु० टी०, क० च० २।५।२५), २९. सूत्रत्रितयम् (दु० टी० २।६।१९), ३०. लुप्तप्रथमाबहुवचनं पदम् (दु० टी० २।६।३५), ३१. वचनग्रहणम् (दु० टी० २।६।३८), ३२. अनुबन्धग्रहणम् (दु० टी० २।६।४२), ३३. आगमग्रहणम् (दु० टी० २।६।५०) च सुखार्थमेवाभिप्रेतं व्याख्यातॄणाम् ।
Page #19
--------------------------------------------------------------------------
________________
भूमिका
मवत
२. [प्रपञ्चार्थम्] १. नन्ववधिभावविवक्षायां दिगितरान्यग्रहणमनर्थकम् ? सत्यम् । प्रपञ्चार्थ
मेवैतत् (दु० टी० २।४।२१)। २. एवमुदाहरणभूयस्त्वमुपवर्णितमिह प्रपञ्चार्थमेवेति (दु० टी०
२।५।५)। ३. दीव्यतीत्यादिग्रहणं कृतादेराकृतिगणस्य प्रपञ्चार्थम् (दु० टी०
२।६।८)। ३. [वैचित्र्यार्थम्]
१. चकारो हि वैचित्र्यार्थ इति केचित् (क० च० २।४।३३)। २. तेन ‘पयोभ्यां शिरोमणिः' इत्यपि न दोषश्चेत् तर्हि वैचित्र्यार्थमेव
(क० च० २।५।२९)। ३. 'विचित्रा हि सूत्रस्य कृतिः' इत्याविर्भावनपरः (दु० टी० २।६।११)। ४. [उच्चारणार्थम्] १. क्वेत्यकार उच्चारणार्थः, कुरिति कृते उवर्णस्त्वोत्वमापद्यते (दु० टी०
२।६।२२)। २. थमुरित्युकार उच्चारणार्थः (दु० टी० २।६।३९)। ३. अदिति तकार उच्चारणार्थः (दु० टी० २।६।४१)। ४. ड इत्यकार उच्चारणार्थः (दु० टी० २।६।४२)। [योगविभागार्थम्] १. योगविभागार्थमित्याह - स्वरो ह्रस्व इति (वि० प० २।४।५२)। २. योगविभागाच्चेष्टसिद्धिः (दु० टी० २।६।१०)। ३. तुशब्द इह योगविभागार्थः इत्याह - योगविभागादित्यादि
(वि० प० २।६।१०)। ६. [लक्ष्यानुरोधार्थम्] १. सामान्येन सिद्धे यत् पुनर्वचनं तत् पूर्वविधेर्लक्ष्यानुरोधार्थं सूचयतीत्याह -
गोरप्रधानस्येत्यादि (वि० प० २।४।५२) । २. प्रकीर्तितग्रहणं लक्ष्यानुरोधार्थम् (दु० वृ० २।६।१४)।
Page #20
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
७. [मन्दमतिबोधनार्थम्]
१. ननु प्रतिना योगेऽत्र द्वितीया बाधिकेति किमिदं प्रत्युदाहृतम् ? सत्यम् । मन्दमतिबोधार्थमेव (दु० टी० २।४।३२)।
२. यद्येवं द्विग्वव्ययीभावयोनपुंसकलिङ्गविधानमनर्थकं स्वभावादेव सिद्धेरिति चेत्, मन्दमतिबोधनार्थकम् (क० च० २।५।१७)। ८. [विशिष्टार्थप्रतिपत्त्यर्थम् ]
१. ननु यदि प्रयोक्त्रपेक्ष्यमेव विशेषणमत्र गृह्यते तदा लक्षण इत्येवास्ताम्, किं विशेषण इति गुरुकरणेन ? सत्यम् । गुरुकरणं विशिष्टार्थप्रतिपत्त्यर्थम् (क० च० २।४।३२)। ९. [प्रतिपत्तिगौरवनिरासार्थम्]
१. अभिविधिरपि मर्यादाविशेषः । आघाटोऽपि मर्यादाविशेषः । ‘आ पाटलिपुत्राद् वृष्टो देवः' इत्युक्ते पाटलिपुत्रस्यावधिरेव गम्यते । ननु किमर्थमिदं सर्वत्र बुद्धिकृतापायस्य विद्यमानत्वात् पञ्चमी सिद्धैव ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमेव (क० च० २।४।४०)। १०. [उत्तरार्थम्]
१. ननु सर्वसादृश्याद् यस्य प्रत्ययत्वं विभक्तित्वं च संभवति तस्यैव भविष्यति, किं विभक्तिग्रहणेन ? सत्यम् । व्याप्तिन्यायात् प्रत्ययमात्रस्यापि ग्रहणं संभाव्यते इति । वस्तुतस्तु उत्तरार्थमेव विभक्तिग्रहणमित्युक्तमेव (क० च० २।४।१)। ११. [विवक्षार्थम्]
१. तदस्यास्तीति मन्त्वन्त्वीन् । तदिति प्रथमान्तादस्यास्तीत्यस्मिन्नर्थे ‘मन्तुवन्तु-विन्-इन्' इत्येते प्रत्यया भवन्ति । गावो विद्यन्तेऽस्येति गोमान् । एवम् आयुष्मान् - - - - - मायावी । इति शब्दोऽत्र विवक्षार्थः (दु० वृ० २।६।१५)। १२. [समासलाभार्थम्]
१. यद् वा अव्ययीभावग्रहणखण्डनपक्षेऽन्तग्रहणं न सुखार्थम्, किन्त्वकार एवान्तो यस्येति समासलाभार्थम् (क० च० २।४।१)।
Page #21
--------------------------------------------------------------------------
________________
भूमिका
११
१३. [ निःसन्देहार्थम् ]
१. आदेशवादी त्वाह - इदमः प्रसङ्गे य इकारः स इदम् इत्युपचारान्न ज्ञापकम् “इतो लोपोऽभ्यासस्य' (३ । ३ । ३८) इति सवदिशं प्रति अर्थवशाद् विभक्तिविपरिणामोऽपि गरीयानिति तत्रग्रहणम् | आदेशाद् विभक्तिलोपो निःसन्देहार्थः (दु० टी०, क० च० २।६।२५ ) |
१४. [ बालावबोधार्थम् ]
१. . अनुष्टुब्बन्धेन समासस्तद्धितश्च विरचित इह बालावबोधार्थः । शब्दलाघवे न चिन्तनीयमिति ( दु० टी० २।५।६ ) | १५. [ शिष्यव्युत्पत्त्यर्थम् ]
१. प्रथमा द्विकपक्षे त्रिकपक्षे चैकवाक्यतामाश्रित्याह - तस्मादिति । शास्त्रान्तरेण विभक्तिविधानं शास्त्रान्तरेण तदर्थकथनमिति तु शिष्यव्युत्पत्त्यर्थमेव (क० च०
२।४।१७)।
१६. [ मङ्गलार्थम् ]
१. ननु वर्धनाद् वृद्धिरिति किमनया व्युत्पत्त्या ? सत्यम् । संज्ञात्वेन वृद्धेरेव प्रतिषेधो नाकारस्येति । वैयाकरण इत्यत्र प्रतिषेधनिमित्तो वृद्धिरागमो न स्यात् । यद्येवं वृद्धिग्रहणेनैवेदं । एवं सति मङ्गलार्थमिति कश्चित्
'
( वि० प० २ | ६ | ५० ) ।
कारक-समास-तद्धितविषयानधिकृत्य वृत्तिकार - टीकाकार- पञ्जिकाकारकलापचन्द्रकारैश्चतुर्भिर्व्याख्याकारैर्बहूनां ग्रन्थानां ग्रन्थकाराणां चाभिमतानि सिद्धान्ता विचाराश्चापि समादृताः सन्ति, तेषु कानिचिदभिमतानि नूनमेव विषयोत्कर्षादिरूपं वैशिष्ट्यं प्रकाशयन्ति । केचिद् विचारास्तेषामिहोद्धियन्ते यथोक्तवचनोल्लेखेन - १. गौणमुख्यन्यायप्रवृत्तिः
गौणेनेति तदन्तविधौ गौणमुख्यव्यवहारो नास्तीति तस्य शब्दाश्रयत्वादित्याह - अथवेति कुलचन्द्रः । तन्नेति महान्तः (क० च० २।४।१)।
अन्योऽन्यादिशब्देषु अमादेशविषयकाभिमतम्
अन्योऽन्येतरेतरपरस्पराणां स्त्रीनपुंसकयोरम् वेति केचिदाचक्षते । इमे स्त्रियावन्योऽन्यां भोजयतः, अन्योऽन्यं भोजयतो वा । - इमे स्त्रियावन्योऽन्यां
Page #22
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
प्रयच्छतः। - - - - - - - - इमे स्त्रियावितरेतरां भोजयतः, इतरेतरं वा भोजयतः (दु० टी० २।४।३)। ३. अभिव्यापकाधिकरणोदाहरणविषयिणी विविधाचार्यविचारप्रवृत्तिः
अन्ये तु अभिव्यापकशब्दवाच्यस्य तैलादेः सम्बन्धशालित्वात् तिलादिकमभिव्यापकमुच्यते इत्याहुः । यद्यपीत्यादि । पृथगुच्यते इति । औपश्लेषिकात् पृथगुच्यते । अभिव्यापकत्वेन व्यपदिश्यते इत्यर्थः । वस्तुतो घटे रूपमस्तीत्यादिकं मुख्यमभिव्यापकमुदाहर्तव्यम् । - - - - - - - - - दृष्टादृष्टपरमाणवस्तिलेषु संविशन्तीति यन्मतं तन्मतमवलम्ब्योक्तम् । अन्ये तु - - - - - - - दिवि देवा इत्युदाहरणम् । - - - - वस्तुतस्तु - - - - - - - - । वस्तुतो नेदमुदाहरणम्, किन्तु देवानामाकाशे एव स्थितिः प्रसिद्धा । (क० च० २।४।११)। ४. पूर्वादीनां दिक्त्वव्यवहारविचारो लोकोपचारादितः
इह पूर्वादीनां लोकोपचारेण दिक्संज्ञा सिद्धा, तेन 'स्वं रूपम्' इति न्यायान्न स्वरूपग्रहणम् इति भट्टनारायणादयः । तदस्मन्मते का गतिरित्याह - दिगित्यर्थपरोऽयं निर्देशः इति पञ्जी । अर्थपरनिर्देशेऽपि ऐन्द्रीप्रभृतयो न गृह्यन्ते, दिक्त्वप्रवृत्तिनिमित्ताभावात् । किन्त्वासां देवतात्वमेव प्रवृत्तिनिमित्तमिति कुलचन्द्रस्याशयः (क० च०२।४।२१)। ५. भागुरि-कुलचन्द्राचार्ययोरवाप्योरकारलोपोऽभिमतः अवाप्योरकारलोपो विभाषयेष्यते । यथा 'पिनद्धं वतंसः' इति । तदुक्तम् -
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।
टापं चापि हलन्तानां क्षुधा वाचा निशा गिरा ॥इति । अस्यायमर्थः - भागुरिराचार्योऽवाप्योरकारलोपं वष्टि इच्छति न त्वन्यः । - - - कुलचन्द्रस्यापि मतमेतद् इत्युभयप्रामाण्याद् विकल्पः सिद्धः (क० च० २।४।२३)। ६. "तादर्थं चतुर्थी" इति सूत्रविषयकमभिमतम्
न खल्वेतच्छर्ववर्मकृतसूत्रमस्तीति ? - - - - - - । अत्र तु वृत्तिकृता मतान्तरमादर्शितम् । इह हि प्रस्तावे चन्द्रगोमिना प्रणीतमिदमिति (वि० प० २।४२७)।
Page #23
--------------------------------------------------------------------------
________________
१३
भूमिका ७. हेत्वर्थतृतीयाविषयकमभिमतम्
वृत्तौ तृतीयेत्युपलक्षणम् । 'शतस्य हेतोर्बद्धः' इत्यादौ ऋणे हेतौ पञ्चम्यपि बाध्यते इति कुलचन्द्रः । तन्नेति महान्तः । अस्मन्मतेऽत्रापादानविहितायाः पञ्चम्याः कारकविभक्तित्वेन दुर्निरित्वात् ‘शताद् बद्धः' इत्येव प्रयोग इत्याहुः । वस्तुतस्तु परमते परत्वात् षष्ठ्येव प्राप्नोति (क० च० २।४।३७) । ८. वररुचिप्रभृतेः परग्रहणविषयकमभिमतम्
परग्रहणमधिकद्योतनार्थम् । - - - - - - - वररुचिस्तु परग्रहणं "ह्रस्वात् तादौ तद्धिते' नाम्नः षत्वार्थमित्याह । तदपिशब्देन साधितमिति महान्तः। एकपदं यथासङ्ख्यनिवृत्त्यर्थमिति कुलचन्द्रः । तन्न, - - - - - - - - - - - कथं तद्भाव इति महान्तः (क० च० २।४|४७)। ९. क्षुद्रजन्तुविषयकविचारः
यूकाश्च लिख्याश्चेति अपचितपरिमाणा इह क्षुद्रा गृह्यन्ते न तु अङ्गहीनाः । शीलहीनः कृपणश्चेति । तत्र क्षुद्रेषु जन्तुषु स्मृतिभेदः । अनस्थिकाः प्राणिन इत्येके | स्वशोणितरहिता इत्यपरे । शतेनाञ्जलिर्येषां पूर्यते इत्यन्ये । गोचर्ममात्रेऽपि राशौ हते यत्र न पतितत्वं श्रुतिस्मृतिभ्यामुक्तमित्यपरे । नकुलपर्यन्ता इत्येके । इयमेव स्मृतिः प्रमाणमितरासां परस्परविरोधादिति । अत्र श्लोकः
क्षुद्रजन्तुरनस्थिः स्याद् अथवा क्षुद्र एव यः।
शतं वा प्रसृतौ येषां केचिदानकुलादपि ॥ (दु० टी० २।५।१६) इति । १०. काक्ष-कापथयोरादिविचारः
कुत्सितमक्षं काक्षम्, तेन वीक्षते इत्यर्थः । - - - - -कुत्सितोऽक्षः काक्षो द्यूतादिः । - - - - -कुत्सिते अक्षिणी यस्य स काक्षः । - - - - नैतद् भाष्ये वात्तिक च चिन्तितमिति । ईषत् पन्थाः कापथः, कुत्सितः पन्थाः कुपथ इति राजादित्वादत् । - - - - कुत्सितः पन्थाः कापथः । बहुव्रीहावप्यपरे – कुत्सितः पन्था यस्मिन् स कापथ इति राजादित्वादत् । अर्थग्रहणमिह सूत्रे सुखार्थम् (दु० टी० २।५।२५)। ११. तस्प्रत्ययप्रवृत्तिविषयकमभिमतम् __"ङसिः स्मात्' इति वचनबलाद् विकल्पो लभ्येत इत्याह – अथवेति । - - - तर्हि कथं 'सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः' (रघु० २।५५)
Page #24
--------------------------------------------------------------------------
________________
१४
कातन्त्रव्याकरणम्
इति रघुप्रयोगः | उच्यते – असर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्य इति वचनेऽपिशब्दाद् निषिद्धसर्वनाम्नोऽपि स्यात् । अत एव वृत्तिकृता - - - - - - - - - युष्मद्धीयते इति प्रत्युदाहृतम् । - - - - - - - - एवं च सति ‘त्वत्तो ब्रह्मविदां वर, मत्तस्तत् प्राप्यतां सर्वम्' इत्यपि भवति । टीकाकृता तु 'त्वत्तो मत्तो भवत्तः' इति विवक्षया भवत्येवेत्युक्तम् (क० च० २।६।२८)।
विषयसिद्धान्ताभिमतोत्कर्षादिसूचकानि स्मरणीयानि वचनानि १. शब्दानां नित्यत्वात् (दु० टी० २।४।८)। २. न हि कायप्राप्तावेवापायो भवति किन्तर्हि चित्तप्राप्तावपीति (वि० प०
२।४।८; द्र० - न्यासः १।४।२४) । ३. सर्वपारिषदत्वाद् व्याकरणस्य (वि० प० २।४।८; क० च० २।४।१७) । ४. 'चेतनावन्तः सर्वे भावाः' इति दर्शनेन (दु० टी० २।४।१३)। ५. लिङ्गं तु वस्तुमात्रस्याभिधायकम् (दु० टी०, वि० प० २।४।१७)। ६. अन्तरेण पुरुषकारेण न किञ्चिल्लभ्यते (दु० वृ०२।४।२२) । ७. संज्ञास्तु लोकतः एव प्रतिपत्तव्याः (वि० प० २।४।२३)। ८. नियतप्रयोगा हि केचिदव्ययाः (क० च० २।४।२६)। ९. हेत्वधीनः कर्ता, कधीनं करणम् (वं० भा० २।४।३०)। १०. संभ्रान्तिज्ञानमज्ञानमेव, ज्ञानकार्याकरणात् (वि० प० २।४।३८)। ११. शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्धः (दु० टी० २।५।१)। १२. संशये तु सदा बहुवचनं प्रयुज्यत एव (वि० प० २।५।९)। १३. पञ्जिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति (दु० टी०२।५।१४)। १४. अक्षरमिह वर्णः स्वरो वा (क० च० २।५।२३)। १५. पदसंस्कारकं हि व्याकरणम् (दु० टी० २।६।१)। १६. शिल्पं विज्ञानकौशलम् (दु० टी०, वि० प० २।६।८)।
पाणिनीयव्याकरणाद्यपेक्षया कातन्त्रीयसूत्ररचनाविषयप्रक्रियादौ किं वैशिष्ट्यं तावदस्तीति सर्वमवगन्तुं प्रतिसूत्रं प्रस्तुता हिन्दीसमीक्षा द्रष्टव्या । आचार्यदुर्गसिंहेन कातन्त्रवृत्तावुदाहरणरूपेण यानि शब्दरूपाणि दर्शितानि सन्ति, तेषां सर्वेषां समीक्षानन्तरं साधनं कृतमस्ति ।
Page #25
--------------------------------------------------------------------------
________________
भूमिका
१५ वृत्ति-टीका-पञ्जिका-कलापचन्द्रेतिव्याख्याचतुष्टयस्य सम्पादनातिरिक्तं श्रीपतिदत्तप्रणीतं कातन्त्रपरिशिष्टमपि परिशिष्टत्रितये योजितमस्ति ।प्रथमे परिशिष्टे कारकप्रकरणस्य ११२ सूत्राणि, स्त्रीप्रत्ययप्रकरणस्य च १०५ सूत्राणि सवृत्तिकानि समुद्धृतानि । द्वितीये परिशिष्टे समासप्रकरणस्य १८२ सूत्राणि, राजादिवृत्तेर्दुर्गसिंहकृतानि च ६५ सूत्राणि संगृहीतानि । तृतीये परिशिष्टे तमादिवृत्तेर्दुर्गसिंहप्रणीतानि ३२ सूत्राणि सवृत्तिकानि समुपस्थापितानि । चतुर्थपरिशिष्टे ७५७ रूपसिद्धिशब्दानाम्, पञ्चमपरिशिष्टे व्याख्याचतुष्टयोद्धृतानां २५० श्लोकानाम्, षष्ठपरिशिष्टे ७४९ संख्याकानां व्युत्पत्तिपरकशब्दानाम्, सप्तमपरिशिष्टे १४७ पारिभाषिकशब्दानाम, अष्टमपरिशिष्टे १३८६ विशिष्टशब्दवचनानाम्, नवमपरिशिष्टे ७७ उद्धृतग्रन्थानाम्, दशमपरिशिष्टे ११२ ग्रन्थकाराचार्याणाम्, एकादशपरिशिष्टे च हस्तलिखित-मुद्रितग्रन्थानाम् अक्षरानुक्रमेण पृष्ठ-संख्यानिर्देशसहिता सूची संनिबद्धास्ति ।
कृतज्ञताप्रकाश
सर्वप्रथमं सुकृतिनस्ते वैष्णव-शैव-जैनबौद्धप्रभृतय आचार्याः सास्मर्यन्ते ये संस्कृतटीकाप्रणयन-भोटभाषानुवाद-भोटटीकाप्रणयनादिभिर्विशिष्टैः कर्मभिः कातन्त्रवाङ्मयसमृद्ध्या माहेन्द्री व्याकरणपरम्परामुज्जीवयन्तोऽद्यापि जयन्ति, प्रेरयन्ति च स्वीयैस्तथ्यपरैर्वचनैः सततं सरलस्य संक्षिप्तस्य चास्य व्याकरणस्याध्ययनान्वेषणादिप्रवृत्तये । दिगम्बरजैनमुनिमान्यश्रीविद्यानन्द-श्रीकनकोज्ज्वलनन्दिप्रभृतयस्तेऽप्याचार्या नूनं वन्दनीया अभिनन्दनीयाश्च सन्ति ये पुरस्कारादिप्रदानेन कार्यस्यास्य समीचीनां समीक्षामारचयन्ति | मान्यांस्तान् प्रति कृतज्ञतामावहस्तेभ्यः सर्वेभ्यो धन्यवादप्रदानेनात्मानमहं कृतिनं मन्ये ।
___ कातन्त्रोणादिसूत्राणां संस्कृतहिन्दीभाषामाध्यमेन कार्य पूर्वं डॉ० धर्मदत्तचतुर्वेदेन, भोटभाषामाध्यमेन च आचार्यलोसङ्नो—शास्त्रिणा समनुष्ठितमासीत् । शिष्यहितावृत्ति-न्याससम्पादनप्रकाशनाभ्यां डॉ० रामसागरमित्रेण कातन्त्रजिज्ञासूनां महानुपकारः कृतः । मुम्बई-जयपुर-मेरठ-दिल्लीतः प्रकाशितया कातन्त्ररूपमालया कातन्त्रीयशब्दसाधुत्वपरिज्ञाने सौविध्यमुपस्थापितम् । डॉ० रामनारायणदासप्रभृतयः केचिद् विद्वांसः कातन्त्रीयपरिभाषादिविषयाणां निर्देशनादिनाऽस्य हितं साधयन्तः परिलक्ष्यन्ते । एतेनैतेऽपि कातन्त्रवाङ्मयश्रीसंवर्द्धनपराः सर्वे सन्ति धन्यवादार्हाः ।
Page #26
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
इदमविस्मरणीयमाभाति यन्मयाद्यावधि कातन्त्राध्ययनान्वेषणसम्पादनलेखप्रकाशनादिकं यत् किञ्चिदनुष्ठितं तत् सर्वं साम्प्रतं परमोपकारकं मन्वानाः दिल्लीस्थश्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतयः राष्ट्रियसंस्कृतसंस्थानस्य निदेशकाश्च वाचस्पत्युपाधिभाजः श्रीवाचस्पत्युपाध्यायमहाभागा अतितरां सन्तोषं प्रीतिं चावहन्ति । एतत् सर्वं १४।३।९९ तमे दिनाङ्के दिल्लीनगरस्थप्राकृतभाषाभवनस्य सुरम्ये प्राङ्गणे आचार्य - उमास्वामिपुरस्कारप्रदानावसरे, १५-१६ ।३।९९ तमयोर्दिनाङ्कयोः श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य परिसरे आचार्यश्रीकुन्दकुन्दव्याख्यानमालान्तर्गतविशिष्टव्याख्यानप्रवर्तनावसरे च तदीयेन सारगर्भितेन व्याख्यानेन मया साक्षात्कृतमासीत् । तदीयामिमां प्रोत्साहनपरामुपकारपरम्परां संस्मरंस्तेभ्यो वचसामगोचरकल्पस्य धन्यवादस्य प्रदानं स्वकीयं सत्कर्तव्यं मन्ये । आचार्यश्रीवलदेवोपाध्याय-गुरुवर्यश्रीवैकुण्ठनाथशास्त्रि- पूर्वकुलपतिश्रीमण्डनमिश्रमहोदयान् प्रति प्रणामाञ्जलिना कृतज्ञतां विज्ञापयामि । ऐषमः अप्रैलमासस्य षड्विंशे दिनाङ्के मदीयाभिनन्दनसमारोहायोजनेन सारनाथस्थकेन्द्रीय - उच्चतिब्बतीशिक्षासंस्थानस्य निदेशकेन माननीयेन श्रीमता समदोड्रिनपोछेमहाभागेन कातन्त्रव्याकरणं प्रति यो हि आत्मीयः समादरभावः सम्प्रकाशितस्तदर्थं ते, पूर्वकुलपतिश्रीवेङ्कटाचलम्महोदयाः, संस्थानीयाधिकारिणः, सम्प्रेरकाः प्रो० रामशङ्करत्रिपाठिमहोदयाश्चावश्यं मत्पक्षीयधन्यवादराशिभाजो भवन्ति ।
आचार्यकुन्दकुन्दप्राकृतभाषासाहित्यपुरस्कारेण सम्मानितः प्राकृतविद्यासंपादकः प्रो० राजारामजैनमहोदयः, उपनिदेशको डॉ० सुदीपजैनः, टाइम्स ऑफ इण्डियापत्रस्य कार्यकारिनिदेशकः श्रीरमेशचन्द्रजैनः, जागृतवीरसमाजस्य सचिवः श्रीप्रतापजैनः, नित्यनूतनपत्रिकासंपादिका सुश्रीनिर्मलादेशपाण्डेया, तिब्बतीसंस्कृतादिकोशसम्पादको राज्यसभासदस्यश्च श्रीलोकेशचन्द्रमहोदयः, 'गाण्डीवम्' संस्कृतसाप्ताहिकपत्रसंपादकः श्रीराधेश्यामधरद्विवेदः, सोऽहंसन्देशपत्रिकासम्पादको डॉ० विजयशंकरचौबेमहोदयः, बीनास्थ - अनेकान्तज्ञानमन्दिरशोधसंस्थानस्य संस्थापकः ब्र० संदीपजैनसरलः, तिब्बतीसंस्थानीयन्यूजलेटरसम्पादकः, 'नवभारत टाइम्स - दैनिकजागरण-आज' दैनिकपत्रसम्पादकाश्चापि शुभाशंसा-जीवनवृत्तादिसन्देशसम्प्रदानेनोत्साहसंवर्धनपरा धन्यवादार्हाः सन्ति ।
Page #27
--------------------------------------------------------------------------
________________
१७
भूमिका व्याख्याचतुष्टयोपेतस्य चतुरध्यायात्मकस्यास्य कातन्त्रव्याकरणस्य पञ्चषखण्डेषु परिकल्पितां महतीं प्रकाशनयोजनां १९९६ तमे यीशवीयाब्देऽङ्गीकृत्य वाराणसेयसम्पूर्णानन्दसंस्कृतविश्वविद्यालयेन तदीयप्रकाशनसमित्या च बलीयान् कश्चित् स्वीयः प्राच्यभारतीयग्रन्थनिधिसंरक्षणसंकल्पः संसाधितः पूर्वम् । तदनुसारं १९९७ तमे यीशवीयवर्षे सार्धचतुःशतपृष्ठात्मकः सन्धिविषयकः प्रथमो भागः, १९९८ तमे यीशवीयाब्दे नामचतुष्टयाध्यायस्य द्वितीयभागस्य प्राथमिकपादत्रितयात्मकः प्रथमखण्डः प्रकाशितोऽभूत् । तस्यैव द्वितीयभागस्योत्तरार्धवर्तिकारकसमासतद्धितेतिपादत्रितयात्मको द्वितीयखण्डोऽधुना प्रकाशनपदवीमुपयाति । अत्रापेक्षितनिर्देशन-व्यवस्था-समाधानादिकार्यजातस्य निर्वाहाय कुलपति - कुलसचिवप्रकाशननिदेशक-तदीयसहयोगिनोऽपि नूनं वन्दनीया यशोभाजश्च भवन्ति । तस्मात् परममाननीयान् कुलपतिश्रीराममूर्तिशर्ममहोदयान् प्रति प्रणामाञ्जलिना, कुलसचिवाद्यधिकारिवर्गं प्रति विनयव्यापारेण, अथ च सुहृद्वर्यान् प्रकाशननिदेशकश्रीहरिश्चन्द्रमणित्रिपाठिमहोदयान् प्रति सुहृत्सम्मितसद्भावध्वनितधन्यवादप्रदानेन च स्वीयां कृतज्ञतां विज्ञापयामि ।
ईक्ष्यपत्रसंशोधनादिकार्येषु कौशलेन साहाय्यमाचरन्तः डॉ० हरिवंशपाण्डेयकन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितसन्मुद्रणयोजनाव्यापारपरा आनन्दप्रिंटिंगप्रेससञ्चालकश्रीदिवाकरत्रिपाठि-तदीयसहयोगिनोऽपि सन्ति धन्यवादार्हाः । भूमिकावचःसारमिदमवश्यमेव ध्येयमास्ते एषु श्लोकवचनेषु
जैनीयव्याकरणमेव मतं कलापं यस्माद् दिगम्बरमुनिः श्रुतशर्ववर्मा। एवं वदन्ति मुनयो जिनपक्षदक्षा बौद्धं बभूव ननु भोटपरम्परायाम्॥१॥ कातन्त्रनीतिनिपुणा बहुधा विदन्ति यत्सारसाधकमिदं सरलं क्रियायाम्। बह्नर्थसंभृतमहो विशदां च शैलीमाविष्करोति सततं बुधभावनीयाम् ॥२। चतुर्थे पादे कारकमिह विभक्तीर्वितनुते समासः षोढा वै तदनु बहुभेदानधिगतः। ततः षष्ठे प्रोक्तो बहुजनहितस्तद्धितविधिः समीक्षायां सर्वं निहितमिदमास्ते बहुफलम् ॥३॥
Page #28
--------------------------------------------------------------------------
________________
१८
कातन्त्रव्याकरणम्
नामाध्यायत्रिपादेषु कारकं यद् विचिन्तितम् । समासस्तद्धितश्चापि खण्डेऽस्मिंस्तत् समीक्षितम् ॥४॥ एवमध्याययुग्मं तु सन्धिस्यादिमयं गतम् । रुद्रपादात्मकं सूत्रैः संक्षिप्तं शर्ववर्मणा ॥५॥ कुमारस्य प्रसादेन कौमारं स्याद् बहुश्रुतम् । संमतं जैनबौद्धादिशाब्दिकैः सततं भुवि ॥६॥
वि० सं० २०५६ वैशाखपूर्णिमा दि० ३०।४।१९९९
विदुषामाश्रवः जानकीप्रसादद्विवेदः उपाचार्यः संस्कृतविभागे के० उ० ति० शि० संस्थानम्, सारनाथ- वाराणसी
Page #29
--------------------------------------------------------------------------
________________
॥श्रीः॥
विषयानुक्रमणी द्वितीये नामचतुष्टयाध्याये चतुर्थः कारकपादः
१. अमादेश तथा लुगविधान
पृ० सं०१ - २८ [ 'उपकुम्भम्' इत्यादि में अव्ययीभाव समास से परवर्ती 'सि' आदि विभक्तियों के स्थान में अम् आदेश, सूत्रपठित 'अव्ययीभावात्' तथा 'अकारान्तात्' इन दो पदों में विशेष्य - विशेषण के निर्धारणार्थ विशेष्य-विशेषण शब्दों की परिभाषाएँ, विशेष्य-विशेषण की समानविभक्त्यादिपरता, उद्देश्यविधेयभाव में लिङ्गादियोजना की अनिवार्यता नहीं, उद्देश्य - विधेय शब्दों की व्युत्पत्ति, तृतीयासप्तमी विभक्तियों के स्थान में वैकल्पिक अमादेश । अकारान्तभिन्न अव्ययीभाव समास में 'सि' आदि विभक्तियों का लुक्, अव्ययसंज्ञा के अन्वर्थ होने से अव्ययीभाव की अव्ययसंज्ञा का अभाव, अव्यय शब्द की व्युत्पत्ति, ‘पञ्चालाः, विदेहाः' आदि जनपदसमान शब्दवाले क्षत्रियविशेष के बोधक शब्दों से बहुबचन में विहित अपत्य प्रत्यय का लुक्, इन शब्दों के अवबोधार्थ पाणिनि की तद्राजसंज्ञा तथा कातन्त्रकार का 'रूढ' शब्दप्रयोग, लोकसिद्ध शब्दों को व्युत्पादित करने की आवश्यकता नहीं, मन्दमतिबोधार्थ लुविधान, तद्धितशब्दों की आकृतिप्रधानता, पौत्र तथा दौहित्र में विशेषाभाव, गर्गादि-बिदादि -यस्कादि गणपठित शब्दों से तथा 'भृगु' आदि ऋषिनामों से बहुत्व अर्थ में विहित अपत्यप्रत्यय का लुक्, कुलसम्बन्ध के प्रति गर्ग और गार्य में अभेद ] | २. अपादानसंज्ञा
' पृ० सं०२८-४५ [ पाणिनीय व्याकरण में अपादानसंज्ञाविधायक आठ तथा कातन्त्र में दो सूत्र, अपादान के दो भेद - बाह्य और बौद्ध, कातन्त्रविस्तरकार का अभिमत, अपादान के तीन भेद, अपादान महासंज्ञा की अन्वर्थता, इसका नाट्यशास्त्र में उल्लेख, चान्द्रजैनेन्द्र-हेमचन्द्र-मुग्धबोध-अग्निपुराण-नारदपुराण एवं शब्दशक्तिप्रकाशिका में इसका
Page #30
--------------------------------------------------------------------------
________________
२०
कातन्त्रव्याकरणम्
उल्लेख, महाभाष्यकार द्वारा अपादान के कारकत्व का अक्षुण्ण होना, वैयाकरणों का शब्दविषयक प्रामाण्य, हेमकर आदि आचार्यों के विविध विचार] । ३. सम्प्रदानसंज्ञा
पृ० सं० ४५-५७ [पाणिनि के एतदर्थ ९ सूत्र, कातन्त्र में एक ही सूत्र, शेष अर्थों का व्याख्याबल से ग्रहण, सम्प्रदान के तीन भेद, नाट्यशास्त्र में सम्प्रदान का उल्लेख, लोकव्यवहारानुरोध से सम्प्रदानसंज्ञा का प्रयोग, जैनेन्द्र – शाकटायनहेमचन्द्र-मुग्धबोध-अग्निपुराण-नारदपुराण तथा शब्दशक्तिप्रकाशिका में इसका व्यवहार]। ४. अधिकरणसंज्ञा
पृ० सं० ५७ - ६६ [पाणिनीय तथा कातन्त्र दोनों ही व्याकरणों में आधार की अधिकरणसंज्ञा, साक्षात् संबन्ध से क्रिया का कर्ता तथा कर्म में रहना, परम्परा से क्रिया के आधार की अधिकरणसंज्ञा, अधिकरण के तीन भेद, अधिकरण के सोदाहरण छह भेद, वररुचि-मत का निरसन, नाट्यशास्त्र में प्रभृतिशब्द से अधिकरण का उपादान, भाष्यव्याख्याप्रपञ्चकार द्वारा प्रस्तुत भागुरिमत, जैनेन्द्र-हेमचन्द्र - मुग्धबोधव्याकरण - अग्निपुराण - नारदपुराण तथा शब्दशक्तिप्रकाशिका में अधिकरण का प्रयोग, न्यासकार आदि विविध आचार्यों के मत] । ५. करणसंज्ञा
पृ० सं० ६६-७१ [ क्रिया की सिद्धि में अपेक्षित अनेक साधनों में से कर्ता जिस साधन को अन्तरङ्ग समझकर उससे कार्य करने का निश्चय करता है, उसकी पाणिनीय तथा कातन्त्र में करणरज्ञा, करण के दो भेद - बाह्य तथा आभ्यन्तर, नाट्यशास्त्र में प्रभृतिनिर्देश से करण का उपादान, करण की अन्वर्थता, जैनेन्द्र आदि अर्वाचीन व्याकरणों में करण संज्ञा का प्रयोग] । ६. कर्मसंज्ञा
पृ० सं०७१ - १०० [फल के आश्रय की कर्मता, पाणिनि के कर्मसंज्ञाविधायक पाँच सूत्र, कातन्त्रकार का एक सूत्र, शेष की अनावश्यकता का प्रतिपादन, तीन प्रकार का कर्म, निवर्त्य - विकार्य - प्राप्य कर्म का अर्थ, क्रियाप्रधान आख्यात, पदमात्र में
Page #31
--------------------------------------------------------------------------
________________
२१
विषयानुक्रमणी क्रिया की प्रधानता, क्रियाविशेषण का कर्मत्व – नपुंसकत्व – एकत्व, अमूर्त क्रिया में लिङ्गसंख्या का अयोग, कर्ता के विना क्रिया असंभव, कर्ता-गत क्रिया से व्याप्त होने वाले की कर्मसंज्ञा, क्रियाविशिष्ट साधन की कर्मता, चन्द्रगोमिमत का अनुसरण, नाट्यशास्त्र तथा काशकृत्स्न व्याकरण में कर्मसंज्ञा का उपादान, चान्द्र - जैनेन्द्र - हेमचन्द्र - मुग्धबोधव्याकरण - अग्निपुराण - नारदपुराण तथा शब्दशक्तिप्रकाशिका में कर्मसंज्ञा का प्रयोग, द्विकर्मक धातुएँ, चन्द्रगोमी-कुलचन्द्र-श्रीपतिदत्त- जयादित्य आदि आचार्यों के विविध मत] । ७. कर्ता संज्ञा तथा हेतुसंज्ञा
पृ० सं० १००-११० [पाणिनि तथा शर्ववर्मा द्वारा समान अर्थ में कर्ता संज्ञा, क्रियाश्रयत्वरूप तथा प्राधान्येन धातुवाच्यव्यापारवत्त्वरूप कर्तृत्व, तीन प्रकार का कर्ता, नाट्यशास्त्र तथा काशकृत्स्नधातुव्याख्यान में कर्तृसंज्ञा का उपादान, जैनेन्द्र-हेमचन्द्र-मुग्धबोधअग्निपुराण- नारदपुराण तथा शब्दशक्तिप्रकाशिका में कर्ता का उल्लेख, कृत् की योग्यता में शक्ति, स्वतन्त्र कर्ता को किसी कार्य में नियुक्त या प्रवृत्त करने वाले की हेतुसंज्ञा तथा कर्तृसंज्ञा, तीन प्रकार का हेतु, हेतु की अन्वर्थता, हेतु और करण में भेद, काशकृत्स्नव्याकरण में हेतु संज्ञा का प्रयोजक शब्द से ग्रहण ] | ८. परवर्ती कारक की प्रवृत्ति
पृ० सं० ११०-१४ [भिन्न-भिन्न व्याकरणों में कारकों के दो क्रम - १. अपादान-सम्प्रदान करणअधिकरण-कर्म-कर्ता एवं २. कर्ता-कर्म-अधिकरण-करण-सम्प्रदान-अपादान, एक ही स्थल में प्राप्त दो कारकों में से प्रथम क्रम के अनुसार परवर्ती कारक की प्रवृत्ति एवं द्वितीय क्रम के अनुसार पूर्ववर्ती कारक की प्रवृत्ति, शर्ववर्मा द्वारा अधिकरण- करण का क्रम तथा पाणिनि द्वारा करण-अधिकरण का क्रम अपनाना, अर्थलाघव के अभीष्ट होने से कारक संज्ञा का व्याख्यात न होना, श्रीपतिदत्त आदि आचार्यों द्वारा उसकी मान्यता, विवक्षावशात् कारकों की प्रवृत्ति, लोकव्यवहारानुरोध से सम्प्रदान जादि संज्ञाओं का उपादान, अपाणिनीय होने से श्रीपति के सूत्र की असाधुता, व्यक्ति तथा जातिरूप पदार्थ] ।
Page #32
--------------------------------------------------------------------------
________________
२२
कातन्त्रव्याकरणम्
९. प्रथमाविभक्ति
पृ० सं० ११४-२८ [पाणिनि द्वारा पाँच अर्थों में तथा शर्ववर्मा द्वारा तीन ही अर्थों में प्रथमा विभक्ति का विधान, शेष दो अर्थों का व्याख्यानबल से ही ग्रहण, नामप्रातिपदिक या लिङ्ग के पाँच अर्थ - जाति, व्यक्ति, लिङ्ग, संख्या तथा कारक, पाणिनि के अनुसार प्रातिपदिक के दो अर्थ - जाति एवं व्यक्ति, शर्ववर्मा के अनुसार लिङ्ग के तीन अर्थ - जाति, व्यक्ति तथा लिङ्ग, टीकाकार दुर्गसिंह दो ही अर्थों को मानने के पक्ष में, वस्तुमात्र का अभिधायक लिङ्ग, विभक्तियों का ही कर्मादिशक्ति रूप अर्थ, पदार्थ कभी सत्ता को नहीं छोड़ता, अभेद-विवक्षा भी भेदविवक्षापूर्वक ही होती है, उक्तार्थ का प्रयोग दृष्ट है, लिङ्गार्थ सत्ता, एक शब्द की अनेकार्थवाचकता, सर्वनाम की बुद्धिस्थवाचिता, पाणिनि के द्वारा ‘संबोधन' शब्द का तथा शर्ववर्मा द्वारा ‘आमन्त्रण' शब्द का प्रयोग, कुलचन्द्र - श्रीपति आदि आचार्यों के विविध विचार] | १०. कर्मादि कारकों में द्वितीयादि विभक्तियों का विधान
पृ० सं०१२८-३५ ['शेष' शब्द से द्वितीया-तृतीया-चतुर्थी-पञ्चमी-षष्ठी-सप्तमी विभक्तियों का ग्रहण, पाणिनि-द्वारा प्रोक्त कुछ सूत्रों की अनावश्यकता, सम्बन्ध का कारकत्वाभाव, वररुचि-कुलचन्द्र-हेमकर आदि आचार्यों के विविध अभिमत, 'चर्मणि द्वीपिनम्' आदि में सप्तमी विभक्ति के विधानार्थ दुर्गसिंह का वार्तिक सूत्र] । ११. द्वितीया आदि का अन्यत्र विधान पृ० सं० १३५ -२०९
[परि-अप-आङ् उपसर्ग के योग में पञ्चमी विभक्ति, विना ही कर्मप्रवचनीय संज्ञा के पञ्चमी का विधान, सूत्रस्थ योग शब्द का सुखप्रतिपत्त्यर्थ पाठ, श्रीपति के अमिमत की हेयता, दिग्वाची शब्द-इतर-ऋते-अन्य शब्दों के योग में पञ्चमी विभक्ति, लोकोपचार से पूर्व आदि की दिक्संज्ञा, एन-प्रत्ययान्त शब्द के योग में द्वितीया विभक्ति, कातन्त्रव्याकरण में स्वरविधि के अभाव में प्-अनुबन्ध न लगाना, अन्तरा - अन्तरेण शब्दों का अव्ययत्व, आपिशलीय व्याकरण में समया आदि की कर्मप्रवचनीय संज्ञा, 'तत्रागारं धनपतिगृहाद् उत्तरेणास्मदीयम्' वचन के अन्तर्गत 'उत्तरेण' में तृतीयाविधान, चकाराधिकार से 'निकषा' आदि के योग में द्वितीया,
Page #33
--------------------------------------------------------------------------
________________
विषयानुक्रमणी कर्मप्रवचनीय शब्दों के योग में द्वितीया विभक्ति, लोकोपचार से कर्मप्रवचनीय संज्ञा की मान्यता, उभयप्रामाण्य से विकल्प की सिद्धि, कर्मप्रवचनीय की परिभाषा ‘अवअपि' में अकारलोपविषयक भागुरि आचार्य का अभिमत, कुलचन्द्र - मैत्रेयरक्षित आदि के विचार, गत्यर्थक धातुओं के कर्म में द्वितीया - चतुर्थी विभक्तियाँ, चेष्टा की परिभाषा, विविध आचार्यों के मत, मन्-धातु के जिस कर्म से अनादर सूचित होता है, उसमें द्वितीया चतुर्थी विभक्तियों का विधान, 'नमः- स्वस्ति-स्वाहा स्वधाअलम्-वषट्' पदों के योग में चतुर्थी विभक्ति, उपपदविभक्ति की अपेक्षा कारकविभक्ति का बलीयस्त्व, कुछ अव्ययों का नियत प्रयोग, कुलचन्द्र-वैद्यतर्काचार्य के विचार, ‘अलम्' शब्द का अर्थपरक निर्देश, पर्याप्त्यर्थक अलम्शब्द के योग में चतुर्थी, तादर्थ्य में चतुर्थी, दुर्गसिंह द्वारा चान्द्रव्याकरण के सूत्र का समावेश, तुम्-समानार्थक भावप्रत्ययान्त शब्दों से चतुर्थी विभक्ति, श्रीपतिदत्त के मत की प्रशंसा, सहशब्द के योग में तृतीया विभक्ति, षष्ठी विभक्ति की तरह अप्रधान में तृतीया का विधान, हेत्वर्थ में तृतीया, अर्थ-शब्द का सुखार्थ प्रयोग, कारकों का विवक्षा से विधान, दो प्रकार का हेतु-शास्त्रीय-लौकिक, हेतु-करण में अन्तर, हेतु के अधीन कर्ता, कर्ता के अधीन करण, निन्दार्थबोधक अङ्गवाची शब्द से तृतीया विभक्ति, पाणिनि के विकार-शब्द की अपेक्षा कातन्त्रीय कुत्सा शब्द का पाठ अधिक स्पष्टावबोधक, शरीरार्थक अङ्गशब्द, विशेषणवाची शब्दों से तृतीया, समानाधिकरण – व्यधिकरण के रूप में दो प्रकार का विशेषण, विशेषण - विशेष्यशब्दों की व्युत्पत्ति, कर्तृसंज्ञक शब्द से तृतीया विभक्ति, वैचित्र्यार्थ चकारोपादान, कालवाची - भाववाची शब्दों से सप्तमीविभक्ति, कालशब्द के उपादान की अनर्थकता, प्रसिद्ध क्रिया की विशेषणरूपता, 'स्वामिन् – ईश्वर-अधिपतिदायाद-साक्षिन्-प्रतिभू-प्रसूत' शब्दों के योग में षष्ठी-सप्तमी विभक्तियाँ निर्धारण अर्थ की विवक्षा में षष्ठी-सप्तमी विभक्तियाँ, जाति-गुण-क्रिया के द्वारा समुदाय से एकदेश का पृथक्करण, हेतु-शब्द के प्रयोग में षष्ठी विभक्ति, प्रयोग शब्द का सुखार्थ ग्रहण, स्मरणार्थक धातुओं के कर्म में षष्ठी विभक्ति, जयादित्य - श्रीपतिदत्तहेमकर आदि आचार्यों के विचार, संभ्रान्तिज्ञान भी अज्ञान है । प्रतियत्न अर्थ के
Page #34
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
गन्यमान होने पर कृ - धातु के कर्म में षष्ठी विभक्ति, हिंसार्थक धातुओं के कर्म में षष्ठी विभक्ति, रुजार्थ-हिंसार्थ की अभिन्नता, प्राणियों को किसी भी प्रकार की पीडा पहुँचाना हिंसा, कृत्प्रत्ययान्त शब्दों के प्रयोग में कर्ता-कर्म कारकों में षष्ठी विभक्ति, वाक्यव्यवहार का बुद्ध्यवस्था पर आधारित होना, निष्ठादि कृत्-प्रत्ययान्त शब्दों के प्रयोग में कर्ता-कर्म में षष्ठी विभक्ति का निषेध ] | १२. णकार - अनुस्वार - वर्गीय अन्त्य वर्ण चवर्ग - टवर्ग षकारणकार आदेश पृ० सं० २१० - ३२ [ ' षण्णाम्' में डकार को नकारादेश, 'पुंसः - शान्तिः' में मकार नकार को अनुस्वारादेश, पाणिनीय झल् प्रत्याहार के लिए धुट् शब्द का व्यवहार, 'शङ्किता - नन्दिता' इत्यादि में अनुस्वार के स्थान में वर्गीय अन्त्य वणदिश, 'लज्जते यज्ञःषण्णाम्' इत्यादि में तवर्ग के स्थान में चवर्ग - टवर्ग आदेश, 'सर्वेषाम् - धनूंषिअग्नीषोमौ' इत्यादि में दन्त्य सकार को मूर्धन्य षकारादेश, उदाहरणों का विस्तार मन्दबुद्धि वालों के सुखपूर्वक अवबोधार्थ, 'हरणम् अर्हेण-दर्पेण- तिसृणाम् बृंहणम्' इत्यादि में नकार को णकारादेश, जिह्वामूलीय - उपध्मानीय के लिए विसर्ग का व्यवहार, दीर्घार्थ वर्णशब्द का पाठ, शिष्टव्यवहार से अन्य उदाहरणों का उपादान ] १३. स्त्रीलिङ्ग में 'आ-ई' प्रत्यय पृ० सं० २३२-४८
२४
-
[ अकारान्त शब्दों से स्त्रीलिङ्ग में आ-प्रत्यय, लोकव्यवहार के अनुसार पुंलिङ्गस्त्रीलिङ्ग नपुंसकलिङ्ग का विधान, लोक शब्द से शास्त्रकारों का ग्रहण, नदादिगणपठितअन्च् – भागान्त-वाभागान्त-उकारान्त-इकारान्त-अन्स्भागान्त-अन्तभागान्त-ऋकारान्तसखि - नकारान्त शब्दों से स्त्रीलिङ्ग में 'ई' प्रत्यय, नदादिगण का आकृतिगण होना, युक्तिवचनों के आधार पर कातन्त्रकार द्वारा आश्रित लाघव, अभेदोपचार से यवनानी, भेदोपचार से यावनी, 'स्वाङ्ग-वयः' आदि की परिभाषाएँ, गणनिर्देश से उदाहरणों का विस्तार दिखाना सुखपूर्वक बोध के लिए, 'भूमि - युवति' इत्यादि शब्दों सेई प्रत्यय के विना ही स्त्रीत्व का अवबोध ] | १४. अकारलोप तथा हस्वादेश
पृ० सं० २४८-५३ [ स्त्रीलिङ्गसम्बन्धी ईकार के परवर्ती होने पर पूर्ववर्ती अकार का लोप, कातन्त्रकार की सूत्ररचना में लाघवकृत उत्कर्ष, 'कार' शब्द से स्वरूपमात्र का
Page #35
--------------------------------------------------------------------------
________________
विषयानुक्रमणी
२५
ग्रहण, नपुंसकलिङ्ग में वर्तमान लिङ्गान्त्य स्वर वर्ण को ह्रस्व आदेश, यत्-तद् का नित्य सम्बन्ध, स्वरग्रहणसामर्थ्य से योगविभाग की संभावना ] |
पञ्चमः समासपादः
१५. समाससंज्ञा, विभक्तिलोप, प्रकृतिभाव, व्यञ्जनान्त लिङ्ग के सभी कार्य पृ० सं० २५३ - ८५
[ विद्वानों द्वारा समास - व्यास का अवधारण, समासशब्द का संक्षेप तथा व्यास शब्द का विस्तार अर्थ, समास - वाक्य की प्रक्रिया मन्दमति व्यक्तियों के अवबोधार्थ, समास के लिए एकार्थीभाव का प्रयोग, समासगत शब्दों की प्रधानमप्रधानता, समास के दो प्रकार से छह भेद, निरुक्त - बृहद्देवता - ऋक्प्रातिशाख्य-वाजसनेयिप्रातिशाख्यअथर्ववेदप्रातिशाख्य-ऋक्तन्त्र नाट्यशास्त्र आदि प्राचीन ग्रन्थों तथा मुग्धबोधव्याकरणजैनेन्द्र-शाकटायन-हैमव्याकरण - अग्निपुराण-नारदपुराण तथा शब्दशक्तिप्रकाशिका में समास का प्रयोग, संज्ञाविधि का नित्य-विकल्प - अनित्य होना, शब्द-अर्थ में वाच्यवाचकभाव सम्बन्ध, लोकप्रसिद्ध वाक्य से साध्य - साधन का अवबोध, वृत्ति का परार्थाभिधान, सुखार्थ ‘अर्थ' शब्द का उपादान, कृत्-तद्धितसमास का अभिधानलक्षण होना, समर्थ की परिभाषा, समास में प्रयुक्त 'सि' आदि विभक्तियों का लोप, विभक्तियों का अलुक् होना, आत्मनेपद-परस्मैपद-आत्मनेभाष-परस्मैभाष' शब्दों की यथाकथंचित् व्युत्पत्ति, शिष्टप्रयोग के अनुसार अन्यत्र अलुक्, स्वरान्तलिङ्ग का प्रकृतिभाव, विभक्ति - निमित्तक कार्यों का अभाव, सन्धिकार्यों का होना, अन्तशब्द का ग्रहण सुखपूर्वक अवबोधार्थ अर्थानुरोध से विभक्तियों का विपरिणाम, सकार-भकार के परे रहते जो कार्य बताए गए हैं, विभक्तिलोप हो जाने पर उन
सभी का सम्पन्न होना ] । १६. कर्मधारयसंज्ञा
7
-
पृ० सं० २८५-३२० [विशेष्य-विशेषण पदों के समास की कर्मधारयसंज्ञा, कर्मशब्द की धर्मार्थपरता, बृहद्देवता - नाट्यशास्त्र में कर्मधारय का प्रयोग, जैनेन्द्र- शाकटायनहेमचन्द्र - मुग्धबोधव्याकरण-शब्दशक्तिप्रकाशिका -अग्निपुराण तथा नारदपुराण में कर्मधारय, गुण-द्रव्य का विशेष्यविशेषणभाव, वैयाकरणों की शब्दविषयक
Page #36
--------------------------------------------------------------------------
________________
२६
कातन्त्रव्याकरणम्
प्रामाणिकता, संज्ञा में नित्य समास, समास-तद्धित प्रकरणों की सुखपूर्वक अवबोधार्थ अनुष्टुप् छन्द में रचना, 'उदनाचार्य' इत्यादि शब्दों में मध्यमपदलोपी समास, लोक में द्रव्य की प्रधानता, 'नअर्थः प्रलयं गतः' का उपस्थापन, अवयवधर्म से समुदाय का व्यपदेश, शर्ववर्मा द्वारा अर्थलाघव का अभीष्ट होना, सहस्रों मूर्यो की अपेक्षा एक पण्डित की विशिष्टता] । १७. बिगुसंज्ञा
पृ० सं० ३२०-२४ [तद्धितार्थ-उत्तरपद-समाहार में संख्यापूर्वक कर्मधारय समास की द्विगुसंज्ञा , बालकों के अवबोधार्थ समास - तद्धित प्रकरणों की अनुष्टुप् छन्द में रचना, पूर्वाचार्यों द्वारा द्विगु संज्ञा की प्रसिद्धि, हेमचन्द्र आदि नवीन आचार्यों के द्वारा भी इसका प्रयोग, कातन्त्रव्याकरण में शब्दलाघव विचारणीय नहीं है, कुलचन्द्र आदि आचार्यों का अभिमत] । १८. तत्पुरुषसंज्ञा
पृ० सं०३२५ - ४३ [कर्मधारय-द्विगु की तत्पुरुषसंज्ञा, उभयशब्द का पाठ सुखार्थ, राजादिगण का आकृतिगण होना, द्वितीयादिविभक्तियों के समास की तत्पुरुषसंज्ञा, कातन्त्रकार द्वारा लोकाभिधान के आश्रय से संक्षिप्त मार्ग का आश्रयण, ‘देवाय नमः' आदि में अनभिधानवशात् समासाभाव, द्वितीयादि विभक्तियों का कहीं पूर्व पदों के साथ समास, पञ्जीकार द्वारा एक व्याख्या की कपोलकल्पना, बृहदेवता-निरुक्त-नाट्यशास्त्र आदि प्राचीन ग्रन्थों तथा जैनेन्द्र-शाकययन-हैम-मुग्धबोधव्याकरण-अग्निपुराण-नारदपुराणशब्दशक्तिप्रकाशिका आदि अर्वाचीन ग्रन्थों में तत्पुरुष संज्ञा का प्रयोग, कात्यायनजयादित्य-पाणिनि-वररुचि-मैत्रेयरक्षित आदि आचार्यों के विचार] । १९. बहुव्रीहिसंज्ञा
पृ० सं० ३४३ -५१ __ [विशेष्यविशेषणभावापन्न तथा अन्य पदार्थ को कहने वाले दो अथवा अधिक पदों के समास की बहुव्रीहिसंज्ञा, 'सहैव दशभिः' आदि में लोकाभिधान से समास की अप्रवृत्ति, सामान्य की भी विशेष के साथ समानता, अविज्ञात अर्थ में बहुवचन का प्रयोग शाकटायन-भाष्यकार-कुलचन्द्र आदि आचार्यों के विविध विचार, अन्तरालवर्तिनी दिशा के अर्थ में दो-दो मुख्य दिशाओं के वाचक शब्दों का बहुव्रीहि समास, वृत्तिमात्र में सर्वनाम का पुंवद्भाव ] ।
Page #37
--------------------------------------------------------------------------
________________
विषयानुक्रमणी
२७
२०. द्वन्द्वसमास
पृ० सं० ३५१ - ५४ [जिस समास में दो अथवा बहुत पदों का समुच्चय होता है उसकी द्वन्द्व संज्ञा, समुच्चय के दो भेद-इतरेतरयोग तथा समाहार, समुच्चय से भिन्न अन्वाचय, इतरेतरयोग की अवयवप्रधानता, समाहार की संहतिप्रधानता] । २१. पूर्वनिपात विधि
पृ० सं०३५४ -५८ [द्वन्द्वसमासघटित पदों में अल्पस्वर वाले पद का पूर्वनिपात, पुरुषापराध से विपरीत प्रयोग की संभावना, व्याख्याकारों द्वारा कुछ वार्तिक वचनों का उपस्थापन, अर्चित पद का पूर्वनिपात, महाभाष्य में वार्त्तिक वचन की उपलब्धि] । २२. अव्ययीभावसमास
पृ० सं० ३५८-६५ [पूर्वपदार्थविशेष्य की अव्ययीभाव संज्ञा, वृत्तिकार दुर्गसिंह द्वारा प्रस्तुत विभक्ति-समीप आदि अर्थ, दो प्रकार की ऋद्धि-समृद्धि, आत्मभावसम्पत्ति, अनेक प्रकार का अभाव, पञ्जिका नामक द्यूत, विद्याकृत-जन्मकृत वंश, वाक्य से संज्ञा का अभाव, शिष्टप्रयोग के अनुसार अन्य उदाहरणों का भी परिज्ञान] | २३. नपुंसकलिङ्ग-पुंवद्भाव आदि
पृ० सं० ३६५ - ४१३ [अव्ययीभावसमासविशिष्ट पद-समाहारद्वन्द्व-समाहारद्विगु-भाषितपुंस्क का पुंवद्भाव, महन्त् शब्द के अन्त्यावयव तकार के स्थान में आकारादेश, तत्पुरुष समास में नञ्घटित नकार का लोप, नञ्तत्पुरुष समास, स्वरवर्ण के परवर्ती होने पर 'न' तथा स्वर वर्ण का विपर्यय-तत्पुरुष समास में कु को कत् तथा का आदेशस्त्रीलिङ्गकृत ईकार तथा आकार को ह्रस्वादेश, ह्रस्व को दीर्घ आदेश, विसर्ग के स्थान में सकारादेश, ह्रस्व को दीर्घ आदेश, विसर्ग के स्थान में सकारादेश, संज्ञारूप तद्धितों का लोकोपचार से ही निश्चय, दर्श-पौर्णमास शब्दों का अर्थ, 'क्षुद्र' शब्द की अनेक व्याख्याएँ, स्मृति का प्रामाण्य, 'अनुवाद' शब्द का अर्थ, कुछ शब्दों की अभिधानव्यवस्था का भाष्यकार द्वारा समादर, लोक में उपमानोपमेयभाव की प्रसिद्धि, अवयव का समुदाय में अन्तर्भाव, जाति की व्याख्या, प्रतिपत्तिगौरव, 'अक्षर' शब्द से वर्ण तथा स्वर का ग्रहण, रूढ शब्दों की कथंचित् व्युत्पत्ति, सूत्र में 'अर्थ' शब्द का ग्रहण सुखार्थ, नञ् द्वारा निर्दिष्ट की अनित्यता, पञ्चविध निरुक्त] |
Page #38
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
षष्ठस्तद्धितपादः २४. अपत्यार्थक अण् प्रत्यय
पृ० सं०४१४-२१ [अपत्यार्थ की विवक्षा में वैकल्पिक अण् प्रत्यय, अपम-सामान्य की विवक्षा में आद्य प्रकृति से ही प्रत्यय, पौत्रादि की प्रशंसा अभीष्ट होने पर गोत्रापत्य अर्थ में प्रत्यय, अपत्य शब्द की व्युत्पत्ति, व्याकरण की पदसंस्कारकता, अपत्यार्थक पाणिनि के २५ प्रत्यय - ३आदेश - ३आगम ७१ सूत्रों में, कातन्त्र के ५ प्रत्यय ६ सूत्रों में] | २५. गर्गादिगणपठित शब्दों से ण्यप्रत्यय पृ० सं०४२१ -२५
[गर्ग आदि शब्दों से अपत्यार्थ की विवक्षा में अण् प्रत्यय, गर्गादिगण की आकृतिगण के रूप में मान्यता, पाणिनीय गर्गादि गण में ८९ शब्दों का तथा कातन्त्रीय गर्गादिगण में ९९ शब्दों का पाठ] । २६. कुजादिगणपठित शब्दों से आयनण् प्रत्यय पृ० सं० ४२५ - २९
[कुञ्ज आदि शब्दों से आयनण् प्रत्यय, कुजादि गण की आकृतिगण के रूप में मान्यता, तद्धित शब्दों का रूढ होना, पाणिनि द्वारा 'फञ्' प्रत्यय का विधान तथा फ् को आयन् आदेश] । २७. अयादिगणपठित शब्दों से एयण प्रत्यय पृ० सं० ४२९ - ३३
[स्त्रीलिङ्गवाले आ-ई-ऊ-तिप्रत्ययान्त तथा अत्रि आदि शब्दों से अपत्य अर्थ में एयण् प्रत्यय, अत्र्यादि गण की आकृतिगण के रूप में मान्यता, पाणिनि द्वारा ढक् प्रत्यय का विधान और द को एय् ादेश] । २८. अकारान्त नाम पद से इण् प्रत्यय पृ० सं० ४३३ - ३७
[दक्ष आदि शब्दों से तथा बाह्वादिगण पठित शब्दों से अपत्यार्थ में इण् प्रत्यय, 'दाशरथाय' में अण् प्रत्यय का विधान, शेषविवक्षा अथवा लोकाभिधान के अनुसार बाह्वादिगण की आकृतिगण के रूप में मान्यता] । २९. समूह आदि अर्थों में अण् प्रत्यय पृ० सं०४३८-४८
[ रागयुक्त शब्दों से रक्त अर्थ में, नक्षत्रवाची शब्दों से युक्त अर्थ में, 'समूह - साऽस्य देवता-तद् वेत्ति अधीते वा-तस्येदम्' आदि अनेक अर्थों में अण् प्रत्यय का
Page #39
--------------------------------------------------------------------------
________________
विषयानुक्रमणी
.२९ विधान, रञ्जि' धातु के अनेक अर्थ, व्याख्याकारों द्वारा 'तत्र जातः- तत्र भवः' आदि अर्थों में अण् प्रत्यय का विधान, दो प्रकार की पूजा, शिष्टप्रयोग के अनुसार अन्य शब्दों का भी समावेश, शुद्धा-गौणी के रूप में द्विविध लक्षणा] । ३०. दीव्यति आदि अर्थों में इकण प्रत्यय पृ० सं०४४८-५८
['दीव्यति - संसृष्ट-तरति-चरति-पण्य-शिल्प-नियोग-क्रीत' अर्थों में इकण् प्रत्यय, 'उञ्छति-करोति-हन्ति-तिष्ठति' आदि अर्थों में व्याख्याकारों द्वारा इकण् प्रत्यय का विधान, विज्ञान-कौशलरूप शिल्प, अर्थप्रधानरूप निर्देश, क्रीतादिगण की आकृतिगण के रूप में मान्यता] | ३१. तार्य आदि अर्थों में य प्रत्यय
पृ० सं०४५८ - ६२ [नौ शब्द से तार्य अर्थ में, विष शब्द से वध्य अर्थ में, तुलाशब्द से सम्मित अर्थ में तथा सप्तम्यन्त शब्द से साधु अर्थ में य प्रत्यय, पाणिनि द्वारा प्रपञ्चार्थ किया गया अन्य अर्थों का निर्देश] । ३२. ईय-यत्-पति-त-त्व-यण् प्रत्यय
पृ० सं०४६२-७८ [हित अर्थ में ईय-यत् प्रत्यय, सादृश्य अर्थ में वति प्रत्यय, प्रवृत्तिनिमित्तरूप भाव के अभिधेय होने पर त-त्व-यम् प्रत्यय, प्रकीर्ति शब्द का अर्थ = महाकवियों की उक्ति, तद्धितों की आकृति प्रधानता, भाव शब्द की व्युत्पत्ति, भाव के ५ अर्थ, अवस्थाभेद से एक में भी अनेकता, जाति की व्याख्या, सूत्ररचना की विचित्रता]। ३३. मन्तु-वन्तु-इन-विन्-ड-म-तीय-थ-तमट् प्रत्यय पृ० सं०४७८-९७
['अस्यास्ति' अर्थ में बहुत्वादि अर्थ की विवक्षा के अनुसार 'मन्तु-वन्तु-इन्-विन्' ये चार प्रत्यय, संख्यावाची शब्द से पूरण अर्थ में 'ड-म-तीय' प्रत्यय,कति-कतिपय शब्दों से 'थ' प्रत्यय, विंशत्यादि शब्दों से तमट प्रत्यय, विवक्षार्थक इतिशब्द, ब्रह्म-वर्णशब्द की व्याख्या, लोकव्यवहार पर लिङ्गविधान आश्रित, ज्ञापक वचनों की वैकल्पिकता] । ३४. विभक्तिसंज्ञा, 'इ-एत-इत्-अ' आदेश, 'तस्-व-ह-क्व-कु-दा-हि-अधुनादानीम-था-पमु' प्रत्यय
पृ०सं०४९८-५२३ [ह्यादिगणपठित शब्दों से भिन्न सर्वनामसंज्ञक शब्दों से तथा बहु शब्द से पर में होने वाले प्रत्ययों की विभक्तिसंज्ञा, पाणिनि के विभक्तिसंज्ञक ११ प्रत्यय
Page #40
--------------------------------------------------------------------------
________________
३०
कातन्त्रव्याकरणम्
तथा शर्ववर्मा के १० प्रत्यय, 'इदम्' शब्द के स्थान में इ- एत-इत्-अ आदेश, सर्वनामसंज्ञक शब्दों (सामान्य - विशेष ) से तस्-त्र-ह-क्व - कु-दा-र्हि अधुना -दानीम्-थाधमु प्रत्ययों का विधान, बहु शब्द की संख्यावचनता- विपुलवचनता, अर्थानुसार विभक्ति का विपरिणाम, 'सद्य:' आदि शब्दों की निपातन से सिद्धि ] | ३५. नाम-आख्यात शब्दों से 'तम' आदि प्रत्यय, समासान्त अत् प्रत्यय, तिइवर्ण-अवर्ण-नकार-उवर्ण का लोप तथा अव्-आबू आदेश
पृ० सं० ५२३-३९ [ स्याद्यन्त - त्याद्यन्त शब्दों से 'तम' आदि प्रत्यय, अधिकार्थविवक्षा के कारण इसका निपातनविधि होना, क्रियाप्रधान की पूर्वाचार्यों द्वारा आख्यात संज्ञा, क्रियागुण का प्रकर्ष, उपचार की व्याख्या, समास के अन्त में विद्यमान 'राजन्' आदि शब्दों से अत् प्रत्यय, तकार की उच्चारणार्थ योजना, अव्ययों की अनेकार्थकता, अवयव का अवयव भी समास का अवयव, वा-शब्द का समुच्चय अर्थ, डकारानुबन्ध वाले प्रत्यय के पर में रहने पर विंशति-शब्दगत ति का लोप, स्वरादि यकारादि तद्धित प्रत्यय के पर में रहने पर इवर्ण-अवर्ण का लोप, लक्ष्यानुरोध से कहीं पर नकार का लोप, तद्धितसंज्ञक यकारादि तथा स्वरादि प्रत्यय के परवर्ती होने पर उवर्ण के स्थान में ओकारादेश, एय-प्रत्यय के परवर्ती होने पर उवर्ण का लोप, ओकार को अव् तथा औकार को आव् आदेश ]
३६. वृद्धि - आकार आदेश, 'ऐ-औ' आगम
पृ० सं० ५३९-५१
रहने पर पूर्ववर्ती शब्द
में
मुखवर्ती सभी स्थान,
[ तद्धितसंज्ञक णकारानुबन्ध वाले प्रत्यय के पर घटित आदि स्वर को वृद्धि-आकार आदेश, अकार के 'वैयाकरण' में एं तथा 'सौवश्विः' में औ आगम, आदि शब्द के चार अर्थ, वृद्धिग्रहण का सुखावबोध अथवा मङ्गलरूप प्रयोजन ] | ३७. प्रथमं परिशिष्टम्
पृ० सं० ५५३ - ६०० [ श्रीपतिदत्तप्रणीत कातन्त्रपरिशिष्ट - कारक प्रकरण के ११२, स्त्रीत्वप्रकरण के १०५ सूत्र, 'दैव-विप्रश्न-हिंसा-अ -अनाचार-व्यतिरेक-प्रतिनिधि-अतिक्रम-रिरंसु' आदि शब्दों के अर्थ, 'भाष्य-वार्त्तिक- भारत-माघ' आदि ग्रन्थों तथा 'चन्द्रगोमी - आपिशलिभागुरि' आदि आचार्यों के विविध अभिमत ] ।
Page #41
--------------------------------------------------------------------------
________________
विषयानुक्रमणी
३१
३८. द्वितीयं परिशिष्टम्
पृ० सं० ६०१-५६ [श्रीपतिदत्तप्रणीत कातन्त्रपरिशिष्ट - समासप्रकरण के १८२, दुर्गसिंहप्रणीत राजादिगण के ६५ सूत्र, भाष्य आदि ग्रन्थों के तथा शाक्य पातञ्जल-भर्तृहरि, काश्यप आदि आचार्यों के विविध अभिमत, 'देवानांप्रियः' शब्द के दो अर्थ = मूर्ख तथा छाग, अनेक न्यायवचनों का उल्लेख, 'शाकप्रधान:' में शाक शब्द का अर्थ शक्ति, 'उपादानकारण द्रव्य को प्रकृति के रूप में मानना, शिष्टाचार का अनुसरण, 'नास्तिक इन्द्रियप्रधान होते हैं' आदि विविध उपयोगी विचारों का उपस्थापन ] । ३९. तृतीयं परिशिष्टम् = तमादिवृत्तिः पृ० सं०६५७-६२ [ दुर्गसिंहद्वारा प्रणीत तमादिवृत्ति के ३२ सूत्र, 'तराम्- तमाम् इष्ठ-ईयन्सु-रूपकल्प-देश्य-देशीय-पाश-चरट्-रूप्य शस्-कृत्वस् - धा- सुच्- मयट् - च्वि-साति त्रा- डाच्' इन २० प्रत्ययों का विधान ] ।
४०. चतुर्थं परिशिष्टम् = रूपसिद्धिशब्दाः
पृ० सं०६६४-७८ [ इसमें कारक, समास तथा तद्धितपाद के ७५७ शब्दों की वर्णानुक्रमसूची प्रस्तुत की गई है, जिन्हें आचार्य दुर्गसिंह ने वृत्तिग्रन्थ में उदाहरण के रूप में दिया है तथा यहाँ समीक्षाखण्ड के अन्तर्गत सूत्रकार्यप्रदर्शनपुरस्सर उनकी रूपसिद्धि की गई है। जैसे- ' उपकुम्भम्, दिवि देवाः, षण्णाम्, अजा, विदुषी, नीलोत्पलम्, महादेवः, गार्ग्यः' इत्यादि ] ।
४१. पञ्चमं परिशिष्टम् = श्लोकसूची
पृ० सं०६७९-९६ [ दुर्गवृत्ति - दुर्गटीका-विवरणपञ्जिका-कलापचन्द्र नामक चार टीकाओं में उद्धृत २५० श्लोकों का सङ्ग्रह, इसमें कुछ अर्धश्लोक तथा कुछ पादश्लोक भी सम्मिलित हैं ] ।
४२. षष्ठं परिशिष्टम् = व्युत्पत्तिपरक शब्दावली
पृ० सं०६९७-७११ [ दुर्गवृत्ति-दुर्गटीका-विवरणपञ्जिका-कलापचन्द्र नामक व्याख्याओं में जिनकी
व्युत्पत्ति दी गई है, ऐसे ७४९ शब्दों का सङ्ग्रह ] ।
४३. सप्तमं परिशिष्टम् = पारिभाषिक शब्दावली
पृ० सं०७१२-१४ [ उक्त चार व्याख्याओं में प्रयुक्त १४७ पारिभाषिक शब्दों की सूची ] ।
Page #42
--------------------------------------------------------------------------
________________
३२
कातन्त्रव्याकरणम्
४४. अष्टमं परिशिष्टम् = विशिष्टशब्द-वचनसंग्रहः
पृ० सं०७१५-४४ [ व्याख्याओं में उद्धृत १३८६ विशिष्ट शब्दों तथा वचनों का संग्रह, जो विषय-प्रक्रिया-पारिभाषिक प्रयोग-शैली आदि के सूचक हैं ] । ४५. नवमं परिशिष्टम् = उद्धृत ग्रन्थसूची
पृ० सं०७४५-४७
[ उक्त चार व्याख्याओं में उद्धृत ७७ ग्रन्थों की सूची ] । ४६. दशमं परिशिष्टम् = उद्धृता आचार्याः
पृ० सं०७४८- ५१
[ सम्पादित चार व्याख्याओं में उद्धृत ११२ आचार्य नामों का संग्रह, जिनमें कुछ 'अन्ये, अपरे, एके, केचित्, नवीना:, प्राञ्चः, महान्तः, मूर्खाः, ये, वैयाकरणाः, वैशेषिकाः, समाम्नायविदः, साम्प्रदायिका:' आदि शब्दों से मूहिक रूप में स्मृत हुए हैं ] ।
४७. एकादशं परिशिष्टम् = मुद्रितग्रन्थ- हस्तलेखपरिचयः पृ० सं०७५२-५९ [ ४७ मुद्रित ग्रन्थों की सूची, ७६ ग्रन्थों के २९८ हस्तलेखों का परिचय ] । ४८. द्वादशं परिशिष्टम् = साङ्केतिकशब्दपरिचयः पृ० सं०७६० - ६१
Page #43
--------------------------------------------------------------------------
________________
॥श्रीः॥ अथ द्वितीये नामचतुष्टयाध्याये चतुर्थः कारकपादः
२८६. अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः [२।४।१]
[सूत्रार्थ]
अकारान्त अव्ययीभाव समास से परवर्ती विभक्ति के स्थान में 'अम्' आदेश होता है, पञ्चमी विभक्ति को छोड़कर ।।२८६ ।
[दु० वृ०]
अव्ययीभावसमासादकारान्ताद् विभक्तीनां स्थानेऽम्भवति अपञ्चम्याः । उपकुम्भम् ।अव्ययीभावादिति किम् ? कष्टश्रितः ।विभक्तीनामिति किम् ? उपकुम्भता । अपञ्चम्या इति किम् ? उपकुम्भात् ।। २८६ ।
[दु० टी०]
अव्ययी० । अव्ययीभावोऽत्र सूत्रे विशेष्यः । अकारान्त इति विशेषणं चेत् किमन्तग्रहणेन, 'येन विधिस्तदन्तस्य' (का० परि० ३) इत्यकारान्ताद् भविष्यति ? सत्यम् । अन्तग्रहणमिह प्रकरणे तदन्तविधिर्नास्तीति ज्ञापयति, तेनाव्ययीभावान्तादम् न भवति – 'बहूपकुम्भौ, अत्युपकुम्भौ' इति । तथा “अन्यस्माल्लुक्" (२।४।३) इत्यत्रापि 'बहूपवधूः, अत्युपवधूः' इति । तथा अव्ययाच्च – 'बहूच्चैसौ, अत्युच्चैसौ' इति । तर्हि कथं ‘परमोपकुम्भम्, परमोपवधु, परमोच्चैः' इति ? किञ्चाकारात् श्रुतमन्तग्रहणं कथं पुनः प्रकरणस्य नियामकमिति ? तस्मात् प्रधानादिति वक्तव्यम् । न च वक्तव्यम् ‘गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' (का० परि० २) इतीहाश्रयणात्, विहितविशेषणाद् वा अव्ययीभावाद् विहितानां विभक्तीनामेव, एवं वक्ष्यमाणयोरपि । कथं 'परमोपकुम्भम्', कर्मधारयाद् विहितात्र विभक्तिरिति । नैवम् । विभक्तिरर्थमाश्रित्योत्पद्यते, स चार्थोऽव्ययीभावस्येति न विरुध्यते इति ।
Page #44
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
ननु कुम्भस्य समीपम् उपकुम्भम् इति, "पूर्व वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते" (२।५।१४) इति पूर्वपदार्थस्य चासत्त्वभूतत्वात् क्रियान्तरसंबन्धात् कथं कारकाणि भवन्तीति ? सत्यम्, पूर्वपदार्थप्राधान्येऽपि गुणभूतोत्तरपदार्थापेक्षः क्रियाभिसंबन्धो युज्यते एव । यथा 'पञ्चपूलीमानय' इति भावः समाहारप्राधान्येऽपि गुणभूतार्थापेक्षः क्रियाभिसंबन्धः । एवं तर्हि अन्तग्रहणमिह सुखप्रतिपत्त्यर्थमेव । कश्चिदाह - अव्ययीभावो विशेषणम् अकारान्त इति विशेष्यम् । अन्तग्रहणबलादिति । तेन “अन्यस्माल्लुक्" (२।४।३) इत्यत्रान्यशब्दः प्रधानापेक्षः स्याद् अधिकारद्वयापेक्षोऽपि न वस्त्वपेक्षः । एवं सति अव्ययीभावादकारान्तादपि पञ्चम्यास्तृतीयासप्तम्योश्च पक्षे लुक् स्यात् । तत्र ह्यव्ययीभावादकारान्तादन्योऽव्ययीभाव एवावसीयते न्यायात् । यथा लोहिताद् गोरन्यमानयेत्युक्ते नाश्वादिरानीयते, अपि तु गौरेवेति ।।२८६ ।
[वि० प०]
अव्ययी० । अकारान्तादिति ।अकारोऽन्तो यस्य स तथोक्तः । येन विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धे यदन्तग्रहणं तदिह प्रकरणे तदन्तविधिर्नास्तीति ज्ञापयति, तेनेदं सिद्धम् । बहून्युपकुम्भं ययोः, उपकुम्भमतिक्रान्तौ 'बहूपकुम्भौ, अत्युपकुम्भौ' इति ।अन्यथा तदन्तपरिभाषया यथा अकारान्तात् तथा अव्ययीभावान्तादपि स्यादिति । एवम् “अन्यस्माल्लुक्' (२।४।३), "अव्ययाच्च" (२।४।४) इत्यत्रापि प्रतिपत्तव्यम् । बहूपवधुः ,अत्युपवधुः । बहूच्चैसौ, अत्युच्चैसौ इति । यद्येवं परमोपकुम्भम्, परमोपवधु, परमोच्चैः' इति न सिध्यति । तस्माद् अन्तग्रहणमपनीय प्रधानादिति वक्तव्यम् इत्युक्तम् । 'गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययो भविष्यति' (का० परि० २)। अथवा अव्ययीभावादिति पञ्चम्या विहितविशेषणमाख्यायते । तेन अव्ययीभावाद् विहितानां विभक्तीनामिति | एवमुत्तरत्रापि ।
नन्वत्र पक्षे ‘परमोपकुम्भम्' इत्यादयो न स्युः । न ह्यत्राव्ययीभावाद् विहिता विभक्तिः, अपि तु कर्मधारयादिति । नैवम् । अर्थमाश्रित्य विभक्तिर्विधीयमाना अर्थवतः शब्दाद् विधीयते, कर्मधारयस्योत्तरपदार्थप्रधानत्वात् । इह अव्ययीभाव एवार्थवान्, अतस्तत एव न्यायाद् विभक्तिरिति । वहुव्रीहे: पुनरन्यपदार्थप्रधानत्वान्नाव्ययीभावोऽर्थवान् इति न ततो विभक्तेर्विधिरस्तीति । ननु अर्थमाश्रित्य विभक्तिर्विधीयते, अर्थश्च कादिकारकलक्षणः कारकं च क्रियानिमित्तम्, क्रियानिमित्तत्वं च सत्त्वस्यैव
Page #45
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
संभवति, नासत्त्वस्येति । अव्ययीभावश्च पूर्वपदार्थप्रधानः । यदाह - "पूर्वं वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते" (२।५।१४ ) इति । इह पूर्वपदार्थस्य चाराचभूतत्वात् क्रियानिमित्तत्वमनुपपन्नमिति कथं कारकत्वमिति । तदभावे च विभक्तीनामनुपपत्तेः कथम् अम्भाव इति ? सत्यम् । यद्यपि कुम्भस्य समीपम् उपकुम्भम् इति उपशब्दार्थो धर्ममात्रमत्राव्ययीभावे प्रधानम्, तथापि गुणभूतोत्तरपदार्थापेक्षया तस्य क्रियानिमित्तत्वमुपचर्यते । यथा 'पञ्चपूलीमानय' इत्यत्र समाहारप्राधान्येऽपि गुणभूतसमाह्रियमाणपदार्थापेक्षया आनयनक्रियाभिसम्बन्ध इत्यदोषः । एवं च सति अन्तग्रहणं सुखार्थमिति प्रतिपत्तव्यम् | कष्टश्रित इति । कष्टं श्रित इति विग्रहे “विभक्तयो द्वितीयायाः (२।५।८) इत्यादिना द्वितीयालक्षणस्तत्पुरुषः । विभक्तीनामित्यादि । उपकुम्भं भाव उपकुम्भता । यदि विभक्तिग्रहणं न स्यात् तदा इहापि स्यात् । अथ 'अपञ्चम्याः इति विभक्तेः प्रतिषेधाद् विभक्तीनामेव स्यादिति ' यादृग्जातीयस्य विप्रतिषेधो विधिरपि तादृग्जातीयस्य' (का० परि० ९० ) इति न्यायात्, तदयुक्तम् । प्रत्ययस्य पञ्चम्याः सम्भवाद् अन्येषां प्रत्ययानामपि स्यादिति ॥ २८६ |
३
१. अकारान्तग्रहणं कथं निरर्थकं व्यञ्जनान्तान्न भविष्यतीति प्रयोजनमस्त्येवेत्याह- किचेति । २. भृतौ कर्मशब्द इत्यत्रैव शब्दग्रहणात् स्वं रूपमिति परिभाषा अस्तीत्याह - व्याप्तिन्यायादिति । ३. परिभाषाश्रयणे किं प्रमाणमित्याह - लक्षणापत्तेश्चेति ।
""
,
[क० च० ]
अव्ययी० । अव्ययीभावशब्दमात्रस्य न ग्रहणम् अकारान्तत्वाव्यभिचारेणाकारान्तादिति विशेषणवैयर्थ्यापत्तेरिति चेत्, न । अकारान्तत्वस्याव्यभिचारेऽपि यदकारान्तग्रहणं तज्ज्ञापयति - 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति परिभाषाऽस्तीति, तेन " समानः सवर्णे” (१।२ ।१ ) इत्यत्र समानग्रहणं न स्वरूपपरमिति चेत्, न । भृतौ कर्मशब्द इत्यत्र शब्दग्रहणेनास्याः परिभाषाया ज्ञापितत्वात् । 'किं च अव्ययीभावमाचष्टे इतीनि कृते क्विपि इनो लोपे इनः स्थानिवद्भावाद् वकारलोपाभावे चैकदेशविकृतस्यानन्यवद्भावाद् व्यञ्जनान्तादपि अम्भावे प्राप्तेऽकारान्तग्रहणं सार्थकमिति कथं ज्ञापकं स्यात् । तस्माद् अव्ययीभावशब्दादपि विधिरयं स्यात् | नैवम् | 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति न्यायाद् २व्याप्तिन्यायाद् वा शब्दस्य स्वरूपपरत्वेन लक्षणापत्तेश्च न स्वरूपग्रहणम् । ननु
Page #46
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
“अन्यस्माल्लुक्” (२।४।३) इत्यपनीय अन्यतो लुगिति क्रियताम् । ततश्च पारिशेष्यादकारान्तादेवात्राम् भविष्यति, किमकारान्तग्रहणेन । एवं च सति तत्र किमपेक्ष्यान्यत्वं ग्राह्यमिति व्याख्यालाघवं भवति ? सत्यम् । तत्राकारवर्जनाद् यादृग्जातीयस्येति न्यायात् स्वरान्तादेव लोपः स्याद् इत्यपि संभाव्यते । ततश्च व्यञ्जनान्ताल्लोपो न स्यादिति दोष: स्यात् । किञ्च "अव्ययाच्च" (२।४।४) इत्यत्रानतः इत्यनुवर्तनादकारान्तादव्ययाद् विभक्तेर्लोपो न स्यात् । ____ अव्ययीभावादिति वृत्तिः। अथाकारान्ताद् विभक्तीनामित्युक्तेऽसमासे वृक्षशब्दादपि कथन्न स्यात्, नैवम् । जसीत्यादिविधानादिति चेत्, पाक्षिकं भवतु । नैवम, अग्रिमसूत्रे तृतीयासप्तम्योर्विकल्पविधानात् । यद्येवम्, एतेषां विषयं परिहत्य भविष्यति चेत्, न | "सिद्धो वर्ण०" (१।१।१) इत्यादिनिर्देशात् । तस्मात् समास एव पारिशेष्याद् भविष्यतीति । यद् वा अव्ययीभावग्रहणखण्डनपक्षेऽन्तग्रहणं न सुखार्थम् । किन्त्वकार एवान्तो यस्येति समासलाभार्थम् । यद् वा अव्ययीभावग्रहणखण्डनपक्षे समासग्रहणं कर्तव्यमिति। अत्रैव केचित् प्रथमोपस्थितत्वात् कर्मधारये प्रत्युदाहरणं युक्तं चेत्, न । सवर्णाविति ज्ञापकादत्र भविष्यति । नापि तृतीयातत्पुरुषे तृतीयासहयोग इति निर्देशात् । नापि चतुर्थीतत्पुरुषे परस्मैपदानीति निर्देशात् । नापि पञ्चमीतत्पुरुषे "एदोत्परः" (१।२।१७) इति ज्ञापकात्, स्वरपर इति निर्देशाच्च । नापि षष्ठीतत्पुरुषे, वर्णसमाम्नाय इति निर्देशात् । नापि सप्तमीतत्पुरुषे "प्रत्ययविकारागमस्थः" (२।४।४७) इति निर्देशात् । नापि द्वन्द्वे, प्रथम - तृतीयाविति निर्देशात् । नापि बहुव्रीहौ "कादीनि" (१।१।९) इति निर्देशात् । तथा च सति नापि द्विगोरिति द्विगुवर्जनं
४. अनेन व्यञ्जनान्ताल्लोपाभावे को विरोध: "व्यजनान्ताच्च"(२।१।४९) इत्यनेन सिद्धत्वादित्याह -
किञ्चेति । ५. ननु ज्ञापकेन किमिह प्रत्याख्यातुं न शक्यत इत्याह – यद् वेति । ६. ननु सर्वनाम्नो बुद्धिस्थे शक्तिं परिकल्प्य समास एव गृह्यते, अन्यस्तु न बुद्धिस्थ इति
गौरवमित्याह – यद् वेति । ७. ननु कथमयं निर्देशो ज्ञापकः, यावता “या तृतीयासप्तप्योः"(२।४।२) इत्यनेन विकल्पितत्वात् ?
सत्यम् । तृतीयासहयोग इतीव निर्देशो यस्य समासस्य स तृतीयासहयोग इति निर्देश: "स्वरहयवकवर्गपवर्गान्तर०" (२।४।४८) इति स्वरूपादित्यर्थः । न चात्र वक्रोक्त्यानुचितमिति वाच्यम्, वक्ररुचिमुनेर्नेदमनिष्टामेति न्यायाद् यथा घट इति वक्तव्ये 'अनघट' इति । तथा च श्रीपतिः- द्वन्द्वेऽग्नेः पूर्वत्वमनित्यमिति "हः कालव्रीह्यो: " (४।२।६४) इति निर्देशात् ।
Page #47
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः कार्यम् एव । तस्माद् अयुक्तमेव द्वितीयातत्पुरुषे प्रत्युदाहरणमिति प्राहुः । तन्न, द्वितीयातत्पुरुषे "समासान्तगतानां वा" (२।६।४१) इत्यत्र ज्ञापकस्य विद्यमानत्वात् । न च तत्र सप्तमीसमास इति वाच्यम्, गमधातोर्व्याप्यत्वाविवक्षायां मानाभावात् । अतो द्विगुसमास एव प्रत्युदाहरणमिति ब्रूमः ।
वस्तुतस्तु ज्ञापकेन किमिह प्रत्याख्यातुं न शक्यते, तस्माद् द्वितीयातत्पुरुष एवायं सर्वसमासोपलक्षणमिति युक्तमुत्पश्यामः । इदानीं पञी व्याख्यायते – अकारान्तादिति नात्र षष्ठीसमासः । श्रुतत्वादव्ययीभावसमाससंबन्धिनोऽकारस्य ग्रहणादित्याह - अकारोऽन्तो यस्येति । अत एव श्रुतत्वाद् अन्तशब्दो न समीपार्थः । अवयवार्थे च प्रयोजनं नास्तीत्याशङ्क्याह - येनेत्यादि । अथाकृतेऽन्तग्रहणेऽव्ययीभावाद् योऽकारान्तो वृक्षादिशब्दस्तस्माद् अम् स्यादित्यर्थः कथन्न स्यात् । स्थितेऽन्तग्रहणे बहुव्रीहिणाव्ययीभाव एवान्यपदार्थो लभ्यते इति चेत्, न । न्यायप्राप्तस्यान्तग्रहणेनापि तदर्थलाभात् । "समानाधिकरणान्वयसम्भवे व्यधिकरणान्वयानौचित्यात् । गौणेनेति तदन्तविधौ गौणमुख्यव्यवहारो नास्तीति तस्य शब्दाश्रयत्वादित्याह - अथवेति कुलचन्द्रः। तन्नेति महान्तः। यावता तदन्तविधिरेवात्र न गृह्यते, विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । तर्हि कथं 'परमोपकुम्भम्' इति चेद् अत्राप्यव्ययीभावस्य विद्यमानत्वात् । नहि केवलाव्ययीभावाद् भविष्यतीति वाच्यम्, नियमाभावात् । कथमन्यथा प्रधानादित्युक्तेऽपि ‘परमोपकुम्भम्' इत्यत्रापि स्यात् ।
___ पक्षान्तरमाह - अथवेति । अस्मिन्नेव व्याख्याने 'उपकुम्भता' इति प्रत्युदाहरणं संगच्छते । अन्यथा यदि विहितविशेषणपक्ष एव ग्राह्यः स्यात् तदा विभक्तेर्विहितस्य तद्धितस्य स्थाने कथम् अम् स्याद् इति व्यङ्गवैकल्यं स्यादित्याहुः । तदसङ्गतमिति मन्यते । तथाहि विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वान्मा भूत् तदन्तविधौ न शब्दाश्रय इत्यस्य प्रवेशस्तदन्तविधेरभावात् । 'बहूपकुम्भौ' इत्यत्रावयवीभूतादव्ययीभावादम्विधौ ‘न शब्दाश्रयः' इत्यस्य प्रवेशे को विरोध इति । तस्मादुक्तदोषाशङ्कयैव पक्षान्तरमाह - अथवेति । तर्हि कथम् ‘उपकुम्भता' इति प्रत्युदाहरणं संगच्छते, व्यङ्गवैकल्यात् । यथा विभक्तिर्न भवति तथा अकारान्तादपि न भवति ? सत्यम् ।
८. ननु न्यायप्राप्तेऽन्तग्रहणेऽपि अव्ययीभावाद् योऽकारान्तस्तस्माद् अम् भवतीत्यर्थः कथं न
स्यादित्याह - समानेति ।
Page #48
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
तद्धितप्रत्ययादग्रतो व्यक्तिबलात् प्रत्ययार्थवाचकेन भावशब्देन युक्तार्थतायां विभक्तिलोपे सति पश्चात् तद्धितोत्पत्तिरिति अव्ययीभावात् प्रत्यय इति कुतो व्यङ्गवैकल्यम् । इदमप्यसङ्गतम् । न हि प्रत्ययानुत्पत्तौ तदर्थवाचकेन सह युक्तार्थता संभवतीति । मूर्खास्तु बुद्धावकारान्तत्वमारोप्य प्रत्युदाहर्तव्यमित्याहुः । अन्ये तु 'उपकुम्भकम्' इति चारुतरं प्रत्युदाहर्तव्यमिति । इदं तु प्रथमाकाङ्क्षायाम्, किन्तु यदा अव्ययीभावो नास्ति तदा स्वार्थे कप्रत्ययोऽपि नास्तीत्याहुः ।
वस्तुतस्तु षष्ट्यन्तादपि तद्धितोत्पत्तिपक्षं “तत्वौ भावे" (२।६।१३) इत्यस्य टीकायां वक्ष्यति । तन्मते यथा 'नाना' इत्यस्य भावो नानात्वमिति, तथा 'उपकुम्भता' इति प्रत्युदाहणमिति। यद् वा कुत्सितम् उपकुम्भम् उपकुम्भकम् इति व्यावृत्तिः । परमार्थतस्तु ‘उपकुम्भता' इत्यत्र यदि व्यङ्गवैकल्यादेव तद्धितप्रत्ययस्य स्थानेऽम् न भविष्यति के विभक्तिग्रहणेन इत्युच्यते, तदा “अन्यस्माल्लुक्" (२।४।३) इत्यत्र तृतीयासप्तधारेव लोपः स्यादिति विभक्तिग्रहणमेव भद्रमुत्पश्यामः । अथवा विभक्तिग्रहणसत्त्वे विहितविशेषणत्वम् । तदभावेऽकारान्तात् परस्य प्रत्ययस्य अम् भवेदिति प्राञ्चः । नासत्त्वस्येति । ननु कथमिदमुक्तम्,यावता 'समीपं पश्य' इत्यादौ असत्त्वस्यापि कारकत्वं दृश्यते ? सत्यम् । अत्रापि समीपगतवस्तुनः क्रियानिमित्तत्वमुपचर्यते इत्यदोषः । प्रत्ययत्वस्यापीति । ननु सर्वसादृश्याद् यस्य प्रत्ययत्वं विभक्तित्वं च संभवति, तस्यैव भविष्यति, किं विभक्तिग्रहणेन ? सत्यम् । व्याप्तिन्यायात् प्रत्ययमात्रस्यापि ग्रहणं संभाव्यते इति । वस्तुतस्तु उत्तरार्थमेव विभक्तिग्रहणमित्युक्तमेव ।।२८६ ।
[समीक्षा]
'उपकुम्भ + सि' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य सि - प्रत्यय (पाणिनि - सुप्रत्यय) के स्थान में अम्' आदेश करके 'उपकुम्भम्' शब्दरूप सिद्ध करते हैं | पाणिनि का सूत्र है – “नाव्ययीभावादतोऽस्त्वपञ्चम्याः" (अ० २४।८३) । पाणिनि ने पूर्ववर्ती सूत्र “अव्ययादाप्सुपः" (अ० २।४।८२) से प्राप्त सुब्लुक् का निषेध करते हुए अम् - आदेश का विधान किया है, जो उनकी सूत्ररचनाशैली के अनुसार आवश्यक था | कातन्त्रकार ने विभक्त्यर्थ या कारकप्रकरण
९. अथ तत्रैव विभक्तिग्रहणं क्रियतामित्याह - अथवेति ।
Page #49
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
के प्रारम्भ में प्रकृत सूत्र उपस्थित करके ऐसे शब्दरूपों को बताया है जो अनेक कारकों में समान होते हैं तथा उनमें विशेष विधान किया जाता है ।
[ विशेष ]
१. सूत्रपठित 'अव्ययीभावात्' तथा 'अकारान्तात्' इन दो पदों में कौन विशेष्य तथा कौन विशेषण है - इसके निर्धारणार्थ 'विशेष्य-विशेषण' शब्दों की परिभाषाएँ व्याख्याकारों ने प्रस्तुत की हैं । जैसे - विशेष्य | विशिष्यते यत् तद् विशेष्यम् | शाब्दबोधे चरमप्रतीयमानत्वं विशेष्यत्वम् ।
विशेषण । विशिष्यते येन तद् विशेषणम् । शाब्दबोधे प्राक् प्रतीयमानत्वं विशेषणत्वम् ।
विशेष्य- विशेषणकी समानविभक्त्यादिपरता
७
विशेष्यस्य हि यल्लिङ्गं विभक्तिर्वचनं च यत् ।
तानि सर्वाणि योज्यानि विशेषणपदेऽपि च ॥
क्रियाविशेषण में औत्सर्गिक एकवचनादि का प्रयोग - क्रियाविशेषणानामेकत्वं कर्मत्वं नपुंसकत्वं च ।
२. उद्देश्यविधेयभाव में लिङ्गादियोजना की अनिवार्यता नहीं - यदुद्दिश्य क्रिया प्रवर्तते तद् उद्देश्यम्। विधीयते यत् तद् विधेयम् । उद्देश्यविधेयभावे लिङ्गादेर्नास्ति तन्त्रता । यथा - 'वेदाः प्रमाणम्, विद्या धनम्, बलं बन्धुः' इत्यादि । 'जन्मभूमि : स्वर्गादपि गरीयसी, आत्मीयाश्छात्राः, स एव धनी' आदि में समानता ।
[ रूपसिद्धि ]
१. उपकुम्भम्। उपकुम्भ + सि । कुम्भस्य समीपम् । अव्ययीभावसमास । प्रकृतसूत्र से 'सि' प्रत्यय को 'अम्' आदेश तथा " अकारे लोपम्” (२।१।१७ ) से पूर्ववर्ती अकार का लोप || २८६ ।
२८७ वा तृतीयासप्तम्योः [ २।४।२]
[ सूत्रार्थ ]
अव्ययीभावसमासवाले अकारान्त शब्द से परवर्ती तृतीया तथा सप्तमी विभक्ति के स्थान में वैकल्पिक 'अम्' आदेश होता है || २८७ |
Page #50
--------------------------------------------------------------------------
________________
८
कातन्त्रव्याकरणम्
[दु० बृ० ]
अव्ययीभावसमासादकारान्तात् परयोस्तृतीयासप्तम्योः स्थानेऽम् भवति वा । उपकुम्भम्, उपकुम्भेन | उपकुम्भम्, उपकुम्भे ||२८७|
[दु० टी० ]
-
वा तृतीया० । ऋद्ध्यर्थनदीवंश्यान्तस्य व्यवस्थितविभाषया सप्तम्या नित्यम् अन्भावः। ऋद्ध्यर्थे - सुमगधम् । नद्यन्ते - द्वियमुनम् । देशे – उन्मत्तगङ्गम् । वंश्यान्ते – एकविंशतिभारद्वाजम् । संख्यावंश्येन नदीभिश्च अन्यपदार्थे संज्ञायां समासे सत्यव्ययीभावो लोकोपचारात् सिद्ध इति दर्शयिष्यामः । कथम् उपगङ्गम् इति विभाषा दर्शिता नदीसमासग्रहणात् । तृतीयायां तु - सुमद्रम्, सुमद्रेणेति ॥ २८७॥ [ क० च० ]
वा तृतीया० । विभक्तीनां मध्ये तृतीयासप्तम्योः स्थानेऽम् भवतीति विशेषणत्वेनानुवृत्तौ परसूत्रे विभक्तीनामित्यस्यानुवृत्तिः प्रकृतत्वात् । ननु तृतीयासप्तम्योः नापि अपञ्चम्या इत्यस्यासम्भवाद् अत्रैवानुवृत्तिः । ननु पूर्वेणैव सिध्यति, यदिह पुनर्विधानं तद् विकल्पार्थं भविष्यति, किमत्र वाग्रहणेन चेन्नियमार्थं कथन्न स्यात् चेत्, न । यदि तृतीयासम्तम्योरेवाम्, नान्यासां विभक्तीनामिति नियम्यते, तदा पूर्वसूत्रस्य वैयर्थ्यापत्तिः । अथ तृतीयासप्तम्योरमेव न त्वकारलोप इति नियमो भविष्यति । तदयुक्तम् । अमि कृतेऽकारलोपकल्पनानौचित्यात् तस्माद् विकल्पार्थं भविष्यति । सत्यम् । “ऊर्णोतेर्गुणः” ( ३ | ६ |८५ ) इतिवत् पूर्वत्र विकल्पार्थः स्यादिति वाग्रहणम् || २८७|
.
[समीक्षा]
'उपकुम्भ + टा, भ्याम्, भिस् । उपकुम्भ + ङि, ओस्, सुप्' इस अवस्था में पाणिनीय तथा कातन्त्र दोनों ही व्याकरणों में वैकल्पिक अमादेश की व्यवस्था करके 'उपकुम्भम्, उपकुम्भेन' आदि शब्दरूप सिद्ध किए जाते हैं । पाणिनि का सूत्र है – “ तृतीयासप्तम्योर्बहुलम् " ( अ० २।४।८४) । अतः उभयत्र प्रक्रियासाम्य ही कहा जा सकता है ।
-
Page #51
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः [रूपसिद्धि]
१. उपकुम्भम्, उपकुम्भेन । उपकुम्भ + टा | कुम्भस्य समीपम्, तेन । अव्ययीभाव समासादि । प्रकृत सूत्र द्वारा वैकल्पिक 'टा' प्रत्यय को अमादेश तथा “अकारे लोपम्" (२।१।१७) से पूर्ववर्ती अकार का लोप । पक्ष में "इन टा" (२।१।२३) से टा को 'इन' आदेश तथा "अवर्ण इवणे ए" (१।२।२) से अ को ए-इ का लोप |
२. उपकुम्भम्, उपकुम्भे। उपकुम्भ + ङि । कुम्भस्य समीपम्, तस्मिन् । प्रकृत सूत्र से ङि के स्थान में विकल्प से 'अम्' आदेश तथा पूर्ववर्ती अकार का लोप । पक्ष में "अवर्ण इवणे ए"(१।२।२) से अ को ए एवं परवर्ती इकार का लोप ।।२८७।
२८८.. अन्यस्माल्लुक् [२।४।३] [सूत्रार्थ]
अव्ययीभाव - समासवाले, अकारान्तभिन्न शब्द से परवर्ती विभक्तियों का लुक् होता है ।।२८८।
[दु० वृ०]
अकारान्ताद् योऽन्योऽव्ययीभावसमासस्तस्माद् विभक्तीनां लुग् भवति । उपवधु, उपकर्तृ ।।२८८।
[दु० टी०]
अन्यस्मात् । ननु अनव्ययम् अव्ययं भवतीत्यन्वर्थसंज्ञया "अव्ययाच्च" (२।४।४) इति लुकि सिद्धे यद् वचनमिदं तज्ज्ञापयति-अव्ययत्वमस्य नास्तीति । तेन ‘उपाग्निकम्' इति क एव, अक् न स्यात् । उपवधुम्मन्यः' इत्यत्र "हस्वान्मोऽन्तश्च" (४।१।२२) भवति । 'उपकुम्भीभवति' इत्यत्र च अवर्णस्य च्वावीत्वं भवति । यथा अनव्ययस्यैवेति तत्र मतम् । यथा दोषो भवति, दिवा भवति । तथा 'उपायस्कारः' इत्यत्रानव्ययविसृष्टस्तु सकारम् आपद्यते । कथं ज्ञापकम् - अनव्ययपूर्वोऽपि दृश्यते । यथा- 'द्विमुनि, त्रिमुनि' इति ? सत्यम् । नात्राव्ययीभावोऽन्वर्थो गृह्यते । किन्तर्हि लोकोपचारात् सिद्ध इत्यक्प्रत्ययादयोऽपि तत्र न भवन्ति । मुख्यस्याव्ययस्य पूर्वाचार्यसम्मतस्यैव ग्रहणादिति । 'उपकर्तृ' इत्यत्र “लुग्लोपे न प्रत्ययकृतम्" (कलाप०
Page #52
--------------------------------------------------------------------------
________________
१०
कातन्त्रव्याकरणम्
२२२ । ६९) इत्यात्वं न भवति । इह वाग्रहणम् अपञ्चम्या इति च न वर्तते, अधिकारस्येष्टत्वात् । न पुनरकारान्तनिवृत्तावनयोरपि निवृत्तिरिति शक्यते वक्तुम् । 'कार्यिणा हन्यते कार्यो कार्य कार्येण हन्यते, निमित्तं तु निमित्तेन तच्छेषमनुवर्तते' (कलाप० - पृ० २२०।२५) इति न्यायात् ।अन्योऽन्येतरेतरपरस्पराणां स्त्रीनपुंसकयोरम् वेति केचिद् आचक्षते ।
इमे स्त्रियावन्योऽन्यां भोजयतः अन्योऽन्यं भोजयतो वा । आभिरन्योऽन्यां भोज्यते, अन्योऽन्येन वा भोज्यते । इमे स्त्रियावन्योऽन्यां प्रयच्छतः, अन्योऽन्यस्मै वा प्रयच्छतः । इमे स्त्रियावितरेतरां भोजयतः, इतरेतरं वा भोजयतः, आभिः स्त्रीभिरितरेतरां भोज्यते, इतरेतरेण भोज्यते । इमे स्त्रियावितरेतरां प्रयच्छतः, इतरेतरस्मै प्रयच्छतः । परस्परां भोजयतः, परस्परं भोजयतः, परस्परां भोज्यते, परस्परेण भोज्यते । परस्परां प्रयच्छतः, परस्परस्मै प्रयच्छतः । एवं नपुंसके ‘अन्योऽन्यं भोजयतः, अन्योऽन्यं भोजयतः' इत्यादि सर्वासां विभक्तीनां स्थाने योज्यम् | पुंसि तु प्रयुज्यमाने न भवति-अन्योऽन्यं राजानौ सम्बध्येते, राजभ्याम् अन्योऽन्येन सम्बध्यते, राजानावन्योऽन्यस्मै प्रयच्छत इत्यादि । स्वभावाद् इमेऽन्योऽन्यादयः क्रियाव्यतीहारैकत्वविषयाः सर्वदा पुंस्त्वोपादाना इति ।।२८८।
[वि० प०]
अन्यस्मात् । ननु चाव्ययीभावस्य विशेष्यत्वेन प्रधानत्वात् तेनैवान्यशब्दस्य संबन्धः स्यात्, न अकारान्तशब्देन तस्य विशेषणत्वेनाप्रधानत्वात् । ततश्चाव्ययीभावाद् योऽन्यः समासस्तत्पुरुषादिस्तत एव स्यादिति । तदयुक्तम् । अव्ययीभावादकारान्ताद् योऽन्य इत्युक्तेऽव्ययीभाव एवेतरवर्णान्तः प्रतीयते । यथा 'लोहिताद् गोरन्यमानय' इत्युक्ते वर्णान्तरविशिष्टो गौरेवानीयते न त्वश्वादिरित्याह - अकारान्ता योऽन्योऽव्ययीभाव इति । 'उपवधु, उपकर्तृ' इति । वध्वाः समीपम्, कर्तुः समीपम् इति विग्रहः ।।२८८ ।
[क० च०]
अन्यस्माल्लुक्० । अकारान्ताद् इति सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाध इति स्वभावादिति न्यायादित्यर्थः । यथेत्यादि । अथ 'नीलघटातिरिक्तं गृहस्थितमानय' इत्युक्ते पटादेरप्यानयनप्रतीतेः कथं विशिष्टे विधि
Page #53
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
११ निषेधौ विशेषण एव पर्यवस्यतः इति, सत्यम् । विशेष्यविवक्षायां विशिष्टान्यस्यापि उपस्थितत्वात् केवलो विशेष एव प्रतीयते । न तु विशेषणम्, अप्रधानत्वादिति । अपञ्चम्या इति नानुवर्तते, पूर्वसूत्र एव तन्निवृत्तेः । नापि तृतीयासम्तम्योरनुवृत्तिः, विशेषातिदिष्टत्वात् । नापि वाशब्दस्य तृतीयासप्तमीभ्यां सह निर्दिष्टत्वात् । पूर्वपाठाच्चाधिकारस्येष्टत्वादिति सिद्धान्तितम् ।।२८८।
[समीक्षा]
'उपवधु + सि, उपकर्तृ + सि' इस अवस्था में कातन्त्रकार अकारान्तभिन्न अव्ययीभावसमास में सि-आदि विभक्तियों का लुक् करके 'उपवधु, उपकर्तृ' आदि शब्दरूप सिद्ध करते हैं | पाणिनि ने “अव्ययीभावश्च" (अ० १।४।४१) से अव्ययीभावसमास की अव्ययसंज्ञा मानकर "अव्ययादाप्सुपः" (अ० २।४।८२) से सु-आदि प्रत्ययों का लुक् किया है, जबकि कातन्त्रकार ने अव्ययीभावसमास की अव्ययसंज्ञा नहीं की है । अतः उन्हें लुविधायक दो सूत्र बनाने पड़े हैं । अस्तु, दोनों की ही प्रक्रिया में साम्य ही मानना पड़ेगा, क्योंकि एक को यदि लुविधायक दो सूत्र बनाने पड़ते हैं तो दूसरे को अव्ययसंज्ञाविधायक एक सूत्र अधिक बनाना पड़ता है।
[रूपसिद्धि]
१. उपवधु । उपवधु + सि इत्यादि विभक्तियाँ | वध्वाः समीपम् । अव्ययीभावसमास, विभक्तिलुक्, “स नपुंसकलिङ्गं स्यात्" (२।५।१५) से नपुंसकलिङ्गता, "स्वरो हस्वो नपुंसके" (२।४।५२) से 'वधू' शब्द के अन्तिम दीर्घ ऊकार को ह्रस्व तथा प्रकृत सूत्र से सि आदि विभक्तियों का लुक् ।
२. उपकर्तृ । उपकर्तृ + सि आदि विभक्तियाँ । कर्तुः समीपम् । अव्ययीभावसमासादि तथा प्रकृत सूत्र द्वारा 'सि' आदि विभक्तियों का लुक् ।।२८८।
२८९. अव्ययाच्च [२।४।४] [ सूत्रार्थ] अव्ययसंज्ञक शब्दों से परवर्ती विभक्तियों का लुक् होता है ।।२८९/
Page #54
--------------------------------------------------------------------------
________________
१२
कातन्त्रव्याकरणम
[दु० वृ०]
अव्ययमसंख्यम् । अव्ययाच्च विभक्तीनां लुग् भवति । स्वः, प्रातः, च, वा, अह । एवमन्येऽपि | पदसंज्ञार्थमिदम् ।। २८९।
[दु० टी०]
अव्यया० । न व्येतीत्यव्ययम् । न विद्यते संख्या यस्येत्यसंख्यं पर्यायः कथ्यते । तथा चाह -
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति । विभक्तिः कारकमिहोच्यते, श्लोके वचनग्रहणात् । स्वरादयश्च स्वर्गादेराधिकरणप्रधानस्य वाचकाः स्वभावादसंख्याः । चादयस्तु पदान्तरस्य यो धर्मः समुच्चयादिस्तस्य स्वसन्निधानमात्रेणोपकारिणो योतकाः। यश्च नियमोऽन्वर्थसंज्ञया एकस्मिन्नर्थे एकवचनम्, द्वयोरेव द्विवचनम्, बहुष्वेव बहुवचनम्, कर्मण्येव द्वितीयेत्यादि । स च तुल्यजातीयस्य संख्याकर्मादिमतः इत्यव्ययेभ्यः सामान्यविहिताः स्यादयो विद्यन्ते एवेत्याह - विभक्तीनामिति । अथवा सर्वस्या विभक्तेः सर्ववचनस्योत्पत्तौ प्रयोजनाभावात् प्रथमैकवचनमेवाव्यवहितं प्रवर्तते, विभक्तीनामिति बहुवचनम्, अधिकारवशात् ।
एकवाक्यतावादी पुनराह - अस्मादेव लुग्विधानाद् अव्ययेभ्यो विभक्तिरनुमीयते इति । पदसंज्ञार्थमिदमिति । यद्यपि पूर्वमात्रार्थः प्रतीयते तथापि "पूर्वपरयोरर्थोपलब्धौ पदम्" (१।१।२०) इति वचनात् परमन्तरेण पदसंज्ञा न स्यात् । किञ्च विद्यमानपूर्वपदात् प्रथमान्ताद् विभाषाऽव्ययादपि परयोर्युष्मदस्मदोरादेशाः यथा स्युरिति । यद्येवम्, सर्वविभक्त्युत्पत्तिपक्षे दुष्यति । नैवम् । नात्र तत् सूत्रम्, किन्तर्हि व्यवस्थितविभाषार्थः । तदाऽव्ययेभ्योऽपि विद्यमानपूर्वपदेभ्यो विभाषा भवत्येव । अथवा वस्तुमात्रं लिङ्गार्थ इति। 'उच्चैः, नीचैः' इत्यादावधिकरणशक्तिरव्यभिचारिणी । अव्ययानां लिङ्गार्थे इति प्रथमैव भवति । 'स्वर्यातः' इत्यादौ चाव्यभिचारात् कर्मापि लिङ्गार्थ इति प्रथमैव ।
Page #55
--------------------------------------------------------------------------
________________
३
नामचतुष्टयाध्याये चतुर्थः कारकपादः अव्ययम् । स्वर्, अन्तर्, प्रातर्, पुनर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत्, आरात्, पृथक्, ह्यस्, श्वस्, दिवा, सायम्, चिरम्, ईषत्, मनाक्, जोषम्, तूष्णीम्, बहिस्, आविस्, अधस्, अवश्यम्, निकषा, समया, मृषा, स्वयम्, नक्तम्, इद्धा, अद्धा, सामि, बत, क्षणम्, चारु, वाव, मनस्, समात्, सनत्, तिरस्, अन्तरा,
अन्तरेण, ह्योकस्, कम्, सम्, सदा, सना, नाना, विना, अमा, क्षमा, अन्यत्, उपांशु, विहायसा, सहसा, दोषा, मुधा, वृथा, मिथ्या, मिथु, पुरस्, मिथस्, मिथो, प्रायस्, मुहुस्, पुरा, लुक्, आर्य, अलम्, अभीक्ष्णम्, सार्धम्, सह, समम्, सत्रम्, साकम्, नमस्, हिरुक्, प्रशान्, प्रगे, अग्रे, अस्ति, नास्ति, स्वस्ति, असि | च, वा ह, अह, एव, एवम्, नूनम्, न्यूनम्, शश्वत्, सूत्रम्, कूपत्, कच्चित्, नेत् , चेत्, केचित्, अत्र, यत्र, तत्र, नहि, नडा, हन्त, मा, किम्, नकिम्, अ, नञ्, न, तावत्, नो चेत्, अथ चेत्, नवा, नवै, द्वे, स्वे, द्वै, वै, वौषट्, वषट्, श्रौषट्, स्वाहा', स्वधा, ओम्, ह्रीम्, हि, हाम्, खलु, किल, अह, स्व, अ, आ, इ, ई, उ, ऊ, ऋ, ऋ, लु, लू, ए, ऐ, ओ, औ, रहस्, आतङ्क, किमु, किमुत, यावत्, तावत्, तत्, यत्, धिक्, है, हे, प्याट्, पाट्, अहो, अङ्ग, पुत्र, आहो, भोः, हौ, रात्रौ, यात्रायाम्, वेलायाम्, अथ, अथो, अघो, मा, नो, हंहो, ननु, हि, सु, तु, इति, इव, अपितु, बत, घपित, आम्, संहिकम्, सकम्, नहिकम्, ऋतम्, अध्वम्, स्नकम्, इकम्, कम्, लुकम्, सत्यम्, अ, न चेत्, जातु, अयि, अस्, अहह, आहोस्वित्, रात्र्या, बाह्या, दिष्ट्या, पशु, पट्, फट्, सह, अलुक्, अङ्गयुक्, भाजक्, द्राक्, साक्, अरे, रे, रेरे, अये, झट्, झटिति, तुम्, कियत्, सर्या, इम्, किम्, सीम्, इतिहा। एवम् प्रादि । अन्येऽव्यया यथास्थानमेव वक्ष्यन्ते ।
निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः। योतकत्वात् क्रियायोगे लोकादवगता इमे ॥ अधिपरी गतार्थों च सुः पूजायां यदा भवेत् ।
अतिरतिक्रमे 'चार्थे नोपसर्गा इमे तदा ॥ अधिपर्योरुपरिभावः सर्वतोभावश्चान्यतः प्रकरणादेः प्रतिपन्न इति गतार्थत्वम्, तेनानुपसर्गाद्धातोः प्राङ् निपातानियम एव | यथा अध्यागच्छति, आगच्छत्यधि ।
Page #56
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
पर्यागच्छति, आगच्छति परि । ‘सुस्तुतं भवता' इति उपसर्गत्वाभावात् षत्वं न भवति । अतिस्तुतम् इत्यतिक्रमणे पूजायां च षत्वं न भवति ।। २८९ ।
[वि० प०]
अव्ययात् । “स्वरादिनिपातमव्ययम्" (अ० १।१।३७) इत्यव्ययसंज्ञार्थं सूत्रं केनचित् कृतम्, तदिह न वक्तव्यम् । तत् किन्तदव्ययमित्याह - अव्ययमसंख्यमिति । न व्यतीत्यव्ययम् । न विद्यते संख्या यस्येति असंख्यम् इत्यन्वर्थबलाद् इह अव्ययसंज्ञा सिद्धेति भावः । तथा चोक्तम् -
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति । विभक्तिशब्देनात्र कारकमभिप्रेतम्, न तु स्यादिः, श्लोके वचनग्रहणात् । एवमन्येऽपीति | स्वरादयो निपाताश्चाव्ययास्ते चैतावन्त इति परिसंख्यातुमशक्यत्वाद् इह नोक्ताः । टीकायान्तु कियन्तो दर्शिताः । यदुक्तम्,
इयन्त इति संख्यानं निपातानां न विद्यते ।
प्रयोजनवशादेते निपात्यन्ते पदे पदे ॥ इति । तस्माल्लोकोपचारादेवाव्ययाः प्रतिपत्तव्याः । तथा च लोकोपचारसूत्रे निपाताव्ययोपसर्गेत्यादि दर्शितम् । तत्र निपातेषु प्रादयः क्रियायोगे उपसर्ग इति मन्तव्याः । यदाह -
निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः।
योतकत्वात् क्रियायोगे लोकादवगता इमे ॥इति । प्रादयस्तत्र,
प्रपराप-समन्वव-निर्दुरभि-यधिसूदति-निप्रति-पर्यपयः ।
उप आङिति विंशतिरेव सखे उपसर्गविधिः कथितः कविना ।। पदसंज्ञार्थमिदमिति । ननु लिङ्गत्वाद् अव्ययेभ्य उत्पन्नानां विभक्तीनां लुग्विधानमन्तरेण स्थितिरेव स्यात् । ततो लुगर्थमेवेदम्, यथा “अन्यस्माल्लुक्' (२।४।३) इति, तत्कथं पदसंज्ञार्थमित्युच्यते । न चैतद् वक्तव्यम् – संख्याकर्मा देविभक्तिवाच्यस्यार्थस्याभावादव्ययेभ्यो न सन्त्येव विभक्तय इति । यतः संख्याकर्मादिनियमोऽस्ति, तस्य
Page #57
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः सामान्येन विहितानां विभक्तीनां यथासंभवं वाक्यान्तरेण पश्चाद् विधीयमानत्वात् | भिन्नवाक्यतापक्षस्तु दुर्गसिंहस्याभिमत इति लक्ष्यते । यदाह टीकायाम् अव्ययेभ्यः सामान्येन विहिताः स्यादयो विद्यन्त एवेति ? सत्यमेतत् । किन्तु एकवाक्यतापक्षे वृत्तिग्रन्थो योजनीय इति । तत्रैवं युज्यते । किमर्थम् इदम् , यावता संख्याकर्मादिविधायकैर्वचोभिरेकमेवेदम्, “तस्मात् परा विभक्तयः" (२।१।२) इति विभक्तिविधायकं वाक्यम्, ततोऽव्ययेभ्य: संख्याकमदिरर्थस्याभावान्न सन्त्येव विभक्तय इति, कथं लुग् विधीयते ? सत्यम् । अत एव ज्ञापकाद् अव्ययेभ्यो विभक्तयोऽनुमीयन्ते, न ह्यन्यथा लुगुपपद्यते इति किमर्थं पुनर्जाप्यन्ते विभक्तय इत्याह - पदसंज्ञार्थमिदमिति। विभक्तिमन्तरेण पदसंज्ञैव न स्यादिति भावः ।।२८९ ।
[क० च०]
अव्ययात् । असंख्यमिति । असंख्यशब्दो व्यर्थकः । तथाहि इयत्तापरिच्छेदाविषयवाची । यथा 'असंख्या देवदत्ताः' । द्वित्वबहुत्वाभाववाची च । तत्राये - शब्दस्यापरिच्छिन्नत्वाद् अतिव्याप्तिः । तथा च,
अहं च भाष्यकारश्च कुशाग्रैकधियावुभौ।
नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः॥ इत्यादि । द्वितीये तु-द्वित्वादिसंख्याभावाद् वचनेषु च सर्वेष्विति वचनासङ्गतिः ? सत्यम् । द्वितीयो न्याय्यः। तथा एकार्थसमवेतत्वेन 'बहुलसंख्यायोगः सिद्धः । एवं कर्मादेः । तर्हि कथम् असंख्यमिति चेत् ? सत्यम् । नौपटादिवत् संख्यासमवायाभाव इत्यर्थः । समुच्चयादेर्गुणत्वात् न गुणे गुणवृत्तिरिति ।अतो भिन्नवाक्यतायां संख्यामात्र
१. एकार्थसमवेतत्वेन समवायघटितैकाधिकरण्येन इत्यर्थः । यथा एकस्मिन् वस्तुनि संख्या समवायसंबन्धेन वर्तते, तथा उच्चस्त्वादिरपीति भावः । यथा 'उच्चैगुहाः' इत्यादि । २. नौपटादिवदिति । अयमर्थः- यथा वस्त्रसंयुक्तायां नौकायां संयोगसंबन्धेन वस्त्रस्य सत्त्वेऽपि समवायसम्बन्धेनाभावाद् वस्त्रसंयुक्ता नौकेति प्रयोगः । तद्वदत्रापि समवायसंबन्धेनाव्ययार्थे संख्यायोगाभावाद् असंख्यमित्युच्यते इति । यद् वा नाविति स्थिते पटादावैकाधिकरण्येन नौगतसंख्यायोगे सत्यपि समवायसंबन्धेन यथा तत्र तस्या अभावः । तद्वदत्रापि ऐकाधिकरण्येन संख्यायोगे सत्यपि समवायेन संख्यायोगाभावाद् असंख्यमित्युच्यते । ३. कथं समवायेनाभाव इत्याह - समुच्चयेत्यादि ।
Page #58
--------------------------------------------------------------------------
________________
१६
कातन्त्रव्याकरणम्
प्राप्त्यपेक्षया विभक्तिरिति एकस्मिन्नर्थे एकवचनमिति सामान्योक्तत्वात् । अतः संख्यायोगः स्यादिति । एकवाक्यतायां पुनः “ शेषाः कर्मकरण०" (२ । ४ । १९) इत्यादौ सप्तम्या अभिधेयार्थकत्वाद् यदर्थसमवेतं कर्मादिकं तद्वाचकप्रकृतेरेव स्यात्, न तद्योगमात्रमपेक्षते इति प्राञ्चः । संख्येति । एकत्वादिकेत्यर्थः । न व्येतीति । विशेषरूपं न यातीत्यर्थः । सदृशमित्यादि त्रिषु लिङ्गेष्वित्यादौ सर्वत्र विषयसप्तमी, अव्ययानां लिङ्गादेरयोगात् ।
ननु युष्मदस्मदोरपि लिङ्गत्रये समानरूपत्वाद् अव्ययत्वं स्यादित्याह – सर्वास्विति । ननु कतिशब्दस्य सर्वविभक्तिषु सादृश्यसंभवादव्ययत्वं स्यादित्याह - वचनेष्वित्यादि । षष्ठीबहुवचने विकृतिसंभवादित्यर्थः ।
अथवा सादृश्यं हि परस्परघटितं भवति । ततश्च विप्रवृक्षयोरपि विप्रेण वृक्षेण इतीणभागं समादाय सादृश्यसम्भवादव्ययत्वं स्यादित्याशङ्क्याह – वचनेष्विति । ननु अक्प्रत्यये सति विशेषरूपावगमात् कथमिदं संगच्छते इति चेद् अव्ययस्यासत्त्वभूतस्य लिङ्गसंख्याविरहेण द्वित्वबहुत्वयोरभावः । अतो नास्ति सर्वेषु वचनेषु अक्प्रत्यय इति । एतत् पुनरेकवाक्यतापक्षमाश्रित्य बोद्धव्यम् । भिन्नवाक्यतापक्षे तु एभ्यः सर्वा विभक्तयः स्युरिति विभक्तिशब्देन कारकमभिप्रेतमिति । एतत्तु कारके तासां विभक्तीनां विधीयमानत्वेन तात्पर्यादुक्तम् ।
1
वस्तुतस्तु विभक्तिशब्देन प्रथमादयः सप्तैवोच्यन्ते । अत एव षष्ठ्या अपि ग्रहणमिति उमापतिः ।तन्नेति महान्तः । एकवाक्यतापक्षेऽव्ययेभ्यः षष्ठ्युत्पत्तेरभावात् । अत एव त्रिषु लिङ्गेष्विति विषयसप्तमी एषां लिङ्गादेरभावादिति कुलचन्द्रः । तदयुक्तं दूषणम्, भिन्नवाक्यतापक्षे कारिकार्थासङ्गतेः । सत्यमित्यादि । नन्वेकवाक्यतापक्षेऽपि कथं ज्ञापकमिति यावताऽस्मिन् पक्षे औत्सर्गिकस्यैकवचनस्यालोपार्थाल्लुगर्थमेवेदम् ? सत्यम् । “अथ परस्मैपदानि ” ( ३ | १|१) इति ज्ञापकाल्लुक् सिद्ध एव || २८९ ।
[समीक्षा]
' स्वर् + सि, प्रातर् + सि, च+ सि, वा + सि, अह + सि' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही सि - आदि (पाणिनि सु - आदि) विभक्तियों का लुक् करके 'स्वः, प्रातः, च, वा, अह' शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " अव्ययादाप्सुपः " (अ० २।४ । ८२) ।
Page #59
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१७ यहाँ यह ज्ञातव्य है कि पाणिनि ने अव्ययसंज्ञा के बोधार्थ "स्वरादिनिपातमव्ययम्" (अ० १११।३७-४१) आदि ५ सूत्र बनाए हैं, जबकि कातन्त्रकार 'न व्येतीत्यव्ययम्' इस व्युत्पत्ति के बल पर उसे अन्वर्थ मानकर अव्ययसंज्ञा के अवबोधार्थ सूत्र बनाने की आवश्यकता नहीं समझते । इस प्रकार संज्ञासूत्ररचना को छोड़कर प्रक्रिया की दृष्टि से उभयत्र साम्य ही कहा जा सकता है।
[विशेष] १. न व्येति विशेषरूपं (भिन्नरूपम्) न यातीत्यर्थः (क० च०)। २. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।। (दु० टी०)। ३. इयन्त इति संख्यानं निपातानां न विद्यते ।
प्रयोजनवशादेते निपात्यन्ते पदे पदे ।।(वि० प०)। ४. विभक्ति शब्द से कारक का ग्रहण (दु० टी० आदि)। ५. चादयस्तु पदान्तरस्य यो धर्मः समुच्चयादिस्तस्य स्वसन्निधानमात्रेणोप
कारिणो द्योतकाः (दु० टी०)। [रूपसिद्धि]
१-२= स्वः। स्वर् +सि आदि। प्रातः। प्रातर् + सि आदि । प्रकृत सूत्र से सिआदि का लोप तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से विसर्ग आदेश |
३-५= च। च+सि आदि । वा। वा+सि आदि । अह । अह + सि आदि । प्रकृत सूत्र से सि आदि का लोप ।।२८९।
२९०. रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य [२।४।५] [सूत्रार्थ]
रूढ= जनपदसमानशब्द वाले क्षत्रियविशेष के बोधक शब्दों से बहुवचन में विहित अपत्यप्रत्यय का लुक् होता है, स्त्रीलिङ्ग को छोड़कर ।।२९०।
Page #60
--------------------------------------------------------------------------
________________
१८
कातन्त्रव्याकरणम्
[दु० वृ०]
जनपदसमानशब्दानां क्षत्रियाणां रूढसंज्ञा । रूढानां बहुत्वे विहितस्यापत्यप्रत्ययस्यास्त्र्यभिधेयस्य लुग् भवति । पञ्चालस्यापत्यानि – ‘पञ्चालाः । एवं विदेहाः, अङ्गाः, वङ्गाः, कलिङ्गाः, मगधाः, सूरमसाः' अणो लुक् । प्रत्यग्रथाः, कलकूटाः, अश्वकाः । इणो लुक् । बहुत्वे इति किम् ? आङ्गः, आङ्गौ । प्रियवाङ्गा इति समासोऽत्र बहुत्वे न प्रत्ययः ।अस्त्रियामिति किम् ? कालिङ्ग्यः । अपत्यप्रत्ययस्येति किम् ? पञ्चालानामिमे भृत्याः पाञ्चालाः ।।२९०।
[दु० टी०]
रूढा० । जनपदेत्यादि । रूढसंज्ञा पुनरिह लोकोपचारात् सिद्धा इति भावः । व्युत्पत्तिरपि संभवति । रूढः प्रसिद्धो जनपदेन समानशब्दो येषामिति कृत्वा एतदपेक्षया गर्गादयोऽप्रसिद्धा नियतार्थत्वात् लोके विशिष्टविषयतया विदिता इति -
रूढादण् ण्यश्च रूढात् स्यादादैदौदादिकस्वरात् । न तु गान्धारिशाल्लेयाद् नकारादेः कुरोरपि ॥१॥ इदन्तकौशलाजादात् स्त्रियामाऽपत्यमावता। पाण्डोश्च प्योऽप्युलोपेऽस्मिन् संज्ञाशब्दा हि तद्धिताः॥२॥ प्रत्यग्रथादिण् शाल्लांशात् कलकूटाश्वकादपि ।
काम्बोजादेः सदा भेदात् प्रयोगो (प्रत्ययो) नैव दृश्यते ॥३॥ इक्ष्वाकोरपत्यानि इक्ष्वाकवः। तद्धितत्वादेकवचनद्विवचनयोरुलोपो दृश्यते । यथा- 'ऐक्ष्वाकः, ऐक्ष्वाकौ' । आच्च ऐच्च औच्च आदौ यस्य स्वरस्येति विगृह्य पुनर्बहुव्रीहिणा नामोच्यते । तद् यथा आमुष्यस्यापत्यानि आमुष्याः। ण्यस्य लुक् । एवम् ऐतिहाः, सौवीराः । गान्धारिशाल्लेयाभ्यां त्वणेव । गान्धारस्यापत्यं गान्धारिः। शाल्ला नाम क्षत्रिया, तस्या अपत्यम् इत्येयण - गान्धारयः, शाल्लेयाः । कुरोरपत्यानि कुरवः, निषधस्यापत्वानि निषधाः | ण्यस्य लुक् ।अवन्तेरपत्यानि । कोशलाया अपत्यानि कोशलाः । अजादस्यापत्यानि अजादाः । ण्यस्य लुक् । एतेषु ण्येषु सत्सु "स्त्रियामादा" (२।४।४९) अपत्यमात्रता च गम्यते । गर्गादेराकृतिगणत्वात् पाण्डोरपत्यानि पाण्डवः । एकवचनद्विवचनयोस्तु पाण्ड्यः, पाण्ड्यौ ।
Page #61
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
उदुम्बरास्तिलखला मद्रका वा युगन्धराः । भूलिङ्गाः शरदण्डाश्च शाल्लावयवसंज्ञिताः ॥
"
शाल्लाया अपत्यं पौत्र इत्यभिधानादणेव । शाल्लस्य निवासः शाल्लो जनपदः । तदवयवा उदुम्बरादय ईदृशान्येवोदाहरणानि । अबहुत्वे तु 'औदुम्बरि:' इत्यादि । ‘औदुम्बरः' इत्यणन्तमपि दृश्यते । कम्बोजस्यापत्यं काम्बोजः । एवं चोल: केरलः, शकः । अभेदोपचाराद् एभ्यो रूढलक्षणोऽण् नास्तीत्यर्थः । रूढेभ्यो राज्ञि चाभिधेये यथोक्ताः प्रत्ययास्तेषां लुगिति वक्तव्यम् | नैवम् । यथा - यः पञ्चालानां राजा स पञ्चालस्यापत्यमिति पाञ्चालो भविष्यति । यस्त्वाद्यः पञ्चालः, स पञ्चालस्यापत्यं न भवतीति तत्र प्रत्ययो न स्यात् । यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य 'यिन्नायिषु' इत्यत्र च राज्ञोऽपि ग्रहणं स्यात् ? सत्यम् । राज्ञि चाभिधेयेऽभिधानादेषां लुगपि - पञ्चालानां राजानोऽपि पञ्चाला इत्यादि ।
कुन्त्यवन्ति कुरुपाण्डु अभेदाच्च स्त्रियां सदा । नापत्यप्रत्ययो दृष्टः कुन्त्यवन्ती कुरूरिति ॥ १ ॥ अदन्ताच्च स्त्रियां नैव शूरसेनी यथा मद्री राज्ञी भार्गी भवेदिति ॥ २॥ अरूढाच्च प्रवक्ष्यामि वतण्डी स्त्रीति पूर्ववत् ।
प्राच्यभर्गादिवर्जिताः।
आङ्गिरस्यां स्त्रियां ण्यस्य वातण्ड्यायाश्च किं लुका ॥ ३ ॥ इणो बहुस्वरात् प्राच्याद् बहुत्वे त्वस्त्रियां तथा ।
ज्ञेयमप्राच्याहास्तिदासयः ॥ ४॥
उपकादेश्च नोच्यते ।
पन्नगारा इति
भेदाभेदाद् विभाषेयम्
प्रत्ययस्यानुसारेण
एवमन्येऽनुसर्तव्याः
औपकायनाः ॥५॥
१९
उपका
संज्ञाशब्दा हि तद्धिताः ।
न व्युत्पाद्या लोकसिद्धाः कस्तान् कार्त्स्न्येन वक्ष्यति ॥ ६ ॥
लुग्विधानमिदं यच्च दिङ्मात्रमिह
दर्शितम् ।
तन्मन्दमतिबोधाय साधुदृष्ट्या तु
निष्फलम् ॥ ७।२९०।
Page #62
--------------------------------------------------------------------------
________________
२०
कातन्त्रव्याकरणम्
[वि० प० ]
रूढानाम्० | जनपदेत्यादि । जनपदेन सह समानः शब्दो येषां क्षत्रियाणामिति विग्रहः । य एव संज्ञाशब्दः पञ्चालादिर्जनपदे वर्तते स एव क्षत्रियेष्वपीति । अतो जनपदसमानशब्दाः क्षत्रिया भवन्तो रूढसंज्ञां प्रतिपद्यन्ते, लोकोपचारादिति भावः । अणो लुगिति । तद्धितानामाकृतिप्रधानत्वाद् इह रूढादणिति वचनाद् अणो विहितस्य लुगित्यर्थः । तथा बाह्वादेराकृतिगणत्वात् प्रत्यग्रथाद् इण् । शाल्लांशात्, कलकूटात्, अश्वकादपीति वचनाद् अणोऽपवादः इण् इत्याह- इणो लुगिति । प्रियवाङ्गा इति । वङ्गस्यापत्यं वाङ्गः इत्येकत्वेऽणि कृते पश्चात् प्रियो वाङ्गो येषामिति बहुत्वे विग्रह इत्यर्थः । कलिङ्ग्य इति । कालिङ्गस्यापत्यानि स्त्रियः इति विगृह्य रूढादण् इत्यण् । ‘अण्, एयण्, इकण्, नण्, स्नण्, क्वरप्' षडनुबन्धो नदादिरिति वचनाद् ईप्रत्ययः । "ईकारे स्त्रीकृतेऽलोप्यः” (२|४|५१) इति अकारलोपः । पञ्चाला इति । "तस्येदम्” (२।६।७ ) इत्यण् । “इवर्णावर्णयोर्लोपः” (२।६।४४) इत्यकारलोपः ।। २९०|
[ क० च० ]
रूढानाम्० । स्त्रियामिति नाशङ्क्यते आदावपठितत्वात् । अपत्यप्रत्ययस्येति अकारादिसाहचर्याद् अपत्यमिति । न पतति वंशो येन जातेन तद् अपत्यम् इति वचनात् स्त्रीणामपत्यत्वं न विद्यते, कथम् अस्त्रियामिति प्रतिषेध उच्यते ? सत्यम् । स्त्र्यपत्ये जातेऽपि वंशो न पतति । यदाह – “पौत्रदौहित्रयोलकि विशेषो नास्ति कश्चन' इति धर्मशास्त्रम् | दौहित्रस्यापि पौत्रतुल्यत्वान्नापि सर्वेषामनपाय इति । केचित्तु अत I एव ज्ञापकात् स्त्रीणामपत्यत्वमिति । अन्यथा वर्जनमनर्थकं स्यादित्याहुः । अथ कथं रघोः पाण्ड्या इति पाण्डुशब्दाद् यणि उकारलोप इति ।
पाठान्तरम् रूढानाम्० | स्त्रियामिति नाशङ्क्यते व्याख्यानात् तत्पुनः परपदस्य स्वरादेः साहचर्यात् पूर्वपदस्य व्यञ्जनादित्वाद् व्यञ्जनादि स्यादिति चेन्न । तदा "रूढानां स्त्रियां बहुत्वे " ( द्र० - २।४।५) इति कृतं स्यात् । एवं कृते न भवति, आम्नायादिति कश्चित् । जनपदेत्यादि । समानशब्दोऽत्रैकपर्यायः । जनपदेन समान एकः शब्दो यस्य क्षत्रियस्य वाचकः स्यात् । यथा यज्ञदत्तदेवदत्तयोः समाना माता 'एकमाता' इत्यर्थः ॥ २९० ॥
Page #63
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२१
[समीक्षा]
'पञ्चाल + अपत्यार्थ तथा बहुत्व में अणू, विदेह + अणू, अङ्ग + अण्' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य 'अण्' आदि प्रत्ययों का लुक् करके 'पञ्चालाः, विदेहाः, अङ्गाः, वङ्गाः, अश्वकाः' आदि शब्दरूप सिद्ध करते हैं । पाणिनि के सूत्र हैं - "ते तद्राजाः, ज्यादयस्तद्राजाः, तद्राजस्य बहुषु तेनैवास्त्रियाम् ” (अ० ४|१ | १७४; ५|३ | ११९; २ । ४ । ६२) । तदनुसार पाणिनि जिन शब्दों की 'तद्राज' संज्ञा घोषित करते हैं, उन्हीं शब्दों से अपत्यार्थ तथा बहुत्वार्थ में किए गए अणादि प्रत्ययों का लुक् होता है । कातन्त्रकार जनपदसमानशब्द वाले क्षत्रियवाचक शब्दों के अवबोधार्थ 'रूढ' शब्द का प्रयोग करते हैं । सामान्यतः तद्राजसंज्ञा तथा रूढशब्दार्थ व्याख्यागम्य है, जो सूत्र तथा टीकादि से ही जाना जाता है । अतः उभयत्र प्रक्रियासाम्य परिलक्षित होता है ।
[ विशेष द्रष्टव्य वचन ]
१. एवमन्येऽनुसर्तव्याः संज्ञाशब्दा हि तद्धिताः ।
न व्युत्पाद्या लोकसिद्धाः कस्तान् कार्त्स्न्येन वक्ष्यति ॥ ( दु० टी० ) । २. लुग्विधानमिदं यच्च दिङ्मात्रमिह दर्शितम् |
तन्मन्दमतिबोधाय साधुदृष्ट्या तु निष्फलम् || ( दु० टी०) ।
३. तद्धितानामाकृतिप्रधानत्वात् (वि० प० ) ।
४. स्त्रीणामपत्यत्वं न विद्यते । स्त्र्यपत्ये जातेऽपि वंशो न पतति । यदाह – ‘पौत्रदौहित्रयोर्लोक विशेषो नास्ति कश्चन' । (क० च० ) ।
[ रूपसिद्धि ]
9-19= पञ्चालाः । पञ्चालस्यापत्यानि । पञ्चाल + अण् + जस् | विदेहाः । विदेहस्यापत्यानि । विदेह + अण् + जस् । अङ्गाः । अङ्गस्यापत्यानि । अङ्ग + अण् + जस् | बङ्गाः। वङ्गस्यापत्यानि । वङ्ग + अण् + जस् । कलिङ्गाः । कलिङ्गस्यापत्यानि । कलिङ्ग + अण् + जस् । मगधाः । मगधस्यापत्यानि । मगध + अण् + जस् । सूरमसाः। सूरमसस्यापत्यानि । सूरमस + अण् + जस् ।
Page #64
--------------------------------------------------------------------------
________________
२२
इन सातों स्थलों में “तस्येदमेवमादेरणिष्यते” (२ । ६ ७) सूत्र से विहित अण् प्रत्यय का प्रकृत सूत्र द्वारा लुक् तथा प्रथमाबहुवचन में जस् प्रत्यय - समानलक्षण दीर्घ, स् को विसगदिश ।
कातन्त्रव्याकरणम्
८-१०= प्रत्यग्रथाः। प्रत्यग्रथ + इण् + जस् । प्रत्यग्रथस्यापत्यानि । कलकूटाः । कलकूट + इण् + जस् । कलकूटस्यापत्यानि । अश्वकाः । अवश्क + इण् + जस् । अश्वकस्यापत्यानि ।
इन तीनों स्थलों में “इणतः " ( २ | ६ | ५) सूत्र से विहित ‘इण्’ प्रत्यय का प्रकृत सूत्र द्वारा लुक्, प्रथमा - बहुवचन में जस् प्रत्यय, समानलक्षण दीर्घ, परवर्ती अकार का लोप एवं “रेफसोर्विसर्जनीयः ” ( २ | ३ | ६३) से सकार को विसगदिश || २९० |
"
२९१. गर्गयस्कबिदादीनां च [२|४|६ ]
[ सूत्रार्थ ]
'गर्गादि' – यस्कादि' – बिदादि ३ – गणपठित शब्दों से बहुत्वार्थ में विहित अपत्यप्रत्यय का लुक् होता है, स्त्रीलिङ्ग को छोड़कर ।। २९१ ।
[दु० वृ० ]
गर्गादीनां यस्कादीनां बिदादीनां च बहुत्वे विहितस्यापत्यप्रत्ययस्यास्त्र्यभिधेयस्य लुग्भवति । गर्गाः, वत्साः - ण्यस्य लुक् । यस्का:, लज्जाः - अणो लुक् । बिदा, उर्वाः - अत्राप्यणो लुक् । यस्कादयो नानापत्यप्रत्ययान्ताः, बिदादयोऽपि पौत्राद्यणन्ताः । प्रियगर्गः, प्रिययस्कः प्रियबिदः - प्रत्ययोऽत्र बहुत्वे लुक् स्यादेव । गार्ग्यकुलम्, गर्गकुलमिति । गार्ग्यस्य हि यत् कुलम्, गर्गस्य गर्गाणामपि तत् कुलमित्यभेदेनोच्यते ।।२९१।
-
"
१. व्याख्याकारों ने इसमें 'गर्ग- वत्स - अग्निवेश' आदि १०० शब्द पढ़ने आकृतिगण घोषित किया है ।
२. इसमें ४४ शब्द पढ़े गए हैं और यह भी आकृतिगण है ।
३. इसमें ४८ शब्दों का पाठ है तथा इसे भी आकृतिगण ही माना गया है ( द्र०, कलापव्या०, पृ० १२२ - २३) ।
बाद भी इसे
Page #65
--------------------------------------------------------------------------
________________
२३
नामचतुष्टयाध्याये चतुर्थः कारकपादः [दु० टी०]
गर्ग० । समुच्चयाद् यत् परं श्रूयते तल्लभते प्रत्येकम् अभिसंबन्धम् इत्याह - गर्गादीनामिति । तथा च गर्गश्च यस्कश्च बिदश्चेति, त एवादयो येषामिति बहुव्रीहिः । गर्गादिर्वक्ष्यते ।
यस्कादिः। 'यस्क, लज्ज, द्रुह्य, अयस्तृण, तृण, कर्ण, भल्ल, दृण, नन्दन' एभ्यः शिवादित्वाद् अणेव । 'सदामत्त, कम्बलहार, अहियोग, कर्णाटक, पिण्डीजङ्घ, बकसक्थ, वक्षोमुख, जङ्घारथ, उत्काश, कटुक, मन्थक, विषपुट, उपरिमेखल, क्रोष्टुमाष, क्रोष्टुमाल, क्रोष्टुपाद, शीर्षमाय, शीर्षमाल, शीर्षपाद, पदक, वर्षक' एभ्यः इणतः । 'पुष्करसद्' बाह्लादित्वादिण् । 'विश्रि (म्बि), कुत्रि, सूज, बस्ति' एभ्यः अत्र्यादित्वादेयण् । 'मित्रयु' अस्मादण् । खरप, सुरप, भडिल, भण्डिल, तडिल, तण्डिल' एभ्य आयनण् । 'अगस्ति, कुण्डिन' अगस्त्यशब्दाद् बहुत्वेऽणो लुक् । इकारान्तता च गणनिपातनात् । कुण्डिनीशब्दाद् गर्गादित्वाण्ण्यस्य लुक् सिद्ध एव । अदन्तता च निपात्यते । अगस्तयः , कुण्डिनाः ।
बिदादिश्च - 'बिद, उर्व, कश्यप, उषिक (कुशिक), भरद्वाज, उपमन्यु, किलात, कन्दर्प, (किन्दर्भ), विश्वानर, रिष्टिसेन (ऋषिषण), ऋतभाग, हर्यश्व, प्रियक, अयस्तम्ब (आपस्तम्ब), कृकवाक (कुचवाक), शरद्वत्, शुनक (शुनक्), धेनु, गोपवन, शिग्रु, बिन्दु, भाजन (भोजक), अश्वावतान, शमिक (श्यामाक), सम्पाक, स्यापर्ण, हरित, किल्लास, राक्षस, वामक, कर्कन्धू, वश, बध्योग, विष्णु, वृद्धि, प्रतिबोध, रथीतर, रथन्तर, गविष्ठिर, (गविम्भिल), निषाद, मठर, पृ (स) दाकु, मृदु, पुनर्भू, पुत्र, दुहित, ननान्दृ, परस्त्री, परशु' च । कथं 'गार्गयः, बैदयः' इति इणो लुक् न स्यात् । नायं गणमुच्चार्य प्रत्ययो विहितः, किं तर्हि "इणतः" इति, अन्यथा यस्कादिष्वेव गर्गादिबिदाद्योरपि पाठः कृतः स्यात् । गोत्रादिभूताद् गर्गादेः प्रायेण पौत्रादावेवापत्ये ण्यो दृश्यते । व्यवस्थितविभाषया बिदादिभ्यो गोत्रादिभूतेभ्योऽण् ।
ऋषिभ्यस्तु पौत्रादावेव । बिदाद्यन्तर्गणेभ्यो गोपवनादिभ्योऽष्टाभ्यो लुग् न भवति । "वा तृतीयासप्तम्योः"(२।४।२) इत्यतो मण्डूकप्लुतिवाधिकाराद् ‘गौपवनाः, शैग्रवाः' इति । प्रियगर्ग इति । प्रिया गर्गा यस्येति विग्रहः । प्रियो गाग्र्यो येषां ते प्रियगार्याः इति। समासोऽत्र बहुत्वे न प्रत्ययः इति । गर्गादिबिदाधोरेकत्वद्वित्वयो
Page #66
--------------------------------------------------------------------------
________________
२४
कातन्त्रव्याकरणम् रुत्पन्नस्य षष्ठीतत्पुरुषे वा लुगिष्यते । गार्यस्य कुलं गार्यकुलम्, गर्गकुलं वा । गार्ययोः कुलं गार्यकुलम् , गर्गकुलं वा । बैदस्य कुलं बैदकुलम्, बिदकुलं वा । बैदयोः कुलं बैदकुलम्, बिदकुलं वा।
एकत्वद्वित्वयोरिति किम् ? गर्गाणां कुलं गर्गकुलम्, तदिह न सिध्यति, बहुत्वे लुविधानात् । तत्कथमित्याह - गाय॑स्य हीति । एकस्य गर्गस्य यत् कुलम्, तद् बहूनामपि गर्गाणां तद्भातृपुत्रादीनां च । कथमेकस्य कुलं बहूनामित्युच्यते इत्याह - अभेदेनेति । अभेदे ऐक्यं कुलसम्बन्धं प्रति तस्य तेषां च अनानात्वात् । अपरश्चाह - गार्यशब्दस्य गर्गशब्दस्य च कुलशब्देन समासे सति वृत्तिद्वयमिति । कथं तर्हि गाय॑स्य भार्या गार्यभार्येति, गर्गभार्येति ? न हि गाय॑स्य भार्या गर्गस्य भवति । नैवम्, संबन्धः गर्गकुलत्वात् प्रथमप्रकृतिना गर्गशब्देन गार्योऽपि व्यपदिश्यते । अतो वृत्ताविदमुक्तम् - गार्यस्य इत्यादि ।।२९१ ।
[वि० प०]
गर्ग० । ण्यस्य लुगिति । "ण्य गदिः" (२।६।२) इति विहितस्येत्यर्थः । अणो लुगित्यत्रापि अभिधानात् "शिवादिभ्योऽण्" इति वचनादण् । अत्रापीति । तथा "बिदादिभ्योऽ" इत्यण् । यस्कादयः इत्यादि । नानापत्यप्रत्यया अन्ते येषामिति विग्रहः । यस्कादिगणे नानागणसम्बद्धाः शब्दाः पठ्यन्ते । केचित् शिवादेः, केचिद् बाह्लादेः, केचिद् अत्र्यादेरिति । तेन तत्तद्वचनादसावसौ प्रत्यय इति । अतो यस्कादयो नानापत्यप्रत्ययान्ताः । तत्पुनरभियुक्तेन गणपुस्तके वेदितव्यमिति। बिदादयोऽपीत्यादि । पौत्रादावेवापत्येऽण् अन्तो येषामिति विग्रहः । बिदादिभ्यो गोत्रादिभूतेभ्यः पौत्रादावेवापत्येऽणिष्यते इति भावः । कथमुक्तं गार्यकुलं गर्गकुलमिति। गार्यकुलमित्येव स्याद् इत्याह - गाय॑स्य हीत्यादि । एकस्य गाय॑स्य यत् कुलं तद् गर्गस्यादिपुरुषस्य, गर्गाणां गर्गापत्यानामितरेषां तद्भातपुत्रादीनामपि तत्कुलं भवतीति कथमिति चेत्, आह - अभेदेनेति कुलसम्बन्ध प्रति सर्वेषामेककुलत्वहेतुनेत्यर्थः।तत्पुरुषस्योत्तरपदप्रधानत्वाद् गर्गशब्दस्य कुलशब्देन सह समासे सति अर्थस्य भेदात् सिद्धम् । ।
__ गार्यकुलमिति ।एतच्चापव्याख्यानमेव, यतः कुलस्यैकत्वादिहास्तु नामार्थस्याभेदः, भार्याशब्देन तु समासे सति कथं गार्यभार्या गर्गस्य भवितुमर्हतीति । तेन गार्ग्यस्य
Page #67
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
हीत्यादीनां गर्गशब्देन गार्ग्याभिधाननिबन्धनम् एककुलत्वमुच्यते । गर्गकुलसम्बन्धाद् गार्ग्योऽपि गर्गशब्देन व्यपदिश्यते, ततो भेदस्याभावात् तद्धितो नोपपद्यते इति सिद्धं 'गार्ग्यभार्या, गर्गभार्या' इति ॥ २९१ ।
२५
[क० च०]
गर्ग० । आदिशब्दः प्रत्येकमभिसंबद्धः । यदि बिदेरेव स्यात् तदा निःसन्देहार्थं पूर्वत्रैव विदध्यात् 'बिदादिगर्गयस्कानाम्' इति । गार्ग्यकुलमित्यादि । कुलसंबन्धं प्रति भेदो नास्ति, सर्वत्रैव वंशत्वमस्तीत्येतच्चेत्यादि । न च लक्षणा स्यात् । गार्ग्यकुलमित्यादौ सम्बन्धिभेदात् । भेदे सति मुख्यार्थबोधोऽस्तीति । गर्गकुलमित्येकस्यार्थो घटते । 'गौर्वाहिकः ' इत्यादौ गोलक्षणायां पुनर्घटत एव । तस्मात् सादृश्यद्वारेणैवात्र तूपाधेर्भेदेन भेदं कृत्वा यत् सादृश्याद् वर्तते, तन्नात्र किञ्चित् फलम् । फलं तु गार्ग्यस्य भार्येति । ततो भेदस्याभावादित्यादि। गार्ग्यभार्येति साध्यम् । अतो गर्गकुलसम्बन्धाद् गार्योऽपि गर्ग इत्युच्यते चेत्, तदभावात् तन्निबन्धनप्रत्ययस्य भेदः । अथ यद्यभेदस्तत्कथं गर्गभार्येति ? सत्यम्, पक्षे भेदस्याविवक्षेति विद्यानन्दः || २९१ |
[समीक्षा]
‘गर्गस्यापत्यानि' इत्यादि विग्रह में 'गर्ग + ण्य + जस्, यस्क + अण् + जस्, बिद + अण् + जस्' इस अवस्था में दोनों ही व्याकरणों में 'ण्य - अणू' का लुक् करके ‘गर्गाः, यस्काः, बिदा: ' आदि शब्दरूप सिद्ध किए गए हैं । इस विषय में पाणिनि के दो सूत्र हैं – “यस्कादिभ्यो गोत्रे, यञञोश्च" (अ० २।४।६३, ६४) ।
-
-
व्याख्याकारों ने ‘अत्रि – भृगु - वसिष्ठ' आदि ऋषिनामों को भी इसी सूत्र के अन्तर्गत स्वीकार किए जाने की बात कही है, परन्तु अग्रिम सूत्र के अनुसार शर्ववर्मा के अभिप्राय को सर्वोपरि माना है । अस्तु सूत्रसंख्या की दृष्टि से पाणिनीय व्याकरण में गौरव होते हुए भी प्रक्रियादृष्टि से उभयत्र समानता ही है ।
[ विशेष वचन ]
१. गार्ग्यस्य हि यत् कुलम्, गर्गस्य गर्गाणामपि तत् कुलम् इत्यभेदेनोच्यते (दु० वृ० ) ।
२. समुच्चयाद् यत् परं श्रूयते, तल्लभते प्रत्येकम् अभिसंबन्धम् (दु० टी० ) ।
Page #68
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
३. अभेदेनेति । कुलसंबन्धं प्रति सर्वेषामेककुलत्वहेतुनेत्यर्थः (वि० प०)। ४. अतो गर्गकुलसंबन्धाद् गार्योऽपि गर्ग इत्युच्यते (क० च०)। [रूपसिद्धि]
१-२. गर्गाः। गर्ग + ण्य + जस् । गर्गस्यापत्यानि । वत्साः।वत्स + ण्य + जस् । वत्सस्यापत्यानि । “ण्य गगदिः" (२।६।२) से ण्य प्रत्यय, प्रकृत सूत्र से उसका लुक्, जस्प्रत्यय परे रहते "समानः सवर्णे दीर्धीभवति परश्च लोपम्" (१।२।१) से समानलक्षण दीर्घ, परवर्ती अकार का लोप तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
३-४. यस्काः। यस्क + अण् + जस् । यस्कस्यापत्यानि । लज्जाः लज्ज+ अण् + जस् । लज्जस्यापत्यानि ।
__ "वाऽणपत्ये" (२।६।१) से अपत्यार्थ में अण् प्रत्यय, प्रकृत सूत्र से उसका लुक्, जस् – प्रत्यय परे रहते समानलक्षण दीर्घ, परवर्ती अकार का लोप तथा सकार को विसर्गादेश ।
५-६.बिदाः। बिद + अण् + जस् । बिदस्यापत्यानि |उर्वाः। उर्व + अण् + जस् । उर्वस्यापत्यानि ।
उभयत्र अपत्यार्थक अण् प्रत्यय, प्रकृत सूत्र द्वारा उसका लोप, जस् – प्रत्यय परे रहते समानलक्षण दीर्घ, अकारलोप तथा सकार को विसर्गा देश ।।२९१ ।
२९२. भृग्वत्र्यङ्गिरः कुत्सवशिष्ठगोतमेभ्यश्च [२।४।७] [सूत्रार्थ]
भृगु आदि ऋषिनामों से बहुत्व अर्थ में विहित अपत्यप्रत्यय का लुक् होता है, स्त्रीलिङ्ग को छोड़कर ।।२९२ ।
[दु० वृ०]
भृग्वादिभ्यो बहुत्वे विहितस्यापत्यप्रत्ययस्यास्त्र्यभिधेयस्य लुग् भवति ।अत्रेरेयण् । इतरेभ्य ऋषिभ्योऽण् । भृगवः, अत्रयः, अङ्गिरसः, कुत्साः, वशिष्ठाः, गोतमाः । अस्त्रियामिति किम् ? भार्गव्यः ।।२९२ ।
Page #69
--------------------------------------------------------------------------
________________
२७
नामचतुष्टयाध्याये चतुर्थः कारकपादः [दु० टी.]
भृगुसम्बन्धस्याविवक्षितत्वादिह न षष्ठी, परभावनायां पञ्चमी । बहुत्व इति किम् ? भृगोरपत्यं भार्गवः। अपत्यप्रत्ययस्येति किम् ? भृगोरिमे शिष्या भार्गवाः। बहुत्वे यस्य लुगुक्तस्तस्य स्वराणाम् आदावाद्वृद्धिमतः शेषेऽर्थे ईये विधातव्ये लुग् न भवतीति प्रतिपत्तव्यम्, मण्डूकप्लुतिवाऽधिकारात् । (कलिङ्गानां छात्राः कालिङ्गीयाः) । गर्गाणां छात्राः गार्गीयाः। यदिह लुक् स्यात् तदादावाकाराभावादीयप्रत्ययो न स्यात् । एवम् अत्रीणां छात्राः आत्रेयीयाः । कुत्सानां छात्राः कौत्सीयाः । एवमन्येऽप्यनुसर्तव्याः । प्रयोगगम्या हि तद्धिताः।।२९२ ।
[वि० प०]
भृगु० । भार्गव्य इति । भृगोरपत्यानि स्त्रिय इति विग्रहः । ततो "वाऽणपत्ये" (२।६।१) इत्यण, आदिस्वरस्य वृद्धिः, "उवर्णस्त्वोत्वमापायः"(२।६।४६) इत्युकारस्य
ओकारः, “कार्याववावादेशावोकारौकारयोरपि" (२।६।४८) इत्यनेन अवादेशः, नदादित्वादीप्रत्ययः ॥२९२।
[समीक्षा]
"भृगु + अण् + जस्, अत्रि + एयण् + जस्' इस अवस्था में दोनों ही आचार्य 'भृगोरपत्यानि' इत्यादि बहुत्वार्थ में विहित अणादि प्रत्ययों का लुक् करके 'भृगवः, अत्रयः, अङ्गिरसः, कुत्साः, वशिष्ठाः, गोतमाः' शब्दरूप सिद्ध करते हैं | पाणिनि का सूत्र है - "अत्रिभृगुकुत्सगोतमाङ्गिरोभ्यश्च" (अ० २।४।६५)। अतः उभयत्र साम्य ही है।
[रूपसिद्धि]
१ - ५. भृगवः। भृगु + अण् + जस् । भृगोरपत्यानि । अङ्गिरसः। अङ्गिरस् + अण् + जस् । अङ्गिरसोऽपत्यानि । कुत्साः। कुत्स + अण् + जस् । कुत्सस्यापत्यानि । वशिष्ठाः। वशिष्ठ + अण् + जस् । वशिष्ठस्यापत्यानि । गोतमाः। गोतम+ अण् + जस् । गोतमस्यापत्यानि ।
"वाऽणपत्ये" (२।६।१) से अण् प्रत्यय, प्रकृत सूत्र से उसका लुक्, जस्प्रत्यय परे रहने पर "समानः सवर्णे दीर्धीभवति परश्च लोपम्" (१।२।१) से समानलक्षण
Page #70
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
२८
दीर्घ, परवर्ती अकार का लोप तथा "रेफसोर्विसर्जनीयः " ( २।३।६३) से सकार को विसगदिश ।
६ . अत्रयः । अत्रि + एयण् + जस् । अत्रेरपत्यानि ।" स्त्र्यत्र्यादेरेयण्" (२|६|४) से 'एयण्' प्रत्यय, प्रकृत सूत्र से उसका लुक्, जस्प्रत्यय, “ इरेदुरोज्जसि” (२।१।५५) से इकार को एकार, " ए अय्” (१।२।१२ ) से एकार को अय् तथा “रेफसोर्विसर्जनीयः” (२। ३ । ६३ ) से सकार को विसगदिश ।। २९२ ।
२९३. यतोऽपैति भयमादत्ते वा तदपादानम् [ २।४।८ ] [ सूत्रार्थ ]
जिससे विभाग होता है, भय अथवा ग्रहण होता है उस कारक की अपादान संज्ञा होती है ।। २९३ ।
[दु० वृ० ]
यस्मादपैति, यस्माद् भयं भवति, यस्मादादत्ते वा, तत्कारकम् अपादानसंज्ञ भवति । वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति, चौराद् उद्विजते, उपाध्यायादधीते, उपाध्यायादागमयति । यत इत्यवधिमात्रार्थम् । तेन धावतोऽश्वात् पतितः । तथा अधर्माज्जुगुप्सते, अधर्माद् विरमति, धर्मात् प्रमाद्यति । अध्ययनात् पराजयते, उपाध्यायादन्तर्धत्ते, शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति । आसनात् प्रेक्षते, प्रासादात् प्रेक्षते । कुतो भवान् ? पाटलिपुत्रात् ॥ २९३ ।
I
[दु० टी० ]
"
यतः । यत इत्यपादान एव पञ्चमी न पुनरितरेतराश्रयदोष इति, शब्दानां नित्यत्वात् । अपपूर्वी हि गत्यर्थधातुः स्वभावाद् अकर्मकः । यस्मादपैति, यस्मादपगच्छति, यस्माद् विश्लिष्यतीत्यर्थः । आख्यातं क्रियाप्रधानम् इत्यपायः साध्यः । क्रियासम्बन्धमात्रे यदा वस्तुनो विश्लिष्टरवसीयते तदा संज्ञेयमिति । तेन 'ग्रामादानीयते, वृक्षात् पर्णं पात्यते' इति स्यादेव । न ह्यनेकमेकेन निर्देशेनाभिधातुं शक्यमिति । 'सूत्रे लिङ्गं संख्या कालश्चातन्त्राणि' (का० परि० ६१) । तेन शाखायाः पतितौ, पतिताः, पतिष्यन्तीति । नञ्योगेऽपि विवक्षया वृक्षात् पर्णं न पततीति । वृक्षस्यं पर्णं पततीति संबन्धो विवक्षितो
Page #71
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
२९
न काकादिभिरानीतं पततीति । भीतिर्भयम् अर्थमात्रत्वात् चौरात् त्रस्यति शङ्कते वा । ‘अरण्ये बिभेति' इति अधिकरणस्य विक्षितत्वात् तत्स्थेभ्यो व्याघ्रादिभ्यो भयमित्यर्थः । यदा त्वरण्यमेव भयहेतुस्तदा 'अरण्याद् बिभेति' इति भवितव्यमेव । भयहेतुरित्यर्थाल्लभ्यते ।
उपाध्यायादध्याप्यते, उपाध्यायादधीयते । कर्तृत्वमसत्येवेति न विरुध्यते । आङ्पूर्वस्य दाञो ग्रहणार्थत्वात्, ग्रहणम् उपयोगः साध्यः । उपाध्यायादध्ययनं गृह्णातीत्यर्थः । वाशब्द इह वाक्यभेदार्थः । अन्यथा यस्मादपैति, भयमादत्ते, तस्यैवापादानसंज्ञा स्यात् । यत इत्यादि । अवधिराघाट:, सीमा, मर्यादिति पर्यायः । जुगुप्साविरामप्रमादार्थानां प्रयोगेऽप्यपाये विश्लेषलक्षणे साध्यत्वेन विषयभूते संश्लेषात् प्रच्यवमानस्याधर्मोऽवधिरेव । न हि कायप्राप्तावेवापायः, किं तर्हि चित्तप्राप्तावपि । तथा च दुःखहेतुरयमधर्म इति मन्यमानो बुद्ध्या अधर्मेण संश्लिष्यते, ततो निवर्तते । पराजयतेरसोढोऽर्थोऽवधिरेव । अध्ययनसकाशाद् यज्ञदत्तो देवदत्तं सोढुं न शक्नोति । अभिभवितुमसमर्थ इति यावत् ।
यदा त्वध्ययनं नामातिकष्टम्, को ह्येतदध्येतुं शक्त इति स्फुट एवापायः । यस्तु सोढस्तत्तु कर्मैव - शत्रून् पराजयते । अन्तर्धी येनादर्शनमिच्छति सोऽप्यवधिरेव | येनोपाध्यायेन दर्शनस्य कर्त्रा आत्मनः कर्मणोऽदर्शनमिच्छति प्रेषणाध्येषणभयात् ततः स्फुट एवापाय इति । यदा त्वदर्शनं नान्तर्धिनिमित्तमिच्छति किन्तूपघातनिवृत्तये तदा कर्मैव - चौरान्न दिदृक्षते । चौरो मां पश्यतीति मत्वा अदर्शनेच्छायां पुनः सत्यपि दर्शने ततोऽन्तर्धानमित्यपाय एव । जनिकर्तुः कारणमप्यवधिरेव । प्रादुर्भवनं च विशेषेणोपालम्भ इत्यपायः । पुत्रात् प्रामोदा जायते इत्यपि भवति । अत एव प्रादुर्भवनमिति बुद्ध्यारोपात् । यथा बीजादङ्कुरो जायते उपादानकारणमवधिः । तथा सहकारिकारणं पुत्रोऽपि विवक्षयेत्यर्थः । तथा भूकर्तुः प्रभवोऽर्थोऽवधिरेव । प्रभवत्यस्मात् प्रभव इति कृत्वा कथमिति - हिमवतो गङ्गा प्रभवति । ततः प्रथमत उपलभ्यते इत्यर्थः।
-
यत्र तु यबन्तशब्दो गम्यमानतया न प्रयुज्यते, तस्मिन् यब्लोपे सति व्याप्यत्वात् कर्मसंज्ञा प्राप्ता । अपादानसंज्ञा वक्तव्येति अयुक्तम् । तथाहि दर्शनमिन्द्रियं निर्गत्य विषयं परिच्छिनत्ति । यथा जलौकसां पूर्वदेशत्यागेनोत्तरदेशावष्टम्भस्तथेन्द्रियाणामपि न निरिन्द्रियमधिष्ठानम् । ततोऽपक्रमाच्च स्पष्टोऽवधिभाव इति । येषां तु 'क्षणिकानि
Page #72
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् इन्द्रियाणि प्राप्यकारीणि च' इति दर्शनम्, तेषामप्येकस्मिन्निन्द्रियक्षणे विषयदेशं गच्छति। अन्य इन्द्रियक्षणोऽधिष्ठानदेशे प्रादुर्भवतीति ।अन्योऽन्यप्रादुर्भावान्न निरिन्द्रयाधिष्ठानदोषः । ततोऽपक्रमाच्चावधित्वमिति येषां पुनरप्राप्यकारीणि इन्द्रियाणि, तेषामपि प्रेक्षणक्रियायास्ततो भावात् प्रासादोऽवधितया विवक्षितः । एवमधिकरणस्यापीति । तथा कुशूलात् पचति, ब्राह्मणात् शंसति, प्रासादमारुह्य प्रेक्षते, आसने उपविश्य प्रेक्षते, कुशूलादादाय पचति, ब्राह्मणादादाय शंसतीति । को हि नाम लौकिकी विवक्षामतिवर्तते इति। पृच्छ्यमानाख्यायमानयोरपि अवधित्वमस्तीति । कुतो भवानागच्छतीति प्रयोक्तव्ये गतार्थत्वान्न प्रयुक्तम् । तथा पाटलिपुत्रादागच्छामीति गम्यते ।
संयुक्तस्य हि विश्लिष्टिक्रियारम्भो भवेद् यतः।
तदेवावधिभावेन अपादानमिति स्मृतम् ।। तस्माद् भयादाञोरुपादानमनपायार्थमिति भावः । तदा विवक्षा गरीयसीति । यतश्च संयोगो निवर्तते सोऽयमेकस्य संयोगिनः संयोगान्तराद् व्यपगमोऽपायस्तथापि प्रथमं चलति द्रव्यम्, तदनन्तरमितरश्चापायः सोऽयं भवति विभागः, ततश्च संयोगनिवृत्तिर्यथैव हि चलस्याचलतो विश्लेषः, एवमचलस्यापि चलतः, सोऽयम् उभयोः समानविश्लेषकारकभावः । एतेन पतनकर्मणि तदेव साक्षात् कारणम् । यत् पततीति । इतरत्तु परम्परया द्विहेतुको विश्लेषः । पातयतीति वैशेषिकाणां मुख्य एवापायः, तदा सर्वं वक्तव्यं स्यात् ।।२९३।
[वि० प०]
यतः । यस्मादपैतीति । आख्यातं क्रियाप्रधानमित्यपायः साध्यः । यस्मादपायो विश्लेषो भवतीत्यर्थः । तेन "ध्रुवमपायेऽपादानम्" (अ० १।४।२४) इति न्यायात् सिद्धम् । यस्माद् भयं भवतीति “भीत्रार्थानां भयहेतुः" (अ० १।४।२५) इति न वक्तव्यम् । भीतिर्भयं त्रास इत्यर्थः । अरण्ये बिभेतीति अधिकरणमेव विवक्षितं यस्मात् तत्स्थेभ्यो व्याघ्रादिभ्यो भयं न त्वरण्यादिति, किमेतन्निवृत्त्यर्थेन भयहेतुग्रहणेन । यदा तु अरण्यमेव भयहेतुत्वेन विवक्ष्यते तदा ‘अरण्याद् बिभेति' इति भवितव्यमेव । यस्माद् आदत्ते इत्यापूर्वो दाञ् ग्रहणे वर्तते । 'उपाध्यायादधीते' इति।
Page #73
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
३१ उपाध्यायसकाशादध्ययनं गृह्णातीत्यर्थः । तेन “आख्यातोपयोगे" (अ० १।४।२९) इति न वक्तव्यम् । अथ उपयोगो हि नियमपूर्वकम् आयूर्वश्च दाञ् ग्रहणमात्रे वर्तते | ततश्च 'नटस्य गीतं शृणोति' इत्यत्राप्यपादानसंज्ञा स्यादिति चेत्, नैवम् । आख्यातस्य क्रियाप्रधानत्वाद् ग्रहणं चेत् साध्यतया विवक्ष्यते, तदा भवति। अत्र तु सम्बन्धविवक्षैव दोषः । यत इत्यादि । अवधिमात्रम् अर्थो यस्येति विग्रहः ।
"जुगुप्साविरामप्रमादार्थानाम् उपसंख्यानम्" (अ० २।३।२८ - वा०) इति केनचिद् उक्तम्, तदिह न वक्तव्यम् । अवधेरिहापि विद्यमानत्वाद् इत्याह - तथेति । न हि कायप्राप्तावेवापायो भवति, किं तर्हि चित्तप्राप्तावपीति । तथाहि 'अधर्माज्जुगुप्सते, अधर्माद् विरमति' इति । य एव प्रेक्षापूर्वकारी दुःखहेतुरयमधर्मः, ततो नैनं सन्तः कर्तुमर्हन्तीति विचारयन्नधर्मं बुद्ध्या प्राप्नोति । प्राप्य च ततो निवर्तमानस्य पुरुषस्य धर्मोऽवधिरेवेति । धर्मात्प्रमाधति' इत्यत्रापि नास्तिको वदति न खलु धर्मात् किञ्चिदिष्टं फलं समासाद्यते केवलं दुःखमेव तदनुष्ठानेन भवतीति विचारयंस्तं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवर्तते तत्राप्यवधिरस्त्येवेति अपादानसंज्ञा न्यायात् सिद्धैव । 'अधर्मात् प्रमाद्यति' इति नपाठोऽपौराणिक एव, प्रमादस्य विहितानुष्ठानरूपत्वान्न चाधर्मो विहित इति । 'अध्ययनात् पराजयते' इति अध्ययनसकाशाद् देवदत्तो यज्ञदत्तं सोढुं न शक्नोति, अभिभवितुं न पारयतीति यावत् । अत्राप्यवधिरस्त्येवेति । अथ अध्ययनमेवासोढत्वेन विवक्षितम् । यदाह जिनेन्द्रबुद्धिः- अध्ययनं सोढुं न शक्नोति, अध्ययनम् अभिभवितुं न पारयतीति यावत् । ततश्चाध्ययनस्य कर्मसंज्ञा प्राप्नोति, तन्निरासार्थं "पराजेरसोढः" (अ० १।४।२६) इति वक्तव्यम् इत्ययुक्तम्, इहापि बुद्धिकृतापायस्य सम्भवात् । तथाहि यदालसो मन्यते -दुःखहेतुरेतदध्ययनम्। को ह्येतदध्येतुं शक्तः इति, तदाध्ययनं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवर्तते इति सिद्धाऽपादानसंज्ञेति। एतदेव जिनेन्द्रबुद्धिना-प्युक्तम् – “अस्ति हि अध्ययनाद् बुद्धिसंसर्गपूर्वकोऽपायः" (न्यास० १।४।२४) इति । यस्तु सोढस्तस्य व्याप्यत्वात् कर्मसंज्ञैव स्यात् । यथा 'शत्रून् पराजयते'। अभिभवती-त्यर्थः । विपराभ्यां जिरिति रुचादित्वादात्मनेपदम् ।
'उपाध्यायादन्तर्धत्ते' इति ।उपाध्यायसकाशादन्तर्धत्ते प्रेषणाध्येषणभयाव्यवहितो भवतीत्यर्थः । अत्राप्यवधिरस्त्येवेति । किम् “अन्तौ येनादर्शनमिछति" (अ० १।४।२८) इति वचनेन । यदप्युक्तम् अन्तर्द्धाविति किम् ? चौरान्न दिदृक्षते । एतत् किलादर्शनम्
Page #74
--------------------------------------------------------------------------
________________
३२
कातन्त्रव्याकरणम्
अन्तर्द्धिनिमित्तं न भवति, अपि तूपघातनिवृत्तये । अत्रापि कर्मसंज्ञयैवाघ्रातत्वात् कथमपादानप्राप्तिः। तथाहि – 'अमून् पश्यन्तं मां यदि कदाचिदमी पश्येयुस्तदा नूनमुपहन्युः' इति मत्वा तप्रदेशपरिजिहीर्षया यदा तान्न द्रष्टुमिच्छति तदा कर्मत्वमेव स्फुटमवगम्यते इति । शृङ्गाच्छरो जायते' इति । “जनिकर्तुः प्रकृतिः" (अ० १।४।३०) इत्यपि न वक्तव्यम् । यतो जन्यर्थस्य कर्ता यः शरादिस्तस्य प्रकृतिः करणमवधिरेव जायते, प्रादुर्भवति । विशेषेणोपपद्यते, कुतः शृङ्गादित्यर्थः । हिमवतो गङ्गा प्रभवति' इति। "भुवः प्रभवः" (अ० १।४।३१) इति न वक्तव्यम् । प्रभवत्यस्मादिति प्रभवः इत्यपादानेऽल् । भुवः कर्तुर्गङ्गादेः प्रभवो योऽर्थो हिमवदादिस्तस्यावधित्वात् । तथाहि 'हिमवतो गङ्गा प्रभवति' । ततः प्रथमत उपलभ्यते इत्यर्थः । तेन गङ्गोपलम्भनस्य प्रथमतस्ततो भावाद् अवधित्वं विवक्षितमिति भावः । अत एव "भीत्रार्थानां भयहेतुः" (अ० १।४।२५) इत्यादयो योगाः पूर्वस्यैव प्रपञ्चार्था इति जिनेन्द्रबुद्धिनापि निश्चिताः । सर्वत्रापायस्य विद्यमानत्वात् । 'प्रासादात् प्रेक्षते, आसनात् प्रेक्षते' इत्यत्र प्रासादमारुह्य प्रेक्षते, आसने उपविश्य प्रेक्षते इति गम्यमानत्वाद् अप्रयुज्यमानस्यापि यबन्तशब्दस्य सम्बन्धे कर्मणि द्वितीया, अधिकरणे सप्तमी च प्राप्नोति । अत इह पञ्चमीविधानार्थम् अपादानसंज्ञा वक्तव्या । यथोक्तं ल्यब्लोपे पञ्चम्युपसंख्यानमिति, तदयुक्तम् । 'प्राप्यकारीणीन्द्रियाणि' इति येषां दर्शनम्, तन्मते इन्द्रियं निर्गत्य विषयं परिच्छिनत्तीति स्फुटमवधिरस्त्येव । तर्हि निरिन्द्रियमधिष्ठानं प्राप्नोतीत्यपि पर्यनुयोगो नास्माकम्, तैरेव परिहतत्वात् । केवलं सर्वपारिषदत्वाद् व्याकरणस्येदमुच्यते ।
ये पुनरप्राप्यकारित्वमिन्द्रियाणां प्रतिपन्नास्तन्मतेऽपि प्रेक्षणक्रियायास्ततोभावात् प्रासादोऽवधितया विवक्षितः, न संज्ञा वक्तव्या । यथोक्तम् – 'विवक्षातो हि कारकाणि भवन्ति' इति । कुतो भवान्, पाटलिपुत्रादिति । कारकं हि क्रियानिमित्तम् । न च काचिदिह क्रिया श्रूयते, ततोऽपादानं न प्राप्नोतीति पृच्छ्यमानाख्यायमानयोरप्यपादानसंज्ञा वक्तव्येति, तदयुक्तम् । गम्यमानक्रियापदद्वयस्य कारकनिमित्तत्वात् । तथाहि 'कुतो भवान्' इत्युक्ते आगच्छतीति गम्यते । तथा पाटलिपुत्रादागच्छामीति | न हि क्रियारहितं वाक्यमस्ति, तस्य तप्रधानत्वादिति ।।२९३ ।
Page #75
--------------------------------------------------------------------------
________________
३३
नामचतुष्टयाध्याये चतुर्थः कारकपादः [क० च०]
यतः । 'नन्वपायो विश्लेषो विभाग इति यावत् । स च पर्णनिष्ठो वृक्षनिष्ठश्च । ततो यथा वृक्षस्यापादानसंज्ञा तथा पर्णस्यापि कथन्न स्यादिति चेत्, न । अभिप्रायापरिज्ञानात् । यस्माद् यत इत्यवधौ पञ्चमीति । अवधित्वं पुनर्विभागजनकीभूत स्पन्दनादि
१.अपपूर्वो गत्यर्थधातुः स्वभावादकर्मकः । यस्मादपैति, यस्मादपगच्छति, यस्माद् विश्लिष्यतीति क्रियासंबन्धमात्रे यदा वस्तुनो विश्लिष्टिरवसीयते तदा संज्ञेति । ग्रामान्नीयते, वृक्षात् पर्णं पात्यते इति स्यादेवेति टीकाकारः । विश्लेषो विभागः संयोगध्वंस इति यावत् । यतो दुर्गेण टीकायामुक्तम् - संबन्धे विवक्षिते वृक्षस्य पर्णं पतति,न काकादिभिरानीतं पतति पर्णमिति। एतेन यदा वृक्षान्तरात् काकादिभिरानीतं तदा वृक्षात् पर्णं पततीति टीकाकारस्य हृदयमिति ।
२. अत्र न आश्रयोऽनाश्रयः, पश्चात् षष्ठीतत्पुरुषः इत्यसङ्गतमिति । आश्रयत्वावच्छिन्नप्रतियोगिताकभेदस्य न कुत्रापि सत्त्वम्, सर्वस्यैवाश्रयत्वात् । तस्मात् स्पन्दनादिक्रियाया न आश्रयः । स्पन्दनादिक्रियानाश्रय इति मध्यपदप्रधानत्रिपदतत्पुरुषः एव श्रेयान् । तथा च शब्दशक्तिप्रकाशिकायाम् -
पूर्वमध्यान्तसर्वान्यपदप्राधान्यतः पुनः। प्राच्यः पञ्चविधः प्रोक्तः समासो वाभटादिभिः॥इति ।
न च 'बहुपदे बहुव्रीहिरेव, नेतरो द्वन्द्वाद्यः' इति नियमाद् बहुपदे तत्पुरुष इति वाच्यम्, तत्र बहुपदस्य नाम - रूप-बहुपदप्रतिपादकत्वात् । एतन्मते नजो नामत्वं नास्तीति सामञ्जस्यम् । पर्णस्यापादानत्वनिरासार्थं सत्यन्तम् । 'वृक्षात् पर्णं पतति' इत्यादौ सामान्यस्यापादानत्वनिरासार्थं विभागाश्रयत्वमिति । 'चलतो वृक्षात् पर्णं पतति' इत्यादावव्याप्तिवारणाय विभागजनकीभूतेति च्चिप्रत्ययेन साक्षाज्जनकता बोध्यते, अन्यथा वृक्षीयस्थित्यादेरपि परस्परापायजनकत्वाद् वृक्षस्यापि संज्ञा न स्यात् । ननु यदि क्रियात्वपुरस्कारेण विभागजनकीभूतस्पन्दनादिक्रिया गृह्यते, तदा चलतो वृक्षात् पततीत्या वृक्षे ऽप्यस्ति तत्कथं तस्यापादानसंज्ञा ? यद् विभागाश्रयत्वे नावधित्वं तद्विभागजनकीभूतस्पन्दनादिक्रियानाश्रयत्वे सति इत्युक्तम्, तदा 'त्यजति दण्डं दण्डी' इत्यत्र विभागजनकीभूतहस्तपरिस्पन्दनरूपक्रियाश्रयत्वादेव दण्डिनोऽपादानत्वं न भवति, परत्वात् कर्तव इत्युक्तं वृत्तिकृता? सत्यम्, 'त्यजति दण्डं दण्डी' इति कतैवेत्यत्र त्यजधातोः संबन्धध्वंसानुकूलव्यापारानुकूलव्यापार एवार्थः।।
ततश्च विभागजनकीभूतक्रिया दण्डचलनमेव तस्य दण्डनिष्ठत्वे विभागजनकीभूतक्रियानाश्रयत्वे दण्डिनोऽपादानसंज्ञाप्राप्तिरिति भावः। अथ लक्षणे स्पन्दनादिक्रियाशून्यत्वे सति इत्येवास्तां किमनाश्रयत्वनिवेशेनेति, नैवम् । क्रियाशून्यत्वं क्रियात्यन्ताभावत्वम् । ततो 'वृक्षात् पर्णमपतत्' इति दशायां 'स्वस्मादपतत्' इति स्यात् । अत्यन्ताभावस्याव्याप्यवृत्तित्वेन पर्णेऽपि वर्तमानकालावच्छेदेन स्पन्दनादिक्रियाभावाद् अनाश्रयत्वनिवेशे तु अधुनापि पर्णं न स्पन्दनाश्रयभिन्नम् अन्योऽन्याभावस्याव्याप्यवृत्तित्वाभावादिति ।
Page #76
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् क्रियानाश्रयत्वे सति विभागाश्रयत्वम् । अथ ‘कपालाद् घटो जायते, अधर्माज्जुगुप्सते' इत्यादौ विभागस्याभावादव्यक्तिः स्यात् । न ह्यस्मन्मते एतसिद्ध्यर्थं "जनिकर्तुः प्रकृतिः"(अ०१।४।३०) इत्यादयो योगाः सन्ति चेद्, विभागाश्रयत्वेन प्रतीयमानत्वमिति विशेषणं लक्षणे देयमिति । तर्हि 'त्यजति ग्रामम्' इत्यादावपि ग्रामस्य विभागजनकीभूतक्रियाश्रयत्वे सति विभागाश्रयत्वेन प्रतीयमानत्वाद् अपादानत्वं स्यादिति चेत्, न । अत्र परत्वात् "तेषां परम् उभयप्राप्तौ" (२।४।१६) इति कर्मसंज्ञैव बाधिकेति । अत एवापादानत्वप्राप्तौ 'तरुं त्यजति खगः' इत्यत्र परत्वात् कर्मैवेति वक्ष्यति । अत्र परोऽपि "वमपायेऽपादानम्" (अ० १।४।२४) इति सूत्रं प्रणीतवान् ।
अस्यायमर्थः अपाये यद् ध्रुवं यद् उदासीनम् अपायजनकीभूतक्रियानाश्रयत्वे सति अपायाश्रयत्वम् इति यावत् तदपादानमित्यर्थः । तच्छब्देन बुद्धिस्थीभूतकारकम् उच्यते । यदुक्तम् ,
अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात् तदपादानमिष्यते ॥
___३. ननु विभागजनकीभूत इत्यनेन किं प्रयोजनम्, स्पन्दनादिक्रियानाश्रयत्वे सति इत्यास्तां चेत्, नैवम् । 'धावतोऽश्वात् पतति' इत्यत्र कथमपादानत्वम्, यावता स्पन्दनादिक्रियाश्रयत्वाद् भवितुं न पार्यते, यतो धावनमपि स्पन्दनमित्याह - विभाग इत्यादि । ननु विभागाश्रयत्वं किमर्थम्, स्पन्दनादिक्रियानाश्रयत्वम् इत्यास्तां चेत् तर्हि वाय्वाकाशादेरप्यपादानत्वं स्यादित्याह-विभाग इति।
४. विभागजनकीभूतस्पन्दनादिक्रियानाश्रयत्वे सतीत्यादिलक्षणे नञर्थश्च त्रितयप्रतियोगिताकाभावरूपो ध्वंसप्रतियोग्यभावो वर्तमानकालवृत्तिप्रतियोगिताकामावरूपः प्रागभावरूपश्च स्पन्दनादिक्रियास्वरूपाभावादीनाम् अनाश्रयत्वेन 'वृक्षात् पर्णं पतितम्, वृक्षात् पर्णं पतति, वृक्षात् पर्णं पतिष्यति' इत्यादि सिद्धम् ।
५. ननु पर्णस्य कथमपादानसंज्ञा, यावता परत्वात् कर्तृसंज्ञा एवास्ति बाधिकेति ? सत्यम् । अतिव्याप्तिः स्यादिति चेत्, न । "तेषां परमुभयप्राप्ती" (२।४।१६) इत्यत्र 'त्यजति दण्डं दण्डी' इति कतैवेति प्रत्युदाहरणेनातिव्याप्तिदोषस्य स्वीकारात् । अन्यथा "तेषां परमुभयप्राप्ती" (२।४।१६) इति व्यर्थमेव, सत्यम् । अत्र पक्षे अपपूर्व इण्धातोरर्थः संबन्धध्वंसमात्र सम्बन्धध्वंसरूपक्रियाश्रयत्वे यथा पर्णस्य कर्तृत्वसङ्गतिस्तथा वृक्षस्यापि कर्तृसंज्ञा स्यादित्यपादानस्य निर्विषयत्वेन उभयोरेवापादानत्वं स्यादिति । यदि संबन्धध्वंसोपलक्षितव्यापार एव धात्वर्थः कल्प्यते, तदा 'वृक्षात् पर्णं विभजते' इत्यत्र विभागमात्रधात्वर्थतया वृक्षस्य कर्तृसंज्ञा पर्णस्यापादानसंज्ञा स्यादिति भावः । ननु 'त्यजति दण्डं दण्डी' इत्यादौ विभागजनकीभूतक्रियाश्रयत्वे सति दण्डिनः कथमपादानविषये परत्वमुक्तम् ? सत्यम् स्पन्दनानुकूलव्यापारानुकूलव्यापार एव धात्वर्थः, ततश्च स्पन्दनजना एव विभागस्तस्याश्रयो दण्ड एव न दण्डीति । अत एव विभागजनिका या क्रिया, तस्या अनाश्रयत्वे केवलं विभागाश्रयत्वे सति दण्डिन इति लक्षणतात्पर्यम् । अतो 'धावतोऽश्वात् पतितः' इत्याद्यपि सिद्धम् ।
Page #77
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः ध्रुवग्रहणस्य प्रसिद्धं निश्चलार्थं खण्डयितुमाह - चलं वा यदि वाऽचलम् इति। अथ ध्रुवस्यौदासीन्यं कुतस्तत्राह - अतदावेशादिति ।तस्मिन् ध्रुवे तस्या अपायहेतुभूतस्पन्दनादिक्रियाया अप्रवेशादित्यर्थः । अथ उदासीनस्य क्रियानिमित्तत्वाभावात् कथं कारकत्वम् ? यदुक्तम्,
धुव्र न कारकं मन्ये नोपकारी भवेद् यतः।
अपायाधारभूतोऽसौ क्रियते न च कथ्यते॥ अयमर्थः- असौ ध्रुवो वृक्षादिरपायाधारभूत इति कृत्वा न क्रियते, प्रसिद्धतया नोच्यते, अपाये उदासीनत्वादिति भावः ? सत्यम् । ध्रुवस्यावस्थानमेव क्रियां प्रति निमित्तम् । यदि वृक्षोऽपि पतति, तदापायसिद्धिर्न स्यादिति भावः । आतदावेशादिति पाठे तु क्रियाया ईषप्रवेशादित्यर्थः। अतः क्रियानिमित्तत्वमस्त्येव । तस्मादपाये यदवधिभूतम् उदासीनस्वरूपं तदपादानमित्यर्थे वृक्षस्यैवापादानसंज्ञा न पर्णस्येति । 'अपसरतो मेषाद् अपसरति मेषः' इत्यादौ तु अपसरणक्रियाभेदापेक्षयाऽवधिभावो विवक्षितः । अपरस्त्वेवं प्रकारेण पर्णस्यापादानत्वं निरस्यति। तथाहि - सूत्रे अपैतीति यत् साध्यक्रियानिर्देशः क्रियते, तद् बोधयति-कर्तृसाध्याया अपायक्रियाया यदवधिभूतं तदपादानमित्यर्थः । नहि स्वसाध्यापायक्रिययाऽवधित्वं पर्णस्यास्ति,येन तस्यापादानसंज्ञा स्यात् । तेनास्य मते साध्यताविशिष्टापायक्रियानाश्रयत्वे सति अंशतस्तदपायाश्रयत्वम् अपादानत्वम् । ननु अपपूर्व- इण्धातुनिर्देशात् कर्तृनिर्देशाच्च धात्वन्तरे कारकान्तरे च न स्यादित्याह -आख्यातं क्रियाप्रधानमिति।
एतेनैतदुक्तं स्यात् - साध्यमानापायक्रियाया यदवधिभूतं तदपादानमित्यर्थः । यदि पनुः प्रत्ययार्थस्यैव प्राधान्यं स्यात् तदा यत्र यदवधिभूतापायविशिष्टकर्तृसंज्ञाप्रतीतिस्तत्रैवापादानत्वमिति। ततश्च ‘वृक्षात् पर्णं पात्यते' इत्यत्र कारकान्तरेऽप्यपादानसंज्ञा न स्यादिति भावः । अत एव विशेष्यत्वेन क्रियायाः प्राधान्यादाख्यात
६. ननु अवस्थानस्य क्रियानिमित्तत्वे वृक्षस्य कथमपादानसंज्ञा ? सत्यम्, विशेषणस्य क्रियानिमित्तत्वे विशेष्यस्य क्रियानिमित्तत्वं कल्प्यते । यथा ‘पञ्चपूलीमानय' इति ।
७. उदासीनस्य कारकत्वं कुत इत्याह - आतदावेशादिति अपायजनकीभूतस्पन्दनजन्यक्रियायाः सहकारित्वादित्यर्थः । यदि वृक्षस्य स्थितिर्न स्यात् तदाऽपायानुकूलपतनमपि न स्यादिति भावः ।
Page #78
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् प्रत्ययार्थस्य विशेषणत्वेन गौणत्वाच्च ‘पचतो देवदत्तस्य धनम्' इतिवत् 'पचति देवदत्तस्य धनम्' इति पचनक; सह धनान्वयो न प्रतीयते। तदुक्तम्,
यथा कृदन्तवाच्यस्य साधनस्य क्रियान्तरैः। संबन्धः स्यात् तथेहापि नाख्याते स कथं भवेत् ॥ पचतो धनमित्येवं तिङोऽपि स्याद् धनान्यः।
क्रियायास्तु विशेष्यत्वे सर्वमेतददूषणम् ॥इति । तथा दण्डिनाप्युक्तम् -
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः। कर्ता ययुपमानं स्यात्र्यग्भूतोऽसौ क्रियापदे ।
स्वक्रियासाधनव्यग्रो नालमन्यदपेक्षितुम् ॥ यत्तु “प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" इत्युक्तं तदाख्यातव्यतिरिक्ते बोध्यम् । अथ तर्हि ‘पचति देवदत्तः' इत्यत्राख्यातप्रत्ययार्थस्य विशेषणत्वेन गुणीभूतत्वाद् देवदत्तशब्देन सह सामानाधिकरण्येनान्वयाभावाद् देवदत्तशब्दाद् विशेषकर्तृत्वबोधिका तृतीया कथन्न स्यात् । न च गुणभूतेनाप्येकदेशेनान्वय इति वाच्यम् । यतः पदार्थः पदार्थेनान्वीयते न तु पदैकदेशेनेति न्यायात् । यथा ‘कृतपूर्वी कटम्' इत्यत्र सामान्ये कर्मणि विहितस्य क्तप्रत्ययस्य समासनिविष्टत्वेन गुणीभूतात् कटमित्यत्र विशेषकर्मबोधिका द्वितीयेति । ननु यदि ‘पदार्थः पदार्थेनान्चीयते, न तु पदैकदेशेन'इत्युच्यते, तदा कथं गुणभूतया करणक्रियया कटान्वयः स्यात् ? सत्यम् । 'गुणीभूतापि क्रिया साधनसंबन्धमनुभवति' इति न्यायान्न दोषः । एवं 'पुत्रीयति माणवकम्' इत्यत्रापि | किञ्च "तेन दीव्यति" (२।६।८) इत्यत्र क्रियायाः प्राधान्याद् आक्षिकं देवनमिति क्रियाप्रतीतिः स्यात् न कर्तृत्वप्रतीतिरिति। तस्माद् 'आख्यातार्थस्यैव प्राधान्यं न क्रियायाः' इति । यत्तु ‘पचतो देवदत्तस्य धनम्' इत्यत्र पचनक; सह धनान्वयो न प्रतीयते, तत् पुनराकाङ्क्षाविरहादेवाख्यातस्य स्वभावात् । यथा घटः कर्मत्वम् आनयनं कृतिरित्यनेन ‘घटमानय' इत्यर्थेऽन्वयप्रतीतिर्न स्यात् । यद् वा पचतिपदेन साध्यताविशिष्टः कर्ता प्रतीयते ।विशिष्टे कर्तरि पचनगतसाध्यतांशप्रवेशात् साध्यस्य विशेषणानुपयोगित्वेन साध्यताविशिष्टः कर्तापि धनादेविशेषणं भवितुं नाहतीति
Page #79
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
__३७ सर्वथा सिद्धस्यैव विशेषणत्वादिति महान्तः । तर्हि अनेनैव न्यायेन क्तिप्रत्ययार्थस्य कर्तुः साध्यरूपा पचतिक्रिया कथं विशेषणं न स्यात् ? सत्यम् । कारकैः सह साध्यता-विशिष्टक्रियान्वयो भवत्येव । कथम् अन्यथा कारकत्वसिद्धिरिति दिक् ।
तर्हि 'आख्यातं क्रियाप्रधानम्' इति कथमुच्यते ? सत्यम् । साध्यत्वेनैव क्रियायाः प्राधान्यं न त्वन्वयबोधेन ।अन्वयबोधे त्वाख्यातार्थस्यैव प्राधान्यम् । नन्वन्वयेन यादृगुपस्थाप्यते तादृशस्यैव संज्ञा युक्ता । तथाहि, यत्र यदवधिभूतापायविशिष्टः कर्ता प्रतीयते तत्रैव संज्ञेति । ततो 'वृक्षात् पर्णं पात्यते' इत्यत्र संज्ञा न स्यादिति चेत्, नात्रापि कर्तृत्वार्थस्य विद्यमानत्वम् अस्त्येव । 'अपैति' इत्यनेन ‘अपायं भावयति' इत्येव प्रतीतेः पर्णस्यापायभावनाश्रयत्वाक्षतत्वात् । किन्त्विह इनर्थक्रियान्तरवशात् कर्मसंज्ञा जाता । न ह्येतावता वस्तुनः कर्तृत्वमपसरति, एकस्यैव नानापदैर्नानारूपेणाभिधानात् । न हि कर्तृसंज्ञापि अपैतीत्यस्यार्थः । येन 'वृक्षात् पर्णं पात्यते' इत्यत्र कर्तृसंज्ञाया अभावाद् दोषाशङ्का, किन्तु अपैतीत्यत्रापायसाध्यताबोधे कर्तृत्वसम्भवादेवास्य कर्तसंज्ञा जाता। तुष्यतु वा दुर्जनः। यद्यप्यन्वयबोधे कर्तृत्वप्रतीतिस्तथापि स नात्र विवक्षितः, किन्तु साध्यताविशिष्टापायमात्रं विवक्षितमिति। अत एवोक्तम् – 'आख्यातं क्रियाप्रधानम्' इति। तर्हि "यतोऽपायः" इत्येव कथं न कृतमिति चेत्, नास्ति क्षतिरिति । यावता यया कयाचिद् विभक्त्याऽवश्यं निर्देशः कर्तव्य इति संक्षेपः ।
___वाग्रहणं प्रत्येकक्रियासंबन्धिनो हि संज्ञिनः परिग्रहार्थम् । न च वाशब्दो विकल्पार्थः कथन्न स्यादिति वाच्यम्, निःसन्देहार्थं तद् वेत्यकरणात् । यदि संज्ञिनः समुच्चयार्थं वाग्रहणं न कृतं स्यात् तदा क्रुद्धाद् उपाध्यायादपसरणभीतोऽधीते इत्यत्रैष स्यात् । एतेन वाग्रहणं जुगुप्सादियोगेनापि अपादानसंज्ञासिद्ध्यर्थमिति वररुचिमतमपास्तम् । यतो भयमिति । 'यतः' इति हेतौ पञ्चमी । तेन यद्धेतुकं भयं तदपादानमित्यर्थः । यत आदत्ते इति । यदवधिकं साध्यत्वेन ग्रहणं तदपादानमित्यर्थः । ननु 'अधर्माज्जुगुप्सते' इत्यादिवद् बुद्धिकृतापायस्य विद्यमानत्वात् किं भयग्रहणेन आदत्ते इत्यनेन च ? सत्यम् । यतोऽपैतीत्यस्य प्रपञ्चार्थमिदमुच्यते । आगमयतीति आङ्पूर्व इनन्तो गमिरध्ययने वर्तते । ननु भवन्मते ध्रुवग्रहणाभावादवधिमात्रस्यैव अपादानत्वं कथं प्रतीयते इत्याशङ्क्याह-यत इत्यवधिमात्रार्थमिति ।तेनेति । यतो ध्रुवग्रहणमदत्त्वा प्रसिद्ध्यर्थं यत इत्युपात्तम्, तेन चलस्यापि संज्ञा सिद्धा । ध्रुवशब्दोऽपादाने तस्य निश्चलार्थे प्रसिद्धत्वाच्चलस्य संज्ञा न स्यादिति चलमचलं चेति परसूत्रं कटाक्षितम् ।
Page #80
--------------------------------------------------------------------------
________________
३
कातन्त्रव्याकरणम् अन्ये तु यतोग्रहणं किमर्थम्, तदपादानमित्युक्ते अर्थाद् यत इति लभ्यते, यत्तदोर्नित्यसम्बन्धात् । पञ्चम्यन्ततापि लभ्यते एवान्यत्र कारकान्तरस्य बाधकत्वात् । न च 'वृक्षस्य पर्णं पतति' इत्यत्र संबन्धस्यापादानत्वप्रसङ्ग इति वाच्यम, कारकप्रस्तावात् कारकस्यैवापादानसंज्ञा स्यात्, अवधौ तस्य शब्दस्य रूढित्वाद् वा नान्यत्र विधिर्भविष्यतीत्याह – यत इत्यादि । तेन न्यायपरिप्राप्तेन यतो ग्रहणेन साक्षान्निर्दिष्टयतोग्रहणेन वावधिद्वयस्य लाभाद् यत्रावधिमात्रं तत्रैव विधिरिति । मात्रशब्दोऽत्र कार्ये । अतः प्रतीयमानोऽपि यत्रापायस्तत्रैवायं विधिरिति। ततश्चलमचलं चेति परैर्यन्निगदितं तद् अस्माकं मते हेयमिति। तदेवोक्तं तेनेति। 'नटस्य गीतं शृणोति' इति । ननु कथमिदं प्रत्युदाहृतम्, व्यङ्गविकलत्वात् । तथाहि, यथा नियमपूर्वकं विद्याग्रहणं नास्ति तथा कारकत्वमपि नास्ति, संबन्धः कारकाद् भिन्न एवेति वक्ष्यमाणत्वात् ? सत्यम् । हेतोरित्यध्याहारात् षष्ठ्याः करणस्य बाधकत्वात् कारकत्वं न विहन्यते । ___ अन्तौ येनादर्शनमिच्छति" (अ०१।४।२८) इति अन्तर्द्धिनिमित्तं यत्कर्तृकम् आत्मनः कर्मणो दर्शनाभावमिच्छति तदपादानमित्यर्थः । ननु येनेति कथं कर्तरि तृतीया "कर्तृकर्मणोः कृति नित्यम्" (अ०२।३ । ६५) इत्यनेन षष्ठीप्रसङ्गात्, सत्यम् । आत्मन इति षष्ठ्यन्तस्य कर्मणोऽध्याहाराद् एकस्य तूभयप्राप्तौ इति न्यायात् कर्तरि तृतीयैवेति न दोषः । 'चौरान्न दिदृक्षते' इति । यदप्यत्रान्तर्द्धिरस्ति तथापि तत्र निमित्तत्वं न विवक्षितम् । ननु कथमिदं प्रत्युदाहृतम्, ट्यङ्गविकलत्वाद् यथाऽन्तर्द्धिनिमित्तत्वेन विवक्षा नस्ति । तथा चौरकर्तृकादर्शनेच्छापि नास्ति, स्वकर्तृकदिदृक्षाया एव विद्यमानत्वाद् इत्याशक्य कर्मतास्फुटीकरणव्याजेनैव चौरकर्तृकादर्शनं दर्शयन्नाह - तथा हीति । “भुवः प्रभवः" (अ० १।४।३१) इति परसूत्रम् । भवनं भूः प्रकाश इति यावत् । जनिकर्तुरित्यतः कर्तुरित्यनुवर्तते । भुवः प्रकाशस्य कर्तुर्यः प्रभव इति प्रथमोत्पत्तिस्थानम्, तदपादानमित्यर्थः ।।२९३।
८. 'नटस्य हेतोः शृणोति' इत्यत्र “षष्ठी हेतुप्रयोगे" (अ० २।३।२६) इत्यनेन या षष्ठी सा पुनर्हेत्वर्थ इत्यनेन विहितायास्तृतीयाया बाधिकेति करणे तृतीयाबाधिका षष्ठी, अतः कारकत्वं न विहन्यते । ननु ‘हेत्वर्थे' इत्यनेन या तृतीया सा कथं करणे येन तद्बाधिका षष्ठ्यपि कारकविभक्तिरित्युच्यते ? सत्यम् । षष्ठी हेतुप्रयोगे' इत्यत्र हेत्वर्थे तृतीयाप्राप्ते वचनम् इत्युपलक्षणम्, किन्तु सामान्यबाधिका एव षष्ठी । अथवा हेत्वर्थे इत्यत्र योग्यतामात्रविवक्षया करणे न सिध्यतीति वचनम् इत्युक्तेऽपि यत्र साधकतम्यविवक्षासत्त्वे हेतुशब्दप्रयोगस्तत्रापि करणे तृतीयां बाधित्वा हेत्वर्थ इत्यनेनैव तृतीया इति करणबाधिका हेत्वर्थे तृतीया तद्बाधिका षष्ठी कारकविभक्तेरेवेति न दोषः ।
Page #81
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः [समीक्षा]
'अपाय, भयहेतु, आख्याता, प्रभव' आदि की अपादानसंज्ञा पाणिनि ने आठ सूत्रों द्वारा की है - "ध्रुवमपायेऽपादानम्, भीत्रार्थानां भयहेतुः, पराजेरसोढः, वारणार्थानामीप्सितः, अन्तझै येनादर्शनमिच्छति, आख्यातोपयोगे, जनिकर्तुः प्रकृतिः, भुवः प्रभवः" (अ०१।४।२४ -३१) । कातन्त्रकार ने दो ही सूत्र बनाए हैं । ज्ञातव्य है कि महाभाष्यकार पतञ्जलि आदि ने प्रथम सूत्र के अतिरिक्त ७ सूत्रों को प्रपञ्चार्थ माना है । वस्तुतः अपाय को बाह्य और बौद्ध मान लेने पर अन्य सूत्र अनावश्यक ही कहे जा सकते हैं । कातन्त्र के व्याख्याकारों ने भी उन्हें आवश्यक नहीं माना है । कातन्त्रविस्तरकार का यह अभिमत ध्यातव्य है
प्रत्याख्यातुमिहाख्यातमिति तन्त्रान्तरोदितम् ।
स्वीकर्तुमथवाऽस्माकं पक्षपातो न वियते ॥ किञ्च, तन्त्रान्तरप्रणीतानां सूत्राणां परमाग्रहात् । प्रत्याख्यानेन यत्नस्य द्वैगुण्यमुपजायते ॥
(मञ्जूषापत्रिका व०१२, अं०९)। अपादान के तीन भेद किए जाते हैं - १. निर्दिष्टविषय = ग्रामाद् आगच्छति । २. उपात्तविषय = बलाहकाद् विद्योतते विद्युत् । ३. अपेक्षितक्रिय= पाटलिपुत्रात् ।
इसे महासंज्ञा होने के कारण अन्वर्थ माना जाता है - 'अपकृष्य बुद्ध्या पृथक्कृत्य वस्तु आदीयते बुद्ध्या गृह्यते' ।
नाट्यशास्त्र में इसका उल्लेख प्राप्त होने से इसका पूर्वाचार्यसंमत होना सिद्ध होता है।
तत् प्राहुः सप्तविधं पदकारकसंयुतं प्रथितसाध्यम् ।
निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः॥(१४।२३)। चान्द्र आदि अर्वाचीन व्याकरणों में एतदर्थ प्राप्त वचन इस प्रकार हैं
Page #82
--------------------------------------------------------------------------
________________
४०
कातन्त्रव्याकरणम्
वारण
चान्द्रव्याकरण- "अवधेः पञ्चमी' (२।१।८१)। जैनेन्द्रव्याकरण-"ध्यपाये ध्रुवमपादानम्' (१।२।११०)। हैमव्याकरण- “अपायेऽवधिरपादानम्" (२।२।२९)। मुग्धबोधव्याकरण- “यतोऽपायभीजुगुप्सापराजयप्रमादादानभूत्राणविरामान्तर्द्धि
वारणं जंपी" (सू० २९९)। अग्निपुराण- अपादानं यतोऽपैति आदत्ते च भयं तथा । अपादाने पञ्चमी स्यात् ।
अपादानं द्विधा प्रोक्तम् । (३५०।२७; ३५३।११)। नारदपुराण- पञ्चमी स्याद् ङसिभ्यांभ्यो ह्यपादाने च कारके ।
यतोऽपैति समादत्ते अपदत्ते च यं यतः ।। . . . . . . . ... . रक्षार्थानां प्रयोगतः।
ईप्सितं चानीप्सितं यत् तदपादानकं स्मृतम् ।। (५२।७, ९)। शब्दशक्तिप्रकाशिका- क्रियाधर्मिणि यः स्वार्थः पञ्चम्या विग्रहस्थया।
अनुभाव्यः कारकं तदपादानत्वसंज्ञकम् ।। (का० ६९)। 'अपादान - सम्प्रदान' शब्दों में 'कृ' धातु का प्रयोग न होने के कारण तथा दूसरे से अपाय होने - दूसरे को दान किए जाने के कारण भी इनके कारक होने में सन्देह किया जाता है, परन्तु महाभाष्यकारादि ने विस्तार से विचार करते हुए इनका कारकत्व होना अक्षुण्ण रूप में स्वीकार किया गया है (द्र०, म० भा० तथा म० भा० प्र० १।४।२३)।
[रूपसिद्धि]
१-२= वृक्षात् पर्णं पतति । पावतोऽश्वात् पतति । वृक्ष तथा अश्व से विश्लेष होने के कारण प्रकृत सूत्र से उनकी अपादानसंज्ञा तथा "शेषाः कर्मकरण" (२।४।१९) से पञ्चमी - विधान । पञ्चमी - एकवचन 'सि' के स्थान में "सिरात्" (२।१।२१) से आत् आदेश उपपन्न होता है।
३-४. व्याघ्राद् बिभेति । चौराद् उद्विजते । भयहेतु होने के कारण व्याघ्र तथा चौर शब्दों की प्रकृत सूत्र से अपादानसंज्ञा तथा पञ्चमी विभक्ति का विधान |
Page #83
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः ५-६= उपाध्यायादधीते । उपाध्यायाद् आगमयति । नियमपूर्वक विद्याध्ययन कराने वाले ‘उपाध्याय' की अपादानसंज्ञा तथा उसमें पञ्चमी विभक्ति का विधान ।
७-९= अधर्माज्जुगुप्सते । अधर्माद् विरमति । धर्मात् प्रमाद्यति। जुगुप्साविराम-प्रमादार्थक धातुओं के प्रयोग में अधर्म तथा धर्म शब्द की अपादानसंज्ञा एवं पञ्चमी विभक्ति का विधान ।
१०- १६= अध्ययनात् पराजयते । उपाध्यायादन्तर्धत्ते । शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति | आसनात् प्रेक्षते |प्रासादात् प्रेक्षते ।कुतो भवान् ? पाटलिपुत्रात् ।
परा-पूर्वक 'जि' धातु के प्रयोग में असोढ अर्थ अध्ययन की, अदर्शन की इच्छा से उपाध्याय की, शर की प्रकृति शृङ्ग की, गङ्गा के प्रथम प्रकाशनस्थान हिमवत् की, प्रेक्षण क्रिया के अधिकरण आसन की, कर्म प्रासाद की तथा प्रश्न के अनुसार पाटलिपुत्र की अपादानसंज्ञा एवं पञ्चमी विभक्ति ।।२९३ ।
२९४. ईप्सितं च रक्षार्थानाम् [२।४।९] [सूत्रार्थ]
रक्षार्थक धातुओं के प्रयोग में ईप्सित तथा अनीप्सित की अपादानसंज्ञा होती है ।।२९४।
[दु० वृ०]
रक्षार्थानां धातूनां प्रयोगे यदीप्सितमनीप्सितं च तत् कारकम् अपादानसंज्ञ भवति । यवेभ्यो गां रक्षति, यवेभ्यो गां निषेधति, शालिभ्यः शुकान् वारयति, अहिभ्य आत्मानं रक्षति, कूपाद् अन्धं वारयत्यपि । ईप्सिते कर्मसंज्ञां बाधते । अपादानप्रदेशाः "अपादाने पञ्चमी" (२।४।१९) इत्येवमादयः ।।२९४।
[दु० टी०]
ईप्सितम् । आप्तुम् इष्टम् ईप्सितम् । चकारोऽनुक्तमपि समुच्चिनोति । रक्षणं रक्षा । रक्षवार्थो येषामिति विग्रहः । यवेभ्यो गां रक्षतीत्यादि । रक्षतिरयं गोर्वारणपूर्वकं यवस्य रक्षणमाह -स्वभावादिहेति। एवं 'यवेभ्यो गां निषेधति, शालिभ्यः शुकान् वारयति, अहिभ्य आत्मानं रक्षति' इति । अहीनां वारणपूर्वकम् आत्मनो रक्षणमाह।
Page #84
--------------------------------------------------------------------------
________________
४२
कातन्त्रव्याकरणम् एवं चौरेभ्यो मित्रं वारयति, कूपाद् अन्धं वारयति' इत्यन्धोऽत्रेष्टस्तदपेक्षया कूपोऽनिष्ट एवेति। अन्यः पुनराह - प्रदेशभावेन कूप इष्टः आप्तुमन्धस्य नायमिष्टपर्यायः इहाव्युत्पन्न ईप्सितशब्द इति तत्र कर्तुः क्रियया यद् व्याप्यते, तत् कारकं कर्मेति तदपवादोऽयम् आरभ्यते । गां रक्षतीति प्रधाने कर्मणि परत्वात् कर्मसंज्ञैव । यवरक्षणेनानीप्सित ईप्सितो वा गौर्यिते इति । प्राधान्यं पुनः शब्दकृतम्, न वस्तुकृतमिति तर्हि अनीप्सिते बुद्धिकृतसंश्लेषापाय संभवत्येव, किं चकारेण ? सत्यम् । ईप्सितमपादानम् अनीप्सितं न भवतीति व्यावृत्तिमाशङ्केत ।।२९४।
[वि० प०]
ईप्सितम्० । कूपादन्धमित्यादि । न केवलम् ‘अहिभ्य आत्मानं रक्षति' इत्यनीप्सिते उदाहरणमपि त्वेतदपि इत्यपिग्रहणेन सूचयति। तथा ह्यन्धोऽवेष्टस्तदपेक्षया कूपोऽनिष्ट एवेति । अन्यः पुनरिदम् ईप्सिते मन्यते । तथाहि नायम् इष्टपर्यायोऽव्युत्पन्न ईप्सितशब्दः अपि तु आप्तुमिष्टम् ईप्सितम् । कूपश्चाप्तुमिष्टो भवति, अन्धस्य तप्रदेशभावेन । स हि कूपवन्तं प्रदेशं परिजिहीर्घः पूर्वं तमेव आप्तुमिच्छतीति । ईप्सित एवोदाहरणं पूर्वपक्षे तु अव्युत्पन्ने इष्टपर्याये ईप्सितशब्दो द्रष्टव्यः ।
अथ किमर्थमिदं यावता बुद्धिनिबन्धनमवधिमात्रमत्रापि विद्यते इत्ययुक्तम्, रक्षणक्रियाया व्याप्यत्वात् कर्मत्वमेव स्यात् । अतस्तदपवादोऽयमारभ्यते । तच्चेह कर्म द्विविधम् प्रधानमप्रधानं च । तत्राप्रधानं यवादि, प्रधानं गवादिकम् । प्राधान्यं च तस्य शाब्दं यवरक्षणेनेप्सितस्यापि गोर्वञ्चनात्, न तु वास्तवम् । तत्र प्रधाने कर्मणि "तेषां परसुभयप्राप्तौ"(२।४।१६) इति परत्वात् कर्मत्वमेव । अप्रधाने तु कर्मत्वं बाध्यते । तत् पुनरीप्सितम् इत्याह - ईप्सिते कर्मसंज्ञा बाधते इति । तथापि चकारो व्यर्थोऽनीप्सिते बुद्धिकृतापायस्य विद्यमानत्वाद् इति चेत्, सत्यम् । ईप्सितमपादानमित्युक्ते सत्यनीप्सितं न भवतीति व्यावृत्तिमाशङ्केत मन्दधीरिति ।।२९४।
[क० च०]
ननु ईप्सितमनीप्सितं चापादानमित्युक्ते ‘यवेभ्यो गां रक्षति' इत्यत्र युगपद् उभयत्र यवं रक्षतीति केवले ईप्सितयवे वा कथमपादानत्वं न स्यात् । नैवन्, अत्र परत्वात् "तेषां परमुभयप्राप्ती" (२१४।१६) इत्यनेन प्रधाने कर्मणि द्वितीयैवास्ति
Page #85
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
बाधिकेति पञ्जीकृतैव सिद्धान्तितत्वात् । ननु ईप्सितानीप्सितविशेषमादाय प्रवर्ततामिदमिति चेत्, उच्यते - कर्मसंज्ञाबाधकमिदं सूत्रम् । ततश्च गौणकर्मणो बाधासंभवे मुख्यकर्मणो बाधानौचित्यमिति गौरवात् । न हि 'यवेभ्यो गां रक्षति' इत्यत्र उभयोरेव गौणत्वम् | येनोभयोरेव कर्मणोर्युगपदपादानत्वम् भविष्यति, किन्तु यवादेरेव गौणत्वम्, न गवादेः, रक्षधातो रक्षणपूर्वकवारणार्थत्वात् । यवादेर्गौणत्वं च वारणविशेषणीभूताया रक्षणक्रियाया व्याप्यत्वादित्यर्थः ।
४३
यवं रक्षतीत्यादौ प्रधानकर्मणो बाधा न सम्भवत्येव, परत्वात् कर्म एवेति । ननु कथं रक्षणपूर्वकं वारणमित्युक्तं टीकाविरोधात् । तथाहि रक्षतिरयं गोर्वारणपूर्वकं यवस्य रक्षणमाह – स्वभावादिति ? सत्यम् । टीकायां वस्त्वर्थः कृतः अस्माभिस्तु प्रतीयमान एवार्थो निरूपित इति। तथा त्रिलोचनेनापि - प्राधान्यं च तस्य शाब्दमित्युक्त्वा न तु वास्तवम् इत्युक्तम् ।
"
अयमर्थः प्राधान्यं शाब्दम् = शब्दोपस्थाप्यम् । यवरक्षणेन हेतुना ईप्सितस्य स्वकीयत्वेन इष्टस्यानीप्सितस्य परकीयत्वेनानिष्टस्य । यद्वा 'ईप्सिते' इति कर्तरि निष्ठा, यवानाप्तुमिष्टवतः अनाप्तुमिष्टवतः समीपगामिनोऽपि गोर्वञ्चनादित्यर्थः । न च वास्तविकार्थं परित्यज्य शब्दार्थः कथं गृह्यते इति वाच्यम्, 'शब्दप्रमाणका हि वैयाकरणाः' इति न्यायात् । तथा अहिभ्य आत्मानं रक्षतीत्यत्राहेर्वारणपूर्वकरक्षणार्थस्य टीकाकृतोक्तत्वात् । कथं रक्षणपूर्वकवारणार्थ इत्युच्यते । आस्तां तावत् का नो हानिः । नथाहि वारणाक्रियाविशेषणत्वेनात्र गुणीभूतत्वात् तद्व्याप्यस्य गुणीभूतस्याहेरपादानत्वं सुतरां भवतीति चेत्, न । यदि तत्रानीप्सितेऽपि कर्मसंज्ञाऽपादानेन बाधिष्यते । तदा. ईप्सिते कर्मसंज्ञां बाधते इति वृत्तिर्न सङ्गच्छते ? सत्यम् । अत्रापि रक्षणपूर्वकं वारणमेवार्थः । तथाहि अहिभ्यः सकाशादात्मानं रक्षन्नात्मानमेव वारयतीत्यर्थः । अहीनां वारणपूर्वकं रक्षणमिति टीकापङ्क्तेरयमर्थः - अहीनामिति समीपसम्बन्धे षष्ठी | वारणात् पूर्वं रक्षणं बारणपूर्वरक्षणम् । रक्षणपूर्वं वारणमित्यर्थः । पूर्वकमिति पाठे तु स्वार्थे कप्रत्यय इति भावः । अत एव 'अहिभ्यः' इत्यत्र बुद्धिकृतापायस्य विद्यमानत्वात् पूर्वेणैवापादानत्वम् । एतेन चकारोऽपि सुखार्थ इति युक्तमुक्तम् पञ्जीकृतेति ।
हेमकरस्तु अनीप्सितस्य विशेषणं यदीप्सितम् ईप्सितस्य विशेषणं यदीनप्सितं तदपादानमिति। अन्यथा यदि यवेभ्यो गां रक्षतीत्यादौ एकस्मिन् प्रयोगे युगपद
Page #86
--------------------------------------------------------------------------
________________
४४
कातन्त्रव्याकरणम् पादानत्वं स्यात्, तदा गोशब्दादपिस्यात् । तथा यवं रक्षतीत्यादौ केवले ईप्सितेऽपि अस्त्वेवमिति चेत्, न । तदा हि कर्म रक्षार्थानामिति । कुर्यादित्युक्तवान्, तदसङ्गतमिति महान्तः । यावता ईप्सितानीप्स्तियोरेवापादानार्थम् ईप्सितं चेत्यस्यैव सफलत्वमिति कर्मग्रहणे कृते हि यवं रक्षतीत्यत्रापादानत्वप्राप्तिरेव दूषणं स्यात् । एवं सति ‘यवेभ्यो गां रक्षति' इति गोशब्दादपि स्यादित्यत्र हेमकरसिद्धान्तो निरस्त एव । तस्माल्लाघवगौरवविचारेण यदुक्तमस्माभिः स एव सिद्धान्तो रमणीय इति भाव्यम् ।
महान्तस्तु पूर्वसूत्राद् यत इत्यनुवर्तयन्ति ततश्च यदवधिक एव रक्षार्थधातूनां प्रयोगः स्यात् तदपादानमित्यर्थे उभयोरेवापादानत्वं कथं न स्यादिति पूर्वपक्षो निरस्तः । तेन यस्यैवावधित्वं तस्यैव संज्ञाविधानाद यवं रक्षतीत्यत्रावधित्वाभावादेव न भवति । अथ तर्हि ईप्सिते कर्मसंज्ञां बाधते इति कथं वृत्तिः संगच्छते । तथा रक्षणक्रियायां व्याप्यत्वात् कर्मत्वमेव स्यात् । अतस्तदपवादोऽयमारभ्यते इति पजीपङ्क्तिरपि कथं संगच्छते |अवधिभावे विवक्षिते हि कर्मसंज्ञाया अप्राप्तत्वात् ? सत्यम् । सत्यप्यवधिभावे विवक्षिते रक्षणक्रियाया व्याप्यत्वाशङ्कायां वृत्तिकृता पत्रीकृता चोक्तमिति न दोषः । ननु तत्र प्रधाने कर्मणि "तेषां परम् उभयप्राप्तौ" (२।४।१६) इति परत्वाद् इत्यपि पञ्जीवचनं कथं संगच्छते । प्रधाने त्वपादानसंज्ञाया अविषयत्वात् कुतः परत्वचिन्तेति ? सत्यम् । गोरवधिभावाभ्युपगमेन परत्वमुक्तम् । यद् वा रक्षणवारणक्रियायाः परस्परावधिभावाशङ्कायां परत्वमुक्तमिति न दोषः ।।२९४ ।
[समीक्षा]
पाणिनि ने जिनकी अपादानसंज्ञा करने के लिए "भीत्रार्थानां भयहेतुः, वारणार्थानामीप्सितः" (अ० १।४।२५, २७) ये दो सूत्र बनाए हैं, उनके लिए कातन्त्र में एक ही प्रकृत सूत्र प्राप्त है । दोनों के उदाहरणों में भिन्नता द्रष्टव्य है। जैसे -
पाणिनि = चौरेभ्यो रक्षति, चौरेभ्यस्त्रायते । यवेभ्यो गां वारयति। शर्ववर्मा = अहिभ्य आत्मानं रक्षति, यवेभ्यो गां रक्षति । शालिभ्यः शुकान्
वारयति, कूपादन्धं वारयति । कातन्त्रव्याख्याकारों के कुछ वचन द्रष्टव्य हैं१. 'अहिभ्य आत्मानं रक्षति' इति । अहीनां वारणपूर्वकमात्मनो रक्षणमाह
(दु० टी०)।
Page #87
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
२. प्राधान्यं पुनः शब्दकृतम्, न वस्तुकृतम् (दु० टी०)।
३. नायमिष्टपर्यायोऽव्युत्पन्न ईप्सितशब्दः अपि तु आप्तुमिष्टमीप्सितम् (वि० प०)।
४. शब्दप्रमाणका हि वैयाकरणाः (क० च०)। [रूपसिद्धि]
१-३. यवेभ्यो गां रक्षति | यवेभ्यो गां निषेधति । शालिभ्यः शुकान् वारयति । 'रक्ष' धातु को यहाँ व्याख्याकारों ने स्वभावतः रक्षणपूर्वक वारणार्थक माना है । 'यवरक्षण' ईप्सित होने से गो का वारण किया गया है । तदनुसार प्रकृत सूत्र द्वारा 'यव' शालि शब्दों की अपादानसंज्ञा तथा पञ्चमी विभक्ति का विधान |
४-५. अहिभ्य आत्मानं रक्षति | कूपादन्धं वारयति । यहाँ अहि और कूप अनीप्सित हैं । रक्ष धातु का रक्षणपूर्वक वारण अर्थ ही अभीष्ट है । अनीप्सित 'अहि-कूप' शब्दों की प्रकृत सूत्र से अपादानसंज्ञा तथा पञ्चमी विभक्ति का विधान ||२९४। २९५. यस्मै दित्सा रोचते धारयते वा तत् सम्प्रदानम् [२।४।१०]
[सूत्रार्थ
उस कारक की संप्रदानसंज्ञा होती है, जिसके लिए देने की इच्छा हो - जिसे रुचिकर मालूम पड़े तथा जिसके लिए कुछ धारण किया जाए ||२९५।
[दु० वृ०]
यस्मै दातुमिच्छा, यस्मै रोचते, यस्मै धारयते वा तत् कारकं संप्रदानसंज्ञं भवति। ब्राह्मणाय गां ददाति । देवदत्ताय रोचते मोदकः । यज्ञदत्ताय स्वदते । विष्णुमित्राय गां धारयते । कथं छात्राय श्लाघते, आत्राय डुते, छात्राय तिष्ठते कुमारी, छात्राय शपते, पुष्पेभ्यः स्पृहयति, छात्राय राध्यति, छात्रायेक्षते, छात्राय प्रतिशृणोति । छात्राय आशृणोतीति? तादर्थचतुर्थ्या सिद्धम् । छात्राय् क्रुध्यति, मित्राय द्रुह्यति, मित्रायेयते, मित्रायासूयति । यस्मै कुप्यतीति वक्तव्यम् । दातुमिच्छेति किम् ? राज्ञो दण्डं ददाति। सम्प्रदानप्रदेशाः – “सम्प्रदाने चतुर्थी" (२।४।१९) इत्येवमादयः ।।२९५ ।
Page #88
--------------------------------------------------------------------------
________________
४६
कातन्त्रव्याकरणम्
[दु० टी० ]
यस्मै० | दातुमिच्छा दित्सा | दाण् दाञ् वा, सन्, द्विर्वचनम्, “सनि मिमी ०" ( ३ | ३ | ३९) इत्यादिना अभ्यासलोपः स्वरस्येस् । 'भृत्यैर्ब्राह्मणेभ्यो गां दापयति, गुरुभिर्देवेभ्यः पूजां दापयति' । इनन्तत्वेऽपि दातुमिच्छाया अभिसंबन्धाद् भवत्येव । दातुमिच्छेत्यादि । तथा 'रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठं ददाति' । तथा चाह -
"
अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्तेनाप्तं ददातेस्तु सम्प्रदानं प्रकीर्तितम् ॥
सम्प्रदानं तदैव स्यात् पूजानुग्रहकाम्यया ।
दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥
पुनर्वक्तव्यम् - सम्यक् प्रकर्षेण दीयते यस्मै इत्यन्वर्थत्वाद् रोचयति - धारयत्योरपि निरन्वया संज्ञा दृश्यते, तस्माद् दित्साग्रहणं कर्तव्यमेव । 'ब्राह्मणाय दानम्, ब्राह्मणस्य दानम्, ब्राह्मणे वा दानम्' इति तु विवक्षया स्यात् । यद्यपि रुच दीप्ती ( १ । ४७३) पठ्यते, यथा ‘दिवि रोचन्ते ज्योतींषि' इति । इह तु रुच्यर्थ एवाभिधानाद् 'देवदत्ताय’ रोचते मोदकः' इति देवदत्तस्य मोदको रुचिं करोतीत्यर्थः । व्यापारे विवक्षिते भेदे वा द्वितीयायां षष्ठ्यां वा प्राप्तायां चतुर्थ्यर्थं वचनम् । कश्चिदाह - 'देवदत्तं रोचते मोदकः' इति प्राप्नोतीति । देवदत्तं हि प्राप्य मोदको रुचिविषयो न सर्वमेव भिन्नेच्छत्वात् प्राणिनाम् । रोचतिरयं स्वभावादिनर्थत्वेऽपि वर्तते इति । तथा चाह -
हेत्वर्थे कर्मसंज्ञायां शेषत्वे चाप्यकारकम् ।
रुच्यर्थादिषु शास्त्रेषु सम्प्रदानाख्यमुच्यते ॥ इति ।
अन्यः पुनराह - अभिलाषजनकमोदकनिरपेक्षयापि यदा देवदत्तोऽभिलाषस्य कर्ता तदापीयं संज्ञेति । देवदत्ताय रोचते । देवदत्तो रुचिं करोतीत्यर्थः । तदा परापि कर्तृसंज्ञा न स्याद् इति प्रतिपत्तव्यम् । कथं रोचतेऽस्मै हरीतकीति । अत्रापि रुचः प्रतिहन्यमानस्य हरीतक्यां रुचिरस्तीति रोचतिरयमिनर्थपरः पूर्ववत् । यस्मै रोचते इति किम् ? देवदत्तो मोदकम् अभिलषति, मोदकमिच्छतीत्यर्थः । सम्बन्धविवक्षापि दृश्यते । राज्ञो रोचते घृतम्, न मन्त्रिण इति । गौध्रियते स्वरूपेणावतिष्ठते स्वभावान्न प्रच्यवते, तां देवदत्तं प्रयुङ्क्ते इतीन् । भेदे व्याप्यत्वे वा विवक्षिते षष्ठी द्वितीया वा
Page #89
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्वः कारकपादः प्राप्ता | कथमित्यादि । श्लाघादीनां कञ्चिदर्थं ज्ञापयितुमिष्यमाणे कारके श्लाघादयः स्वभावान्नयतिवद् द्विकर्मका इन्नर्था एवेति कर्म प्राप्नोति । यो हि देवदत्ताय आत्मानं परं वा श्लाघ्यं कथयतीति योऽर्थः स देवदत्ताय श्लाघते इति । तथा च 'श्लाघमानः परस्त्रीभ्यस्तत्रागाद् राक्षसाधिपः' इत्यात्मानं श्लाघ्यं कथयन् परस्त्रीभ्य आगत इत्यर्थः ।
देवदत्ताय हुते । ह्रोतव्यं किञ्चिद् देवदत्तं ज्ञापयति । तथा देवदत्ताय तिष्ठते । आत्मानं स्थित्या ज्ञापयति, प्रकाशयति । प्रकाशने तिष्ठतौ रुचादिः । देवदत्ताय शपते । देवदत्तं किञ्चिद् उपलम्भयतीत्यर्थः । शपथे शपती रुचादिः । क एवमाह श्लाघादीनां विषयश्छात्रो बोधयितुमिष्टस्तदर्थाः श्लाघादय इति । विवक्षायाः प्राधान्यमाह - तादर्थ्यचतुर्था सिद्धमिति । यत्र तादर्थ्यं नास्ति तत्र तु द्वितीयामात्रम् – देवदत्तं श्लाघते, स्तौतीत्यर्थः । तथा स्पृहेश्च इप्सितो यस्तन्निमित्तं स्पृहास्तीति । इह तु व्याप्यविवक्षापि दृश्यते - पुष्पाणि स्पृहयतीति । राधीक्षोश्च कारकं नैमित्तिको यस्य सम्बन्धि शुभाशुभं पृष्टो दैवं पर्यालोचयतीति यद् दैवपर्यालोचनं तत् तदर्थं तस्येति । अदैवेऽपि तादर्थं दृश्यते – 'ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम्' इति । छात्राय ग्रन्थमीक्षते इति । प्रत्यापूर्वस्य शृणोतेः कर्तुर्यः प्रार्थयिता ‘गां मे देहि' इति तत्रापि तादर्थ्यम् अस्तीति नावश्यं प्रार्थयितुरेव चतुर्थी तादर्थ्यविवक्षायां प्रतिबन्धकाभावात् । प्रत्यापूर्वो हि शृणोतिरभ्युपगमे वर्तते ।
छात्राय क्रुध्यतीत्यादि । यस्मै कुप्यतीति । यदर्थं कर्तुः कोपः, तत्र चतुर्थी सिद्धा | वक्तव्यं व्याख्येयमिति । द्रोहादीनां कोपप्रभवत्वात् कोपसामान्यमस्तीत्याह - यस्मै कुप्यतीति । विवक्षावशात् तादर्थ्यमेव न षष्ठी । व्याप्यविवक्षायां तु द्वितीया । संकुष्यसि मृषा किं त्वं दिदृखं मां मृगेक्षणे' देवदत्तमभिद्रुह्यति । क्रुधिद्रुही सोपसर्गावेव सकर्मकौ । 'भार्यामीय॑ति कार्येण मित्रमसूयति लिप्सया' इत्यत्रापि हेत्वन्तरसम्भवेऽपि कोपप्रभवमस्त्यनेकप्रत्ययनिबन्धनत्वात् कार्यस्येति मतम् । असूशब्दात् कण्ड्वादित्वाद् यण् । दोषाविष्करणमसूया | छात्राय संक्रुध्यते, नृपायाभिद्रुह्यते, भार्यायै ईय॒ते, मित्रायासूयते । तथा छात्रायातिक्रुद्धः, मित्रायाभिद्रुग्धः, भार्यायै ईय॒ितः, मित्रायासूयितः इति भावार्थप्रत्ययः कर्मणोऽविवक्षितत्वात् । यथा 'पुष्पेभ्यः स्पृह्यते' इति । तथा प्रत्यनुपूर्वस्य गृणातेस्तादर्थ्यस्यैव विवक्षा, न तु कर्मण इति । होत्रे प्रतिगृणाति, होत्रेऽनुगृणाति । पोत्रे प्रतिगृणाति, पोत्रेऽनुगृणाति । पूर्वं याचितवते शंसितवते वा अनुगृणाति
Page #90
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
शब्देनाभ्युपगच्छति-करोमीति । तथा च 'गृणभ्योऽनुगृणन्त्यन्ये कृतार्था नैव मद्विषाः' इति । याचमानेभ्योऽपि पूर्वक्रियायाः कर्तृभ्यः कृतार्थत्वान्न मद्विधा अनुगृणन्ति संगिरन्ते । यद्येवम्, ब्राह्मणाय यद् दीयते तद् ब्राह्मणार्थं क्रियताम्, दित्साग्रहणमनर्थकम् ? सत्यम् । दातुमिच्छायां मा भूत्, कारकव्यपदेशार्थं च । “अकर्तरि च कारके संज्ञायाम्"(४।५।४) इत्यादौ यच्चान्यार्थमपि ददाति । यथा - 'रोगप्रशमनाय ब्राह्मणेभ्यो गां ददाति' इत्युभयत्र तादर्थ्यविवक्षापि तथैव ।।२९५।
[वि० प०]
यस्मै० । दित्सेति। दाञः सन्, द्विर्वचनम् । “सनि मिमी०" (३।३।३९) इत्यादिना स्वरस्येसादेशः, अभ्यासलोपश्च । “सस्य सेऽसार्वधातुके तः (३।६।९३), शंसिप्रत्ययादः" (४।५।८०) इति अप्रत्ययः । “अस्य च लोपः" (३।६।४९), "स्त्रियामादा"(२।४।४९) । विष्णुमित्राय गांधारयते इति ।धृञ् अवस्थाने (१।५९९) गौर्धियते स्वरूपेणावतिष्ठते स्वभावान्न प्रच्यवते, तमन्यः प्रयुङ्क्ते इतीन् । नात्र "श्लाघहस्थाशपां जीप्स्यमानः" (अ०१।४।३४) इति वचनमस्तीत्याह-कथमित्यादि । कञ्चिदर्थं ज्ञापयितुमिष्यमाणो बोधयितुमभिप्रेतो यो देवदत्तादिः स ज्ञीप्यमानस्तत्र वर्तमानाः श्लाघादयो नयतिवत् स्वभावतो द्विकर्मकाः अन्तर्भूतकारितार्था एवेति देवदत्तादेरपि कर्मत्वं प्राप्नोतीत्यालोच्य परिहारं वक्ष्यति - तादर्थ्यचतुर्थ्या सिद्धमिति । देवदत्ताय श्लाघते इति। आत्मानं परं वा श्लाघ्यं कथयतीति योऽर्थः स देवदत्तार्थो भवतीत्यर्थः । तथा छात्राय हुते इति ।ह्रोतव्यं कञ्चिदर्थं ज्ञापयति । यत्तज्ज्ञापनं तच्छात्रार्थं भवतीति । "प्रतिज्ञानिर्णयप्रकाशनेषु स्था" (द्र०, अ० ११३।२२-२३) इति रुचादित्वादात्मनेपदम् । छात्राय शपते इति ? सत्यम् । इदमिति ज्ञापयति मिथ्या निरस्यतीति यत् तन्मिथ्यानिरसनम्, तच्छात्रार्थं भवतीति । 'शपथे शप' (१।६०६; ३।१२२) इति रुचादित्वादात्मनेपदम् । यत्र तु तादर्थ्यं नास्ति तत्र द्वितीयैव, यथा - देवदत्तं श्लाघते, स्तौतीत्यर्थः । पुष्पेभ्यः स्पृहयतीति । 'स्मृह ईप्सायाम्' (९।१८९) चुरादावदन्तः, अस्य च लोपः । स्थानिवद्भावाद् गुणो न भवति ।
इह कर्मविवक्षापि दृश्यते - पुष्पाणि स्पृहयतीति । किं "स्पृहेरीप्सितः" (अ० १।४।३६) इति वचनेन । छात्राय राध्यति, छात्राय ईक्षते इति छात्रस्य शुभाशुभं पृष्टो दैवज्ञो दैवं पर्यालोचयतीत्यर्थः । तत्र यद् दैवपर्यालोचनं तच्छात्रार्थमेव । अदैवेऽपि
Page #91
--------------------------------------------------------------------------
________________
४९
नामचतुष्टयाध्याये चतुर्थः कारकपादः तादर्थ्यं दृश्यते - छात्राय ग्रन्थम् ईक्षते इति । तस्माद् "राधीक्ष्योर्यस्य विप्रश्नः" (अ० १।४।३९) इति न वक्तव्यम् । छात्राय प्रतिशृणोति, छात्रायाशृणोति । पूर्वं प्रार्थितवते छात्रायाभ्युपगच्छतीत्यर्थः । प्रत्यापूर्वः शृणोतिरभ्युपगमे वर्तते, स चाभ्युपगमश्छात्रार्थो भवतीति वचनेन “प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता" (अ० १।३।५९) इति किम् । पूर्वस्य धात्वर्थस्य प्रार्थनलक्षणस्य यः कर्ता छात्रादिस्तस्य किं सम्प्रदानसंज्ञाविधानेन, तादर्थ्यचतुर्थैव सिद्धत्वात् ।छात्राय क्रुध्यतीत्यादि । "क्रुधदुहेासूयार्थानां यं प्रति कोपः" (अ० १।४।३७) इति वचनाभावात् कथमिह सम्प्रदानत्वमित्याह - यस्मै कुप्यतीति वक्तव्यमिति। ननु तर्हि कोपार्थधातुप्रयोगे एव प्राप्नोति कथं द्रुहादीनां प्रयोगे, तेषामर्थान्तरवृत्तित्वात्, सत्यम् । द्रुहादीनामप्यर्थानां कोपप्रभवत्वात् कोपसामान्यं सर्वत्रास्तीत्यदोषः। वक्तव्यमिति । व्याख्येयम् । अत्रापि तादर्थ्यमस्तीति भावः । दातुमिच्छेत्यादि । तथा चोक्तम् -
अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्येनाप्तं ददातेस्तु संप्रदानं प्रकीर्तितम् ॥ सम्प्रदानं तदैव स्यात् पूजानुग्रहकाम्यया।
दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥२९५ । [क० च०]
यस्मै० । "कर्मणा यमभिप्रैति' स सम्प्रदानम्" (अ० १।४।३२) इति परसूत्रम् । अस्यायमर्थः। कर्मणा कर्मकारकेण करणभूतेन यमभिप्रैति संबनातीत्यर्थः । ननु कर्म कथं करणमिति चेत्, नैवं क्रियान्तरसंबन्धात् । तथाहि ददातिक्रियां प्रति कर्मत्वम् अभिप्रायक्रियां प्रति करणत्वमिति न दोषः । कर्मग्रहणाभावे कारकप्रस्तावात् क्रियायाः कर्माभिसंबन्धाद् ‘गां ददाति' इत्यत्र गोरपि स्यात् । न च परत्वात् कर्मसंहवास्ति बाधिकेति वाच्यम्, वचनसामर्थ्यात् 'पर्यायेण भविष्यति ? यदि 'यं सः' - ग्रहणं न
१. अभिसंबन्धमिच्छतीत्यर्थः। सम्बन्धश्च क्रियाजन्यकर्मनिष्ठस्वत्वफलभागित्वमेव स्वत्वफलभागित्वं स्वत्वफलनिरूपकत्वमेवोक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागितया दातुमिच्छाविषयो ब्राह्मण इति तस्य सम्प्रदानत्वमिति व्युत्पत्तिवादः। वस्तुतस्तु कर्मणा दानकर्मणा यमभिप्रैति तत्कर्मनिष्ठस्वत्वभागित्वेनोद्देश्यीकरोति तत् सम्प्रदानमिति । एवं च 'ब्राह्मणाय गां ददाति' इत्यादौ ब्राह्मणस्य गोनिष्ठस्वत्वभागित्वेनेच्छाविषयत्वात् संप्रदानत्वमिति । एतेन त्यक्तुस्त्यज्यमानद्रव्यस्य स्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वमिति पर्यवसितम् ।
२. कर्तुः संप्रदाने स्वव्यापारजन्यफलभागित्वरूपसंबन्ध इत्यर्थः । अत्र कर्तुः कर्मणि स्वव्यापारजन्यफलाश्रयत्वरूपसंबन्ध इत्यर्थः ।
Page #92
--------------------------------------------------------------------------
________________
५०
कातन्त्रव्याकरणम्
स्यात् तदा योऽभिप्रैतीत्यर्थे 'उपाध्यायाय गां ददाति देवदत्तः' इति देवदत्तस्यापि' स्यात् । नैवम्, तदा कर्तुः संप्रदानत्वे कर्तरि तिप्रत्ययो न स्यात्, तदभावे कथं ददातेः प्रयोगः, तदभावे च कथं सम्प्रदानत्वमिति चेन्मयाऽप्येतद् दूषणमापाद्यते । किञ्च 'देवदत्ताय गौर्दीयते यज्ञदत्तेन' इति कर्तुः संप्रदानत्वं स्यात् । अथ तर्हि यज्ञदत्तस्य संप्रदानत्वे कर्तुः क्रियाया व्याप्यत्वाभावाद् गोः कर्मत्वं न स्यात् । नैवम् । कर्तृसंज्ञायां कर्तृग्रहणस्य कर्तृत्वमात्रोपलक्षणत्वम्, न तु कर्तृसंज्ञकस्य क्रियाया यद् व्याप्यं तत् कर्मेति । कथमन्यथा ‘ग्रामं गमयति देवदत्तं यज्ञदत्तः' इत्यादौ देवदत्तस्य कर्मत्वे कर्तृसंज्ञकस्य क्रियाया व्याप्यत्वाभावाद् ग्रामस्य कर्मत्वमिति । तस्माद् यद्ग्रहणं कर्तव्यमेव |
ननु किं क्रियामात्रस्य कर्मणा यं संबध्नाति ददातेः कर्मणा वा | नायः, 'अजां नयति' ग्रामम्' इत्यादौ ग्रामस्यापि संप्रदानत्वप्रसङ्गात् । नापि द्वितीयः, 'रजकस्य वस्त्रं ददाति' इत्यादावतिप्रसङ्गात् सूत्रे ददातिग्रहणाभावाच्च । उच्यते - सम्प्रदानमित्यन्वर्थसंज्ञायां दाधातोः श्रवणाद् ददातिलभ्यते । तेनोक्तस्थाने ग्रामादावतिप्रसङ्गो नास्ति । तथा समुपसर्गेण सम्यक् प्रदीयते यस्मै तत् संप्रदानमिति व्युत्पत्त्या स्वस्वत्व ध्वंसपूर्वकपरस्वत्वापादनं ददातेरों लभ्यते, तेन ‘रजकस्य वस्त्रं ददाति' इत्यादौ धातूनामनेकार्थत्वाद् ददातेरर्पणार्थत्वान्नातिप्रसङ्गः । तर्हि 'राज्ञो दण्डं ददाति' इत्यत्र स्वस्वत्वध्वंसपूर्वकपरस्वत्वापादनस्य ददात्यर्थत्वान्न कथं सम्प्रदानत्वम् ? सत्यम् । प्रशब्दस्य प्रकर्षार्थत्वेन पूजादिपुरःसरता लभ्यते इति न दोषः तथा चोक्तम् -
अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्येनाप्तं ददातेस्तु संप्रदानं प्रकीर्तितम् ॥
१.यतः स्वव्यापारजन्यफलभागित्वरूपसम्बन्धानुकूलव्यापाराश्रयो देवदत्तो भवति,अतस्तस्यापि संप्रदानत्वं स्यादित्यर्थः।
२. संयोगानुकूलस्पन्दनानुकूलरज्ज्वाकर्षणादिरूपो नीधातोरर्थः । रज्ज्वाकर्षणरूपव्यापारजन्यस्पन्दनशालित्वाद् ग्रामादेः कर्मत्वे ग्रामवृत्तिसंयोगानुकूलाजावृत्तिस्पन्दनानुकूलकृत्याश्रयं इति दोषः ।
३. अत्र कर्तुः रजके परिष्कारप्रकारक इच्छाविषयतारूपसंबन्ध इत्यर्थः । ४. यथेष्टनियोगार्हत्वेन सन्तु गम्यत्वं स्वस्वत्वत्वमिति प्रानः । अतिरिक्तपदार्थ इति शिरोमणिः ।
५. अर्पणं च संबन्धानुकूलव्यापारः । अत्र वस्त्रस्य रजके संयोगसंबन्धस्तदनुकूलव्यापाराश्रयो जन इत्यर्थः।
Page #93
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः सम्प्रदानं तदैव स्यात् पूजानुग्रहकाम्यया।
दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥ अयमर्थः- एतत्त्रयं यदि त्यागकारणं भवति, तदा संप्रदानं भवतीति, तत्पुनः कीदृशम् - ददातेाप्येन कर्मणा आप्तं संबद्धमित्यर्थः' । ददातिरित्यर्थपरोऽयम् । तेन 'गुरवे गां यच्छति' इत्यादिकमपि सिद्धम् । अनुमन्तरि यथा - 'गुरवे गां ददाति' | गुरुस्तु प्रार्थितः सन् अनुमन्यते । अनिराकर्तरि यथा 'आदित्यायाय॑ ददाति' । आदित्यो हि 'मह्यं देहि' इति न प्रेरयति, नानुमन्यते । केवलं दीयमानं न निराकरोति । प्रेरके यथा - 'ब्राह्मणाय वस्त्रं ददाति' । ब्राह्मणो हि ‘मह्यं वस्त्रं देहि' इति प्रेरयति । यदि प्रेरकं सम्प्रदानं स्यात् । तर्हि ब्राह्मणाय धनं दातुमिच्छन्तं देवदत्तं यज्ञदत्तः प्रयुक्ते इत्यत्र यज्ञदत्तस्य प्रेरकत्वात् सम्प्रदानसंज्ञा स्यादित्याह - व्याप्येनाप्तमिति । तर्हि 'राज्ञो दण्डं ददाति' इत्यत्र राज्ञः प्रेरकत्वात् संप्रदानसंज्ञा स्यादित्याशङ्क्याह सम्प्रदानं तदैव स्यादित्यादि।
अत्र पूजानुग्रहकाम्या नास्तीति भावः । गौरवितप्रीतिहेतुक्रिया पूजा। सा यथा-देवतायै पुष्पं ददाति । परदुःखमपहर्तुमिच्छा अनुग्रहः। यथा – भृत्याय वस्त्रं ददाति । स्वगतत्वेन फलसंकल्पः काम्या। यथा दास्यै मालां यच्छति । ननु 'पूजानुग्रहकाम्यया' इत्यत्र समाहारत्वादेकवचनत्वेन नपुंसकत्वं कथन्न स्यात् ? सत्यम् । पूजानुग्रहाभ्यां सहिता काम्येति मध्यपदलोपी समासः । [यद् वा पूजानुग्रहयोरिच्छा पूजानुग्रहकाम्या । दास्यै मालां यच्छतीत्यादावनुग्रहत्वेन संग्रह इति पाठान्तरम् । अथ तर्हि 'अतिथीनामासनं ददाति' इत्यत्र पूजासत्त्वात् संप्रदानत्वं कथन्न स्यादित्याह - दीयमानेनेत्यादि । दीयमानेन वस्तुना संयोगसंबन्धेऽपि स्वामित्वं नास्तीति भावः । एतदर्थानुसारेणैव सर्ववर्मणापि “यस्मै दित्सा" इति सूत्रं प्रणीतमिति ।
१. ददात्यर्थकर्मवृत्तिस्वत्वनिरूपितप्रतियोगिताविशिष्टमित्यर्थः । २. गौरवम् आराध्यत्वावगाही ज्ञानप्रभेदः, येयं भक्तिरित्युच्यते । गौरवं संजातमस्येति तारकादित्वादितच । ३. अत्र कर्तुरतिथौ ददातेः कर्मणा आसनेन स्वक्रियाप्रयुज्योपवेशनाश्रयत्वरूपसंबन्धः ।
Page #94
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
___अयमर्थः- स्वस्वत्वपरित्यागेन यस्य परस्य स्वत्वमुत्पादयितुम् इच्छा धर्माद्यभिसंबन्धिनी मतिर्भवति, तत् संप्रदानमित्यर्थः । एतेन ‘राज्ञो दण्डं ददाति' इत्यत्रेच्छाविरहान्न संज्ञेति । यदि धर्माद्यभिसंबन्धिन्या मत्या दण्डं ददाति, तदा राज्ञो दण्डं ददातीत्यत्र संप्रदानत्वं भवत्येव । ननु ‘रजकस्य वस्त्रं ददाति' इत्यादौ दाधातोरर्पणार्थस्य दृष्टत्वात् स्वस्वत्वपरित्यागपूर्वकपरस्वत्वापादनार्थं ददातेरर्थः कुतो लभ्यते इति चेत्, उच्यते । सम्यक् प्रकर्षेण दीयते यस्मै इत्यन्वर्थबलात् स्वस्वत्वपरित्यागपूर्वकपरस्वत्वापादनरूपो धात्वर्थो लभ्यते इति परसूत्रे व्याख्यातमेव । ननु यदि स्वस्वत्वपरित्यागपूर्वकं परस्वत्वापादनं ददातेरर्थ इत्युच्यते, तदा कथं संप्रदानं संगच्छते । तथाहि प्रथमतो वस्तुनः स्वस्वत्वपरित्यागे जाते वस्तुनि कर्तुरौदासीन्यात् परस्वत्वापादनमेवाशक्यमिति स्वत्वे स्थितेऽपि तथैव दूषणम् । नहि यदात्मीयं तत् परकीयमिति शक्यते व्यपदेष्टुमिति स्वस्वत्वस्य परस्वत्वप्रतिबन्धकत्वात् । तदुक्तम् ,
स्वस्वत्वे विद्यमाने तु परस्वत्वं न वियते।
परित्यज्य च स्वस्वत्वमौदासीन्यान सिध्यति॥ अत्र केचित् सिद्धान्तयन्ति । तथाहि स्वस्वत्वपरित्यागोपक्रमकपरस्वत्वापादनपर्यन्तः समुदायो ददात्यर्थः । स्वस्वत्वं त्यजन् परस्वत्वमापादयतीत्यर्थः । यदि हि स्वस्वत्वपरित्यागमात्रं परस्वत्वापादनं ददात्यर्थः स्यात्, तदैवोक्तदोषः संभवति । यदि तु समुदायो ददात्यर्थस्तदा न किञ्चिदपि दुष्यति, तन्न । नहि समुदायोऽवयवो वा ददात्यर्थ इति विचार्यते । तथा च सति समुदायोऽपि ददात्यर्थः कथं स्यात्, उत्तरीत्या सम्भवादिति । अत्रोच्यते - दानं हि संकल्पविशेषः । नेदं ममेत्येवंस्वरूपः । स एव संकल्पः स्वस्वत्वध्वंसद्वारा परस्वत्वमापादयतीति ।
स्वस्वत्वध्वंसदशायां दातुरुदासीनत्वेऽपि कृतेन त्यागेन संकल्परूपेण परस्वत्वापादने बाधकाभावात् ।यथा कालान्तरे यज्ञकर्तुरुदासीनत्वेऽपि प्राक्तनकर्मणा स्वर्गाद्युपभोगो जन्यते इति सर्वमुपपन्नम् । तदयं संक्षेपार्थः। स्वस्वत्वध्वंसद्वारा परस्वत्वजनकीभूतः संकल्पविशेषो दानम् । एतेन त्यागजन्यस्वत्वफलभागित्वं संप्रदानत्वमिति
Page #95
--------------------------------------------------------------------------
________________
५३
नामचतुष्टयाध्याये चतुर्थः कारकपादः संप्रदानलक्षणम् । 'त्यागस्तु परस्वत्वफलिकेच्छा । एतत् सर्वं यत्र वास्तविकं तत्र मुख्यमेव संप्रदानम् ।अवास्तविके तु विवक्षामात्रेण प्रयोगस्य साधुत्वम् । एतेन 'प्रदीयतां दाशरथाय मैथिली' (वा० रा०६।९।२१ - २२) इत्यादौ रावणस्य मैथिल्यां स्वत्वाभावेऽपि स्वत्वविवक्षया प्रयोगस्य साधुत्वमिति ।
वस्तुतस्तु अत्रापि पूजापुरःसरमेव मैथिली दीयतामिति प्रयोक्तुस्तात्पर्यम् । ततश्च मुख्यसंप्रदानमेव । न च मैथिली प्रति स्वत्वाभावात् कथं मुख्यसंप्रदानत्वमिति वाच्यम् । चौरस्यापहरणक्रिययैव स्वत्वापादनात् । यत्तु 'द्रव्यमस्वामिविक्रीतं पूर्वस्वामी समाप्नुयात्' इति धर्मशास्त्रं दृश्यते, तत्रास्वामिशब्दो निन्दार्थः । चौरस्य स्वामित्वाभावात् पूर्वस्वामीति पूर्वशब्दो निरर्थक एव स्यादिति । यद् वा 'तादर्थ्यविवक्षया चतुर्थी । ननु सर्ववर्मणा "तादर्थे" (चा० २।१।७९) इति सूत्रं न कृतम्, किन्तु चन्द्रगोमिप्रणीतं सूत्रं वृत्तिकृता लिखितमिति। तत्कथमस्मन्मते तादर्थ्यविवक्षया चतुर्थीत्युच्यते ? सत्यम् । तादर्थेऽपि सम्प्रदानत्वमस्ति । तथाहि - यस्मै दित्सेति । यस्मै दातुं संकल्पयितुं धातूनामनेकार्थत्वाद् बोधयितुमिति यावत् । इच्छा मतिर्भवति, तत् सम्प्रदानम् ।
इदं तु दित्साग्रहणं गौणसम्प्रदानार्थम् । मुख्यसंप्रदानं तु अन्वर्थबलादग्रत एव व्याख्यातम् । अन्यथा सम्प्रदानमिति गुरुसंज्ञावैयर्थमेव स्यादिति संक्षेपः। यस्मै रोचते इति । अत्र "रुच्यानां प्रीयमाणः" (अ० १।४।३३) इति पाणिनिः। अयमर्थः'प्रीयमाणः' इति कर्तर्यानश् ।रुच्यर्थानां धातूनां प्रयोगे यः प्रीयमाणः प्रीतिभाग भवति स संप्रदानं स्यात् । एतदनुसंधानेनैव यस्मै रोचते इत्युक्तम् । अयमर्थः- यस्मै रोचते । यं मोदकादिभिरभिलाषयति यस्य प्रीतिं जनयतीति यावत् । ननु ‘स्फुरदधरसीधवे तव
१. ननु 'दम्पत्योर्मध्यगं धनम्' इति शास्त्रेण 'ब्राह्मणाय धनं ददाति' इत्यस्मिन् विषये 'ब्राह्मण्यै धनं ददाति' इति प्रयोगः स्यात् ? सत्यम् । स्वत्वभागित्वेनोद्देश्यत्वमिति देयम् । अत्र स्वत्वभागित्वेन ब्राह्मण एवोद्देश्यो न ब्राह्मणीत्याशयः। तेन काशीस्थितजनस्यापि संप्रदानत्वं सिद्धम् । त्यज्यमानद्रव्यस्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वमिति नैयासिकः। अत्रापि त्यागपदेन त्यागविशेषो ग्राह्यः । त्यागविशेषस्तु मूल्यग्रहणाभावपूर्वकस्वस्वत्वध्वंसद्वारा परस्वत्वजनकीभूतसंकल्परूपः, तेन विक्रयादौ क्रयदेर्न संप्रदानत्वम्, श्राद्धादौ पित्रादेर्न स्वत्वभागित्वेनोद्देश्यत्वम्, किन्तु प्रीतिभागित्वेनेति। अत एव "नमः स्वस्तिस्वाहास्वपा०" (अ० २।३।१६) इत्यादिना चतुर्थीविधानं युक्तमिति नैयासिकाः।
२. ननु 'पूर्वस्वामी समाप्नुयात्' इत्यत्र पूर्वशब्देन क्रेता व्यवच्छिद्यते न पुनश्चौरस्य स्वामित्वमुत्पाद्यते तत् कयं मैथिल्यां रावणस्य स्वत्वाभावाद् 'दाशरथाय' इत्यत्र मुख्यमेव संप्रदानमित्याह - यद् वेति ।
Page #96
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
'वदनचन्द्रमा रोचयति लोचनचकोरम्' इत्यत्र वदनचन्द्रमा अधरसीधुं लोचनचकोराय रोचयतीत्येव प्रयोगः स्यात् ? सत्यम् । रुचिरत्रास्वादनार्थः । ततश्च लोचनचकोरस्य आस्वादकर्तृत्वं विवक्षितम् । “रुच्यर्थानां प्रीयमाणः" इति सूत्रं तु षष्ट्याः कर्मणो बाधकमिति टीकायामुक्तत्वान्नास्यात्र विषय इति । ‘सीधवे' इत्यत्र तादर्थ्यविवक्षया चतुर्थीति न दोषः । यस्मै धारयते इति । "धारेरुत्तमर्णः" (अ० १।४।३५) इति परः। ____ अयमर्थः- इनन्तस्य ‘धृञ् अवस्थाने' (१।५९९) इत्यस्य प्रयोगे उत्तमो यः स संप्रदानमिति । एतदनुसारेणैव यस्मै धारयते इत्युक्तम् । षष्ठ्या द्वितीयाया वा बाधकमिति । तथाहि 'विष्णुमित्राय गां धारयते' इति विष्णुमित्रस्य गां स्वस्मिन् स्थापयतीत्यर्थः । द्वितीयाबाधकपक्षे स्वरूपेणावस्थितां गां विष्णुमित्रः स्थापयति, तं देवदत्तः प्रयुङ्क्ते इति इन्द्वयविवक्षायां विष्णुमित्रस्य व्याप्यत्वं विवक्षणीयम् । ननु कथं विष्णुमित्रस्य व्याप्यत्वम्, इनन्तस्य कर्तृत्वात् ? सत्यम् । इनः कर्तृकर्मेत्यनेन कर्मत्वम्, तथाहि भवितुं न पार्यते, ध्रौव्यगतीत्यादेर्नियमविषयत्वात् ? सत्यम्, नात्र नियमविषयः शुद्धधातुना नियमकृतत्वाद् व्यावृत्तिरपि तस्य कतुरेव विवक्षणीयेत्यर्थः । गोशब्दोऽत्र भूमिवचनो न प्राणिवचनः, अन्यथा “अणावकर्मकाच्चित्तवत्कर्तृकात्" (अ० १।३।८८) इत्यनेन परस्मैपदमेव, नात्रात्मनेपदं स्यात् । गौर्धियते इति पत्री।
१. 'वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम्' इति पूर्वार्द्धम् । दरतिमिरमिति भयान्धकारम् । तथा च "दरोऽस्त्रियां भये श्वप्रे" (३।३।१८४) इत्यमरः। 'लोचनचकोराय रोचते'। अधरसीधुर्लोचनचकोरस्य प्रीतिं जनयतीति तं वदनचन्द्रमा रोचयतीत्यर्थविवक्षायाम् एवं प्रयोगः स्यादिति भावः । सत्यमित्यादि । अयमाशयः- अत्र तु प्रीतिहेतुतारूपा क्रिया, प्रीत्यनुकूलव्यापारश्च धातुमात्रेण प्रत्याय्येत, तत्रैव संप्रदानत्वमिति वस्त्वर्थः । अत्र तु धातुना प्रीतिमात्रमुच्यते, इनैव तदनुकूलव्यापारः प्रतीयते । अतोऽत्र इनर्थव्यापारजन्यप्रीतिरूपफलशालित्वात् कर्मत्वमेव न सम्प्रदानत्वमिति । यद् वा 'चैत्रं रोचयति मोदकः' इति ।
२. रुचिः स्वादे मयूखे च रुचिः शोभाभिलाषयोः (द्र०, मेदिनी० २८।८) इति कोशः । ३. संवत्सरादिना द्विगुणादिकं दास्यामीति कृत्वा यद् गृह्यते तद् ऋणम् ।
४. उपभोग्यत्वरूपसंबन्धेनेति शेषः । स्वरूप इति | रूप्यतेऽनेन इति रूपम्, विशेषणं स्वत्वमिति स्वत्वस्य विष्णुमित्रस्य रूपं स्वरूपं स्वत्वम्, तेन विष्णुमित्रस्य स्वत्वविशिष्टत्वेनावस्थितां गामित्यर्थः ।
५."अणावकर्मकाच्चित्तवत्कर्तृकात्" (अ० १।३।८८) इति ।न इ अनि, तस्मिन् अनौ । अनौ अनिनन्तकाले अकर्मकाच्चित्तवत्कर्तरि सति इनन्ते सति तस्मात् परस्मैपदं भवतीत्यर्थः । टीकायामप्येवं विवक्षा।
Page #97
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
अस्या एवार्थमाह- स्वरूपेणावतिष्ठते इति । तदेव स्पष्टयति - स्वभावतो न प्रच्यवते इति विष्णुमित्रस्य स्वत्वान्न प्रच्यवते इत्यर्थः ।
ह्नोतव्यं कञ्चिदर्थमित्यादि । ननु यत्र होतव्यार्थस्य ज्ञापनं नास्ति तत्र कथं स्यात् । यथा
-
अपह्नुवानस्य यन्निजामधीरतामस्य कृतां मनोभुवा । अबोधि तज्जागरदुः खसाक्षिणी निशा च शय्या च शशाङ्ककोमला ॥
५५
जनाय
( १ । ४९) इति नैषधे ।
न ह्यत्र ह्रोतव्यां निजामधीरतां जनाय बोधयतीति ? सत्यम् । ह्रोतव्यं कञ्चिदर्थं जनयतीति यदुक्तं पञ्जिकायाम्, तस्यायमर्थः ह्रोतव्यं कञ्चिदर्थं जनम् । अन्यथाप्रकारं बोधयतीत्यर्थः । ततश्चापहुवानस्य जनायेत्यत्र निजामधीरतामपह्नवपूर्वकं जनमन्यथा बोधयतीत्यर्थः । " राधीक्ष्योर्यस्य विप्रश्नः " ( अ० १ । ४ । ३९) इति शुभाशुभं दैवपर्यालोचनं विप्रश्नः। विविधप्रश्नो विप्रश्न इति भाषावृत्तिः । विप्रश्नपूर्वकं दैवपर्यालोचनं धात्वर्थः । " क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः " ( अ० १।४।३७) इति । क्रुधाद्यर्थानां प्रयोगे कोपस्थानं संप्रदानं भवतीत्यर्थः । क्रोधः कायवाग्विकारलक्षणः । क्रुधद्रुहावकर्मकौ, तत्र षष्ठ्यां प्राप्तायाम् अन्यत्र द्वितीयायां प्राप्तायां वचनम् । क्रोधेनापकृतिद्रहः । क्रोधेन चित्तक्षोभः ईर्ष्या । गुणिनोऽपि दोषाविष्करणमसूया । अत्र सूत्रेऽर्थग्रहणाज्जनाय कुप्यतीत्यादावपि संप्रदानं बोध्यम् । अथ 'अस्मान् द्वेष्टि, औषधं द्वेष्टि' इत्यत्र न कथं संप्रदानत्वम् ? नैवम् । अत्र धात्वर्थवाच्यः कोपो न प्रतीयते, किन्तु नाभिनन्दतीत्येव गम्यत इति न्यासकृता उक्तम् । एवं 'न क्षमते शत्रून्' इत्यपि सिद्धम् । यत्तु - 'द्वेष्टि प्रायो गुणिभ्योऽपि न च स्निह्यति कस्यचित् ' ( १८ ।९) इति भट्टिकाव्यम् । अत्रासूयार्थ एव विवक्षितः इति न दोषः इति शरणदेवः || २९५ ।
[समीक्षा]
' जिसे देने की इच्छा होती हैं, जिसे कोई वस्तु रुचिकर लगती है तथा जिसकी वस्तु (स्वत्व) अपने पास ऋण के रूप में रखी जाती है उसकी सम्प्रदानसंज्ञा पाणिनि तथा शर्ववर्मा दोनों ने ही की है । पाणिनि ने इसके लिए - "कर्मणा यमभिप्रैति स सम्प्रदानम्, रुच्यर्थानां प्रीयमाणः, श्लाघहुस्थाशपां ज्ञीप्स्यमानः, धारेरुत्तमर्णः,
Page #98
--------------------------------------------------------------------------
________________
५६
कातन्त्रव्याकरणम्
,
स्पृहेरीप्सितः क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः राधीक्ष्योर्यस्य विप्रश्नः प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता, अनुप्रतिगृणश्च" (अ० १।४।३२ - ३७, ३९ - ४१) ९ सूत्र बनाए है और विविध अर्थों का स्पष्टरूप में तथा विस्तार से निर्देश किया है । कातन्त्रकार शेष अर्थों का ग्रहण व्याख्याबल से कर लेते हैं । पाणिनि के प्रथम सूत्र में लोकव्यवहारप्रसिद्ध संप्रदान व्याख्यात है, शेष सूत्रों में प्रायः शास्त्रीय संप्रदान का ।
सम्प्रदान तीन प्रकार का होता है। जैसे
१. अनिराकरण - 'सूर्यायार्ध्यं ददाति' ।
२. प्रेरणा - 'विप्राय गां ददाति ।
३. अनुमति - ' उपाध्यायाय गां ददाति' ।
‘निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः ' ( ना० शा० १४।२३) इस नाट्यशास्त्र में ‘सम्प्रदान' शब्द का उल्लेख होने के कारण इसकी प्राचीनता तथा प्रामाणिकता सिद्ध है | इस संज्ञा की लोकभिधानपरता तथा अन्वर्थता के विषय में कातन्त्रपरिशिष्टकार का यह वचन द्रष्टव्य है -
सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः ।
लोकोपचारात् संसिद्धाः सुखबोधाय दर्शिताः ॥ ( कात० परि०) । अर्वाचीन शाब्दिकाचार्यों ने भी इस संज्ञा का प्रयोग किया है -
जैनेन्द्रव्याकरण - कर्मणोपेयः सम्प्रदानम्, धारेरुत्तमर्णः परिक्रयणम् (१।२।१११ - १३) ।
शाकटायनव्याकरण – कर्मणोऽभिप्रेयः सम्प्रदानम् (१।२।१२६)। हैमव्याकरण - कर्माभिप्रेयः सम्प्रदानम् ( २ |२| २५) ।
मुग्धबोधव्याकरण - यस्मै दित्सासूयाक्रोधेर्ष्यारुचिद्रोहस्थाहुङ्स्पृहिशपाधीक्षा प्रतिश्रुप्रत्यनुगृधार्यर्था भं ची तादर्थ्ये च (सूत्र २९४ ) ।
1
अग्निपुराण - सम्प्रदाने चतुर्थ्यपि, यस्मै दित्सा धारयते सम्प्रदानं तदीरितम् । सम्प्रदानं त्रिधा प्रोक्तम् (३५०|२६; ३५३ ।९)।
Page #99
--------------------------------------------------------------------------
________________
५७
नामचतुष्टयाध्याये चतुर्षः कारकपादः नारदपुराण- उभ्यांभ्यसश्चतुर्थी स्यात् सम्प्रदाने च कारके।
__ यस्मै दित्सा धारयेद् वै रोचते सम्प्रदानकम् ।। (५२।६)। शब्दशक्तिप्रकाशिका - गत्यादिभिन्ने धात्वर्थे चतुर्था विग्रहस्थया | यः स्वार्थो बोधनीयस्तत् संप्रदानत्वमीरितम् ।। (कारिका ७०)। [रूपसिद्धि]
१. ब्राह्मणाय गां ददाति । यहाँ ब्राह्मण को गाय देने की इच्छा है, अतः उसकी प्रकृत सूत्र से सम्प्रदानसंज्ञा तथा "चतुर्थी सम्प्रदाने" (अ० २।३।१२) से उसमें चतुर्थी विभक्ति का विधान ।
२-३= देवदत्ताय रोचते मोदकः । यज्ञदत्ताय स्वदते । मोदक में देवदत्त की रुचि होने से उसकी संप्रदानसंज्ञा तथा चतुर्थी विभक्ति का प्रयोग |
४. विष्णुमित्राय गां धारयते । विष्णुमित्र को गाय देना स्वीकार किया गया है, अतः विष्णुमित्र की प्रकृत सूत्र से संप्रदानसंज्ञा तथा चतुर्थी विभक्ति का प्रयोग।
[विशेष]
१. कातन्त्रकार के अनुसार 'छात्राय श्लाघते, छात्राय हुते, छात्राय तिष्ठते कुमारी, छात्राय शपते, पुष्पेभ्यः स्पृहयति, छात्राय राध्यति, छात्रायेक्षते, छात्राय प्रतिशृणोति छात्राय आशृणोति' में सम्प्रदानसंज्ञा करना आवश्यक न मानकर "तादर्थे चतुर्थी" (२।४।२७) से सीधे चतुर्थी विभक्ति की गई है।
२. 'छात्राय क्रुध्यति, मित्राय द्रुह्यति, मित्रायेय॒ते, मित्रायासूयति' में चतुर्थी के विधानार्थ “यस्मै कुप्यतीति वक्तव्यम्" यह वार्तिक वचन स्वीकार किया गया है ।।२९५।
२९६. य आधारस्तदधिकरणम् [२।४।११] [सूत्रार्थ] क्रिया के आधार की अधिकरणसंज्ञा होती है ।।२९६।
Page #100
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[दु० वृ०]
आध्रियन्ते क्रिया यस्मिन्नित्याधारः। आधारो यस्तदधिकरणसंज्ञं भवति । कटे आस्ते, तिलेषु तैलम्, दिवि देवाः । तथा गङ्गायां चोषः । अमुल्यग्रे करिशतम् । अधिकरणप्रदेशाः – “अधिकरणे सप्तमी" (२।४।१९) इत्येवमादयः ।।२९६।
[दु० टी०]
य आधारः । आध्रियन्ते इत्यादि । अभिधानाद् बहुलत्वाद् वा घञ् । कारकाणि क्रियापेक्षाणीति क्रियाणामाधार इति गम्यते। साक्षाच्च कर्तृसमवायिनी गम्यमानक्रियां धारयति कर्ता, कर्मसमवायिनी च पाकादिक्रियां कर्म चेति न तयोरधिकरणसंज्ञा, कर्तृकर्मसंज्ञाभ्यामाघ्रातत्वात् । व्यवहितयोश्च तयोः सिद्धावुपकुर्वद् अधिकरणमिति । तथा चाह -
कर्तृकर्मव्यवहितामसाक्षाद् धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धी शास्त्रेऽधिकरणं स्मृतम् ॥(वा०प०३।७।१४८) इति ।
स चाधारश्चतुर्विधः- औपश्लेषिकः, अभिव्यापकः, वैषयिकः, सामीपिकश्चेति। आधाराधेययोरन्यत्र सिद्धयोरुपश्लेषः संयोगलक्षण इत्यौपश्लेषिकः। आधाराधेययोस्तुल्यजन्मा पृथग्देशभागानभिव्याप्य तिष्ठतीत्यभिव्यापकः समवायलक्षण इति । विषयो ह्यनन्यभावो यथा चक्षुरादीनां रूपादयो विषया इति वैषयिको भिद्यते । गङ्गादीनां संयोगसमवायलक्षणो न घोषादिरिति सामीपिको भिद्यते । कश्चिदाहगङ्गासमीपो देशोऽपि गङ्गेति, उपचारात् ।
आधारस्त्रिविधो ज्ञेयः कटाकाशतिलादिषु । इति । अन्यस्त्वाह
उपश्लेषस्य चाभेदस्तिलाकाशकटादिषु । उपकारास्तु भियन्ते संयोगसमवायिनाम् ॥ अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता । दिग्विशेषादवच्छेद इत्याया भेदहेतवः॥
(वा०प०३।७।१४९-५०) इति।
Page #101
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः तथाहि तिलेषु विकार्यमाणेष्वपि तैलस्याविनाशस्तिलैरुपकारः । आकाशे शकुनयः इति दिग्विशेषादवच्छेद उपकारः। उपरि शकुनयो नाधस्तादिति । कटे आस्ते इति देवदत्तस्य गुरुत्वात् पतने प्राप्ते तत्पतनप्रतिबन्धे कटादिर्न तत्पातमारभते इति । तत्र कटादेः स्वतन्त्रता आधेयस्योपकारः ? सत्यमेतत्, किन्तु “यस्याननि, अस्य च लोपः" (३।६।४८, ४९) इत्यादिषु विषयादिभेदः खलु दर्शनीय एव, अन्यथा प्रतिपत्तिरियं गरीयसीति ॥२९६।
[वि० प०]
य आधारः । आध्रियन्ते इति । "व्यानाच्च" (२।१।४९) इति चकाराद् घापवादो घञ्प्रत्ययः इति वक्ष्यति, तेनाधिकरणे घञ् । कारकाणां क्रियानिमित्तत्वाद् आध्रियन्ते क्रिया यस्मिन्नित्युक्तम् । ननु क्रिया हि द्विविधा - कर्तृस्था कर्मस्था च | तत्र कर्तृस्था कर्तृसमवायिनी, कर्मस्था कर्मसमवायिनी । ततो न काचित् क्रिया कटादिषु लभ्यते इति कथं तेषामधिकरणसंज्ञा कर्तृकर्मणोरेव स्यात्, क्रियाधारभूतत्वात् । तदयुक्तम् । तयोः परत्वात् कर्तृकर्मसंज्ञाभ्यामेवाघ्रातत्वात् । अतः कर्तृकर्मणोरेव क्रियाधारभूतस्याधिकरणसंज्ञा इत्युक्तं भवति । तथा चोक्तम् -
कर्तृकर्मव्यवहितामसाक्षाद् धारयत् क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति । सचाधारस्त्रिविधः –औपश्लेषिकः,अभिव्यापकः,वैषयिकश्चेति ।क्रमेणोदाहरतिकटे आस्ते इत्यादि । तत्राधाराधेययोरन्यत्र सिद्धयोः संयोग उपश्लेषः, तत्र भव
औपश्लेषिकः। क्रीतादित्वादिकण् । यथा - कटे आस्ते इति । आधाराधेययोस्तुल्यजन्मा पृथग्देशभागानभिव्याप्य तिष्ठतीत्यभिव्यापकः। यथा-तिलेषु तैलम् । यद्यप्यत्र तिले तैलस्य संयोगस्तथापि देशाविभागाल्लोके संयोगव्यवहारो नास्तीति पृथगुच्यते । विषयो ह्यनन्यत्र भावः । यथा - चक्षुरादीनां रूपादयो हि विषयाः, तत्र भवो वैषयिकः। पूर्ववदिकण् । यथा -दिवि देवाः। तथेति सामीपिकोऽप्याधार इत्यर्थः । तथाहि गङ्गया सह घोषस्य न संयोगो नाप्यभिव्याप्तिः, नापि विषयभावो घटते इत्यौपश्लेषिकादिभ्यः सामीपिको भिद्यते । अथवा यथा पूर्व औपश्लेषिकः, एवमेषोऽपीति तथाशब्देन
Page #102
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् सूच्यते । यथा गङ्गासमीपो देशो गङ्गेति, उपचारादिति त्रिविध एवाधारः । अगुल्यग्रे करिशतमिति औपचारिकोऽप्याधारः कैश्चिद् इष्यते। तद् अयुक्तम् । औपश्लेषिक एवायमपि सन्निविशते, उपचरितस्य करिशतस्य अगुल्यग्रविषयत्वादिति ।।२९६।
[क० च०]
य आधारः । आध्रियन्ते क्रिया यस्मिन्निति आधारः इति वृत्तिः, आध्रियन्ते आतिष्ठन्ति क्रिया यस्मिन्नित्यर्थः । सा च द्विविधा कर्तस्था कर्मस्था चेति । कर्तस्था यथा देवदत्तो गच्छतीत्यादि । अत्र पादविहरणात्मिका क्रिया कर्तर्येव प्रतीयते। कर्मस्था यथा ओदनं पचतीत्यादि, अत्र पचनक्रिया ओदननिष्ठत्वेन प्रतीयते । नन्वधिश्रयणादिरूपा पचनक्रिया कर्मस्थेति कथमुच्यते, यावता अधिश्रयणादिरूपा पचनक्रिया कर्तृस्थत्वेनैव प्रतीयते । कथमन्यथा देवदत्त ओदनं पचतीत्यत्र देवदत्तस्य कर्तृत्वं क्रियाश्रयत्वाभावात् ? सत्यम् । यद्यपि ओदनं पचतीत्यत्र कर्तुनिष्ठैव विक्लित्त्यनुकूलाधिश्रयणादिरूपा पचनक्रिया धातुवाच्या, तथापि धातुवाच्यक्रियैकदेशविक्लित्तिरूपस्य कर्मस्थत्वेन प्रतीयमानत्वात् पचिक्रिया कर्मस्थोच्यते । तां विक्लित्तिमादायैव स्थाल्यां पचतीत्यत्राधारः प्रतीयते, न त्वधिश्रयणादिरूपायाः पचिक्रियायाः परम्परयापि 'स्थाल्यां प्रवृत्तिरनुभूयते । न च विक्लित्तेः पदार्थैकदेशत्वाद् आकाङ्क्षाविरहेण कथमधिकरणान्वय इति वाच्यम्, आकाङ्क्षायाः फलवत्त्वकल्पनात् । एवं भिदेरपि फलरूपद्वैधीभावस्य कर्मनिष्ठत्वं बोध्यम् ।
यद् वा विक्लित्त्यादिरेव मुख्यत्वेन पचत्यादिवाच्यः, अधिश्रयणादिस्तु लक्षणयाभिधीयते । तदुक्तम् -
कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया।
अस्यासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया ॥ परत्वादिति। ननु कथं परत्वं संगच्छते, उभयोः सावकाशत्वाभावात् । यथा कटे आस्ते इत्यत्र कर्तव्यवहितत्वेन स्थितिक्रियाधारभूतत्वाद् अधिकरणस्य सावकाशता
१.अथ कथमिदमुक्तम् - परम्परया वृत्तिरस्त्येव । तथाहि स्वजन्याश्रयत्वरूपसंबन्धेन ? सत्यम् । एवम्भूतपरम्परासम्बन्धोऽस्ति, किन्तु कर्तृकर्मद्वारा परम्परासंबन्धो यदा तदैवाधिकरणम् । अत्र क्रियाद्वारापि व्यवधानमिति ।
२. ननूभयसावकाशतादृढीकरणे कथं कटे आस्ते इत्यत्राधिकरणस्य सावकाशता कर्तृकमणोरेव स्याद् इत्येवकारेण साक्षात् क्रियाधारभूतस्याधिकरणताभिप्रायतः ? सत्यम् । एवोऽप्यर्वे । ननु यदि कटे आस्ते इत्यत्र कर्तृव्यवहितेन स्थितिक्रियाधारभूतत्वाद् अधिकरणस्य सावकाशता इत्युच्यते, तदा न काचित् क्रिया कटादिषूपलभ्यते कयं तेषामधिकरणसंज्ञा कर्तृकर्मणोरेव स्यात्, क्रियाधारभूतत्वादिति पजी कथं संगच्छते, यावता क्रियाधारत्वाभावात् कटादावधिकरणसंज्ञा न भविष्यति,
Page #103
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः न तथा देवदत्तो गच्छति, ओदनं पचतीत्यादेरन्यत्र कर्तृकर्मणोः सावकाशत्वमस्तीति ? सत्यम्, अस्त्येव कर्तृकर्मणोः सावकाशत्वम् । तथाहि मुख्यक्रियासंबन्धेनाधिकरणत्वविधानाद् ‘ओदनं पचति' इत्यत्र विक्लित्तिरूपाया मुख्यक्रियायाः कर्मस्थत्वेन कर्माधिकरणयोर्विवादे लाक्षणिकाधिश्रयणादिक्रियायां कर्तुः सावकाशता । ग्राम गच्छतीत्यादौ पादविहरणात्मिकायाः क्रियायाः कर्तृस्थत्वेन कर्तृ-अधिकरणयोर्विवादे व्याप्ये ग्रामे कर्मणः सावकाशता | 'कटे आस्ते' इत्यधिकरणस्य 'सावकाशतेति परत्वादिति यदुक्तं तत् सङ्गतमेव ।
__ अन्ये तु यन्मते विक्लित्यनुकूलाधिश्रयणादिरूपो धात्वर्थस्तन्मते परत्वादित्यस्यार्थद्वयं विवक्षितम् । ओदनं पचतीत्यत्र कर्मसंज्ञां प्रति उभयोः सावकाशत्वे यत् परं तदेवोक्तम् । ग्रामं गच्छतीत्यत्र कर्मणः सावकाशत्वम् । कटे आस्ते इत्यधिकरणस्य | देवदत्तो गच्छतीत्यादौ कर्तृसंज्ञां प्रति अन्यत्रानवकाशत्वात् कर्तृसंज्ञैव स्यात् । अत एव न्यासकृतापि परत्वादनवकाशत्वादित्युक्तमिति । अतः कर्मस्थः पचतेर्भावः इत्यादि यदुक्तं तत् कर्मकर्तृस्थले बोद्धव्यम् । एतेन परम्परयेत्यादि, तेन क्रियाधारभूतकर्तृकर्मान्यतरद्वारा आधारभूतत्वमधिकरणत्वमिति लक्षणम् । तथा चोक्तम् -
क्रियाश्रयो हि कर्ता वा कर्म चेति व्यवस्थितम् । तयोरन्यतरद्वारा क्रियाधारस्य संज्ञिता ॥
क्रियाधारभूतत्वात् कर्तृकर्मणोरेव स्यादित्यवधारितं पञीकृता, नैवम् । अभिप्रायापरिज्ञानात् । न च काचित् क्रिया इत्यादिपजीपङ्क्तेरयमर्थः - न च काचित् क्रिया कटादिषु समवायसंबन्धेनोपलभ्यते इति नहि । किन्तु व्यवहितसंबन्धे उपलभ्यते कथं तेषामेवाधिकरणसंज्ञा कर्तृकर्मणोरपि स्यात् क्रियाधारभूतत्वादित्येवशब्दस्य कथं तेषामित्यनेनान्वयाददोषः । एतेन व्यवहितसंबन्धेन क्रियाधारत्वात् कटस्य समवायसम्बन्धेन क्रियाधारभूतत्वात् कर्तृकर्मणोरपि स्याद् इत्यायातम् ।
१. ननु मुख्यक्रियासम्बन्धेनाधिकरणविधाने कटे आस्ते इत्यत्र कथमधिकरणसावकाशता क्रियाया गौणसंबन्धाद् येन परत्वसङ्गतिः ? सत्यम् । क्रियाधारभूतत्वेन कर्तृकर्मणोरेव गौणमुख्यचिन्ताव्यवहारः, न तु कर्तृकर्मभिन्नस्य । एवं च सति न काचित् क्षतिरिति भावः । अथवा क्रियाया एव गौणमुख्यविचारे 'कटे आस्ते' इत्यत्र मुख्यक्रिया अस्त्येव । केवलं पचतीत्यत्र लाक्षणिकाधिश्रयणादिक्रियायाः कर्तृस्थत्वात् क्रियाया गौणत्वमेव ।
२. ननु ग्रामं गच्छतीत्यत्र कर्मसंज्ञायाः सावकाशत्वं तैः कथमुक्तम् । ओदनं पचतीत्यत्र विक्लित्तिरूपफलक्रियाश्रयस्य ओदनस्येवात्रापि संयोगरूपफलक्रियाश्रयस्य ग्रामस्याधिकरणताप्रसङ्गात् ? सत्यम् । तन्मते स्थाल्याम् आगारे ओदनं पचतीत्यत्र कर्मगतविक्लित्तिरूपफलक्रियाश्रयत्वेन स्थाल्याः कर्तृगताधिश्रयणादिरूपव्यापाराश्रयत्वेनागारस्याधिकरणतादर्शनात् तदुभयमेव मुख्यतया पचिवाच्यम्, गमेस्तु पादविहरणमेव तत्र निर्देशात् ।
Page #104
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
एतदेव वृद्धमतानुसारेण द्रढयति तथा चोक्तमित्यादिना । असाक्षात् क्रियां धारयत् परम्परया आत्मनि क्रियासामान्यमवस्थापयद् अधिकरणमित्यर्थः । कथमत्र असाक्षाद् धारणमित्याह - कर्तृकर्मव्यवहितामिति। कथं तर्हि क्रियानिमित्तमित्याह - उपकुर्वदिति। कटे आस्ते इत्यादिषु स्थित्यादिक्रियासिद्धौ उपकुर्वद् उपकारं कुर्वद् हेतुरित्यर्थः । अन्यथा यदि कटो न स्यात् तदा देवदत्तादेरधः पतने स्थितिरेव न स्यात् । ननु यदि परम्परया क्रियाधारोऽधिकरणं तदा यत्र साक्षात् क्रियाधारत्वं तत्र कथं स्यात् । यथा गले बद्ध्वा गौर्नीयते इति ? सत्यम् । अवयवेऽपि अवयवी विद्यते इति यन्मतम्, तन्मते गलेऽपि बन्धनक्रियाधारो गौर्विद्यते इति न दोषः । चैत्रे स्थितिरित्यादौ तु अस्तिक्रियाध्याहारान्न दोषः।
यद् वा यदेव क्रियाधारभूतत्वेन विवक्ष्यते, तदेवाधिकरणम् । परम्परया क्रियाधारभूताधिकरणत्वमिति यदुक्तं पत्रिकायां तदुपलक्षणं वेदितव्यम् । तेन कर्तृकर्मान्यतरद्वारा साक्षाद् वा क्रियाधारत्वमधिकरणत्वम् इति । अत एव यत्र कर्मादिकं विवक्ष्यते तत्राप्यधिकरणव्यवहार इष्ट एव । केवलं संज्ञान्तरबाधया सप्तमी न साधु, किन्तु विवक्षायाः प्राधान्यात् 'स्थाल्या पचति, स्थाली पचति, स्थाल्यां पचति, स्थालीं पचति' इत्यादि । न च स्थाल्यामागारे पचतीत्यत्र कथम् आगारस्याधिकरणसंज्ञा, स्थाल्या एव कर्माधारत्वादिति वाच्यम्, अधिश्रयणादिक्रियां प्रति कर्तृद्वारा आगारस्याप्यधिकरणत्वम् । स त्रिविध इत्यादि । तदुक्तम् -
औपश्लेषिको वैषयिकश्चाभिव्यापक एव च।
आधारस्त्रिविधो ज्ञेयः कटाकाशतिलादिषु ॥ इति । आधाराधेययोरित्यादि। आधाराधेययोर्मध्ये आधेयेन तैलादिना सह तुल्यजन्मा यः शक्तिविशेषः सोऽधिकरणम् । शक्तिशक्तिमतोरभेदाद् आधारपदेनात्र तिलादिरुच्यते । अपृथग्देशभागानामिति । न पृथरदेशभागोऽपृथग्देशभाग इत्याधारस्य तिलस्य सर्वदेशभागम् अभिव्याप्य तिष्ठतीत्यभिव्यापक इति कर्तरि वुण् । न च तैलादिकस्याभिव्यापक
९. ननु मुख्यक्रियाधारभूतत्वम् अधिकरणत्वमिति प्रागुक्तम् । अत्र कथलाक्षणिकाधिश्रयणादिक्रियां प्रति कर्तृद्वारा गृहस्यापि आधारत्वम् इत्युच्यते ? सत्यम् । विक्लित्त्यनुकूलाधिश्रयणादित्वरूपो धात्वर्थ इति यन्मतं तन्मतमवलम्ब्योक्तमिति।
Page #105
--------------------------------------------------------------------------
________________
६३
नामचतुष्टयाध्याये चतुर्थः कारकपादः त्वात् कथं तिलादिकम् अभिव्यापकमुच्यते, कर्मणि वुणोऽसाधुत्वादिति वाच्यम्, तिलादेः सर्वभागाभिव्यापकस्य शक्तिविशेषस्याभिव्यापकशब्दवाच्यत्वादिति ।
___ अन्ये तु अभिव्यापकशब्दवाच्यस्य तैलादेः सम्बन्धशालित्वात् तिलादिकमभिव्यापकमुच्यते इत्याहुः । यद्यपीत्यादि । पृथगुच्यते इति । औपश्लेषिकात् पृथगुच्यते । अभिव्यापकत्वेन व्यपदिश्यते इत्यर्थः । वस्तुतो घटे रूपमस्तीत्यादिकं मुख्यमभिव्यापकमुदाहर्तव्यम् । 'तिलेषु तैलम्' इत्यौपश्लेषिकमेव । नन्वत्राधाराधेययोरन्यत्र सिद्धत्वेनानुपलम्भात् कथमुपश्लेषः ? सत्यम् । दृष्टादृष्टपरमाणवस्तिलेषु संविशन्तीति यन्मतं तन्मतमवलम्ब्योक्तम् । अन्ये तु अन्यत्र सिद्धयोरिति यदुक्तं तदुपलक्षणं न तु विशेषणम्, किन्तु गुणरूपसंबन्धविशेष उपश्लेष इति उपश्लेषलक्षणम् । विषयो हनन्यत्रभावः इति । न विद्यते अन्यत्र भावो यस्मात् स विषयः, यस्मादन्यत्राधेयस्य सद्भावो न विद्यते । यथा चक्षुरादिवृत्तीनां रूपादेरन्यत्राभावाच्चक्षुरादीनां रूपादयो विषया उच्यन्ते । एवं दिवोऽन्यत्र देवानां स्थितेरभावाद् ‘दिवि देवाः' इत्युदाहरणम् । ननु विषये भवो वैषयिक आधेय एव स्यात् तत् कथम् आधारो वैषयिक इत्युच्यते ? सत्यम् । वैषयिकेणाधेयेन सम्बन्धादाधारोऽपि वैषयिक उच्यते । वस्तुतस्तु शक्तिविशेषस्य विषये भवत्वात् स एव शक्तिरूपो वैषयिक इति न दोषः। ननु आकाशादन्यत्रापि देवानां सद्भावदर्शनात् कथं 'दिवि देवाः' इति विषयस्योदाहरणम्, यतो द्रव्यद्वयस्य संबन्धाद् उपश्लेष एव गम्यते । यथा 'कटे आस्ते' इत्यादि ? सत्यम् । वस्तुतो नेदमुदाहरणम्, किन्तु देवानाम् आकाश एव स्थितिः प्रसिद्धा । आकाशस्यामूर्तत्वेन संयोगस्य प्रतीयमानत्वान्नोदाहरणम् । तस्माद् विषयो ह्यनन्यभावः ।
अस्यायमर्थः । 'न विद्यते आधाराधेयाभ्यामन्यत्र समवाये संयोगे च भावो यस्य स तथा । औपश्लेषिकाभिव्यापकौ हि आधाराधेयसंयोगसमवायान्यतरेणाधाराधेयाभ्यां चैतत्रितयनिमित्ते निरूप्येते । वैषयिकस्तु केवलम् आधाराधेयाभ्यामेव निरूप्यत इति।
१०. न विद्यते आधारघटकाभ्याम् आधाराधेयाभ्यामन्यत्राधेयतानिरूपके संयोगे समवाये वा भावः सत्ता निरूपितत्वसंबन्धेन यस्य स्वरूपादिसंबन्धघटितः शक्तिविशेषविषय इति । एवं च 'कटे आस्ते' इत्यादौ कटनिष्ठाधिकरणता आधाराधेयाभ्यां संयोगेन च निरूप्यते इति । अत्रौपश्लेषिकः । घटे घटत्वमित्यादौ आधाराधेयाभ्यां समवायेन चाधिकरणता निरूप्यत इत्यभिव्यापकः। 'भूतले घटाभावः' इत्यादौ तु आधाराधेयाभ्यां (तदन्य) स्वरूपादिसंबन्धेन चाधिकरणता निरूप्यते ततो वैषयिकः इति ।
Page #106
--------------------------------------------------------------------------
________________
६४
कातन्त्रव्याकरणम् अस्य मुख्योदाहरणं पुनरिह 'भूतले घटाभावः' इति। अत्राधाराधेययोर्भूतलघटाभावयोर्न संयोगो नापि समवायः, अभावस्य द्रव्यत्वगुणत्वाभावादिति । तथेति । तन्मते सामीप्यार्थस्य सप्तमीविभक्तिवाच्यत्वात् 'लक्षणा न क्रियते इति 'आधारस्त्रिविधो शेयः' इति सर्वतान्त्रिकत्वाद् वररुचिमतमपास्तम् । यथाह-अथवेति ।।२९६।
[समीक्षा]
आधार की अधिकरणसंज्ञा पाणिनि तथा शर्ववर्मा दोनों ही शाब्दिकाचार्यों ने की है | पाणिनि का सूत्र है - "आधारोऽधिकरणम्" (अ०१।४।४५)। व्याख्याकारों ने आधार उसे कहा है, जिसमें क्रिया रहती हो । क्रिया साक्षात् संबन्ध से कहीं कर्ता में और कहीं कर्म में रहती है। अतः कर्त-कर्मसंज्ञा की बाधिका यह अधिकरणसंज्ञा सिद्ध न हो, इसलिए व्याख्याकारों का अभिमत है कि कर्ता और कर्म साक्षात् संबन्ध से जिसके आश्रय होंगे, वही आधार माना जाएगा और इसी आधार की अधिकरणसंज्ञा प्रवृत्त होगी । इस प्रकार परम्परा से क्रिया के आधार को अधिकरण कहेंगे - 'परम्परया क्रियाधारभूतत्वम् अधिकरणत्वम्'।
सामान्यतया आधार तीन माने जाते हैं - औपश्लेषिक, वैषयिक तथा अभिव्यापक । परन्तु इनके अतिरिक्त सामीपिक, औपचारिक एवं नैमित्तिक आधारों को भी व्याख्याकारों ने स्वीकार किया है । एक श्लोक में इन सभी के उदाहरण मिल जाते हैं
कटे शेते कुमारोऽसौ वटे गावः सुशेरते। तिलेषु वियते तैलं हृदि ब्रह्मामृतं परम् ॥ युद्धे संनह्मते धीरोऽगुल्यग्रे करिणां शतम् ॥
__ (द्र०,सि० च०-पृ० २४८, “आधारे सप्तमी")।
१. तथा चास्मिन् पक्षे औपश्लेषिकः प्रकृष्टः न पुनर्वररुचिमतसिद्धम् औपचारिकम् अतिरिक्ताधारं निरस्यति । अमुल्यम्र इति । स्वमते त्वौपश्लेषिक एवौपचारिकः प्रकृष्टो नातिरिक्त इत्यर्थः । उपचरितस्य करिशतस्येति करिशतमूल्यस्येत्यर्थः । स्वमते आधारवाचक एवोपचारः । वररुचिस्तु आधारे अमुल्यग्रबोधितस्थाने करिशतमिति उपचाराश्रित्या औपचारिकाधारमाहेति विशेषः । स्वमतेऽप्यौपचारिकोपश्लेषघटने बाधकाभाव इति ।
Page #107
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
यह ज्ञातव्य है कि पाणिनीय व्याख्याकार अभिव्यापक आधार का उदाहरण प्रायः 'तिलेषु तैलम् ' प्रस्तुत करते हैं, परन्तु तिलसर्वांश में तैल की अभिव्याप्ति न देखे जाने के कारण (कल्कांश के भी रहने से ) कातन्त्रव्याख्याकार 'दिवि देवाः ' उदाहरण समीचीन मानते हैं। किसी ने इसे वैषयिक आधार का भी उदाहरण माना है ।
६५
व्याख्याकारों के द्रष्टव्य विशेष वचन -
१ . स आधारश्चतुर्विधः – औपश्लेषिकः, अभिव्यापकः, वैषयिकः, सामीपिकश्चेति (दु० टी० ) ।
२. अन्यथा प्रतिपत्तिरियं गरीयसीति ( दु० टी० ) ।
३. औपचारिकोऽप्याधारः कैश्चिदिष्यते, तदयुक्तम् (वि० प० ) ।
४. सा (क्रिया) च द्विविधा - कर्तृस्था कर्मस्था चेति (क० च० ) ।
५. तुल्यजन्मा यः शक्तिविशेषः सोऽधिकरणम् (क० च० ) । ६. शक्तिशक्तिमतोरभेदादाधारपदेनात्र तिलादिरुच्यते (क० च० ) ।
७. ‘आधारस्त्रिविधो ज्ञेय:' इति सर्वतान्त्रिकत्वाद् वररुचिमतमपास्तम् (क० च०)। ‘निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः ' ( ना० शा० १४ । २३) इस वचन में प्रभृतिशब्द से अधिकरण का भी बोध होने के कारण इसे पूर्वाचार्यप्रयुक्त ही कहा जा सकता है । इस विषय में भाष्यव्याख्याप्रपञ्चकारद्वारा प्रस्तुत भागुरिमत भी द्रष्टव्य है ( पृ० १२९ ) ।
अर्वाचीन शाब्दिकाचार्यों ने भी इस संज्ञा का प्रयोग किया है । यथाजैनेन्द्रव्याकरण - आधारोऽधिकरण: ( १ । २।११६)। हैमशब्दानुशासन - क्रियाश्रयस्याधारोऽधिकरणम् (२।२।३० ) | मुग्धबोधव्याकरण - कालभावाधारं डंप्ती (सू० ३०९) ।
अग्निपुराण - आधारो योऽधिकरणं विभक्तिस्तत्र सप्तमी ( ३५० | २८ ) । नारदपुराण - ड्योस्सुपः सप्तमी तु स्यात् सा चाधिकरणे भवेत् || आधारे चापि ।। (५२।८-९) ।
-
Page #108
--------------------------------------------------------------------------
________________
६६
कातन्त्रव्याकरणम्
शब्दशक्तिप्रकाशिका - यत्क्रियायां यादृशार्थः सप्तम्या विग्रहस्थया । बोध्यस्तस्यां तदेवाधिकरणं नाम कारकम् ।। ( कारिका ७२ ) ।
[ रूपसिद्धि ]
१ . कटे आस्ते । औपश्लेषिक आधार । प्रकृत सूत्र से 'कट' की अधिकरणसंज्ञा तथा " शेषाः कर्मकरण०" (२।४।१९) इत्यादि से सप्तमी विभक्ति ।
२. तिलेषु तैलम् । अभिव्यापक आधार । 'तिल' की अधिकरणसंज्ञा तथा सप्तमी विभक्ति ।
३. दिवि देवाः। वैषयिक आधार । 'दिव्' की अधिकरण संज्ञा तथा सप्तमी विभक्ति का प्रयोग || २९६ ।
२९७ येन क्रियते तत् करणम् [ २|४|१२]
[ सूत्रार्थ ]
कर्ता जिसके द्वारा कोई क्रिया करता है, उसकी 'करण' संज्ञा होती है ।। २९७| [दु० वृ० ]
कर्त्रा येन क्रियते तत् कारकं करणसंज्ञं भवति । दात्रेण धान्यं लुनाति । मनसा मेरुं गच्छति । तथा पशुना रुद्रं यजते । प्रकृत्याभिरूपः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । शतेन परिक्रीतः । शताय परिक्रीतः । ' त्वं मासं कर्म करिष्यसि ' इति । प्रधानक्रियापेक्षं तादर्थ्यम् । करणप्रदेशाः " करणे तृतीया ” (२।४।१९)
इत्येवमादयः ।। २९७।
-
[दु० टी० ]
येन० । येन क्रियते इत्यनेनैतत् सूचितम् । क्रियासिद्धौ यत् प्रकृष्टोपकारकम्
अन्तरङ्गं तद् विवक्षितं करणमिति । तथा चाह -
कारकाव्यवधानेन
क्रियानिष्पत्तिकारणम् ।
यद् वै विवक्षितं तेषु करणं तत् प्रकीर्तितम् ॥
Page #109
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
६७
परशुश्छिनत्ति, परशौ छिनत्तीत्यत्रापि विवक्षया स्थाल्या पचति ( स्थालीम् ) । स्थलेन निर्वातेन पचतीति । अतो वस्तुतस्तत् करणम् अनिर्देश्यम् इदं तदिति ।
तथा चाह
-
वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् ।
स्थाल्या पचत इत्येषा विवक्षा दृश्यते यतः ॥ ( वा० प०३ । ७ ।९१ ) । कथन्तर्हि 'अश्वेन पथा गच्छति' इति पथः क्रियानिष्पत्तौ व्यवहितव्यापारत्वात् । नैवम्, प्रकर्षस्य हि करणेतरजात्यपेक्षत्वात् । उक्तं च
स्वकक्षासु प्रकर्षश्च करणानां न विद्यते ।
आश्रितातिशयत्वस्य परत्वस्य च लक्षणम् ॥ ( वा०प०३ । ७ ।९३) इति ।
तच्च करणं द्विविधम् बाह्यम् आभ्यन्तरं चेत्याह - मनसेत्यादि । तथेत्यादि । यजिरत्र फलभावनायां पशुयागेन रुद्राख्यं फलं भावयतीत्यर्थः । अन्यस्त्वाह - 'पशुना रुद्रं यजते' इति। यद्यपि 'पशुं रुद्राय ददाति' इति वस्त्वर्थः । शब्दार्थस्तु पशुना देयेन रुद्रं पूजयतीति विवक्षया सिद्धम् । प्रकृत्यादीनामपि करणत्वमस्ति भवतेर्गम्यमानत्वात् । तथाहि अभिरूपभवने प्रकृतिः करणम् । याज्ञिकभवने प्रायः करणम् । 'प्रायेण याज्ञिकः' इत्यसावपि याज्ञिको भवति । गार्ग्यस्य भवने गोत्रं करणम् । तेन हि गार्यो भवति, यद्यन्यगोत्रोऽसौ न गार्ग्य: । क्रयं प्रति द्विद्रोणपञ्चकौ करणम् । तथाहि द्विद्रोण - पञ्चकार्थं हिरण्यं द्विद्रोणपञ्चक उच्यते । यथा प्रदीपार्था मल्लिका प्रदीपः इति । तथा क्रीणातेर्वाकरणस्य सम्प्रदानसंज्ञा न वक्तव्या । 'मासं कर्म करिष्यसि' इति गम्यमानं क्रियापदम् । तच्च प्रधानम्, साध्यत्वात् तदपेक्षया तादर्थ्यमस्तीति भावः । परि समन्तात् क्रीतः परिक्रीतः । नियतकालं स्वीकृतो मूल्यादिनेत्यर्थः । अथवा मूल्येन शतादिना नियतो यः कालो मासादिः स शतमुच्यते, उपचारात् ॥ २९७ ।
,
[वि० प० ]
येन० । येन क्रियते इति । क्रियासिद्धौ यद्यपि बहूनि साधनानि व्याप्रियन्ते तथापि तेषु मध्येऽनेनैतत् करोमीति कर्त्रा यत् प्रकृष्टोपकारकम् अन्तरङ्गं विवक्षितम्, तत् करणम् इत्यर्थः । तथा चोक्तम् -
कारकाव्यवधानेन
क्रियानिष्पत्तिकारणम् ।
यद् वै विवक्षितं तेषु करणं तत् प्रकीर्तितम् ॥
Page #110
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् तच्च द्विविधम् - बाह्यम् आभ्यन्तरं चेति । क्रमेण दर्शयति-दात्रेणेत्यादि । 'यजेः कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा' न वक्तव्येत्याह - तथेति । यद्यपि 'पशुं रुद्राय ददाति' इति वस्त्वर्थः, तथापि शब्दार्थः पुनः पशुना देयेन रुद्रं पूजयतीति । शब्दप्रमाणकाश्च वैयाकरणाः इति सिद्धं पशोः करणत्वम् । तथा 'प्रकृत्यादिभ्यः उपसंख्यानम्' (का० २।३।१८ - वा०) इत्यपि न वक्तव्यम् भवतेर्गम्यमानत्वात् करणत्वमस्ति । तथाहि 'प्रकृत्याभिरूपः' इत्युक्ते प्रकृत्या अभिरूपो भवतीति गम्यते, अतोऽभिरूपभवने प्रकृतिः करणम् । एवं 'प्रायेण याज्ञिकः' इति। तथा ‘गोत्रेण गार्यः' इति । गार्यस्य भवने ज्ञाने वा गोत्रं करणम् । तेन हि गार्यो भवति ज्ञायते वा । समेन धावति, विषमेण धावतीति । यद्यपि क्रियाऽत्र विद्यते, तथापि समविषमयोः कर्मत्वे प्राप्ते करणत्वं विवक्ष्यते । कथन्तर्हि 'द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन पशून क्रीणाति' इत्यत्र करणत्वम् ? तथाहि द्विद्रोणेन धान्यं क्रीणातीति द्वौ द्वौ द्रोणौ कृत्वा धान्यं क्रीणात्ययमर्थो विवक्षितः । तथा पञ्चकेन पशून क्रीणातीति पञ्च परिमाणमस्येति पञ्चकः सङ्घः । पञ्चकं सङ्घ कृत्वा पशून् क्रीणातीति पञ्च पञ्च कृत्वा पशून् क्रीणात्ययमर्थः । एवं च सति द्वितीया प्राप्नोति ? सत्यम् । द्विद्रोणपञ्चकार्थं हिरण्यं द्विद्रोणपञ्चकमुच्यते, तादर्थ्यात् । यथा प्रदीपा मल्लिका प्रदीप इति ।
तथा "परिक्रयणे सम्प्रदानमन्यतरस्याम्" (अ० १।४।४४) इत्यपि न वक्तव्यम्, यतः परिपूर्वस्य क्रीणातेः करणस्य विभाषया चतुर्थी न्यायादेव सिद्धेत्याह - प्रधानक्रियापेक्षन्तादर्थ्यमिति । मासं कर्म करिष्यसीति किमर्थं शताय शतपरिशोधनायेत्यर्थः । अथवा परि समन्तात् क्रीतः परिक्रीतः । नियतकालो मूल्यादिना स्वीकृतः, न पुनः सर्वथा क्रीत उच्यते । यदाह जयादित्यः - नात्यस्तिकक्रिय एवेति, ततश्च शतेन मूल्यादिना यो नियतः कालो मासादिः स उपचारात् शतमुच्यते । तत्र च तादर्थ्य स्फुटमस्तीति ।।२९७।
[क० च०]
येन० । ननु “साधकतमं करणम्" (अ० १।४।४२) इति पाणिनिः। तन्मते तमग्रहणात् क्रियासिद्धौ यत् प्रकृष्टं साधकं तत् करणम् इत्यर्थो लभ्यते । तदभावादस्मन्मते किं स्यादिति चेत्, उच्यते - शब्दानां नित्यत्वाद् 'येन' इति करणे तृतीयाविधानाद् येन साधकतमेनेत्यर्थो लभ्यते । अथ तर्हि कर्तुरपि प्रकृष्टसाधकत्वाद्
Page #111
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः अस्यापि करणत्वं स्यादिति । नैवम्, क्रियते इति क्रियापदं तच्च कर्तारमन्तरेण न संभवतीति कर्तेति लभ्यते । तेनायमर्थः- क; येन साधकतमेन क्रिया क्रियते तत् करणमित्युक्ते कथं कर्तुः संज्ञेति । अतः कर्तृव्यापारविषयं यत् कारकं क्रियासिद्धी कर्तुळवधायकं तत् करणमित्यर्थः। प्रकृष्टत्वं चास्य कारकान्तराव्यवधानेन क्रियायाः साधकत्वात् । तदुक्तम् -
करणं खलु सर्वत्र कर्तृव्यापारगोचरः।
तिरोदधाति कर्तारं प्राधान्यं तनिबन्धनम् ॥ (यद्यपि करिं व्यवदधाति तथापि करणप्रवृत्तिहेतुत्वेन कतुरेव प्राधान्यमिति कुलचन्द्रः) । न च साधकशब्दस्य वुण्प्रत्ययान्तस्य कर्तृपरत्वात् कतुरेव संज्ञा स्यादिति वाच्यम्, स्वव्यापारे करणस्यापि कर्तृत्वात्। अतः साधकशब्दस्य वुणन्तस्य करणेऽपि साधुत्वमिति । अत एवान्तरङ्गमिति पनी। अव्यवधानेन कार्योत्पादकत्वमित्यर्थः । नन्वनेन न्यायेन ‘दात्रेण धान्यं लुनाति' इत्यत्र भवतु, 'काष्ठैः स्थाल्यामोदनं पचति' इत्यत्र स्थाल्या एवाव्यवधानेन विक्लित्तिक्रियासाधकत्वात् करणसंज्ञा स्यात् न काष्ठस्येत्याह-विवक्षितमिति । एतेन क्रियासिद्धावव्यवधानेन यस्य कार्योत्पादकत्वं विवक्ष्यते तत् करणमिति। अत्र तु काष्ठानामव्यवधानेन कार्योत्पादकत्वं विवक्षितम् । तथा च टीकायाम् - (पा० वा० र०, पृ० ६४२-४३)
वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् ।
स्थाल्या पचत इत्येषा विवक्षा दृश्यते यतः॥इति। कर्मत्वे प्राप्ते इति पञी। क्रियाविशेषणत्वादिति शेषः । कुलचन्द्रस्त्वत्र सप्तमी प्राप्ताविति वदति, तन्मते समशब्दोपदेशपरः । कर्मबाधकपक्षे तु समशब्दः साम्यपरः । एवं विषमशब्दोऽपि । ननु यत्र प्रधानक्रिया न विवक्ष्यते, यथा 'शताय परिक्रीतो हसति' इति। न ह्यत्र हसनं शतपरिशोधनायेति वाच्यम् । अत्र कथं तादर्थ्यमित्याह-अथवेति ।
१. अस्यार्थः । कर्तारं तिरोदधाति व्यवधत्ते क्रियासिद्धेस्तदन्त वित्वात् । तर्हि करणस्यैव प्राधान्यं तत् कथं स्वतन्त्रः कर्ता इत्याह-प्राधान्यमिति । कुतः प्राधान्यं तन्निबन्धनं कर्तनिबन्धनं यस्मादेवंभूतस्यापि करणस्य कर्ता प्रेरक इति स्वतन्त्रः कर्ता भवति । यद्यपि तिरो दधाति तथापि करणप्रवृत्तिहेतुत्वेन कर्तुः प्राधान्यमिति कुलचन्द्रः।
Page #112
--------------------------------------------------------------------------
________________
कातवव्याकरणम् नियतकाल इति । नियतः कालो यस्येति बहुव्रीहिणा पुरुष उच्यते । यद्यपि पूर्वपक्षेऽपि नात्यन्तिकक्रयो विवक्षितः । 'शताय' इत्यत्रापि शतपरिशोधने लक्षणा, तथापि अस्मात् पूर्वस्य विशेषः । तथाहि पूर्वपक्षे शतशब्दस्य शतपरिशोधने लक्षणा। अस्मिन् पक्षे कालविशेषे, पूर्वपक्षे करोतिक्रियापेक्ष्यं तादर्थ्यम् । अत्र विक्रमणक्रियापेक्षेति भेदः ।।२९७।
[समीक्षा]
क्रिया की सिद्धि में अपेक्षित अनेक साधनों में से कर्ता जिस साधन को अन्तरङ्ग समझकर उससे कार्य करने का निश्चय करता है, उसकी करणसंज्ञा दोनों व्याकरणों में की गई है | पाणिनि का सूत्र है - "साधकतमं करणम्" (अ० १।४।४२) । करण दो प्रकार का होता है – १. बाह्य । जैसे - दात्रेण धान्यं लुनाति | २. आभ्यन्तर । जैसे- मनसा मेरुं गच्छति |
'निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः' (ना० शा० १४।२३) इस नाट्यशास्त्रीय वचन में 'प्रभृति' शब्द से 'करण' का भी उपादान होने के कारण इसकी प्राचीनता तथा प्रामाणिकता सिद्ध होती है । 'अव्यवधानेन क्रियते येन तत्' इस व्युत्पत्ति के बल पर करण को अन्वर्थ माना जाता है। अर्वाचीन व्याकरणों में भी यह संज्ञा उपलब्ध होती है। जैसे
जैनेन्द्रव्याकरण- साधकतमं करणम् (१।२।११४)। हैमशब्दानुशासन - साधकतमं करणम् (२।२।२४) । मुग्धबोधव्याकरण- साधनहेतुविशेषणभेदकं घं कतघिस्त्री (सू० २८८)। अग्निपुराण - क्रियते येन करणम् । अनुक्ते तिङ्कृत्तद्धितैस्तृतीया करणे भवेत्
(३५०।२५)। नारदपुराण-येन क्रियते तत् करणम् ।। (५२।५)। शब्दशक्तिप्रकाशिका - योऽर्थो विकरणाक्तस्य धातोरर्थे तृतीयया ।
वोध्यते करणं नाम कारकं तदिहोच्यते ।।(कारिका ७१)
Page #113
--------------------------------------------------------------------------
________________
७१
नामचतुष्टयाध्याये चतुर्थः कारकपादः [रूपसिद्धि]
१. दात्रेण धान्यं लुनाति। बाह्य करण | धान्यलवन का अन्तरङ्ग साधन होने के कारण ‘दात्र' की प्रकृत सूत्र द्वारा करणसंज्ञा तथा “शेषाः कर्मकरण" (२।४।१९) इत्यादि से तृतीया विभक्ति ।
२. मनसा मेरुं गच्छति ।आभ्यन्तर करण | मेरुगमन में अन्तरङ्ग साधन होने के कारण मन की करणसंज्ञा तथा उसमें "शेषाः कर्मकरण०" (२।४।१९) इत्यादि से तृतीया विभक्ति।
३-११. पशुना रुद्रं यजते, प्रकृत्या अभिरूपः, प्रायेण याज्ञिकः, गोत्रेण गार्यः, समेन धावति, विषमेण धावति, द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन पशून् क्रीणाति, शतेन परिक्रीतः । कातन्त्रीय व्याख्या के अनुसार 'पशु, प्रकृति, प्राय, गोत्र, सम, विषम, द्विद्रोण, पञ्चक तथा शत' शब्द की करणसंज्ञा तथा तृतीया विभक्ति ।।२९७।
___२९८. यत् क्रियते तत् कर्म [२।४।१३] [सूत्रार्थ]
कर्ता के द्वारा जिसे किया जाता है, उसकी कर्मसंज्ञा होती है । अर्थात् कर्ता की क्रिया से उत्पन्न फल के आश्रय की कर्मसंज्ञा होती है ।।२९८|
[दु० वृ०]
क; यत् क्रियते तत् कारकं कर्मसंज्ञं भवति । कटं करोति । ओदनं पचति । आदित्यं पश्यति। तथा – अहिं लङ्घयति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । तथा स्तोकं पचति । गां दोग्धि पयः । पौरवं गां याचते । गाम् अवरुणद्धि व्रजम् । छात्रं पन्थानं पृच्छति। पौरवं गां भिक्षते | वृक्षमवचिनोति फलानि । शिष्यं धर्मं ब्रूते । शिष्यं धर्ममनुशास्ति । अजां नयति ग्रामम् । ग्रामं वहति भारम् । हरते कुम्भं भारम् । ग्राम छात्रशतं जयति । गर्गान् शतं दण्डयति । ग्रामम् अधिशेते । ग्रामम् अधितिष्ठति । वृक्षमध्यास्ते | धर्मम् अभिनिविशते । त्रिरात्रम् उपवसति | पर्वतम् अधिवसति । आवसथमावसति । अक्षान् दीव्यति । 'अक्षैर्दीव्यति' इति करणविवक्षा | मासं गुडधानाः । क्रोशं कुटिला नदी। भवतेर्गम्यमानत्वात् । कर्मप्रदेशाः – “कर्मणि द्वितीया" (२।४।१९) इत्येवमादयः ।।२९८|
Page #114
--------------------------------------------------------------------------
________________
७२
कातन्त्रव्याकरणम्
- [दु० टी०]
यत् । करोतेरर्थः क्रियाव्यापारः । स च सर्वधातुस्थितस्तथा चाह - क्रियाभावो धातुरिति । कर्तारमन्तरेण क्रिया न सम्भवतीत्याह - क; यत् क्रियते इति । भेदे पुनरयमर्थः- कर्तुः क्रियया यद् व्याप्यते इति । कथं पुनरेतल्लभ्यते । क्रियया पूर्वकालभाविन्या यदप्राप्तं प्राप्यते तत् साधनं कर्मेति । आख्यातं हि क्रियाप्रधानम् । क्रियाया एव कर्मसंज्ञा स्यात् । अथ क्रियाया अमूर्तायाः कर्मत्वमनुपकारकम् इति क्रियानिमित्तस्य साधनस्य भवतीह प्रत्ययनिर्देशाच्चानुमीयते । अन्यथा क्रिया कर्मेति विदध्यात् । न्यायस्तु वस्तुतः पदमात्रे क्रियायाः प्राधान्यम्, वाक्ये फलपदसंबन्धे तूपकारिका क्रिया, उपकार्यं च फलमिति । यदिति फलपदमिह निर्दिश्यते। तच्च कर्म त्रिविधम् - निर्वर्त्यम्, विकार्यम्, प्राप्यं च । अन्यः पुनराह - बहुप्रकारमपि -
निर्वयं च विकार्यं च प्राप्यं चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम् ॥
औदासीन्येन यत् प्राप्तं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं कर्म यच्चान्यपूर्वकम् ॥
(वा०प०३।७।४५,४६) इति । तदेतद् बहुप्रकारमपि अन्तर्भावेन वृत्तौ दर्शितम् । प्राप्तिस्तु बहुप्रकारा। यथा, कटं करोति । संयोगं जनयतीति अभूतप्रादुर्भावलक्षणा। कर्तृव्यापारेण कटादेः स्वरूपप्रतिलम्भात् ततः स्वरूपप्रतिलम्भ एव निवर्त्यकर्मणो व्याप्तिः । सांख्यादिसत्त्वाददर्शनेऽप्याविर्भावस्य शक्त्यवस्थायामभावाद् अपूर्वोत्त्पत्तिरेव । विकार्ये तु विकारोत्पत्तिलक्षणा काशान् कटं करोति काशद्रव्याणां कर्तृक्रियासन्निवेशविशेषतो विक्रीयमाणत्वाद् विकारप्रापणमत्र व्याप्तिः। एवं तण्डुलानोदनं पचतीति । अन्यस्त्वाह - ओदनशब्दस्तण्डुलवृत्तिरूपस्तण्डुलान् पचतीत्यर्थः । अथवा तण्डुलान् विकारयन् ओदनं निवर्तयतीति स्वभावाद् व्यर्थः पचिः । विकार्यं तु-काष्ठं भस्म करोतीति सुवर्ण कुण्डलं करोतीति
यदसज्जायते पूर्व जन्मना यत् प्रकाशते। तन्निर्वयं विकार्य च कर्म द्वेधा व्यवस्थितम् ॥
Page #115
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥
७३
( वा० प०३ । ७ । ४९,५०) ।
ग्रामं गच्छतीत्यादौ प्राप्ये कर्मणि संयोगलक्षणया गतिक्रियया ग्रामस्य प्राप्यमाणत्वात् । भारं वहतीत्यादावपि अभिमतदेशं प्राप्यमाणो भारः कर्तृव्यापारेणोढो व्यवस्थाप्यते इति। अत्रापि संय़ोगलक्षणैव प्राप्तिस्तदर्थक्रियारम्भाद् युक्तमेतत् सर्वत्र कर्तुः क्रियया स्वरूपं विकारः संबन्धो वा विषयस्य क्रियते इति । कथम् 'आदित्यं पश्यति, घटम् उपलभते, रूपं परिच्छिनत्ति, गन्धमनुभवति, हिमवन्तं शृणोति, विज्ञेयं जानाति' इति तत्संज्ञाहेतोः प्राप्तेरभावात् । न हि दर्शनादिभिः सूर्यादयः प्राप्यन्ते । किन्तु तैर्विषयभूतैर्दर्शनादयः प्राप्यन्ते तैस्तेषां संजननात् कारणं च विषयः पूर्वम् उत्तरकालं तु कार्यभूता ज्ञानादयः । एतदुपकारकास्तु सूर्यादयो ज्ञानाद्यर्था न सूर्याद्यर्थाः क्रिया इति कथं क्रियया प्राप्यन्ते । न च दर्शनादिभिर्विषयभावापत्तिः प्रागसती सूर्यादीनामतिशयरूपा क्रियते । यत इन्द्रियैरर्थस्य सम्बन्धगमनं विषयभावापत्तिस्तच्च प्रागेवोत्पद्यते । ततो दर्शनादयो ज्ञायन्ते इति ? सत्यम् । चक्षुः प्रेरणं द्रष्टुः क्रिया, तया च विषयः प्राप्यते । चक्षूरश्मयो विषयदेशं यान्ति । दृशिवाच्यं न चक्षुः प्रेरणं ज्ञानवचनत्वाद् दृशेरिति चेत्, नैवम् । तादर्थ्यात् पूर्वकालभावी द्रष्टुर्व्यापारो दृशिनोच्यते । यथा पचिना अधिश्रयणादय इति । चक्षुः प्रेरणपूर्वकं वा दृशिर्ज्ञानम् अभिधत्ते इति । तस्मात् क्रियानिमित्तमेतत् ।
अन्यः पुनराह -
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।
दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते ॥ ( वा० प० ३ । ७ । ५१) ।
यथा निर्वर्त्यविकार्ययोरतिशयः क्वचित् प्रत्यक्षविषयः काष्ठं दहतीति । क्वचिदनुमानगम्यो देवदत्तं रोषयति प्रसादयति वेति । मुखवर्णानुमेयत्वाद् रोषादेरिति । प्राप्तिमात्रस्तु प्राप्यमिति भावः । आदित्यं पश्यतीत्यादावाभासमुपगच्छति । सूर्यो यतो दृश्यते अभिव्यक्तिमुपयाति यतो व्यक्तमुपलभ्यते सहते दर्शनं शक्यते द्रष्टुमित्याह -
1
Page #116
--------------------------------------------------------------------------
________________
७४
कातन्त्रव्याकरणम्
आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः। विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः॥
(वा०प० ३।७।५३) इति कारकत्वम् । एवं 'गुडं भक्षयति, पयः पिबति, ओदनं भुङ्क्ते' इत्यादि पूर्वकालभाविनोऽपि व्यापारा अभावहाराङ्गभूतास्तादर्थ्याद् भक्षिशब्दवाच्यास्तैश्च गुडादिकं प्राप्यते इति । अन्यस्त्वाह - गुडादिकं प्रीत्यर्थं भक्ष्यते, भक्षितं च प्रीतिं जनयति । भक्षणेन प्रीतिजननयोग्यो गुडादिनिर्वय॑ते विक्रियते प्राप्यते वेति विविधमेतत् कर्म युज्यते । भक्षणं च तथाविधं गुडाद्यर्थं भवतीत्यदोषः । तथेत्यादि । अहिर्लङ्घनक्रियया व्याप्यते इत्यनीप्सितमपि कर्म स्यात् । यन्नैवेप्सितं नाप्यनीप्सितम्, तदपि ग्रामं गच्छतो वृक्षमूलोपसर्पणप्रसङ्ग इति । क्रियाविशेषणानामपि कर्मता नपुंसकता एकता च, न्यायात् सर्व एव धात्वर्थः करोत्यर्थेन व्याप्तः । स्तोकं पचति । स्तोकं पचनं करोतीत्यर्थः । क्रियाया अमूर्ताया लिङ्गसख्याभ्यामयोगात् तद्विशेषणस्य कथं लिङ्गसंख्ये इति नपुंसकत्वमेकवचनं तु उत्सर्गतया भवत्येव । यथा कटं करोति । विपुलमुदाहरणं दर्शनीयमिति । गुणयुक्तस्यापि व्याप्यता सिद्धा । प्रत्येकं करोत्यभिसंबन्धात् तदभिव्यक्तये द्वितीया योज्यैव । कथं तर्हि कृतः कटः, उदारो दर्शनीय इति ? सत्यम् । करोतेरुत्पन्नया निष्ठया सर्वं कर्माभिहितम् इत्यर्थमात्रे प्रथमैव । यथा पच्यते ओदनः , प्राप्तमुदकं यं स प्राप्तोदको ग्राम इति । शतेन क्रीतः शत्यः शतिकः पटः इति। 'उक्तार्थानामप्रयोगः कृत्त्यादितद्धितसमासेषु न्यायसिद्धः' इति । उपयुज्यमानं पयःप्रभृतिकं कर्म तस्य निमित्तस्य गवादेरपादानादित्वेनानाख्यातस्य दुहादिक्रियासंबन्धे ब्रुविशास्योश्च प्रधानसाधनकर्मादिके कथमित्याह - तथेत्यादि ।
यत् क्रियते तत् कर्मेति सामान्यविधानाद् व्याप्तिरिति । अजां नयति ग्राममिति द्विकर्मकतयैव हेत्वर्थस्य द्योतितत्वाद् इन् न भवति अधिपूर्वाः शीङ्स्थासोऽपि सकर्मका एव । अभिनिपूर्वो विशतिश्च । तथा उपान्वध्यावसतिरप्युदाहरति । कथं कल्याणेऽभिनिवेशः । संज्ञा संज्ञिन्यभिनिविशत इति विवक्षया भवति । तथा दिवः करणस्य कर्मत्वं न वाच्यम् इत्याह - अक्षानित्यादि । तथा कालाध्वभावदेशानां सर्वे धातवः सकर्मकाः इति कालाध्वनोरत्यन्तसंयोगे इति न वक्तव्यम् । तर्हि यत्रैव क्रियाव्याप्तिस्तत्रैव स्यात्, न गुणद्रव्ययोाप्तौ । तद् यथा - 'मासमधीते, मासमास्ते,
Page #117
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
७५ क्रोशमधीते, क्रोशं शेते, ओदनपाकं शेते, गोदोहमास्ते, कुरून् स्वपिति, नदी स्वपिति' इति विताह - भवतेर्गम्यमानत्वादिति । गम्यमानार्थो भवतिः, तया क्रियया व्याप्यते इति भावः । यथा-प्रविश पिण्डीम्, प्रविश तर्पणम्, भक्षय पिबेति गम्यते । आसनादिपूर्विकायां प्राप्तौ आस्यादीनाम् इह विषये वृत्तत्वात् । तथा चाह -
कालावभावदेशानामन्तर्भूतक्रियान्तरैः।
सर्वैरकर्मकोंगे कर्मत्वमुपजायते ॥ (वा०प०३।७।६७)। कश्चिदाह - कालाध्वभावदेशानां विभाषया अकर्मणां योगे नित्यं कालाध्वनोरत्यन्तसंयोगे । यथा - मासे आस्ते इत्यादि । एवमपि विवक्षया सिद्धम् । मासेनानुवाकोऽधीयते इति । करणे एव तृतीया । मासमधीतोऽनुवाको न चानेन गृहीत इति नात्र करणत्वम् असाधकतमत्वात्, किं फलसिद्धौ तृतीयाविधानेन । अद्य भुक्त्वा देवदत्तो ट्यहाद् भोक्ता इति परयोगभावनया अवधिविवक्षया वा पञ्चमी । व्यहे भोक्तेति व्यहसमीपोऽपि दिवसो व्यह इत्यधिकरण एव सप्तमी । इहस्थोऽयम् इष्वासः क्रोशाद् विध्यति लक्ष्यम्, कोशे विध्यतीति । तथा च लोके विवक्षया अपायोऽधिकरणं चेति किं कारकयोर्मध्ये यौ कालाध्वानौ ताभ्यां पञ्चमीसप्तम्योर्विधानेनेति । एकाद्यभुजेः साधनं शक्तिरन्या ट्यहेऽतीते तत्रैका इष्वसने अथवा व्यधन इति कारकयोर्मध्ये तां प्रतिपद्यते । तथा गतिबुद्ध्याहारशब्दार्थकर्मकाणां प्रयोज्यः कर्ता हेतुकर्तृव्यापारेण व्याप्यत्वात् कर्मैव | गमयति ग्रामं माणवकम् । प्रापयति ग्राम माणवकम् । बोधयति धर्मं माणवकम् । भोजयति माणवकम् ओदनम् । आशयति माणवकम् ओदनम् । अध्यापयति माणवकं वेदम् । पाठयति माणवकं वेदम् । आसयति देवदत्तम् । शाययति देवदत्तम् !
यदा गमयति देवदत्तं यज्ञदत्तम्, तमपरः प्रयुङ्क्ते, तदा गमयति देवदत्तं यज्ञदत्तेन विष्णुमित्रेणेति भवितव्यम् । गमयतेरगत्यर्थत्वाद् अन्येषां तु प्रयोगे सत्यपि हेतुकर्तृव्यापारव्याप्यत्वेऽन्तर्भूतकर्तृत्वस्यैव विवक्षा | यथा पाचयत्योदनं देवदत्तेनेति । व्यभिचारोऽपि विवक्षायाः । 'अयाचितारं नहि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक' (कु० सं० १।५३) इति ग्रहेरन्यत्रापि दृश्यते । जल्पति छात्रो द्रव्यम्, जल्पयति छात्रं द्रव्यम् । आलापयति मित्रं छात्रः । आलापयति मित्रं छात्रम् । संभाषते छात्रो भार्याम् । संभाषयति छात्रं भार्याम् इत्यादयः । नयतिखादति - अत्तिह्वयतिशब्दायक्रन्दीनां च ।
Page #118
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् नाययति देवदत्तेन, खादयति देवदत्तेन, आदयति देवदत्तेन, शब्दाययति देवदत्तेन । शब्दक्रियायां शब्दायधातुस्तत इन् । क्रन्दयति देवदत्तेन । वहेरसारथिकर्तरि । वाहयति भारं देवदत्तेन । सारथिकर्तरि तु वाहयति बलीवर्दान् शस्यम् । भक्षेरहिंसार्थस्य - भक्षयति पिण्डी देवदत्तेन । हिंसार्थस्य तु - भक्षयति गां शस्यम् ।
चेतनावन्तः सर्वे भावा इति दर्शनेन शस्यभक्षणेन यस्य हि तत् शस्यं स हिंस्यते वा | मतान्तरे - हरतिकरोत्योरुभयविवक्षा । हारयति भारं देवदत्तम्, देवदत्तेनेति वा ।
ओदनं परिपूर्णान् शिष्यान् विकारयति, शिष्यैर्वा । दृश्यभिवाद्योरात्मनेपदविवक्षायां 'दर्शयते भृत्यान् राजा, भृत्यैरिति वा । आत्मानमभिवादयते गुरुर्देवदत्तम्, देवदत्तेनेति वा। अभिवादयन्तं प्रयुङ्क्ते इतीन् । वादिरयं घान्तश्चौरादिक इति अन्ये । आत्मनेपदविवक्षायामिति किम् – दर्शयति चित्रं छात्रं देवदत्तेनेति । अभिवादयति गुरुं माणवकेनेत्यफलवत्कर्तृत्वादिह परस्मैपदमिति ।
परो ब्रूते - विवक्षेव श्रेयसीति। यथा - पयसौदनं भुङ्क्ते । सत्यपि व्याप्यत्वे करणत्वं सिद्धम् । दुहादीनां द्विकर्मकाणां गवादौ कर्मणि अप्रधानेऽप्यात्मनेपदविधिः, अभिधानात् । गौर्दुह्यते पयः । पौरवो गां याच्यते । गर्गाः शतं दण्ड्यन्ते इति । नयतिवहतिहरतीनां च प्रधान एव-अजा नीयते ग्रामम् । उह्यते भारो ग्रामम् । ह्रियते भारो ग्रामम् । कृषेरपि दृश्यते । कर्षति ग्रामं शाखाम् । कृष्यते ग्रामं शाखा देवदत्तेन । गत्याद्यर्थानाम् इनन्तानां शिष्टप्रयोगानुसारेणोभयत्रापि | गमयति ग्रामं देवदत्तम् । गम्यते देवदत्तो ग्रामम् | गम्यते ग्रामो देवदत्तम् । बोधयति माणवकं धर्मम् । बोध्यते धर्मो माणवकम् । बोध्यते माणवको धर्मम् । एवं यावद् आसयति मासं देवदत्तम् । आस्यते मासं देवदत्तः, आस्यते मासो देवदत्तम् । अपरः पुनराह-दुहादीनां गवादयः प्रधानं कर्म, कर्मपूर्वकत्वात् पयस इति | अपर आह - गुणकर्मणि लादिविधिः । पूर्वं गुणकर्मणा भवति योगः । मुख्यं कर्म प्रेप्सुर्यस्माद् गव्येव यतते प्राक् तस्मात् शुद्धस्य दुहेर्भवति गवा पूर्वमेव संबन्धः । गोर्दुहिना पयसस्तु प्रत्येकं तस्माल्लादयस्तस्मिन्निति ।।२९८ ।
[वि० ५०]
यत् क्रियते० । क; यत् क्रियते इति कर्तारमन्तरेण क्रिया न संभवतीति क.त्युच्यते । अयं चाभेदे वाक्यार्थः । भेदे पुनरेवम् - कर्तुः क्रियया यत् क्रियते यद् व्याप्यते तत् कर्म । कथमेतद् यावता क; हि क्रिया क्रियते तत् तस्या एव कर्मसज्ञा
Page #119
--------------------------------------------------------------------------
________________
७७
नामचतुष्टयाध्याये चतुर्षः कारकपादः प्राप्नोति ? सत्यम् । अमूर्तायाः क्रियायाः कर्मकार्यं नोपपद्यते इति क्रियाविशिष्टस्य साधनस्यैव कर्मत्वम् इत्यदोषः । तच्च कर्म त्रिविधम् - निर्वविकार्यं प्राप्यं चेति । क्रमेण दर्शयति-कटं करोतीत्यादि । तत्र निर्वय॑म् – यत् पूर्वम् असदेव जायते यस्य जन्म क्रियते । यथा - कटं करोतीति ।विकार्यम् - यल्लब्धसत्ताकमेवावस्थान्तरमापद्यते । तदपि द्विविधम् – एकं प्रकृत्युच्छेदसंभूतम् । यथा - काष्ठं भस्म करोति । अपरं च - गुणान्तराधानद्वारेण व्यपदेशान्तरनिमित्तम् | यथा - सुवर्णं कुण्डलं करोति । विकारमात्रविवक्षायामेकमेवोदाहरणं वृत्तौ दर्शितम् । ओदनं पचतीति । तण्डुलानोदनं पचतीत्यर्थः । प्राप्यं च - यत्र तु निर्वर्त्यविकार्यसंबन्धिनो विशेषाः पूर्वोक्ताः प्रत्यक्षेणानुमानेन वा क; न प्रतीयन्ते । केवलं प्राप्तिमात्रमेव प्रतीयते । यथा - आदित्यं पश्यतीति । तथा चोक्तम् -
यदसज्जायते पूर्व जन्मना यत् प्रकाशते । तन्निवयं विकार्य च कर्म द्वधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसंभूतं किञ्चित् काष्ठादिभस्मवत् । किश्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते ॥
(वा०प०३।७।४९-५१)। तथेत्यादि । यथा आदित्यं पश्यतीति प्राप्यं तथैवायम् इत्यर्थः । तथा अहिर्लङ्घनक्रियया व्याप्यते इति अनीप्सितमपि कर्म भवति । यन्नैवेप्सितं नाप्यनीप्सितं तदपि कर्म भवति । यथा - ग्रामं गच्छन् मार्गस्थवृक्षमूलान्युपसर्पणक्रियया व्याप्नोति । "तथायुक्तं चानीप्सितम्" (अ० १।४।५०) इति न वक्तव्यम् । तथा क्रियाविशेषणानां कर्मत्वम् एकत्वं नपुंसकत्वं चेति न वक्तव्यमित्याह - तथा स्तोकं पचतीति । सर्वो हि धात्वर्षः करोत्यर्थेनाभिव्याप्तः, स्तोकं पचनं करोतीत्यर्थः। क्रियायाश्चामूर्तत्वात् लिङ्गसंख्याभ्यामयोगात् तद्विशेषणस्य कथं लिङ्गसंख्याभ्यां योग इति उत्सर्गसिद्धं नपुंसकत्वमेकत्वं च न्यायाद् भवति । “अकथितं च" (अ० १।४।५१) इति न वक्तव्यं दुहादीनां प्रयोगे कर्मसंज्ञार्थम् । तत्र दुहादयः -
Page #120
--------------------------------------------------------------------------
________________
७८
कातन्त्रव्याकरणम्
दुहियाचिरुधिप्रछिभिछिचित्रामुपयोगनिमित्तमपूर्वविधै । विशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना ॥
(म० भा० १।४।५१) इति । उपयुज्यते इत्युपयोगः। पयः प्रभृतिकं कर्म तस्य निमित्तं गवादि । अपूर्वविधावित्यनन्यविधावित्यर्थः । ब्रुविशास्योर्गुणः क्रियासाधनभूतं यत् प्रधानं कर्म तत् पुनर्धर्मादिकं तेन यत् सचते यत् संबध्यते शिष्यादिस्तदकीर्तितमाचरितम् = तदकथितमुक्तमित्यर्थः । तदेतन्न वक्तव्यम् - दुहादयो हि नयतिवत् स्वभावाद् द्विकर्मकाः अन्तर्भूतकारितार्थास्ततः सर्वत्र व्याप्तिरस्तीति । यथा प्रधाने कर्मणि पयःप्रभृतीनि द्वितीया, तथा अप्रधानेऽप्युपयोगनिमित्ते गवादौ यत् क्रियते तत् कर्मेति सामान्यविधानादित्याह – गां दोग्धि पय इत्यादि । तथा नयतीत्यादीनामपि द्विकर्मकत्वाद् उभयत्र द्वितीया सिद्धत्याह - अजाम् इत्यादि । तथा चोक्तम् -
नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च ।
द्विकर्मकेषु ग्रहणं ण्यन्ते कर्तुश्च कर्मणः॥(म० भा०१।४।५१) इति । इह श्लोके चकाराज्जयतिप्रभृतीनामपि ग्रहणम् । शीङादीनामकर्मकत्वात् तद्योगे कर्म न प्राप्नोति । ततः “अधिशीस्थासां कर्म" (अ० १।४।४६) इति वक्तव्यमिति, नैवम् । अध्युपसर्गसहिताः शीङादयः स्वभावात् सकर्मकाः एवेत्युदाहरति - ग्रामम् अधिशेते । तथा “अभिनिविशश्च" (अ० १।४।४७) इति न वक्तव्यम् । इहाधिकरणविवक्षापि दृश्यते । यथा संज्ञा संज्ञिन्यभिनिविशते । तथा "उपान्वध्याङ्वसः" (अ० १।४।४८) इत्यपि न वक्तव्यम् । दिवः प्रयोगे करणस्य पक्षे कर्मसंज्ञार्थं "दिवः कर्मच" (अ०१।४।४३) इति न वक्तव्यम् इत्याह-करणविवक्षेति। करणे विवक्षा करणविवक्षा, कर्मणः इति शेषः । अथवा यदि 'अक्षान् दीव्यति' इति कर्मत्वमुक्तम्, तत् कथम् अक्षर्दीव्यति' इत्याशक्य करणस्य विवक्षा करणविवक्षेत्युक्तम् । चन्द्रगोपी तु 'अक्षाणां दीव्यति, अक्षेषु दीव्यति' इति विवक्षातः एव मन्यते । कालाध्वभावदेशानां कर्मसंज्ञा वक्तव्या अकर्मकैरपि योगे | यथोक्तम् -
कालाध्वभावा मन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । देशश्चाकर्मणां योगे कर्मसंज्ञो भवेदिति ॥
Page #121
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
७९ यथा – 'मासमास्ते, क्रोशमास्ते, ओदनपाकं शेते, कुरून् स्वपिति' इति । तन्न वक्तव्यम् । अकर्मका अपि धातवोऽन्तर्भूतक्रियान्तराः सन्तः सकर्मका एव भवन्ति, यस्मादन्तभूतप्रापणाक्रियेषु उपवेशनादिष्वासिप्रभृतयो धातवो वर्तन्ते इति युक्तम्, तैर्योगे कर्मत्वमिति । तथा चाह -
कालाध्वभावदेशानामन्तर्भूतक्रियान्तरैः।
सर्वैरकर्मकोंगे कर्मत्वमुपजायते ॥ (वा० प० ३।७।६७)। तर्हि 'मासमास्ते' इत्यादिष्वेव क्रियासंबन्धस्य विद्यमानत्वात् कर्मत्वं स्यान्न द्रव्यगुणयोः संबन्धे क्रियानिमित्तत्वात् कारकस्येति । कथं 'मासं गुडधानाः, क्रोशं कुटिला नदी' इति, तस्मात् "कालाधनोरत्यन्तसंयोगे" (अ० २।३।५) इति द्वितीयार्थं वक्तव्यम् इति अयुक्तमित्याह - भवतेर्गम्यमानत्वादिति। भवतिरत्रान्तर्भूतक्रियान्तरो गम्यते इति ।।२९८।
[क० च०]
यत् । ननु का यत् क्रियते यत् संबध्यते तत् कर्मेत्युक्ते स्वक्रियासंबन्धात् कर्तुरपि कर्मसंज्ञा स्यात् ? सत्यम् । क्रियते इत्यत्र कृधातुना कृमात्रमुच्यते । 'कर्मणि विहितेन आत्मनेपदेन च क्रियाजन्यफलभागित्वम्, ततश्चौदनं पचतीत्यादौ ओदनस्य पचिवाच्याधिश्रयणादिजन्यविक्लित्तिरूपक्रियाफलभागित्वात् तस्यैव कर्मत्वं न कर्तुरिति । एतेन क्रियाजन्यफलभागित्वं कर्मत्वमिति कर्मलक्षणम् । अथ तर्हि 'ग्रामं गच्छति देवदत्तः' इत्यादौ गतिक्रियाजन्यसंयोगरूपफलभागित्वाद् यथा ग्रामस्य कर्मत्वं तथा कर्तुरपि स्यादिति चेत्, परसमवेतक्रियाजन्यफलभागित्वं कर्मत्वमिति ब्रूमः । तेन आत्मसमवेतक्रियाजन्यफलभागित्वान्न कर्तुः कर्मसंज्ञेति |
१. क्रियानुकूलक्रियामात्रमित्यर्थः । मात्रशब्दोऽत्र काय॑परः । एतेन क्रियते इत्युक्ते पचादियोगे कथं संज्ञेत्यपि निरस्तम् । २. ओदने विक्लित्तिः समवायसंबन्धेन वर्तते तस्य प्रतियोगित्वमनुयोगित्वं वेत्यर्थः । विक्लित्तिरूपफलनिष्ठप्रतियोगित्वात् निरूपितानुयोगित्वात् फलभागो विद्यतेऽस्य फलभागी, तस्य भावः फलभागित्वम्, फलप्रतियोगित्वम्, फलानुयोगित्वं वेत्यर्थः । ३. एतेन ग्रामं गच्छतीत्यत्र कर्तुतिक्रियाश्रयत्वान्न कर्मत्वम् ।
Page #122
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् अथ किमपेक्ष्य परत्वं गृह्यते । न च फलाश्रयभिन्नत्वं परत्वमिति वाच्यम्, 'देवदत्तो ग्रामं गच्छति' इत्यत्र देवदत्तस्यापि फलाश्रयभिन्नत्वाभावेन (परत्वाभावात् तत्समवेतक्रियाजन्यफलभागित्वेऽपि) ग्रामस्य कर्मत्वाप्रसङ्ग इति चेत्, तक्रियानाश्रयत्वे सति तक्रियाजन्यफलभागित्वमिति ब्रूमः । अथ तर्हि ‘पर्वतादवरोहति' इत्यत्र' पर्वतस्यापि स्पन्दनक्रियानाश्रयत्वेन स्पन्दनक्रियाजन्यविभागरूपफलाश्रयत्वात् कर्मत्वं स्यादिति चेत्, उच्यते - तक्रियानाश्रयत्वे सति धात्वर्थावच्छेदकीभूततक्रियाजन्यफलभागित्वं कर्मत्वमिति ।
धात्वर्थावच्छेदकीभूत इति फलस्य विशेषणम् । यदुद्दिश्य क्रिया प्रवर्तते तदवच्छेदकम् । अवरोहणक्रियाया उत्तरदेशसंयोगरूपफलस्यैवोद्देश्यत्वेन प्रतीयमानत्वम् । अतो विभागाश्रयत्वात् पर्वतस्य न कर्मसंति । उत्तरदेशसंयोगस्तु पर्वते न विद्यते एव । तर्हि 'भूमौ पर्णं पतति, नदीतीरे प्लवो वर्धते' इत्यादौ भूमितीरयोस्तक्रियानाश्रयत्वे सति संयोगरूपफलभागित्वादभिव्याप्तिः स्यादिति चेत्, फलस्य धातुवाच्येति' विशेषणं देयम् । एतेन तक्रियानाश्रयत्वे सति धात्वर्थावच्छेदकीभूततक्रियाजन्यधातुवाच्यफलभागित्वं कर्मत्वमिति । अत्र च वृद्धिपतनयोरुत्तरदेशसंयोगो धातुवाच्यफलत्वेन
१. एतेन पर्वतादवरोहतीत्यत्र संयोगरूपफलापेक्षया विभागरूपफलापेक्षया विभागरूपफलस्यातिरिक्तत्वान्नातिव्याप्तिः । वृक्षात् पर्णं पततीत्यत्र च विभागरूपफलस्योपलक्षणतया विद्यमानत्वात् न्यूनवृत्तित्वमस्तीति भावः । उच्चान्नीचगमनमवरोहणम् ।। २. धातुवाच्यपदेन धात्वर्थवाचकवाच्यमिति लक्षणयोच्यते । तेन ‘अतिखट्वः' इत्यादावपि न काचित् क्षतिरिति गुरुः। ३. फलभागित्वं च वृत्तिनियामकसंबन्धेन चेत् 'घटं नाशयति' इत्यत्र घटनाशस्य प्रतियोगितासंबन्धेन वृत्तित्वादव्याप्तिः । अतः प्रतियोगितासंबन्धोऽपि निवेश्यः । कारकचक्रे – 'विष्णुं यजते' इत्यत्रोद्देश्यतासंबन्धेन फलभागित्वेऽपि कर्मत्वस्यासक्तत्वाद् उद्देश्यतापि निवेशनीया, तेन वृत्तिनियामक उद्देश्यता एतदन्यतरसम्बन्धेन फलभागित्वं कर्मत्वमिति । इषधातुप्रयोगे मुख्यविशेष्यतारूपं कर्मत्वम्, तेन वृष्टिसाध्यं सुखं भवतु इति इच्छायां 'वृष्टिमिच्छति' इति न प्रयोगः । तर्हि अहं सुखी स्याम् इति इच्छायां मुख्यविशेष्यताभावात् सुखमिच्छतीति प्रयोगो न स्यात् ? नैवम्, अत्र विलक्षणविषयतायाः सुखे स्वीकारात् कर्मत्वमिष्टम् ।
तक्रियानाश्रयत्वे सति धात्वविच्छेदकीभूततक्रियाजन्यधातुवाच्यफलशालित्वं कर्मत्वमिति निर्मूढं कर्मलक्षणम् । ननु फलांशे धातुवाच्येति विशेषणबलेनैव पर्वतादवरोहतीत्यादावतिप्रसङ्गाभावाद् धात्वविच्छेदकीभूतेति विशेषणं व्यर्थम् ? सत्यम् । ग्रामं गच्छतीति व्यवहारदशायां पन्थानं गच्छतीति प्रयोगापत्तिदुर्निवारैव धात्वर्थावच्छेदकीभूतेति फलांशे विशेषणसत्त्वे संयोगस्य धातुवाच्यत्वेनैव पथि
Page #123
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
८१ न प्रतीयते इति । धातुवाच्यफलत्वेन संयोगरूपफलस्याविवक्षितत्वात्। तदुक्तं भट्टचरणैः
क्रियावच्छेदकं यस्य फलं का विवक्षितम् ।
तदेव कर्मधातुस्तु फलानुक्तावकर्मकः॥ इति । अत एव धातूनां समानार्थत्वेऽपि फलावच्छिन्नव्यापारवाचित्वे सति सकर्मकता । केवलव्यापारवाचित्वे सति अकर्मकता । एतदेव पाणिनिनापि “कर्तुरीप्सिततमं कर्म" (अ० १।४।४९) इत्यत्र तमग्रहणेन विवक्षितमिति संक्षेपः। ननु कर्तुः क्रियया यद् व्याप्यते तत् कर्मेति वक्तुमुचितम् । कथं का यत् क्रियते इत्युक्तमित्याह - अभेद इत्यादि । कर्तृक्रिययोरभेद इत्यर्थः । भेद इति विशेष्यप्रतिपादने क्रियया इत्यर्थः । कर्तुः क्रियया इत्यत्र कृञर्थः क्रियासामान्यम् प्रत्ययार्थश्च व्याप्यम् । एतेनात्र क्रिययेति कर्तरि तृतीया ।कर्तुः क्रियया कर्तृभूतया यत् साध्यते तत् कर्मेत्यर्थः । कर्तुः क्रिययेति विशेषणे
संयोगस्यानुद्देश्यत्वेनैव धात्वविच्छेदकीभूतत्वाभावात् तत्र ग्रामसंयोगस्यैवोद्देश्यत्वात् । उद्देश्यत्वं चेह न क्रियाप्रवृत्तिहेतुभूतेच्छाविशेष्यत्वरूपविषयत्वम् । अपि तु चरमफलत्वमिति । ओदनपाकमध्ये नान्तरीयकमाषपाकेऽपि माषं पचतीति प्रयोगवारणार्थं माषवृत्तिफलस्योद्देश्यत्वाभावात् । तक्रियाजन्यविशेषणं च व्यापारे साक्षाज्जनकतासंबन्धेनान्वयफलशालित्वेन कर्मत्वमिति ज्ञापनार्थम् । तेन घटो नश्यतीति । अत्र नशधातो शानुकूलसहकारिसत्ताविशेषार्थत्वेऽपि न कपालस्य कर्मत्वम् । सहकारिपदार्थव्यवधानेन नाशस्य साक्षाज्जनकतासंबन्धेन सत्तायामन्वयाभावादेतेन तत्र सहकारि पदमपि सार्थकम् । १. धातुवाच्य इति विशेषणं पतिवृद्ध्योरुत्तरदेशसंयोगशालित्वेन कर्मत्ववारणार्थं कविराजोक्तं व्यर्थम् अवच्छेदकीभूतत्वेन तन्निषेधात् । न हि पतनवर्धनयोरवच्छेदकत्वं स्याद् उत्तरदेशसंयोगः । तथा च शिरोमणिः - स्पन्दनमात्रं पतेरर्थो न विभागावछिन्न इति । २. अस्यार्थः । यस्य गमादिधातोः क्रियावच्छेदकं क्रियाविशेषणीभूतं यदुत्तरदेशसंयोगादिरूपफलं तद् यदा क; धातुवाच्यत्वेन विवक्षितं तदा धातुः सकर्मक इति । यथा ग्रामं गच्छति । अत्र गमिवाच्यस्पन्दनजन्यसंयोगरूपस्य धातुवाच्यत्वेन विवक्षितत्वाद् ग्रामस्य कर्मत्वमिति । फलानुक्तावकर्मको यथा - ग्रामे गच्छतीति । यस्य पचधातोः क्रियावच्छेदकं क्रियाविशेषणं यद् विक्लित्तिरूपं तद् यदि अधिश्रयणादिव्यापारजन्यत्वेन विवक्षितं तदा सकर्मकः । यथौदनं पचतीति फलानुक्तौ केवलविक्लित्तिमात्रस्य स्वातन्त्र्येणोक्तावकर्मकः । यथा ओदनः पचतीत्यर्थः।। ३. अभेदपक्षे तु कृत्रोंः व्याप्तिः । आख्यातार्थः आश्रयता । एतेन कर्तृस्वरूपया क्रियया यद् व्याप्यं तत् कर्मेति पर्यवसितम् । व्याप्यत्वं तु स्वजन्यफलवत्त्वसंबन्धेन बोध्यम् । अन्यथा कर्तर्यतिप्रसङ्गः स्यादिति ।
Page #124
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
तृतीया । कर्ता क्रियाविशिष्टं यत् साध्यते, तत् कर्मेति केचित्' । कथमेतद् इत्यादि । क्रियते इत्यत्र कृधातुस्तावत् क्रियासामान्यवचनोऽसदुत्पादनवचनश्च । तत्र सामान्यक्रियावचनः कथं गृह्यते । असदुत्पादनवचनो वा कथन्न गृह्यते ? ततश्च कर्ता यदुत्पाद्यते इत्यर्थे सति असत्याः क्रियाया उत्पादनात् तस्या एव कर्मसंज्ञा स्यात् । यतः क; हि मुख्यत्वात् क्रियैव क्रियते उत्पाद्यते इत्येतदेवाह - क; हीत्यादि । अत्र क्रियाया एवात्मनेपदवाच्योत्पादनक्रियाजन्यफलभागित्वादिति भावः ।
यद् वा वैयाकरणानां मते आख्यातस्य क्रियाप्रधानत्वात् तस्य च साध्यतावगमकत्वेन कृञ्धातोः क्रियामात्रेऽर्थे यदिति पदस्य कियया सामानाधिकरण्यसम्भवे सति | व्यधिकरणकल्पनायां मानाभावात् साध्यताविशिष्टं यत् करणं तत् कर्मेत्यर्थः कथन्न स्यादिति भावः । अस्मिन् पक्षे क्रियते इत्यस्य क्रियासामान्यवाचितैव बोध्या । सत्यमित्यादि । ननु क्रियायाः कर्मकार्याभावं प्रत्यमूर्तत्वं कथं हेतुः । नहि मूर्तादेर्घटपटादेरमादिविधिरस्ति, किन्तु तद्वाचकात् शब्दात् । अतोऽत्रापि तद् भविष्यति । न चामूर्तवाचकात् शब्दाद् अमादिविधिर्नास्तीति वाच्यम् । पचनं करोतीत्यादौ द्वितीयानुपपत्ते: ३ ।(द्वितीयोपपत्तेः) तद्वाचकस्य पाकादिशब्दस्य कर्मकार्यसंभवादिति चेत्, नैवम् । पाकादिशब्दानां केवलक्रियावाचकत्वाभावात् । यावता भावे विहितस्य कृत्प्रत्ययस्य सिद्धतावगमाद् द्रव्यत्वेन प्रतीतिः । तथा च भावे विहितः कृत्प्रत्ययो द्रव्यवत् प्रकाशते इति । ननु तथापि सिद्धतासाध्यतारहितस्य केवलक्रियावाचकस्य पचत्यादेः कर्मसंज्ञायां कर्मणि विहितात्मनेपदादि कर्मकार्यमेव कथन्न स्यात् ? नैवम् । सिद्धतासाध्यतारहितस्य पचत्यादेः कारकत्वानुपपत्तेः । सिद्धं हि कारकं भवतीति
१. अधर्माज्जुगुप्सते इत्यादौ संबन्धध्वंसरूपफलस्य धातुवाच्यत्वेन विवक्षितत्वात् कर्मत्वे प्राप्ते धात्वर्थतावच्छेदकीभूतेति विशेषणेनैव निराकरणीयं संबन्धध्वंस्योद्देश्यत्वेन विवक्षितत्वात्, किन्तु उद्देश्यत्वेन धर्मस्यैव विवक्षेति भावः । २. अत्र पक्षे कृधात्वर्थः उत्पत्त्यनुकूलकृतिः आत्मनेपदार्थ: फलप्रयुज्यसंबन्धानुयोगित्वम्, धातोरर्थ उत्पादना क्रिया, आत्मनेपदवाच्यतज्जन्योत्पत्तिरूपफलविशिष्टानुयोगिनिरूपितानुयोगितायाः क्रियायाः सत्त्वाद् इत्यर्थः । ३. पचनं करोतीत्यादौ अमूर्तवाचकस्य पाकादिशब्दस्य कर्मत्वं न स्यादेव कर्मकार्यासंभवादित्यभिप्रायः ।
Page #125
--------------------------------------------------------------------------
________________
८३
नामचतुष्टयाध्याये चतुर्थः कारकपादः न्यायात् कर्मणि द्वितीयाविधिवैयर्थ्याच्च । एतेनामूर्तायाः सिद्धत्वेनाप्रतीयमानायाः इत्येवार्थः।
यद् वा अमूर्ताया असत्त्वभूतायाः इत्यर्थः । ततोऽसत्त्वभूतत्वे सति क्रियाया एकत्वादिसंख्याविरहात् संख्यावाचकस्यात्मनेपदादेरयोगादिति भावः । टीकायां तु कर्मणि आत्मनेपदनिर्देशादेव क्रियावाचकस्य पचत्यादेर्न कर्मत्वमिति । अन्यथा क्रिया कर्मेति विदध्यादित्युक्तम् । यत् पूर्वमसदेव जायते इति । उत्पत्तिरूपं यत् क्रियाफलं तद्भागीति यावत् । उत्पत्तिश्च स्वरूपप्रतिलम्भः । असतः सत्त्वम् आद्यक्षणसंबन्ध' इति नैयायिकाः। सांख्यमतमवलम्ब्याह - जन्मनेति । तेन हि नासदुत्पद्यते न च सद् विनश्यति' इति कारणेषु कार्यस्य शक्तिरूपेणावस्थितिः । अत एवाविर्भाव एवोत्पत्तिर्न स्वरूपप्रतिलम्भः उत्पत्तिविनाशयोराविर्भावतिरोभावस्वरूपत्वादित्याहुः । यल्लब्धसत्ताकमिति । लब्धा सत्ता विद्यमानता येन तल्लब्धसत्ताकं विद्यमानं वस्त्वित्यर्थः ।
ननु काष्ठस्य दहनक्रियया प्रागेव नाशात् कथं तस्य भस्मरूपावस्थान्तरप्राप्ति, किन्तु देवदत्तं रोषयति', सुवर्णं कुण्डलं करोतीत्यादावेवावस्थान्तरप्राप्त्या विकार्यत्व
१. ननु भवन्मते क्रियायाः कारकत्वमवश्यमेवाङ्गीकर्तव्यम् । कथमन्यथा स्तोकं पचतीत्यादि सिध्यतीत्याह - कर्मणि द्वितीयेति । ननु कथमुच्यते कर्मणि द्वितीयाविधिवैयर्थ्यादिति, यावता क्रियाप्रतिपादकस्तोकादिशब्दाद् द्वितीयास्तीति प्रयोजनम् ? सत्यम् । एकवचनं नहि द्विवचनादि । अत
आख्यातस्य प्रयोजनं नास्तीति । एतेनैतदायातम् । तस्माद् व्यापकद्वितीयाविधिवैयर्थ्यात् सिद्धतासाध्यतारहितस्य केवलस्य पचादेर्न कर्मत्वमिति।। २. आद्यक्षणसंबन्धस्तु स्वाधिकरणसमययोगध्वंसानधिकरणसमयसंबन्धः । तथा च तार्किकशिरोमणिः'अध्वस्तक्षणयोगस्य क्षणयोगो जनिर्मता' । न ध्वस्तः क्षणयोगो यस्येति विग्रहः । स्वाधिकरणसमयध्वंसानधिकरणत्वे सति स्वाधिकरणसमयत्वमाद्यक्षणत्वम् । ३. कारणेषु समवायिकारणेषु कपालादिषु शक्तिरूपेण सूक्ष्मरूपेण कार्यस्यावस्थितिः । अथवा शक्तिरूपेण कारणताशक्तिरूपेण कार्यस्यावस्थितिरिति। ४. यद् वस्तु अवस्थान्तरमापद्यते इत्यनुक्त्वा कथमुक्तं यल्लब्धसत्ताकमिति पूर्वपक्षे को हि शशशृङ्गं धनुः करोतीति विकार्यव्यावृत्त्यर्थमिति वदति । वस्तुतस्तु यत्र प्रकृतिविकारयोरुभयोः प्रयोगस्तनव विकार्यत्वप्रतिपादनार्थम् । यथा काशान् कटं करोतीति । यत्र न प्रकृतेः प्रयोगस्तत्र कटं करोतीति निर्वर्त्यमेव न विकार्यमिति भव्याः। ५. देवदत्तं रोषयति । देवदत्तं क्रोधं जनयति चैत्र इत्यर्थः । अत्र लब्धसत्ताको देवदत्तो हर्षपरित्यागानन्तरमवस्थान्तरं क्रोधरूपमापद्यते ।
Page #126
--------------------------------------------------------------------------
________________
८४
कातन्त्रव्याकरणम्
संभवः । ततश्च देवदत्तं रोषयतीतिवद् ग्रामं गच्छतीत्यत्रापि संयोगरूपावस्थान्तरप्राप्तिसत्त्वेन प्राप्ये कर्मण्यपि विकार्यत्वसम्भवादतिप्रसङ्गः स्यात् ? सत्यम् । स्वस्वसमवेतान्यतरविनाशकक्रियाफलमेवावस्थान्तरपदेनोक्तम् ।
अस्यायमर्थः। स्वम् आत्मा काष्ठादिरिति यावत् । स्वसमवेतं सुवर्णादिसमवेतं यद्धर्मादिकं तयोः स्वसमवेतयोरेकतरविनाशकं यत् क्रियाफलम्, क्रियया यत् साध्यते भस्मादिरूपं तदेवावस्थान्तरपदेन विवक्षितम् । तद् यथा - काष्ठं भस्म करोतीत्यत्र स्वस्य काष्ठस्य विनाशकं क्रियासाध्यरूपं यद् धर्मादिफलं तत् काष्ठं कर्त प्राप्नोति । 'देवदत्तं रोषयति' इत्यत्र पूर्वधर्मस्य हषदिः, काशान् कटं करोतीत्यत्र काशावयवस्य विनाशाद् विकार्यता यथायथं बोध्या | ग्रामं गच्छतीत्यादौ पुनामस्य तद्धर्मस्य वा कस्यचिन्नाशो नोपपद्यते एव । न च देवदत्तस्य ग्रामे संयोगरूपावस्थान्तरेण ग्रामस्य पूर्वावस्थितासंयोगित्वरूपधर्मस्य नाश इति वाच्यम्, असंयोगित्वं हि संयोगाभावः। तस्य च समवायसम्बन्धेन ग्रामे वर्तमानत्वाभावात् । किन्तु स्वरूपसंबन्धेनैवाभावो वर्तते इति स्थितम् । प्राप्यं चेत्यादि । न प्रतीयन्त इत्यत्र क्रियाफलव्यतिरेकेणैव बोद्धव्यम् ।
यदसदित्यादि । असदिति नैयायिकमतेन, जन्मनेति साङ्ख्यमतेनोक्तम् । यत्र प्रकृतिरसती सती वा न विवक्ष्यते, तन्निवर्त्यमिति । यथा संयोगं जनयति । न ह्यत्र संयोगस्य कदाचिदपि प्रकृतिरस्ति । कटं करोतीत्यत्र विद्यमानापि काशप्रकृतिर्न विवक्ष्यते । तदुक्तम् -
सती वा विद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ (वा०प०३।७।४७)।
१. स्वसमवेतान्यतरक्रियाफलमेवावस्थान्तरपदेन कथ्यते इति लक्षणेऽभिप्रेतसिद्धौ किं स्वसमवेतत्वघटकस्वपदेन, नैवम् । ग्रामं गच्छतीत्यादौ स्वभिन्नचैत्रसमवेतस्पन्दननाशकसंयोगादिशालित्वाद् ग्रामादावभिव्याप्तिरिति स्वनाशस्थलेऽपि स्वसमवेतनाशोऽस्ति किं स्वपदेन, नैवम् । तदा कृष्णं शुक्लं करोतीत्यादौ विकार्यताप्रतीतिर्न स्यात् । स्वनाशकमित्युक्ते सुवर्णं करोतीत्यादौ अव्याप्तिरिति । २. ननु तथापि ग्रामं गच्छतीत्यादौ दूरत्वस्यादैशिकपरत्वेन गुणत्वात् तस्य ग्रामे समवायसम्बन्धेन वृद्धित्वाद् ग्रामस्य दूरत्वनाशकसंयोगरूपफलशालित्वाद् ग्रामस्यापि विकार्यता स्यात्, नैवम् । समवेत इत्यत्र स्वमात्रेति निवेशनीयं ततो दूरत्वस्य ग्रामे, एवं चैत्रेऽपि समवायेन वृत्तेर्न विकार्यता तर्हि न च देवदत्तस्य ग्रामे संयोग इत्यादि कविराजपङ्क्त्यसङ्गतापत्तिः ? सत्यम् । केचित्तु दूरत्वं सूर्यसंयोगभूयस्त्वसंबन्धश्चेतीत्याहुः । तन्मते ग्रामादौ समवायसंबन्धेन वृत्तित्वाभावान्न दोषः । यदा तन्नाशकपादविहरणमेव न तु संयोग इति कश्चित् । ३. अथ यत्र पूर्वोक्तविशेषाः दर्शनादनुमानाद् वा न प्रतीयन्ते, तत्र प्राप्यमित्युक्ते आदित्यं पश्यतीत्यादौ अपि प्राप्यत्वं न स्याद् अत्रापि पूर्वोक्तविशेषक्रियाफलस्य सत्त्वादित्याह-क्रियाफलव्यतिरेकेणेति पत्रीकारेणापि विशेषा इत्यनेन तत् सूचितम् ।
Page #127
--------------------------------------------------------------------------
________________
नामचतुष्टया याये चतुर्थः कारकपादः परिणामिनीत्यावश्यके णिनिः । यस्य प्रकृतिः परिणामयित्री दशान्तरं प्राप्तेत्यर्थः । (अत एव त्रिलोचनेनापि तण्डुलान् ओदनं पचतीत्युक्तम्) । यदि पुनः काशान् कटं करोतीत्युभयमेव विवक्ष्यते तदा विकार्यतैव । विकार्यं तु कर्म द्वेधा व्यवस्थितम् इति । द्विविधमेवाह - प्रकृत्युच्छेदेत्यादि । अत्र कस्यचिन्मते काष्ठं भस्म करोतीत्यादौ काष्ठस्य विकार्यत्वमिति । कस्यचिन्मते भस्मनः, कस्यचिन्मते उभयोरपि । तत्र आये कारिका एवं व्याख्यायते – 'प्रकृत्युच्छेदसम्भूतम्' इति । प्रकृतेः स्वभावस्योच्छेदो विनाशस्तं संभूतं प्राप्तं काष्ठादि किंभूतं भस्मवद् भस्मयुक्तम्, अवर्णोपधत्वाद् वन्तुः । इदं पुनः साङ्ख्यमते काष्ठावस्थायामपि शक्तिरूपेण भस्मनः सम्भवाद् इत्युक्तमिति न दोषः । ते हि कारणेषु शक्तिरूपेण कार्यावस्थितिरित्याहुः । एवं गुणान्तरोत्पत्त्या हेतुभूतया सुवर्णादि कार्यम्, किम्भूतं विकारवदिति । एतन्मते विकाराख्यं भस्मादिकमवस्थान्तरं यत् काष्ठादिकं नीयते तद् विकार्यमिति काष्ठसुवर्णादौ विकार्यशब्दार्थः संगच्छते । अत एव पत्रीकृतापि ओदनं पचतीत्यत्र तण्डुलानिति शेष इत्युक्तम् । अस्मिन् पक्षे ओदनमिति प्राप्यं कर्म ।
ननु यदि प्रकृतेरेव विकार्यता तदा कथं "कर्मण्यण" (४।३।९७) इत्यत्र काण्डकारः इति विकार्ये उदाहरणं संगच्छते, काण्डस्याविकारत्वात् ? सत्यम् । तत्र करोतेः क्रियासामान्यवाचित्वात् काण्डं छेदादिक्रियाविशिष्टं जनयतीत्यर्थे सति काण्डस्य प्रकृतित्वाद् विकार्यतेति न दोषः । तर्हि कथं 'शरलावः' इत्यत्र प्राप्ये दर्शितम् अनया रीत्याऽस्यापि विकार्यत्वात् ? सत्यम् । अत्र छेदनक्रियया शरस्य विकारो नोत्पन्नः, किन्तु खड्गपर्णसंयोगमात्रमत्र बोद्धव्यमिति | ओदनस्य निर्व~विकार्यलक्षणाभावात् प्राप्यतैव । यत्तु टीकायां तण्डुलान् विकारयन् ओदनं निवर्तयतीत्युक्तम्, तत्र निष्पादयतीत्येवार्थः । यत्तु कुलचन्द्रेण काशानिति विकार्यं कटमिति निर्वत्र्यं कर्मेत्युक्तम्, तच्चिन्त्यम् । (मतान्तरेण वा समाधेयमिति) |
१. ननु काष्ठे भस्मनोऽसंभवात् कथं वन्तुः, येन भस्मयुक्तमित्युच्यते इत्याह - इदं पुनरिति । २. ननु विकृतिविशिष्टं यत् तद् विकार्यमिति विकार्यशब्देनायातम् । तत् कथं काष्ठादेर्विकार्यत्वमित्याह - विकाराख्यमित्यादि । अवस्थान्तरं भस्मादिकं विकाराख्यं नीयते प्राप्यते अनेन यत् काष्ठादिकं तद् विकार्यमित्यर्थः । ३. यस्मिन् पक्षे प्रकृतेरेव विकार्यत्वव्यवहारस्तस्मिन् पक्षे निवर्त्यविकार्ययोर्महाभेदाद् अवयवप्रकृतिरसती सती वा न विवक्ष्यते तन्निवर्त्यमिति लक्षणस्याभावे काशान् कटं करोतीत्यादौ सुतरामेव निवर्त्यलक्षणविषयत्वात् कटशब्दस्य निर्वर्त्यकर्मत्वमिति इदमेव केनचिद् उक्तम् । तन्मतम् अवलम्ब्याह-मतान्तरमिति ।
Page #128
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् द्वितीयपक्षे तु प्रकृतेस्तण्डुलादेरुच्छेदेन संभूतमुत्पन्नमोदनादिकं यत् किञ्चित् तद् विकार्यमित्यर्थः । किमिवेत्याह – काष्ठेति । काष्ठादीनां भस्म, तद्वत् । उपमाने वतिः। उत्तरार्धमप्येवं व्याख्येयम् । किन्तु अस्मिन् पक्षे यल्लब्धसत्ताकमित्यादि पञ्जीपङ्क्तेरयमर्थः' । लब्धसत्ताकं वस्तु, यदवस्थान्तरमापद्यते, तदवस्थान्तरमेव विकार्यमित्यर्थः । यद्यप्यस्मिन् पक्षे विकाराख्यमवस्थान्तरं यन्नीयते तद् विकार्यमित्यन्वयार्थो न घटते, तथापि मण्डपादिशब्दवद् विकारस्य ओदनादेरपि विकार्यशब्दवाच्यतेति न दोषः । अत्र पक्षे काशादीनां प्राप्यकर्मतैव । तृतीयपक्षे तु प्रकृत्युच्छेदसंभूतमित्यस्य पञ्चमीसमासो द्वितीयासमासश्चाङ्गीकर्तव्यः । तथाहि, प्रकृत्युच्छेदात् सम्भूतम् उत्पन्नं भस्मादिकं (किञ्च) प्रकृतेः स्वस्योच्छेदो विनाशस्तं संभूतं संप्राप्तम् अर्थात् प्रकृतिरूपमेव काशादिकमिति । अतः प्रकृत्युच्छेदसंभूतशब्देन काशादिकं कटादिकं चोच्यते । यद् वा प्रकृतिश्चोच्छेदसंभूतं च प्रकृत्युच्छेदसंभूतशब्देनार्थात् प्रकृतेरुच्छेदसंभूतमेव गम्यते, काष्ठादि यत् प्रकृत्युच्छेदसंभूतं काशकटादिकं तदुभयं विकार्यमित्यर्थः । किमिवेत्याह - काष्ठादीति च भस्म च काष्ठभस्मनी तद्वदित्युपमाने वतिः। एवमुत्तरार्धमपि व्याख्येयम् । किन्त्वस्मिन् पक्षे यल्लब्धसत्ताकमित्यत्र यदिति पदमुभयत्र संबन्धनीयम् । तथाहि, यल्लब्धसत्ताकं वस्तु, यच्चावस्थान्तरं तदुभयमेव विकार्यमापद्यते गम्यते इत्यर्थः । यद्यपि प्रकृतेरेव विकार्यत्वं संभवति, न विकारस्य कटादेः, तथाप्यभेदविवक्षया प्रकृतिविकृत्योर्विकार्यशब्दवाच्यतेति न दोषः ।
अत्र विकार्यकर्मस्थले काशाः कटं क्रियन्त इति विकारस्य गौणत्वेनानुक्तत्वात् कटादिशब्दाद् द्वितीयैव तथा च द्विकर्मकत्वात् प्रधाने कर्मण्यभिधेये दुहादीनां
१. ननु लब्धसत्ताकं विशेषणं किमर्थम्, न च वस्तुसत्तासमाविष्टवस्तुग्रहणार्थमिति, तेन शशशृङ्गं धनुः करोतीत्यत्र न विकार्यतेति वाच्यम्, अस्यापि विकार्यतेष्टत्वात् ? सत्यम् । यत्र प्रकृतिविकृत्युभयप्रयोगस्तत्रैव विकार्यमिति प्रतिपादनार्थं लब्धसत्ताकं पदम्, ततश्च मृत्पिण्डं घटं करोतीत्युक्ते एव विकार्यत्वम्, न तु घटं करोतीत्युक्तिः, किन्तु निवर्त्यमेवेति । अन्यथा एकत्र निर्वयविकार्ययोः प्राप्तिः स्यादिति भावः । २. ननु ‘सकृदुच्चरितः शब्दः सकृदर्थं गमयति' इति पञ्चमीसमासे कथं पुनर्द्धितीयासमास इत्याह - यद् वेति । ३. तथा चोक्तम् - प्रकृतेर्विकृतेर्वापि यत्रोक्तत्वं द्वयोरपि ।
गृह्णाति वाचकः संख्या प्रकृतेर्विकृतेहि ॥ ४. उत्पत्त्यनुकूलव्यापारजन्यपूर्वभावनाशो धात्वर्थः। ततश्च कटनिष्ठोत्पत्त्यनुकूलव्यापारजन्यपूर्वभावनाशाश्रयाः काशा इति बोधः ।
Page #129
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
८७ नित्यद्विकर्मकाणामिति भाषावृत्त्युक्तन्यायात् प्रकृतिविकृत्योर्युगपत् प्रत्ययो न साधुरेवेति । कुलचन्द्रस्यापि मतमेतत् । अन्ये तु यथा गौणे मुख्ये च कर्मणि द्वितीयाविधिस्तथा त्यादिविधिरपीति गौणमुख्यन्यायस्यानादरात् काशाः कटः क्रियन्ते इति द्वयोरेवोक्तत्वम् । तत्र च प्रकृतेरेव मुख्यत्वात् तस्या एव पुरुषवचनानि स्युरिति मन्तव्यम् । कटरूपेण काशा विपरिणमन्ते इत्यर्थवशेन कटादेर्विशेषणत्वेन गौणत्वमित्ययमेव पक्षो युक्तः । तथा च श्रीपतिः - "प्रकृति'विकृत्योः प्रकृतिवच्च" (कात० परि० का० ९५) इति सूत्रमाचष्टे- "तथायुक्तं चानीप्सितम्" (अ० १।४।५०) इति पाणिनिः। ___ अस्यायमर्थः। चकारोऽवधारणे, येन प्रकारेण कर्तुः क्रियया युक्तम् ईप्सिततमं कर्म भवति तेनैव रूपेणानीप्सितमपि तदभिन्नमपि तक्रियायुक्तं कर्मेत्यर्थः । तेन द्वेष्यम् अह्यादिकम् उदासीनं च वृक्षमूलादिकमपि व्याप्यमिति भावः । सर्वो हि धात्वर्थः करोत्यर्थेनाभिव्याप्तः इति । ननु यदि सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्त इत्युच्यते ।
१. नात्र प्रसज्यप्रतिषेधेनेप्सितप्रतिपक्षोऽभिमतः । यन्न देश्यम्, नापीष्यमाणं तत्र कर्मत्वानुपपत्तेः । नापि पर्युदासेनेप्सितसदृशमभिप्रेतं सर्वथाऽनीप्सितानां विषकण्टकादीनां कर्मत्वाप्रसङ्गाद् उदासीनस्यैव तत्सदृशत्वात् । अतस्तदन्यतामात्रं नञर्थः । तेन द्वेष्यमुदासीनं च कर्मेति यत्राभ्यासार्थं क्रियामात्रे तात्पर्य तत्रानीप्सितत्वादुदाहरणं बोध्यमिति सागरः। यथा घटज्ञानार्थं घटं करोतीत्यत्रान्यघटस्यैव ईप्सितत्वाद् उत्पत्तिरूपफलशालिघटस्यानीप्सितत्वमेवेति कर्मत्वमित्यर्थः । अस्मन्मते फलस्योद्देश्यत्वेन विवक्षितत्वात् कर्मत्वमिति भावः। २. ननु तथापि स्तोकं पचतीत्यादौ सर्वधात्वर्थस्य कथं कर्मत्वम्, कथं वा तद् विशेषकर्मकार्यं स्यात् । यतः कर्मलक्षणे फलांशे धातुवाच्य इति विशेषणमस्ति । अत्र तु करोत्यर्थव्यापारजन्योत्पत्तिरूपफलस्य धातुवाच्यत्वाभावात्, नैवम् । यत्रानुकूलव्यापारे धातुवाच्यतास्ति, तत्र फलांशेऽपि धातुवाच्य इति विशेषणम् । एतेन भूमौ पर्णं पततीत्यादौ न कर्मत्वम् । यत्र तु व्यापारेण धातुवाच्यता, तत्र फलांशेऽपि धातुवाच्यविशेषणं नास्ति ।। __ अत्र तु करोत्यर्थव्यापारे धातुवाच्यत्वाभावे सति कर्मत्वं सिद्धमिति । ननु तथापि 'उपखार्यां द्रोणः' इत्यादौ कविराजेन यदुक्तं कथमत्र षष्ठीप्राप्तिः ।यावता खारीमधिरूढो द्रोणः इतिवत् तदर्थोपशब्दसंयोगे द्वितीयाप्राप्तेर्द्वितीयेत्येवं वक्तुं युज्यते ? सत्यम् । उपशब्दस्य क्रियार्थत्वाभावान्न कर्मत्वमित्येतत् कथं संगच्छते, यावता अध्यारोहणरूपव्यापारे उपशब्दवाच्यता, न धातुवाच्यता । ___ अत्र फलांशेऽपि धातुवाच्येति विशेषणं तदा नास्तीति ? सत्यम् । एवमुच्यते - यत्र व्यापारे कस्यचिद् वाच्यतास्ति । तत्र फलांशे धातुवाच्यतेति विशेषणम् । अत्र तु अध्यारोहणरूपव्यापारे उपशब्दवाच्यतास्ति अतो न दोषः । करोत्यर्थस्थलेऽपि करोत्यर्थव्यापारे धातुवाच्यता नास्ति, एवं प्रत्ययवाच्यतापि नास्ति । अतोऽत्र फलांशे धातुवाच्यविशेषणमपि नास्ति । अत उक्तदोषो निरस्तः । अत एव कविराजेनाप्युक्तम् - कारकबोधप्रत्ययतात्पर्यपरिप्राप्त एव करोत्यर्थः, न पुनः प्रत्ययवाच्य इति दिक।
Page #130
--------------------------------------------------------------------------
________________
८८
कातन्त्रव्याकरणम्
तदा 'स्तोकं स्वापयति छात्रम्' इत्यत्र स्वपधातोरपि सकर्मकत्वाद् ध्रौव्यगतीत्यादिनाऽनिनन्तस्य स्वपेः कर्तुश्छात्रस्य कर्मसंज्ञा न स्यात् । किञ्च स्तोकं गन्तेत्यत्र स्तोकशब्दात् “कर्तृकर्मणोः कृति नित्यम्” (२।४।४१ ) इत्यनेन कृद्योगे कर्मणि षष्ठी स्यात् । किञ्च सुखं स्थितानि आगाराणि छात्रस्येत्यत्र धातोः सकर्मकत्वात् “क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः” ( ४ । ६ । ५३ ) इत्यनेन ध्रौव्यलक्षणः क्तोऽधिकरणे न स्यात् । किञ्च ' स्तोकं भीतः ' इत्यत्र " गत्यर्थाकर्मक० " (४ | ६ |४९) इत्यादिनाकर्मक-लक्षण: कर्तरि क्तप्रत्ययो न स्यात् । एतददोषपरिजिहीर्षया श्रीपतिदत्तोऽपि "द्वितीयाकारकविधावेकाधिकरणं धातोः " (कात० परि०, का० १७ ) इति सूत्रमाचष्टे । तदभावेऽस्मन्मते किं स्यात् ? सत्यम् ।
सर्वो हि धात्वर्थः करोत्यर्थेनाभिव्याप्त इत्यनेन धात्वर्थसन्निविष्टः करोत्यर्थो नोच्यते, येन धातोः सकर्मकता' स्यात् । किन्तु साधनप्रत्यायकप्रत्ययप्रतीयमानः करोत्यर्थः, तेन प्रत्ययार्थतात्पर्यपरिप्राप्तकरोत्यर्थव्याप्य एव धात्वर्थः । ' स्तोकं स्वापयति छात्रम्' इत्यादौ स्वपनरूपो यः प्रकृत्यर्थः, स इनर्थप्रेषणक्रियाव्याप्यः । एतेन स्वपधातोरकर्मकत्वादेव छात्रमित्यस्य कर्मत्वं सिद्धम् । न चेनर्थप्रेषणक्रियाव्याप्यः कर्तैवेति वाच्यम्, स्वपनस्येनर्थप्रेषणक्रियाजन्यत्वेन व्याप्यत्वात् । स्वाप्नं हि स्वपनानुकूलव्यापार इति । यो हि यदनुकूलको भवति, स तस्य जन्यो भवति । यथा
१. धातोरेकाधिकरणं द्वितीयाविधौ कारकविधौ च कर्म भवतीत्यर्थः । कारकविधौ कर्मत्वं यथा स्तोकन्यः स्तोकल्व इत्यादौ " अनेकाक्षरयोः” (२।२।५९) इत्यादिना यत्ववत्वसिद्धिरिति भावः । एतेन हि स्तोकं स्वापयतीत्यादौ धातोरेकाधिकरणस्य स्तोकशब्दस्य द्वितीयाविधौ धातोः सकर्मकत्वम् । एकाधिकरणभिन्नस्य कर्तुश्छात्रस्य कर्मत्वं प्रति षष्ठ्यादिविधिं प्रति च धातोरकर्मकत्वम् ।
२. सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्त इत्यत्र करोत्यर्थ इत्युपलक्षणम् । तेन इच्छतीत्यपि प्रत्ययार्थः । तेन कटं करोतीत्यादौ करणेच्छाश्रय इत्याद्यर्थसिद्धो भवति । नहि प्रत्ययार्थः करोतीति करणस्य करणासम्भवत्वात् । यद् वा प्रत्ययार्थः करोत्यर्थ एव धातूनामनेकार्थत्वाद् इच्छतीत्यर्थ इति सिद्धान्तो देयः । स्तोकं पचतीत्यादौ प्रत्ययार्थकरोत्यर्थत्वाद् धातुवाच्यफलत्वाभावे कर्मलक्षणे धातुवाच्यपदेन लक्षणया धात्वर्थवाचकवाच्योक्तत्वात् प्रत्ययार्थत्वेऽपि कर्मत्वमिति । ननु धात्वर्थे करोत्यर्थनिवेशेऽपि कथं सकर्मकत्वम् । यतोऽन्तर्निविष्टकर्मणि सत्यपि धातोरकर्मकत्वम् । यथा 'मृङ् प्राणत्यागे' (५ | १११) इति नैवम् । धातोरन्तर्निविष्टकर्मत्वे सति धातोर्बाह्यकर्म न संभवति, तत्राकर्मकत्वम् । यत्र बाह्यं संभवति तत्र सकर्मकत्वमेव । अतोऽत्र बाह्यस्य स्तोकादेः संभवात् सकर्मकताशङ्का इति न दोषः । सकर्मकत्वं हि स्वशक्यतावच्छेदकफलावच्छिन्नव्यापारत्वम् ।
Page #131
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
अधिश्रयणादिक्रियाजन्या विक्लित्तिरिति । 'सुखं स्थितान्यागाराणि' इत्यादावधिकरणे तो विहितः । अधिकरणं हि कारकं भवति, तद्धि अधःपतनप्रतिबन्धकक्रियया देवदत्तादेः स्थितिं साधयतीत्यत्रापि क्तप्रत्ययार्थस्य व्याप्यः स्थाधातोरर्थः । अतः स्थाधातोरकर्मकत्वादधिकरणे क्तः सिद्धः ।
८९
‘स्तोकं गन्ता' इत्यत्र यस्माद् धातोः कृत्प्रत्ययः । प्रत्यासत्त्या तद्धातुवाच्यक्रियाव्याप्यं यत्, तस्मिन्नेव षष्ठीविधानात् । अत्र तु तृच्प्रत्ययवाच्यस्य कर्तुः प्रयत्नादिसाध्यं यद् गमनम्, तस्यैव विशेषणं स्तोकमिति, न तु गतिक्रियाव्याप्यमिति । स्तोकं भीतः इत्यादावपि उक्तरीत्यैव स्तोकमिति प्रत्ययार्थव्याप्यस्य' भीधात्वर्थस्य विशेषणमिति । अतो भीधातोरकमर्कत्वेन क्तप्रत्ययः कर्तरि सिद्ध इति । अत एव सर्वस्यैव कर्मकर्तृविहितस्य प्रत्ययस्य क्रियाजनकत्वरूपं कारकत्वमिति वाच्यम् । अत उत्पत्त्यनुकूलस्वरूपस्य प्रत्ययवाच्यार्थस्य व्याप्या क्रिया भवत्येवेति न्यासः । अत एव कर्मणो नास्योक्तत्वम्, धात्वर्थव्याप्य एव प्रत्ययविधानात् । ननु तथापि भावे कृत्प्रत्यये सति स्तोकं पाकः ' इत्यादौ कारकप्रत्यायकप्रत्ययस्याभावात् प्रकृत्यर्थस्य व्याप्यत्वाभावे कथं तद्विशेषणस्य स्तोकशब्दस्य कर्मतेति । नैवम् । पाकक्रियायाः कर्तृसापेक्षत्वात् कर्तरि विहितेन तृतीयादिना कारकत्वाभिधानात् पूर्वरीत्या पचनं व्याप्यमिति तद्विशेषणस्य स्तोकस्य व्याप्यतेति । यद्येवम्, देवदत्तेन ओदनस्य स्तोकं पाकः' इत्यादौ उक्तयुक्त्या पाकशब्दादपि द्वितीया स्यात् । उच्यते कृत्प्रत्ययेन सिद्धताभिधानात् पाक इत्युक्ते क्रियायाः सिद्धिरेव प्रतीयते । अतः सिद्धतायाः कर्तुरसाध्यत्वात् पाकशब्दान्न द्वितीया । किन्तु सिद्धताविशिष्टो यः पाकस्तदन्तर्गतं यत् पचनं तदेव कर्तृसाध्यत्वेन व्याप्यम् । अतस्तद्विशेषणस्यापि स्तोकशब्दस्य व्याप्यतेति । यत्र तु सिद्धताविशिष्टस्य
१. प्रत्ययार्थव्याप्यत्वाद् भीधात्वर्थस्य कर्मत्वम्, ततः कर्मविशेषणेन कर्मत्वं स्तोकशब्दस्येत्यर्थः । देवदत्तस्य शायिकेत्यादौ धातुवाच्यक्रियाश्रये कर्तरि षष्ठी विधानात् तत्साहचर्याद् धातुवाच्यक्रियाव्याप्य एव कर्मणि षष्ठी स्यादिति नास्ति 'स्तोकं गन्ता' इत्यादौ स्तोकात् षष्ठीप्रसङ्ग इति सिद्धान्तान्तरम् । २. ननु ‘सुखं स्थितान्यागाराणि ' इत्यत्राधिकरणे क्तप्रत्ययवाच्यत्वात् कर्तृकर्मविहितस्येत्युपलक्षणम् । तेन क्रियां जनयति क्रियाजनकं कारकम् तस्य भावः क्रियाजनकत्वम् । क्रियानुकूलव्यापारः कारकनिष्ठः कारकविहितप्रत्ययेनोच्यते इति भावः ।
३. साध्यता हि धर्मस्त्यादिवाच्यः, सिद्धता हि धर्मो घञादिवाच्य इति तर्काचार्येणाप्युक्तम् ।
Page #132
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
पाकस्यैव विशेषणं तत्र 'स्तोकः पाकः' इत्येव भवति । अत एव पाणिनिरपि एतद्युक्त्यनुसारेणैव क्रियाविशेषणसूत्रं कृतवानिति ।
९०
न्यायादिति पञ्जी। अव्यवहितन्यायादित्यर्थः । एतेनात्रैकत्वनपुंसकत्वविधानार्थं श्रीपतिसूत्रमयुक्तमेव | धातोरर्थस्यासंख्यत्वात् तद्विशेषणस्यापि सुतरामेकत्वनपुंसकत्वसिद्धिः ।किञ्चाजहल्लिङ्गानामादिशब्दादीनां क्रियाविशेषणत्वे सति नपुंसकत्वप्रसङ्गात् । अत एव भट्टिटीकाकृता केशवेनापि अजहल्लिङ्गानां तु असंभवान्न नपुंसकत्वम् । यथा ज्ञानहेतुं पठति, दानहेतुं पचति, सुखहेतुं नक्तं क्रीडति इत्युक्तमिति । " अकथितं च " ( अ० १ | ४|५१ ) इति पाणिनिः । अपादानादिसंज्ञाभिर्यन्नोक्तं तदपि कर्म स्यादित्यर्थः । हेत्वर्थे तृतीयाबाधकमिदम् । “कर्तुरीप्सिततमं कर्म" (अ० १ । ४ । ४९) इत्यनेन पयसः कर्मत्वं सिद्धं गवादेः कर्मार्थमेतदिति भावः । दुहियाचीत्यादि । ननु याचिभिक्ष्योस्तुल्यार्थयोरेकतरवैयर्थ्यम् । नैवम् याचेरविनीतार्थत्वात् 'अविनीतपौरवं गां याचते' इत्यपि स्यात् । भिक्षिर्विनीतार्थ एवेति कुलचन्द्रः ।
वस्तुतस्तु याचिरिहानुनय एव वर्तते, भिक्षिस्तु प्रार्थनायाम्, अतो द्वयोरुपादानम् । श्रीपतिमते द्वयोरपि याचनार्थद्वारेणैव संग्रहोऽर्थनार्थेति सामान्येनोपादानादिति विशेषः । ( अत्र प्रछिरर्थपरश्छन्दोऽनुरोधान्न द्विर्भावः । उपयोगो व्यवहारस्तस्य निमित्तम् इत्यर्थाच्छिष्यादेः पूर्वद्वारा न स्यात् । धमदिर्व्यवहार्यत्वाभावे तन्निमित्तस्य शिष्यादेरभावादिति पृथगाह) - ब्रुविशासीति । ब्रुविरर्थपरः । यद्यपि ब्रूधातोरिकिप्रत्यये वच्यादेशस्य विषयस्तथापि ‘“ अजेर्वीः” (३ । ४ ।९१) इत्यत्र यथा अजेर्वीरित्यादेशाभावेऽपि साधुत्वम्, तथात्रापीति | अस्मादेव कात्यायनवचनाद् वा साधुत्वमिति । उपयुज्यते व्यापार्यते व्यवहार्यते इति यावत्, तस्य निमित्तं गवादिरिति । अत्र निमित्तपदेन निमित्तविशेषस्य ग्रहणादव्यवहितनिमित्तस्यैवाकथितत्वम् । तेन 'चैत्रस्य गां दोग्धि ' इत्यादौ निमित्तविवक्षायामपि चैत्रस्य नाकथितत्वम् ।
१. याचेर्भिक्षार्थत्वादेव सिद्धे पुनस्तदुपन्यासो न याचनार्थः, किन्तु अभ्यर्थनार्थ एवेति । दानार्थकं प्रेरणं याचनं क्वापि कारयितव्येऽभिनिवेशार्थं यत्नभेदोऽभ्यर्थनमिति । भेदस्थलं तु पुत्रमध्ययनं याचते इत्यर्थः ।
Page #133
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः। अनन्यविधौ अपादानादिसंज्ञादीनामविषय इत्यर्थः । ननु यथा उपयोगनिमित्तत्वेन 'गां दोग्धि पयः' इत्यादौ गवादेः कर्मत्वम्, तथा 'चैत्रस्य गां दोग्धि पयः' इत्यत्र चैत्रस्य निमित्तत्वविवक्षायां कर्मत्वं स्यात् ? सत्यम् । यद्यपि निमित्तशब्देन सामान्यनिमित्तमात्रमुच्यते, तथापि निमित्तविशेष एव बोद्धव्यः। तस्माद् यदुत्तरद्वितीयाय निमित्तत्वं बोध्यते, तस्यैवाकथितत्वम् । स च गवादिरेव, न तत्संबन्धी चैत्रादिः । अन्वयबोधे तान्येव पदानि सपर्थानि, न तु पदान्तराणीति न्यायात् । अपूर्वविधाविति उपलब्ध्यभावोऽनुपलब्धिरितिवत् पूर्वविध्यभावोऽपूर्वविधिरिति । तथा चानन्यविधाविति अन्यस्य विधेरविषय इत्यर्थः । परमप्येतदपादानादिविवक्षायां न प्रवर्तते किन्तु अपादानाद्येव । यथा 'गोः सकाशात् पयो दोग्धि' । क्षरतीत्यादि ।
अथ दुहेः क्षरणार्थत्वाद् गोः सकाशाद् दुग्धं क्षरति, तत् क्षारयतीत्यर्थे सति 'वृक्षमवचिनोति' इत्यत्र च चिनोतेरपादानार्थत्वाद् वृक्षाद् आदत्ते इत्यर्थे सत्यपादानत्वात् कथितत्वमस्त्येव, कथं गोवृक्षस्य च कर्मत्वमिति दोषः ? सत्यम् । यद्यप्यवधिविवक्षा सम्भवति तथापि न विवक्ष्यते, किन्तु यत्र गोनिमित्तं क्षरणं वृक्षनिमित्तकं फलादेरादानमिति विवक्ष्यते, तत्रैव "अकथितं च" (अ० १।४।५१) इति पाणिनिना सूत्रं प्रणीतमिति । ब्रुविशास्योर्गुण इत्यादि । नात्र गुणशब्दो गौणवचनः, किन्तु गुणो धर्मादिप्रधानम् । यच्श्रवणेन श्रोता गुणवान् भवतीति कुलचन्द्रः। तन्न । 'शिष्यं घटं ब्रूते' इत्यत्र कार्यत्वं न स्यात्, न ह्यनेन श्रोता गुणवान् भवतीति । जयादित्यस्तु क्रियापेक्षया धमदिर्गौणत्वाद् गुण इत्याचष्टे । शिष्यादिकर्मान्तरापेक्षया तस्य प्राधान्यम्, प्रधानमपि तदुद्दिश्य प्रवृत्तेरिति, इत्येव पक्षो न्याय्यः । स्वभागद् द्विकर्मका इति द्विक्रियका इत्यर्थः । 'गां दोग्धि' इत्यादि । गां पयो मोचयतीत्यर्थः' । पौरवं गां याचते' इति गां दातुं पौरवं प्रेरयतीत्यर्थः । पौरवम् अनुनयन् गां प्रार्थयत इत्यर्थ इति वा ।
१. स्वमते दुहधातोरर्थः - अधःसंयोगानुकूलस्नुत्यनुकूलपय स्थाननिकर्षणमिति । पाणिनिमतेऽधःसंयोगानुकूलपयः स्थाननिकर्षणमिति । तन्मते दुहादीनां गौणकर्म उक्तम् । स्वमतेऽप्रधानकर्म उक्तम् । अतः स्वमतपरमतयोः साम्यं ज्ञेयमिति। २. स्वमते याचधातोरिच्छार्थः । इच्छाश्रयत्वादुभयोः कर्मत्वम् । पाणिनिमते स्वत्वविशिष्टज्ञानानुकूलो मह्यं देहीति व्यापारः । भिक्षिधातोरपि याचिवत् प्रक्रिया ।
Page #134
--------------------------------------------------------------------------
________________
९२
कातन्त्रव्याकरणम्
गामवरुणद्धि व्रजम् इति । गामन्तः स्थापयन् व्रजमावृणोतीत्यर्थः' ।गां व्रजं प्रवेशयतीति वा । 'छात्रं पन्थानं पृच्छतीति । पन्थानं जिज्ञास्यमभिधातुं छात्रं प्रेरयतीत्यर्थः । पौरवं गां भिक्षते इति । गां दातुं पौरवं प्रेरयतीत्यर्थः । 'वृक्षमवचिनोति फलानि इति । वृक्ष विघट्टयन् फलान्यादत्ते इत्यर्थः । 'शिष्यं धर्मं ब्रूते इति । धर्मं प्रतिपद्यते शिष्यः । तं धर्मं प्रतिपादयतीत्यर्थः । 'शिष्यं धर्ममनुशास्ति' इति । धमदिशनया विनयतीत्यर्थः । नीवह्योरित्यादि । नयत्यादेर्द्विकर्मकेषु ग्रहणम्, तथा ण्यन्ते इनन्ते गत्यर्थादीनां गतिबुद्धीत्यादीनामिति यावत्, तेषां द्विकर्मकेषु ग्रहणम् ।हेतुमाह - कर्तुश्च कर्मण इति | कर्तृरूपस्य कर्मणः संभवादिति शेषः । कर्मपदेन कर्मत्वमुच्यते । कर्तुः कर्मत्वादित्यर्थ इति वा । 'कर्तुः कर्मणे' इति चतुर्दान्तपाठे तु कर्तुः कर्मत्वार्थमिनन्ते द्विकर्मकेषु गत्यर्थादीनां ग्रहणमित्यर्थः । यदि भाष्यादौ - 'द्विकर्मकषु ग्रहणं द्रष्टव्यमिति निश्चयः' इति पाठस्तदा अयमर्थः- गत्यर्थानां मध्ये नयत्यादेर्द्विकर्मकषु ग्रहणं द्रष्टव्यमिति निश्चय इत्यर्थः । अजामित्यादि । 'नयतिवहतिहरतीनामर्थः प्रापष्षा | ग्रामं छात्रशतं जयतीति ग्रामग्रहणेन छात्रशतं पराजयते इत्यर्थः ।
गर्गान् शतं दण्डयतीति । शतानां ग्रहणेन गर्गान् शास्तीत्यर्थः । ग्रहमृषकृषोऽपि
१. स्वमते क्रुधधात्वर्थः - विशिष्टस्तम्भादिरोपणस्वरूपसंयोगानुकूलव्यापारविशिष्टत्वं बहिर्देशगमनाभावपूर्वकत्वं संयोगस्योभयवृत्तित्वाद् उभयोः कर्मत्वम् । पाणिनिमते तु गमनाभावानुकूलस्तम्भादिरोपणव्यापारः । २. स्वमते प्रच्छधातोरर्थः- विषयतानिरूपकज्ञानानुकूलेच्छाविषयताशालिपथो ज्ञानशालित्वाच्छात्रस्य कर्मत्वम् । पाणिनिमते ज्ञानविषयतानुकूलप्रेरणम् । ३. चिञ्धात्वर्थः-संयोगध्वंसानुकूलाकर्षणव्यापारः संयोगध्वंसरूपफलवत्त्वादुभयोः कर्मत्वम् । पाणिनिमते संयोगानुकूलाकर्षणादिव्यापारः इष्टफलसंयोगशालित्वात् फलस्य कर्मत्वम् । वृक्षस्य निमित्तत्वेन कर्मत्वम् । पाणिनिमते सर्वत्रैव दुहादीनां निमित्तत्वेन कर्मत्वम् । केवलं ब्रूशासधातू विना बोध्यमिति । ४. ब्रूञ्धात्वर्थ:-विषयतानिरूपकज्ञानानुकूलव्यापारः । व्यापारश्च कण्ठताल्वादिजन्यशब्दरूपः । विषयताशालित्वाद् धर्मस्य ज्ञानशालित्वाच्च शिष्यस्य कर्मत्वम् ।पाणिनिमते ज्ञानविषयतानुकूलव्यापारः । व्यापारः पूर्ववद् ज्ञेयः। ५. नीधात्वर्थ:-संयोगानुकूलस्पन्दनानुकूलरज्ज्वाकर्षणादिव्यापारः । ६. जिधात्वर्थः- स्वजन्यपीडानुकूलाक्षक्रीडादिव्यापारः । ७. दण्डिधात्वर्थः- स्वत्वजन्यदुष्टध्वंसानुकूलदमनादिव्यापारः ।
Page #135
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः कुलचन्द्रेण दर्शिताः । श्रीपतिनापि कृषेरेवेति विशेषः । “आधारोऽधिशीस्थासाम्" (अ० १।४।४५ - ४६) इति पाणिनिः। अधिपूर्वाणामेषामाधारः कर्म भवतीत्यर्थः । अकर्मकण शीङा साहचर्यात् प्रसिद्धार्थस्य ग्रहणाच्च तिष्ठतिकर्मक एव ग्राह्यः । तेनावेक्षणार्थस्य तिष्ठतेन स्यात् । रणेऽधितिष्ठति राजानमित्यत्र रणस्य न कर्मता । एतदालोच्य श्रीपतिना "आधारोऽधिशीस्थासां ध्रौव्ये" (कात० परि० का० १२) इति सूत्रे ध्रौव्यग्रहणं प्रदत्तमिति । “अभिनिविशश्च" (अ० १।४।४) इति पाणिनिः। अभिश्च निश्च अभिनी, तत्पूर्वो विशस्तस्याधारः कर्म भवति । चकारादधिकरणसंज्ञापि पक्षे भवतीति न वक्तव्यमिति अभिनिविशः सकर्मकत्वादिति भावः । ननु परेणाधिकरणसंज्ञापक्षे चकाराद् विधीयते । तदस्मन्मते कथमित्याह - इहादिकरणविवक्षापि दृश्यते इति । तथा च माघेऽपि -
'स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत्' (१।१५) इति ।
"उपान्चध्याङ्वसः" (अ० १।४।४८) इति पाणिनिः। अस्याप्याधारः कर्म भवतीत्यर्थः । ननु ‘वसः' इति विशेषार्थानिर्देशादनशनार्थस्य वसो ग्रहणं कथन्न स्यात् । यथा 'तीर्थे उपवसति' | अनशनं करोतीत्यर्थः । अत्र कर्मत्वाभावार्थम् ‘उपान्निवासे' इति निवासार्थे कर्मत्वार्थं पृथक् सूत्रं विधीयतामिति श्रीपतिः पाणिनिमाक्षिपति । वार्त्तिककारोऽपि 'तीर्थे उपवसति' इत्यत्रानशनार्थस्य वसतेरधिकरणस्य कर्मत्वनिषेधो वक्तव्य इत्याचष्टे । यस्तु 'उपोष्य रजनीमेकाम्' इति प्रयोगस्तत्र कालाध्वनोरिति द्वितीया ? सत्यम् । तीर्थे उपवसतीत्यत्र तीर्थम् उपवसते धिकरणम् । किन्तु गम्यमानस्य केवलस्य वसतेरिति न कर्मता । अत एव भाषावृत्तावपि तीर्थे उपवसतीति तीर्थे वसन् उपवासं करोतीत्यर्थः इत्युक्तम् । अत्रोपवसेः कर्म प्रयुक्तम् - त्रिरात्रादिकम् । तथा चोक्तम् -
वसतावप्रयुक्तेऽपि देशोऽधिकरणं मतम् । अप्रयुक्तं त्रिरात्रादि कर्म चोपवसेः स्मृतम् ॥
___ (वा० प० ३।७।१५५) इति पुरुषोत्तमेनोक्तम् । ननु तथापि अनशनार्थस्योपवसतेराधारत्वे विवक्षिते तीदिः कर्मत्वं स्यात् । ततश्च तीथदिरधिकरणस्य कर्मत्वे उपवसत्यस्मिन्नित्युपवसनम् । उपोषितमिति
Page #136
--------------------------------------------------------------------------
________________
९४
कातन्त्रव्याकरणम्
अधिकरणे युट् - क्तौ न स्याताम्, अधिकरणत्वाभावादिति श्रीपतिकृतः पूर्वपक्षः पाणिनिमते दुर्निवार एव । अस्मन्मते त्वनशनार्थस्य वसतेः सकर्मकत्वमेव न विवक्षितमिति । तीर्थे उपवसतीत्यधिकरणमेव । 'त्रिरात्रम् उपवसति' इत्यत्र तु वसतिर्निवासार्थ एवेति । यदि पुनरनशनार्थ एव विवक्ष्यते, तदा 'कालाध्वभावमन्तव्याः' इत्यनेन द्वितीयेति संक्षेपः।
"दिवः कर्म" (अ० १।४।४३) इति पाणिनिः। अस्यार्थः - दिवः प्रयोगे करणम्, कर्म च भवति । चकारो युगपद् उभयसंज्ञासमावेशार्थः । अन्यथा यदि कर्मकरणयोः पाक्षिकवृत्तिः स्यात् तदा चकारमकृत्वा "परिक्रयणे सम्प्रदानमन्यतरस्याम्" (अ० १।४।४४) इत्युत्तरसूत्रस्थितम् अन्यतरस्याम् इत्यत्रैव कृतं स्यात् । अतः श्रीपतिरपि “दिवस्तेन करणम्" (कात० परि० का० १६) इति सूत्रं प्रणीतवान् । दिवः प्रयोगे तेन कर्मणा सह करणं भवति । करणविषये युगपद् उभयसंज्ञे स्याताम् इत्यर्थः । तेन करणे कर्मत्वस्यापि सत्त्वात् "भावाख्यातं ध्रौव्यात्" (कात० परि०, का० ९६) इत्यनेन ‘अक्षैर्दीव्यते' इति भावे प्रयोगो न भवति । तथा ‘अक्षेर्दूतोऽयम्' इत्यपि प्रयोगो न भवत्येव, करणे कर्मणः सत्त्वात् । अकर्मकलक्षणः कर्तरि क्तप्रत्ययो न स्यात् (किन्तु अक्षा द्यूतास्तेनेत्यपि भवति)। तथा 'अक्षैर्देवयते छात्रेण' इत्यत्र सकर्मकत्वात् कर्तुः कर्मत्वं न भवतीति । किञ्च “अणावकर्मकाच्चित्तवत् कर्तृकात्" (अ० १।३।८८), इत्यनेन परस्मैपदमपि न भवति । तथा 'अक्षैर्दीव्यतीत्यस्मिन्' इति अक्षाणां द्यूतं स्थानमिति करणे कर्मत्वस्य सत्त्वाद् अकर्मकलक्षणः क्तोऽधिकरणे न स्यात्, । तथा 'अक्षर्देविता' इति न भवति, किन्तु ‘अक्षाणां देविता' इत्येव भवति, करणे कर्मणः सत्त्वात् । कृद्योगलक्षणषष्ठ्याः परत्वात् प्राप्तेरित्युभयसंज्ञाफलम् उद्भावितं श्रीपतिना ।अस्मन्मते कर्मकरणयोः पाक्षिकविधानात् करणपक्षे कर्मत्वाभावाद् भावादौ अक्षैर्दीव्यते इत्याद्यपप्रयोगः स्यात् । तथा मनसादेवीत्यत्रास्मन्मते करणपक्षे कर्मत्वाभावात् “कर्मण्यण्" (४।३।१) इत्यण् प्रत्ययो न स्यात् । अत्र महान्तः - युगपद् उभयसंज्ञासमावेशार्थश्चकार इति क एवमाह |
न च "दिवः कर्म च" (अ० १।४।४३) इत्यत्रैवान्यतरस्यामिति सिद्धे चकारो व्यर्थ इति वाच्यम्, चकारकरणस्योत्तरत्र दिवो निवृत्त्यर्थत्वेनैव सार्थकत्वात् । ततश्च पाणिनिमतेऽपि कर्मकरणयोः पाक्षिकविधानमेव । अत एव पत्रीकारेणापि दिवः प्रयोगे
Page #137
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
करणस्य पक्षे कर्मसंज्ञार्थं “दिवः कर्म च " ( अ० १ |४ | ४३ ) इति न वक्तव्यम् । अत एव चन्द्रगोमिनापि वचनमिदं प्रत्याख्यातम् । न च वार्त्तिके युगपद् उभयसंज्ञासमावेशाद् विरोध इति वाच्यम्, भाषाव्युत्पादकचन्द्रगोमिविरोधेन वार्त्तिकस्य छन्दोविषयकत्वकल्पनात् । तेन वार्त्तिकस्योभयसंज्ञासमावेशेन यद् यत् पदं न भवतीत्युच्यते तत्तदेव पदं भाषायां चन्द्रगोमिमतानुसारेण पाणिनिमतेऽपि भवत्येव । तस्मादस्माभिरपि भाषाव्युत्पादकचन्द्रगोमिमतानुसरणमेव रमणीयमिति भाव्यम् । यत्तु 'मनसादेवी' इति "कर्मण्यण्" ( ४ | ३|१) प्रत्ययो न स्यात्, कर्मत्वाभावाद् इत्युक्तम्, तत्तु पचाद्यचा सिद्धम् इति रक्षितः। तदा तावेव तृतीया, संज्ञाशब्दत्वात् तस्य साधुत्वमिति केचित् ।
९५
-
अथ यदि वार्त्तिकश्रीपतिविरोधेनापरितोषस्तदैवं व्याख्यायते पञ्जी । करणस्य पक्षे कर्मसंज्ञार्थमिति । यस्मिन् पक्षे करणत्वं तस्मिन् पक्षे कर्मसंज्ञार्थं सूत्रं न वक्तव्यमित्यर्थः । (पक्षशब्दोंऽशवचनः ) । ननु 'कर्मणः' इति सापेक्षत्वात् कथं समास इत्याह – अथवेति । अत्र करणे कर्मणो न विवक्षा, किन्तु धातोः सकर्मकत्वविवक्षायां कर्मत्वमेवेति हृदि कृत्वा पूर्वपक्षयति – यदीत्यादि । करणस्येति धातोः सकर्मकत्वे विवक्षिते करणस्य विवक्षा कर्मणीति शेषः । ततश्चाधाराधेयत्वेन विवक्षितयोः कर्मकरणयोर्युगपत्संभवेनोभयसंज्ञासमावेशोऽप्यविरुद्ध एवेति । न ह्याधारः आधेयेन दूरीक्रियते इति वार्त्तिकश्रीपतिभ्यां सहास्माकं समानः पन्थाः । ननु यदि युगपद् उभयसंज्ञासमावेशस्तर्हि कथम् ' अक्षा दीव्यन्ते' इति प्रयोगः, करणस्यापि सत्त्वात् तृतीयाप्राप्तेः ।
न चात्मनेपदेन कर्मणः उक्तार्थत्वात् प्रथमा स्यादिति वाच्यम्, करणस्याख्यातेनानुक्तत्वात्, अतस्तद्बाधिका तृतीयैव प्राप्नोति ? सत्यम् । अत्रोभयसंज्ञासमावेशेनापि शक्तिद्वयं न कल्प्यते, किन्तु एकस्यैव साधकतमरूपशक्तिविशेषस्य संज्ञाद्वयं विधीयते इति ततश्चैकस्यैव शक्तिविशेषस्यात्मनेपदेनोक्तत्वात् कथं तृतीयेति स्वयमेव भाव्यतामिति । 'कालभावाध्वगन्तव्याः' इत्ययं पाठः सकलपाणिनितन्त्रे प्रसिद्धः । भावशब्दोऽत्र क्रियावचनो गन्तव्यतया विवक्षितोऽध्वेत्यर्थः । यद्यपि दोहादिक्रिययापि कालो लक्ष्यते, तथापि कालग्रहणेन नास्ति निर्वाहः । स हि 'कं
१. ननु 'ओदनपाकं शेते, गोदोहं शेते' इत्यादि । यावत्कालं व्याप्य ओदनपाकः क्रियते तावत्कालं शेते इति बोधात् क्रिययापि कालो लक्ष्यते, तदा किं भावग्रहणेन, कालग्रहणेन सिद्धत्वादित्याह - यद्यपीति ।
Page #138
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
कालं स्वपिति' इत्यत्रैव मुख्यकाले सफलः । यद्यपि गन्तव्य एवाध्वेति लोकप्रसिद्धिस्तथापि यदा गन्तव्यतया अध्वा धात्वर्थेन सह संबध्यते तदा कर्मसंज्ञा नान्यस्येति . सूचनार्थम् अध्वविशेषणं गन्तव्यपदम् उपात्तम् । तेन 'क्रोशमास्ते' इत्यस्यायमर्थ:यावता कालेन क्रोशो गम्यते तावन्तं कालमास्ते इति'।
यदा तु गन्तव्यतया न विवक्ष्यते तदा क्रोशस्यान्त इत्येव भवतीति न्यासः। 'कालाध्वभावा गन्तव्याः' इति पाठेऽध्वनो गन्तव्यतया विवक्षितत्वम् । अत्र श्रीपतिः - तप्रत्ययेऽसंज्ञं कालादि ध्रौव्यस्येति सूत्रमाचष्टे | तत्प्रत्यये कर्मप्रत्यये कर्तव्य एव कर्मसंज्ञेत्यर्थः । तेन 'कुरून् सुप्तः' इत्यत्र सत्यपि सकर्मकत्वेऽकर्मकत्वलक्षणः कर्तरि क्तप्रत्ययः सिद्धः । तथा ‘मासमासयति छात्रम्' इत्यत्रापि सकर्मकत्वात् कथम् अनिनन्तकर्तुः कर्मत्वमिति छात्रेणेत्येव स्यात् । कालादेरन्यत्र वा कथं कर्मत्वं न स्याद् उच्यते 'कुरून् सुप्तः' इत्यत्र प्रथमम् अकर्मकलक्षणः कर्तरि क्तप्रत्ययः पश्चाद् व्याप्यत्वविवक्षया कर्मत्वमिति न दोषः । यथा त्रिमुनिसंग्रहकारमते 'मासान् पच्यते' इत्यत्र भावे आत्मनेपदं निष्पाद्य पश्चाद् धात्वर्थकृतव्याप्यत्वाद् मासादेः कर्मणः प्रयोगः । न च “गत्यकर्मक०" (अ० ३।४।७२) इत्यत्राकर्मकग्रहणं सर्वथा अकर्मकत्वप्रतिपत्त्यर्थम्, यत्र पश्चादपि कर्म न विवक्ष्यते इति वक्ष्यति तस्य व्यावृत्तिस्तदेति वाच्यम् । यदर्थविशिष्टाद् धातोः प्रत्ययः प्रत्यासत्त्या तदर्थविशिष्टस्य कर्मत्वम्, यत्र पश्चाद् विवक्ष्यते तत्र व्यावृत्तिः । अत्र स्वपनार्थविशिष्टात् प्रत्ययो विहितस्तदर्थस्य नहि कुरूणां व्याप्यत्वम्, अपि तु प्राप्तिक्रियायाः कर्मत्वमिति न दोषः । किञ्च अकर्मकलक्षणः क्तः कर्तरि विधीयमानो यदर्थविशिष्टतया धातोरकर्मकत्वम्, तेनैवार्थेन यदि सकर्मकत्वं न विवक्ष्यते तदा निर्विरोधेन भवति ।इह स्वपनक्रियायां धातोरकर्मकत्वात् कर्तरि क्तप्रत्ययः सिद्धः । नहि स्वपनक्रियायाः कुरूणां व्याप्यत्वम्, किन्तु प्राप्तिक्रियाया इति भाव इति पुस्तकान्तरे पाठः।
१. दौर्गास्तु मन्यन्ते - एवंविधविषये धातोर्द्विधा वृत्तिः शयनादिमात्रे प्राप्तिविशिष्टशयनादौ च । तत्राद्ये - गम्यमानधात्वन्तरवाच्यक्रियाकर्मत्वे स्वपादेरकर्मकत्वात् कर्तरि क्ते 'कुरून् सुप्तः' । द्वितीये तु प्रापणस्यापि धातुवाच्यत्वात् कर्मकार्यं 'कुरवः सुप्यन्ते, कुरूणां स्वप्तः' इति कालादेरन्यत्र तु स्वपादेर्न विशिष्टवृत्तिः किन्तर्हि शयनमात्रे एव स्वभावादिति गोपीनाथः।
Page #139
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
महान्तस्तु 'कुरून् सुप्तः' इत्यदृष्टपूर्वत्वादसाधुरित्याहुः । ‘मासमासयति’ इत्यादिकं तु दुहादिमध्ये पठनीयम् । अन्वयबोधे तान्येव पदानि समर्थानि न तु पदान्तराणीति न्यायात् ‘छात्रेण मासमासयति' इति न भवत्येव । अत एवोक्तन्यायात् कालादेरन्यत्र धातोर्व्याप्तिविवक्षा नाभिधीयत इति । ननु परेण द्वितीयैव विधीयते न तु कर्मसंज्ञा । तेन धातोरकर्मकत्वाद् भावेऽपि 'मासं सुप्यते, मासौ सुप्यते, मासान् सुप्यते' मासान् सुप्यते' इति प्रयोगाः साध्यन्ते । श्रीपतिनाप्येतत्प्रयोगसिंद्धये द्वितीयाविधानार्थम् “अभिविधौ कालाध्वमानात् ” ( कात० परि०, का० २९) इति सूत्रं प्रणीतम् । तद् अस्मन्मते साक्षाद् गम्यमानस्य धातोर्व्याप्तिविवक्षया सकर्मकत्वात् कथं भावे ‘मासं सुप्यते' इत्यादि प्रयोगः स्यात् ? सत्यम् । 'मासान् पच्यते' इत्यादिवत् प्रथमं भावे प्रत्ययः, पश्चात् कर्मादिनाऽन्वय इति न दोषः । ननु पाणिन्यादिमते कथमत्र भावे प्रत्ययः यावता कालाध्वभावदेशानां कर्मसंज्ञेति वक्तव्ये न कर्मसंज्ञाविषयः, ततश्च कर्मण्येव प्रत्ययः स्यात् ? सत्यम् । क्रियात्यन्तसंयोगे कर्मसंज्ञाविघातार्थं विधिरयमेष्टव्य इति श्रीपतिनापि सिद्धान्तितम् इति संक्षेपः || २९८ ।
९७
[समीक्षा]
—
क्रियाजन्यफलशालित्वं कर्मत्वम् । अर्थात् कर्ता के द्वारा विहित क्रिया से जन्य फल के आश्रय को कर्म कहते हैं । इसी अर्थ को प्रकृत सूत्र द्वारा स्पष्ट किया गया है । पाणिनि ने इसके लिए न्यूनतः ५ सूत्र बनाए हैं. १. “कर्तुरीप्सिततमं कर्म, २. तथायुक्तं चानीप्सितम् ३. अकथितं च, ४. गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां कर्ता स णौ, ५ अधिशीस्थासां कर्म" ( अ० १ |४| ४९, ५०, ५१, ५२, ४६ ) । इनके अतिरिक्त " आदिखाद्योः प्रतिषेधो वक्तव्यः" इत्यादि अनेक वार्त्तिक वचन उपलब्ध होते हैं । कातन्त्र के व्याख्याकारों ने इन सभी को अनावश्यक बताया है ।
सामान्यतया कर्म तीन प्रकार के होते हैं - १. निर्वर्त्य, २. विकार्य तथा
३. प्राप्य ।
-
१. निर्वर्त्यते निष्पाद्यते यत् तत् निर्वर्त्यम् । विस्तृत लक्षण इस प्रकार हैप्रकृतिभूतपदासमभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्योत्पत्तिरूपफलवत्त्वं निर्वर्त्यत्वम् । जैसे - कटं करोति ।
Page #140
--------------------------------------------------------------------------
________________
९८
कातन्त्रव्याकरणम्
२. विकार्यते यत् तद् विकार्यम् । अर्थात् विकृति को प्राप्त होने वाली वस्तु विकार्य कर्म कही जाती है। जैसे - काष्ठं भस्म करोति, ओदनं पचति, सुवर्णं कुण्डलं करोति । विकार्य कर्म का विस्तृत लक्षण इस प्रकार है- प्रतीयमानविकृतिभावत्वे सति क्रियाजन्यफलवत्त्वं विकार्यत्वम् ।
३. यत्र तु निर्त्यविकार्यसंबन्धिनो विशेषाः पूर्वोक्ताः प्रत्यक्षेणानुमानेन वा का न प्रतीयन्ते केवलं प्राप्तिमात्रमेव प्रतीयते तत् प्राप्यं कर्म । अर्थात् निर्वर्त्य तथा विकार्य से भिन्न एवं क्रियाजन्य फल के आश्रय को प्राप्य कर्म कहते हैं - निवर्त्यविकार्यभिन्नत्वे सति क्रियाजन्यफलशालित्वं प्राप्यत्वम् । जैसे-आदित्यं पश्यति।
कुछ आचार्य कर्म के सात भेद मानते हैं - १. निर्वर्त्य । २. विकार्य । ३. प्राप्य | ४. उदासीन । ५. अनीप्सित । ६. संज्ञान्तरानाख्यात तथा ७. अन्यपूर्व | जैसे- १. निर्वर्त्य = कटं करोति । २.विकार्य- ओदनं पचति ।३. प्राप्य - आदित्यं पश्यति । ४. उदासीन - ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । ५. अनीप्सित - अहिं लङ्घयति । ६. संज्ञान्तरानाख्यात - गां दोग्धि पयः ।७. अन्यपूर्वक - ग्राममधिशेते ।
व्याख्याकारों के कुछ विशेष वचन १. आख्यातं हि क्रियाप्रधानम् । पदमात्रे क्रियायाः प्राधान्यम् (दु० टी०)।
२. क्रियाविशेषणानामपि कर्मता नपुंसकता एकता चेति न्यायात् सर्व एव धात्वर्थः करोत्यर्थेन व्याप्तः (दु० टी०)।
३. क्रियाया अमूर्ताया लिङ्गसंख्याभ्यामयोगात् (दु० टी०)। ___४. कर्तारमन्तरेण क्रिया न संभवतीति कर्ऋत्युच्यते, अयं चाभेदे वाक्यार्थः भेदे पुनरेवम् -- कर्तुः क्रियया यत् क्रियते यद् व्याप्यते तत् कर्म । अमूर्तायाः क्रियायाः कर्मकार्यं नोपपद्यते इति क्रियाविशिष्टस्य साधनस्यैव कर्मत्वमित्यदोषः (वि० प०)।
५. तस्माद् अस्माभिरपि भाषाव्युत्पादकचन्द्रगोमिमतानुसरणमेव रमणीयमिति भाव्यम् (क० च०)।
पूर्वाचार्यों द्वारा कर्मसंज्ञा का प्रयोग नाट्यशास्त्र-निर्देशः संप्रदानापादानप्रभृतिसंज्ञाभिः (१४।२३)। काशकृत्स्नधातुव्याख्यान- भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि |
प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः ।।
Page #141
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
अकर्मकेभ्यो धातुभ्यो भावे कर्मणि यङ् स्मृतः ।। धातौ साधने दिशि पुरुषे चिति तदाख्यातम् । लिङ्गे किमि चिति विभक्तावेतन्नाम ।।
(सू० ४५, १३०, १-२) अर्वाचीन आचार्यों द्वारा कर्मसंज्ञा का प्रयोग चान्द्रव्याकरण- क्रियाप्ये द्वितीया (२।१।४३)। जैनेन्द्रव्याकरण-दिवः कर्म, कर्मैवाधिशीस्थासः (३।२।११५, १७-२३)। हैमशब्दानुशासन - कर्तुाप्यं कर्म (२।२।३)। मुग्धबोधव्याकरण - कर्मक्रियाविशेषणाभिनिवेशाधिशीस्थासन्वध्युपावस ड ढं
द्वी, देशाध्वकालभावं वाढैः (सू० २८१ - ८२)। अग्निपुराण- संबोधने च प्रथमा उक्ते कर्तरि कर्मणि । कर्म यत् क्रियते तत् स्याद् द्वितीया कर्मणि स्मृता ।। (३५० | २४-२५)। नारदपुराण- - - - - - तत् कर्म क्रियते च यत् ।
द्वितीया कर्मणि प्रोक्ताऽन्तरान्तरेणसंयुते ।। (५२।४)। शब्दशक्तिप्रकाशिता-यङन्तधातोरर्थो यस्तिङा स्वार्थेऽनुभाव्यते ।
यश्चासौ कर्मता नाम कारकं कर्तृतेतरः ।।(का० ७३)। [रूपसिद्धि]
१. कटं करोति। निवर्त्य कर्म । प्रकृतिभूत 'काशान्' शब्द का अनुल्लेख, क्रियाजन्योत्पत्तिरूप फलविशिष्ट होने के कारण 'कट' की प्रकृत सूत्र से कर्मसंज्ञा तथा “शेषाः कर्मकरण०" (२।४।१९) इत्यादि से उसमें द्वितीया विभक्ति का प्रयोग।
२. ओदनं पचति। विकार्य कर्म । यहाँ मूल वस्तु तण्डुल के विनाश से ओदन उत्पन्न होता है, अतः प्रकृत सूत्र से ‘ओदन' की कर्मसंज्ञा एवं उसमें द्वितीया विभक्ति का विधान ।
Page #142
--------------------------------------------------------------------------
________________
१००
कातन्त्रव्याकरणम् ३. आदित्यं पश्यति । प्राप्य कर्म । यहाँ निर्वर्त्य तथा विकार्य कर्म के न होने तथा क्रियाजन्य फल का आधार होने के कारण ‘आदित्य' की प्रकृत सूत्र से कर्मसंज्ञा तथा द्वितीयाविधान ।
२९८. यः करोति स कर्ता [२।४।१४] [सूत्रार्थ]
क्रिया करने वाले अर्थात् क्रियानिष्पादक, क्रियासाधक या क्रियानिर्वर्तक की 'कर्ता' संज्ञा होती है ।।२९९।
[दु० वृ०] यः क्रियां करोति स कर्तृसंज्ञो भवति । छात्रेण हन्यते, चैत्रेण कृतम् ।।२९९ । [दु० टी०]
यः । पुंलिङ्गेनैकवचनेनायं निर्देशः, स्त्रीनपुंसकयोः कर्तृसंज्ञा न स्यात् – 'स्त्री करोति, कुलं करोति' इति । द्विवचनबहुवचनान्तस्य च 'छात्रौ कुरुतः,छात्राः कुर्वन्ति' । किं च वर्तमानकालेनायं निर्देशः भूते भविष्यति च न स्यात् ? सत्यम् । लिङ्गादिकं न विवक्ष्यते, तस्याप्राधान्यात्, येन केनचिल्लिङ्गादिना निर्देशः कर्तव्यः, नान्तरीयकत्वात् तस्योपादानम् । यथा धान्यार्थिना पलालादेरप्रधानस्यापि । तद्यथा 'ब्राह्मणो न च हन्तव्यः सुरा पेया न च द्विजैः' इत्यवशिष्टलिङ्गसंख्याकालः प्रतीयते । गमकत्वादिह पुंलिङ्गमेव विवक्षितम्, न तु सामान्यरूपमपि नपुंसकमिति । ननु कुर्वंश्च कर्ता भवति, भूते, भविष्यति च कथं कर्तृत्वम्, सत्यम् । भविष्यतश्च करणस्य कर्तव तथोपचारात् । भूतेऽपि च तथा क्रियाकरणात् कर्तेव अनुस्मृतिकृतार्थविज्ञानाच्च न विरुध्यते इति कर्तृप्रत्ययेनोच्यते।
'अकरोत्, करिष्यति' इति मनसि कृत्वाह - चैत्रेण कृतमिति । कथम् ‘ओदनं पचति' इति कर्तृत्वं पाकः पच्यमानतण्डुलादिगतो विक्लेदो न कर्तृगतः। न चान्यदीयव्यापारेणान्यः सव्यापारो भवति,अतिप्रसङ्गात् ।यस्य धातवाच्यव्यापारः स्वयं कर्तृप्रत्ययेनोच्यते स कर्ता, यथा गच्छतीति । इह तु तण्डुला एव कर्तार उच्यन्ते । कर्तृव्यापारोऽप्यधिश्रयणादिः, तादर्थ्यात् । पाकाभिसंबन्धिप्रवर्तितत्वाच्च पचिनोच्यते । भाष्येऽप्युक्तम् – 'कर्तृव्यापारेऽपि पच्यर्थः' इति । एतदुक्तं भवति । यदा कर्ता
Page #143
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१०१ निवर्त्यफलमभिसंधाय प्रवर्तते कर्तृव्यापारो धातुनोपादीयते, अन्यथा तत् फलं न निवर्तेत, कर्तृव्यापारायत्तत्वात् फलनिष्पत्तेः । तदा ‘ओदनं पचति' इति भवितव्यम् । यदा तु ओदनस्यैव कर्तृत्वं विवक्ष्यते प्रस्तुतार्थवशेन, तदा विक्लित्तिवचनः पचिः । यथा विक्लिद्यति ओदनः, सिध्यति ओदनः, तथा पचत्योदनः = विक्लेदं प्रतिपद्यते इत्यर्थः । तथा च पक्वं फलम् । 'यदा तु कर्तृव्यापारेण व्याप्यमानः कर्म भूत्वा कर्ता स्यात्, सौकर्यादिगुणविवक्षा तदा कर्म कर्तृत्वम् । पच्यते ओदनः स्वयमेवेति विक्लेदमात्रवचन एव पचिज्ञेयः ।
___ ननु पाकार्थत्वात् पाकशब्दवाच्या अधिश्रयणादयो भवन्तः, किं पचिना भेदेनोच्यन्ते उताभेदेन ? सत्यम् । अभेदविवक्षायामपि नात्यन्तमेकरूपतापत्तिः । नहि महिषपुरुषादयोऽभेदेन विवक्ष्यमाणा अप्येकरूपा भवन्ति, किन्त्वेकार्थक्रियाकारित्वद्वारेणैकरूपावगम उपचारस्य प्रतिपतृधर्मत्वान्नायं विषयधर्मः । नहि सर्षपरूपेणाध्यवसितं हेमरजः सर्षपकार्यं तैलादिकं सम्पादयति । अतोऽधिश्रयणादयः स्वरूपेण भिन्नाः (स्वरूपानभिन्नाः)पाकप्रयोजनत्वात् पाकाभिसन्धिप्रवर्तितत्वाच्च पाकरूपतयाऽवसीयन्ते । न तु वस्तुतस्त्वेषामैक्यम्, कुतः पुनरिदं चोद्यम्, अभेदविवक्षायां पाकरूपापन्नाः अधिश्रयणादयश्च तण्डुला एव कर्तारः स्युरिति। अधिश्रयणादिरूपार्थापन्नश्चेत् पाकः पुरुष एव कर्ता स्यात्, तदा तु ओदनस्य कारकत्वं न स्यात् ।अधिश्रयणादेरतद्व्यापारत्वादिति भेदाभिधानेऽपि संबन्धानामेवेह संभवाद् एकं हि प्रधानं कार्यमुद्दिश्योपाधीनां प्रवर्तमानत्वात् । तत्र च पूर्वपूर्वक्रियाभागसमाश्रयणेनोत्तरोत्तरं क्रियाविशेषावयवाः प्रवर्तेरन्, तेन विक्लेदो निष्पद्यते, यतोऽनन्तरं विवक्षितमोदनादिकं भवति । तदेवमुत्तरोत्तरं प्रति पूर्वपूर्वस्य साधनत्वम् | आत्मलाभे तु पूर्वपूर्वापेक्षया साध्यत्वम् इति न भवत्येकविषये विरोधः ।एकपुरुषविषये पितापुत्रव्यपदेशवत् । तत्र फलम्ओदनादिकमपेक्ष्य पाकः प्रधानम्, तद्बलेन तन्निष्पत्तेस्तदुपायकत्वात् कर्तृव्यापारोऽप्रधानम् । शब्दात्तु साध्यसाधनप्रतीतेस्त्याद्यन्तात् कर्तृव्यापार एव विक्लेदोपसर्जनः प्रतीयते । धातुप्रत्ययेन कर्तुः साधनस्याभिधानात् तद्व्यापार एव प्रकृत्यर्थः साध्यः । ____ एवं च प्रकृतिप्रत्ययौ संबद्धौ भवतः, साध्यसाधनसंबन्धप्रतीतेः । ओदनस्तु न प्रत्ययार्थः, केवलमसौ शब्दान्तरवाच्यस्तद्गतस्तु पाको गुणभूतो धातुना समाक्षिप्तस्तदर्थं च सर्वकारकग्रामः प्रवर्तते, तद्विषया करणादिव्यवस्था ।देवदत्तः काष्ठे: स्थाल्यामोदनं
Page #144
--------------------------------------------------------------------------
________________
१०२
कातन्त्रव्याकरणम्
पचतीति । न च वक्तव्यं क्रियाभेदानां संबन्धे सति प्रयोज्यप्रयोजकभावादिन् स्यादिति निर्वर्तनारूपस्य व्यापारस्यात्र प्रतीतेर्निवृत्तिः कर्मगता विक्लित्तिसंज्ञिता । निर्वर्तना तु कर्तृगता, अस्य व्यापारद्वयस्य पचिनैवोक्तत्वाद्योतितत्वाच्च कथमिन्निति । द्वितीयकर्तुः पुनरत्र प्रयोजकत्वात् तद्व्यापारस्य पचिनाऽनुक्तत्वाद् इन् भवत्येव - पाचयत्योदनम् इति । ननु च देवदत्तः पाकादिक्रियां दूराद् उपकरोति करणाधिकरणाभ्यां त्वव्यवधानेन साध्यते, तदस्यामनेकसाधनसाध्यायां कोऽस्यातिशयः, येन यः करोति स कर्तेति प्रधाननिर्देशाद् देवदत्त एव प्रतिपत्तव्यो भवति? सत्यम् । यतः करिव सकाशात् करणत्वादिप्रतिलम्भः कर्तुः पुनः स्वसामथ्यदिवार्थलाभो न करणादेस्तन्नियोज्यत्वात् । उक्तञ्च,
व्यापारमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके।
व्यापारभेदापेक्षायां करणत्वादिसंभवः॥(कातन्त्रसम्प्रदाय) इति । कथम् असिश्छिनत्ति, स्थाली पचतीति ? वस्त्वर्थोऽत्र गौण इति कर्तृत्वं तु मुख्यं विवक्षया । उक्तं च,
यथाभ्यासं हि वागर्थे प्रतिपत्तिः समीहते।
स्वभाव इव बालादेर्मिथ्याभ्यासो व्यवस्थितः॥ (वा०प०२।२३५) इति । [वि० प०]
यः करोति० । छात्रेणेत्यादि । ननु क्रियां कुर्वन् कर्ता भवति, ततश्छात्रेण हन्यते इत्यत्रैव स्यात् । कथं 'चैत्रेण कृतम्' इति भूते, तदा क्रियाया असंभवादिति ? सत्यम् । यदा क्रियामसौ कृतवांस्तदा कर्तेति । अधुनापि तदर्थस्मृतिविज्ञानमित्यदोषः । तथा करिष्यन्नपि क्रियायाः कर्तव तथोपचारात् । अथवा भूतभविष्यक्रियासु योग्यतामधिकृत्य तथोच्यते । यथा लोकेऽपचन्नपि सूपकारः पचनयोग्यतया पाचक इत्युच्यते । तेन "कर्तरि च" (२।४।३३) इति तृतीया सिद्धेति ।।२९९ ।
[क० च०]
यः । करोतीति आख्यातप्रत्ययेन स्वतन्त्र उच्यते,शब्दानां नित्यत्वान्नेतरेतराश्रयदोषः। 'क्रियायां यः स्वतन्त्रः स कर्तेत्यर्थः । तथा च पाणिनिः - "स्वतन्त्रः कर्ता"
१. ननु करोतीति कथं तिप्रत्ययस्तस्य कर्तरि विधानात् । तदभावेऽनेनैव विधानं नास्तीति । संज्ञां विना विधिन भवति, विधिं विना च संज्ञा न भवति । कथं करोतीत्यत्र कर्तरि तिप्रत्यय इति मनसिकृत्याह-शब्दानामित्यादि ।
Page #145
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१०३ (अ० १।४।५४) इति । अथ किमिदं स्वातन्त्रयम्, न तावत् पराप्रयोज्यत्वम् । राज्ञा आज्ञप्तः कार्यं करोतीत्यादावव्याप्तेः । नापि परप्रयोजकत्वं देवदत्तो भवतीत्यादावव्याप्तेः' । नापि कार्यानुकूलविज्ञप्तिचिकीर्षाकृतिशालित्वम्' 'रथो गच्छति' इत्यादा - वचेतनत्वादव्याप्तेः । नापि क्रियाश्रयत्वम् “कर्मस्थः पचतेर्भावः" इति न्यायाद्
ओदनादीनां क्रियाश्रयत्वेन कर्तृत्वप्रसङ्गादिति चेत्, न भावशब्दस्य तत्र क्रियाफलाभिप्रायेण प्रयुक्तत्वात् । अस्तु वा तत्र भावशब्दः क्रियावाची तथापि विक्लित्तिक्रियात्वेन विवक्षिते सति ओदनः पचतीति प्रयोगदर्शनान्नाभिव्याप्तिः, तर्हि घटो नष्ट इत्यादावभावस्य प्रतियोग्यनधिकरणत्वेनाव्याप्तिः ।
१. परप्रयोजकत्वं स्वातन्त्र्यमित्युक्ते राज्ञाज्ञप्तः कटं करोतीत्यादौ करोते:- कर्तुर्जनस्य प्रयोजकत्वाद् राज्ञः कर्तृत्वं कटस्य प्रयोजकत्वाज्जनस्य कर्तृत्वं सिद्धम् । देवदत्तो भवतीत्यादौ अकर्मकस्थलेऽन्यस्य प्रयोजकत्वाभावाद् देवदत्तादेः कर्तृत्वं न स्यादित्यर्थः। २. विज्ञप्तिर्विशेषज्ञानम्, तच्चेष्टसाधनताज्ञानम्, तज्जन्या चिकीर्षा करणेच्छा । तज्जन्यकृतिशालित्वं स्वातन्त्र्यम् इत्यर्थः । तथाहि,
आत्मजन्या भवेदिच्छा इच्छाजन्या कृतिभवेत्। कृतिजन्या भवेच्चेष्टा क्रिया सैव निगयते ॥ (कातन्त्रसम्प्रदाय) इति ।
घटं जानातीत्यत्र विज्ञप्तेः सार्थक्यम् ।कटं करोतीत्यादौ करणस्य करणासंभवे कृतिशालित्वाभावात् चिकीर्षायाः सार्थक्यम् । देवदत्तो भवतीत्यादौ कृतेः सार्थक्यं ज्ञेयम् ।। ३. भावशब्दस्य क्रियाफलवाच्यत्वे स्थाल्याम् ओदनं पचतीत्यादौ ओदनस्य कर्मणः क्रियाश्रयत्वाभावाद् अधिकरणभूतायाः स्थाल्या एव प्राप्तिः स्यादित्याह-अस्तु वेति । ४. एकधातुवाच्यक्रियाकेवलाश्रयत्वम् अभिप्रेतम् । तेन ओदनः पचतीति विक्लित्तिमात्रे विवक्षिते क्रियायाः केवलाश्रयत्वेन कर्तृत्वं स्फुटमेव । केवलाश्रयपदेन ओदनं देवदत्तः पचतीति प्रयोक्तव्ये ओदनो देवदत्तः पचतीति प्रयोगनिरास एव, ओदनस्य व्याप्यत्वेन क्रियाश्रयत्वात् । एकधातुवाच्यपदेन 'पाचयति देवदत्तेन चैत्रः' इत्यादौ देवदत्तस्य भिन्नधातुवाच्यक्रियाव्याप्यत्वेऽपि कर्तृत्वे न विरुद्धमिति । ५. ध्वंसाभावस्य सदा वर्तमानत्वेऽपि कर्तरि क्तप्रत्ययः सिद्धः । अतीतकालवृत्तिनाशानुकूलसहकारिसत्ताश्रयो घटो नाशोत्पत्त्याश्रयो घट इति च बोधः । नाशप्रतियोगित्वं नशधात्वर्थः । अतः प्रतियोगितायाः घटे वर्तमानत्वात् कर्तृत्वे न विरोध इति विभक्तितत्त्वम् । ननु यदि नाश एव नशधात्वर्थः कल्प्यते, तदा अभावस्य नित्यत्वात् सर्वथा वर्तमानत्वम् । तत्कथं 'नष्टः' इत्यत्र कर्तृत्वे क्तः सिद्धः । 'घटो नष्टः' इत्यत्र नशधातोरर्थो नाशः, नाशश्च ध्वंसः । स चानुयोगिन्येव वर्तते इति च चिन्तनीयमिति। तद्भिन्नत्वे सति तज्जन्यजनकत्वं सहकारित्वम् । तदवच्छिन्नासमवधानेन फलोपधायकत्वाभाववत स्वावच्छिन्नकत्वं वा सहकारित्वमिति । तच्छब्देनात्र प्रतियोगित्वमभिप्रेतम् । प्रतियोगिताजन्यनाशस्तदनुकूलप्रतियोगिता सहकारिघटादेः सत्तारूपव्यापारः नाशकालेऽपि घटादौ वर्तते, अतो 'घटो नष्टः' इत्यादौ घटादेः कर्तृत्वम् इत्यर्थः ।
Page #146
--------------------------------------------------------------------------
________________
१०४
कातन्त्रव्याकरणम्
अथ नाशानुकूलसहकारिसत्ताविशेषो नशधात्वर्थ: ( अथवा नाशप्रतियोगित्वं नशेरर्थः) । अत एव 'नष्ट:' इत्यादावतीतेऽपि कर्तरि क्तप्रत्ययः सिद्धः । एवं चोपपद्यते कर्तृत्वमिति चेत्, घटो भवतीत्यत्र कालस्यापि कर्तृत्वं स्यात्, कालस्य सर्वाश्रयत्वेन क्रियाया अप्याश्रयत्वात् । नापि विवक्षितकारककलापव्यापारजनकत्वाभावादव्याप्तेरिति चेद्, उच्यते - कारकचक्रव्यापारप्रतिबन्धकीभूतव्यापाराभाववत्त्वं स्वतन्त्रत्वम् इति । यद् वा प्राधान्येन धातुवाच्यव्यापारवत्त्वम्' । न चैकस्मात् कार्यानुपपत्तेस्तादृशो व्यापारः करणादेरपीति वाच्यम्, करणादेः साक्षाद् धातुवाच्यव्यापारासंबन्धात्, किन्तु परम्परयैव । न च 'पाचयति देवदत्तेन' इत्यादौ पाचयतिना प्रयोजकस्यैव व्यापार उच्यते इति देवदत्तस्य कर्तृत्वं न स्यादिति वाच्यम्, यावता पाचयतीत्यन्तर्गतपचिना देवदत्तगतव्यापार उच्यते इति । तदाह,
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।
व्यापारे च प्रधानत्वात् स्वतन्त्र इति चोच्यते ' ॥
( द्र०, वै० भू० सा०- सुबर्थ०, पृ०१९१) ।
अत एव टीकायामपि यस्य धातुवाच्यव्यापार इत्युक्तम् । इदानीं पञ्जी व्याख्यायते । ननु ‘सूत्रे लिङ्गं संख्यां कालश्चातन्त्राणि' (का० परि० ६१ ) इत्युक्तमेवास्ति । तत् कथं यः क्रियां कुर्वन्निति वर्तमानकालमादाय पूर्वपक्ष उपतिष्ठते ? उच्यते, तिप्रत्ययेन क्रियाया आश्रय उच्यते । ततश्च क्रियाया अतीतत्वे भविष्यत्त्वे वा तस्या इदानीम् अनाश्रयत्वेन कथं देवदत्तादेः कर्तृत्वम् इति पूर्वपक्ष: संगच्छते । यद् वा
१. ननु प्राधान्येन धातुवाच्यव्यापारवत्त्वम् इत्युक्तेऽपि कथं कालादावतिव्याप्तिवारणं कालादेरपि तदुद्व्यापाराश्रयत्वात् ? सत्यम् । प्राधान्येनेति धातुवाच्यांशे व्यापारांशे च विशेषणं व्यापारवत्त्वांशे प्राधान्यं तु इतरानिरपेक्षया प्रतीतिविषयत्वम् । तेन कालस्य चैत्राद्यपेक्षयैव व्यापारवत्त्वेन इतरनिरपेक्षया प्रतीतिविषयत्वाभावो नातिव्याप्तिः । वस्तुतस्तु मत्वर्थीयप्रत्ययो वृत्तिनियामकसंबन्धाभिधायकः कालिकसंबन्धस्य वृत्त्यनियामकत्वेन तत्संबन्धेनाश्रयत्वे कालस्य न कर्तृत्वम् । कालस्य कालिकसंबन्धेनैव सर्वत्र वृत्तिः ।
२. अथ करणादिष्वपि धातूक्तक्रियाश्रयत्वमस्ति तेषामपि कर्तृत्वं स्यादित्याह - व्यापारे चैति । अर्थात् प्रधानव्यापाराश्रयत्वात् कर्ता स्वतन्त्र इत्युच्यते, करणादौ च तद्व्यापारी गौण इति ।
Page #147
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
५०५
करोतीत्यनेन कालस्यातन्त्रत्वमस्तु, तथापि भूतभविष्यतोः कथं कर्तरि विहितः प्रत्ययः स्यात्, कर्तृशब्दस्य वर्तमानार्थवाचित्वात् । अत्र यद्यपि अनिर्दिष्टार्थाः प्रत्ययास्त्रिष्वपि कालेषु भवन्ति,' तथापि सकृद् उच्चरितात् पदात् युगपदनेककालप्रतीत्यसंभवाद्
औत्सर्गिकत्वाच्च वर्तमानत्वबोध एवोपपद्यते । एवं च सति वर्तमानक्रियाश्रय एव कर्तृसंज्ञाश्रितकार्यं प्राप्तुमर्हतीत्याशङ्क्याह - नन्विति । अत एव टीकायामपि करोतीत्यस्यास्वतन्त्रत्वं विधाय पुनः कर्तृशब्दस्य वर्तमानार्थवाचित्वात् पूर्वपक्षयति- ननु क्रियां कुर्वंश्च कर्ता भवतीत्यादि । भाविक्रियाया अज्ञानात् कथं तदाश्रयत्वबोधः इत्याह - तथेति । उपचारादिति क्रियाया अनुमानादित्यर्थः । कृतो योग्यतायां शक्तिरिति पक्षम् अवलम्ब्याह -अथवेति ।।२९९।
[समीक्षा]
कातन्त्रकार तथा पाणिनि की कर्तृसंज्ञाविषयक परिभाषा प्रायः समान ही है । पाणिनि का सूत्र है-"स्वतन्त्रः कर्ता" (अ० १।४।५४)। स्वतन्त्र का अर्थ है - प्रधानभूत । यही अर्थ कातन्त्रव्याख्याकार कलापचन्द्रकार सूषेणविद्याभूषण ने स्वीकार किया है - 'करोतीति आख्यातप्रत्ययेन स्वतन्त्र उच्यते, शब्दानां नित्यत्वान्नेतरेतराश्रयदोषः । क्रियायां यः स्वतन्त्रः स कर्तेत्यर्थः' । इसके अनेक लक्षण व्याख्याकारों ने इस प्रकार किए हैं - "क्रियाश्रयत्वं कर्तृत्वम् । प्राधान्येन धातुवाच्यव्यापारवत्त्वं कर्तृत्वम्"। यह स्वतन्त्र कर्ता भी अभिहित, अनभिहित तथा कर्मकर्ता के भेद से तीन प्रकार का होता है । जैसे-१. अभिहितकर्ता = देवदत्तः पचति । २. अनभिहितकर्ता -देवदत्तेन पच्यते । ३. कर्मकर्ता-पच्यते ओदनः स्वयमेव । नामभेद से भी यह तीन प्रकार का माना गया है- केवलकर्ता, हेतुकर्ता, कर्मकर्ता।
पूर्वाचार्यों द्वारा कर्ता का प्रयोग काशकृत्स्नव्याकरण- भूते भव्ये वर्तमाने भावे कर्मणि कर्तरि ।
प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः ।।
प्रयोज्यकर्तरि णिच् ।। (सू० ४५, १२७)। नाट्यशास्त्र - सम्प्रदानापादानप्रभृतिसंज्ञाभिः (१४।२३)।
Page #148
--------------------------------------------------------------------------
________________
१०६
कातन्त्रव्याकरणम् अर्वाचीन आचार्यों द्वारा कर्ता का प्रयोग जैनेन्द्रव्याकरण- स्वतन्त्रः कर्ता (१।२।१२५) । हैमशब्दानुशासन - स्वतन्त्रः कर्ता (२।२।२)। मुग्धबोधव्याकरण - साधनहेतुविशेषणभेदकं धं कर्ता घस्त्री (सू० २८८)। अग्निपुराण- कर्ता यश्च करोति सः । संबोधने च प्रथमा उक्त कर्मणि कर्तरि ।
कर्ता पञ्चविधः प्रोक्तः ।। (३५०।२५, २४; ३५३।४)। नारदपुराण- स कर्ता स्यात् करोति यः ।
टाभ्यांभिसस्तृतीया स्यात् करणे कर्तरीरिता । स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ।।
संबोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।। (५२।२-३)। शब्दशक्तिप्रकाशिका - तिङा विकरणाक्तस्य धातोरर्थस्तु यादृशः ।
स्वार्थे यादृशि बोध्यस्तत् कर्तृत्वं तदिहोच्यते ।। (कारिका ७५)। व्याख्याकारों के विशेष वचन १. यथाभ्यासं हि वागर्थे प्रतिपत्तिः समीहते ।
स्वभाव इव बालादेर्मिथ्याभ्यासो व्यवस्थितः ।।(दु० टी०)। २. लोकेऽपचन्नपि सूपकारः पचनयोग्यतया पाचक इत्युच्यते (वि० प०)। ३. क्रियायां यः स्वतन्त्रः स कर्ता (क० च०)। ४. कारकचक्रव्यापारप्रतिबन्धकीभूतव्यापाराभाववत्त्वं स्वतन्त्रत्वम् ।
यद् वा प्राधान्येन धातुवाच्यव्यापारवत्त्वम् (क० च०)। ५. कृतो योग्यतायां शक्तिः (क० च०)। [रूपसिद्धि]
१. छात्रेण हन्यते । वर्तमान में हननरूप क्रिया करने के कारण छात्र शब्द की प्रकृत सूत्र से कर्तृसंज्ञा तथा “कर्तरि च" (२।४।३३) सूत्र से उसमें तृतीया विभक्ति का प्रयोग।
Page #149
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः ।
१०७ २. चैत्रेण कृतम् । भूतकाल में करणरूप क्रिया निष्पन्न करने के कारण चैत्र की कर्तृसंज्ञा तथा उसमें तृतीया विभक्ति । दोनों ही उदाहरणों में त-प्रत्यय तथा क्तप्रत्यय द्वारा उक्त न होने के कारण कर्ता में तृतीया विभक्ति होती है ।।२९९।
___३०० कारयति यः स हेतुश्च [२।४।१५] [सूत्रार्थ ]
स्वतन्त्र कर्ता को किसी कार्य में नियुक्त या प्रवृत्त करने वाले की हेतुसंज्ञा तथा कर्तृसंज्ञा होती है ।। ३००।
[दु० वृ०]
तमेव कर्तारं यः कारयति स हेतुसंज्ञो भवति, चकारात् कर्तृसंज्ञकश्च । हारयति, पावयति । हेतुकर्तृप्रदेशाः- “धातोश्च हेतौ" (३।२।१०) इत्येवमादयः । क्रियानिमित्तं कारकं लोकतः सिद्धम् ।।३००।
[दु० टी०]
कारयति० । अनन्तरत्वादिह कर्ताऽनुवर्तते । स चार्थवशाद् द्वितीयान्त इत्याह - तमेवेत्यादि । यः कारयति क्रियां साध्यभूताम् इत्यर्थायातसंबन्धतया वृत्ती नोच्यते ।
प्रेषणाध्येषणे कुर्वस्तत्समर्थानि वाचरन् ।
कतैव विहितः शास्त्रे हेतुसंज्ञां प्रपयते ॥(वा०प०३।७।१२५)। भृत्यादेराज्ञापूर्वको व्यापारः प्रेषणम् ।गुवदिश्च सत्कारपूर्वको व्यापारोऽध्येषणम् । हरति भृत्यः, पुनाति गुरुः। तमन्यः प्रयुङ्क्ते इति हेताविन् । भिक्षा वासयति, कारीषोऽध्यापयति । भिक्षा-कारीषादिरचेतनोऽपि तत्समर्थानि वासाध्ययनसमर्थानि प्रचुरतरव्यञ्जननिर्वातप्रज्वलितादीनि आचरन् साधयन् हेतुकर्तृत्वं लभते इति । ननु प्रेषणादिक्रियायाः कर्तेव हेतुसंज्ञां लभेतेति किं चकारेण समुच्चयार्थेनेति । परत्वाद् हेतुसंज्ञैव स्यादिति चेत्, नैवम् । उभयसावकाशे हि परत्वम् । हेतुसंज्ञा निरवकाशतया प्रवर्तमाना संज्ञान्तरं न बाधिष्यते । तथा चोक्तम् -
यः क्रियां कर्मकर्तृस्थां कुरुते मुख्यभावतः। अप्रयुक्तः प्रयुक्तो वा स कर्ता नाम कारकम् ॥
Page #150
--------------------------------------------------------------------------
________________
१०८
कातन्त्रव्याकरणम्
सत्यम् । मन्दमतिबोधनार्थ एव चकार इति । क्रियानिमित्तम् इत्यादि । क्रियानिमित्तमात्रं प्रधानम् अप्रधानं वा यतः क्रिया भवति, तत् क्रियानिमित्तमिति भावः । करोतीति कारकमिति व्युत्पत्तिपक्षेऽपि तथा स्वभावान्नपुंसकम् । यथा करोतीति कारणम्, अत आह - "अकर्तरि च कारके संज्ञायाम्" (४।५।४) इति ||३००।
[वि० प०]
कारयति० । इह कर्तेत्यनुवर्तते । तच्च प्रथमान्तमप्यर्थवशाद् द्वितीयान्तमित्याह - तमेवेति । 'हारयति, पावयति' इति । प्रेषणाध्येषणे कुर्वन् खलु हेतुर्भवति । तत्र भृत्यादराज्ञापूर्वको व्यापारः प्रेषणम् । गुवदिश्च सत्कारपूर्वको व्यापारोऽध्येषणमिति । हरति भृत्यः, पुनाति गुरुः। तमन्यः प्रयुङ्क्ते इति हेतुसंज्ञायां "धातोश्च हेतौ" (३।२।१०) इतीन् । ननु कथम् अपादानादि कारकम् इहोच्यते, न ह्येतदर्थं सूत्रमस्तीति । मा भूत्, को दोषः इति चेद्, उच्यते – “अकर्तरि च कारके संज्ञायाम्" (४।५।४) इत्यादिषु कारकव्यवहाराभावादित्याह - क्रियानिमित्तमित्यादि । कारकशब्दोऽयम् अव्युत्पन्नो निमित्तपर्यायः स्वभावान्नपुंसकलिङ्गः । यत् क्रियानिमित्तमात्रं प्रधानम् अप्रधानं वा तत् कारकमुच्यते । यस्तु करोतीति कारक इति वुण्प्रत्ययान्तः कारकशब्दः कर्तृपर्यायः, स च वाच्यलिङ्गः। यथा कारकः पुरुषः, कारिका स्त्री, कारकं कुलम् | नासावपादानादिषु वर्तते, तस्य प्रधानस्यैव कर्तुर्वाचकत्वादिति ।। ३००।
[क० च०]
कार० । प्रेषणाध्येषणे कुर्वन्नित्यादि । ननु यदि आज्ञापूर्वको व्यापारः प्रेषणम्, तदा ‘हारयति भृत्यं देवदत्तः' इत्यत्र भृत्यस्यैव हेतुसंज्ञा स्यात् । स्वाम्याद्याज्ञापूर्वकव्यापारे भृत्यस्यैव कर्तृत्वात् ? सत्यम् । भृत्यादेरिति कर्तरि षष्ठी । ततश्च भृत्यकर्तृको यो व्यापारस्तस्याज्ञया विशिष्टीकरणम् प्रेषणम् । ततश्च 'सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः' (का० परि० २) इति न्यायाद् आज्ञाविशिष्टीकरणस्य कर्ता प्रयोजको देवदत्तादिरेव । यद् वा प्रेषणाध्येषणे कुर्वन्नित्यत्र अन्तर्भूतेनार्थतया कारयन्नित्यर्थः।
___ यद् वा भृत्यादेरिति कर्मणि षष्ठी ।व्यापार इति व्यापारणा |इनन्तस्य रूपमिदम् । एवं च सति भृत्यादिकर्मकव्यापारणा प्रेषणमिति । तच्च प्रयोजकेनैव क्रियते, एवं
Page #151
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१०९ गुवदिरपि व्याख्यानं बोध्यम् । पुनाति गुरुरिति शिष्यम् इति शेषः । ननु अपादानादीनां क्रियानिमित्तत्वात् कारकत्वमस्तु । घटं करोतीत्यत्र निर्वर्त्यकर्मणः कथं क्रियानिमित्तत्वं क्रियासिद्धौ घटस्य नियतपूर्ववर्तित्वाभावात् ? सत्यम् । क्रियासिद्धौ घटज्ञानस्य पूर्वत्वसिद्धत्वाद् घटस्यापि पूर्ववर्तित्वमुपचर्यते इत्यदोषः । संबन्धस्य क्रियानिमित्तत्वेऽपि षट्सु कारकशब्दस्य रूढत्वान्न कारकत्वमिति संक्षेपः ।।३००।
[समीक्षा]
स्वतन्त्र कर्ता के प्रयोजक की हेतुसंज्ञा एवं कर्तृसंज्ञा भी कातन्त्रकार तथा पाणिनि दोनों ही आचार्य करते हैं । पाणिनि का सूत्र है- "तत्प्रयोजको हेतुश्च" (अ० १।४।५५)। यह हेतु तीन प्रकार का होता है | कहा गया है
प्रेषणाध्येषणे कुर्वंस्तत्समर्थानि चाचरन्।
कतैव विहितां शास्त्रे हेतुसंज्ञां प्रपयते ॥ (वा०प०३।७।१२५)। १. प्रेषणकारक । २. अध्येषणकारक तथा ३. समर्थ आचरण । जैसे- १. प्रेषणकारक - राजा भृत्यं कटं कारयति ।२. अध्येषणकारक - यज्ञदत्तो गुरुणा शिष्यं पावयति । ३. समर्थ आचरण-भिक्षा भिक्षुकं वासयति, कारीषश्छात्रमध्यापयति ।
हेतु और करण में भेद करते हुए भट्टोजिदीक्षित ने कहा है (सि० कौ० २।३।२३ - कारकप्र०) द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । अर्थात् जो द्रव्य-गुण-क्रिया तीनों को उत्पन्न करता हो तथा जिसमें व्यापार रहता भी हो एवं नहीं भी रहता हो, उसे हेतु कहते हैं | किन्तु करण वह होता है जिससे केवल क्रिया पैदा होती है एवं जिसमें व्यापार अवश्य ही रहता है । हेतु जैसे - दण्डेन घटः, धनेन कुलम्, कन्यया शोकः, विद्यया यशः । करण – रामेण बाणेन हतो बाली ।
हेतु - यह अन्वर्थ संज्ञा है - 'हिनोति व्याप्नोति कार्यमिति हेतुः' ।काशकृत्स्नतन्त्र में इस संज्ञा का उल्लेख होने के कारण इसकी प्राचीनता सिद्ध है
• . . . . . . . . कर्मणि कर्तरि। प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः॥
__ (का० धा० व्या० - सू० ४५)। यहाँ 'प्रयोजक' शब्द से 'हेतु' का ग्रहण किया जाता है।
Page #152
--------------------------------------------------------------------------
________________
११०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. हारयति । कर्ता - देवदत्तः । कर्म-धनम् । देवदत्तो यज्ञदत्तेन धनं हारयति । ह + इन् + ति | "धातोश्च हेतौ" (३।२।१०) से 'इन्' प्रत्यय तथा विभक्तिकार्य ।
२. पावयति। कर्ता - यज्ञदत्तः। कर्म-शिष्यम् । यज्ञदत्तो गुरुणा शिष्यं पावयति । पू+ इन् + ति। इन् प्रत्यय तथा विभक्तिकार्य ।।३००।
३०१. तेषां परमुभयप्राप्तौ [२।४।१६] [सूत्रार्थ]
छह कारकों में से जहाँ दो कारक प्राप्त होते हैं, वहाँ परवर्ती कारक प्रवृत्त होता है ।।३०१।
[दु० वृ०]
तेषां कारकाणामुभयप्राप्तौ सत्यां यत् परं तद् भवति । ग्रामाय दत्वा तीर्थं गतः, सम्प्रदानमेव । कांस्यपात्र्यां भुङ्क्ते, अधिकरणमेव । मृदुना धनुषा शरान् क्षिपति, करणमेव । तरुं त्यजति खगः, कर्मैव | तथा गां दोग्धिः पयः, त्यजति दण्डं दण्डीति, कर्तेव । एवमन्येऽपि ।
[दु० टी०]
तेषाम् । कारकाणां सम्बन्धिन उभयस्य प्राप्तौ सत्याम् अर्थादकस्मिन्नेव संज्ञिनि परं भवति । अन्यथा सम्प्रदानादिसंज्ञा अनर्थिका स्यात् । 'ब्राह्मणाय गां ददाति' इत्यादिवाक्ये किमुभयस्य प्राप्तिर्यस्मिन् संज्ञिनि इति भिन्नाधिकरणबहुव्रीहिणा | ग्रामाय दत्वा तीर्थं गत इति धनादिकमिति संबन्धः । एवमन्येऽपि प्रयोगा योज्याः । लोके शास्त्रे च न संज्ञाया संज्ञान्तरस्य बाधा क्रियते । यथा- इन्द्रः, शक्रः पुरन्दरः इति । स्वरः समान इति ।कृत् कृत्य इति ।अतः परिभाषेयम् आरभ्यते इति । न च वक्तव्यम् - 'पूर्वपरयोः परविधिर्बलवान्' (कलाप०, पृ०२२१ -५०) इति भविष्यति । संज्ञासमावेशे हि तस्या व्यापारो नास्ति । अन्यथा घोषवत्संज्ञायाः परा धुट्संज्ञा । 'तद् गच्छति, मज्जति' घोषवति तृतीयो न स्यात् । घोषवत्संज्ञाया अवकाशोऽन्तस्थानुनासिकेषु धुसंज्ञायाश्चाघोषेष्विति । न च लक्षणमपनीय 'विवक्षातः कारकाणि भवन्ति' इति वक्तुं
Page #153
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१११ युज्यते (सत्यम्) । तत्र व्यक्तौ पदार्थे शास्त्रप्रवृत्तौ प्रतिलक्ष्यं लक्षणस्य व्यापारभेदात् पर्यायेण द्वावपि विधी प्राप्तौ । यथा धातोस्तृजादयो विधीयमानाः पर्यायेण भवन्ति यौगपद्यासंभवात् कर्ता, कारकः, कर्तव्यम्, करणीयमिति । जातौ तु पदार्थे सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वात् अप्रवृत्तिरेवोभयोः प्राप्ता -
सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः।
लोकोपचारतः सिद्धाः सुखबोधाय दर्शिताः॥३०१ । [वि० प०]
तेषाम् । ग्रामायेत्यादि । गत इति संबन्धादपादानम्, ग्रामः प्राप्नोति । दानसंबन्धाच्च संप्रदानमिति परं संप्रदानमेव भवति । एवमन्यत्रापि यथायोगं परत्वं वेदितव्यम् । न च वक्तव्यम् – 'पूर्वपरयोः परविधिर्बलवान्' (कलाप०, पृ० २२१-५०) इति परैव संज्ञा भविष्यति, किमनेनेति ।यतः संज्ञासमावेशे तस्याः परिभाषाया व्यापारो नास्तीति । अन्यथा ‘तद् गच्छति, मज्जति' इत्यत्र गकारजकारयोः परत्वाद् धुसंज्ञैव स्यात् न घोषवत्संज्ञेति घोषवति तृतीयो न स्यात् । तस्मात् संज्ञया संज्ञान्तराणामबाधित्वाद् अपादानादयः संज्ञाः क्रमेण प्रादुर्भवन्तीति वचनमिदमुच्यते ।।३०१ ।
[क० च०]
तेषाम् । 'ग्रामाय दत्वा तीर्थं गतः' इति । ननु कथमिदमुदाहरणं यावता 'मूलकेनोपदंशं भुङ्क्ते, ब्राह्मणायाहूय ददाति' इतिवत् प्रधानक्रियापेक्षया अपादानसंज्ञैव प्राप्नोति । तत् कथं ग्रामायेति संप्रदानमिति गौणमुख्यक्रिययोः संबन्धे, युगपदुभयप्राप्त्यभावात् । प्रधानक्रियाश्रयणं तु अत्र प्राप्तिग्रहणादेव लभ्यते । तथाहि "तेषां परम् उभयस्मिन्" इति सिद्धे यत् प्राप्तिग्रहणं तत् तुल्यतया उभयप्राप्तिसूचनार्थम्, तुल्यत्वं च प्रधानक्रियापेक्षयैव । यदि गौणक्रियासंबन्धेऽपि युगपद् उभयप्राप्तिरुच्यते । तदा मूलकेनेत्यत्रोपदंशनक्रियाव्याप्यत्वेन परत्वाद् द्वितीया स्यात् । गौणत्वं चास्य विशेषणत्वेनैव । अत एव श्रीपतिरपि नाव्ययकृविधिः क्रियान्तरकारक इति । तथा च 'प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत् प्रकाशते' (का० परि० ६२) इति वक्ष्यति । उच्यते, क्रियान्तरापेक्षया विशेषणत्वादुभयोरेव दानगमनयोर्गौणत्वम् । तच्च क्रियान्तरं प्रकृतानुपयोगित्वान्न दर्शितम् ।
Page #154
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
तथाहि 'ग्रामाय दत्वा तीर्थं गतः संस्तिष्ठति, तपस्यति वा' इत्यस्य विशेषणक्रियाद्वयकारकयोः परत्वचिन्ता युक्तैव । ननु तथापि " नाव्ययकृद्विधिः क्रियान्तरकारकः” (कात० परि० - का० ९८ ) इति श्रीपतिसूत्रस्य विषयत्वाद् ग्रामायेत्यत्र पञ्चमी प्राप्नोतीति चेत्, नैवम् । कारके हि सिद्धे तस्य सूत्रस्य विषयः । अत्र च परत्वेन तत्कारकत्वमेव निराकृतम् । यद् वा एकस्मिन्नेव कारके उभयकार्यप्राप्तावेव तस्य सूत्रस्य विषयः, न तु कारकभेदे प्रत्यासत्तिन्यायात् । तथा च तस्य सूत्रस्योदाहरणं भोक्तुमोदनस्य पाचकश्छात्र इत्यादि । अत्र भोजनपचनयोरेकस्यैव कर्मकारकस्य ओदनस्य तुम्प्रत्ययनिबन्धनषष्ठीनिषेधे वुण्प्रत्ययनिबन्धनषष्ठीप्राप्ती अव्ययनिबन्धनषष्ठीनिषेधो निषिध्यते ।
११२
प्रकृते तु कारकद्वयप्राप्तौ कथं तस्य विषयः स्यात् । वस्तुतस्तु अपाणिनीयत्वात् स्वकपोलकल्पितं श्रीपतिसूत्रं न साधु । 'ओदनः पचता भुज्यते' इत्यादौ अनव्ययनिबन्धनकार्यस्यापि निषेधदर्शनात् । किञ्च,
अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्तदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ (रघु० १३ | ३५)
इत्यादौ भावे क्तान्तस्य सुप्तमित्यस्य योगेनोक्तार्थता 'स्मरामि' इति मुख्यक्रियायोगे कर्तुरुक्तार्थतेति । तस्मादवश्यमेव गौणमुख्यन्यायः समादरणीयः । ततश्चायमेव न्यायोऽस्तु किं सूत्रेणेति । स च न्यायो 'ग्रामाय दत्वा तीर्थं गतः' इत्यत्र न संभवत्येव, उभयोर्विशेषणत्वाद् इति युक्तिरुक्तैव । त्यजति दण्डं दण्डीति । ननु कथमेतदुदाहरणम्, त्यजनसंबन्धाद् यद्यप्य-पादानं स्यात् तदा त्यजतीति कर्तरि प्रत्ययो न स्यात् ? सत्यम्, इदमपि दूषणान्तरम् । यद् वा एतत्तु प्रथमकक्षायामेवोदाहृतम्, किन्तु 'त्यज्यते दण्डिना दण्डः' इत्येवोदाहरणम् इति ॥ ३०१ |
[समीक्षा]
विविध व्याकरणों में कारकों का क्रम दो प्रकार का देखा जाता है। एक तो - 'अपादान, सम्प्रदान, करण, अधिकरण, कर्म, कर्ता का तथा दूसरा क्रम है'कर्ता, कर्म, अधिकरण, करण, सम्प्रदान, अपादान' का । जहाँ एक ही स्थल में
-
Page #155
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
११३ दो कारक प्राप्त होते हैं, वहाँ प्रथम क्रम के अनुसार परवर्ती कारक प्रवृत्त होता है तथा द्वितीय क्रम के अनुसार पूर्ववर्ती कारक । कहा भी गया है
१. अपादान-सम्प्रदान-करणाधारकर्मणाम्। ___ कर्तुश्चान्योऽन्यसंदेहे परमेकं प्रवर्तते ॥
(वा०प०, द्र०-श०श० प्र०, का० ८२)। २. कर्तृ-कर्माधिकरणं करणं सम्प्रदानकम्। अपादानं च संदेहे परं पूर्वेण बाध्यते ॥
(मुग्ध० - दुर्गादासीय टीका, सू० ३१६)। पाणिनि और शर्ववर्मा ने प्रथम क्रम अपनाया है, परन्तु शर्ववर्मा ने कातन्त्रव्याकरण में करण को अधिकरण से पर में पढ़ा है, जिसके फलस्वरूप 'धनुषा शरान् क्षिपति' में 'धनुष्' की करणसंज्ञा ही उपपन्न होती है तथा उससे अधिकरणसंज्ञा का बाध हो जाता है | पाणिनि के अनुसार यहाँ अधिकरण संज्ञा की प्राप्ति होगी – “आकडारादेका संज्ञा, विप्रतिषेधे परं कार्यम्" (अ० १।४।१, २)।
यहाँ यह विशेष ज्ञातव्य है कि अर्थलाघव अभीष्ट होने के कारण तथा प्रसिद्ध होने के कारण भी कातन्त्र में कारकसंज्ञा व्याख्यात नहीं है, परन्तु पूर्वाचार्यव्यवहारसमादर के कारण उसका प्रयोग श्रीपतिदत्त आदि आचार्यों द्वारा मान्य है।
[विशेष वचन] १. लोके शास्त्रे च न संज्ञया संज्ञान्तरस्य बाधा क्रियते (दु० टी०)। २. विवक्षातः कारकाणि भवन्ति (दु० टी०)। ३. सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः ।
लोकोपचारतः सिद्धाः सुखबोधाय दर्शिताः ।। (दु० टी०)। ४. संज्ञया संज्ञान्तराणामबाधितत्वाद् अपादानादयः संज्ञाः क्रमेण प्रादुर्भवन्ति
(वि० प०)। ५. प्रधामशक्त्यभिधाने गुणशक्तिरभिहितवत् प्रकाशते (क० च०)। ६. वस्तुतस्तु अपाणिनीयत्वात् स्वकपोलकल्पितं श्रीपतिसूत्रं न साधु(क० च०)।
Page #156
--------------------------------------------------------------------------
________________
११४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. ग्रामाय दत्त्वा तीर्थ गतः। कर्ता-देवदत्तः, कर्म-धनम् = ग्रामाय धनं दत्त्वा तीर्थं गतः । यहाँ 'दा' धातु के योग से संप्रदान तथा गम् धातु के योग से अपादान संज्ञा प्राप्त होती है, परन्तु पर होने के कारण संप्रदान संज्ञा प्रवृत्त हो जाती है । ग्राम + रे । उ को 'य' आदेश तथा मकारोत्तरवर्ती अकार को दीर्घ आदेश ।
२. कांस्यपात्र्यां भुक्ते । कर्ता-देवदत्तः, कर्म-अन्नम्, देवदत्तः कांस्यपात्र्याम् अन्नम् भुङ्क्ते । अन्न के पृथक् होने के कारण 'कांस्यपात्री' की अपादानसंज्ञा तथा अन्नभोजन का आधार होने से अधिकरणसंज्ञा, परन्तु पर होने के कारण अधिकरण संज्ञा प्रवृत्त हो जाती है । कांस्यपात्री + ङि । ङि को आम् तथा ईकार को यकारादेश ।
३. मूदुना धनुषा शरान् क्षिपति । कर्ता-देवदत्तः । शरों का आधार होने के कारण अधिकरण तथा शरक्षेपण में साधकतम होने के कारण 'धनुष्' की करणसंज्ञा प्राप्त होती है । परन्तु पर में होने से करणसंज्ञा ही उपपन्न हो पाती है । धनुष् + टा | 'ट्' अनुबन्ध का लोप ।
४. तरुं त्यजति खगः । यहाँ त्यागरूप क्रिया की अवधि होने के कारण तरु की अपादानसंज्ञा तथा ईप्सिततम होने के कारण कर्म संज्ञा प्राप्त है, परन्तु परवर्तिनी कर्मसंज्ञा ही प्रवृत्त हो पाती है। तरु+अम् । अकारलोप ।
५. गां दोग्धि पयः। यहाँ दुग्ध के पृथक् होने से प्राप्त अपादानसंज्ञा का बाध करके ईप्सिततम होने के कारण 'गो' की कर्मसंज्ञा प्रवृत्त होती है । गो + अम् । ओकार को आकार तथा परवर्ती अकार का लोप ।
६. त्यजति दण्डं दण्डी। यहाँ दण्डत्यागरूप क्रिया की अवधि होने के कारण प्राप्त अपादानसंज्ञा को बाधकर त्यागक्रिया में स्वतन्त्र दण्डी की कर्तृसंज्ञा उपपन्न होती है । दण्डिन् + सि । इकार को दीर्घ-सिलोप तथा नलोप ।।३०१ ।
३०२. प्रथमाविभक्तिर्लिङ्गार्थवचने [२।४।१७] [सूत्रार्थ]
जहाँ लिङ्ग अपने स्वाभाविक अर्थ को कहता है, वहाँ उससे प्रथमा विभक्ति होती है ||३०२।
Page #157
--------------------------------------------------------------------------
________________
११५
नामचतुष्टयाध्याये चतुर्थः कारकपादः [दु० वृ०]
अव्यतिरिक्तलिङ्गार्थवचने प्रथमा विभक्तिर्भवति ।उच्चैः, नीचैः, वृक्षः, कुण्डम्, कुमारी । द्रोणः, खारी, आढकः, हस्तः, वितस्तिः, दीर्घम् । काष्ठम्, घृतम्, पलम् । एकः, द्वौ, बहवः । सर्वेऽप्यमी लिङ्गार्था अन्वयित्वाद् एकमर्थं द्वौ बहून् वा वक्तीत्यन्वर्थसंज्ञया एकस्मिन्नर्थे एकवचनम्, द्वयोर्दिवचनम्, बहुषु बहुवचनम् । 'सम्पन्नो यवः' इति जातावेकवचनम् । ‘सम्पन्ना यवाः' इति व्यक्तिभेदेषु बहुवचनम् । वयमिति बाह्याध्यात्मिकेषु भावेषु । यथा गुरुषु ।अहम् इति पुनरभेदविवक्षायामेकवचनम् ।।३०२ ।
[दु० टी०]
प्रथमा० । “तस्मात् परा विभक्तयः" (२।१।२) इत्यनेन प्रथमा विहिता, तस्या अर्थः कथ्यते। लिङ्गस्यार्थो लिङ्गार्थस्तस्य वचनम् । लिग चाव्यतिरिक्तमर्थं स्वभावात् प्रतिपादयतीत्याह – अव्यतिरिक्तेत्यादि । लिङ्गं तु वस्तुमात्रस्याभिधायकम्, अन्वयव्यतिरेकाभ्यां तन्मात्रप्रतीतेः । तथाहि वृक्षेति विभक्तिं विना वस्तुमात्रं प्रतीयते, शाखादिमत् । कर्मादिशक्तयस्तु विभक्तिवाच्या एव । यत्प्रयोगे यत् प्रतीयते स तस्यार्थ इत्याह - सर्व इत्यादि । न हि पदार्थः सत्तां जहातीति वृक्ष इत्यादि । तथोपमानादयोऽपि, गौर्गवयः, सिंहो माणवकः, धवश्च खदिरश्च पलाशश्च, स्थाणुर्वा पुरुषो वेति । अतिरिक्तार्थस्तु पदान्तरगम्यो न शब्दवाच्यः इति । पाचक इत्यादौ निवर्तक एव लिङ्गार्थ इति न क्रियाकारकलक्षणसम्बन्धस्यातिरिक्तत्वं दुष्यति ।
एवं वाशिष्ठः, कौसुम्भम्' इत्यादौ तद्धितान्तेऽपि प्रकृत्यर्थयुक्त एव प्रत्ययार्थोऽन्वयी । 'कुमारी, किशोरी' इत्यादौ तु सत्यपि लिङ्गभेदे कुमारत्वाद्यर्थः साध्योऽन्वयी । न च वक्तव्यम्, परत्वात् षष्ठी स्यात् । अन्तरङ्गो हि लिङ्गार्थ इति । एवं 'वृक्षः, कुण्डम्':' इत्यादौ पुंस्त्वाधिके वृक्षार्थे, नपुंसकत्वाधिके कुण्डार्थेऽपि इति । यदा प्रस्थादयः परिमाणवृत्तयस्तदाऽनधिक एव लिङ्गार्थ इति अत्र प्रथमा लब्धा, तदन्ता एव प्रस्थादयो मेयादिशब्दैः समानाधिकरणा भवन्ति । सोऽयमित्यभेदोपचारात् प्रस्थो व्रीहेराढको द्रोणः खारीति । यदि पुनः प्रस्थेन परिमितो व्रीहिः, प्रस्थ इत्युपचारः क्रियते । तदैकपदेऽपि मानमेयसंबन्धे षष्ठी स्यात् । अभेदविवक्षापि भेदपूर्विकव । नात्राभेदस्तद्गुणाध्यारोपात् । अथ मेयं प्रधानम्, अन्तरङ्गत्वात् प्रथमेति ? सत्यम् । यदि प्रस्थादीनां सोऽर्थो गौण इति न चिन्त्यते ।
Page #158
--------------------------------------------------------------------------
________________
११६
कातन्त्रव्याकरणम् ननु संख्यायाः कथम् एकवचनद्विवचनबहुवचनानि, उक्तार्थत्वात् । कश्चिद् आह - उक्तार्थानामपि प्रयोगो दृष्टः। यथा “द्वौ घटावानय' इति । तदयुक्तम् | नात्रोक्तार्थत्वम्, किन्तर्हि भेदकत्वम् । नच घटौ द्वावानयेति प्रयोगो दृश्यते । तस्माल्लिङ्गार्थकर्मकरणादिप्रतिपत्तये विभक्तयोऽसङ्करसंख्याः स्युरिति ।अन्य आह - उच्यतेऽनेनेति वचनं संख्या । लिङ्गं चार्थश्च वचनं चेति समाहार इत्ययुक्तमेव । लिङ्गार्यः सत्तेति भाष्यकारमतेऽपि,
स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् ।
समवेतस्य च लिङ्गं संख्या कर्मादिकं चेति॥ सम्पूर्णेऽपि लिङ्गार्थे समाश्रीयमाणे निपातोपसर्गाणां प्रथमा न स्यादिति न चोदनीयम् । “अव्ययाच्च" (२।४।४) इत्यत्र दर्शितमेव । अथ केयं सत्ता, सा महासामान्यम् ? तदा तद्वाचिभ्यः सर्वनामभ्य एव प्रथमा स्यात्, न वृक्षादीनाम् .अर्थान्तरवृत्तित्वात् । अथ अव्यभिचारात् सत्ता अभिधेयेति धूमस्यापि पावको वाच्यः स्यात् । विनाग्निं धूमस्याभावात् । तथा अवयविद्रव्यस्यावयवा वाच्याः स्युः, आरब्धस्य विनारम्भकैरभावात् चक्षुरादयो रूपादीन् न व्यभिचरन्तीति तेऽपि तेषामभिधेयाः स्युरिति । अथ सिद्धता सत्ताशब्देनाख्यायते इत्ययुक्तम् । साध्यापेक्षत्वाद् वाक्यगम्योऽयमर्थः । तस्मादर्थापत्तिवाच्योऽयमर्थो न शब्दगम्यो गुडादिशब्दानां माधुर्यवदिति न चोद्यम्, प्रतीतिबलमेव यदा दर्शनं लिङ्गसंख्यायां चोदितमिति | प्रथमादयः शब्दाः स्यादीनां त्रिकत्रिकेष्वेव रूढाः, तस्माद् विभक्तिर्लिङ्गं वचनं च सुखप्रतिपत्त्यर्थमेव । एकमर्थमित्यादि । वक्तीति प्रत्येकमभिसंबध्यते । अर्थशब्देन संख्याभिधेया वस्तुनो लिङ्गवाच्यत्वात्।
एकमर्थं वक्तीति एकवचनम् । एवं द्विवचन बहुवचनम् | "कृत्ययुटोऽन्यत्रापि च" (४।५।९२) इति कर्तरि युट् । पयः पयो जरयतीत्यादिषु सत्यपि विभक्तिलुकि संख्याकदियो लिङ्गात् प्रतीयन्ते स्मृतिविषयानुसन्धिप्रत्ययात् । यथा 'भृगवः, वत्साः' इत्यत्रापत्यप्रत्ययलुक्यपि अपत्यप्रत्ययार्थ इति । पञ्चकपक्षे पुनरेकत्वाद्युच्यतेऽनेनेति करणे युट्, तदा विभक्तिर्योतिका सहायमन्तरेणापि नामसंख्याकर्मादीन् अभिदधात्येव । जातिरेकोऽर्थः । पक्षे बहुत्ववदिष्यते इत्याह - सम्पन्न इत्यादि । जातिशब्देन यवादीनां जातिरभिधीयते, द्रव्यमपि तत्र जातेरेकत्यादेकवचनम् । यदा तु द्रव्यं तदा बहुत्वाद् व्यक्तीनां
Page #159
--------------------------------------------------------------------------
________________
११७
नामचतुष्टयाभ्याये चतुर्षः कारकपादः तभेदापेक्षया बहुवचनम्, नात्र साध्यक्षतिरिति । एको व्रीहिः सम्पन्नः सुभिक्षं करोतीति एकशब्दसान्निध्यादेकवचनमेव । तथा वृक्षत्वमिति वृक्षशब्दस्य प्रवृत्तिनिमित्तत्वादेकवचनमेव ।
अस्मद एकार्थस्य व्यर्थस्य च पक्षे बहुवचनं सिद्धमित्याह - वयमित्यादि । बाह्या रूपादयः, आध्यात्मिकाश्चक्षुरादयस्तदपेक्षया बहुवचनम् । यथा गुरुषु बहुवचनं वचनमन्तरेणापि ‘परमदैवत्यानि, अधिदैवतानि' इत्यादिषु बहुवचनं तथैवेहापीत्यर्थः । अस्मदः सविशेषणस्य प्रतिषेध इति न सम्मतं परस्य ।गार्योऽहं ब्रवीमि, वटुरहं ब्रवीमि । 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः' इति । फल्गुनीप्रौष्ठपदयोः प्रत्येकं द्वितारकयोर्द्विवचनं सिद्धम् । कदा पूर्वे फल्गुन्यौ, कदा पूर्व प्रौष्ठपदे । यदा तत्सामीप्याच्चन्द्रोऽपि फल्गुनी, तदा चन्द्रमसा सह बहुत्वसंभवे बहुवचनम् । कदा पूर्वाः फल्गुन्यः, कदा पूर्वाः प्रोष्ठपदाः । नक्षत्रं तिष्यम् । एकतारको द्वितारकः पुनर्वसुश्च । तयोरितरेतरयोगे द्वन्द्वेऽपि न बहुवचनम्, नक्षत्रद्वित्वस्य विवक्षितत्वाद् द्विवचनमेव तिष्यपुनर्वसू इति । समाहारद्वन्द्वे त्वेकवचनम् - तिष्यपुनर्वस्विति । नक्षत्रविशेषवाचित्वान्नानयोर्जातिवचनत्वम् ।
तारकाणां भेदविवक्षा नैव लोके दृश्यते इति कुतोऽत्र बहुवचनमिति । प्रत्यर्थ शब्दनिवेशानैकेनानेकार्थाभिधानं स्यादिति स्वरूपाणां शब्दानामेकविभक्तावेकशेष उच्यते इत्ययुक्तम् । शब्दाश्चानन्ताः, अर्थाश्चानन्ताः, कथमेकशेषस्तस्मादेकोऽपि हि शब्दोऽनेकार्थस्याभिधायकः, स्वभावात् । यथा द्यावापृथिव्यो रोदसीशब्द इति । एक एव शब्दोऽनेकशक्तियोगादनेकार्थवाचकः इति दर्शनान्तरं विनापि अनेकशक्तियोगाद् रूपातिशय एव । शब्द एकोऽप्यनेकार्थवाचकः इत्यपरं दर्शनम् । तेन 'वृक्षौ, वृक्षाः' इति सिद्धमेव भिन्नजातीयानामप्यर्थानामेकेनाभिधानं भवति । यथा 'अक्षाः, पादाः, माषाः। किं पुनः सजातीयानां वृक्षादीनामिति । अक्षो बिभीतकः, शकटैकदेशः । पादश्चतुर्थो भागः, रश्मिः, प्राण्येकदेशश्च । माषो व्रीहिविशेषः, परिमाणविशेषः, मूर्खश्च । गर्गापत्यत्वं यथा गाग्र्ये तथा गाायणेऽप्यस्तीति गार्यश्च गाायणश्चोभौ गाग्र्यो । वात्स्यश्च वात्स्यायनश्च वात्स्याविति । पौत्राद्यपत्यप्रत्ययान्तस्य गुर्वायत्तप्रत्ययान्तेन सह वचने पौत्रादिगुर्वायत्तप्रत्ययमात्रकृते विशेषे पौत्रादिवाचकेन गुर्वायत्तस्याभिधानम् । सदैवाभेदविवक्षया लोके गार्यामपि गार्यत्वमस्तीति गार्गी च गार्यायणश्च गाग्यौं,
Page #160
--------------------------------------------------------------------------
________________
११८
कातन्त्रव्याकरणम्
नित्यं स्त्रीत्वाविवक्षैव । एवं कुक्कुट्यामपि कुक्कुटत्वमस्तीति कुक्कुटी च कुक्कुटश्च कुक्कुटौ । किं पुंवाचकस्य स्त्रीवाचकेन सह वचने पुंवद्भावेन ।
तथा पिता च माता च पितरौ, पितेति जनकत्वयोगाद् यथा पुरुषस्याभिधानं तथा मातुरपि, स्त्रीपुंभेदस्याविवक्षायामिति । किं 'पिता मात्रा सह वचनेऽवशिष्यते' इत्यनेन । भेदविवक्षायां तु मातापितरौ । तथा भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ। एकगर्भोषितत्वं भ्रातृव्यपदेशनिबन्धनं तत् स्वसर्यप्यस्ति । जन्यत्वं पुत्रव्यपदेशनिबन्धनं तद् दुहितर्यप्यस्ति । नित्यं लोके स्त्रीत्वस्याविवक्षेति । किं 'भ्रातृपुत्रौ स्वसूदुहितृभ्याम्' इत्यनेन । तथा पूर्ववत् श्वश्रूश्च श्वशुरश्च श्वशुरौ, भेदे तु श्वश्रूश्वशुराविति च । श्वशुर इति तदपत्योद्वहनसंबन्धनिबन्धनो व्यपदेशोऽपि श्वश्वां स्थित एव किं श्वशुरः श्वश्वा' इत्यनेनेति । नपुंसकस्य सर्वलिङ्गसामान्यरूपत्वात् नपुंसकानपुंसकाभिधानेन नपुंसकस्यैव प्रयोगः । शुक्लं च शुक्ला च शुक्लश्चैतानीमानि शुक्लानि । अभेदविवक्षायां तु तदिदं शुक्लम् इति । किं "नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम्" (अ० १।२।६९) इत्यनेन । त्यदादीनां सामान्यवचनत्वाद् अन्यार्थाभिधानेनापि प्रयोगः । स च देवदत्तश्च तौ, यश्च देवदत्तश्च यौ । किं 'त्यदादीनां सर्वैर्नित्यम्' इत्यनेनेति ।
ग्राम्यपशुसंघेष्वतरुणेषु स्त्र्यभिधाने स्त्रीलिङ्गस्यैव प्रयोगःसिद्धः, अपनीतपुंस्कत्वाद् गावः इमाः, अजा इमाः। वाहाय विक्रयाय चोत्सारितपुंस्कत्वात् तदा स्त्रिय एवावशिष्यन्ते, न चातरुणेष्विति वर्जनं युक्तम् । को नामाईति बालकान् पुंसोऽपनेतुम्, वाहाययोग्यत्वात् । प्रायोवृत्तयश्च निर्देशा भवन्ति । तद् यथा 'ब्राह्मणग्रामः, शालवनम्' इति तत्रान्तः पञ्चकारवो य (ध) वादयश्च संभवन्ति । तथेहापि स्त्रीगवीनां बाहुल्यात् कथञ्चित् पुंसोऽनुसारितत्वेऽपि स्त्रीलिङ्गं प्रयुज्यत इति ।।३०२ ।
[वि० प०]
प्रथमाः। तस्मात् परा विभक्तयः” (२।१।२) इति प्रथमा विहितैव केवलम् इहार्थः कथ्यते । अव्यतिरिक्तेत्यादि। विशेषणातिरिक्तोऽधिको व्यतिरिक्तः, न व्यतिरिक्तोऽव्यतिरिक्तोऽनधिक इत्यर्थः । अथवा व्यतिरेको व्यतिरिक्तम्, नपुंसके भावे क्तः। न विद्यते व्यतिरक्तं व्यतिरेको भेदो यस्य सोऽव्यतिरिक्तः, अभिन्न इत्यर्थः। स चासौ लिङ्गार्थश्चेति अव्यतिरिक्तलिङ्गार्थस्तस्य वचनं तस्मिन्नित्यर्थः । अयं पुनरपपाठ
Page #161
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्पाये चतुर्थः कारकपादः
११९ एवाव्यतिरिक्ते लिङ्गार्थवचने इति । लिङ्गार्थो हि अव्यतिरिक्तत्वेन विवक्षितः, न तु तद्वचनमिति । यदाह जिनेन्द्रबुद्धिः- 'अव्यतिरिक्त एव प्रातिपदिकार्थः' (का० वृ० २।३।४६) इति दुर्गसिंहोऽपि टीकायामाह तदा अनधिक एव लिङ्गार्थ इति । यदि पुनर्वृत्तौ बहुलपाठादवश्यं व्याख्येयमिदं तदा लिङ्गार्थस्याव्यतिरिक्तत्वात् तद्वचनमपि अव्यतिरिक्तम् उपचारादिति, कथं पुनरव्यतिरिक्त इति लभ्यते ? सत्यम् । लिग हि वस्तुमात्राभिधायकम्, अन्वयव्यतिरेकाभ्यां तन्मात्रप्रतीतेः। तच्च स्वभावादव्यतिरिक्तमेवोच्यते । तथाहि- वृक्षेति विभक्तिमन्तरेण वस्तुमात्रमनधिकमेव प्रतीयते शाखादिमदिति । अतिरिक्तास्तु कर्मादिशक्तयो विभक्तिवाच्या इति ।
वृक्ष इत्यादि । ननु कथमत्र प्रथमा पुंस्त्वादेर्लिङ्गार्थस्य व्यतिरिक्तहेतुत्वादभेदलक्षणा षष्ठी प्राप्नोति । तथा द्रोणादिशब्देभ्योऽपि मानमेयसंबन्धस्य व्यतिरिक्तत्वात षष्ठी स्यात् । एवमेक इत्यादौ चोक्तार्थत्वात् प्रथमा न प्राप्नोतीत्याह- सर्वे इत्यादि । ननु शब्देनानुपात्तत्वात् कथं पुंस्त्वादेर्लिङ्गार्थत्वम् । तथाहि वृक्षशब्दो विभक्तिं विना पुंस्त्वं नपुंसकत्वं व्याचष्टे इति सन्देह एव स्यात् । ततो यथा 'राज्ञः पुरुषः' इत्यादौ राजन्शब्देनानुपात्तस्य स्वस्वामिसंबन्धस्याभिधानार्थं षष्ठी प्रवर्तते, तथात्रापि स्यात् ? सत्यम् । तथापि वृक्षत्वादिलक्षणः साध्योऽन्वयी लिङ्गार्थोऽत्रापि विद्यते इति । तत्र प्रथमा स्यादेव, परत्वात् षष्ठी स्यादित्यपि न वक्तव्यम्, अन्तरङ्गत्वाल्लिङ्गार्थस्येति । यद्येवं 'राज्ञः पुरुषः' इत्यत्राप्यन्तरङ्गत्वात् कथन्न प्रथमेति । तदयुक्तम्, स्वेन संबन्धात् स्वामित्वमेव प्रधानम् । गुणभूतो लिङ्गार्थ इति कथम् अन्तरङ्गताऽस्येति । 'कुमारी' इत्यादौ च विभक्तिमन्तरेण स्त्रीत्वमुपात्तं शब्देनेति लिङ्गार्थत्वं न विहन्यते । तथा द्रोणादयोऽपि शब्दा यदा केवलपरिमाणवृत्तयः, तदा अव्यतिरिक्तलिङ्गार्थ इति तत्र प्रथमां लब्ध्वा तदन्ता एव मेयादिशब्दैः सोऽयमित्यभिसम्बन्धात् समानाधिकरणा भवन्ति । द्रोणो व्रीहिः, आढको व्रीहिः । द्रोणेन परिमितो व्रीहिरिति । एवमेक इत्यादावप्यदोषः।
विभक्तिमन्तरेण लिङ्गार्थविशिष्टकर्तृकर्मकरणादिप्रतिपत्तेरभावात् । एकादयो हि शब्दाः साधारणमेकत्वादिकमाचक्षते, न कर्तृकर्मकरणादिविशिष्टमिति । अतो विशेष्यस्याभिव्यक्तये विभक्तयो युक्ता इति । अत्र स्यादीनां त्रिकेषु लोकेषु प्रथमादिशब्दवाच्येषु प्रत्येकमेकवचनादिसंज्ञाप्रतिपादनार्थं "तान्येकवचन द्विवचनबहुवचनान्येकशः"
Page #162
--------------------------------------------------------------------------
________________
१२०
कातन्त्रव्याकरणम्
(अ० १।४।१०२) इति सूत्रं केनचित् कृतम् । तथैकत्वादिष्वर्थेषु एकवचनादिकं भवतीति । एतदर्थं च यथा "स्येकयोर्द्धिवचनैकवचने, बहुषु बहुवचनम्" (अ० १।४।२२, २१) इति । तदिह सकलं न वक्तव्यम् अन्वर्थबलादेव सिध्यतीत्याहएकमित्यादि । अर्थशब्देनात्र संख्या अभिप्रेता, द्रव्यस्य लिङ्गवाच्यत्वात् । वक्तीति प्रत्येकमभिसंबध्यते । एकमर्थं वक्तीति एकवचनम् । द्वावर्थों वक्तीति द्विवचनम् . बहूनर्थान् वक्तीति बहुवचनम् । “कृत्ययुटोऽन्यत्रापि" (४।५।९२) इति कतरि युट् । जातेरेकत्वादेकवचनमेव प्राप्नोति । पक्षे बहुवचनार्थं “जात्याख्यायाम् एकस्मिन् बहुवचनमन्यतरस्याम्" (अ० १।२।५८) इति वक्तव्यम् इत्ययुक्तमित्याह - सम्पन्न इत्यादि । जातिशब्देन यवत्वादिजातिरभिधीयते, तद्योगाद् द्रव्यमपि । तत्र यदा जातिस्तदैकवचनम् । यदा तु द्रव्यं तदा तद्भेदविवक्षायां बहुवचनमिति न काचिद् वस्तुक्षतिरिति ।
तदा अस्मद एकार्थस्य द्वयर्थस्य च पक्षे बहुवचनार्थम् “अस्मदो द्वयोश्च" (अ० १।२।५९) इति न वक्तव्यमित्याह - वयम् इत्यादि । तत्र बाह्या रूपादयः, आध्यात्मिकाश्चक्षुरादयः, तदपेक्षया बहुवचनं कथमिवेत्याह - यथा गुरुषु इति । यथा हि गुरुशब्दाद् बहुवचनं वचनमन्तरेणापि सिद्धम्, तद्वदत्रापीत्यर्थः, एवं द्वयोरप्यर्थयोः पक्षे बहुवचनमुदाहर्तव्यम् । आवां पचावः, वयं पचामः' इति ।।३०२ ।
[क० च०]
प्रथमा द्विकपक्षे त्रिकपक्षे चैकवाक्यतामाश्रित्याह - तस्मादिति । शास्त्रान्तरेण विभक्तिविधानं शास्त्रान्तरेण तदर्थकथनमिति तु शिष्यव्युत्पत्त्यर्थमेव । ननु भिन्नप्रकरणयोरासत्त्यभावात् कथमेकवाक्यतान्वयः ? सत्यम् । यद्यप्यासत्तेरभावस्तथापि परस्परापेक्षया विभक्तीनामर्थनिश्चयाद् एकवाक्यताव्यवहार इति न दोषः । केवलम् इहार्थः कथ्यते इति । ननु किमर्थमिदम् – 'अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (पुरु० पा० ९०) इति न्यायात् "तस्मात् परा विभक्तयः" (२।१।२) इत्यनेन लिङ्गार्थ एव प्रथमा भविष्यति । न च आमन्त्रणार्थे प्रथमाविधानात् कथमस्या अनिर्दिष्टार्थत्वमिति वाच्यम्, “आमन्त्रणे च" (२।४।१८) इति प्रथमेति कृते चकारादन्यत्रापि प्रथमाया विधानात् कर्मादिष्वर्थेषु पुनः “शेषाः" (२।४।१९) इत्यादिना द्वितीयादिविधिरस्त्येवेति नात्र प्रथमाविषयः ? सत्यम् । अत एव वचनात् लिङ्गार्थः
Page #163
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्वः कारकपादः
१२१ प्रधानभूत एव गृह्यते । प्राधान्यं हि विशेष्यत्वेन प्रतीयमानत्वमेव । तेन ‘राज्ञः पुरुषः' इत्यत्र संबन्धस्योभयनिष्ठत्वेन पुरुषशब्दादपि षष्ठीप्राप्तौ लिङ्गार्थस्य विशेष्यत्वेन प्रतीयमानात् षष्ठीबाधिका प्रथमैवेति । अन्यथा अपवादत्वात् षष्ठ्येव स्यात् । विशेष्यादपि राजन्शब्दात् पुनः संबन्धस्य विशेष्यत्वेन प्रतीयमानत्वात् षष्ट्येवेति ।
अत एव "द्विष्ठो यद्यपि संबन्धः षष्ठ्युत्पत्तिस्तु भेदकात्" इत्यपि संगच्छते । अथ तर्हि 'नीलमुत्पलम्' इत्यत्र नीलशब्दाद् विशेषणवाचकात् कथं प्रथमेति । नैवम्, सामानाधिकरण्यान्नीलशब्दस्योत्पलमेव वाच्यम् इति प्रथमा स्यादेव । तेन केवलम् इहार्थः कथ्यते इत्यत्रार्थशब्दस्य विशेष्यभूतेऽर्थे तात्पर्यमिति । ननु कथम् अव्यतिरिक्तमिति लिङ्गार्थस्य विशेषणं व्यवच्छेद्याभावात् । यो हि लिङ्गार्थः सोऽनधिक एवेत्याह - अथवेति । भेद इति । यद्यपि भिद्यतेऽनेनेति भेदो विशेषणम्, तथाप्यत्र धर्मपरत्वेन विवक्षितत्वाद् भेदशब्देन विशेषणत्वमुच्यते । अभिन्न इति विशेष्यस्वरूप इत्यर्थः । वचनम् अभिधानमित्यर्थः । कथं पुनरव्यतिरिक्त इति । वृक्षमानयेत्यादौ कमदिरर्थस्य विशेष्यत्वेन लिङ्गार्थतया प्रतीयमानत्वादत्रापि कथं प्रथमा न स्यादिति पत्रीकृतो हृदयम् । अन्वयव्यतिरेकाभ्यामिति प्रकृतेरिति शेषः । तथाहि वृक्षमित्यत्रैव प्रकृतिस्थितौ विभक्त्यर्थानुसन्धानं विना तदर्थप्रतीतिरन्वयः। प्रकृतिव्यतिरेकेण विभक्तिस्थितौ तदर्थप्रतीतेरभावो व्यतिरेकः । तथा च तथात्र प्रतीतेरित्यस्य द्वयमेवार्थः ।
तथाहि अन्वयपक्षे प्रतीतेवृक्षत्वादिविशिष्टस्यैव प्रतीतेरित्यर्थः । व्यतिरेकपक्षे च तन्मात्रस्य तदभावस्य प्रतीतेरित्यर्थः, सर्वनाम्नो बुद्धिस्थवाचित्वात् । यद् वा तन्मात्रप्रतीतेरित्यत्र तन्मात्राप्रतीतेश्चेत्युपस्करणीयम् । तथा चान्वयव्यतिरेकाभ्यां प्रतीत्यप्रतीती इति श्रीपतिः। तदुक्तम्,
यत्र योऽन्येति यं शब्दमर्थस्तस्य भवेदसौ।
अन्वयव्यतिरेकाभ्यां शक्तिस्तत्रावसीयते ॥ इति । तन्मात्रप्रतीतेरिति वस्तुमात्रप्रतीतेरित्यर्थः । तत्राव्यतिरेकज्ञानस्यान्वयज्ञानाधीनत्वात् । अन्वयमेवाह - तथाहीत्यादि । तत्र विभक्त्यर्थानुसन्धानाभावं दर्शयति- विभक्तिं विनेति । विभक्त्यर्थानुसन्धान विनेत्यर्थः । अन्यथा विभक्तिव्यतिरेकेणासाधुत्वादपप्रयोग एव । तथा चास्मन्मते प्रकृतेरेवान्वयो व्यतिरेकश्च । कुलचन्द्रस्तु वृक्षमित्यत्रान्वयो विभक्तेर्जायते । व्यतिरेकमाह - तथाहीति । एतन्मते विभक्तेरेवान्वयो व्यतिरेकोऽपि ।
Page #164
--------------------------------------------------------------------------
________________
१२२
कातन्त्रव्याकरणम्
तत्र वृक्षं वृक्षणेत्यादौ प्रत्येकं विभक्तेर्व्यतिरेक इति । तथा चास्य मते विभक्तिविशेषव्यतिरेक इत्यर्थः, विभक्तिं विना प्रयोगस्याभावात् । तदा कर्मादि केन प्रत्याय्यताम् इत्यत आह - कर्मादीति । वृक्ष इत्यादि । ननु “प्रातिपदिकार्थलिगपरिमाणवचनमात्रे प्रथमा" (अ० २।३।४६) इति परसूत्रम् । तत्र पुंस्त्वादिकं न प्रकृत्यर्थः, किन्तु विभक्त्यर्थ एव, यतो विभक्तिं विना तटशब्दे लिङ्गसन्देहः स्यात् । ततश्च ‘राज्ञः पुरुषः' इत्यत्र प्रकृत्यनुपात्तसंबन्धाभिधानाय यथा षष्ठी तथा वृक्षादिशब्दादपि लिङ्गसंबन्धाभिधानाय षष्ठी स्यादिति तदर्थं लिङ्गग्रहणम् । तथा द्रोणादयः शब्दा यदा परिमाणमात्रविशेषे वर्तन्ते तदा ततः प्रथमासिद्धावपि यदा सोऽयमित्यभिसंबन्धाद् द्रोणादिपरिमितो ब्रीह्यादिोण इत्युच्यते । तदा मुख्यप्रातिपदिकार्थस्वभावाद् गौणस्य चात्राग्रहणात् प्रथमा न सिध्यतीति परिमाणग्रहणम् । तथा एकादिशब्देनैव संख्याया उक्तार्थत्वात् प्रथमा न सिध्यतीति तदर्थं वचनग्रहणम् । एवं च सति प्रातिपदिकार्थग्रहणं लिङ्गसंख्यारहिताव्ययार्थमेव पर्यवस्यति ।
यद्यपि सर्वविभक्त्युत्पत्तिपक्षे षष्ठीविधानेनापि पदसंज्ञा सिद्धा, तथापि "वाऽसपूर्वात् प्रथमान्तात्" (कात० परि०-नाम० ६५) इत्यनेन विकल्पनेन वस्नसाधादेशार्थं प्रथमाविधानम् ।अत एव उच्चैः,नीचैः' इति प्रातिपदिकार्थस्यैवोदाहरणम् । ततश्चास्मन्मते लिङ्गादिग्रहणाभावे विभक्तिवाच्यपुंस्त्वाद्यर्थस्य तत्संबन्धस्य चाधिक्यात् षष्ठी स्यादित्येतदेव द्विकपक्षमादाय पूर्वपक्षयति- नन्वित्यादि। एवं द्विकपक्षेऽपि संख्याया आधिक्यात् पूर्वपक्षो बोध्यः । चतुष्कपक्षेऽपि अन्तरालसंबन्धे षष्ठी स्याद् इत्यपि पूर्वपक्षो युज्यते, तथापि द्विकपक्षे ग्रन्थकारस्य यथाश्रुतस्वरसात् । तन्मतेनैव ग्रन्थो व्याख्यायते इति भावः इति पाठान्तरम् । पुंस्त्वादेर्लिङ्गार्थस्येति लिङ्गार्थसम्बन्धी यो विभक्तिवाच्यः पुंस्त्वादिः स व्यतिरेकहेतुरिति व्यधिकरणान्वयः । नतु य एव पुंस्त्वादिः स एव लिङ्गार्थ इति सामानाधिकरण्येनान्वयः।
व्यतिरेकहेतुत्वादित्यादि, हेतुत्वासङ्गतेः । अस्मिन्पक्षे पुंस्त्वादेविभक्त्यर्थत्वात् संबन्धस्यातिरिक्तत्वेन पूर्वपक्षो घटते इति । पुंस्त्वादेरलिङ्गार्थस्येति पाठे सुतरामेव संगच्छते इति । एवमिति । यथा द्रोणादिशब्दे मानमेयसंबन्धोऽतिरिक्तस्तथा एक इत्यादौ संख्यानसंख्येयस्यातिरिक्तत्वात् षष्ठी स्यात् । चकारोऽत्र भिन्नक्रमे उक्तार्थत्वाच्च प्रथमा न प्राप्नोतीत्यर्थः, तथा चैकशब्देन द्वयार्थानुपपत्तेः । यदुक्तम् -
Page #165
--------------------------------------------------------------------------
________________
१२३
नामचतुष्टयाप्याये चतुर्थः कारकपादः अर्थान्तरैरसंश्लिष्टो लिङ्गस्यार्थो भवेद् यदि।
प्रथमा स्यात् तदा तत्र तावन्मात्रविवक्षया ॥ इति । त्रिकपक्षमवलम्ब्य वृत्तिकृता यत् सिद्धान्तितम्, तदुत्थापयति - सर्व इत्यादीति । अयमर्थः- अमी पुंस्त्वादयोऽपि लिङ्गार्था अन्वयित्वात् । विशेष्ये स्वार्थविशिष्टद्रव्यादावन्वितत्वेन प्रतीयमानत्वात् । अतः प्रथमा न विहन्यते इति । द्विकपक्षम् आश्रित्य पुनः पूर्वपक्षयति- नन्विति । शब्देनानुपात्तत्वादिति । अन्वयव्यतिरेकाभ्यां शब्देनानुपस्थापितत्वादित्यर्थः । तदुक्तं वार्तिके
यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ।
अन्वयव्यतिरेकाभ्यां नान्यस्तत्र प्रतीयते ॥ अन्वयव्यतिरेकेण पुंस्त्वादेर्लिङ्गार्थत्वाभावं दर्शयति - तथाहीत्यादि । द्विकपक्ष एव सिद्धान्तयति- सत्यमित्यादि । वृक्षत्वादिलक्षण इति वृक्षत्वादिना प्रवृत्तिनिमित्तेन लक्ष्यते यो द्रव्यादिस्वरूपोऽर्थः स वृक्षत्वादिलक्षणः । यद् वा वृक्षत्वादिलक्षणं नियामकं यस्य स तथा साध्यो विशेष्यत्वेन प्रतीयमानोऽन्वयी शब्दाभिधेयोऽव्यभिचारीति यावद् एतेन पुंस्त्वाद्यर्थाधिक्येऽपि यत्र लिङ्गार्थो विशेष्यत्वेन प्रतीयते तत्रैव प्रथमेति भावः । एवं च सति द्विकपक्षेऽपि वृत्तिरेवं व्याख्येया । तथापि अन्वयित्वाद् विशेषणत्वेनान्वितत्वाद् विशेष्यत्वादिति यावत् । अपि अभ्युपगमेऽन्वयित्वात् तावद् अमी वृक्षादयो लिङ्गार्थाः । अतः प्रथमा न विहन्यते इत्यर्थः । नन्वत्र लिङ्गार्थस्य विशेष्यत्वमस्तु सम्बन्धस्यापि विद्यमानत्वात् षष्ठी स्यादित्याह - परत्वादिति । परत्वं च "उच्चैः, नीचैः' इत्यादौ प्रथमायाः सावकाशत्वान्न ‘राज्ञः पुरुषः' इत्यादौ षष्ट्याः सावकाशत्वादिति घटते । अन्तरङ्गत्वादिति । लिङ्गार्थस्य विशेष्यत्वेनान्तरङ्गत्वादिति भावः । स्वेन पुरुषादिनेत्यर्थः । प्रधानमिति प्रतिपाद्यत्वादित्यर्थः । गुणभूत इति विशेषणत्वादित्यर्थः । कुमारीत्यादौ चेति ।
अयमाशयः। अन्वयव्यतिरेकाभ्यां यत्र स्त्रीत्वादिरपि प्रतीयते, सोऽपि लिङ्गार्थ एव, किन्तु अत्रान्तरङ्गत्वव्याख्यानेन । एतेन व्याकरणस्य सर्वपारिषदत्वात् त्रिकपक्षोऽपि आदृत एव । ननु पाणिनिना द्रोणो व्रीहिरित्यादौ औपचारिक प्रयोगसाधनार्थं परिमाणग्रहणं क्रियते । तदभावादस्मन्मते किं स्यादित्याह - तथा द्रोणादयोऽपीत्यादि ।
Page #166
--------------------------------------------------------------------------
________________
१२४
कातन्त्रव्याकरणम् नन्देकादिशब्दस्य संख्यानसंख्येयार्थस्यातिरिक्तत्वात् षष्ठीप्राप्तौ सर्वेऽप्यमी लिङ्गार्था इत्यनेनैव सिद्धान्तितम् । उक्तार्थत्वात् प्रथमा न स्यादिति पूर्वपक्षसिद्धान्तमाह - एवमेक इत्यादि | न कर्तृकर्मेत्यादि । अत्र विशेष्यत्वेन लिङ्गार्थमपि न चक्षते इत्यपि बोद्धव्यम् । ट्येकयोविचनैकवचने इति । ननु दयेकयोरिति कथं द्विवचनं द्विशब्दस्यैकशब्दस्य च बह्वर्थवाचित्वाद् बहुवचनम् प्राप्नोति । एकद्विशब्दयोः संख्येयवृत्तित्वात् । तथाहि, 'एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वमुच्यते' इति वृद्धैरुक्तम् । अमरसिंहोऽपि 'संख्येये ह्यादश त्रिषु' (अ० को० २।९।८३) इति । ___ बहुव्रीहिसूत्रेऽपि - ‘आदशभ्यः संख्याः संख्येये वर्तन्ते, अतः परं संख्याने संख्येये चेति दर्शितम्' इति वृद्धैरुक्तत्वाच्च ? सत्यम् । लक्षणया एकद्विशब्दयोर्दित्वैकत्वसंख्याने वृत्तिः । ततश्च द्वित्वैकत्वसंख्ययोर्द्वित्वसत्त्वाद् द्विवचनमिति । तथा च वृद्धैरुक्तम् - 'स्येकयोरिति निर्देशात् संख्यावृत्तित्वमिष्यते' इति । अथ तर्हि संख्यायाः एकत्वाद् द्विशब्दादेकवचनमपि स्यात् । नैवम् । अत्र प्रयोगसाध्वर्थमेव लक्षणा क्रियते । नहि सर्वत्र लक्षणां विधाय प्रयोगस्य साधुत्वं कल्पनीयमिति । द्वावर्थो, बहूनानिति । ननु यद्यर्थशब्देनात्र संख्याभिप्रेता, तदा संख्याया एकत्वादेकवचनं प्राप्नोति । तत्कथं द्वावर्थावित्यत्र द्विवचनम्, बहूनानित्यत्र च बहुवचनमिति ? सत्यम् । संख्येयगतं द्वित्वं बहुत्वं च संख्यायामारोप्य प्रयोगसाधुतेति न दोषः । तत्र यदेति यदा विशेष्यत्वेन जातिरभिधीयते तदैकवचनम् । यदा द्रव्यं विशेष्यत्वेनाभिधीयते तदा बहुवचनमिति भावः । तथा च 'क्वचिजातिः क्वचिद् व्यक्तिः पाणिनेस्तूभयं मतम्' इति । ___ अस्मन्मतेऽपि स एव न्याय्यः । आध्यात्मिका इति । आत्मनि अधितिष्ठन्ति ये भावाश्चक्षुरादयः पदार्था इत्यर्थः । गुरुष्विति । अत्र परेणापि अस्मदुक्तरीत्यैव समाधानं क्रियते । न हि एतदर्थं तन्मतेऽपि सूत्रमस्तीत्यर्थः। ननु विशेष्यभूते लिङ्गार्थे प्रथमाविधानार्थं सूत्रमिदं न क्रियताम्, गौणमुख्यन्यायेन तसिद्धेः ? सत्यम् ।द्विकत्रिकपक्षे सुखार्थमेवेदं सूत्रमिति | पञ्चकपक्षे तु सूत्रं कर्तव्यमेव । न ५ वक्ष्यमाणसूत्रे कर्मादिषु द्वितीयादय एवेति नियमात् कर्मादिषु प्रथमा न भविष्यतीति नियमार्थमेतत् क्रियते, लिङ्गार्थ एव प्रथमेति । अपि तु “आमन्त्रणे च प्रथमा" (२।४।१८) इति सूत्रे कृते चकारसामर्थ्याद् अन्यत्रापि प्रथमा भवतीति गौणमुख्यन्यायाद् विशेष्यभूते लिङ्गार्थे भविष्यति, किमनेनेति वाच्यम् । कर्मादिष्वेव द्वितीयादय इति विपरीतनियमे विशेष्यभूते कर्मादावपि पर्यायेण प्रथमाप्राप्तेरिति । हेमकरस्याप्ययमाशयः इति चिन्त्यमन्यत् सुधीभिः ||३०२।
Page #167
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
१२५ [समीक्षा]
पाणिनि ने अष्टाध्यायी में प्रथमा विभक्ति का विधान चार अर्थों में किया है - प्रातिपदिकार्थमात्र, लिङ्गमात्राद्याधिक्य, परिमाणमात्र तथा वचनमात्र में "प्रातिपदिकार्थलिङ्गपरिमाणवचनमाने प्रथमा" (अ०२।३।४६) । कातन्त्रकार शर्ववर्मा ने लिङ्गार्थ तथा संख्यार्थ में ही प्रथमा विभक्ति की है। शेष अर्थ व्याख्यानबल से ही गृहीत हो जाते हैं । अतः व्याख्याकारों ने उनकी अनावश्यकता ही सिद्ध की है। पाणिनीयव्याख्याकारों के अनुसार अलिङ्ग तथा नियतलिङ्गवाले शब्द प्रातिपदिकार्थपद से लिए जाते हैं। जैसे- उच्चैः, नीचैः, कृष्णः, श्रीः, ज्ञानम् । लिङ्गमात्राद्याधिक्य के उदाहरण हैं अनियतलिङ्गवाले शब्द | जैसे- तटः, तटी, तटम् । परिमाणमात्र का उदाहरण 'द्रोणो व्रीहिः' माना जाता है। शर्ववर्मा ने इन सभी को लिङ्गार्थ ही स्वीकार किया है, जैसा कि वृत्तिकार दुर्गसिंह स्पष्टतः कहते हैं
'सर्वेऽप्यमी लिङ्गार्था अन्वयित्वाद् एकमर्थं द्वौ बहून् वा वदन्ति इत्यन्वर्थसंज्ञया एकस्मिन्नर्थे एकवचनम्, द्वयोर्द्विवचनम्, बहुषु बहुवचनम्' ।
सामान्यतया नाम, प्रातिपदिक या लिङ्ग के पाँच अर्थ माने जाते हैं - जाति, व्यक्ति (द्रव्य), लिङ्ग, संख्या तथा कारक । पाणिनि ने उक्त सूत्र में लिङ्ग तथा वचन (संख्या) का भी उपादान किया है । अतः वे प्रातिपदिक के दो ही अर्थ स्वीकार करते हैं - जाति तथा व्यक्ति । परन्तु शर्ववर्मा के अनुसार लिङ्ग (= प्रातिपदिक) के तीन अर्थ सिद्ध होते हैं - जाति, व्यक्ति तथा लिङ्ग | टीकाकार दुर्गसिंह दो ही अर्थों को मानने के पक्ष में हैं।
[विशेष वचन] १. लिङ्गं चाव्यतिरिक्तपर्थं स्वभावात् प्रतिपादयति (दु० टी०)। २. लिङ्गं तु वस्तुमात्रस्याभिधायकम् (दु० टी०)। ३. कर्मादिशक्तयस्तु विभक्तिवाच्या एव (दु० टी०)। ४. नहि पदार्थः सत्तां जहाति (दु० टी०)। ५. अभेदविवक्षापि भेदपूर्विकैव (दु० टी०)।
Page #168
--------------------------------------------------------------------------
________________
१२॥
कातन्वव्याकरणम्
६. उक्तार्थानामपि प्रयोगो दृष्टः (दु० टी०)। ७. लिङ्गार्थः सत्तेति भाष्यकारमतेऽपि (दु० टी०)। ८. अर्थशब्देन संख्या अभिधेया वस्तुनो लिङ्गवाच्यत्वात् (दु० टी०, वि० प०)। ९. तारकाणां भेदविवक्षा नैव लोके दृश्यते (दु० टी०)। १०. प्रत्यर्थं शब्दनिवेशान्नैकेनानेकार्थाभिधानं स्यात् (दु० टी०)। ११. 'शब्द एकोऽप्यनेकार्थवाचकः' इत्यपरं दर्शनम् (दु० टी०)। १२. लिङ्गं हि वस्तुमात्राभिधायकम्, अन्वयव्यतिरेकाभ्यां तन्मात्रप्रतीतेः
(वि० प०)। १३. सर्वनाम्नो बुद्धिस्थवाचित्वात् (क० च०)। [रूपसिद्धि]
१-२. उच्चैः। उच्चैस् + सि | नीचैः। नीचैस् + सि । “धातुविभक्तिवर्जम् अर्थवल्लिङ्गम्' (२।१।१) से उच्चैस्, नीचैस्' की लिङ्गसंज्ञा, उच्चस्त्व-नीचैस्त्वरूप. जाति, उन्नत-अवनतरूप द्रव्य लिङ्गार्थ तथा प्रकृत सूत्र द्वारा प्रथमा विभक्ति । "तस्मात् परा विभक्तयः' (२।१।२) से लिङ्ग के बाद विभक्ति का प्रयोग । 'उच्चैस्नीचैस्' की अव्ययसंज्ञा, “अव्ययाच्च" (२।४।४) से सिप्रत्यय का लुक् तथा "रेफसोर्विसर्जनीयः' (२।३।६३) से सकार को विसगदिश ।
३-५. वृक्षः। वृक्ष + सि | कुण्डम् । कुण्ड + सि | कुमारी । कुमारी + सि । वृक्ष, कुण्ड तथा कुमारी की लिङ्गसंज्ञा, वृक्षत्व आदि लिङ्गार्थ तथा प्रकृत सूत्र द्वारा प्रथमा विभक्ति । 'वृक्षः' में स् को विसर्ग, 'कुण्डम्' मे मु-आगम-सिलोप एवं 'कुमारी' में सि-लोप ।
६-११. द्रोणः।द्रोण + सि |खारी ।खारी + सि | आढकः।आढक + सि |हस्तः। हस्त + सि ।वितस्तिः। वितस्ति + सि । दीर्घम् । दीर्घ + सि । 'द्रोण' आदि की लिङ्गसंज्ञा, परिमाणविशेषरूप लिङ्गार्थ तथा प्रकृत सूत्र से प्रथमा विभक्ति का प्रयोग ।
१२-१४. काष्ठम् । काष्ठ + सि | घृतम् ।घृत + सि । पलम् । पल + सि | 'काष्ठ, घृत, पल' शब्दों की लिङ्गसंज्ञा, पुंस्त्वादि लिङ्गविशेषरूप लिङ्गार्थ तथा प्रकृत सूत्र से प्रथमा विभक्ति ।
Page #169
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१५-१६. एकः। एक+ सि । द्वौ । द्वि + औ । बहवः । बहु + जस् । ' एकद्वि-बहु' शब्दों की लिङ्गसंज्ञा, एकत्व - द्वित्व - बहुत्वसंख्यारूप लिङ्गार्थ तथा प्रकृत सूत्र द्वारा प्रथमा विभक्ति ॥ ३०२ ॥
३०३. आमन्त्रणे च [२|४|१८ ]
[ सूत्रार्थ ]
आमन्त्रण अर्थ में प्रथमा विभक्ति होती है || ३०३ |
१२७
[दु० वृ० ]
आमन्त्रणे चार्थे प्रथमा विभक्तिर्भवति । हे पुत्र ! हा पुत्र ! धिक् पुत्रौ ! है पुत्राः ! षष्ठ्यपवादोऽयम् ||३०३ । [दु० टी० ]
आम० । सिद्धस्याभिमुखीभावमात्रम् आमन्त्रणम् । न तु आमन्त्रणं वाक्यार्थ इति मतान्तरमेतत् । क्रियासंबन्धात् पूर्वमपि स्वगतधर्मातिरेके षष्ठी स्यादिति प्रथमा आरभ्यते ।। ३०३ ।
[वि० प० ]
आम० । अथ किमर्थमिदं यावता पूर्वेणैव सिध्यतीत्याह - षष्ठ्यपवादोऽयमिति । आमन्त्रणार्थस्य व्यतिरिक्तत्वाद् भेदलक्षणा षष्ठी स्यादिति भावः ।। ३०३ ।
[क० च० ]
आम० | आमन्त्रणार्थस्य व्यतिरिक्तत्वादित्यभिमुखीकरणस्य क्रियारूपत्वात् प्रातिपदिकार्थो न भवतीति भावः । ननु प्रथमयैवाभिमुख्यस्योक्तत्वात् कथं हे देवदत्त ! अभिमुखीभवेत्यादिप्रयोगः ? सत्यम् । हे देवदत्त ! इत्यत्र देवदत्तस्याभिमुख्यमिच्छतीत्यर्थः । अतोऽभिमुखीभवेति साध्यपददर्शनमुचितमिति । पृथग्योगश्च स्पष्टार्थ इति । हाशब्दादिप्रयोगे यथा द्वितीया न भवति तथा परसूत्रे वक्ष्यति ।। ३०३ ।
[समीक्षा]
पाणिनि ने “ संबोधने च " ।
" (अ० २।३।४७) सूत्र में जिस अर्थ के अभिधानार्थ ' संबोधन' शब्द का प्रयोग किया है, शर्ववर्मा ने उसे 'आमन्त्रण' शब्द से अभिव्यक्त
किया है।
Page #170
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
यहाँ यह विशेष ज्ञातव्य है कि पाणिनि तथा शर्ववर्मा दोनों ने ही विभक्तिविशेष 'प्रथमा द्वितीया - तृतीया-चतुर्थी - पञ्चमी-षष्ठी - सप्तमी - संबोधन (शर्ववर्मा - आमन्त्रण)' का प्रयोग पूर्वाचार्यों के ही अनुसार किया है, उनकी कोई परिभाषा नहीं दी है । आठवीं विभक्ति के रूप में पारिभाषिक शब्द ' संबोधन' का प्रयोग पूर्ववर्ती ग्रन्थों में मिलता है, जिसे पाणिनि ने अपना लिया । कातन्त्रकार ने अर्थलाघव की दृष्टि से 'आमन्त्रण' शब्द का व्यवहार किया है
१२८
-
" सिद्धस्याभिमुखीभावमात्रमामन्त्रणम्' (दु० टी०) ।
[ रूपसिद्धि ]
१-२. हे पुत्र! हे पुत्र+सि । हा पुत्र ! हा पुत्र + सि । लिङ्गार्थ से भिन्न आमन्त्रणरूप पदार्थ के रहने पर 'पुत्र' शब्द से प्रकृत सूत्र द्वारा प्रथमा विभक्ति की प्रवृत्ति । अतः परवर्ती सिप्रत्यय का " हस्वनदी श्रद्धाभ्यः सिर्लोपम्” (२ । १ । ७१ ) सूत्र द्वारा लोप |
३-४. धिक् पुत्रौ ! धिक्पुत्र + औ । है पुत्राः । है पुत्र + जस् | लिङ्गार्थ से भिन्न आमन्त्रणरूप अर्थ के विद्यमान होने से 'पुत्र' शब्द में प्रकृत सूत्र से प्रथमा विभक्ति का विधान || ३०३ ।
३०४. शेषाः
कर्मकरणसम्प्रदानापादानस्वाम्याद्यधिकरणेषु [ २।४।१९ ]
[ सूत्रार्थ ]
शेष = कर्म-करण-सम्प्रदान- अपादान-सम्बन्ध तथा अधिकरण । कर्म में द्वितीया, करण में तृतीया, सम्प्रदान में चतुर्थी, अपादान में पञ्चमी, स्वस्वामिभाव आदि सम्बन्ध में षष्ठी तथा अधिकरण में सप्तमी विभक्ति होती है || ३०४ |
[दु० वृ० ]
शेषाः द्वितीयाद्याः षड् विभक्तयः कर्मादिष्वर्थेषु षट्सु यथासंख्यं भवन्ति । कर्मणि – कटं करोति । करणे - परशुना छिनत्ति । संप्रदाने गुरवे गां ददाति । अपादाने - वृकाद् भयम् | स्वाम्यादौ- देवदत्तस्य स्वामी, यज्ञदत्तस्य स्वम्, विष्णुमित्रस्य संबन्धः ।
-
१. द्र०, वा० प० ३।७।१६३ - सिद्धस्याभिमुखीभावमात्रं संबोधनं विदुः ।
Page #171
--------------------------------------------------------------------------
________________
१२९
नामचतुष्टयाध्याये चतुर्वः कारकपादः अधिकरणे - कटे आस्ते, अधीती व्याकरणे | तथा साधुर्मातरि, असाधुः पितरीत्यादयः । निमित्तात् कर्मसंयोगे सप्तमी वाच्या
चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः॥ [दु० टी०]
शेषाः। शिष्यन्ते इति शेषाः, कर्मणि घञ् । प्रथमामपेक्ष्य शेषशब्दवाच्या द्वितीयादयः । षड् इत्यर्थकृतमिह यथासंख्यम् । स्वाम्यादिर्यस्य गणस्येति बहुव्रीहौ गणस्यैकत्वात् शब्दकृतं न यथासंख्यम् इत्याह - शेषा इत्यादि । स्वाम्याद्यर्थे षष्ठी भवत्यपि स्वाम्यादयः शब्दाः प्रयुज्यन्ते । सामान्यवाचका हि शब्दाः प्रकरणमन्तरेण विशेषे वर्तितुं नोत्सहन्ते इति । परतस्तु भेद्यादन्तरङ्गत्वाल्लिङ्गार्थमात्रे प्रथमा अस्तीति भेदकात् षष्ठी भवति । तयैवोभयगतसम्बन्धस्योक्तत्वात् । तदुक्तं च
भेयभेदकयोः श्लिष्टः संबन्धोऽन्योऽन्यमिष्यते। द्विष्ठो यद्यपि संबन्धः षष्ट्युत्पत्तिस्तु भेदकात् ॥ संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां वा क्रियायां स प्रतीयते॥
(वा० प० ३।७।१५६) इति । यथा 'रजकस्य वस्त्रं ददाति, नतः पृष्ठं ददाति, सुभाषितस्य शिक्षते, माषाणामश्नीयात्' । 'राज्ञः पुरुषः' इति राजा पुरुषाय ददातीति गम्यते । एवं काकुत्स्थस्याङ्गुरीयक इति कृतः कारितो वा । पशोः पादः । पशोः पदेनावयवरूपेणारब्ध इति । अस्येदम् = भावरूपस्वस्वाम्यादिलक्षणः संबन्ध इति ।क्तस्य चेन्विषयस्य कर्मणि सप्तमी न वक्तव्येत्याह – अधीतीत्यादि । कर्मणो विषयत्वेन व्यवस्थितत्वाद् (विवक्षितत्वात्) भावे क्तं विधाय ‘अधीतमस्यास्ति' इति इन् । एवं 'परिगणिती वैदिके , आम्नाती च्छन्दसि'।
साधुनिपुणाभ्यां प्रयोगे पूजाप्रतीतौ विषयलक्षणा सप्तमी स्यादित्याह - तथेत्यादि । एवं 'मातरि निपुणः' इति । 'साधु त्यो राजनि' इति भवितव्यमेव,
Page #172
--------------------------------------------------------------------------
________________
१३०
कातन्त्रव्याकरणम्
निवर्तकाभावात् । “प्रसितोत्सुकाभ्यां तृतीया च" (अ० २।३।४४) इति न वक्तव्यम् । 'केशेषु प्रसितः' इति विषय एव सप्तमी । केशैः प्रसितः इति केशैः करणभूतैः प्रसितो भवति, कर्तृभूतैर्वा प्रसितः कृत इति गम्यमानत्वादिति भावः । प्रसितो नित्यम् अवबद्धः, 'षिञ् बन्धने' (४।२; ८।५) । एवं केशेषूत्सुकः, केशैरुत्सुक इति । तथा पुष्येण पायसम् अश्नीयात्, करण एव तृतीया । पुष्ये पायसम् अश्नीयात्, अधिकरण एव सप्तमी | कालस्यामूर्तस्यापि विवक्षया पुष्पेण चन्द्रयुक्तेन लक्षितः क्षणः पुष्यः सोऽयमित्यभिसंबन्धात् । निमित्ताद् इत्यादि । द्वीपिनो हननस्य निमित्तं चर्म, तस्य द्वीपिना कर्मणा संयोगः । वाच्या व्याख्येया इति । हननक्रियाविशिष्टं पुरुषं चर्मैव धारयति, तदन्तरेण तस्यास्थितिरिति विवक्षया निमित्तमपि नित्यम् आधार एवेति ।।३०४।
[वि० प०]
शेषाः। यथासंख्यमिति । स्वाम्येवादिर्यस्य स स्वाम्यादिर्गणः, गणस्यैकत्वात् । कर्मादयः षट्, शेषाश्च विभक्तयः षड् इत्यर्थकृतं यथासंख्यं न शब्दकृतम्, द्वितीयादीनां षड्विभक्तीनां शब्देनानुपात्तत्वात् । क्तस्य चेन्विषयस्य कर्मणि सप्तमीति न वक्तव्यम् । अधिकरणविवक्षयैव सिद्धत्वादित्याह –'अधीती व्याकरणे' इति । अध्ययनम् अधीतम्, नपुंसके भावे क्तः। "तदस्यास्तीति मन्त्वन्त्वीन" (२।६।१५) इति इन् । तथा "साधुनिपुणाभ्याम_याम्" (अ० २।३।४३) इत्यपि न वक्तव्यम् इत्याह - तथेत्यादि । यच्चोक्तम् अर्चायामिति किम् ? 'साधु त्यो राज्ञः' इत्यत्रापि विषयविवक्षायां सप्तम्या भवितव्यमेव-साधु त्यो राजनीति । तथाऽनर्चायामपि भवितव्यमेवेति साध्वसाधुप्रयोगे सप्तमीति न वक्तव्यम् इति दर्शयति – 'असाधुः पितरि' इत्यादय इति । निपुणो मातरि, निपुणः पितरि' इत्यादयो विषयसप्तम्यैव द्रष्टव्या इति भावः ।।
निमित्तेत्यादि । येन विना यन्न भवति तत् तस्य निमित्तमिति । हननस्य चर्मैव निमित्तम्, तेन विना तदभावात् । तस्य निमित्तस्य चर्मणो द्वीपिना कर्मणा सह संयोग इति सप्तमी वाच्या व्याख्येया | तत्रेदं व्याख्यानम् - अधिकरणं हि क्रियाधारभूतं कर्तारं कर्म वा धारयद् भवति । हननक्रियाविशिष्टं पुरुषं चर्मैव धारयति, तेन विना तस्य स्थितेरभावाद् इत्युपश्लेषमन्तरेणाप्यधिकरणत्वं चर्मणो विवक्षितमिति ।।३०४ ।
Page #173
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१३१
[क० च० ]
शेषाः । शेषशब्दोऽत्र पूर्वप्रक्रान्त इतरवचनः । यथा शते धार्यमाणे अशीतौ दत्तायां विंशतिः शेष इति । शेषशब्दोऽत्र वाच्यलिङ्गत्वाद् विभक्तीनां सामानाधिकरण्येन स्त्रीलिङ्गः । यथा ‘शेषं दधि, शेष ओदनः, 'शेषा हि वाणी कुसुमायुधस्य' इत्यादि । शेषशब्दस्याजहल्लिङ्ग्ङ्गत्वेऽपि न दोषः । यथा 'अमुकी शेषा' इति । तथा चोक्तम् - 'पुंनपुंसकयोः शेषः' इत्यमरेण । कर्मशब्दोऽत्र कारकवचनः, न तु वैशेषिकशास्त्रप्रसिद्धक्रियावचनः, तस्या असत्त्वभूतत्वेन विभक्तिवाच्यैकत्वादेस्तत्रासंभवात् । अथ अस्त्येव क्रियाया एकत्वादिसंबन्धः । यथा - 'पाकः, पाकौ, पाकाः, स्पन्दः, स्पन्दौ' इति ? सत्यम् । व्याप्तिन्यायात् कारकवचन एव गृह्यते । यद् वा करणादिसाहचर्येण कर्मपदस्यापि कारकपरत्वात् स्वशास्त्रसंकेतितस्यैव, शीघ्रं बुद्ध्या रूढत्वाच्च । तदुक्तं 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः' इति । अथ स्वाम्यादयः स्वस्वामिसंबन्धसमीपसमूहविकारावयवभावपूरण्यादयः । अन्येऽपि बहवः सन्ति । तत्र क्रमेणोदाहरणानि – ‘देवदत्तस्य स्वम् । देवदत्तस्य स्वामी । देवदत्तस्य पुत्रः । कुम्भस्य समीपम् । हस्तिनां समूहः । पयसो विकारः । पशोः पादाः । छात्रस्य भावाः । छात्राणां पञ्चमः' इति वररुचिः ।
स्वाम्यादाविति । स्वं विद्यतेऽस्येति इन् मकारागमः, ह्रस्वस्य दीर्घतेति दीर्घः। अत्र ‘देवदत्तस्य स्वामी’ इत्यत्र देवदत्तात् स्वाम्यर्थे विधीयमानया षष्ठ्या प्रकृत्यन्तरस्य स्वामित्वमभिधीयते । ‘यज्ञदत्तस्य स्वामी' इत्यत्र यज्ञदत्तात् स्वेऽर्थे विधीयमानया षष्ठ्या प्रकृत्यन्तरस्य स्वत्वमभिधीयते इति कुलचन्द्रसम्मतम् । तन्न, गणक्रमेणोदाहर्तुमुचितत्वेनादौ स्वाम्युदाहरणस्यानौचित्यात् । किञ्च यथा कर्मणि विधीयमाना द्वितीया यस्माच्छब्दाद् विधीयते, तदर्थस्यैव कर्मत्वबोधं जनयति । तथाहि 'कटं करोति' इत्युक्ते कटस्यैव कर्मत्वं नान्यस्य । तथा 'देवदत्तस्य स्वामी' इत्यत्र स्वाम्यर्थे विधीयमानायाः षष्ठ्याः देवदत्तस्यैव स्वामित्वं बोधयितुमुचितत्वात् । तस्माद् गणक्रमेणैव स्वाम्युदाहरणं देवदत्तस्य स्वामी इति दर्शितम् । ततश्च देवदत्तस्य प्रकृतीभूतस्य षष्ट्या स्वत्वमभिधीयते । एतेन यथा 'कटं करोति' इत्युक्ते कटकर्मकरणमिति प्रतीयते । तथा ‘देवदत्तस्य स्वामी’ इत्युक्ते देवदत्तस्य स्वकः स्वामी इत्यपि । 'यज्ञदत्तस्य स्वामी' इत्यत्र षष्ठ्या प्रकृतिभूतस्य यज्ञदत्तस्य स्वामित्वमभिधीयत इति । तेनात्रापि देवदत्तस्य स्वकं स्वामित्वमित्यर्थः ।
Page #174
--------------------------------------------------------------------------
________________
१३२
कातन्त्रव्याकरणम्
ननु यदि षष्ट्या प्रकृतेः स्वत्वं स्वामित्वं चाभिधीयते, न प्रकृत्यन्तरस्य, तदा कथं देवदत्तस्य स्वामीत्यादौ स्वाम्यर्थे विधीयमानया षष्ठ्यैव स्वाम्यर्थस्योक्तत्वात् स्वाम्यादिशब्दः पुनः प्रयुज्यते इति पूर्वपक्षं मनसिकृत्य टीकाकृता स्वाम्याद्यर्थे षष्ठी भवत्यपि स्वाम्यादयः शब्दाः प्रयुज्यन्त इति । सामान्यवाचका हि शब्दाः प्रकरणमन्तरेण विशेषे वर्तितुं नोत्सहन्त इति सिद्धान्तितम्, सत्यम् । टीकापङ्क्तेरयमाशयः- नन्वस्य स्वामिनः स्वामी इत्यत्रास्येति षष्ट्या एव स्वामित्वाभिधानात् कथं तत्समानाधिकरणस्य स्वामिशब्दस्य प्रयोगः, उक्तार्थत्वादित्याह - स्वाम्यायर्थ इत्यादि । अन्यथा अस्य धनमित्युक्ते षष्ट्या सामीप्यार्थस्याप्यभिधातुं शक्यत्वाद् इति । विष्णुमित्रस्य सम्बन्ध इति गणे संबन्धशब्दस्य संबध्यत इति व्युत्पत्त्या संबन्ध एवार्थः । तेन 'विष्णुमित्रस्य संबन्धः' इत्यत्र संबन्धपदेन संयोगाद्यभिधानाद् विष्णुमित्रसंबन्धी संयोगादिरित्यवसीयते । 'देवदत्तस्य पुत्रः' इत्यत्रापि देवदत्तसम्बन्धिकः पुत्र इति गम्यते । संबन्धिनि षष्ठीविधानेऽपि देवदत्तसम्बन्धी संबन्ध इति प्रतीत्योभयगतसंबन्धस्याप्यावश्यकत्वात् संबन्धप्रतीतिः । कटं करोतीत्यादौ साध्यसाधनप्रतीतिवत् । अत एव सम्बन्धे षष्ठीति किंवदन्ती।
हेमकरस्तु - ननु यथा कर्मादिष्वभिधेयेषु द्वितीयादयो भवन्ति तथा स्वामिन्यभिधेये षष्ठी भवितुमर्हतीति तत्कथं स्वस्वामिसम्बन्धे ? सत्यम् । स्वाम्यादावर्थे षष्ठी भवितुमुचितापि स्वामिशब्दस्य संबन्धिवचनत्वात् संबन्ध एवावसीयत इति । ततश्च तस्यायं स्वामी इत्यर्थ एव षष्ठी भविष्यति, तत् कथं 'राज्ञः पुरुषः' इत्यत्र षष्ठी स्यात् ? सत्यम् । स्वस्वामिसंबन्धे षष्ठीह विधीयते, स चात्राप्यस्त्येव । विशेषस्तु पूर्व स्वामी विशेष्योऽत्र स्वम् इत्येव, ततश्चास्य स्वामिनोऽयम् इत्यस्मिन्नर्थेऽपि भवितव्यमेवेति । ननु स्वस्वामिलक्षणसंबन्ध इत्यत्र स्वशब्देन किमात्मीयमुच्यते, नैवं द्रव्यम्, तस्य संबन्धेऽपि स्वस्वामिलक्षणः । यथा देवदत्तस्य स्वमिति । अथ तर्हि आदिशब्देन किं गृह्यते ? सत्यम्, आदिशब्दात् सम्बन्धमात्रेऽपि स्यात् । यथा विष्णुमित्रस्य संबन्धो यज्ञदत्तेनेति शेषः । ननु संबन्धशब्दस्य स्वस्वामिलक्षणसंबन्ध एव लोकप्रसिद्धत्वात् कथमादिशब्देन संबन्धान्तराभिधानम् ? सत्यम् । यत्तु स्वस्वामिसंबन्धे षष्ठी इत्युपघुष्यते, तस्य विषयः केवलं यज्ञदत्तस्य स्वामी, राज्ञः पुरुषः, देवदत्तस्य स्वमिति । विष्णुमित्रस्य संबन्ध इत्यादौ तु स्वस्वामिसंबन्ध उपचरितः एवेत्याचष्टे |
Page #175
--------------------------------------------------------------------------
________________
१३३
नामचतुष्टयाध्याये चतुर्षः कारकपादः ननु अर्चायामिति किम् ? साधु त्यो राज्ञः । अत्रापि विषयविवक्षायां सप्तम्या भवितव्यमेव, साधु त्यो राजनीति पङ्क्त्या एवोक्तत्वात् ।अथ अनर्चायामपि भवितव्यमेवेति कथमुच्यते ? सत्यम् । तथेत्यादिपङ्क्तिस्तु परमतदूषणार्थमुक्ता । तथाहि, यथा अर्चायां भवन्मते साधुर्मातरीति प्रयोगः, तथा अन_यामपि साध्वसाधुप्रयोगे' इति जयादित्यवक्तव्येन साधु त्यो राजनीति भवत्येवेत्यर्थः । “साध्वसाधुप्रयोगे" इत्यत्रासाधुग्रहणमनर्वार्थमिति व्याख्यातत्वात् । हेमकरस्तु यथा साधुनिपुणाभ्यामर्चायामिति नोक्तम्, तथा साध्वसाधुप्रयोगे सप्तमीति न वक्तव्येति व्यस्तेनान्वयः । तर्हि अनर्चायां कथं सप्तमी अस्मन्मते भविष्यति, तस्मादनार्थ सप्तम्युच्यताम्, नेत्याह-अन_यामपि भवितव्यमित्याचष्टे |वृत्तावादिशब्देन यत् संगृहीतं तदाचष्टे | एवमित्यादि । हेमकरस्यायमाशयः। निमित्तादिति वृत्तिः । अस्याः- हननादिक्रियाव्याप्येन द्वीप्यादिना संयोगे सति निमित्तात् क्रियानिमित्ताच्चादेः सप्तमी भवति । तादर्थ्यविवक्षायां चतुर्थी । प्राप्तौ विधिरयमिति कुलचन्द्रः। हेत्वर्थे तृतीयाप्राप्तौ विधिरयमिति श्रीपतिः।उद्देश्यमिह निमित्तम्, तेन असिना दीपिनं हन्तीत्यत्र न भवति । निमित्तादिति किम् ? अङ्गस्य मलमपकर्षति । कर्मेति किम् ? वाणिज्याय देशान्तरे प्रवसति । संयोग इति किम् ? भिक्षायै देशांस्त्यजति । क्रियाया इति किम् ? अग्नये समिधम् आहरति ।
न चात्र समिदाहरणक्रियानिमित्तता अग्नेरिति वाच्यम् । अग्नये यत् समिधम्, तद् आहरतीत्यर्थः । अन्ये तु कियाया इति किम् ? पीतक्षीरायै गवे व्रतं करोतीत्याहुः । अत्र पानकर्मक्षीरसंयोगेऽपि करणक्रियानिमित्तत्वाभावादित्यर्थः । संयोगश्चात्र संश्लेषः । अतो वेतनेन धान्यं लुनातीत्यत्र न भवति ।अस्मिन् व्याख्याने "अन्ती येनादर्शनमिछति" (अ० १।४।२८) इत्यत्रानेनैवोपसंख्यानेन यदुक्तं तन्न घटते, तस्माद् अत एव
१. अत्र कारिका - हन्तेः कर्मण्युपष्टम्भात् प्राप्तुमर्थे तु सप्तमीम् ।
__चतुर्थीबाधिकामाहुश्चूर्णिभागुरिवाभटाः ॥ मुक्ताफलाय करिणं हरिणं पलाय सिंहं निहन्ति भुजविक्रमसूचनाय | का नीतिरीतिरिह ते रघुवंशवीर! शाखामृगे जयति यस्तव बाणमोक्षः ।। इति ।
ननु कथमत्र 'चर्मणि द्वीपिनं हन्ति' इत्यादिवत् न सप्तमी ? सत्यम् ; अत्र संयोगपदेनोपष्टम्भाख्यः संयोगो गृह्यते, स च दन्तकेशत्वगादिष्वेव प्रसिद्धः । तथा च - 'उपष्टम्भाख्यसंयोगो दन्तकेशत्वगादिषु' इति ।
Page #176
--------------------------------------------------------------------------
________________
१३४
कातन्वव्याकरणम् ज्ञापकान्निमित्तमात्रात् सप्तमी मन्तव्येति । येन विनेति उद्देश्येन विनेत्यर्थः । सीमा अण्डकोषः । पुष्यलको गन्धमृगः । तथा च ('पुष्यलको गन्धमृगे तृणवृक्षविशेषयोः सीमाण्डकोषः ख्यातो मर्यादासदृशयोरपि') इति । चर्मैव धारयति अवस्थापयतीत्यर्थः । 'ग्रामान्त उपशल्यं स्यात् सीमसीमे स्त्रियामुभे' (अ० को० २।२।२०) इति अमरदर्शनात् सीम्नि सीमायाम्, पुष्यलको वृक्षविशेष इति कश्चित् ।। ३०४ ।
[समीक्षा]
पाणिनि ने अष्टाध्यायी में कर्म कारक में द्वितीया, करण कारक में तृतीया, सम्प्रदान में चतुर्थी, अपादान मे पञ्चमी, स्वाम्यादि संबन्ध में षष्ठी तथा अधिकरण कारक में सप्तमी विभक्ति के विधानार्थ पृथक् पृथक् सूत्र बनाए हैं - "कर्मणि द्वितीया, चतुर्थी सम्प्रदाने, कर्तृकरणयोस्तृतीया, अपादाने पञ्चमी, सप्तम्यधिकरणे च, षष्ठी शेषे" (अ० २।३।२, १३, १८, २८, ३६, ५०) । आचार्य शर्ववर्मा ने एक ही प्रकृत सूत्र से कर्मादि कारकों में द्वितीया विभक्ति के विधान का निर्देश किया है । अतः सामान्यतया कातन्त्रीय निर्देश में लाघव संनिहित है।
[रूपसिद्धि]
१. कटं करोति। कट + अम् | “यत् क्रियते तत् कर्प" (२।४।१३) से कट की कर्मसंज्ञा तथा उसमें द्वितीया विभक्ति का विधान । द्वितीया-एकवचन अम् प्रत्यय तथा “अम्शसोरादिलॊपम्' (२।१।४७) से अकार का लोप |
२. परशुना छिनत्ति । परशु+टा | “येन क्रियते तत् करणम्" (२।४।१२) से 'परशु' की करणसंज्ञा तथा उसमें प्रकृत सूत्र से तृतीया । तृतीया - एकवचन 'टा' प्रत्यय के स्थान में "टा ना" (२।१।५३) से ना- आदेश |
३. गुरवे गां ददाति । गुरु + डे । “यस्मै दित्सा रोचते धारयते वा तत् सम्प्रदानम्" (२।४।१०) से गुरु की सम्प्रदानसंज्ञा तथा प्रकृत सूत्र से उसमें चतुर्थी विभक्ति । एकवचन-डे प्रत्यय के परे रहते "डे" (२।१।५७) सूत्र से उ को ओ तथा “ओ अव्" (१।२।१४) से ओ के स्थान में 'अव्' आदेश ।
४. वृकाद् भयम् । वृक + ङसि । “यतोऽपैति भयमादत्ते वा तदपादानम्" (२।१।८) से वृक की अपादानसंज्ञा तथा प्रकृत सूत्र से पञ्चमी विभक्ति । एकवचन
Page #177
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः 'ङसि' प्रत्यय के स्थान में "ङसिरात्" (२।१।२१) से 'आत्' आदेश, “समानः सवर्णे दीर्घाभवति परश्च लोपम्" (१।२।१) से समानलक्षण दीर्घ एवं परवर्ती आकार का लोप ।
___५-७ = देवदत्तस्य स्वामी । देवदत्त + ङस् । यज्ञदत्तस्य स्वम् । यज्ञदत्त + ङस् । विष्णुमित्रस्य संबन्धः। विष्णुमित्र + ङस् । देवदत्त-स्वामी आदि में स्व-स्वामिभावादि संबन्ध होने के कारण अप्रधान देवदत्त, यज्ञदत्त, विष्णुमित्र में प्रकृत सूत्र से षष्ठी विभक्ति । एकवचन ङस् के स्थान में "ङस् स्य" (२।१।२२) से स्य आदेश |
८-९. कटे आस्ते । कट + ङि । अधीती व्याकरणे। व्याकरण + ङि । “य आधारस्तदधिकरणम्" (२।१।११) से कट-व्याकरण की अधिकरणसंज्ञा तथा प्रकृत सूत्र से उससे सप्तमी विभक्ति । एकवचन ङि- इ के परवर्ती होने पर “अवर्ण इवणे ए" (१।२।२) से अ को ए एवं परवर्ती इ का लोप ।
[विशेष
(१) इस विषय में “साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः, प्रसितोत्सुकाभ्यां तृतीया च" (अ०२।३।४३, ४४) इत्यादि सूत्रों को कातन्त्रव्याख्याकारों ने अनावश्यक बताया है। ___ (२) वृत्तिकार दुर्गसिंह ने “निमित्तात् कर्मसंयोगे सप्तमी वाच्या" इस वार्त्तिकवचन को स्वीकार किया है, जिससे 'चर्मणि, दन्तयोः, केशेषु, सीम्नि' में सप्तमी विभक्ति का विधान उपपन्न होता है -
चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञरम् । केशेषु चमरी हन्ति सीम्नि पुष्यलको हतः॥३०४।
३०५. पर्यपायोगे पञ्चमी [२।४।२०] [सूत्रार्थ]
परि, अप तथा आङ् उपसर्ग के योग में लिङ्ग (प्रातिपदिक) से पञ्चमी विभक्ति होती है ||३०५।
Page #178
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[दु० वृ०]
'परि-अप-आङ्' एभिर्योगे लिङ्गात् पञ्चमी भवति । इहापपरी वर्जने | आङ् मर्यादाभिविध्योः । परि त्रिगर्तेभ्यो वृष्टो देवः । अप पाटलिपुत्राद् वृष्टो देवः । आ पाटलिपुत्राद् वृष्टो देवः ।।३०५।
[दु० टी०]
पर्य० । इहापपरी वर्जन इत्यादि । योगः सम्बन्धः, स चार्थद्वारक एव शब्दानां भवति । वर्जनं हि क्रियाविशेषः । वयंवर्जकयोः संबन्धिनि वर्जने वर्तमानाभ्यां पर्यपाभ्यां युक्ताद् अप्रधानात् षष्ठीवत् पञ्चमी, त्रिगतदिः क्रियाव्याप्यत्वात् । विवक्षाभेदाद् द्वितीया षष्ठी वा प्राप्ता । अभिव्याप्याभिव्यापकयोः संबन्धिन्यामभिव्याप्तौ वर्तमानेन आङा तथैव । मर्यादायां तु षष्ठ्येव प्राप्ता । 'वृक्षं परि विद्योतते' इति लक्षणादिषु "कर्मप्रवचनीयैश्च" (२।४।२३) इति द्वितीयैवास्ति बाधिकेति । परिगतः, अपगतः, आगतः इति लिङ्गार्थमात्रे प्रथमा । अन्ये पुनरेषामेष्वर्थेषु कर्मप्रवचनीयत्वमभ्युपगम्य सिंहावलोकिताधिकारात् पर्यपाभिः कर्मप्रवचनीयैरिति प्रतिपद्यन्ते । अपेन साहचर्यात् परेर्वर्जनार्थस्य ग्रहणम् ।
ननु किमाङो ग्रहणेन मर्यादा अवधिराघाटः सीमेत्यर्थान्तरम् । अभिविधिरपि मर्यादाविशेषः, अवधिरभिव्याप्तिः कथ्यते । विना पाटलिपुत्रेण सहैवेति विशेषः पाटलिपुत्रादर्वाक् पाटलिपुत्रम् अभिव्याप्य वृष्ट इत्यर्थः ।बुद्धिकृतोऽपायोऽत्र विवक्ष्यमाणो गरीयान् इत्याङ्ग्रहणम् । योगग्रहणं सुखप्रतिपत्त्यर्थमेव । पाटलिपुत्राद् राजगृहं सप्त योजनानि, सप्तसु योजनेषु वेति । कार्तिक्या आग्रहायणी मासः मासे इति वा । पाटलिपुत्रेणावधिना सप्तयोजनपरिच्छेदेन विश्लेष आख्यायते । अथवा निःसृत्यप्रभृतीनि गतार्थत्वान्न प्रयुज्यन्ते । पाटलिपुत्रात् परेण राजगृहं सप्त योजनानीत्यर्थः । कार्तिक्या आग्रहायणी मासे इति परेणेति गम्यते सप्तमी चेत् कार्तिक्याः परेण आग्रहायणी मासे गते सति मासपर्यवसाने भवतीति वाक्यैकदेशो गम्यते इति । देशकालमाने प्रथमा, सप्तम्यपि न वक्तव्येति । यतः क्रिया प्रभवति, सोऽवधिरिति ।
प्रतिना योगे प्रतिनिधिप्रतिदाने यस्माद्भवतस्ततः पञ्चमी सिद्धा ।अभिमन्युरर्जुनतः प्रति ।अभिमन्योरर्जुनस्य प्रतिनिधित्वाद् अर्जुनात् सदृशबुद्धिर्भवति ।माषानस्मै तिलेभ्यः
Page #179
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१३७ प्रतियच्छति विनिमयत्वात् तिलानामवधित्वं तिलान् गृहीत्वा माषान् ददातीत्यर्थः । ननु क्वचित् कार्यैः प्रसिद्धसम्बन्धप्रधानस्याभावे यः सदृशः कार्ये उपादीयते स प्रतिनिधिः । तत्र प्रतिनिधौ दत्तस्य प्रतिनियतिलक्षणे प्रतिदाने च वर्तमानेन संबन्धाभिव्यञ्जकेन प्रतिना यस्य प्रतिनिधिर्यस्य च प्रतिदानं ततः षष्ठी स्यादिति ? सत्यम् । सन्तमप्येनमर्थं गुणीकृत्यावधिरेव विवक्षितः, सतोऽपि चाविवक्षा । यथा अनुदरा कन्या' इति ।।३०५।
[वि० प०]
पर्य० । पर्यपाङ्भिः पञ्चमी' इति सिद्धे यद् योगग्रहणं तद् विशिष्टयोगव्यवस्थापनार्थम्, अत आह - इहेत्यादि । तेन ‘परिगतः, अपगतः, आगतः' इत्यादिषु पञ्चमी न भवति । अथ लिङ्गार्थमात्रे प्रथमैवास्ति बाधिका । तथा 'वृक्षं परि विद्योतते विद्युत्' इत्यत्र लक्षणादिषु "कर्मप्रवचनीयैश्च" (२।४।२३) इति द्वितीयैवास्ति बाधिका । पारिशेष्याद् वर्जनादिष्वेव भविष्यति तदा योगग्रहणं सुखार्थमेव । ‘आ पाटलिपुत्राद् वृष्टो देवः' इति मर्यादाभिविध्योरिदमेकमुदाहरणम्, वृत्तायुक्तरूपाभेदादअर्थस्तु भिद्यते । तत्र मर्यादा अवधिराघाटः सीमेति पर्यायः। पाटलिपुत्रमवधिं कृत्वा वृष्टो देवः, पाटलिपुत्रादर्वाग् देवो वृष्ट इत्यर्थः । अभिविधिरभिव्याप्तिः। पाटलिपुत्रमभिव्याप्य वृष्टो देवः इति ।।३०५।
[क० च०]
पर्य० । विशिष्टयोगव्यवस्थापनार्थमिति पनी । अस्यार्थः- यदा वर्जनाद्यर्थे पर्यादयःशब्दाः प्रवर्तन्ते, तदैव पञ्चमी । एवं विशिष्टविषयार्थं योगग्रहणंम्, क्रियाव्याप्यत्वात् त्रिगतदिद्धितीया प्राप्ता अभिव्याप्याभिव्यापकसंबन्धे पाटलिपुत्रादेः षष्ठी प्राप्तेति पञ्चमी विधीयते । ननु किमाङ्ग्रहणेन मर्यादाभिविध्योराङो वर्तनात् । मर्यादा अवधिः सीमेति यावत् । अभिविधिरपि मर्यादाविशेषः । आधाटोऽपि मर्यादाविशेषः । आपाटलिपुत्राद् वृष्टो देवः इत्युक्ते पाटलिपुत्रस्यावधिरेव गन्यते । ननु किमर्थमिदं सर्वत्र बुद्धिकृतापायस्य विद्यमानत्वात् पञ्चमी सिद्धैव ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमेव । ननु ‘आमेखलं सञ्चरतां घनानाम्' इत्यत्र आङा सहयोगात् पञ्चमी कथन स्यात् । न च अव्ययीभावात् पञ्चम्या अम्भाव इति वाच्यम्, तत्र अपञ्चम्या इति वर्जनात् । नैवम्, सूत्रार्थापरिज्ञानात् । तथाहि अप-परि-आङ्' एभिर्युक्तेऽर्थे वर्तमानाल्लिङ्गात् पञ्चमी विधीयते । आमेखलम् इत्यत्रं तु समासेनैकपदत्वेन आमेखलम् इति समुदायस्य लिङ्गत्वाद् यस्मात् समुदायाद् विभक्तिर्विधातव्या तदर्थेन आङा योगो नास्ति । किन्त्ववयवमेखलाशब्देन सह आङो योगोऽस्ति । नहि अवयवमाश्रित्येदानीं विभक्तिर्विधीयते इति ।
Page #180
--------------------------------------------------------------------------
________________
१३८
कातन्त्रव्याकरणम्
प्रतिनिधिप्रतिदानयोर्वर्तमानेन प्रतिना योगे षष्ठ्यर्थे पञ्चमीति केनचिद् उक्ता । मुख्यस्य सदृशः प्रतिनिधिः । प्रतिदानं विनिमयः । यथा अभिमन्युरर्जुनवत्, प्रतिमाषान् अस्मै तिलेभ्यः प्रयच्छति । अस्यार्थः- अर्जुनस्य प्रतिनिधिरयमभिमन्युः। तिलानां प्रतिमाषान् अस्यै ददातीति ? यतो हि क्रियारम्भः, सोऽपाय इत्यवधिभावात् पञ्चमी सिद्धैवेति टीका । एतेन प्रतिनिधिप्रतिदानयोः प्रतिनेति यत्. श्रीपत्युक्तं तदपि हेयम् । योगग्रहणाभावेऽपि विशिष्टयोगो लभ्यते, अन्यत्र विशेषविधेराघ्रातत्वात् ? सत्यम् । आङ्ग्रहणं योगग्रहणं च सुखार्थमेव || ३०५ ।
[समीक्षा]
पाणिनि ने “अपपरी वर्जने" (अ० १।४।८८) से वर्जन अर्थ में 'अप-परि' की, “आङ् मर्यादावचने" (अ० १।४।८९) से मर्यादा-अभिविधि अर्थ में आङ् की तथा “अधिपरी अनर्थकौ" (अ० १।४।९३) से अनर्थक परि की कर्मप्रवचनीय संज्ञा करके उनके योग में “पञ्चम्यपापरिभिः" (अ० २।३।१०) से पञ्चमी का विधान किया है, परन्तु शर्ववर्मा ने विना ही कर्मप्रवचनीय संज्ञा किए प्रकृत सूत्र से पञ्चमी विभक्ति की है | "कर्मप्रवचनीयैश्च" (२।४।२३) सूत्र से कर्मप्रवचनीय के योग में द्वितीयाविधान करके शर्ववर्मा ने भी कर्मप्रवचनीय को स्वीकार अवश्य किया है । अतः यदि प्रकृत सूत्र में भी अप-आङ् परि की कर्मप्रवचनीय संज्ञा स्वीकार कर ली जाए तो सूत्रकार के तात्पर्यानुरूप ही होगी ।
[रूपसिद्धि]
१. परि त्रिगर्तेभ्यो वृष्टो देवः। वर्जन अर्थ में 'परि' की कर्मप्रवचनीय संज्ञा तथा उसके योग में 'त्रिगर्त" शब्द में प्रकृत सूत्र से पञ्चमी । “धुटि बहुत्वे त्वे" (२।१।१९) से अकार को एकार एवं भ्यस्-प्रत्ययस्थ सकार को “रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश ।
२. अप पाटलिपुत्राद् वृष्टो देवः। वर्जन अर्थ में 'अप' की कर्मप्रवचनीयसंज्ञा तथा प्रकृत सूत्र से 'पाटलिपुत्र' में पञ्चमी । पञ्चमी-एकवचन 'सि' प्रत्यय के स्थान में "ङसिरात्" (२।१।२१) से आत् आदेश, समानलक्षण दीर्घ एवं परवर्ती आका' का लोप ।
Page #181
--------------------------------------------------------------------------
________________
१३९
नामचतुष्टयाध्याये चतुर्थः कारकपादः ३. आ पाटलिपुत्राद् वृष्टो देवः। मर्यादा तथा अभिविधि अर्थ में 'आङ्' की कर्मप्रवचनीयसंज्ञा तथा उसके योग में पाटलिपुत्र में पञ्चमी । ङसि को आत् आदेश, समानलक्षण दीर्घ एवं परवर्ती आकार का लोप ।।३०५/
३०६. दिगितरर्तेऽन्यैश्च [२।४।२१] [सूत्रार्थ]
दिग्वाची शब्द एवं इतर-ऋते-अन्य शब्दों के योग में लिङ्ग (प्रातिपदिक) से पञ्चमी विभक्ति होती है ||३०६।
[दु० वृ०]
'दिश्-इतर-ऋते -अन्य' एभिर्योगे लिङ्गात् पञ्चमी भवति । पूर्वो ग्रामात्, उत्तरो ग्रामात्, पूर्वो ग्रीष्माद् वसन्तः, इयमस्याः पूर्वा दिक् । इतरो देवदत्तात्, ऋते देवदत्तात् । ऋते देवदत्तम् इति द्वितीयापीष्टा | अन्यो देवदत्तात्, भिन्नो देवदत्तात् ।।३०६।
[दु० टी०]
दिगि०। दिगित्यर्थस्तस्याभिधायकोऽपि दिगुच्यते, अर्थेन योगासम्भवात् । दिगर्थश्चोपलक्षणम्, “अन्त्यात् पूर्व उपधा" (२।१।११) इत्यादिनिर्देशात् । तेन देशकालवृत्तिनापि योगे भवतीत्याह - पूर्वो ग्रामादिति । इतर इत्यपरार्थः, स च निर्दिष्टप्रतियोगी । ऋते इत्यव्ययं वर्जनार्थम् । मतान्तरं च दर्शयति । वर्जनक्रियाव्याप्यविवक्षया द्वितीयापीति भावः । अन्यार्थे अन्य इत्याह - भिन्नो देवदत्तादिति । एवमन्तरं विलक्षणं पृथगित्यादि । अन्च्युत्तरपदाजाहिप्रत्ययान्ता दिक्शब्दा एव । प्राग् ग्रामात् । प्राक् प्रभातात् । प्रत्यग् ग्रामात् । आच्– दक्षा ग्रामात् । आहि च - उत्तराहि ग्रामात् । सद्यआद्यत्वाद् "दिगुदेशकालार्थात् सप्तमीपञ्चमीप्रथमान्तादस्तातिः"। तस्याञ्चतेर्लुक । "दक्षिणोत्तराभ्याम् आच् आहि च दूरे" (अ० ५।३।३६-३८)। संबन्धविवक्षायां तु षष्ठी न निवार्यते । पुरो ग्रामस्य, अधो ग्रामस्य । पूर्वापरयोरसिः पूरधौ च । दक्षिणतो ग्रामस्य, उत्तरतो ग्रामस्य । दक्षिणोत्तराभ्यामतस् । उपरि शैलस्य | ऊर्ध्वस्य उपभावो रिश्च । अतसर्थैरपि योगे दिग्लक्षणैव पञ्चमी । ततः पश्चात्, तत उपरिष्टात् । अधरस्य पश्चभावः, आतिश्च । ऊर्ध्वस्य उपभावो रिष्टातिश्च । नन्ववधिभावविवक्षायां दिगितरान्यग्रहणमनर्थकम् ? सत्यम् । प्रपञ्चार्थमेवैतत् ।।३०६।
Page #182
--------------------------------------------------------------------------
________________
१४०
कातन्त्रव्याकरणम्
[वि० प०]
दिगि० । दिगित्यर्थपरोऽयं निर्देशः । तद्वाचको हि पूर्वादिदिगित्युच्यते, अर्थेन योगाभावात् । तद्द्वारको हि शब्दानां योग इति । दिगर्थश्चोपलक्षणम्, अन्त्यात् पूर्व इत्यादिनिर्देशात् । तेन देशकालवृत्तिनापि पूर्वादिशब्देन योगे भवतीत्याह - पूर्वो ग्रामादित्यादि । अस्या इति । इदम्, इसिः, त्यदाद्यत्वम् । मध्ये "स्त्रियामादा" (२।४।४९)। "सर्वनाम्नस्तु ससवो हस्वपूर्वाश्च" (२।१।४३) इति उसेर्यास्, ह्रस्वपूर्वसुरागमः । ततः “अद् व्यानेऽनक्"(२।३।३५) इति इदमोऽत् । ऋते इत्यव्ययं वर्जनार्थम्, तद्योगे वर्जनक्रियाव्याप्यत्वविवक्षायां द्वितीयापि इति । मतान्तरमाहद्वितीयापीष्टेति कैश्चिदिति संबन्धः। अन्यशब्दोऽयमन्यार्थस्तत्पर्यायेणाप्युदाहरति । भिन्नो देवदत्तादिति । एवमर्थान्तरं देवदत्ताद् विलक्षणो यज्ञदत्तादिति । यद्येवम् इतरशब्दोपादानमनर्थकम्, अनेनैव सिद्धत्वात् । तदयुक्तम्, इतरशब्दो ह्यपरार्थः, स च निर्दिश्यमानप्रतियोगी । यथा क्वचित् प्रस्तावे देवदत्तयज्ञदत्तौ प्रकृतौ, तत्रैको निर्दिश्यते देवदत्तः शूरः, तत्प्रतियोगी इतरो यज्ञदत्तः कातर इत्यर्थः ।।३०६।
[क० च०]
दिगि० । इह पूर्वादीनां लोकोपचारेण दिक्संज्ञा सिद्धा, तेन “स्वं रूपम्" इति न्यायान्न स्वरूपग्रहणम् इति भट्टनारायणादयः। तदस्मन्मते का गतिरित्याह- दिगित्यर्थपरोऽयं निर्देशः इति पञी। अर्थपरनिर्देशेऽपि ऐन्द्रीप्रभृतयो न गृह्यन्ते, दिक्त्वप्रवृत्तिनिमित्ताभावात्, किन्त्वासां देवतात्वमेव प्रवृत्तिनिमित्तमिति कुलचन्द्रस्याशयः । तन्न । ऐन्द्रादीनां दिश्येव रूढत्वाद् दिक्शब्दस्येव दिक्त्वप्रवृत्तिनिमित्तत्वात् ।ग्रामस्य दिगित्यत्रापि पञ्चमीप्रसङ्गाच्च । तस्मात् “पर्यपाङ् दिगितरतेऽन्यैर्योगे पञ्चमी" इति सिद्ध पृथग्योगसामर्थ्याद् यत्रैवावधिमत्ता प्रतीयते तत्रैवायं विधिरिति । न य॑न्द्री-प्रभृतीनां दिक्शब्दस्य चावधिमत्ताप्रतीतिरस्ति ।अत एवावयविशब्दात् षष्ठीति जयादित्येनोक्तम् - यथा कायस्य पूर्वम्, ग्रामस्य पूर्वम्, रात्रीणां पूर्वम् इत्यत्र पञ्चमी न. भवति ।
ननु किमर्थमिदम्, अत्रापि अवधिविवक्षायां पञ्चमी भविष्यति ? सत्यम् । प्रपञ्चार्थमेवेति । अस्मिन् सूत्रे टीकाकृतोक्तमिति । हेमकरस्तु यदि दिक्शब्दयोगे पञ्चमी, तदा कथं विशेषपूर्वादिदिग्योगे स्यादित्याह- दिगित्यर्थपरोऽयं निर्देश इति । तर्हि कथं दिगित्यर्थेन सहान्यस्य लिङ्गस्य योग इत्याह - तद्वाचको हीति । ननु कथं दिक्शब्दे
Page #183
--------------------------------------------------------------------------
________________
१४१
नामचतुष्टयाध्याये चतुर्थः कारकपादः उपचारः क्रियत इत्याह - अर्थेन योगाभावादिति । अन्यशब्दस्यार्थेनान्यशब्दस्य वाच्यवाचकभावेन योगाभावादित्यर्थः । ननु तथापि शब्दान्तरस्य शब्दान्तरेण कथं योग इत्याह - तद्द्वारको हीत्यादि । अर्थद्वारक इत्यर्थः । ननु यदि अर्थद्वारक एव शब्दस्य शब्देन योग इत्युच्यते, तदा कथं दिगर्थे दिग्वाचकाः शब्दा उपचर्यन्ते' ग्रामादिशब्दस्यार्थेन दिगर्थस्य योगसंभवात् ? सत्यम् । 'ऋते' आदिशब्दस्य शब्दपरत्वाद् दिक्शब्दस्यार्थपरत्वेन वाक्यार्थस्य वैलक्षण्यं स्यादिति भयाद दिगर्थे दिग्वाचकाः शब्दा उपचर्यन्ते इति भावः । एवम् अन्यशब्दार्थेऽपि अन्यार्थवाचकाः शब्दा उपचर्यन्ते इति ।।३०६।
[समीक्षा]
अन्य आदि शब्दों के योग में पञ्चमी विभक्ति का विधान दोनों ही व्याकरणों में किया गया है | पाणिनि का सूत्र है- “अन्यारादितरर्तेदिक्शब्दाचूत्तरपदाजाहियुक्ते" (अ० २।३।२९)। इसमें 'अञ्चूत्तरपद' आदि कुछ निर्देश अधिक हैं, जिन्हें कातन्त्रव्याख्याकारों ने 'दिक्' शब्द की व्याख्या से समाहृत कर लिया है।
[रूपसिद्धि]
१. पूर्वो ग्रामात् । दिग्वाची पूर्व शब्द के प्रयोग में 'ग्राम' शब्द से पञ्चमी विभक्ति । ग्राम + ङसि । “इसिरात्" (२।१।२१) सूत्र द्वारा ङसि को आत्, “समानः सवणे दीर्धीभवति परश्च लोपम्" (१।२।१) से समानलक्षण दीर्घ एवं परवर्ती आकार का लोप।
२-८. उत्तरो ग्रामात् । ग्राम + ङसि । पूर्वो ग्रीष्माद् वसन्तः। ग्रीष्प + ङसि । इयमस्याः पूर्वा दिक्। इदम् (स्त्रीलिङ्ग) + ङसि । इतरो देवदत्तात् । देवदत्त + ङसि । ऋते देवदत्तात् । देवदत्त + ङसि । अन्यो देवदत्तात् । देवदत्त + ङसि । भिन्नो देवदत्तात् । देवदत्त + ङसि । यहाँ उत्तर, पूर्व, इतर, ऋते, अन्य तथा भिन्न शब्द के योग में पञ्चमी विभक्ति का विधान किया गया है।
१. केचितु दिगित्यर्थपरोऽयमित्युक्ते काष्ठा - आशाप्रभृतीनां दिगर्थत्वात् तद्योगे पञ्चमी कथन्न स्यात् । उच्यते - इतरान्यशब्दयोः प्रतियोगिवचनयोः साहचर्याद् दिग्वाचकानां पूर्वादीनां प्रतियोगिवचनानामेव ग्रहणमित्याहुः । ग्रामाद् दूरम्, ग्रामाद् विप्रकृष्टम् इत्यादिषु बुद्धिकृतापायस्य विद्यमानत्वात् पञ्चमी सिद्धेति । अथ संबन्धे षष्ठी स्यादेव - ग्रामस्य दूरमिति ।ऋणहेतौ पञ्चमी स्यादेव । यथा शताद् अवगृहीतोऽसि । भीतेः कणः, भीत्या कण इत्यादिष्वपि पञ्चमी-तृतीये सिद्धे अवधिभावस्य करणस्य च विवक्षितत्वात् । एते दूरान्तिकोपसन्नहेतावृणस्त्रीभ्यामसत्त्वे वेत्यादि व्यर्थं श्रीपतिना यदुक्तम् ।
Page #184
--------------------------------------------------------------------------
________________
१४२
कातन्त्रव्याकरणम्
३०७. द्वितीयैनेन [ २।४।२२ ]
[ सूत्रार्थ ]
एनप्रत्ययान्त शब्द के योग में लिङ्ग से द्वितीया विभक्ति होती है || ३०७। [दु० वृ० ]
एनप्रत्ययान्तेन योगे लिङ्गाद् द्वितीया भवति । दक्षिणेन ग्रामम् । उत्तरेण हिमवन्तम् | अदूरे एनोऽपञ्चम्याः । चकाराधिकारात् - निकषा - समया - हा धिक् - अन्तराअन्तरेणयुक्ताद् द्वितीया । निकषा ग्रामम्, समया ग्रामम्, हा देवदत्तम्, धिग् देवदत्तम्, अन्तरा गार्हपत्यम् आहवनीयं च वेदिः । अन्तरेण पुरुषकारं न किञ्चिल्लभ्यते || ३०७ | [दु० वृ० ]
द्वितीयै०। एनेनेतिप्रतिपदोक्तग्रहणाद् देवदत्तेनाधिगतस्य धनं संबन्धो वा न तादृश इति षष्ठ्यां प्राप्तायां वचनमिदम् । चकाराधिकारादिति । स च चकार एनेन सह संबध्यते । एनेनान्येन चेत्यर्थः । अथवा योगविभागस्तेनेष्टसिद्धिरित्याहसमयेत्यादि । समया-निकषाशब्दौ समीपवचनौ यस्य तत्समीपम् स ताभ्यां युज्यते इति ग्रामाद् द्वितीया | हाशब्दः कष्टादिषु वर्तते यस्य तत् कष्टादि, स तेन युक्त इति देवदत्ताद् द्वितीया । यदा तु सामान्येन कष्टादौ प्रयुज्य आमन्त्र्यते, तदा हा तात, हा पुत्र ! कष्टमिदमिति, तदा हाशब्देन तातादिर्न युक्त इति प्रथमैव । दिक्शब्दः कुत्सावचनः, तेन कुत्स्यमानो देवदत्तो युक्त इति । अन्तराशब्दस्य मध्यवाचित्वाद् वेदिर्नान्तरशब्देन युक्तेति अर्थमात्रे प्रथमैव, यस्य तन्मध्यं स तेन युज्यते इति भावः ।
कश्चिदाह – गौणत्वादभिसंबद्धस्य न द्वितीयेति अयुक्तम् । अन्तरेणशब्दस्तु विनार्थः, मध्यार्थश्च । किन्तेन केशवार्जुनयोरन्तरेण गतेनेति लाक्षणिकत्वाद् अन्तरेण विशेषेण गतेन ज्ञातेनेत्यर्थः । अन्य आह - अन्तराशब्दोऽविभक्त्यन्तः, तत्साहचर्याद् अन्तरेणशब्दोऽप्यविभक्त्यन्तः । एतेनान्तरेणशब्दोऽप्यव्यय एवेति । सूत्रकारमतं समयादीनां कर्मप्रवचनीयत्वाभ्युपगमाद् द्वितीया । 'बुभुक्षितं न प्रति भाति किञ्चित्' इति बुभुक्षितं प्रति न प्रकाशते किञ्चिदित्यर्थः । प्रतिना योगेऽपि कर्मप्रवचनीयता | यदा तु धातुना योगस्तदा संबन्धे षष्ठ्या भवितव्यमेव, देवदत्तस्य प्रतिभाति । उपर्युपरि ग्रामम्, अधोऽधो नगरम्, अध्यधि ग्रामम् । उपरि - अधः - अधीनां सामीप्ये द्विर्वचनं
Page #185
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१४३
सिद्धम् । सद्वित्वैरुपर्यादिभिर्योगे तथा कर्मप्रवचनीयत्वात् सर्वतो ग्रामम्, उभयतो ग्रामम्, अभितो ग्रामम्, परितो ग्रामम् । सर्वोभयाभ्यां सर्वनामत्वात् तस् । ‘अभितःपरितः’ शब्दौ स्वभावात् तसन्तौ, तथा सर्वोभयाभिपरिभिस्तसन्तैः कर्मप्रवचनीयत्वादिति ।
आपिशलीयव्याकरणे समयादीनां कर्मप्रवचनीयत्वं दृष्टमिति मतम् । ग्रामाद् दूरम् ग्रामाद् विप्रकृष्टम्, ग्रामादन्तिकम्, ग्रामादभ्याशम्, बहिर्ग्रामात्, आराद् ग्रामात्, बुद्धिकृतावधित्वात् पञ्चमी । दूरं ग्रामस्य, अन्तिकं ग्रामस्येति संबन्ध एव षष्ठी । किं दूरान्तिकार्थैः षष्ठी वेत्यनेन ? दूरं ग्रामस्य, अन्तिकं ग्रामस्य, दूरेण ग्रामस्य, अन्तिकेन ग्रामस्य,दूराद् ग्रामस्य, अन्तिकाद् ग्रामस्य, दूरे ग्रामस्य, अन्तिके ग्रामस्य । स्वार्थ एव विभक्तयः । किं दूरान्तिकार्थेभ्योऽसत्त्ववृत्तिभ्यो द्वितीयातृतीयापञ्चमीसप्तमीविधानेन गतागतस्थितादिक्रियापदानां गम्यमानत्वादिति भावः ।
'दूर ः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वम्' इति दर्शनात् । तथा च, दूरादावसथान्मूत्रं दूरात् पादावनेजनम् ।
दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः ॥ ( द्र०, मनु० ४।१५१ ) इति । न चासत्त्ववचनेभ्योऽप्यर्थमात्रे द्वितीयाद्याश्चतस्रो विभक्तयो दृश्यन्ते, अर्थान्तरापेक्षत्वात् । यत्र चानपेक्षा तत्र गतादिपदं न चासत्त्वेन गम्यन्ते, अर्थात् सत्त्ववाचित्वमिति स्थितम् । कथं दूरं पन्थाः, अन्तिकं पन्थाः' इति द्वितीया ? क्रियाविशेषणं भवतेर्गम्यमानत्वात् । पृथग्विनानानाभिस्तु तृतीयापञ्चम्यौ विवक्षयेति । पृथग् देवदत्तेन । पृथग्भवने देवदत्तः करणम् । कृत इति गम्यमानत्वात् कर्तरि वा तृतीया । ‘पृथग्देवदत्तात्’ इति, अन्यार्थत्वात् पञ्चमी । एवं नाना देवदत्तेन, नाना देवदत्तात् । 'विना देवदत्तेन' इति, विनाशब्दो रहितार्थः, कर्तरि तृतीया । 'विना देवदत्तात् ' इत्यपादान एव पञ्चमी । यो देवदत्तेन त्यज्यते स देवदत्ताद् रहितो भ्रष्ट इति । पृथग्विनानाना हि क्रियाप्रधाना अव्ययाः । विनायोगे द्वितीया वार्त्तिकेऽपि नोदाहृतैव । अथ यदि वृद्धैः प्रयुक्ता, तदा संबन्धविवक्षायामस्य कर्मप्रवचनीयत्वमभ्युपगम्यमिति ॥ ३०७ ॥
[वि० प० ]
द्विती०। दक्षिणेन ग्राममिति । दक्षिणस्यामदूरवर्त्तिन्यां दिशि ग्रामस्येति विगृह्य अदूरे एनप्रत्ययः, स पुनः सद्यआद्यत्वात् । एवम् उत्तरेण हिमवन्तमिति । चकारेत्यादि ।
Page #186
--------------------------------------------------------------------------
________________
१४४
कातन्त्रव्याकरणम्
निकषासमयाशब्दौ समीपवचनौ । हाशब्दः कष्टादौ यस्य तत् कष्टादि, स तेन युक्त इति देवदत्ताद् द्वितीया । यदा पुनः सामान्येन कष्टादौ हाशब्दं प्रयुज्य संबोध्यते पुत्रादिस्तदा न तस्य तेन योग इति प्रथमैव भवति । यथा हा पुत्र ! कष्टमिदमिति । धिक्शब्दः कुत्सावचनः, अन्तराशब्दो मध्यवचनो यस्य तन्मध्यम्, स तेन युज्यते, अतस्तत एव द्वितीया । वेदिशब्दात्तु लिङ्गार्थमात्रे प्रथमैव । गार्हपत्त्यस्याहवनीयस्य च मध्ये वेदिरित्यर्थः । अन्तरेणशब्दो विनार्थः । एते निकषादयः स्वभावादव्ययाः, तथा एनप्रत्ययान्तोऽपीति ॥ ३०७/
[क० च० ]
द्विती०। दक्षिणस्यामदूरवर्तिन्यां दिशि ग्राम इति प्रथमान्ततया बहुपञ्जिकापाठोऽशुद्ध एवेति हेमकरः । तत् तुच्छम् । अदूरवर्तिन्यां दिशि किमाधेयमित्याकाङ्क्षायां ग्राम इति प्रथमान्तनिर्देशस्यादुष्टत्वात् तेन ग्रामस्य दक्षिणस्यामदूरवर्तिन्यां दिशि ग्राम इति फलितार्थः । ननु 'तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्' (मेघ०- उत्तर०, श्लो० १५) इत्यत्र गृहादिति कथं पञ्चमी ? प्रकृत्यादित्वादुत्तरेणेति तृतीया न पुनरेनप्रत्ययान्तयोग इति भाषावृत्तिः । अस्मन्मते तु 'गत्वा' इत्यध्याहारात् करणे तृतीया । (षष्ठ्यपवादोऽयम् । एनेति प्रतिपदोक्तग्रहणाद् देवदत्तेनाधिगतस्य धनमित्यत्र न द्वितीया । केचित्तु अगारं धनपतिगृहादुत्तरेणेत्यनेन न द्वितीया, अवधिविवक्षायां पञ्चमीत्याहुः)। चकाराधिकारादित्यादि । तथा च " पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्” (अ० २। ३ । ३२ ) इति करणविवक्षया तृतीया, अवधौ पञ्चमी च । केचिद् विशेषणत्वाद् द्वितीया, तस्मादित्यर्थः । तेन समयानिकषर्तेऽन्तरेणहाधिग्विनान्तराभिरिति श्रीपतिना यदुक्तं तद्धेयमिति । तथा दूरं पन्थाः, अन्तिकं पन्था इत्यत्र भवतेर्गम्यमानत्वेन क्रियाविशेषणाद् द्वितीया सिद्धैव । एवमन्यत्रापि यदभिधानं तदपि विवक्षायां शिद्धमिति ॥ ३०७ ॥
[समीक्षा]
एनप्रत्ययान्त शब्दों के योग में द्वितीया विभक्ति का विधान पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है - "एनपा द्वितीया" (अ० २।३।३१) । पाणिनि ने पित्स्वर के अवबोधार्थ 'एनप्' प्रत्यय में 'प्' अनुबन्ध लगाया है, परन्तु शर्ववर्मा ने स्वरविधान न करने के कारण 'एन' प्रत्यय ही किया है ।
Page #187
--------------------------------------------------------------------------
________________
१४५
नामचतुष्टयाध्याये चतुर्थः कारकपादः [विशेष वचन]
१. अन्य आह - अन्तराशब्दोऽविभक्त्यन्तः, तत्साहचर्याद् अन्तरेणशब्दोऽप्यविभक्त्यन्तः । एतेनान्तरेणशब्दोऽप्यव्यय एवेति (दु० टी०)।
२. सूत्रकारमतं तु समयादीनां कर्मप्रवचनीयत्वाभ्युपगमाद् द्वितीया (दु० टी०)। ३. आपिशलीयव्याकरणे समयादीनां कर्मप्रवचनीयत्वं दृष्टमिति मतम् (दु०
टी०)।
४. 'तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्'। - - - प्रकृत्यादित्वादुत्तरेणेति तृतीया, न पुनरेनप्रत्ययान्तयोग इति भाषावृत्तिः । अस्मन्मते तु 'गत्वा इत्यध्याहारात् करणे तृतीया (क० च०)।
५. दुर्गवृत्ति में चकाराधिकार से 'निकषा' आदि के योग में द्वितीया विभक्ति का विधान ।
[रूपसिद्धि]
१. दक्षिणेन ग्रामम् । दक्षिण + एन + सि | ग्राम + अम् । ‘ग्राम से समीपवर्ती दक्षिण दिशा में ग्राम विद्यमान है' इस अर्थ की विवक्षा में 'दक्षिण' शब्द से “सद्यआद्या निपात्यन्ते" (२।६।३७) सूत्र द्वारा :एन' प्रत्यय होकर निष्पन्न अव्यय दक्षिणेनशब्द के योग में 'ग्राम' शब्द से प्रकृत सूत्र द्वारा द्वितीया विभक्ति । ग्राम + अम् । "अकारे लोपम्" (२।१।१७) से अम्प्रत्ययस्थ अकार का लोप ।
२. उत्तरेण हिमवन्तम् । उत्तर + एन + सि । हिमवन्त् + अम् । 'हिमालय से अव्यवहित उत्तर दिशा में स्थित' इस अर्थ की विवक्षा में 'उत्तर' शब्द से एनप्रत्यय । एनप्रत्ययान्त 'उत्तरेण' शब्द के योग में 'हिमवन्त्' शब्द से द्वितीया विभक्ति । हिमवन्त् + अम् ||३०७।
३०८. कर्मप्रवचनीयैश्च [२।४।२३] [ सूत्रार्थ]
कर्मप्रवचनीयसंज्ञक शब्दों के योग में लिङ्ग से द्वितीया विभक्ति होती है ||३०८।
Page #188
--------------------------------------------------------------------------
________________
१४६
कातन्त्रव्याकरणम्
[दु० वृ०]
कर्मप्रवचनीयैर्योगे लिङ्गाद् द्वितीया भवति । वृक्षम् अभि विद्योतते विद्युत् । वृक्षं वृक्षम् अभि तिष्ठति । साधुर्देवदत्तो मातरमभि । यदत्र मां परि स्यात् । यदत्र मां प्रति स्यात् । वृक्षम् अनु विद्योतते विद्युत् । पर्वतमनु वसिता सेना । अन्वर्जुनं योद्धारः । उपार्जुनं योद्धारः ।
लक्षणवीप्सेत्थम्भूतेष्वभिर्भागे परिप्रती।
अनुरेषु सहार्थे च हीने उपश्च कथ्यते ॥ आधिक्यार्थोपशब्दसंयोगे सप्तमी वाच्या - उपखार्यां द्रोणः । स्वाम्यर्थाधियोगे च - अधि ब्रह्मदत्तेषु पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्त इति ।।३०८।
[दु० टी०]
कर्म० । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । कर्तर्यतीतेऽभिधानादनीयप्रत्ययः । लोकोपचारात् सिद्धेयं संज्ञा । उक्तं च -
क्रियाया योतका नेमे संबन्धस्य न वाचकाः। नापि क्रियान्तरापेक्षाः संबन्धस्य तु भेदकाः॥
(द्र०, वा०प०२।२०४) इति । यथा 'अभिद्योतते' इत्यादौ क्रियां द्योतितवन्तः, न तथा लक्षणादिषु, संबन्धस्य तु षष्ठी वाचिका ।निर्गतः कौशाम्ब्या इव न क्रियान्तरापेक्षास्तस्मात् संबन्धस्य विशेषका इति । इहान्वर्थसंज्ञा प्रायो रूपावगता रुच्यर्थादिषु संप्रदानवदिति । लक्षणेत्यादि । लक्षणम् उपलक्षणम्, जनकं च । वृक्षो लक्षणम्, विद्योतमाना विद्युल्लक्ष्या । अभिना लक्षणवृत्तिना द्योत्यत इति अभिना युक्तो वृक्षः । विद्युद् वृक्षं प्राप्य विद्योतते इति । प्राप्तिक्रियाजनितो लक्ष्यलक्षणभावः संबन्धोऽभिना द्योत्यते । लक्षणार्थश्च विषयभावेनेति षष्ठीवदप्रधानादेव द्वितीया । वृक्षं वृक्षमभितिष्ठितीति स्थित्या वृक्षाणां वीप्स्यमानानां स्थितिं प्रति साध्यसाधनलक्षणः संबन्धोऽभिना द्योत्यते इति तयुक्तो वृक्षार्थः स्वभावाद् वीप्सा द्विर्वचनद्योत्या । मातुर्विषयभावेन इत्थम्भूतवृत्तिर्देवदत्तः । इत्थम् इमं प्रकारं मातृविषये प्राप्त इत्यर्थः । मातुरित्त्थम्प्राप्त्या विषयविषयिलक्षणः संबन्धोऽभिना द्योत्यते इति मातुस्तद्योगः।
Page #189
--------------------------------------------------------------------------
________________
१४७
नामचतुष्टयाप्पाये चतुर्षः कारकपादः भागे च परिप्रती इति चकारेण लक्षणादयोऽर्थाः कथ्यन्ते इति । योऽत्र ममांशमाभजते स दीयतामित्यर्थः । आभजनक्रियाजनितः स्वीकारक्रियाजनितो वा स्वस्वामिभावसंबन्धः परिप्रतिभ्यां द्योत्यते इति अस्मदर्थो भागस्वामी परिप्रतिभ्यां युक्तः । अनुरेष्विति |इदम्-शब्देन लक्षणादयो भागपर्यन्ता उच्यन्ते ।साकल्येन संहितामनुप्रावर्षदिति । हेतुरपि लक्षणं भवति । यथा अपि भवान् कमण्डलुपाणिं छात्रमद्राक्षीदिति सकृद् दृष्टकमण्डलुपाणिश्छात्रस्तस्य तदेव लक्षणं भवति । लक्ष्यते च साकल्यस्य संहितया वृष्टिरिति भावः । यदैव साकल्यस्य संहिता बहिर्निष्काश्यते तदैव देवो वर्षतीति । हेतौ परापि तृतीया बाध्यते व्यक्तिप्रधानत्वात् । हेतौ वा कर्मप्रवचनीयसंज्ञास्तीति । सहार्थे चेति । पर्वतेन यः सहभावस्तत्रानुशब्दो वर्तते इति तेन युक्तः पर्वत इति । उपश्चेति चकारेण अनुरनुकृष्यते । हीन इत्यर्थनिर्देशो विषयसप्तमीयम् । हीनार्थविषयानुशब्देन युक्त इति । यतो हीनो निकृष्टो भवति स उत्कृष्टो हीनार्थविषयो वेदितव्यः । हीनोत्कृष्टसंबन्धश्चानयोर्यदा अनुशब्देन द्योत्यते तदा तयुक्तो भवति । एवम् ‘उपार्जुन योद्धारः' इति । अर्जुनान्निकृष्टा इत्यर्थः ।
अध्यारूढस्याधिक इति निपातनलक्षणमुक्तमेव । गत्यर्थाकर्मकत्यादिना रुहे: कर्तरि क्तः कर्मणि च विधीयते । अध्यारूढः खारीं द्रोणः, अध्यारूढा खारी द्रोणेनेति तत्पर्यायोऽधिकशब्द इति । यथा 'अधिका खारी द्रोणेन' इति, उक्तार्थत्वान्न द्वितीया । तथा अधिकः खार्यां द्रोण इति कतरि क्ते कथन्न द्वितीयेति ? सत्यम्, आधारस्यैव विवक्षितत्वात् । एवं च 'उपखार्यां द्रोणः' इति सप्तमी सिद्धा, अधिकाधिकिभावव्यञ्जकेनोपशब्देनापीति कुतः पुनरिदं चोद्यम् । अधिकाधिकि संबन्धेऽध्यारोहणक्रियाजनितेऽप्युपशब्दद्योत्येऽधिकिनः षष्ठी स्यात् । तथा 'अधि ब्रह्मदत्तेषु पञ्चालाः' इति परिपालनादिक्रियाजनिताधाराधेयभावव्यञ्जकेनाधिशब्देनेति । यदा “पञ्चालान् जनपदान् प्राप्य ब्रह्मदत्तो विवर्धते' इति विवक्षा, तदा विपरीतमुदाहरति, कुतः पुनःस्वस्वामिसंबन्धे षष्ठी स्याद् इति चोद्यम् । अत आह - आधिक्यार्थोपशब्दसंयोगे इत्यादि । आधिक्यं चासावर्थश्चेति तत्रोपशब्द इति ।।३०८।
[वि० प०]
कर्म० । कर्मशब्दः क्रियावचनः।कर्म क्रियां प्रोक्तवन्तः द्योतितवन्तः कर्मप्रवचनीयाः। "कृत्ययुटोऽन्यत्रापिच"(४।५।९२) इति वचनात् कर्तर्यतीतेऽनीयप्रत्ययः । यथाकथंचिद्
Page #190
--------------------------------------------------------------------------
________________
१४८
कातन्त्रव्याकरणम्
इयं व्युत्पत्तिः । संज्ञास्तु लोकत एव प्रतिपत्तव्याः। तत्र लक्षणादिष्वर्थेष्वभ्यादयः शब्दाः कर्मप्रवचनीया इति दर्शयति-लक्षणेत्यादि । लक्षणं चिह्नं ज्ञापकमित्यर्थः । क्रियागुणद्रव्यैयुगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा । इत्थम्भूतः कञ्चित् प्रकारमापन्नः उच्यते, भवितरत्र प्राप्तौ सकर्मकः । एतेष्वर्थेष्वभिशब्दः कर्मप्रवचनीयसंज्ञो भवति ।
भागे चेति चकारेण लक्षणादयस्त्रयोऽर्थाः कथ्यन्ते । अनुरेषु सहार्थे चेति । एषु लक्षणादिषु चतुर्वर्थेषु सहार्थे चेत्यर्थः ।हीने उपश्चेति चकारादनुश्च । एते लक्षणादयोऽर्था अभ्यादीनां न द्योत्याः, किन्तर्हि विषयभूताः । द्योत्यः पुनः संबन्धविशेषः । यथा'वृक्षम् अभि विद्योतते विद्युत्' इति । वृक्षोऽत्र लक्षणम् । विद्योतमाना विद्युल्लक्ष्या । वृक्षं प्राप्य विद्योतते इत्यर्थः । प्राप्तिक्रियाजनितो लक्ष्यलक्षणसंबन्धोऽभिना द्योत्यते । वृक्षं वृक्षमभि तिष्ठति । स्थितिक्रियां प्रति साध्यसाधनलक्षणः संबन्धोऽभिना द्योत्यते । द्विर्वचनमन्तरेण वीप्सा न गम्यते इति द्विवचनम् । 'साधुर्देवदत्तो मातरमभि' इति । मातृविषये साधुत्वलक्षणं कंचित् प्रकारमापन्नो देवदत्त इति । इह विषयविषयिलक्षणसंबन्धोऽभिना द्योत्यते इति ।
यदत्रेत्यादि । योऽत्र ममांशमाभजते स दीयतामित्यर्थः । आभजनक्रियाजनितः स्वीकारक्रियाजनितो वा स्वस्वामिलक्षणसंबन्धः परिप्रतिभ्यां द्योत्यते इति । एवं लक्षणादिषु च परिप्रत्योः पूर्ववद् उदाहरणं वेदितव्यम् । वृक्षमनु विद्योतते विद्युदिति लक्षणे । शेषं पूर्ववत् । ननु कथं साकल्यस्य संहिताम् अनु प्रावर्षदिति । नहि साकल्यस्य संहिता प्रवर्षस्य चिह्नम्, अपि तु हेतुः । यदैव साकल्यस्य संहिता बहिर्निष्काश्यते, तदैव देवो वर्षतीति ? सत्यम् । हेतुरपि लक्षणं भवत्येव । तेनापि लक्ष्यते इति कृत्वा परत्वाद् हेतुलक्षणा तृतीया न भवति व्यक्तिप्रधानत्वाद् अस्येति, पर्वतमनु वसिता सेनेति । पर्वतेन सहानुबद्धा सेनेत्यर्थः । अनु वसितेति । अनुपूर्व- षिञ् बन्धने । निष्ठेति क्तः । अत्र सहभावलक्षणः संबन्धः । अन्वर्जुनं योद्धारः, उपार्जुनं योद्धारः इति, तत्र हीनोत्कृष्टलक्षणः संबन्धः । अर्जुनादन्ये योद्धारो हीनाः निकृष्टा इत्यर्थः । आधिक्येत्यादि । अधिकस्य भाव आधिक्यम्, आधिक्यं च तदर्थश्चेति आधिक्यार्थः । तत्रोपशब्दस्तेन योग इति विग्रहः । अध्यारूढस्याधिक इति सद्यआद्यत्वान्निपात्यते । स च कर्तृसाधनः कर्मसाधनश्च गत्यर्थाकर्मकेत्यादिना रुहेः कर्तरि कर्मणि च क्तस्य विधानात् । अध्यारूढः खारीं द्रोण ः इति कर्तरि, अध्यारूढा खारी द्रोणेनेति कर्मणि |
Page #191
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१४९ तत्र यदा कर्मसाधनस्याध्यारूढशब्दस्याधिक इति निपातः, तदा अधिका खारी द्रोणेनेत्युक्तार्थत्वाद् द्वितीया नाम मा भूत् । यदा तु कर्तृसाधनस्याध्यारूढस्याधिक इति निपातः, तदा अधिकः खार्यां द्रोण इति कथं न द्वितीया अधिकरणस्यैव विवक्षितत्वादिति ।
चेत्, एवं तर्हि तदर्थेनोपशब्देनापि योगेऽधिकरणमेव विवक्षितमिति कुतोऽधिकाधिकसंबन्धे षष्ठीति । तथा स्वाम्यर्थाधियोगे चेति । ब्रह्मदत्तो नाम स्वामी पञ्चालानां तत्र परिपालनादिक्रियाकृतो विषयविषयिभावोऽस्तीति सप्तमी न विरुध्यते । यदा तु पञ्चालान् जनपदान् प्राप्य ब्रह्मदत्तो विवर्धते इति विवक्ष्यते तदा विपरीतम् उदाहरति - ‘अधि पञ्चालेषु' इति । ततः कुतोऽत्रापि स्वस्वामिसंबन्धे षष्ठीति ।।३०८।
[क० च०]
कर्म० ।कर्म क्रियेति पर्यायः । क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । “कृत्ययुटोऽन्यत्रापि" (४।५।९२) इति वचनात् कर्तर्यतीतेऽनीयप्रत्ययः ।प्रोक्तवन्त इति द्योतितवन्त इत्यर्थः । अतीत इति । एतेन उपसर्गतादशायामभ्यादयः कथं क्रियाद्योतकाः, तस्मात् सम्प्रति कर्मप्रवचनीयतादशायां न क्रियां प्रतिपादयन्तीति प्रतिपादितम् । ननु अनया व्युत्पत्त्या विंशतिरेवोपसर्गाःकर्मप्रवचनीयाःकथं न भवन्तीत्याह - यथाकथंचिदिति । ननु प्रोक्तवन्त इत्यर्थस्य द्योतितवन्त इत्यर्थं परिकल्प्य कथम् अभ्यादयो गृह्यन्त इति । लोकतः प्रतिपत्तव्या इति पत्री। 'वा गतिगन्धनयोः' (२।१७) इत्यत्र पूर्वं क्रियावाचिनो वाशब्दस्येदानीं विकल्पार्थस्य सत्त्वादित्याह - लोकत इति ।
ननु यदि लक्षणादीनाम् अभ्यादयो न द्योतकास्तदा किमर्थं प्रयुज्यन्त इत्याह - योत्यः पुनरिति ।तथा अभ्यादीनां लक्षणादयो विषयभूता एव, किन्तु द्योत्यार्थो लक्षणभावः संबन्धादिद्वितीयावाच्य इत्यर्थः । एवं च सति षष्ट्या बाधक इति पर्यवसितम् । ननु वीप्यमानानां वृक्षाणां स्थितिक्रियां प्रति अनेकगतसाधनसंबन्धोऽभिना द्योत्यते । अर्थाद् वृक्षाणामपि अनेकप्रतीतिर्भविष्यति, किमर्थं द्विवचनम् उक्तार्थत्वाद् इत्याह - द्विर्वचनमन्तरेणेति । द्विर्वचनमन्तरेण वृक्षमभितिष्ठतीत्युक्ते लक्षण एव संगच्छते इति हेमकरः । वस्तुतस्तु “लक्षणवीप्सेत्थम्भूतेष्वभिः" इति सप्तमीनिर्देशाद् वीप्सास्वरूपस्य व्याप्यव्यापकभावः संबन्धोऽभिना द्योत्यते इत्येव वक्तुमुचितम् । तत् कथं
Page #192
--------------------------------------------------------------------------
________________
१५०
कातन्त्रव्याकरणम्
साध्यसाधनसंबन्धोऽभिना द्योत्यते इत्युक्तम् इत्याशङ्क्याह - द्विवचनमन्तरेणेति । स्वीकारक्रियाजनितो वेति । भागशब्दस्तु – 'यत् त्वया स्वीकृतं तद् दीयताम्' इति हेमकरः। स्वस्वामिलक्षणसंबन्ध इति विषयभावेनेति शेषः ।
ननु हेतौ कर्मप्रवचनीयार्थम् “अनुर्लक्षणे" (अ० १।४।४८) इति सूत्रान्तरं पाणिनिना कृतम्, अस्मन्मते तदभावात् का गतिरित्याह - कथं साकल्यस्येति । ननु तर्हि हेतुत्वलक्षणत्वोभयविवक्षायां हेतौ तृतीया स्यात् । लक्षणत्वमात्रविवक्षायां कर्मप्रवचनीयत्वस्य साफल्यादित्याह - परत्वाद् हेतुलक्षण इति । ननु अनुवसितेति अवाप्योरकारलोपे विभाषयेष्यते । यथा 'पिनद्धं वतंसः' इति । तदुक्तम् -
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।।
टापं चापि हलन्तानां क्षुधा वाचा निशा गिरा ॥ इति । अस्यायमर्थः- भागुरिराचार्योऽवाप्योरकारलोपं वष्टि इच्छति न त्वन्यः, तन्मते अनुवसितेति कुलचन्द्रस्यापि मतमेतद् इत्युभयप्रामाण्याद् विकल्पः सिद्धः। हलन्तानां व्यञ्जनान्तानां टापं च स्त्रियाम् आकारं च वष्टि इत्यन्वयः । तदेव विवृणोति - क्षुधेत्यादीति श्लोकार्थः । ननु कर्मप्रवचनीय इत्यनुवर्तमाने यस्मादधिकवचनं ततः सप्तमीति पाणिनिसूत्रम्। अस्यार्थः- अस्मादिति ल्यब्लोपे पञ्चमीति । तेन यत् खार्यादिकमाश्रित्याधिकमध्यारूढं तत्र कर्मप्रवचनीययुक्ते खार्यादौ सप्तमी भवतीत्यर्थः । अत्र "उपोऽधिके" (अ० १।४।८७) इत्यपरसूत्रेणाधिकार्थे उपशब्दस्य कर्मप्रवचनीयत्वाभिधानात् तद्युक्तेऽर्थे भवतीति गम्यते । तदभावादस्मन्मते किं स्यादित्याहआधिक्येत्यादि । अधिकरणस्यैव विवक्षितत्वादिति परैरिति शेषः । नन्वत्र कर्तृसाधनाधिकशब्दसमानार्थोपशब्दयोगः कथं गृह्यते । कर्मसाधनाधिकशब्दसमानार्थोपशब्दयोगः कथन्न गृह्यते । ततश्च अध्यारूढा खारी द्रोणेनेत्यर्थे खारीशब्दाल्लिङ्गार्थमात्रे प्रथमैव बाधिकेति । 'खार्युपद्रोणः' इति द्रोणशब्दात् कथं सप्तमी न स्यात्, नैवम् । कर्मसाधनाधिकशब्दार्थे उपशब्दस्य कर्मप्रवचनीयत्वानङ्गीकारादित्याह - विवक्षितमिति । सूत्रे चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः । कुतोऽधिकाधिकिसंबन्धे षष्ठ्यपीति । ननु कथमत्र षष्ट्याः प्राप्तिः, यावता खारीमध्यारूढो द्रोण इतिवत् तदर्थोपशब्दयोगे द्वितीयाप्राप्तेः कुतोऽत्र द्वितीयेत्येवं वक्तुं युज्यते ? सत्यम्, उपशब्दस्य क्रियाभावान्न कर्मत्वम्, क्रियाव्याप्यस्यैव कर्मत्वनिश्चयात् ।
Page #193
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
१५१ अथ “यस्य चेश्वरवचन०" (अ०२।३।९) इति पूर्वोक्तसूत्रार्द्धम् । अस्यायमर्थः - अत्रेश्वरशब्दो धर्मवचनः ऐश्वर्याभिधायी धर्मिवचनश्च स्वाम्यभिधायी गृह्यते । एतच्च चकारस्यानुक्तसमुच्चयार्थत्वाल्लभ्यते इति रक्षितः । तेन यस्य स्वाम्यं प्रतिपाद्यम्, येषां चेश्वरोऽभिधेयः, तेभ्यः सप्तमी भवतीति । न च तेभ्यः सप्तमीत्युक्ते युगपद् ब्रह्मदत्तपञ्चालशब्दयोः कथं न स्यादिति वाच्यम् । षष्ठीवत् तस्याप्रधानादेव विधानादत्र चाधीश्वर इत्यनेनाधिशब्दस्य कर्मप्रवचनीयत्वाद् अस्मिन्नर्थेऽधिना योगो लभ्यते । तदभावादस्मन्मते किं स्यादित्याह - स्वाम्यर्थाधियोग इति । इदानीं येषामीश्वरोऽभिधेयस्तेभ्यः सप्तमीति पक्षमाश्रित्याह - यदेति । पञ्चालविषये ऐश्वर्यं वृत्तिति विवक्षायां सप्तमी कृत्वा पश्चाल्लक्षणया पञ्चालानामीश्वर इति गम्यते इति भावः ।।३०८।
[समीक्षा]
कर्मप्रवचनीयसंज्ञक शब्दों के योग में लिङ्ग से द्वितीया विभक्ति का विधान दोनों व्याकरणों में समान है । पाणिनि का सूत्र है – “कर्मप्रवचनीययुक्ते द्वितीया" (अ० २।३।८)। दोनों में केवल इतना ही अन्तर है कि पाणिनीय व्याकरण में "कर्मप्रवचनीयाः" (अ० १।४।८३) सूत्र के अधिकार में १५ सूत्रों (१।४।८४९८) द्वारा 'अनु' आदि की कर्मप्रवचनीय संज्ञा की गई है, अतः तदनुसार कर्मप्रवचनीयसंज्ञा के योग में द्वितीया विभक्ति उपपन्न होती है, जबकि कातन्त्रकार ने संज्ञासूत्र नहीं बनाए हैं। अतः व्याख्याकार दुर्गसिंह ने उसे लोकव्यवहाराश्रित माना है - 'लोकोपचारात् सिद्धेयं संज्ञा'।
[विशेष वचन] १. यथाकथंचिद् इयं व्युत्पत्तिः । संज्ञास्तु लोकत एव प्रतिपत्तव्याः (वि० प०)। २. कुलचन्द्रस्यापि मतमेतद् इत्युभयप्रामाण्याद् विकल्पः सिद्धः (क० च०)। [रूपसिद्धि]
१. वृक्षम् अभि वियोतते वियुत् । वृक्ष को लक्ष्य करके बिजली चमकती है | यहाँ लक्षण अर्थ में अभि की कर्मप्रवचनीय संज्ञा मान्य है, उसके योग में 'वृक्ष' शब्द में प्रकृत सूत्र से द्वितीया । वृक्ष + अम् । “अकारे लोपम्' (२।१।१७) से अम्प्रत्ययस्थ अकार का लोप ।
Page #194
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
२. वृक्ष वृक्षम् अभि तिष्ठति । प्रत्येक वृक्ष में स्थित है । यहाँ वीप्सार्थ में अभिशब्द की लोकव्यवहारानुसार कर्मप्रवचनीय संज्ञा तथा लोकव्यवहारानुसार ही वीप्सार्थक पद की द्विरुक्ति- 'वीप्सायां वर्तमानस्य पदस्य लोकत एव द्विरुक्तिः सिद्धा' । कर्मप्रवचनीयसंज्ञक ‘अभि' के योग में 'वृक्ष' शब्द से प्रकृत सूत्र द्वारा द्वितीया ।
३-९ . साधुर्देवदत्तो मातरमभि । यदत्र मां परि स्यात् । यदत्र मां प्रति स्यात् । वृक्षमनु विद्योतते विद्युत् । पर्वतम् अनु वसिता सेना। अन्वर्जुनं योद्धारः। उपार्जुनं योद्धारः। इत्थम्भावादि अर्थों में 'अभि' आदि की कर्मप्रवचनीय संज्ञा तथा प्रकृत सूत्र द्वारा 'मातृ' आदि शब्दों से द्वितीया का विधान ।।३०८। ३०९. गत्यर्थकर्मणि द्वितीयाचतुर्थी चेष्टायामनध्वनि [२।४।२४]
[ सूत्रार्थ]
चेष्टा के रहने पर गत्यर्थक धातुओं के कर्म में द्वितीया और चतुर्थी विभक्तियाँ होती हैं, अध्व को छोड़कर ।।३०९।
[दु० वृ०]
गत्यर्थानां धातूनां चेष्टाक्रियाणां कर्मण्यध्ववर्जिते द्वितीयाचतुर्यो भवतः । ग्राम गच्छति, ग्रामाय गच्छति । ग्रामं व्रजति, ग्रामाय व्रजति । चेष्टायामिति किम् ? मनसा मेरुं गच्छति । अनध्वनीति किम् ? अध्वानं गच्छति, पन्थानं गच्छति, पन्थानं व्रजति । मुख्योऽत्राध्वा गृह्यते ।।३०९।
[दु० टी०]
गत्यर्थः । चेष्टायां गम्यमानायामिति वचनाद् गत्यर्थानां क्रियावचनत्वात् परिस्पन्दक्रियावाचिनां कर्मणीति स्थितमत आह - चेष्टाक्रियाणामिति । अनध्वनीति अर्थग्रहणं तेन पर्यायमप्युदाहरति, आक्रान्ताध्वप्रतिषेधश्चायं पन्थानमारूढो यदा तेनैव पथा याति तदायं प्रतिषेध इत्यर्थः । यदा पुनरुत्पथेन तमेव राजमार्ग ग्रामादिवत् प्राप्नोति तदा विभाषयैव | यथा क्षेत्रात् पथे (पथम्) गच्छतीति । तन्न वक्तव्यम्, तस्य गतिक्रियायां गौणत्वाद् इत्याह - मुख्योऽत्राध्वा गृह्यते इति 'स्त्रियं गच्छति, स्त्रियं सेवते' इति गत्यर्थत्वाभावान्न भवति । ननु ग्रामं प्राप्स्यामीति मत्वा यो ग्रामं गच्छति तस्य ग्रामार्थं गमनमिति तादर्थ्यविवक्षायां चतुर्थी स्यादेव मार्गभ्रष्टोऽप्राप्ताय पथे गच्छति, अत्रापि
Page #195
--------------------------------------------------------------------------
________________
नामचतुष्टयायाये चतुर्थः कारकपादः
१५३ तादर्थ्यमस्ति । गच्छतीत्यत्र तादर्थ्यविवक्षायां भवितव्यमेव चतुर्थ्या । करणविवक्षायां तु तृतीया - पथा गच्छतीति । तर्हि ग्रामाय धनाय गच्छतीत्युभयत्रापि तादर्थ्यं कष्टं स्यादिति ।
कश्चिदाह - चतुर्थी वेति सिद्धे द्वितीयाग्रहणं कृद्योगलक्षणषष्ठीबाधनार्थम् । 'ग्रामं गन्ता, ग्रामाय गन्ता' इति न पुनरेवं शिष्टप्रयोगो दृश्यते ||३०९।
[वि० प०]
गत्य०।चेष्टा परिस्पन्दलक्षणःकायकृतव्यापार इत्याह - चेष्टायामित्यादि ।मुख्य इत्यादि । कः पुनरध्वा मुख्यो योऽसौ ग्रामादिकं प्राप्तुमिच्छता आक्रान्तः समारूढः, कथं तस्य मुख्यता साक्षात् तस्य गतिक्रियायां व्यापाराल्लोके ह्यभिमतदेशप्राप्तिहेतुरध्वा मुख्यः प्रसिद्धो यः पुनरुत्पथेन ग्रामादिकं प्राप्तुमिष्यते तस्य गतिक्रियायां व्यवहितव्यापारत्वाद् गौणत्वमिति । न तत्रानध्वनीति प्रतिषेधः 'गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' (कात०प०२) इति न्यायात् । तेन क्षेत्राद् उत्पथे गच्छति' इति चतुर्थी स्यादेव ।।३०९।
[क० च०]
गत्यर्थः । ननु चेष्टाशब्दः क्रियावचनोऽप्यस्ति, स कथमिह न गृह्यते ? नैवम् । चेष्टापदोपादानानर्थक्याद् गत्यर्थानां धातूनां क्रियावचनत्वाव्यभिचारात् । तस्माच्चेष्टापदोपादानात् परिस्पन्दवचनोऽत्र चेष्टाशब्दो गृह्यते । परिस्पन्दश्च शरीरव्यापारलक्षण इति हृदि कृत्वाह - चेष्टायामिति । ननु अर्थग्रहणं किमर्थं गतिकर्मणीति क्रियताम् ? सत्यम् । अर्थग्रहणं शब्दान्तरमनपेक्ष्य पादविहरणात्मिका प्रधानभूता क्रियायां या गतिरुच्यते तस्या एव ग्रहणं यथा स्यादिति । तेन 'स्त्रियं गच्छति, अजां नयति ग्रामम्' इत्यत्र न स्यात् । गमेर्मैथुनरूपार्थस्य स्त्रीशब्दादिसन्निधानं विना न गम्यते । नयतेश्च प्रापणैव प्रधानमर्थः, तद्विशेषणन्तु प्रापणम् अप्रधानम् । कथं तर्हि ग्रामाय गमयतीत्यत्र चतुर्थी । प्रेषणादिको ह्यर्थः प्रधानम्, न गतिः । नैवम् । न ह्यत्र ग्रामो गमयतेः कर्म, किन्तु गमेस्व । गमयतिना हि गुणभावेन गतिरुच्यते, गमिना तु प्रधानभावेनैव युक्तः। अतो मुख्यतया प्रतिपाद्यस्वरूपं प्राधान्यं गमेविवक्षितमेव ।
___ अथ तर्हि चेष्टाग्रहणमनर्थकम्, पादविहरणस्य चेष्टात्वाव्यभिचारादिति ।नैवम् । पादविहरणात्मिकेत्यस्योपलक्षणशङ्कया प्राप्तेरपि ग्रहणं स्यात्, तस्या अपि शब्दान्त
Page #196
--------------------------------------------------------------------------
________________
१५४
कातन्त्रव्याकरणम्
रासन्निधानेन प्रतीतेरिति । यद्यपि ग्रामाय यातीत्यादौ प्रापणे याधातुः पठितस्तथापि गतावेव प्रवृत्तिरिष्टेति । न च 'गृहं प्रविशति, पर्वतम् आरोहति' इत्यादौ गतिविशेषवाचकेऽपि प्राप्तिरिति वाच्यम्, पादविहरणात्मिकाया गतेरेव ग्रहणात् । अत्र हि विशधातोर्देशान्तरप्रापणमर्थः, रुहेश्चोर्ध्वप्रापणमिति । चतुर्थी वेति सिद्धे द्वितीयाग्रहणं कृल्लक्षणषष्ठीविधानार्थम् । तेन ग्रामं गन्ता, ग्रामस्य गन्तेति स्यादिति जयादित्यः । तन्न, भाष्यविरोधाद् द्वितीया षष्ठीति मन्यते ।
[ अत्र टीकाकृता न पुनरेवं वृद्धप्रयुक्ता दृश्यन्ते इत्युक्तम् । भट्टस्तु 'चतुर्थी वा' | इति सिद्धे द्वितीयाचतुर्थ्यो बाधित्वा परत्वात् षष्ठी भवितुं शक्यते । द्वितीयाग्रहणे तु षष्ठ्या द्वितीया न बाध्यते, चतुर्थी पुनर्बाध्यत इति । एवं च भाष्यसङ्गतिरपि स्यादित्याह । अपरे तु द्वितीयाग्रहणम् अविशेषाद् द्वयमेव बाधित्वा षष्ठी । अत्र बाधनार्थं मन्यते ।‘ग्रामाय गन्ता' इति चतुर्थीप्रयोगः षेष्ठीं बाधते । प्राप्तिपक्षे तु द्वितीयां बाधित्वा 'ग्रामस्य गन्ता' इति षष्ठी स्यादेव । स्वमते 'चतुर्थी वा' इति कृते परत्वात् षष्ठ्येव स्यात्, द्वितीयाग्रहणं स्पष्टार्थमेव । ननु लुब्विभक्तौ न लक्षणा इत्याह । लक्षणाभावे 'ग्रामाय समीयर्ति' इत्यत्र आत्मनेपदं स्यात्, “समो गम्यृच्छि" (अ० १ । ३ । २९) इत्यादिनाऽकर्मकत्वात् ? सत्यम् | अस्यायमर्थः - अनुशासितार्थातिरिक्तार्थे न लक्षणा । यथा चतुर्थ्यां षष्ठ्येव लक्ष्यते । अनुशासितार्थे तु लक्षणा क्रियत एव । ननु अनध्वनीति वर्जनात् कथम् 'उत्पथाय गच्छति' इति, तस्माद् आक्रान्तपथप्रतिषेधो वक्तव्यो नेत्याह - मुख्येत्यादि ] ।। ३०९ ।
[समीक्षा]
1
गत्यर्थक धातुओं के कर्म में द्वितीया - चतुर्थी विभक्तियों का विधान दोनों व्याकरणों में समानरूप से किया गया है । पाणिनि का सूत्र है - " गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि" (अ० २ । ३ । १२) । उदाहरण - प्रत्युदाहरण भी दोनों व्याकरणों के एक जैसे ही हैं ।
[ रूपसिद्धि ]
१. ग्रामं ग्रामाय वा गच्छति । यहाँ गमन पादविहरणरूप है, अतः चेष्टा परिस्पन्दरूप व्यापार के रहने पर गत्यर्थक 'गम्' धातु के कर्म में द्वितीया तथा
=
Page #197
--------------------------------------------------------------------------
________________
१५५
नामचतुष्टयाध्याये चतुर्थः कारकपादः चतुर्थी विभक्ति प्रकृत सूत्र द्वारा प्रवृत्त होती है। ग्राम + अम् । “अकारे लोपम्" (२।१।१७) से अम्प्रत्ययस्थ अकार का लोप | ग्राम + । “डेर्यः" (२।१।२४) से डे के स्थान में य तथा “अकारो दीर्घ घोषवति" (२।१।१४) से मकारोत्तरवर्ती अकार को दीर्घ आदेश । ___२. ग्रामं व्रजति, ग्रामाय व्रजति । पूर्ववत् चेष्टा के सिद्ध होने से द्वितीया तथा चतुर्थी विभक्ति का विधान ।। ३०९।
३१०. मन्यकर्मणि चानादरेऽप्राणिनि [२।४।२५] [सूत्रार्थ]
कर्तृवाच्य में जिस ‘मन्' धातु से ‘मन्यते' रूप निष्पन्न होता है, उसके कर्म में द्वितीया तथा चतुर्थी विभक्तियाँ होती हैं यदि प्राणिसंज्ञक कर्म न हो तथा अनादर का भाव भी सूचित होता हो ॥३१०।
[दु० वृ०]
मन्यतेः कर्मणि प्राणिवर्जिते द्वितीयाचतुयॊ भवतः अनादरे गम्यमाने । न त्वा तृणं मन्ये, न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये, न त्वा बुसाय मन्ये । अनादर इति किम् ? अश्मानं दृषदं मन्ये । प्राणिसंज्ञा नावादेरिति । न त्वा नावं मन्ये । न त्वा काकं मन्ये । न त्वा अन्नं मन्ये । न त्वा शृगालं मन्ये । इह स्यादेव- न त्वा श्वानं मन्ये । न त्वा शुने मन्ये । यदि युष्मदः स्याच्चतुर्थी, तदाऽनादरो न गम्यते ।।३१०।
[दु० टी०]
मन्य० । मन्यतेः कर्मणीति समासे तिब्लोपं कृत्वा निर्देशः । येनोपलक्षितस्य 'मन ज्ञाने' (३।११३) इत्यस्य यत् कर्मेति । तृणं न त्वां मनुते जन इति । 'मनु बोधने' (७।९) तनादिः । तृणादपि निकृष्ट इति तिरस्कारावगमस्तत्र चार्थान्ना योग इति । 'अश्मानं दृशदं मन्ये' इत्यादौ स्वरूपाख्यानत्वादनादरावगमो नास्तीति । तृणं सुवर्ण मन्यते इत्यादर एव । मन्यकर्मत्वाद् युष्मदोऽपि चतुर्थी प्राप्नोतीत्यत आह - यदीत्यादि । चतुर्थ्यन्तो युष्पच्छब्दः स्वभावादादरविषय इति भावः । यद्यप्यर्थान्तरे तृणादिः प्रयुक्तोऽनादरं गमयति, तथाप्यनभिधानान्न भवतीत्येकं मतम् ।
Page #198
--------------------------------------------------------------------------
________________
१५६
कातन्त्रव्याकरणम् अपर आह - चतुर्थ्या न भवितव्यम् । — देवदत्तं तृणाय मन्यते' इति प्रयोगोऽपि दृश्यते । तृणाय मत्वा ताः सर्वाः हरिमप्यमंसत तृणाय' ।तदा कर्माधिकारे पुनः कर्मग्रहणं कर्मणि कर्मणीति प्रतिपत्त्यर्थं तेन प्रधाने कर्मणीति स्थितम् । यत एवानादरो गम्यते, तप्रधानमिति भावः।
अश्मानं दृशदं मन्ये मन्ये काष्ठमुदूखलम् । अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति ॥
इति पूर्णः श्लोकः ।।३१०। [वि० प०]
मन्यः । मन्यतेः कर्म मन्यकर्मेति समासे तिब्लोपः सूत्रत्वाद् इति विवरणेन दर्शयति- मन्यतेः कर्मणीति । ननु युष्मदोऽपि मन्यकर्मत्वात् कथं चतुर्थी न स्यादित्याह - यदीत्यादि । युष्पच्छब्दश्चतुर्थ्यन्तःस्वभावादादरविषय एव । कथमनादरे विधीयमाना चतुर्थी ततः स्यादिति भावः ।।३१०।
[क० च०]
मन्यः । एवं स्वभावादादरविषय इत्यादि । ननु कथमिदमुच्यते 'पापीयसे तुभ्यं वित्तसमर्पणमनुचितमित्यादौ चतुर्थ्यन्तस्य युष्मदोऽपि अनादरे दृष्टत्वात् । किं च 'चैत्रं तृणाय मन्ये,त्रैलोक्यराज्यमपितृणाय मन्ये' इत्यादौ चैत्रस्य राज्यस्य च युष्मद्भिन्नत्वाच्चतुर्थी कथं न स्यात् । न चात्रानादरप्रतिपादकात् तृणादिशब्दादेव चतुर्थी भवति । युष्पच्चैत्रराज्यशब्दास्तु अनादरप्रतिपादका न भवन्ति, किन्तु तृणादिशब्दा एवेति वाच्यम्, श्रुतत्वात् । येषामनादरस्तेभ्य एव चतुर्थी न च तृणादेरनादर इति वैपरीत्यस्याप्यर्थवत्त्वात् । उच्यते - स्वभावादिति यदुक्तं मन्यतियोगेनैव तद् बोध्यम् । तेन ‘पापीयसे तुभ्यं वित्तसमर्पणमनुचितम्' इत्यादावनादरप्रतीतावपि न दोषः । युष्पच्छब्दस्यानादराश्रयोपलक्षणत्वाच्चैत्रं तृणाय मन्ये इत्यादावपि चैत्रादिशब्दाच्चतुर्थ्यां सत्यामनादरो न गम्यते इति संक्षेपः।
ननु अनादरे चतुर्थी भवतीत्युक्ते आदरभिन्नमात्रे भवतीति प्रसज्ये नञि गृह्यमाणे तत्स्वरूपाख्याने भवतीत्यर्थः कथं न स्यात्, नैवम् । अनादरे न भवति स्वरूपाख्याने
Page #199
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१५७ भवतीति वाक्यभेदप्रसङ्गात् प्रसज्यार्थो न गृह्यते इत्याह -अनादर इति किम् ? अश्मानमित्यादि वृत्तिः।
अश्मानं दृशदं मन्ये मन्ये काष्ठमुदूखलम् ।
अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति ॥ इति पादत्रयम् ।
[कर्माधिकारे पुनः कर्मग्रहणं किमर्थम्, प्रधानादेव कर्मणस्तृणादेर्द्वितीयाचतुर्यो भवतः, तृणादिकस्य प्रधानत्वमनादरबोधकत्वात् 'देवदत्तं तृणाय मन्ये, तृणाय मत्वा ताः सर्वाः' इत्यादयः सिद्धाः । अत एव पाणिनिः “मन्यकर्मण्यनादरे उपमानाद्' विभाषा" (अ० २।३।१७)। अप्राणिनीति उपमानात् तृणादेरयं विधिः] ।।३१०।
[समीक्षा]
'मन्' धातु के जिस कर्म से अनादर सूचित होता हो, उसमें द्वितीया तथा चतुर्थी विभक्तियों का विधान पाणिनि तथा शर्ववर्मा दोनों ही आचार्य करते हैं | पाणिनि का सूत्र है - "मन्यकर्मण्यनादरे विभाषाऽप्राणिषु" (अ० २।३।१७) अन्तर केवल यह है कि कातन्त्रकार साक्षात् दोनों ही विभक्तियों का निर्देश करते हैं, जबकि पाणिनि ने विकल्प से चतुर्थी का विधान किया है । उसके फलस्वरूप पक्ष में द्वितीया भी प्रवृत्त होती है । अतः प्रायः साम्य ही कहा जा सकता है।
[रूपसिद्धि]
१. न त्वा तृणं मन्ये, न त्वा तृणाय मन्यते । यहाँ तृण शब्द से अनादर = तिरस्कार सूचित होता है और वह 'मन' धातु का कर्म भी है । अतः उससे द्वितीया-चतुर्थी दोनों विभक्तियाँ प्रवृत्त होती हैं - तृणम्, तृणाय । कोई पुरुष चाहे जितना शक्तिहीन क्यों न हो, तृण की अपेक्षा तो उसमें अधिक ही शक्ति होती है । फिर भी यदि उसे तृण के भी समान स्वीकार न किया जाए तो उससे अनादर का ही भाव सिद्ध होता है - इस विशेषता को बताने के लिए ही द्वितीया के अतिरिक्त चतुर्थी का विधान किया गया है।
१. मन्यकर्मण्यनादरे विभाषाऽप्राणिषु (अ० २।३।१७)
Page #200
--------------------------------------------------------------------------
________________
१५८
कातन्वयाकरणम् २. न त्वा बुषं मन्ये, न त्वा बुषाय मन्ये। पूर्ववत् प्रकृत सूत्र से 'बुष' शब्द में द्वितीया-चतुर्थी विभक्तियों का विधान ||३१०। ३११. नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगे चतुर्थी [२।४।२६]
[सूत्रार्थ]
नमः, स्वस्ति, स्वाहा, स्वधा, अलम् तथा वषट् पद के योग में लिङ्ग= प्रातिपदिक से चतुर्थी विभक्ति होती है ।।३११।
[दु० वृ०]
नम आदिभिर्योगे लिङ्गाच्चतुर्थी भवति | नमो देवेभ्यः | स्वस्ति प्रजाभ्यः । स्वाहा अग्नये । स्वधा पितृभ्यः। अलं मल्लो मल्लाय | समर्थो मल्लो मल्लाय । बषड् इन्द्राय ।।३११।
[दु० टी०]
नमः। अलं भूषण-पर्याप्ति-वारणेषु । इह पर्याप्त्यर्थ एव योगग्रहणात् । पर्याप्तः शक्तः समर्थः प्रभुरिति पर्यायः । स्वस्ति गोभ्यो भूयाद् इत्याशीविवक्षायां नित्यं चतुर्थी स्यादेव । षष्ठ्यां प्राप्तायां वचनम् ।।३११।
[वि० प०]
नमः । यद्यपि अलंशब्दो भूषणपर्याप्तिवारणेषु वर्तते तथापि पर्याप्त्यर्थ एव गृहीतव्यो योगग्रहणबलात् । अन्यथा सत्यर्थतृतीयानिर्देशे सिध्यतीति । पर्याप्तिश्च सामर्थ्यमिति तत्पर्यायेणापि दर्शयति- समर्थो मल्लो मल्लायेति ।।३११।
[क० च०]
नमः । इहेति । इह सूत्रे पर्याप्त्यर्थ एव गृहीतव्य इत्यर्थः । योगग्रहणबलादिति । इह पारिशेष्यात् प्राप्तस्य पर्याप्त्यर्थस्य योगग्रहणेनैव केवलं प्रकाश्यते । तथाहि 'कन्यामलंकरिष्णुः' इत्यत्र भूषणार्थे 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' (कात० प०- ५९) इति न्यायात् कन्याशब्दाद् द्वितीयैव । 'अलं रोदनेन' इत्यत्र वारणार्थे तत एव न्यायात् करणे तृतीयैव बाधिकेति । तथोपचाराच्चानयोभूषणवारणार्थयोरलंशब्दः कर्मकरणभावस्थल एव प्रयुज्यते, 'नियतप्रयोगा हि केचिदव्ययाः' इति न्यायादिति केचित्।
Page #201
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपाद:: वस्तुतस्तु योगग्रहणं न प्रपञ्चार्थम्, पर्याप्तिरूपार्थस्तु पारिशेष्येणैव अलंशब्दो गृह्यते, किन्तु नम - आदिशब्दवत् पर्याप्तिवाचकस्यैवालंशब्दस्य कथन्न ग्रहणम्, पर्याप्तिपर्यायस्य सामर्थ्यादिशब्दस्य वा कथं ग्रहणमिति पूर्वपक्षनिरासार्थमेव योगग्रहणमिति मनसिकृत्याह - योगग्रहणबलाद् इति । एतत्पर्यायेणार्थं दर्शयति- समर्थ इत्यादि । एवं 'पर्याप्तो मल्लो मल्लाय । प्रभवति मल्लो मल्लाय । प्रभुर्मल्लो मल्लाय' इत्यादि कर्मणि बोध्यम् ।
___ ननु ‘ममायं प्रभुः' इति कथं षष्ठ्याः प्रयोगः, नित्यं चतुर्थीप्राप्तेः । पाणिनीयमतानुसारिणस्तु ‘स एषां ग्रामणीः' इति सूत्रनिर्देशाद् ग्रामण्यादियोगे षष्ठ्यपीत्याहुः । तदभावादस्मन्मते कथं षष्ठी स्यादिति ? सत्यम् । 'कर्तृकर्मणोः' इत्यत्र नित्यग्रहणात् प्रकरणेऽस्मिन्नित्यत्वमिति । तेन पक्षे षष्ठ्यपि पूर्वतश्चकारानुवर्तनाद् वा । तथा च भट्टिकाव्ये उभयथा प्रयोगः । 'यक्षेन्द्रः शक्तिमच्छासीन्नाप्रोथीदस्य कश्चन' इति । तथा 'तस्माद् वनैरपत्रेपे पुप्रोथास्मै न कश्चन' इति पुप्रोथेति । 'पोथै पर्याप्ती' (१।५७७) इत्यस्य रूपम् । _ 'गुरवे नमः' इत्यादौ नमःशब्दो नमस्कारे निपातितः 'देवायेदं पुष्पं नमः' इत्यादौ तु नमआदिशब्दो वस्तुवचनस्तेन 'नम स्वाहास्वधावषटां दानार्थतया संप्रदाने चतुर्थी सिध्यति किं सूत्रेणेति पूर्वपक्षो निरस्तः । 'स्वधा पितृभ्यः' इत्यादिष्वपि पितॄणामिदं वस्तु इत्यर्थावगतेः । अथवा 'श्रौषड्-वौषड्' इत्यादिव्यवच्छेदार्थं तेषामुपादानम्, तेन एषां संप्रदानत्वेऽपि चतुर्थीनिषेधः साध्यते । ततश्च ‘अग्नेः श्रौषड्, इन्द्रस्य वौषड्' इत्यादौ कारकत्वविवक्षायामपि षष्ट्येव ! ।
वस्तुतस्तु तादर्थ्यविवक्षायां चतुर्थीसिद्धौ वचनमिदं प्रपञ्चार्थम् । ननु 'नारायणं नमस्कृत्य' इत्यादौ कथं द्वितीया ? सत्यम् । नमःकृञ्योगे द्वितीया विभाषयेति कुलचन्द्रः। वस्तुतस्तु यदा नमःशब्दात् परः कृञ् भवति तदा साक्षाप्रभृतीनि चेति नमःशब्दस्य पाणिनिसूत्रेण पक्षे गतिसंज्ञा विधीयते । गतिश्च द्योतक इत्यर्थः । ततश्च गतिसंज्ञापक्षे नमःशब्दः कृञ्योगे प्रादिवद् द्योतको भवति, तत्र करोतेः क्रियासामान्यवाचित्वात् तस्य नतिरूपो योऽर्थस्तं द्योतयति । तत्र 'नारायणं नमस्कृत्य' इति क्रियाव्याप्यत्वाद् द्वितीयैव कारकविभक्तेर्बलीयस्त्वान्निरर्थकत्वेन नारायणमित्यनेन योगाभावाच्च । अर्थद्वारा हि शब्दयोग इति । तथा चोक्तम् -
Page #202
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
ततस्तेषां विवेकार्थं नमस्कृत्य मुनित्रयम्।।
दर्शितं वाभटेनेदं बालानां बुद्धिवर्धनम् ॥ इति । यदा तु नमःशब्द एव नमस्कारवाची करोतेः क्रियायाः कर्मभावमापन्नस्तदा चतुर्थी । तथा च भट्टिः
नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च।।
रावणाय नमस्कुर्याः स्यात् सीते स्वस्ति ते ध्रुवम् ॥ 'देवान् नमस्यति' इत्यत्र यिनन्तस्य नमस्यधातोः क्रियाव्याप्यत्वेन कारकविभक्तित्वात् सदा द्वितीयैव । यदा नमःशब्दस्य करोत्यर्थप्रणामद्योतकता, तदैव गतिसंज्ञायां सत्यां "नमःपुरसोर्गत्योः" (अ०८।३।४०) इति विसर्जनीयस्य सकारः । तेन 'रावणाय नमस्कुर्याः' इति भट्टिप्रयोगे द्योतकत्वाभावान्न सकारः । 'स्वयम्भुवे नमः कृत्य' इति विसर्गान्तः पाठोऽशुद्ध एव । तथाहि यदि नमस्कारवाची तदा गतिसंज्ञाया अभावात् सत्वं क्त्वो यप् च न स्यात् । यदि च द्योतकः स्यात् तदा सत्त्वादिसिद्धावपि चतुर्थी न स्यात् । यदि तु प्रयोगः प्रामाणिकः स्यात् तदा अत्र ‘नमस्कृत्य स्वयंभुवे' इत्यादौ तादर्थ्यविवक्षयैव चतुर्थी । अत्र नमःशब्दस्य कृत्वेति सविसर्गः क्तान्त एव पाठश्चतुर्थ्यप्यनेनैव ।
ननु किमर्थमिदं तादर्थ्य चतुर्थैव सिद्धं 'श्रौषड्, वौषड्' इत्यादियोगे चतुर्थीनिषेधार्थं वचनमिति । तन्न, वौषट्शब्दादियोगे चतुर्थीदर्शनात्, 'कवचाय हुँ, अस्त्राय फट्' इत्यादि । टीकाकारेण प्रपञ्चार्थमिति यदुक्तं तदेव भद्रमिति । नमःशब्दयोगे क्वचिच्चतुर्थ्यर्थं वचनमिति वैयः। तर्काचार्यस्यापि मतमेतत् ।। ३११।
[समीक्षा]
'नमः, स्वस्ति, स्वाहा, स्वधा, अलम्, वषट्' शब्दों के योग में लिङ्ग = प्रातिपदिक से चतुर्थी विभक्ति का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - "नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च" (अ०२।३।१६) उभयत्र प्रक्रिया तथा सूत्र-शब्दावली में प्रायः साम्य ही है । इन परिगणित शब्दों में केवल ‘अलम्' शब्द का निर्देश अर्थपरक है । इससे पर्याप्त्यर्थक ही ‘अलम्' शब्द के योग में चतुर्थी होती है, 'भूषण-वारण' अर्थों में नहीं।
Page #203
--------------------------------------------------------------------------
________________
१६१
नामचतुष्टयाध्याये चतुर्षः कारकपादः [विशेष वचन] १. नियतप्रयोगा हि केचिदव्ययाः (क० च०)। २. वस्तुतस्तु तादर्थ्यविवक्षायां चतुर्थीसिद्धौ वचनमिदं प्रपञ्चार्थम् (क० च०)। [रूपसिद्धि]
१. नमो देवेभ्यः। देवों को नमस्कार है । नमस्कार = करशिर संयोगादिरूप । 'नमः' शब्द के योग में प्रकृत सूत्र से चतुर्थी । देव+भ्यस् । “धुटि बहुत्वे त्वे" (२।१।१९) से अकार को एकार तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसगदिश ।
२-७.स्वस्ति प्रजाभ्यः प्रजा+भ्यस् । स्वाहा अग्नये। अग्नि + डे | स्वधा पितृभ्यः। पितृ + भ्यस् । अलं मल्ले मल्लाय। मल्ल + उ । समर्थो मल्लो पल्लाय । वषतिन्द्राय । इन्द्र + 3 । पूर्ववत् सर्वत्र चतुर्थी विभक्ति । ड़े को य, पूर्व स्वर को दीर्घ ।।३११।
३१२. तादर्थे [२।४।२७] [सूत्रार्थ]
तादर्थ्य = तन्निमित्त अर्थ के द्योत्य होने पर लिङ्ग से चतुर्थी विभक्ति होती है ।।३१२।
[दु० वृ०]
सोऽर्थोऽस्येति, तस्मै इदमिति वा तदर्थम् । तदर्थभावे द्योत्ये लिङ्गाच्चतुर्थी भवति । यूपाय दारु । रन्धनाय स्थाली । श्राद्धाय निगलते । युद्धाय सन्नह्यते । पत्ये शेते ।तथा मूत्राय संपद्यते यवागूः । मूत्राय संकल्पते ।वाताय कपिलिका विद्युत् ।।३१२। __ [दु० टी०]
तादर्थे। यस्मै दातुं संकल्पयितुम् इच्छा मतिरित्याह-तादर्थ्यमिति । तच्छब्देन विकृतेरभिसंबन्धः, अर्थशब्देन च प्रकृतेः । तस्मै इदमिति वेति यथाभिधानमर्थशब्देन समास इति भावः। भावे यणित्याह - तदर्थभावे द्योत्ये इति । तदर्थभावो निमित्तनिमित्तिसंबन्धः, तस्मिन् प्रकाश्य षष्ठ्यां प्राप्तायां चतुर्थीयं षष्ठीवदप्रधानादेव निमित्तशब्दाच्च न “हेतौ तृतीया" (२।४।३०) हेतुसंबन्धस्य चतुर्थेवोक्तत्वादन्तरङ्गं
Page #204
--------------------------------------------------------------------------
________________
१६२
कातन्त्रव्याकरणम् च प्रथमाविधिरिति । श्राद्धार्थं निगलते कुत्सयतीत्यर्थः । युद्धार्थं संनह्यते सन्नहनं करोतीत्यर्थः । पत्यर्थं कस्याश्चिद् देवतायाः पुरः शेते इत्यर्थः । तथा मूत्राय संकल्पते यवागूः, मूत्राय संपद्यते यवागूः । या मूत्रं सम्पद्यते सा मूत्रार्था भवतीति ।
वाताय कपिलिका विद्युदिति । ननु वातस्य निष्पत्तौ न विद्युतो निमित्तत्वम्, अपि तु स्वकारणस्यैव विद्युता अनुसूच्यते इति कथं तादर्थ्यम् ? सत्यम् । यस्तु यस्य ज्ञापकः, स तदर्थ एव । वातार्थत्वात् कपिलिकाया विद्युत इति । क्लृप्त्यर्थे सम्पद्यमाने कर्तरि, उत्पातेन ज्ञाप्यमाने चतुर्थी न वक्तव्येति । तथा एधेभ्यो व्रजति, फलेभ्यो व्रजति । तादर्थ्यविवक्षेति वक्ष्यति । तथाहि य एधानाहर्तुं व्रजति स एधार्थं व्रजतीति तादर्थ्यम् अस्ति । क्रियार्थक्रियोपपदस्य गम्यमानत्वात् तदप्रयोगे कर्मणि चतुर्थी न वक्तव्येति स्वभावात् शब्दस्य तादर्थ्यनिष्ठत्वाद् आहर्तुमित्यादिक्रियायामविवक्षितायामिति | न तथा प्रविश पिण्डीम्, प्रविश तर्पणम्, प्रविश गृहम्, पिण्डी भक्षय, गृहं प्रविश, तर्पणं पिब' इति नियोगवाच्यो वाक्यार्थ इति ।।३१२।
[वि० प०]
तादर्थे । ननु तादर्थ्य इति कथमिदमुच्यते,न खल्वेतच्छर्ववर्मकृतसूत्रमस्तीति ? सत्यम् । संप्रदान एवेयं चतुर्थी । तथाहि यस्मै दित्सेति । यस्मै दातुं संकल्पयितुमिच्छा मतिर्भवति तत् सम्प्रदानमिति। अत्र तु वृत्तिकृता मतान्तरमादर्शितम् । इह हि प्रस्तावे चन्द्रगोमिना (चा० २।१।७९) प्रणीतमिदमिति । तथा क्रियायोगे चतुर्थी न वक्तव्येत्याह- श्राद्धायेत्यादि । श्राद्धार्थं कुत्सयति, युद्धार्थं सन्नहनं करोति, पत्यर्थं कस्याश्चिद् देवतायाः पुरतः शयनं करोतीत्यर्थः । तथा क्लृपि सम्पद्यमाने चतुर्थीत्यपि न वक्तव्यम् । क्लृप्त्यर्थधातुप्रयोगे सम्पद्यमाने कर्तरि तादर्थ्यस्य विद्यमानत्वादित्याह - तथेति । या हि मूत्रं सप्पद्यते यवागूः सा मूत्रार्थेति । तथा उत्पातेन ज्ञाप्यमाने चतुर्थी न्यायादेव सिद्धा । उत्पातस्य कपिलिकाया विद्युतो वातार्थत्वात् । कथं पुनर्वातार्थत्वं विद्युतः, यावता वातो हि स्वकारणकलापादेवोत्पद्यते, केवलं विद्युता ज्ञाप्यते इति चेत् ? सत्यम् । यद् यस्य ज्ञापकं तत् तदर्थमित्यदोषः ।।३१२।
[क० च०]
तादर्थे । ननु 'कृत्तद्धितसमासेभ्यस्त्वतल्भ्यां संबन्धाभिधानम्' (सीर० परि० १३०) इति न्यायात् तादर्थ्यपदेन तदर्थसंबन्ध उच्यते । ततश्च संबन्धस्योभयनिष्ठत्वाद्
Page #205
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
यथा यूपशब्दाद् भवति तथा दारुशब्दादपि स्यात् । नैवम् । दारुशब्दादन्तरङ्गत्वात् प्रथमैवास्तीति टीकाकारः । [ अत एव सोऽर्थोऽस्येत्यत्र तच्छब्देन विकृतेरभिधानसंबन्धः । तस्मै इदमित्यत्र तदुद्देश्यकमिदमिति । तदर्थभावे द्योत्य इति - तदर्थभावो निमित्तनैमित्तिकस्य संबन्धः । तस्मिन् प्रकाश्ये षष्ठ्यां प्राप्तायां चतुर्थी, षष्ठीवदप्रधानादेव निमित्तशब्दाद्धेती न तृतीया हेतुसंबन्धस्य चतुर्ध्या उक्तत्वादन्तरङ्गश्च प्रथमेत्युच्यते ] ।
1
१६३
न च यूपाय दारुणो धनम् इत्यत्रापि प्रथमाविरहाच्चतुर्थी स्यादिति वाच्यम् । . अत्रापि विशेष्यीभूतधनसंबन्धापेक्षया षष्ठ्या एवान्तरङ्गत्वात् । नहि सा हि विशेष्यीभूतधनसंबन्धेन विहिता षष्ठी कथं विशेषणीभूतयूपसंबन्धाश्रितया चतुर्थ्या बोध्यताम् । भोक्तुमोदनस्य पाचकश्छात्र इत्यादौ दोषात् । अथ तर्हि 'दारुणा यूपः ' इत्यत्र दारुशब्दाच्चतुर्थी स्यात् । तथा च स्वामिनि विधीयमानया षष्ठ्या यथा ‘राजस्वामिकः पुरुषः’ इति धीरुत्पाद्यते, तथा इहापि दारुप्रयोजको यूप इति चतुर्थ्या बुद्धिः स्यात् । न चात्रापि हेत्वर्थे तृतीयैवास्ति बाधिकेति वाच्यम् । हेतौ वाच्ये यस्य यूपादेर्हेतुर्दार्वादिस्तस्माद् यूपादेस्तृतीयेति सूत्रार्थं विधाय 'यूपाय दारु' इत्यादौ तस्य विषय इति वैपरीत्यस्यापि सुवचत्वात् ।
अथ तत्र श्रुतत्वाद् हेतुवाचकादेव तृतीया भविष्यतीति चेत्, इहापि तदर्थवाचकादेव चतुर्थी स्यादिति विनिगमनाभावश्चेदुच्यते - अत्र तच्छब्दस्यार्थस्तदर्थः, तदर्थशब्दस्यार्थश्चेति द्वयमेव श्रुतम् । हेत्वर्थ इत्यत्र तु हेतुरेव श्रुत इति ततश्चोभयत्र श्रुतव्याख्यायां सत्यां तत्र श्रुते हेतौ हेतुवाचकात् तृतीयैव । अत्र सूत्रपारिशेष्यादेव श्रुतत्वात् तच्छब्दवाच्याच्चतुर्थीति वक्तुं शक्यते एवेति । यदीदमपि श्रुतमिति कृत्वा तदर्थवाच्यादनेन चतुर्थी विधीयते, तदा अश्रुतादेव तृतीया स्यादिति । तस्मादुभयत्र 'श्रुतसंभवेऽश्रुतकल्पनाया अनौचित्यम्' इति । वृत्तौ द्योत्य इति यदुक्तं तत् पञ्चकपक्षमवलम्ब्यैव । ननु यदि प्रयोजनवाचकाच्चतुर्थी तर्हि कथं 'ब्राह्मणाय पयः' इत्यादिप्रयोगः । नहि ब्राह्मणः पयसः प्रयोजनम् ? सत्यम् । ब्राह्मणशब्दस्य तृप्तौ लक्षणा, तेन 'ब्राह्मणतृप्तये पयः' इति । अतः पयसः प्रयोजनं तृप्तिरिति । तथा क्रियायोगे चतुर्थीत्यादि नेदं पाणिनिसूत्रम् । तथाहि "कर्मणा यमभिप्रैति स संप्रदानम्” (अ० १ | ४ | ३२) इति सूत्रे कर्मशब्देन क्रियाप्युच्यते । अभि - प्रेत्युपसर्गद्वयोपादानाद् 'ग्रन्थाधिक्येऽर्थाधिक्यम्' इति न्यायात् तेन क्रिययाभिप्रेयमाणस्य संप्रदानसंज्ञेति न्यासः । सा च लक्षणानुरोधाद् गल्ह-सन्नह - शीङां योगेनैवेति पाणिनिमतानुसारिणः ।
Page #206
--------------------------------------------------------------------------
________________
१६४
कातन्त्रव्याकरणम्
श्राद्धाय निगल्हते इत्यादि । श्राद्धं निन्दयतीत्यर्थः । सम्-पूर्वो नहिर्निश्चये कवचधारणे वा वर्तते । शीङ्घातुश्चात्रोपसर्पणपूर्वकशयने वर्तते, तेन 'पतिमुपगृह्य शेते' इत्यपि पाणिनिमतानुसारिणः । [ पत्यर्थं कस्याश्चिद् देवतायाः पुरतः शेते इत्यर्थः] । तथा क्लृपि संपद्यमाने चतुर्थीति । क्लृपीत्यर्थपरो निर्देशः । ततश्च क्लृप्त्यर्थधातुप्रयोगे सम्पत्तिक्रियाविशिष्टे मूत्रादौ चतुर्थीत्यर्थः । मूत्राय सम्पद्यते इत्यादि । यवागूर्विकाररूपेण मूत्ररूपं भूत्वा संपद्यते इत्यर्थः । पयां यद् यस्य ज्ञापकमिति ।
तथा च -
पीता बर्षाय विज्ञेया दुर्भिक्षाय सिता मता ।
बाताय कपिला विद्युदातपाय च रोहिणी ॥ इति ।। ३१२ ।
[समीक्षा]
तादर्थ्यविवक्षा में चतुर्थी विभक्ति का विधान दोनों ही व्याकरणों में किया गया है । जैसे- 'यूपाय दारु, रन्धनाय स्थाली' इत्यादि । परन्तु दो भेद यहाँ ज्ञातव्य हैं.
१. 'पत्ये शेते' के सिध्यर्थ पाणिनीय व्याकरण में "क्रियया यमभिप्रेति सोऽपि सम्प्रदानम्” (अ० १।४।३२ - वा० ) वार्त्तिक, 'मूत्राय कल्पते यवागू. के लिए " क्लृपि सम्पद्यमाने च” (अ० १।४ । ३२ - वा० ) तथा 'वाताय कपिला विद्युत्' के लिए " उत्पातेन ज्ञापिते च' (अ० १ | ४ | ३२ - वा० ) वार्त्तिक सूत्र उपलब्ध होते हैं, परन्तु कातन्त्र में तादर्थ्यविवक्षा से ही चतुर्थी विभक्ति स्वीकार की गई है ।
२. विवरणपञ्जिकाकार त्रिलोचनदास के लेखानुसार प्रकृतसूत्र शर्ववर्मप्रणीत नहीं है, किं च वृत्तिकार दुर्गसिंह ने चान्द्रव्याकरण के इस सूत्र को आवश्यकतानुसार यहाँ सम्मिलित कर लिया है - " ननु तादर्थ्ये इति खल्वेतच्छर्ववर्मकृतसूत्रमस्तीति ? सत्यम् । संप्रदान एवेयं चतुर्थी' मतान्तरमादर्शितम् । इह हि प्रस्तावे चन्द्रगोमिना प्रणीतमिदमिति"
[ रूपसिद्धि ]
कयमिदमुच्यते न 'अत्र तु वृत्तिकृता
(वि० प० ) ।
·
१. यूपाय दारु । यूप + ङे (चतुर्थी) । 'यूप = यज्ञीय स्तम्भ के निर्माणार्थ यह काष्ठ है' इस प्रकार तादर्थ्य की विवक्षा में चतुर्थी विभक्ति | “ङेर्यः” (२।१।२४) से ङे को 'य' आदेश तथा पूर्ववर्ती हस्व अकार को दीर्घ आदेश |
Page #207
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः २-८. रन्धनाय स्थाली। रन्धन + 3 | श्राद्धाय निगल्हते। श्राद्ध +डे । युद्धाय संनझते ।युद्ध + |पत्ये शेते ।पति + डे | मूत्राय संकल्पते यवागूः, मूत्राय संपयते यवागूः। मूत्र + । वाताय कपिला विद्युत् । वात +3 । 'पत्ये' को छोड़कर सर्वत्र “डेर्यः" (२।१।२४) से 'हे' के स्थान में 'य' आदेश तथा “अकारो दीर्घं घोषवति" (२।१।१४) से पूर्व अकार को दीर्घ । पति + डे-ए' इस अवस्था में "इवर्णो यमसवर्णे न च परो लोप्यः" (१।२।८) सूत्र द्वारा इकार को एकारादेश ।।३१२)
३१३. तुमर्थाच्च भाववाचिनः [२।४।२८] [सूत्रार्थ]
'तुम्' प्रत्यय के समानार्थक जो भाववाची प्रत्यय, तदन्त लिङ्ग = प्रातिपदिक से चतुर्थी विभक्ति होती है ।।३१३ ।
[दु० वृ०]
तुमा समानार्थभाववाचिप्रत्ययान्ताल्लिङ्गाच्चतुर्थी भवति । "भाववाचिनश्च" (४।४।७०) इति वक्ष्यति । पाकाय व्रजति । पक्तये व्रजति । तुमर्थादिति किम् ? पाकस्य, त्यागस्य | एधेभ्यो व्रजति, फलेभ्यो व्रजति- तादर्थ्याच्चतुर्थ्या सिद्धम् ।।३१३।
[दु० टी०]
तुमर्थाच्च० । तुमर्थोऽर्थोऽस्येति गतार्थत्वाद् वृत्ती अर्थशब्दो न प्रयुज्यते इति हृदि कृत्वाह- तुमा समानार्थेति | भावं वक्तुं शीलमस्येति नाम्न्यजातौ णिनिः । येन विधिस्तदन्तस्येत्याह-भाववाचिप्रत्ययान्तादिति । क्रियया क्रियार्थोपपदभूतया तादर्थ्यस्य द्योतितत्वात् तादर्थ्य चतुर्थी न प्राप्नोति सम्बन्धलक्षणा षष्ठी प्राप्ता हेतुहेतुमद्भावविवक्षायां वा हेतौ तृतीया चतुर्थीयमुच्यते । भाववाचिन इति किमर्थम् ? कारकस्य व्रज्या ॥३१३।
[वि० प०]
तुम० । पाकाय व्रजतीत्यादि । एतेषु क्रियायां क्रियार्थायाम् उपपदे भविष्यदर्थे "भाववाचिनश्च" (४।४।७०) इति घञादिप्रत्ययः । एधेभ्य इत्यादि । एधानाहर्तुं व्रजतीति गम्यमानाहरणक्रियाभिसंबन्धात् कर्मत्वं प्राप्नोति । यथा प्रविश पिण्डी भक्षय' इति गम्यमानक्रियायोगात् पिण्डीमिति कर्मत्वं ततश्चतुर्थ्यर्थं ‘क्रियार्थक्रियोपपदस्य कर्मणि स्थानिनः' इति वक्तव्यम् ।
Page #208
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
अस्यार्थः। क्रियार्था क्रिया उपपदं यस्य स्थानिनोऽप्रयुज्यमानस्याहर्तुमित्यादेः पदस्य तस्य कर्मणि चतुर्थीति । तन्न वक्तव्यम् । यो हि एधानाहर्तुं व्रजति स एधार्थं व्रजतीति शब्दस्य तादर्थ्यनिष्ठत्वाद् इत्याह - तादविवक्षेति । आहर्तुमित्यादि । तुमन्तक्रियापदमत्र न विवक्षितमेवेति । तद्विवक्षामन्तरेणापि वाक्यार्थस्य सङ्गतिरिति । ‘प्रविश पिण्डीम्' इत्यादी पुनरवश्यं विवक्षितव्यः क्रियासंबन्धः, न ह्यन्यथा वाक्यार्थसङ्गतिः स्यात् । तथाहि 'प्रविश गृहम्, पिण्डी भक्षय' इति गम्यते ॥ ३१३ । [क० च० ]
१६६
तुम० । [तुमर्थोऽर्थोऽस्येति मध्यपदलोपी समासः । येन विधिस्तदन्तस्येति भाववाचिनःप्रत्ययान्तादित्युक्तम् । ननु किमर्थमिदं पाकाय व्रजतीत्यादौ ' तादर्थ्ये' इत्यनेन सिद्धत्वान्नैवं हेतुमद्भावस्य विद्यमानत्वाद् हेतौ तृतीया स्यादिति वचनमिति टीका ] । पाकस्य त्यागस्येति । ‘पाकस्य व्रजति, त्यागस्य व्रजति' इति संबन्धमात्रविवक्षायां षष्ठीत्यर्थः ।
[पाकस्य त्यागस्येत्यत्र लिङ्गस्यान्तरङ्गत्वात् प्रथमा इति वक्तुं युज्यते कथं षष्ठी ? सत्यम् । संबन्धमात्रविवक्षायां षष्ठीति प्रतिपत्तव्यम् । यद् वा करणमित्यध्याहारात् त्यागस्येति षष्ठीयं पाकस्य त्यागकारणमित्यर्थः । हितसुखाभ्यां योगे तादर्थ्ये चतुर्थी संबन्धविवक्षायां षष्ठी । राज्ञे हितमिति । तेन चतुर्थी हितसुखेनेति श्रीपतिना यदुक्तं तद् ध्येयम् । एवम् आशिष्यर्थकुशलमद्रायुष्यार्थेनेति । प्रजाभ्योऽर्थः प्रजानामर्थो भूयाद् इत्यादि आशिष्यर्थे वेति वचनं नोपादेयम् । तथा 'एधान् आहर्तुम्, रथम् आरोढुं व्रजति' इत्यर्थे द्वितीयाबाधनाय नित्यं कर्मणि तुमोऽप्रयोगिण इति निष्फलम् । ‘एधेभ्यो व्रजति’ इत्यादेस्तादर्थ्यचतुर्थ्येव सिद्धत्वात् । यद् वा अप्रयुज्यमानस्य तुमः कर्मणि तादर्थ्ये चतुर्थी । प्रयुज्यमाने तु ‘एधानाहर्तुं व्रजति' इति वाक्ये द्वितीयैव व्याप्यत्वात् । अत एव नैयासिका अपि अप्रयुज्यमानस्यापि कर्मण्येव, यद् वा स्यादिह मा भूत् 'एधानाहर्तुं व्रजति' इत्याहुः]।। ३१३।
[समीक्षा]
'पाकाय व्रजति, त्यागाय व्रजति' आदि में चतुर्थी विभक्ति का विधान दोनों व्याकरणों में किया गया है । पाणिनि का भी एतादृश सूत्र है - "तुमर्थाच्च भाववचनात्” (अ० २।३।१५) । “भाववाचिनश्च " ( अ० ४।४।७०) सूत्र से 'घञ् -
Page #209
--------------------------------------------------------------------------
________________
११७
नामचतुष्टयायाये चतुर्षः कारकपादः क्ति' आदि प्रत्यय विहित हैं, तदन्त 'पाक-संपत्ति' आदि शब्दों से प्रकृत सूत्र द्वारा चतुर्थी का विधान है।
[रूपसिद्धि]
१. पाकाय व्रजति । 'पच्' धातु से भाववाची तुमर्थक ‘घञ्' प्रत्यय होकर निष्पन्न होने वाले 'पाक' शब्द से प्रकृत सूत्र द्वारा चतुर्थी विभक्ति । पाक +डे । "उर्यः" (२।१।२४) से डे को य-आदेश तथा "अकारो दीर्घं घोषवति" (२।१।१४) से पूर्ववर्ती अकार को दीर्घ ।
२. पक्तये व्रजति । पच्-धातु से क्ति-प्रत्यय होने पर निष्पन्न होने वाले 'पक्ति' शब्द से प्रकृत सूत्र द्वारा चतुर्थी विभक्ति । पक्ति + डे-ए । “डे" (२।१।५७) से 'इ' को 'ए' तथा “ए अय्” (१।२।१२) से अयादेश ।। ३१३ ।
___३१४. तृतीया सहयोगे [२।४।२९] [सूत्रार्थ] 'सह' शब्द के योग में लिङ्ग प्रातिपदिक से तृतीया विभक्ति होती है ।।३१४। [दु० वृ०]
सहार्थेन योगे लिङ्गात् तृतीया भवति । पुत्रेण सहागतः । पुत्रेण सह स्थलः । पुत्रेण सह गोमान् । पुत्रेण साकम् । पुत्रेण सार्धम् । पुत्रेण समम् । तथा पुत्रेण आगतः । स्थूलो गोमानिति तृतीयापि षष्ठीवदप्रधानादेव ।।३१४।
[दु० टी०]
तृतीया० । सहार्थे सहशब्द इत्याह - सहार्थेन योग इति । स च क्रियागुणद्रव्यैः संबन्धे सति इत्याह - पुत्रेण सहागत इत्यादि । अथवा सर्वत्र भवतेर्गम्यमानत्वात् क्रियासंबन्ध एवेति | सहार्थशब्दगम्यमानत्वाद् अप्रयोगेऽपि सहार्थयोगोऽस्तीति । पुनस्तृतीयां दर्शयति । तथा च "दिगितरर्तेऽन्येश्च, कर्मप्रवचनीयैश्च" (२।४।२१,२३) तस्य तेन समास इत्यादयः । प्रधाने लिङ्गार्थस्यान्तरङ्गत्वात् प्रथमैवास्तीत्याहतृतीयापीत्यादि । 'पित्रा सहागतश्छात्रः' इति । वस्तुतः प्रधानस्याप्रधानविवक्षा शिष्येण सहागतस्योपाध्यायस्य गौरित्यत्राप्रधानाद् उत्पन्नया तृतीयया उभयगतसहभाव उक्तः
Page #210
--------------------------------------------------------------------------
________________
१६८
कातन्वयाकरणम् इति । शिष्यमपेक्ष्य प्रधानां गां प्रति विशेषणतया गुणीभूतत्वात् स्वस्वामिसम्बन्धप्रतिपादनाय षष्ठी स्यादेव । प्रधानस्य क्रियासंबन्धादप्रधानस्य यद्यपि (वस्तुतः) आगमनं प्रति कर्तृत्वमस्ति, तथापि सहभावमात्रं शब्देनोदितम् । विवक्षितं वा कर्तृत्वं सामर्थ्यादर्थादनुमेयमिति, अतस्तृतीयेयमुच्यते ।। ३१४।
[वि० प०]
तृतीया०। सहार्थेन योग इत्यनेन सहार्थे सहशब्द इति दर्शितम् । सहार्थयोगश्च क्रियागुणद्रव्यैर्भवति । क्रमेणोदाहरति - 'पुत्रेण सहागतः' इत्यादि । सहार्थशब्दप्रयोगमन्तरेणापि तदर्थयोगविवक्षायां तृतीयां दर्शयति । तथेत्यादि । 'पुत्रेण स्थूलः, पुत्रेण गोमान्' इति प्रत्येकम् अभिसंबन्धः। सहार्थयोगस्योभयनिष्ठत्वात् कुतस्तृतीया प्रवर्तताम् इत्याह - तृतीयापीत्यादि । षष्ठीबाधकं प्रकरणमिदम्, षष्ठी चाप्रधानादेव प्रवर्तते । तृतीयापि तत एव युज्यते । यस्माल्लिङ्गार्थस्यान्तरङ्गत्वात् प्रधानात् प्रथमैवास्ति बाधिकेति ।।३१४।
[क० च०]
तृतीया० । सहार्थे सहशब्द इति । एतत्तु योगग्रहणबलादेव लभ्यते, अन्यथा सहेनेति विदध्यात् । क्रियागुणद्रव्यैरिति । ननु चैत्रो मैत्रेण ब्राह्मणत्ववानित्यादौ कथं जात्या सहार्थ उपपद्यते ? सत्यम् । क्रियागुणद्रव्यरित्युपलक्षणमिति केचित् । वस्तुतस्तु धात्वर्थः क्रिया, गुणो गौणः शब्दस्य प्रवृत्तिनिमित्तमिति यावत् । द्रव्यं विशेष्यं यद् यद् विशिष्यते लोके तत्तद् द्रव्यमिहेष्यते' इति वैयाकरणपरिभाषावशादिति । अत एव प्रवृत्तिनिमित्तरूपगुणविशिष्टद्रव्ये लिङ्गवाच्ये बोध्ये 'पुत्रेण सह स्थूलः' इत्यादौ पदार्थैकदेशेन स्थूलत्वेनापि समं पुत्रेणेत्यस्य पदार्थस्य पदान्तरान्वयः । आकाङ्क्षायाः फलवत्कल्प्यत्वेनापि विद्यमानत्वात् । [ पञ्यां तृतीयापि षष्ठीवदप्रधानादेवेति तर्हि कथम् - 'एका सुमित्रा सह लक्ष्मणेन' इत्यत्र प्रधानाल्लक्ष्मणात् तृतीया स्यात् शत्रुघ्नादेव तृतीया प्रयुज्यते कनिष्ठत्वात् । अत्र केचित् शत्रुघ्नस्यैव प्राधान्यात् प्रसवक्रियासमापकत्वाद् इत्याहुः । यस्य क्रियासंबन्धो नास्ति तस्यैवाप्रधानत्वम् । न तु कनिष्ठत्वं लघुत्वं वेति । तेन 'परेण सहागतः' इत्यत्र देवदत्तस्यैव क्रियासंबन्धः कर्तृत्वात्, न पुनः परस्य । तेन 'पित्रा सहागतः पुत्रः' इत्यपि सिद्धमिति ] ||३१४।
Page #211
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१६९
[समीक्षा]
-
'पुत्रेण सहागतः, पुत्रेणागतः' इत्यादि स्थलों में 'सह' शब्द का प्रयोग - प्रयोगाभाव रहने पर तृतीया विभक्ति का विधान दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है - 'सहयुक्तेऽप्रधाने" (अ० २। ३ । १९ ) । कातन्त्रीय सूत्र में 'अप्रधान' शब्द का उल्लेख नहीं है । अतः वृत्तिकार दुर्गसिंह ने उसके समाधानार्थ कहा है- 'तृतीयापि षष्ठीवदप्रधानादेव' । अर्थात् सम्बन्ध में होने वाली षष्ठी जैसे अप्रधान शब्द में प्रवृत्त होती है, वैसे तृतीया भी अप्रधान शब्द से ही होगी | प्रधान में तो प्रथमा विभक्ति बाधिका होती है - 'तृतीयापि तत एव युज्यते, यस्माल्लिङ्गार्थस्यान्तरङ्गत्वात् प्रधानात् प्रथमैवास्ति बाधिकेति' (वि० प० ) ।
[ रूपसिद्धि ]
1
१. पुत्रेण सहागतः । पुत्र के साथ पिता आया । यहाँ आने वाले पिता और पुत्र में आगमन क्रिया का साक्षात् संबन्ध पिता के साथ है, अतः पिता की प्रधानता और पुत्र की अप्रधानता सिद्ध है । अप्रधान 'पुत्र' शब्द में प्रकृत सूत्र द्वारा तृतीया विभक्ति । पुत्र + टा । "इन टा” (२।१।२३) सूत्र से 'टा' को 'इन' आदेश, "अवर्ण इवर्ण ए” (१।२।२) से अ को ए -इ का लोप तथा " रटवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि " ( २।४।४८) से नकार को णकारादेश |
२७. पुत्रेण सह स्थूलः । पुत्रेण सह गोमान् । पुत्रेण साकम् । पुत्रेण सार्धम् । पुत्रेण समम् । पुत्रेणागतः । पूर्ववत् प्रकृत सूत्र द्वारा 'पुत्र' शब्द से तृतीया विभक्ति ।। ३१४।
३१५. हेत्वर्थे [ २।४।३० ]
[ सूत्रार्थ ]
हेत्वर्थाभिधायक लिङ्ग से तृतीया विभक्ति होती है ।। ३१५ । [दु० बृ० ]
हेत्वर्थे वर्तमानाल्लिङ्गात् तृतीया भवति । अन्नेन वसति । धनेन कुलम् | योग्यतामात्रविवक्षया करणे न सिध्यतीति वचनम् || ३१५ ।
Page #212
--------------------------------------------------------------------------
________________
१७०
कातन्त्रव्याकरणम्
[दु० टी० ]
हेत्वर्थे० । हेतुश्चासावर्थश्चेति । अर्थशब्दः सुखप्रतिपत्त्यर्य एव । फलमनिष्पादयन्नपि क्रियायोग्यतया लोके हेतुरुच्यते इत्याह- योग्यतामात्रेत्यादि । क्रियासिद्धावसाधकतमत्वादित्यर्थः । ऋणे हेतौ तृतीयापवादा पञ्चमीष्यते । शताद् बन्धः । कथं शतेन बन्धितः इति हेतुकर्तृत्वात् तृतीया । 'बन्ध बन्धने' (८ । ३२), हेताविन् । तन्न वक्तव्यम् । हेतुकर्तृत्वाविवक्षायां बन्धनादिक्रियानिमित्तत्वात् शतमवधिरिति सिद्धा पञ्चमी । गुणे हेतावस्त्रीलिङ्गे विभाषापि न वक्तव्यैव । अवधिविवक्षया हेतुविवक्षया च सिद्धेति । जाड्याद् बद्धः, जाड्येन बद्धो नास्तीह घटोऽनुपलब्धेरिति । कथमेतेषामभावोऽनुपलब्धित इति । तथा प्रज्ञया युक्त इत्यपि विवक्षया । तथा अग्निरत्र धूमादिति गुणशब्देन सम्बन्धिमात्रं परार्थरूपापन्नं गृह्यते न द्रव्याश्रितमिति किंव्याख्यानमेतत् । संजानातेः कर्मणि विभाषया तृतीयेति न वक्तव्यम् । मात्रा संजानीते । मातरं संजानीते । संप्रतिभ्यां जानाती रुचादिः । जानातेः कर्मणोऽविवक्षितत्वाद् मात्रा करणभूतया संज्ञानं करोति श्रुतत्वान्मातुरेव संज्ञानं तदिति ।
"
स्तोकाल्पकृच्छ्रकतिपयेभ्योऽसत्त्ववृत्तिभ्यो विभाषया करणे पञ्चमीति न वक्तव्यम् । स्तोकान्मुक्तः, स्तोकेन मुक्तः । गुणार्थोऽत्र स्तोकशब्दः । स्तोकस्याभिनिर्वृत्तत्वादिदं प्रयुज्यते । स्तोकेन मुक्तः, स्तोकान्मुक्तः । स्तोकमुक्तौ निष्पन्नं बहु परमनिष्पन्नमित्यर्थः । अनभिनिर्वृत्तौ वा स्तोकस्य प्रयुज्यते । स्तोकेन पतितः, स्तोकात् पतितः । स्तोकमात्रं गतस्तेन पतितः इत्यर्थः । अल्पान्मुक्तः, अल्पेन मुक्तः । कृच्छ्रान्मुक्तः, कृच्छ्रेण मुक्तः । कतिपयान्मुक्तः, कतिपयेन मुक्तः । स्तोकेन मधुना मत्तः, स्तोकान्मधुनो मत्तः इत्यपि विवक्षया भवितव्यमेव प्रतिबन्धकाभावात् । यदा सोऽयमित्यभिसंबन्धात् तद्वति द्रव्ये वर्तन्ते तदा सत्त्वार्था इति । विवक्षातो हि कारकाणि भवन्तीति । यथा बलाहकाद् विद्योतते विद्युत्, बलाहको विद्योतते बलाहके विद्योतते बलाहकेन विद्योतते बलाहकस्य विद्योतते । एक एव बलाहको ऽवधिः पुनश्च कर्ता आधारः करणं संबन्धीति । तस्मात् साध्यसाधनभावस्याविरुद्धत्वात् तदेतद् युक्तमुक्तम् इति । उत्सर्गविधिस्तु यथायथं तत्र दर्शयिष्यामः ।। ३१५ ।
"
,
7
Page #213
--------------------------------------------------------------------------
________________
१७१
नामचतुष्टयाध्याये चतुर्थः कारकपादः [क० च०]
हेतु० । अथ हेतुर्द्विविधः- शास्त्रीयो लौकिकश्च । तत्र "कारयति यः स हेतुश्च" (२।४।१५) इति शास्त्रीयो हेतुः, फलसाधनयोग्यपदार्थो लौकिक इति । तत्र आधे कर्तर्यनुक्ते तृतीया सिद्धैव, उक्ते प्रथमैवास्ति बाधिकेति । तस्माल्लौकिकहेतोरेव ग्रहणं युक्तम् । ननु तथापि 'कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणम्' (व्या० परि० ३६) इति न्यायाद् आद्यस्यैव ग्रहणं युक्तम् । अथाद्यस्य ग्रहणे किं प्रयोजनम् । “कर्तरि च" (२।४।३३) चेत्यनेन तृतीया सिद्धैव । न हि तेनानेन वा तृतीयाविधाने कोऽपि विशेषोऽस्ति चेद्, अस्ति विशेषः । देवदत्तेन वस्तुनो हारणम् इत्यर्थे प्रयोजके हेतौ तृतीयां कृत्वा उक्तार्थत्वादिन्प्रत्ययाभावे सति देवदत्तेन वस्तुनो हरणमिति प्रयोगः स्यात् । अन्वयबोधेऽपि देवदत्तप्रयुक्तं हरणमिति प्रतीतिर्भविष्यति । ___ न चायमर्थः- कर्तरि तृतीया लभ्यते, नापि सा बाधिका तद्विषय एवास्य सूत्रस्य हेतुत्वमादायैवापवादत्वादुच्यते हेतौ वर्तमानाल्लिङ्गात् तृतीया विधीयते । स चार्थोऽन्वयव्यतिरेकाभ्यां तृतीयायाः कल्प्यते । तेन च प्रयोजकाद्धेतोर्विधीयमानया तृतीययाऽन्वयव्यतिरेकाभ्यां तस्य हेतुत्वं प्रत्याय्यते, किन्तु धातोर्विहितेन इन्प्रत्ययेनैव उक्तार्थत्वात् प्रयोज़के तृतीयाविधानमनर्थकमिति तस्माल्लौकिकस्यैव हेतोर्ग्रहणम् इति । [लौकिकत्वं किन्तावदित्याह - फलमनिष्पादयन्नपि क्रियासु योग्यतया लोके हेतुरुच्यते, अतः क्रियासिद्धौ साधकतमत्वाभावात् करणता नास्तीत्याह - योग्यतामात्रेत्यादि । एतेनानस्य वसतिक्रियायां योग्यतामात्रम्, न तु साधकत्वमिति] ।।३१५।
[समीक्षा ]
हेत्वर्थ में वर्तमान लिग = प्रातिपदिक से तृतीया विभक्ति का विधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है- “हेतौ" (अ० २।३।२३)। अन्तर यह है कि जब यह प्रश्न प्रस्फुरित होता है- करण और हेतु के समान होने के कारण करण से ही तृतीया के सिद्ध हो जाने पर 'हेत्वर्थ' में तृतीयाविधान की क्या आवश्यकता है ? इसका समाधान पाणिनीय व्याख्याकार हेतु और करण की भिन्न भिन्न परिभाषा देकर करते हैं, जबकि कातन्त्र में वृत्तिकार दुर्गसिंह ने कहा है – 'योग्यतामात्रविवक्षया करणे न सिध्यतीति वचनम्' । अर्थात् करण तो क्रिया
Page #214
--------------------------------------------------------------------------
________________
१७२
कातन्वव्याकरणम्
का साधकतम होता है । अतः यह फल निष्पत्ति अवश्यमेव करता है । परन्तु हेतु उसे कहते हैं जो फलनिष्पादक न होने पर भी क्रिया करने की योग्यतामात्र रखता हो । पाणिनीय व्याकरण के व्याख्याकार भट्टोजिदीक्षित ने इसे विस्तार से कहा है - "द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः, पुण्येन गौरवर्णः, पुण्येन दृष्टो हरिः" (सि० कौ०कारक० २।३।२३)।
[रूपसिद्धि]
१. अनेन वसति । अन्न के कारण निवास करता है । यहाँ निवास कराने की योग्यता तो अन्न में है, परन्तु साधकतमता नहीं है । अतः 'अन्न' हेतु है करण नहीं है । इससे प्रकृत सूत्र द्वारा तृतीया विभक्ति । अन्न +टा । "इन टा" (२।१।२३) से 'टा' को इन, तथा “अवर्ण इवणे ए" (१।२।२) से अ को ए-इकारलोप ।
२. धनेन कुलम् । धन से वंशमर्यादा सुरक्षित रहती है । यहाँ वंशमर्यादा बनाए रखने की योग्यता धन में है, अतः हेतु होने के कारण 'धन' प्रातिपदिक (लिङ्ग) से प्रकृत सूत्र द्वारा तृतीया विभक्ति ।।३१५।
[विशेष वचन] १. योग्यतामात्रविवक्षया करणे न सिध्यतीति वचनम् (दु० वृ०)।
२. अर्थशब्दः सुखप्रतिपत्त्यर्थ एव । फलमनिष्पादयन्नपि क्रियायोग्यतया लोके हेतुरुच्यते (दु० टी०).
३. 'अग्निरत्र धूमात्' इति गुणशब्देन सम्बन्धिमात्रं परार्थरूपापन्नं गृह्यते न द्रव्याश्रितमिति किंव्याख्यानमेतत् (दु० टी०)।
४. हेतुर्द्विविधः शास्त्रीयो लौकिकश्च । तत्र “कारयति यः स हेतुश्च" (२।४।१५) इति शास्त्रीयो हेतुः। फलसाधनयोग्यपदार्थो लौकिक इति (क० च०)।
५. हेत्वधीनः कर्ता, कर्बधीनं करणम् (वं० भा०) ॥३१५ ।
Page #215
--------------------------------------------------------------------------
________________
१७३
नामचतुष्टयाध्याये चतुर्वः कारकपादः
३१६. कुत्सितेऽगे [२।४।३१] [सूत्रार्थ] निन्दार्थबोधक अङ्गवाची शब्द से तृतीया विभक्ति होती है।।३१६। [दु० वृ०]
कुत्सितेऽङ्गे वर्तमानाल्लिङ्गात् तृतीया भवति । अक्ष्णा काणः । पादेन खञ्जः । पृष्ठेन कुब्जः । अक्षि काणम् अस्येति प्रधानत्वात् प्रथमैव ।।३१६।
[दु० टी०]
कुत्सि०। षष्ठीवदप्रधानादेवेति । अवयवधर्मेण समुदायो विशिष्यत एव । यथैकदेशस्याढ्यत्वेन नगरस्याढ्यत्वमुच्यते । भिन्नाधिकरणे वा सप्तमी अङ्गपदसान्निध्यादर्थादङ्गिनि कुत्सिते गम्यमानेऽङ्गे कुत्सिते वर्तमानादित्यर्थः । अङ्गशब्दो वा समुदायार्थः । यथा ‘अङ्गमुद्वर्तयति' शरीरमिति गम्यते । अर्शआदित्वाद् अत्प्रत्ययो वा ।संजाता कुत्सा अस्येति कुत्सितम्,तारकादित्वादितच्प्रत्ययो दृश्यते ।षष्ठ्यपवादत्वाद् भेदकोऽवयव इति गम्यते । तेनायमर्थः- अङ्गे शरीरे कुत्सिते गम्यमाने भेदकादवयवात् तृतीया भवति, अर्थादित्याह – 'अक्षि काणमस्य' इति । प्रधानात् प्रथमैव, इतरत्र षष्ठी स्यादेव । कुत्सितस्याङ्गिना सह गम्यमानत्वात् काणादयो हि गुणवचनास्तद्वति वर्तन्ते । ननु काणादीनां नियतविषयत्वाद् अक्ष्यादीनामप्रयोग एव व्यावृत्त्यभावात् ? सत्यम् । सामान्योपक्रमे विशेषप्रयोग इति, तथा लोके विवक्षादर्शनाद् अक्ष्णेत्युक्ते हि सन्देहः, किमनेन विवक्षितमिति काण इत्युच्यते ? यथा द्वौ घटावानयेति काणोऽक्ष्णेति प्रयोगो दुष्ट एव तस्माद् विशेषण इत्यनेन न सिध्यति कथं केनचित् प्रत्याख्यातम् इति ।।३१६।
[वि० प०]
कुत्सि० । इहापि षष्ठीवदप्रधानादेव तृतीया प्रवर्तते । यदा काणादयः शब्दा अवयवविषयाः सन्तस्तद्धर्मयोगादवयविनि समुदाये वर्तन्ते तदा अक्ष्यादीनामप्राधान्यम्, यदा तु केवलमवयववृत्तयस्तदा तेषामेव प्रतिपाद्यत्वात् प्रधानत्वम् इति । लिङ्गार्थमात्रे प्रथमैवेत्याह - अक्षि काणमित्यादि । ननु काणादयो विशिष्टविषयास्तत्कथम् अक्ष्यादयः प्रयुज्यन्ते व्यवच्छेद्याभावात् । नहि काण इत्युक्ते पादेन शिरसा वेति संदेहोऽस्ति येन
Page #216
--------------------------------------------------------------------------
________________
१७४
कातन्त्रव्याकरणम् तद्व्यवच्छित्तये अक्ष्णेति प्रयुज्यते ? सत्यमेतत् । किन्तु सामान्योपक्रमे विशेषः प्रयुज्यते । अन्यथा ‘अक्ष्णा' इत्युक्ते न ज्ञायते किमनेन विवक्षितम् इति काण इत्युच्यते । यथा 'द्वौ घटावानय' इति काणोऽक्ष्णेति प्रयोगो दुष्ट एव ||३१६।
[क० च०]
कुत्सि० । अत्र "येनाङ्गविकारः" (अ० २।३।२०) इति पाणिनिः। अत्र अङ्गशब्दः शरीरवृत्तिरिति काशिका । येनावयवेनाङ्गस्य शरीरस्य कुत्सा द्योत्यते ततस्तृतीयेत्यर्थः । येनेति करणे तृतीया हेतौ वा । विकार इत्यङ्गस्य हीनाधिकभाव इत्यर्थः । तेन ‘अक्ष्णः पुष्पम्, पादस्य स्फोटः' इत्यादौ न तृतीया शरीरसमुदायस्याङ्गस्य विकाराप्रतीतेरिति ।एतदनुसंधानेनैवास्मत्सूत्रमपि व्याख्येयम् । तथाहि,टीकायां भिन्नाधिकरणे सप्तमीयम् ।कुत्सितशब्दोऽत्राङ्गपदसान्निध्यात् कुत्सिताङ्गिवचनः, अतः कुत्सितेऽङ्गिनि गम्यमानेऽङ्गे वर्तमानाल्लिङ्गात् तृतीया भवति । अर्थाद् यस्याङ्गस्य धर्मेणाङ्गिनः कुत्सा गम्यते तत एव तृतीयेति सूत्रार्थः।
नन्वेवं सूत्रार्थे 'खञ्जस्य पादः' इत्यत्र पादशब्दात् तृतीया कथं न स्यादित्याह - इहापि षष्ठीवदप्रधानादेवेति । लिङ्गार्थमात्रे प्रथमैवास्ति बाधिकेति भावः । कुलचन्द्रस्तु, नन्वङ्गमवयवस्तस्मिन् कुत्सिते तृतीया चेत्, अक्षि काणम् इत्यत्रापि स्यादित्याह - इहापि षष्ठीवदप्रधानादिति । अत एव लिङ्गार्थमात्रे प्रथमैवास्तीति वक्ष्यति इत्याचष्टे । ननु कथम् अक्ष्यादीनां गौणत्वम् इत्याह - यदीत्यादि । अक्ष्यादीनामप्राधान्यमिति विशेषणत्वादिति भावः ।।३१६।
[समीक्षा]
जिस अङ्ग (=अङ्गवाची शब्द) से अङ्गी (शरीर) की निन्दा की जाए, उससे तृतीया विभक्ति का विधान दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है – “येनाङ्गविकारः" (अ० २।३।२०)। शरीर के किसी अङ्ग में विकार पैदा हो जाने से उसकी निन्दा ही होती है । अतः पाणिनीय 'विकार' शब्द की अपेक्षा कातन्त्रीय 'कुत्सा' शब्द का पाठ अधिक स्पष्टावबोधक है।
[विशेष वचन] १. अङ्गशब्दो वा समुदायार्थः (दु० टी०)। २. काणादयो हि गुणवचनास्तद्वति वर्तन्ते (दु० टी०)।
Page #217
--------------------------------------------------------------------------
________________
१७५
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१७५ ३. सामान्योपक्रमे विशेषः प्रयुज्यते (दु० टी०, वि० प०)। ४. अङ्गशब्दः शरीरवृत्तिः (क० च०)। [रूपसिद्धि]
१. अक्ष्णा काणः। अक्षि + टा । यहाँ काणत्व धर्मविशिष्ट शरीर (अङ्गी) के कुत्सित होने से अङ्गवाची शब्द 'अक्षि' में प्रकृत सूत्र से तृतीया विभक्ति ।
२-३. पादेन खनः। पाद + टा | पृष्ठेन कुब्जः। पृष्ठ + टा | अङ्गवाची शब्द ‘पाद' तथा 'पृष्ठ' से तृतीया विभक्ति। तदनुसार "इन टा" (२।१।२३) से टा को 'इन' आदेश तथा “अवर्ण इवणे ए" (१।२।२) से अकार को एकार-परवर्ती इकार का लोप ।।३१६।
३१७. विशेषणे [२।४।३२] [सूत्रार्थ]
विशेषण (विशेष परिचायक या चिह्न वाले) वाची शब्दों से तृतीया विभक्ति होती है ।।३१७।
[दु० वृ०]
विशेषणे वर्तमानाल्लिङ्गात् तृतीया भवति । जटाभिस्तापसमद्राक्षीत् । शिखया परिव्रजाकमपश्यत् । विशेषण इति किम् ? वृक्षं प्रति विद्योतनम् - लक्षणमात्रे न स्यात् । नीलमुत्पलम् इति - लिङ्गार्थमात्रे प्रथमैव ।।३१७।
[दु० टी०]
विशे०। न विना विशेष्येण विशेषणं संभवतीति विशेष्यस्य विशेषणे वर्तमानादित्यर्थः। तच्च विशेषणं यल्लिङ्गार्थस्यान्तरङ्गस्य स्वाम्यादीनां चाविषयः । वस्तुतः कञ्चित् प्रकारमापन्नमेव प्रतीयते । परिव्राजकत्वेन विशिष्टस्य शिखा विशेषणतया विशिष्यमाणत्वादिति मनसिकृत्याह- वृक्षं प्रति विद्योतनमित्यादि । ननु प्रतिना योगेऽत्र द्वितीया बाधिकेति किमिदं प्रत्युदाहृतम् ? सत्यम्, मन्दमतिबोधनार्थमेव । वृक्षेण प्रति विद्योतनं च स्यात् । कश्चिद् विशेषणशब्दो लक्षणार्थ इति मन्यते, अनेकार्थत्वाद् धातूनामिति । 'कमण्डलुपाणिश्छात्रः' इति समासे कमण्डलुः पाणावस्येति वाक्ये नास्ति यथोक्तं विशेषणमिति ।। ३१७।
Page #218
--------------------------------------------------------------------------
________________
१७६
कातन्त्रव्याकरणम्
[वि० प० ]
बिशे० । अद्राक्षीदिति । 'दृशिर् प्रेक्षणे ' (१।२८९ ) । “सिजयतन्याम्” (३।२।२४) इति सिच् । “सिचः” (३।६।९०) इतीट् । “सृजिदृशोरागमः " ( ३।४।२५ ) इति अकारागमः, अस्य च दीर्घः । अपश्यदिति । ह्यस्तन्या दिः । “अन् विकरणः कर्तरि” (३ । २ । ३२) इत्यन् । “दृशेः पश्यः” (३ | ६ | ७६) इति पश्यादेशः । वृक्षं प्रतीति सुखार्थं प्रत्युदाहरणम् | अन्यथा “कर्मप्रवचनीयैश्च” (२ |४| २३) इति द्वितीयैवास्ति बाधिकेति कुतस्तृतीयाप्राप्तिः ।
[क० च० ]
विशे० |" इत्थम्भूतलक्षणे तृतीया " (अ०२ । ३ । २१ ) इति पाणिनिः । अस्यार्थः इत्थंशब्द एवम्प्रकारवाची, तं भूतः प्राप्तः इत्थम्भूतः । कञ्चित् प्रकारमापन्न इति यावत् । तस्य लक्षणे परिचायके वर्तमानाल्लिङ्गात् तृतीयेत्यर्थः । तथा च 'शिखया परिव्राजकमपश्यत्' इत्यत्र परिव्राजकत्वं कश्चित् प्रकारः, सामान्यस्य मनुष्यत्वस्य भेदकस्तमापन्नस्य पुरुषस्य शिखैव लक्षणमिति एतदर्थानुसंधानेनैव शर्ववर्मणापि " विशेषणे" इति सूत्रं प्रणीतम् । तथाहि विशेषणं हि व्यवच्छेदकं तच्च द्विविधम् - समानाधिकरणं व्यधिकरणं च । अत्राद्ये नीलमुत्पलमित्यादौ लिङ्गार्थस्याव्यतिरिक्तत्वात् प्रथमैवास्ति बाधिकेति । अत एव लिङ्गार्थमात्रे प्रथमैवेति वृत्तिरपि संगच्छते ।
--
द्वितीयं द्विविधम् – वस्त्वपेक्ष्यं प्रयोक्त्रपेक्ष्यं च । तत्र वस्त्वपेक्ष्यं यथा - ' राज्ञः पुरुषः' इत्यत्र विशेषणं राजा, स च पुरुषपदार्थेन वस्तुना संबन्धाकाङ्क्षयाऽपेक्ष्यते । . तत्र स्वस्वामिसंबन्धविद्यमानत्वात् षष्ठ्येवास्ति बाधिकेति । प्रयोक्त्रपेक्ष्यं यथा - ‘शिखया परिव्राजकमपश्यत्' इत्यत्र परिव्राजकपदार्थेन पुरुषादिवत् शिखा नापेक्ष्यते अविज्ञातार्थत्वात्, किन्तु परिव्राजकपदार्थबुभुत्सया एषां मध्ये कः परिव्राजकः इति सन्देहे वक्तृभिरेव शिखयेति प्रयुज्यते, अतो वक्त्रपेक्ष्यमिति । पारिशेष्यादत्रैवास्य सूत्रस्य विषय इति ।
नन्वत्रापि लक्ष्यलक्षणभावसंबन्धस्य विद्यमानत्वादत्र षष्ठी बाधिकाऽस्तु | 'राज्ञः पुरुषः' इत्यादौ तु वस्त्वपेक्ष्यस्थलेऽस्य सूत्रस्य विषयः कथं न स्यात् ? सत्यम् । तत्र स्वाम्यादिग्रहणसामथ्यदिव 'राज्ञः पुरुषः' इत्यादाववश्यं षष्ठी विधातव्या । ततश्च
Page #219
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१७७ दृष्टपरिकल्पनावशात् सर्वत्र वस्त्वपेक्ष्यस्थले षष्ट्याः प्राप्तिः कल्पनीयेति । एतच्च टीकायामपि तच्च (द्विविधम्) विशेषणं यल्लिङ्गार्थस्यान्तरङ्गस्य स्वाम्यादीनां चाविषय इत्युक्तमिति कुलचन्द्राशयः। ननु यदि प्रयोक्त्रपेक्ष्यमेव विशेषणमत्र गृह्यते तदा लक्षण इत्येवास्ताम्, किं विशेषण इति गुरुकरणेन ? सत्यम् ।गुरुकरणं विशिष्टार्थप्रतिपत्त्यर्थम् । तथाहि, विशिष्यते शब्देनोपस्थाप्यते विशिष्टं ज्ञानं जन्यते येन तद् विशेषणम् इति व्युत्पत्त्या विशेषणपदेन कञ्चित् प्रकारम् आपन्नस्य ज्ञापकमुच्यते, तेन 'वृक्षं प्रति विद्योतनम्' इत्यत्र कञ्चित् प्रकारमापन्नस्य वृक्षो न ज्ञापकः किन्तु विद्योतनमात्रस्यैव । एतदेव हृदि कृत्वाह - विशेषण इति किमिति वृत्तिः। नीलमुत्पलम् इति वृत्तिः । ननु कथमिदमाशयते उत्पलस्य कञ्चित् प्रकारमापन्नत्वाप्रतीयमानत्वात् ? सत्यम् । नानाजातीयद्रव्योपस्थितौ कस्योत्पलमिति सन्देहे नीलम् उत्पलस्य परिचायकं भवतीति विवक्षायामेव लिङ्गार्थमात्रे प्रथमैवेति वृत्तिसिद्धान्तः।।३१७।
[समीक्षा]
'जटाभिस्तापसः, शिखया परिव्राजकम् अपश्यत्' आदि स्थलों में विशेष परिचायक लक्षणवाची जटादि शब्दों से तृतीया विभक्ति का विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है - "इत्थम्भूतलक्षणे" (अ०२।३।२१)। इत्थम्भूत का अर्थ है 'कञ्चित् प्रकारं प्राप्तः' । प्रकार = सामान्य का भेदक, विशेषक। अतः स्पष्टावबोध के लिए कातन्त्रकार ने “विशेषणे" शब्द का उपादान किया है।
[विशेष वचन] १. मन्दमतिबोधनार्थमेव (दु० टी०)।
२. कश्चिद् विशेषणशब्दो लक्षणार्थ इति मन्यते, अनेकार्थत्वाद् धातूनाम् (दु० टी०)।
३. एतदर्थानुसन्धानेनैव शर्ववर्मणापि “विशेषणे' इति सूत्रं प्रणीतम् (क०च०)।
४. विशेषणं हि व्यवच्छेदकम्, तच्च द्विविधम् - समानाधिकरणं व्यधिकरणं च (क० च०)।
५. द्वितीयं (व्यधिकरणं विशेषणम्) द्विविधम् -वस्त्वपेक्ष्यम्, प्रयोक्त्रपेक्ष्यं च (क० च०)।
Page #220
--------------------------------------------------------------------------
________________
१७८
कातन्त्रव्याकरणम्
६. गुरुकरणं विशिष्टार्थप्रतिपत्त्यर्थम् (क० च०)। ७. लिङ्गार्थमात्रे प्रथमैवेति वृत्तिसिद्धान्तः (क० च०)।
८.विशिनष्टि व्यवच्छिनत्ति यत् तद् विशेषणम् । शाब्दबोधे प्राक् प्रतीयमानत्वं विशेषणत्वम् ।
विशिष्यते यत् तद् विशेष्यम् । शाब्दबोधे चरमप्रतीयमानत्वं विशेष्यत्वम् । एकाधिकरणवृत्तित्वं समानाधिकरणत्वम् । भिन्नाधिकरणवृत्तित्वं व्यधिकरणत्वम् । विशेष्यविशेषणयोः समानविभक्तित्वं समानलिङ्गवचनत्वं च (वं० भा०)।
[रूपसिद्धि]
१. जटाभिरतापसमद्राक्षीत् । जटा + भिस् । जटाविशिष्ट तपस्वी को देखा | यहाँ 'जटा' विशेषण है, अतः उससे प्रकृत सूत्र द्वारा तृतीया विभक्ति । "रेफसोर्विसर्जनीयः" (२।३।६३) से विसर्गादेश ।
२. शिखया पब्रिाजकम् अपश्यत् । शिखा + टा । विशेषणवाचक 'शिखा' शब्द से तृतीया विभक्ति । “टौसोरे" (२।१।३८) सूत्र द्वारा आकार को एकार तथा "ए अय्' (१।२।१२) से एकार को अयादेश ।। ३१७।
३१८. कर्तरि च [२।४।३३]
[सूत्रार्थ]
का कारक के बोधक= कर्तृसंज्ञक शब्द से तृतीया विभक्ति होती है ।।३१८। [दु० वृ०]
कर्तरि कारके वर्तमानाल्लिङ्गात् तृतीया भवति । देवदत्तेन हन्यते । चैत्रेण कृतम् ||३१८।
[दु० टी०]
कर्तः । तुल्यार्थैर्वा तृतीयेष्यते । तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य । सदृशो देवदत्तेन, सदृशो देवदत्तस्य । “अर्जुनस्य तुला नास्ति केशवस्योपमा न च" इति तुल्ययोः सतोस्तुलोपमाशब्दावौपम्यं ब्रूतः। न चानयोस्तुल्यौ स्तस्तस्मान्नैतौ
Page #221
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
तुल्यार्थाविति भावः । तन्न वक्तव्यम् - सहभावनायां तृतीया । देवदत्तेन समस्तुल्य इत्यर्थः, तथा लोके विवक्षादर्शनात् । संबन्धविवाक्षायां तु षष्ठ्येव, हितसुखाभ्यां चतुर्थी च स्यात् । हितं देवदत्ताय हितं देवदत्तस्य । सुखं देवदत्ताय, सुखं देवदत्तस्य । तादर्थ्यविवक्षायां संबन्धविवक्षायां च सिद्धेति । देवदत्तार्थं हितं सुखं चोत्पद्यमानं देवदत्तस्य स्यात् । तथा आयुष्यमद्रार्थकुशलार्थैराशिषि गम्यमानायाम् । आयुष्यं देवदत्तस्य । पक्षान्तरं तु आयुष्यं देवदत्ताय । एवं चिरजीवितं भद्रं मद्रम् अर्थः प्रयोजनं कुशलं क्षेमं भूयादिति सर्वत्र योज्यम् । एवं हितसुखपर्यायैरपि योज्यम् || ३१८ | [ क० च० ]
१७९
कर्त० । नन्वत्र चकारकरणं किमर्थम्, विशेषण इत्यस्यानुवर्तनार्थमिति चेत्, विशेषणे पूर्वेणैव तृतीयायाः सिद्धत्वात् । ननु विशेषणविषये यः कर्ता, तस्मिंस्तृतीयेत्यर्थः कथन्न स्यात् । तदा जटाभिस्तापसेन भूयते इत्यत्रैव तृतीया स्यात्, न तु देवदत्तेन भूयते इत्यादाविति ? सत्यम् । यद्येतदेव चकारस्य प्रयोजनं स्यात् तदा 'देवदत्तेन भूयते' इत्यादौ तृतीया न सिध्यतीत्यव्याप्तिः स्यात् । तस्माद् व्याप्त्यव्याप्त्योर्व्याप्तिरेव श्रेयसीति न्यायाद् यत् फलेन देवदत्तेन भूयते इत्यादावपि तृतीया स्यात् तदेव फलं कल्पनीयमिति । तच्च कालभावयोरित्यत्र विशेषण इत्यनुवर्तनार्थमेव । अत एव विशेषणभूतयोः कालभावयोरिति वक्ष्यति । ननु यदि चकारस्योत्तरत्र विशेषण इत्यस्यानुवनमेव प्रयोजनम्, तदा कर्तरीति प्रथमं विधाय पश्चाद् विशेषण इति सूत्रं विधीयताम् । ततश्चानन्तरत्वात् कालभावयोरित्यत्र विशेषण इत्यनुवर्तिष्यते, किं चकारकरणेन ? सत्यम् | चकारो हि वैचित्र्यार्थ इति केचित् ।
वस्तुतस्तु 'कार्यिणा हन्यते कार्यों' ( द्र०-कलाप०, पृ० २२१-२५) इति न्यायात् कालभावयोरिति निमित्तेन विशेषण इत्यस्य निवृत्तिरेव स्यादिति युक्तमेव चकारकरणमिति । तर्हि कालभावयोरित्यत्रैव चकारः क्रियतां ततश्चकारेण विशेषण इत्यस्यानुवृत्तिर्भविष्यति ? सत्यम् । चकारेण विशेषण इत्यस्यानुवर्तने सति "कालभावयोर्विशेषणे च सप्तमी (२।४ । ३२, ३४) इति वाक्यार्थद्वयं स्यात् । अव्यवहितकर्तरीत्यस्यानुवृत्तिश्च स्यात् । ननु तथापि किमर्थमिदं सूत्रं कर्तुरपि हेतुत्वात् " हेत्वर्थे” (२|४ | ३० ) इत्यनेनैव सिद्धेः । नैवम् । 'देवदत्तेन हेतुना पच्यते' इत्यत्र नित्यं हेतुशब्दप्रयोगदर्शनाद् हेतुशब्देन कर्ता नाभिधीयते । किञ्च हेत्वर्थ इत्यत्र ऋणे तृतीयापवादः पञ्चमीष्यते इत्युक्तमेव । ततश्चैतत्सूत्राभावे ' शतेन बन्धितः’ इत्यत्र हेतुकर्तरि पञ्चम्येव स्यात् || ३१८ |
1
""
Page #222
--------------------------------------------------------------------------
________________
१८०
कातन्त्रव्याकरणम्
[समीक्षा]
'देवदत्तेन हन्यते, चैत्रेण कृतम्' इत्यादि वाक्यों में कर्तृसंज्ञक 'देवदत्त-चैत्र' आदि शब्दों से तृतीया विभक्ति का विधान पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है - "कर्तृकरणयोस्तृतीया" (अ० २।३।१८)। सूत्ररचनाशैली के अनुसार अन्तर यह है कि पाणिनि कर्ता तथा करण दोनों में ही तृतीयाविधान एक ही सूत्र द्वारा करते हैं, परन्तु शर्ववर्मा “शेषाः कर्मकरणसम्प्रदानापादानस्वाम्यायधिकरणेषु' (२।४।१९) सूत्र द्वारा क्रमप्राप्त करण कारक में तृतीया का निर्देश करने के बाद तृतीयाविधायक अन्य सूत्रों के प्रसङ्ग में प्रकृत सूत्र उपस्थित करते हैं, जिससे कर्ता कारक में तृतीया प्रवृत्त होती है ।
[रूपसिद्धि]
१. देवदत्तेन हन्यते । देवदत्त + टा । देवदत्त के द्वारा मारा जाता है | हननक्रिया में स्वतन्त्र होने के कारण 'देवदत्त' की “यः करोति स कर्ता" (२।४।१४) से 'कर्ता' संज्ञा तथा प्रकृत सूत्र से उसमें तृतीया विभक्ति । "इन टा" (२।१।२३) से 'टा' को 'इन' तथा “अवर्ण इवणे ए" (१।२।२) से अकार को एकार-परवर्ती इकार का लोप ।
२. चैत्रेण कृतम् । चैत्र + टा | पूर्ववत् चैत्र की कर्तृसंज्ञा तथा प्रकृत सूत्र से उसमें तृतीया विभक्ति ।। ३१८।
३१९. कालभावयोः सप्तमी [२।४।३४] [सूत्रार्थ]
विशेषण के रूप में प्रयुक्त कालवाची तथा भाववाची शब्दों से सप्तमी विभक्ति होती है ||३१९।
[दु० वृ०]
कालभावयोर्विशेषणीभूतयोर्वर्तमानाल्लिङ्गात् सप्तमी भवति । शरदि पुष्यन्ति सप्तच्छदाः । गोषु दुह्यमानास्वागतः । कालभावयोरिति किम् ? यो जटाभिः स भुङ्क्ते । यो भोक्ता स देवदत्तः इति साहचर्याद् वा प्रसिद्धा क्रियैव हि विशेषणम् । रुदतः प्राव्राजीदिति सम्बन्धविवक्षापि ।।३१९।
Page #223
--------------------------------------------------------------------------
________________
१८१
नामचतुष्टयाध्याये चतुर्थः कारकपादः [दु० टी०]
काल० । सूर्याचन्द्रमसोर्ग्रहनक्षत्राणां च परिस्पन्दोपचरित इह गृह्यते कालः । भावः क्रिया (भावना) व्यापार इति पर्यायः । कालभावयोर्विशेषणीभूतयोरिति संबन्धः । क्रियाया धातुवाच्यायाः सप्तम्याः संभवो नास्तीति क्रियाविशिष्टं साधनं प्रत्ययवाच्यम् इह गृह्यते । सामर्थ्याच्च क्रियावानेव विशिष्यते इत्याह – गोषु दुह्यमानास्वित्यादि। समानाधिकरणत्वादुभयत्र सप्तमी, यथा उपाध्याये व्याख्यातरि पटुरयम् । ‘जीवति तु वंश्ये युवा' इत्यादि भवतेर्गम्यमानत्वात् । कश्चिदाहकालग्रहणमनर्थकम्, विषयसप्तम्यैव सिद्धत्वात् । नेदमाधाराधेयविवक्षायां सूत्रम्, किन्तु विशेषणविशेष्यभावे तृतीया स्यादिति । तथा च प्रत्युदाहरणे यो जटाभिः स भुङ्क्ते इति तृतीया दर्शिता । कथन्तर्हि ‘मत्ताः शरदा हंसाः' इति ? सत्यम्, करणविवक्षा, न तु विशेषणमिति मतम् । यो भोक्तेत्यादि । साहचर्याद् वेति । वाशब्देनैतत् सूचितम्-लिङ्गार्थस्यान्तरङ्गत्वात् प्रथमैव अभ्युपगम्याप्युच्यते साहचर्यादिति भावो विशेषणं भवन्नपरस्य भावस्यैव विशेष्यस्येति भावः।
प्रसिद्धेत्यादि । नहि स्वयमप्रसिद्धमन्यस्य विशेषणं भवति । तथा ब्राह्मणेषु भुनानेषु वृषला आसते । वृषलेष्वासीनेषु ब्राह्मणा भुञ्जते । वृषलेषु भुनानेषु ब्राह्मणा आसते । ब्राह्मणेष्वासीनेषु वृषला भुञ्जते । कारकार्हाणां कारकत्वेऽकारकार्हाणामकारकत्वे तविपर्यासे च सप्तमीयमिति । ब्राह्मणा भुजिक्रियामर्हन्तीति कारकार्हाः। तेषां भुजिक्रियां प्रति कारकत्वम् । ब्राह्मणापेक्षया वृषला भुजिं प्रति साधनत्वं नार्हन्तीति अकारकार्हाः । भुजिं प्रति न कारकाः । ब्राह्मणानपेक्ष्य वृषला अकारकार्हा अपि भुजिं प्रति कारकाः । ब्राह्मणा कारकारे अपि भुजिं प्रति न कारकाः इत्युदाहरणद्वयं तद्विपर्यासे सर्वत्र ब्राह्मणादिसंबन्धिन्या भुजिक्रियया वृषलादीनामासनक्रियापेक्ष्यते इति संग्रहः । षष्ठी चानादरे वक्तव्या, भावे सप्तमी सिद्धैव । रुदतः प्राव्राजीदिति रुदन्तमनादृत्य गत इत्यर्थः । सा न वक्तव्येत्याह - रुदत इत्यादि । रुदतः संबन्धी गतः इत्युक्तेऽपि का वस्तुक्षतिरिति ।। ३१९।
[वि० प०]
काल०। यो भोक्तेत्यादि भावस्तावद् विशेषणं तत्साहचर्याद् भाव एव यदा विशेष्यस्तदा सप्तमी । अत्र तु देवदत्तो द्रव्यं विशेष्यमिति कुतः सप्तमीप्रसङ्गः । अथवा
Page #224
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
लिङ्गार्थस्यान्तरङ्गत्वात् पूर्वं प्रथमा ततो विशेषणत्वमिति वाशब्देनैतत् सूचितम् । तेन " यस्य च भावेन भावलक्षणम्" (अ० २ | ३ | ३७) इति न वक्तव्यमिति स्थितम् । विशेषणं हि व्यवच्छेदकम्, तच्च प्रसिद्धमेव नाप्रसिद्धम् । न हि स्वयमप्रसिद्धं परस्य विशेषणं भवतीत्याह – प्रसिद्धेत्यादि । भावः क्रियेति पर्यायः । तथा भावे विशेषणेऽनादरे गम्यमाने नित्यं सप्तम्यां पक्षे षष्ठीविधानार्थं “षष्ठी चानादरे" (अ० २ | ३ | ३८) इति न वक्तव्यमित्याह - रुदत इत्यादि । रुदन्तम् अनादृत्य गतः इत्यर्थः । इह 'रुदतः संबन्धी गतः' इत्युक्तेऽपि न काचिद् वस्तुक्षतिरिति भावः । पक्षे रुदति प्राव्राजीदिति ।। ३१९ ।
[ क० च० ]
काल० | “यस्य च भावेन भावलक्षणम्" (अ० २ | ३ | ३७ ) इति पाणिनिः । अस्यार्थः- यस्य भावेन क्रिययाऽन्यस्य क्रियान्तरं लक्ष्यते, ततः सप्तमी भवति । ' गोषु दुह्यमानास्वागत ः' इत्यत्र गवां दोहनक्रिययाऽन्यस्य देवदत्तादेर्गमनं वक्ष्यते । अस्मन्मते तु कालभावयोर्विशेषणभूतयोर्वर्तमानाल्लिङ्गात् सप्तमी भवतीत्युक्ते देवदत्तस्य भोजनेन यज्ञदत्तः सुखी भवति इत्यत्र भोजनस्य सुखीभवनक्रियाविशेषणत्वाद् भोजनशब्दात् कथं सप्तमी न स्यात् ? सत्यम् । लक्षणया भावपदेन क्रियाविशिष्टाभिधायकशब्दवाच्यो भावो गृह्यते । अत्र भावमात्रवाचकाद् भोजनशब्दात् कथं भवतु ।
१८२
ननु परमते देवदत्तशब्दात् कथन्न सप्तमी, तस्य भोजनक्रियया यज्ञदत्तादेः सुखीभवनक्रियाया लक्ष्यमाणत्वात् । तदत्र समाधानम् - यस्य क्रियया क्रियान्तरं लक्ष्यते तवाचकपदोपस्थापितैव क्रिया प्रत्यासत्त्या गृह्यते । अत्र देवदत्तशब्देन क्रिया नोपस्थाप्यते इति । ‘दुह्यमानास्वागतः’ इत्यत्र तु दुह्यमानपदेनैव दोहनक्रिया तद्विशिष्टद्रव्यं चोपस्थाप्यते । गोशब्दात्तु दुह्यमानपदसामानाधिकरण्यादेव सप्तमीति । नाम्नि प्रयुज्य - माने इत्यादिदर्शनात् समानाधिकरणानामेकैव विभक्तिरिष्यत इति । यद् वा भावशब्देनात्र क्रियाविशिष्टवाचकस्य यो विशेषणीभूतो भावः स इह गृह्यते इत्युक्तं पूर्वम् । ततश्च क्रियाविशिष्टस्य द्रव्यस्य वाचको यः शब्दस्तस्य वाच्ये भावे विशेषणीभूते गम्यमाने यः क्रियाविशिष्टस्तद्वाचकादेव सप्तमी । तेन गोषु दुह्यमानासु इत्युभयत्रैव सप्तमी विधीयते । क्रियाविशिष्टाया गोरुभयशब्द एव वाचक इति । तथा च "अदसः पदे (२।२।४५) इत्यत्र पदशब्दादपि दर्शनात् ।
7:"
Page #225
--------------------------------------------------------------------------
________________
१८३
नामचतुष्टयाध्याये चतुर्थः कारकपादः नन्वेवं सति भुञ्जतो देवदत्तस्य भोजनेन चैत्रः सुखी भवतीत्यत्र शन्तृङन्तात् सप्तमी कथन्न स्याद् भावशब्दस्य क्रियाविशिष्टवाच्यत्वात् ? रात्यन् । श्या क्रियया क्रियान्तरं लक्ष्यते, सा यदि क्रियाविशिष्टवाचकपदेनैवोपस्थाप्यते न वन्यपदेन तदैवायं विधिरिष्यते इति । अत्र भुञ्जते इत्यस्य भोजनक्रियया सुखीभवनं न लक्ष्यते, किन्तु तृतीयान्तभोजनक्रियावाचकेनेति कथमस्य सूत्रस्य विषयः । 'पठता श्रुतम्, पचता कृतम्' इत्यत्र लक्षणविवक्षायां कुतो न स्यात्, सत्यम् । अभिधानाद् भिन्नकर्तृके विधिरयमेष्टव्यः ।अत एव भाषावृत्तिकृतापि शयानेन भुक्तमित्यभिधानान्न सप्तमीत्युक्तम् । ___ नन्वेवं सति छन्दः पठ्यते । ‘विप्राय भिक्षां ददाति' इत्यत्र भिन्नकर्तृक सप्तमी कथं न स्यात् । नैवम् । कतमोऽयं पूर्वपक्षः, यावता पठता श्रुतमित्यादिवदवापि अभिधानाश्रयणमेवोत्तरम्, । नन्वेककर्तृके त्वयि, सुप्ते त्वया कृतमित्यादौ कथं स्यात् ? सत्यम् । भिन्नकर्तृपदं भिन्नपदोपस्थापितकर्तृपरमिति न दोषः । एतत् सर्वं पूर्वतश्चकारानुवर्तनात् सिद्धमिति । अथवेति सजी। साहचर्याद् वेति । अत्र वाशब्दस्या) विवृणोति - अथवेत्यादि । ननु ‘गोषु दुह्यमानास्वागतः' इत्यादावागतादिपदस्य कथन्न विशेषणत्वम् इत्याह - विशेषणमित्यादि । प्रसिद्धति । पूर्वज्ञानविषयेत्यर्थः । : न काचिद् वस्तुक्षतिरिति । ननु कथमिदमुच्यते, यावला पाणिनिना सह विरोधः ? सत्यम् । यथाकथंचिद्रूपेण पदं निष्पाद्य पश्चात् तदर्थे लक्षणा कार्या । त्रिलोचनस्याप्ययमेवाशयः ।। ३१९।
[समीक्षा]
'गोषु दुह्यमानास्वागतः' आदि वाक्यों में दो-दो क्रियाएँ प्रयुक्त हैं, परन्तु एक क्रिया से दूसरी क्रिया लक्षित होती है, जैसे-गायों की दोहनक्रिया से देवदत्तादि की
आगमनक्रिया । दोहनक्रिया यतः गायों की है, अतः गोशब्द में सप्तपी विभक्ति का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - “यस्य च भावेन भौवलक्षणम्" (अ० २।३।३८)। कातन्त्रीय व्याख्याकारों ने सूत्रस्थ कालशब्द का उपादान अनर्थक माना है।
[विशेष वचन]
१. सूर्याचन्द्रमसोर्ग्रहनक्षत्राणां च परिस्पन्दोपचरित इह गृह्यते कालः । भावः, क्रिया, व्यापार इति पर्यायः (दु० टी०)।
Page #226
--------------------------------------------------------------------------
________________
१८४
कातन्त्रव्याकरणम्
२. न हि स्वयमप्रसिद्धमन्यस्य विशेषणं भवति (दु० टी०)। ३. विशेषणं हि व्यवच्छेदकम्, तच्च प्रसिद्धमेव नाप्रसिद्धम् (वि० प०)। ४. लक्षणया भावपदेन क्रियाविशिष्टाभिधायकशब्दवाच्यो भावो गृह्यते (क०
च०)।
[रूपसिद्धि]
१. शरदि पुष्प्यन्ति सप्तछदाः। शरद् ऋतु में सप्तपर्ण विकसित होते हैं | 'शरत्' शब्द कालवाची है, उससे सप्तपर्णों के विकसित होने की क्रिया लक्षित होती है । अतः 'शरत्' शब्द में प्रकृत सूत्र से सप्तमी विभक्ति । शरद् + ङि । अनुबन्धलोप ।
२. गोषु दुह्यमानास्वागतः। गायों के दुहे जाने पर देवदत्त आ गया | यहाँ गोगत दोहनक्रिया से देवदत्तादिगत आगमनक्रिया लक्षित होती है, अतः गोशब्द में प्रकृत सूत्र द्वारा सप्तमी विभक्ति | गो + सुप् | अनुबन्धलोप तथा "नामिकरपरः प्रत्ययविकारागमस्थ ः सिः षं नुविसर्जनीयषान्तरोऽपि" (२।४।४७) से सकार को मूर्धन्यादेश ||३१९। ३२०. स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठी च [२।४।३५]
[सूत्रार्थ]
'स्वामिन्, ईश्वर, अधिपति, दायाद, साक्षिन्, प्रतिभू, प्रसूत' शब्दों के योग में लिङ्ग = प्रातिपदिक से षष्ठी तथा सप्तमी विभक्तियाँ होती हैं ।।३२०।
[दु० वृ०]
'स्वामिन्-ईश्वर-अधिपति-दायाद-साक्षिन्-प्रतिभू-प्रसूत' - एभिर्योगे वर्तमानाल्लिङ्गात् षष्ठी भवति सप्तमी च । गवां स्वामी, गोषु स्वामी | गवामीश्वरः, गोष्वीश्वरः । गवामधिपतिः, गोष्वधिपतिः । गवां दायादः, गोषु दायादः । गवां साक्षी, गोषु साक्षी । गवां प्रतिभूः, गोषु प्रतिभूः । गवां प्रसूतः, गोषु प्रसूतः। संबन्धोऽत्र स्फुट इति वचनम् ।।३२०।
[दु० टी०]
स्वामी० । स्वं विद्यते यस्यासौ स्वामी । साक्षाद् द्रष्टा साक्षी। लोकोपचारादत एव निर्देशादिति अन्ये । अस्य दीर्घो मागमश्च । साक्षाच्छब्दादिन्, अन्त्यस्वरादि-लोपश्चेति ।
Page #227
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१८५ स्वामीश्वराधिपतीनामेकार्थानामपि भेदेनोपादानं पर्यायनिवृत्त्यर्थम् । ग्रामस्य राजेति संबन्धविवक्षेति षष्ट्येव भवति । नन्वधिकरणविवक्षायां सप्तमी केन निवार्यते । ग्रामे राजेति संबन्धोऽत्र स्फुट इति मन्दधियां सुखप्रतिपत्त्यर्थं सूत्रमिदमुच्यते । आयुक्तकुशलाभ्यां तात्पर्यसम्बन्धे षष्ठी अधिकरण एव सप्तमी । आयुक्तः कटकरणस्य, आयुक्तः कटकरणे । कुशलः कटकरणस्य, कुशलः कटकरणे | आयुक्तो नियुक्तः कुशलो निपुणः । विज्ञाप्यासेवया आयुक्तः । ईषयुक्तः कटकरणस्येति नास्ति व्यवच्छेदकता ||३२०|
[क० च०]
स्वामी० । नन्वेतत् सूत्रं षष्ठ्यर्थमवश्यमेव कर्तव्यम् । अन्यथा 'आसमुद्रस्येश्वरः' इत्यादौ आयोगे विशेषणत्वात् पञ्चम्येव स्यात् । तत् कथमुच्यते टीकाकृता मन्दधियां सुखार्थमिति ? सत्यम् । यद्येवं प्रयोगो दृश्यते तदा प्राक् संबनधविवक्षैव कल्पनीया, न त्वाङ्योग इति, अन्यथा “पष्ठी चानादरे" (अ० २।३।३८) इत्यादिकमपि खण्डयितुमशक्यं स्यात् । विशेषण इति न स्मर्यते 'इष्टतो अधिकाराणां प्रवृत्तिनिवृत्ती स्याताम्' (चा० परि० पा० ४३) इति न्यायात् ।।३२० ।
[समीक्षा]
'गवां स्वामी, गोषु स्वामी' आदि में षष्ठी-सप्तमी विभक्तियों का विधान दोनों व्याकरणों में समानरूप से उपलब्ध है । पाणिनि का सूत्र है- “स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च" (अ० २।३।३९)।
[रूपसिद्धि]
१. गवां स्वामी । गोषु स्वामी। गो + आम्, सुप् । 'स्वामी' शब्द के प्रयोग में 'गो' शब्द से प्रकृत सूत्र द्वारा षष्ठी तथा सप्तमी विभक्ति । “ओ अव्" (१।२।१४) से अवादेश । “नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि" (२।४।४७) से सकार को एकागदेश ।
२-७ = गवामीश्वरः, गोष्वीश्वरः। गवामधिपतिः, गोष्वधिपतिः। गवां दायादः, गोषु दायादः। गवां साक्षी, गोषु साक्षी। गवां प्रतिभूः, गोषु प्रतिभूः। गवां प्रसूतः, गोषु प्रसूतः। पूर्ववत् 'ईश्वर' आदि शब्दों के योग में षष्ठी तथा सप्तमी विभक्तियाँ ।।३२०।
Page #228
--------------------------------------------------------------------------
________________
१८६
कातन्त्रव्याकरणम्
३२१. निर्धारणे च [२।४।३६] [सूत्रार्थ]
निर्धारण अर्थ की विवक्षा में लिङ्ग = प्रातिपदिक से षष्ठी तथा सप्तमी विभक्तियाँ होती हैं ||३२१।
[दु० वृ०]
निर्धारणे चार्थे वर्तमानाल्लिङ्गात् षष्ठी भवति सप्तमी च । पुरुषाणां क्षत्रियाः शूराः, पुरुषेषु क्षत्रियाः शूराः । गवां कृष्णा सम्पन्नक्षीरा, गोषु कृष्णा सम्पन्नक्षीरा | गच्छतां धावन्तः शीघ्राः, गच्छत्सु धावन्तः शीघ्राः ।
[दु० टी०]
निर्धा० । निर्धार्यते पृथक् क्रियते यस्मात् समुदायाद् एकदेशो जातिगुणक्रियाभिस्तनिर्धारणम् । “कृत्ययुटोऽन्यत्रापि च" (४।५।९२) इत्यपादाने युट् । तस्मिन्निर्धारणे वर्तमानादित्यर्थः । अथवा निर्धार्यस्य निर्धारणे गम्यमाने अप्रधानादेव पूर्ववत् । न क्षत्रियः पूरुषेषु आदृतः शूरो भवति, न च पुरुषाणां संबन्धि क्षत्रियत्वम्, तस्मात् षष्ठीसप्तमीविधानार्थं पञ्चमीबाधनार्थं च वचनम् । पृथक्करणस्यापायत्वान्न ‘वृक्षस्य शाखा, वृक्षे शाखा' इतिवदवयवावयविसम्बन्धविषयत्वं घटते ।माथुराः पाटलिपुत्रकेभ्यः सुकुमारतरा इति भवतेर्गम्यमानत्वात् पाटलिपुत्रका माथुराश्च सर्वे सुकुमारा अतिशयेन पाटलिपुत्रकेभ्यो माथुरा इति नित्यं विभागेनैव वर्तन्ते । नैकजातिसंबन्धेन सर्वे चोदिताः, यथा गवां कृष्णा गौरिति तस्मानिर्धारणे षष्ठीसप्तम्योरप्राप्ति-रिति किं विभागेन, यतो निर्धारणं ततः पञ्चमीविधानेन इति । 'पञ्चकृत्वोऽह्रो भुङ्क्ते' इति संबन्धः । द्विरह्नि भुङ्क्ते इत्याधारः । कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषभूते षष्ठी । शेषादन्यत्र सप्तम्येवेति वचने सति व्यङ्गविकलता । अहनि शेते' इति कृत्वोऽर्थस्य शेषस्याप्यभावः । अहनि भुङ्क्ते द्विस्त्रिर्वेति गम्यमाने कृत्वोऽर्थे तच्छब्दप्रयोगस्य शेषस्याप्यभावः । 'द्विः कांस्यपात्र्यां भुङ्क्ते' इति कालस्य शेषत्वस्याप्यभावः । 'द्विरला भुङ्क्ते' इति करणत्वमपि ।।३२१।
Page #229
--------------------------------------------------------------------------
________________
१८७
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१८७ [वि० प०]
निर्धा० । निर्धार्यते पृथक् क्रियते यस्मात् समुदायादेकदेशस्तनिर्धारणम् । तत् पुनर्जातिगुणक्रियाभिः संभवति । क्रमेणोदाहरति -पुरुषाणामित्यादि ।।३२१ ।
[क० च०]
निर्धा० । ननु निर्धारणं पृथक्करणं तच्चोभयनिष्ठमेव । ततश्च तस्मिन् द्योत्ये निर्धार्यभूतसम्पन्नक्षीरादिशब्दादपि कथं षष्ठी न स्यात् । अत एव “यतश्च निर्धारणम्" (अ० २।३।४१) इति परेण यद् ग्रहणमुपादीयते इत्याशङ्क्याह-निर्धार्यते इत्यादि । अपादाने विहितेन युटा यत इत्यस्यार्थो लब्धः इति भावः । ननु ‘यो भवतां चैत्रः स आगच्छतु' इत्यादौ चैत्रेण द्रव्यभूतेन कथं निर्धारणम् । हेमकरस्य तु मतेऽत्र निर्धारणं न संभवत्येव । तथाहि जातिमान्, गुणवान्, क्रियावांश्चापरेण गुणान्तरेण निर्धार्यते । यथा पुरुषाणां क्षत्रियः शूरः' इत्यत्र क्षत्रियजात्या निर्धारणेऽपि शौर्यगुणविशिष्टत्वेनैव ।
_ 'गवां कृष्णा' इत्यादौ कृष्णगुणेन निर्धारणेऽपि सम्पन्नक्षीरत्वेनैव । ‘गच्छतां धावन्तः शीघ्राः' इत्यत्र च क्रियया निर्धारणेऽपि शीघ्रत्वगुणेनैव । चैत्रस्य द्रव्यमात्रत्वान्न भवतीति भावः । कुलचन्द्रस्तु अस्त्येवात्र निर्धारणं षष्ठ्येवेत्येकं मतं मध्ययोगसम्बन्ध एव षष्ठी, किन्तु निर्धारणमित्यपरं मतमित्याचष्टे । महान्तस्तु अत्रापि चैत्रादीनां शब्दगुणेनैव निर्धारणं बोध्यम् । शब्दोऽर्थं प्रतिपादयन् आत्मानमपि प्रकाशयति प्रदीपवदिति न्यायात्, यो भवतां दण्डी' इत्यत्रापि दण्डसंबन्धरूपेण गुणेनैव निर्धारणम् । तथा च ‘कृत्तद्धितसमासेभ्यस्त्वतल्भ्यां संबन्धाभिधानमिति' वार्त्तिकम् ।। ३२१ ।
[समीक्षा]
निर्धारण = 'समुदाय से एकदेश को पृथक् करना' अर्थ में दोनों ही आचार्यों ने षष्ठी-सप्तमी विभक्तियों का विधान किया है । समुदाय से एकदेश का पृथक्करण जाति, गुण या क्रिया के द्वारा होता है । अतः तीन प्रकार के उदाहरण देखे जाते हैं। जाति के द्वारा पृथक्करण जैसे- 'मनुष्याणां क्षत्रियः शूरतमः' । गुणकृत पृथक्करण - ‘गवां कृष्णा सम्पन्नक्षीरतमा' | क्रियाकृत पृथक्करण – 'गच्छतां धावन्तः शीघ्राः' । एतदर्थ पाणिनि का सूत्र है - "यतश्च निर्धारणम्" (अ०.२।३।४३)।
Page #230
--------------------------------------------------------------------------
________________
१८८
कातन्त्रव्याकरणम्
[ रूपसिद्धि ]
१. पुरुषाणां क्षत्रियाः शूराः । पुरुष जाति के अन्तर्गत क्षत्रिय अधिक वीर होते हैं । यहाँ सभी पुरुषों से क्षत्रियों को पृथक् किया गया है. अतः पुरुष शब्द से प्रकृत सूत्र द्वारा षष्ठी विभक्ति । सप्तमी विभक्ति होने पर 'पुरुषेषु क्षत्रियाः शूराः ।
२. गवां कृष्णा सम्पन्नक्षीरा । गोषु कृष्णा सम्पन्नक्षीरा । गायों में काली गाय अधिक दूध देने वाली होती है | यहाँ कृष्णगुण के कारण उसे गायों से पृथक् किया गया है । अतः प्रकृत सूत्र द्वारा षष्ठी तथा सप्तमी विभक्ति का विधान |
३. गच्छतां धावन्तः शीघ्राः । गच्छत्सु धावन्तः शीघ्राः । धावनक्रिया के कारण दौड़ने वालों को सामान्यतया चलने वालों से पृथक् किया गया है। अतः षष्ठी - सप्तमी विभक्तियों का प्रयोग ।। ३२१ ।
३२२. षष्ठी हेतुप्रयोगे [२।४।३७ ]
[ सूत्रार्थ ]
'हेतु' शब्द के प्रयोग में लिङ्ग = प्रातिपदिक से षष्ठी विभक्ति होती है ।। ३२२ । [दु० वृ० ]
हेतोः प्रयोगे वर्तमानाल्लिङ्गात् षष्ठी भवति । अन्नस्य हेतोर्वसति । हेत्वर्थे तृतीयाप्राप्ते वचनम् ॥ ३२२ ॥
[दु० टी० ]
षष्ठी० । क्रियासु योग्यतामात्रविवक्षायां संबन्धे षष्ठी नास्तीत्याह - हेत्वर्थ इत्यादि । सा चेयं षष्ठी हेत्वर्थे वर्तमानादेव हेतौ द्योत्ये विधीयमाना शब्दसमानाधिकरणाद् भवतीति द्योतनाय समर्था हेतुशब्दादप्यर्थाद् भवति षष्ठीहेतुनेति कृते सिद्धे प्रयोगग्रहणं सुखप्रतिपत्त्यर्थम् । ननु षष्ठीग्रहणं किमर्थं चानुकृष्टत्वात् सप्तमी नानुवर्तिष्यते । सत्यम् । निर्धारणे चेति चकारेणानुकृष्टा सप्तमी प्रकृतभावमापतिता इत्यनुवृत्तिरपि स्यादिति षष्ठीग्रहणम् । सर्वनाम्नो हेतुप्रयोगे सर्वा विभक्तयो वाच्याः । केन हेतुना, कस्मै तवे, कस्माद् हेतोः कस्य हेतोः कस्मिन् हेतौ । किं कारणम्, केन कारणेन । किं निमित्तम्, केन निमित्तेन । किं प्रयोजनम्, केन प्रयोजनेन
,
Page #231
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
वसतीति । केचित् तृतीयाषष्ठ्यौ सर्वनाम्नी हेतुप्रयोगे, निमित्तकारणहेतुषु सर्वासां प्रयोगदर्शनमिति आचक्षते ।। ३२२ ।
१८९
[क० च० ]
षष्ठी० । हेत्वर्थे तृतीयाप्राप्ते वचनमिति वृत्तिः । ननु हेत्वर्थे तृतीयायां प्राप्तायामिति युज्यते वक्तुम् । नैवम् । इत्थमपि वाक्यार्थसङ्गतेः । प्राप्तमिति भावे क्तः, ततस्तृतीयायाः प्राप्तं तृतीयाप्राप्तमिति क्ते वोभयोरित्यनेन षष्ठी, हेत्वर्थे तृतीयाप्राप्ता- वित्यर्थः । यद् वा तृतीयाप्राप्त इति हेत्वर्थस्य विशेषणं प्राप्त इत्यादिकर्मणि क्तः तृतीयां प्राप्तुमारब्धे हेत्वर्थ इत्यर्थः । वृत्तौ तृतीयेत्युपलक्षणम् । 'शतस्य हेतोर्बद्धः' इत्यादौ ऋणे हेतौ पञ्चम्यपि बाध्यते इति कुलचन्द्रः । तन्नेति महान्तः । अस्मन्मतेऽत्रापादानविहितायाः पञ्चम्याः कारकविभक्तित्वेन दुर्निवारत्वात् 'शताद् बद्ध ः ' इत्येव प्रयोग इत्याहुः ।
वस्तुतस्तु परमते परत्वात् परत्वात् षष्ठ्येव प्राप्नोति । “अकर्तर्वृणे पञ्चमी” (अ० २।३।२४) इति । तथा "विभाषा गुणेऽस्त्रियाम्" (अ० २। ३ ।२५ ) इत्यनयोर्योगयोः षष्ठी हेतुप्रयोग इत्यस्य पश्चात् पठितत्वात् । तस्मादस्मन्मतेऽपि पाणिन्यनुसारेण यत्र हेतुशब्दः प्रयुज्यते, तत्र ऋणेऽप्यवधिर्न विवक्ष्यते किन्त्वनेन षष्ठ्येव । ननु परमतेऽपि "विभाषा गुणेऽस्त्रियाम्" (अ० २। ३ । २५) इत्यतोऽस्मिन्नपि विभाषानुवर्तनाद् हेतुप्रयोगेऽपि तृतीयापञ्चम्यौ भवतः इति पाणिनिमतानुसारिणो वदन्ति । तेन 'वारिमध्ये स्थितं पद्मं कम्पते केन हेतुना, स्युर्ब्रह्मचरणाद्धेतोः’ इत्यादिप्रयोगः सिध्यति । अस्मन्मते तदभावात् किं स्यादिति चेत् ? उच्यते - " कर्तृकर्मणोः” (२।४।४१ ) इत्यत्र नित्यग्रहणे षष्ठीप्रकरणस्यानित्यतया विकल्पेनैवायं विधिरिति । अत एव नदादिसूत्रे पुरुषेण संबन्धाद्धेतोरिति टीकायाम् । 'अज्ञसंज्ञानहेतुना' इति पञ्जीप्रयोगः । अन्ये तु यत्रार्थे हेतुशब्दप्रयोगस्तस्मिन्नेवार्थे वर्तमानाल्लिङ्गात् षष्ठीति प्रत्यासत्तिव्याख्यानेन बहुव्रीहावन्यपदार्थस्य वाच्यत्वान्न भवति । ततश्च यथा दण्डहेतुकेन 'घटेन जलमानय' इत्यादौ न भवति, तथा अज्ञानां सम्यग् ज्ञानं तदेव हेतुरस्य वृत्तिग्रन्थस्येति बहुव्रीहौ हेत्वर्थस्य गौणत्वात् षष्ठी न भवतीत्याहुः || ३२२ |
[समीक्षा]
‘अन्नस्य हेतोर्वसति’ इत्यादि हेतुशब्दप्रयोग वाले स्थलों में दोनों ही आचार्य षष्ठी विभक्ति का निर्देश करते हैं । पाणिनि का भी यही सूत्र है - " षष्ठी हेतुप्रयोगे” (अ० २।३।२६) । अतः उभयत्र साम्य है ।
1
Page #232
--------------------------------------------------------------------------
________________
१९०
कातन्त्रव्याकरणम्
[विशेष]
१. क्रिया में योग्यतामात्र की विवक्षा से संबन्ध में षष्ठी नहीं हो सकती, अतः यह कथन सङ्गत नहीं हो सकता किं संबन्ध में षष्ठी के सिद्ध होने पर प्रकृत सूत्र बनाना अनावश्यक है । समुचित समाधान यही है कि हेत्वर्थ में प्राप्त तृतीया (२।४।३०) के बाधनार्थ यह सूत्र किया गया है - "हेत्वर्थे तृतीयाप्राप्ते वचनम्” (दु० वृ०)।
२. क्रियासु योग्यतामात्रविवक्षायां संबन्धे षष्ठी नास्ति (दु० टी०)।
३. 'सा चेयं षष्ठी हेत्वर्थे वर्तमानादेव हेतौ द्योत्ये विधीयमाना हेतुशब्दसमानाधिकरणाद् भवति' इति द्योतनाय समर्था हेतुशब्दादप्यर्थाद् भवति (दु०. टी०)।
४. षष्ठीहेतुनेति कृते सिद्धे प्रयोगग्रहणं सुखप्रतिपत्त्यर्थम् (दु० टी०)। ५. सर्वनाम्नो हेतुप्रयोगे सर्वा विभक्तयो वाच्याः (दु० टी०)। [रूपसिद्धि]
१. अनस्य हेतोर्वसति । अन्न के कारण निवास करता है । यहाँ निवास का हेतु अन्न है । अतः हेत्वर्थ के द्योत्य रहने से प्रकृत सूत्र द्वारा षष्ठी विभक्ति का प्रयोग । अन्न + ङस् । “ङस् स्य" (२।१।२२) से इस्-प्रत्यय को 'स्य' आदेश । यहाँ अन्न शब्द हेतु का विशेषण है । अतः विशेषणवाची अन्नशब्द में षष्ठी विभक्ति का प्रयोग किए जाने पर विशेष्यवाची हेतुशब्द में षष्ठी का विधान अर्थतः उपपन्न होता है । हेत्वर्थ के द्योत्य होने से ‘हेत्वर्थे" (२।४।३०) सूत्र द्वारा तृतीया प्राप्त होती है, उसके निषेधार्थ (बाधकर) प्रकृत सूत्र से षष्ठी की गई है ।।३२२ ।
३२३. स्मृत्यर्थकर्मणि [२।४।३८] [सूत्रार्थ] स्मरणार्थक धातुओं के प्रयोग में उनके कर्म में षष्ठी विभक्ति होती है ।। ३२३। [दु० वृ०]
स्मरणार्थानां धातूनां प्रयोगे कर्मणि षष्ठी भवति । मातुः स्मरति । पितुरध्येति । उत्तरत्र नित्यग्रहणादनित्यमपि प्रकरणेऽस्मिन् मातरं स्मरति । कथं माता स्मर्यते ?
Page #233
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१९१ उक्तार्थत्वात् । मातुः स्मर्यते इति, यदि संबन्धोऽत्र विवक्ष्यते । तथा सर्पिषो दयते, मधुन ईष्टे, सर्पिषो जानीते, मधुनो जानीते । संभ्रान्तिज्ञाने सर्पिषोऽसतः करणत्वाभावात् संबन्ध एव षष्ठी । एवमन्येऽपि ।।३२३ ।
[दु० टी०]
स्मृत्य० । कथमित्यादि । माता स्मर्यते इति । उक्तार्थानामप्रयोग इति यथा न द्वितीया तथा कर्मणि विहिता षष्ठ्यपि न भवति । 'मातुः स्मर्यते' इत्यविवक्षितकर्मवद्भाव एवात्मनेपदम्, संबन्धस्य विद्यमानत्वादिति भावः । तथेत्यादि । 'दय दाने, ईश ऐश्वर्ये' अनयोः कर्मणि षष्ठी न वक्तव्यैव । सर्पिषः सम्बन्धि दानं करोति, मधुनः संबन्धि ईशनं करोति । कर्मविवक्षायां तु सर्पिर्दयते, मध्वीष्टे । जानातेरविदर्थस्य करणे षष्ठीत्ययुक्तम् । सर्पिषः संबन्धि ज्ञानं करोति, सर्पिषि रक्तः प्रतिहतो वेत्यर्थः।
अथाज्ञानपूर्विकायां प्रवृत्तौ जानातिरविदर्थः । तदा करणे तृतीया स्यादित्याह - सर्पिष इत्यादि । तथाप्यसर्पिरुदकादि सर्पिरिति प्रतिपद्यमानस्य प्रवृत्तिरिति । सर्पिषोऽसत्वम् । असतश्च क्रियासिद्धौ कथं प्रकृष्टोपकारकत्वमिति । यदा तु ज्ञानार्थस्तदा करणमेव । स्वरेण पुत्रं जानाति । एवमन्येऽपीति । आशी क्रियस्य नाथतेः- सर्पिषो नाथते, सर्पि थतो । आशिषोऽन्यत्र माणवकमुपनाथति पाठाय, माणवकस्योपनाथतीति संबन्धे षष्ठ्यपि केन निवार्यते । तथा व्यवहरतेः पणिदिवोश्च व्यवहारार्थयोःशतस्य व्यवहरति, शतस्य पणायते, शतस्य दीव्यतीति । शतं व्यवहरति, शतं पणायते, शतं दीव्यतीति । स्तुत्यर्थस्य पणेरायः इति मतेन शतस्य पणते, शतं पणते इति । एवं सति षष्ठीविधानप्रकरणमिदं मन्धधियां सुखार्थम् । अन्यथा त्याद्यन्तप्रयोगेष्वेव स्पष्टतया ते हि कर्मैव प्रतिपद्यन्ते ।।३२३ ।
[वि०प०]
स्मृत्य० । कथमित्यादि कर्मणि षष्ठी विधीयते । तच्च कर्म आत्मनेपदेनैव कर्मण्युत्पन्नेनोक्तमिति षष्ठी न भवति । यद्येवम्, कथं 'मातुः स्मर्यते' इति ? सत्यम् । नेदं कर्मण्यात्मनेपदम् अपि तु भावेऽविवक्षितकर्मत्वात् । अतः संबन्धे षष्ठीत्याहयदीत्यादि । स्मर्यते इति । “यणाशिषोर्ये" (३।४।७४) इत्यनुवर्तमाने "गुणोऽर्तिसंयोगायोः" (३।४।७५) इति गुणः । तथेति संबन्धविवक्षयेत्यर्थः । 'दय दाने, ईश
Page #234
--------------------------------------------------------------------------
________________
१९२
कातन्त्रव्याकरणम् ऐश्वर्ये' (१।४०८;२।४४)।व्याप्यविवक्षायां तु सर्पिर्दयते, मध्वीष्टे इति जानातेरज्ञानार्थस्य प्रयोगे करणकारके षष्ठीविधानार्थं "जोऽविदर्थस्य करणे" (अ० २।३।५१) इति केनचिदुक्तं तदिह कथमित्याह - सर्पिष इत्यादि |संभ्रान्तिज्ञानमज्ञानमेव ज्ञानकार्याकरणात् । अविपरीतार्थपरिच्छेदो हि ज्ञानकार्यमिति ।अज्ञानार्थो जानातिर्मिथ्याज्ञानवचनः । तथाहि सर्पिषि अनुरक्तो विरक्तो यदेवोदकादिकं पश्यति तत् सर्पिरित्यध्यवस्यति । तत्र सर्पिषोऽसतः क्रियासिद्धौ साधकतमत्वाभावात् कथं करणत्वम्, अतः संबन्ध एव षष्ठीति । अथ सर्पिषा करणभूतेन प्रवर्तते इति प्रवृत्तिवचनो जानातिरविदर्थः ।
यदाह जयादित्यः- सर्पिषा करणभूतेन प्रवर्तते इत्यर्थः । ततः करणे तृतीया स्यादिति युक्तम् । तथाहि मिथ्याज्ञानपूर्विकायां प्रवृत्तौ जानातिर्वर्तते इत्यसपिरेव सर्पिष्टयाऽध्यवसीयमानमविद्यमानत्वान्न प्रवृत्तिक्रियायां करणं भवितुमर्हतीति यत् किञ्चिदेतदपीति जानीते इति । रुचादौ "निहवे ज्ञा" (३।२।४२-३९) इत्यनुवर्तमानेऽकर्मकश्चेत्यात्मनेपदम् । यद्यपि प्रत्युदाहृतम् अविदर्थस्येति किम् ? स्वरेण पुत्रं जानाति । अत्रापि विद्यमानस्य स्वरस्य ज्ञानक्रियायाः साधकतमत्वात् करणत्वं सिद्धमेव । एवमन्येऽपीति सर्पिषो नाथते । 'आशिषि नाथः' इति न वक्तव्यम् । व्याप्यविवक्षायां द्वितीयापि-सर्पि थते, मधु नाथते । सर्पिर्मे भूयादित्याशास्ते इत्यर्थः । 'आशिषि नाथः' इति रुचादित्वादात्मनेपदम् । यदप्युक्तम् आशिषीति किम् ? माणवकम् उपनाथति, अज्ञ पुत्रकाधीष्वेति । एतदपि व्याप्यविवक्षायां सिद्धम् ।
किञ्च माणवकस्योपनाथतीति संबन्धषष्ठ्या भवितव्यमेव । तथा व्यवहपणिदिवीनां व्यवहारार्थानां प्रयोगे संबन्ध एव षष्ठीति "व्यवहपणोः समर्थयोः, दिवस्तदर्थस्य च" (अ० २।३।५७, ५८) इति न वक्तव्यम् । शतस्य व्यवहरति, शतस्य पणायते, शतस्य दीव्यति' इति । तथा कर्मणि शतं व्यवहरतीत्यादि । यद्येवं षष्ठीविधानप्रकरणमिदमनर्थकमिति चेत्, सत्यम् । मन्दधियां सुखार्थम् । अन्यथा त्यादिप्रयोगे स्पष्टतया कर्मैव प्रतिपद्येरन् ।। ३२३ ।
[क० च०]
स्मृत्य० । अर्थग्रहणमर्थादिकर्मनिरासार्थम् । ननु स्मृतिश्चासावर्थश्चेति कर्मधारये सति स्मृत्यर्थ एव यत्र कर्म स्यात् तत्रैवायं विधिरिति सूत्रार्थः कथं न स्यात्, ततश्च
Page #235
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः चिन्तनं करोति, स्मृतिं करोतीत्यादौ षष्ठी स्यात् ? न चार्थशब्दो बहुव्रीह्यर्थ इति वाच्यम्, अर्थादिव्यावर्तनेनैव तस्य चरितार्थत्वात् ? सत्यम् । करोतेः प्रतियत्न इत्यादिसूत्रोपात्तधातूनां कर्मविधानप्रदर्शनादिहापि स्मृत्यर्थानां धातूनां कर्मणीति कल्पनीयमिति । ननु परमते अधीगर्थानामित्यत्र शेषाधिकाराद् यत्र शेषत्वम्, तत्र षष्ठी | यत्र शेषत्वविवक्षा नास्ति तत्र कर्मत्वाद् ‘मातरं स्मरति' इति द्वितीया सिध्यति । अस्मन्मते किं स्यादित्याह - उत्तरत्रेति वृत्तिः।
नन्वत्र “अधीगर्थदयेशां कर्मणि" (अ० २।३।५२) इति पाणिनिसूत्रम् । अस्यार्थः- अधिपूर्व 'इक् स्मरणे' (२।१२), तदर्थोऽधीगर्थः स्मृत्यर्थ इति यावत् । "शेषे षष्ठी" (अ० २।३।५०) इति पूर्वसूत्रादस्मिन् सूत्रे शेष इत्यनुवर्तते । ततश्चाधीगर्थानां कर्मणि शेषत्वेन विवक्षिते षष्ठी भवति । यत्र तु शेषत्वं न विवक्ष्यते तत्र कर्मत्वमेव । तेन तन्मते कर्मत्वविवक्षायां 'माता स्मर्यते' इति सुतरां सिध्यत्येव [ यद् वा अनभिहिताधिकारादभिहिते न स्यात् ] । अस्मन्मते शेषत्वाशेषत्वाविशेषादत्रापि षष्ठी स्यादित्याशयेनाह-वृत्तौ कथमित्यादि । यदि उक्तार्थत्वान्न स्यात्, तर्हि कथं 'मातुः स्मर्यते' इत्यादयः । अत्राह - ययेवमिति।
नन्यस्मनपने शेषाधिकारो नास्ति, ततश्चावश्यमेवात्र कर्मत्वाभावो वक्तुमुचितः । अन्यथा 'मातुः स्मर्यते' इति भावे प्रत्ययो न स्यात् । सर्वथाकर्मकादेव भावाख्यातप्रत्ययस्येष्टत्वात् । तथा च श्रीपतिः- भावाख्यातं ध्रौव्यादित्याशङ्क्याहअविवक्षितकर्मकत्वादिति । भाष्यकाररीत्यैव ग्रन्थो व्याख्येयः । [भाष्यमते पश्चादपि कर्मविवक्षा नास्त्येवाख्याते तथानभिधानादिति सम्बन्धे षष्ठीत्युक्तम् ।] त्रिमुनिसंग्रहकारमतेऽपि वृत्तिः संगच्छते । तथाहि, ते हि पूर्वं कर्माविवक्षायां भावे प्रत्ययं कृत्वा पश्चाद् विवक्षिते कर्मण्यनेन सूत्रेण षष्ठीत्याहुः । अस्मिन् व्याख्याने यदीत्यादिवृत्तिपङ्क्तेरयमाशयः । त्रिमुनिसंग्रहकारमते अनेन सूत्रेण कर्मणि षष्ठी सिध्यत्येव । कर्मणः संबन्धितया यदि विवक्ष्यते तदा 'मातुः स्मर्यते' इति भवत्येवेति । "अधीगर्थदयेशाम्" (अ० २।३।५२) इति पाणिनिसूत्रे दयेशोरुपादानं खण्डयति - तथेति । ननु परमते यत्र शेषत्वविवक्षा नास्ति तत्र ‘सर्पिर्दयते, मधु ईष्टे' इत्यपि प्रयोगो भवति । अस्मन्मते संबन्धोऽत्र यदि विवक्ष्यते तदात्र नित्यं षष्ठ्येव ग्यादित्याह - व्याप्यग्विक्षायापिति ।
Page #236
--------------------------------------------------------------------------
________________
१९४
कातन्त्रव्याकरणम् ‘मधु ईष्टे' इति, मधु स्वीकरोति' इत्यर्थः । तथा च निरूपितस्वीकारे धातोवर्तमानत्वात् सकर्मकत्वम्, अन्यथा ऐश्वर्यार्थत्वादकर्मता स्यात् । जानातेरित्यादि । ज्ञ इति "जोऽविदर्यस्य करणे" (अ० २।३।५१) इति पाणिनिः। अस्याः - “षष्ठी शेषे" (अ० २।३ । ५०) इत्यतः पूर्वसूत्रात् षष्ठीति वर्तते । अविदर्थः अज्ञानार्थस्तत्र प्रवृत्तिवचनो मिथ्याज्ञानवचनश्च जानातिरिह गृह्यते इति काशिकावृत्तिः। तत्र संभ्रान्तिज्ञानरूपमर्थमादायाह - संभ्रान्तीत्यादि । अविपरीतार्थेति । हि यस्मादर्थेऽविपरीतार्थस्य सत्यस्य घटपटादेः परिच्छेदोऽयं घट इति । अन्यव्यावर्तनं तज्ज्ञानजन्यमित्यर्थः । असपिरेव सर्पिष्टयेति । ननु यदि असतः क्रियासिद्धौ साधकतमत्वाभावात् करणत्वं नास्तीत्युक्तं कथं सर्पिष्टयेति करणे तृतीया ? सत्यम् । यद्यप्युदकादौ प्रयोगस्थितिं प्रति सर्पिःस्वरूपा व्यक्तिरसती कार्याक्षमत्वान्न करणं भवितुमर्हति, तथाप्यन्यत्र प्रसिद्धा सर्पिष्टादिजातिरत्राध्यवसायहेतुर्भवत्येवेति साम्प्रदायिकाः। तन्न। सर्पिष्ट्वादिजातिवदन्यत्र सिद्धस्य सर्पिषोऽप्यारोपात् करणत्वसंभवेन पजीकृता असतः साधकतमत्वाभावात् करणत्वं नास्तीति यदुक्तं तदसंगतेः । तस्मादसत्या अपि सर्पिष्टादिजातेर्विवक्षया करणत्वे को विरोधः । कथमन्यथा शशविषाणम् इत्यादौ प्रयोगस्थितिं प्रति कर्तृत्वेन प्रतीतिः।
श्रीपतिरपि सर्पिषा भ्रान्तो भवतीत्यपि प्रयुक्तम् । तर्हि कथमसतः करणत्वं नास्तीति पजी संगच्छते, असतोऽपि विवक्षया करणत्वे विरोधाभावात् ? सत्यम्, एतद् दूषणं दृष्ट्वैव यत् किञ्चिदेतदपीति पत्रीकृता प्रयुक्तम् । यत् किञ्चिदिति ।निन्दितमित्यर्थः । परमार्थतस्तु करण एव संबन्धविवक्षेत्याशयः। हेमकरस्तु एतन्न बुद्ध्वा करणे संबन्धविवक्षया षष्ठी विधाय ‘सर्पिषो जानीते, मधुनो जानीते' इति यत् किञ्चित् दिमावमिदमुक्तमिति। कर्मणि संबन्धविवक्षया सर्पिषो नाथते' इत्यादिकम् उदाहर्तव्यम् इत्यर्थः । अत एवाह - एवमन्येऽपीति व्याचष्टे । तदसत्, एवमन्येऽपीत्यनेनैव तस्य वक्ष्यमाणत्वात् तस्याः पङ्क्तेर्वैयर्थ्यापत्तेः । "आशिषि नापः" (अ० २।३।५५) इति पाणिनिः। शेषे षष्ठी, ततःषष्ठी प्रवर्तते । “अधीगर्यदयेशां कर्मणि" (अ० २।३।५२) इत्यतः कर्म वर्तते । ततश्च नाथतेः कर्मण्याशंसायां षष्ठी स्यादित्यर्थः । तदभावादस्मन्मते किं स्यादित्याह-एवमन्येऽपीति । यथा करणे संबन्धविवक्षा तथा कर्मण्यपीत्यर्थः । ननु परमते यत्र शेषविवक्षा तत्रैव षष्ठी । यत्र तद्विवक्षा नास्ति, तत्र कर्मत्वमेव ।
Page #237
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१९५ तदभावादस्मन्मते पक्षे कथं कर्मत्वमित्याह – व्याप्यविवक्षेति। माणवकमुपनाथतीति पीडयतीत्यर्थः । पीडनप्रकारमेव कथयति । अङ्ग पुत्रकेति माणवकमुपनाथतीत्यत्र काशिकाप्रत्युदाहरणे शेषत्वाविवक्षाभावाद् व्यङ्गविकलतामाह-किञ्चेति । "व्यवहपणोः समर्थयोः" (अ० २।३।५७) इति पाणिनिः। अयमर्थः - द्यूते क्रयविक्रये च समर्थयोः समानार्थयोः कर्मणि षष्ठी भवति । तथा “दिवस्तदर्थस्य" (अ० २।३।५८) इत्यपरं सत्रम् । तदर्थस्य व्यवहारार्थस्य कर्मणि षष्ठी स्यादित्यर्थः । एतत्सूत्रद्वयंखण्डयति-तथेति । व्यवहारार्थानामिति । व्यवहारशब्देन द्यूतक्रयविक्रयमात्रपरिग्रहः । 'शतस्य व्यवहरति' इति शतस्य क्रयविक्रये नियुक्त इत्यर्थः ।।३२३।
[समीक्षा]
स्मरणार्थक धातुओं के कर्म में शेषविवक्षा में षष्ठी विभक्ति का विधान दोनों व्याकरणों में किया गया है | पाणिनि का सूत्र है - "अधीगर्थदयेशां कर्मणि" (अ० २१३१५२)। अन्तर यह है कि पाणिनि ने स्मरणार्थ के लिए 'अधीगर्थ' शब्द का प्रयोग किया है, जो व्याख्यागम्य है तथा इनके साथ 'दय-ईश' इन दो अन्य धातुओं का भी पाठ किया है, जबकि कातन्त्रकार इन धातुओं के कर्म में षष्ठी का विधान शेषविवक्षा से ही कर लेते हैं।
[विशेष वचन] १. संभ्रान्तिज्ञाने सर्पिषोऽसतः करणत्वाभावात् संबन्ध एव षष्ठी (दु० वृ०)। २. षष्ठीविधानप्रकरणमिदं मन्दधियां सुखार्थम् (दु० टी०, वि० प०)। ३. सभ्रान्तिज्ञानमज्ञानमेव, ज्ञानकार्याकरणात् (वि० प०)। [रूपसिद्धि]
१. मातुः स्मरति । मातृ + ङस् । माता का स्मरण करता है । यहाँ 'स्मृ' धातु का कर्म 'मातृ' है, अतः प्रकृत सूत्र द्वारा षष्ठी विभक्ति । "ऋदन्तात् सपूर्वः" (२।१।६३) से 'ऋ-अ' के स्थान में उकार तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
२.पितुरध्येति । पितृ + ङस् । पिता का स्मरण करता है । यहाँ अधि' उपसर्गपूर्वक 'इक् स्मरणे' धातु के कर्म 'पितृ' में प्रकृत सूत्र द्वारा षष्ठी विभक्ति का निर्देश । पूर्ववत् "ऋदन्तात् सपूर्वः' (२।१।६३) से 'ऋ-अ' के स्थान में उकार तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।।३२३।
Page #238
--------------------------------------------------------------------------
________________
१९६
कातन्त्रव्याकरणम्
३२४. करोतेः प्रतियत्ने [२।४।३९] [सूत्रार्थ]
प्रतियल (सत् का गुणान्तराधान) अर्थ के गम्यमान होने पर 'कृ' धातु के कर्म में षष्ठी विभक्ति होती है ।।३२४ ।
[दु० वृ०]
सतो गुणान्तराधानं प्रतियत्नः। प्रतियत्ने गम्यमाने करोतेः कर्मणि षष्ठी भवति । एधोदकस्योपस्कुरुते । एधोदकमुपस्कुरुते ।।३२४।
[दु० टी०]
करोतेः। कर्मणीत्यधिकारात् करणे न भवति । असिपत्रस्योपस्कुरुते प्रज्ञया । 'कृञः' इति सिद्धे तिपा निर्देशः सुखप्रतिपत्त्यर्थः ।।३२४।
[वि० प०]
करोतेः। एधोदकस्योपस्कुरुते इति “सूचनावक्षेपणसेवनसाहसयलकथोपयोगेषु कृञ्" (३।२।४२-२७) इति रुचादित्वादात्मनेपदम् । “उपात् प्रतियत्नविकृतवाक्याध्याहारेषु" (अ० ६।१।१३९) इति वक्तव्यवचनात् सुट् ।। ३२४।
[क० च०]
करोतेः। सतो गुणान्तराधानमिति वृत्तिः। गुणान्तरपदेन धर्मान्तरमुच्यते । तेन काण्डगुणस्योपस्कुरुते इत्यादिकमपि । अन्यथा गुणे गुणान्तराधानासंभवात् । ‘एधोदकस्योपस्कुरुते' इति । एधमुदकञ्च द्वयं संहतं करोतीत्यर्थः ।।३२४।
[समीक्षा]
आर्द्र ईंधन (लकड़ी) को सुखाता है । अर्थात् ईंधनगत जलीयांश को दूर करता है, इस प्रकार पूर्ववर्ती आर्द्रता गुण में शुष्कता का आधान किए जाने से प्रतियन अर्थ निहित है । इस प्रकार के कर्म में षष्ठी का विधान दोनों ही आचार्य करते हैं । पाणिनि का सूत्र है - "कृषः प्रतियत्ने" (अ० २।३।५३) ।
Page #239
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१९७ [विशेष वचन] १. सतो गुणान्तराधानं प्रतियनः (दु० वृ०)। २. गुणान्तरपदेन धर्मान्तरमुच्यते (क० च०)। [रूपसिद्धि]
१. एधोदकस्योपस्कुरुते। एधोदक+ ङस् । एधगत उदक का गुणान्तराधान करता है । अर्थात् सुखाता है । अतः प्रकृत सूत्र द्वारा षष्ठी विभक्ति । “इस् स्य" (२।१।२२) से डस् को 'स्य' आदेश ।
प्रतियत्न अर्थ के विवक्षित न होने पर सूत्र की प्रवृत्ति नहीं होगी । अतः वहाँ कर्म में द्वितीया की जाती है - 'एधोदकमुपस्कुरुते' ।।३२४।
३२५. हिंसानामज्वरेः [२।४।४०] [सूत्रार्थ ] ज्वर्वर्जित अन्य हिंसार्थक धातुओं के कर्म में षष्ठी विभक्ति होती है ।।१२५॥ [दु० वृ०]
हिंसार्थानां धातूनां ज्वरिवर्जितानां प्रयोगे कर्मणि षष्ठी भवति । चौरस्य रुजति, दास्या आमयति, चौरस्योज्जासयति, चौरस्य निहन्ति, चौरस्य प्रणिहन्ति, चौरस्योन्नाटयति, चौरस्योत्क्लाथयति, चौरस्य पिनष्टि ।अनित्यमपि - चौरं रुजतीत्यादि । हिंसार्थानामिति किम् ? धानाः पिनष्टि । अज्वरेरिति किम् ? चौरं ज्वरयति । चौरस्य संतापयतीतीष्यत एव ।।३२५।
[दु० टी०]
हिंसा० । उज्जासयतीति । 'जसु हिंसायाम्, जसु ताडने' (९।९७, १३८) वा इनन्तः । उत्क्लाथयतीति । श्रथ क्रय क्लथ हिंसाः ' (१।५१६) इति घटादौ ‘घटादयो मानुबन्धाः' इति ह्रस्वं प्राप्नोति | सत्यम् । उत्क्लथनम् उत्क्लाथस्तं करोति इतीन् 'उत्क्लाथयति' । धानाः पिनष्टीति प्रत्युदाहरणं यथाकथंचिन्न पुनरिदं सूत्रव्यावृत्तिपरम् । किं तर्हि कर्मणि विहितायाः षष्ट्याः संबन्धषष्ठयाश्च साध्यभेदो नास्तीति प्रदर्शनमात्रं फलम् । धानानां पेषणं नहि संबन्धीति मन्यते । अज्वरेरिति प्रतिषेधश्च
Page #240
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
१९८ हिंसार्थग्रहणेन रुजार्थानामपि ग्रहणमस्ति । प्राण्युपघातस्य हिंसाया इहापि संभवादित्याविर्भावार्थः। अन्यथा हिंसाशब्दचोदितानामेव ग्रहणं स्यादिति । तेन संबन्धविवक्षायां चौरस्य ज्वरयति कर्कटीत्यपि भवितव्यमेव । तस्माद् रुजार्थानां भावकर्तृकाणां ज्वरिसंतापिवर्जितानां जासिनिप्रहणनाटिक्लाथिपिषां हिंसानामिति नादरयति । चौरस्य रुजति रोगः, दास्या आमयत्यामः इत्यव्यभिचारात् । निप्रशब्दयोर्विगृहीतसमस्तविपर्यस्तयोर्ग्रहणमिष्टमिति । चौरस्य हन्तीत्यपि भवितव्यमेव संबन्धविवक्षया ।।३२५।
[वि० प०]
हिंसा० । इहाज्वरेरिति प्रतिषेधाद् हिंसार्थग्रहणेन रोगार्थानामपि ग्रहणम् । न तु प्राणिवध एव प्रतिषेधस्यानुपपत्तेरिति । अतो रुजार्थधातुप्रयोगेऽप्युदाहरति - चौरस्य रुजति, दास्या आमयतीति । तेन "कजार्थानां भाववचनानामज्वरेः" (अ० २।३।५४) इति न वक्तव्यम् । अर्थान्तरेणैतद्वचनं भाववचनानामेव प्रयोगे कथं स्यात् ।
'चौरस्य रुजति रोगः, दास्या आमयति आमः' इति द्रव्यवचनानामपि प्रयोगे षष्ठी स्यात् । तथा श्लेष्मा पुरुषं रुजति, रुजति कूलानि नदी ? सत्यम् । इहापि संबन्धे षष्ठ्या भवितव्यमेव । तथाहि 'चौरस्य ज्वरयति कर्कटी' इति ज्वरेरपि द्रव्यवचनस्य प्रयोगे षष्ठी भवति, किं पुनरन्यस्येति, न ह्यत्र संबन्धे षष्ठी प्रतिषिद्धा | भाववचनानां भावकर्तृकाणामित्यर्थः । यद्येवम्, कर्मणि संबन्धे वा विहितायाः षष्ठ्या विशेषाभावाद् एतदपि सूत्रमनर्थकम् ? सत्यम् । अनर्थकमेव, किन्तु सुखार्थमेवोक्तम् । तथा "उज्जासिनिप्रहनिनाटिक्लाथिपिषां हिंसायाम्" (अ०२।३।५६) इत्यपि न वक्तव्यम्, हिंसार्थत्वादेव जास्यादिधातुप्रयोगे सिद्धत्वादित्याह - चौरस्येत्यादि ।न चात्र निप्रहनकृतविशेषोऽस्ति । केवलस्यापि हन्तेः प्रयोगे संबन्धविवक्षया षष्ठ्या भवितव्यमेव । 'चौरस्य हन्ति, चौरस्योज्जासयति' इति । जसु हिंसायाम्, जसी ताडने वा चुरादाविनन्तः । इह निप्रशब्दयोर्विगृहीतसमस्तविपर्यस्तयोर्ग्रहणमिष्टम् । उन्नाटयतीति चुरादाविन् । उत्क्लाथयतीति । कथमिदम् 'श्रय क्रय क्लय हिंसाः ' (११५१६) इति घटादौ पठ्यते । घटादयश्च मानुबन्धा इति मानुबन्धानां ह्रस्वं प्राप्नोति ? सत्यम् । उत्क्लथनम् उत्क्लाथस्तं करोतीति इना सिद्धम् । पिनष्टीति । पिष्ल संचूर्णने "स्वराद् रुपादेः परो नशब्दः" (३।२।३६) । इदमपि यथाकथंचित् प्रत्युदाहतम् । इहापि संबन्धे षष्ठी
Page #241
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
केन निवार्यते, न हि पेषणं धानासंबन्धि न भवति । अज्वरिसंताप्योरिति कश्चिद् आह । तदयुक्तम्, इष्यते एव षष्ठीत्याह - चौरस्येत्यादि । तथा चाह चन्द्रगोमी'ज्वरिसंताप्योरपि संबन्धविवक्षायां षष्ठी भवति' इति ।। ३२५
१९९
[ क० च० ]
हिंसा० । हिंसानामिति सिद्धेऽर्थग्रहणं सुखार्थम् | हिंसाशब्दस्यार्थपरत्वे संदेहाभावात् शब्दपरत्वे लक्षणापत्तेर्बहुवचननिर्देशाच्च । ननु प्राणवियोगफलकव्यापारो हिंसेति प्रसिद्धत्वाद् रुजार्थानां प्रयोगे षष्ठी नास्त्येव, कथम् अज्चरेरिति प्रतिषेध इत्याह – अज्वरेरिति । यद् वा पाणिनिना " रुजार्थानां भाववचनानामज्वरेः” इति “जासिनिप्रहणनाटिक्लाथिपिषां हिंसायाम्" (अ० २। ३ । ५४,५६ ) इति सूत्रद्वयेन रोगार्थहिंसार्थयोः प्रयोगे षष्ठी विधीयते । तदभावादस्मन्मते रुजार्थप्रयोगे कथं स्याद् इत्याह- हाज्वरेरिति । ज्वरिप्रतिषेधात् प्राणिपीडामात्रं हिंसेति गम्यते । तथाहीत्यादि । अथ ज्वरिणा योगेऽपि यदि षष्ठी तदा कथं चौरं ज्वरयतीति प्रत्युदाहृतम्, अज्चरेरित वर्जनं वा किमर्थम् ? सत्यम् | अज्वरेरिति प्रतिषेधो हिंसायाम् इत्युक्ते प्राणवियोगार्थस्यैव ग्रहणे रोगार्थस्य न स्यादिति रोगार्थस्यापि ग्रहणार्थः । प्रत्युदाहरणं पुनः परमतानुसारेणैव वृत्तौ प्रदत्तम् ।
अज्चरेरिति किमितिं वृत्तिः । ननु अज्वरेरिति खण्डने चौरस्य रुजतीत्यादौ कथं स्यात् प्राणवियोगार्थाभावात् ? सत्यम् । अत्र हेमकरः - हिंसायामिति कृते पीडापि हिंसोच्यते, हिंसैव हिंसेति आचष्टे । वस्तुतस्तु पीडायामित्येव सूत्रमास्ताम् । हिंसारुजोर्द्वयोरपि पीडात्वाव्यभिचारात् । ननु “रुजार्थानां भाववचनानामज्वरेः " ( अ० २ । ३ । ५४) इति परसूत्रे रुजार्थानामित्यस्य भाववचनानामिति विशेषणेन किं प्रयोजनम् । रुजार्थानां भाववचनत्वाव्यभिचारादित्याह - भाववचनानां भावकर्तृकाणामित्यर्थः इति । वक्त वचनः।“कृत्ययुटोऽन्यत्रापि (४|५|९२ ) इति वचनात् कर्तरि युट् । अत्र वचनशब्देन प्रकृत्यर्थं परित्यज्य प्रत्ययार्थः कर्तेवाख्यायते । तेन भावः क्रियारूपो वचनः कर्ता येषामिति बहुव्रीहिः ।
एवञ्च परमते 'रावणस्येव रोक्ष्यन्ति कपयो भीमविक्रमाः' इति भट्टिप्रयोगे संबन्ध एव षष्ठी नास्य विषयः । यद् वा कपयो भीमविक्रमाश्च रोक्ष्यन्तीति भावकर्तृत्वमस्त्येवेति भट्टिटीकाकृता सुखार्थमिति । एतेन यत्र संबन्धविवक्षा तत्रैवास्य सूत्रस्य
Page #242
--------------------------------------------------------------------------
________________
२००
कातन्वव्याकरण
सूत्रस्य विषय इति । अत एव रुजन्ति चेतः प्रसभं ममाधयः' इति व्याप्यविवक्षाया सिद्धम् । परमतेऽत्र विशेषविवक्षा नास्तीति न षष्ठी । ननु पदि संबन्धविवराया सूत्रमिदं सुखार्थमुच्यते, तदा 'देवदत्तो यज्ञदत्तेन चौरस्य घातयति' इत्यत्र धातोरकर्मकत्वाद् अनिनन्तकर्तुः कर्मता स्यात् । 'देवदत्तेन चौरो हतः' इत्यत्र 'देवदत्तश्चौरस्य हतः' इति कर्तरि क्तः स्यात् । नैवम्, संबन्धविवक्षया प्राक् पदं निष्पाद्य पश्चात् कर्मत्वं तस्य विवक्षणीयमिति । जासिनिप्रहनीत्यादि । यद्यपि हन्तेरकारवतः इत्यस्य न विषयः पदान्तत्वात् निप्रशब्दस्यानुकरणत्वेनोपसर्गाभावाच्च । तथाप्यत एव निर्देशाण्णत्वमिति मैत्रेयः। विगृहीतसमस्तेत्यादि । विगृहीतौ पृथग्भूतावित्यर्थः ।
अत्र हेमकरः- विगृहीतश्च समस्तश्च विपर्यस्तश्चेति विशेष्यविवक्षया द्वन्द्व पश्चानिप्रशब्दाभ्यां सह विशेषणत्वेनान्वयाद् विगृहीतसमस्तविपर्यस्तयोरिति द्विवचनमिति, न तु समाहारद्वन्द्वे इतरेतरयोगे वा एकवचनबहुवचनप्रसङ्गः इति । यथा रक्तश्च विकारश्च रक्तविकारस्तद्धितः । वश्च मश्च वमसंयोग इति, तु कर्मधारयः । योऽसौ समस्तो नासौ विगृहीतः नासौ विपर्यस्त इति तुल्याधिकरणत्वाभावादित्याचष्टे । तन्न । भेदविवक्षया द्वन्द्वे कृते बहुवचनप्रसङ्गादर्थस्याभेदविवक्षायां द्वन्द्व एव न स्यादिति । तस्माद् विगृहीतौ च तौ समस्तौ चेति विगृहीतसमस्तौ पुनर्विगृहीतसमस्तौ च तौ विपर्यस्तौ चेति कर्मधारयगर्भ एव कर्मधारयः । यत्तु रक्तश्च विरक्तश्च तद्धित इति दृष्टान्तितम्, तत्रापि कर्मधारय एवेति वमसंयोगादित्यत्र व्याख्यातमिति ।।३२५/
[समीक्षा]
हिंसार्थक धातुओं के प्रयोग में कर्म में षष्ठी विभक्ति का विधान दोनों व्याकरणों में किया गया है । अन्तर यह है कि पाणिनि रुजार्थ तथा हिंसार्थ में भेद मानकर तदर्थ दो सूत्र बनाते हैं - "रुजार्थानां भाववचनानामज्वरेः, जासिनिप्रहणनाटकाथपिषां हिंसायाम"(अ० २।३।५४, ५६) । कातन्त्रकार ने रुजार्थ-हिंसार्थ को अभिन्न मानकर एक ही प्रकृत सूत्र बनाया है |
[विशेष वचन]
१. अज्वरेरिति प्रतिषेधश्च हिंसार्थग्रहणेन रुजार्थनामपि ग्रहणमस्ति । प्राण्युपघातस्य हिंसाया इहापि संभवात् (दु० टी०)।
Page #243
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याय चतुर्थः कारक::
२. तथा चाह चन्द्रगामा - ज्चरिसंताप्योरपि संवन्धविवक्षायां षष्ठो भवतांति
(दु० टी०)। ३. ज्वरिप्रतिषेधात् प्राणिपीडामात्रं हिंसति गम्यते (क० ५७) । [रूपसिद्धि]
१. चौरस्य रुजति । चार + ङस् । चोर को रोगो बनाता है । प्राणिपाडामात्र अर्थ यहाँ हिंसापद से अभीष्ट है, रोग से भी पीडा अवश्य होती है । इस प्रकार हिसार्थ के विद्यमान होने से प्रकृत सूत्र द्वारा षष्ठी विभक्ति । “उस् त्य" १२१११२२) से ङस् को 'स्य' आदेश ।
२-१० = दास्या आमयति। दासी + ङस् । चौरस्योज्जासयति। चौर -- छस् ! चौरस्य निहन्ति। चौर + ङस् । चौरस्य प्रणिहन्ति। चौर + ङस् । चौरस्योबाहयति । चौर + ङस् । चौरस्योत्क्लाथयति । चौर + ङस् । चौरस्य पिनष्टि। चौर + ङस् । चौरस्य सन्तापयति । चौर + ङस् । व्याधि-विनाश-हनन-कष्ट पहुँचाना-प्राणी को पीस देना तथा सन्तप्त करना भी हिंसा ही है, अतः प्रकृत सूत्र से उक्त सभी स्थलों में षष्ठी विभक्ति । 'चौर' शब्द से ङस् को स्य आदेश । 'दासी' शब्द से परवर्ती ङस् को "नया ऐ आसासाम्' (२।१।४५) से 'आस्' आदेश, “इवर्णो यमसवर्णे न च परो लोप:' (१।२।८) से ईकार को यकार तथा "रेफसोर्विसर्जनीयः' (२।३।६३) से सकार को विसर्ग ।। ३२५
३२६. कर्तृकर्मणोः कृति नित्यम् [२।४।४१ } [सूत्रार्थ]
कृत्प्रत्ययान्त शब्दों के प्रयोग में कर्ता तथा का ... .. । होती है ।। ३२६।
[दु० वृ०]
कर्तृकर्मणो : कृत्प्रयोगे नित्यं षष्ठी भवति । भवत शाायेका : भवत: आसिका : कणि च -- अपां स्रष्टा । पुरा भत्ता | कृतीति किम ? तद्धितश्यागे मा भूत् - 'कृतपूर्वी कटम्'।
Page #244
--------------------------------------------------------------------------
________________
२०२
कातन्त्रव्याकरणम्
[दु० टी०]
कर्तृ० । कारकविभक्तिरेवेयं द्वितीयातृतीययोरपवादः । भवतः शायिका, भवत आसिका' इति “पर्यायाहर्णेषु च" (४।५।८९) इति चकारेणाधिकृते भावमात्रे वुञ् । भवता शयितव्यम् । भवता आसितव्यम् इत्यर्थः । एवं वररुचेः कृतिः, ब्राह्मणस्य प्रादुर्भावः । कर्तृकर्मणोरिति किमर्थं करणे मा भूद् इति-शस्त्रेण भेत्ता | कृतीति किम् ? त्वया पच्यते, ओदनं पचति । द्वितीयातृतीययोर्विशेषानुपादानात् त्यादिषु कृत्सु च पर्यायः स्यात् । नैवम्, निष्ठादिषु विषयत्वात् । तर्हि अत्रैवेत्यादिपाठः क्रियतां "न निष्ठादिषु"(२।४।४२) इत्यादिशब्दः प्रत्येकमभिसंबध्यते इत्यालोच्याह - कृतीत्यादि । करणं कृतम् , कृतं च तत् पूर्वञ्चेति विग्रहः । कृतपूर्वम् अस्यास्तीतीन् । यद्यपि (कृतस्य) कटस्य कृतपूर्वमस्यास्तीति बुद्ध्यवस्थानिबन्धनो वाक्यव्यवहारः । तथापि क्तान्तमिदं तद्धितार्थे गुणीभूतं कटादिभिर्न संबध्यते, अतः क्रियावता क; तद्धितप्रत्ययास्तेन संबन्धः कटादीनां कर्मणां भवत्येव । कर्तुरस्य करोतीति क्रियाव्याप्यत्वाद् द्वितीयेति भावः।
अकर्मकत्वे सत्येव क्तान्तं भावाभिधायिवत् ।
अतः क्रियावता क; योगो भवति कर्मणाम् ॥इति । एतदपि तर्हि निष्फलं निष्ठाश्रयः प्रतिषेधो भविष्यति यथा गतं देवदत्तेन ग्राममिति । एवं सति मन्दधियां सुखार्थमेव कृद्ग्रहणमिति । नित्यग्रहणं सप्रयोजनं दर्शितमेव । ननु स्मृत्यर्थकर्मणीत्यतः एकविभक्तियुक्तमपि कर्मग्रहणं यथेतरयोर्योगयोरनुवर्तते, तथात्र “कर्तरि च कृति नित्यम्" इति कृते चकारेणानुकृष्यत एव ? सत्यम् । कर्मग्रहणं कर्मणि कर्मणीति प्रतिपत्त्यर्थम् । तेनोभयप्राप्तिके कृति कर्मण्येव षष्ठी सिद्धेति ‘आश्चर्यो गवां दोहोऽगोपालकेन' इति कर्तरि तृतीयेव । सम्बन्धविवक्षायां तु षष्ठ्या भाव्यमेव । आश्चर्यो गवां दोहोऽगोपालकस्य । अकाकारयोः स्त्रियां नायं नियमः । भेदिका यज्ञदत्तस्य काष्ठानाम् । चिकीर्षा देवदत्तस्य कटस्य । तदेतत् कथं संबन्धस्यैव विवक्षितत्वात् कुतः कर्तरि तृतीया ? एतस्यां स्मृतौ 'भेदिका देवदत्तेन काष्ठानाम्' इत्यपप्रयोगः । शेषे स्त्रीप्रत्यययोगे विभाषयेति न वक्तव्यम् । शोभना शर्ववर्मणः कृतिः, शर्ववर्मणेति संबन्धे षष्ठी, कर्तरि तृतीयेति । वर्तमाने क्ते षष्ठी न वक्तव्या, "न निष्ठादिषु" (२।४।४२) इति प्रतिषेधापवादः ।
Page #245
--------------------------------------------------------------------------
________________
२०३
नामचतुष्टयाध्याये चतुर्थः कारकपादः 'राज्ञां मतः, राज्ञां बुद्धः' सापि संबन्धविवक्षायां सिद्धेति । भूतविहितस्य क्तस्य वर्तमानविहितः क्तः खलु धातुसामान्यविशेषभावेन बाधक एवेति मन्यमानेन केनचित् 'त्वया मतम्, मया ज्ञातम्' इत्यपप्रयोगः कृतः । मत्यर्थाद् वर्तमाने क्तः इति कर्तरि षष्ठ्या भाव्यम् । नैवम् । तत्र भूते क्तः सिद्धो वर्तमानेऽपीति सिद्धान्तः । तथा च ज्यनुबन्धेत्यादिसूत्रं प्रत्याख्यातम्, पूर्वपूर्वव्यापारे धातूपात्तमितरमाश्रित्य भूते निष्ठा स्यात् । शृङ्खलादिसंयोगोऽस्वतन्त्रफलोपलब्धः । स चापरिसमाप्त एव प्रारब्धापरिसमाप्तौ वर्तमानत्वमत्र शृङ्खलादिसंयोगलक्षणो बन्धो निष्ठित एवेति भूतप्रत्ययो युक्त इति कथं प्रत्याख्यानं कथं वापप्रयोगः स्यात् ।।३२६ ।
[वि० प०]
कर्तृ० । भवत इत्यादि । “पर्यायाहर्णेषु च" (४।५।८९) इत्यत्र चकारेणाधिकृते भावमात्रे वुञ्, ततः कर्तरि षष्ठी । 'भवता शयितव्यम्, भवता आसितव्यम्' इत्यर्थः । स्रष्टेति । सृज विसर्गे तृच् । “सृजिदृशोरागमोऽकारः" (३।४।२५) इत्यादिनाऽकारागमः, भृजादीनां षः। अथ किमर्थं कृद्ग्रहणम्, आख्यातप्रयोगे मा भूत् । त्वया क्रियते, कटं करोतीति । न चेह द्वितीयातृतीययोबधिकत्वमिति शक्यते वक्तुम्, तयोर्निष्ठादिषु चरितार्थत्वात् । विशेषविधानाभावाच्च कथं बाधकत्वम् । तर्हि नहि 'निष्ठादिषु' इत्युच्यते । आदिशब्दस्य प्रत्येकमभिसंबन्धात् त्यादेरपि वर्जनं भविष्यतीत्याह - कृतीत्यादि। करणं कृतम्, नपुंसके भावे क्तः । कृतं च तत् पूर्वं चेति कृतपूर्वम्, तदस्यास्तीति इन् । इह कर्ता तद्धितेनैकोक्त इति कर्तरि षष्ठीप्रसङ्गो नास्तीति । किन्तु कटात् कर्मणः षष्ठी स्यादिति प्रत्युदाह्रियते । ____ ननु कटस्य कृतपूर्वम् अस्यास्तीति बुद्ध्यवस्थानिबन्धने वाक्ये कटात् षष्ठी दृश्यते, समासे तु ततः कथं द्वितीया ? सत्यम् । उत्पन्ने तद्धिते क्तान्तस्य तद्धितार्थे गुणीभूतत्वात् कटादिसंबन्धो निवर्तत इति । क्रियावता तद्धितप्रत्ययवाच्येन का कटादिः संबध्यमानस्तक्रियया व्याप्यते इति कर्मत्वं सिद्धम् । यद्यपि कर्मणि क्तः, तथापि द्वितीया भवत्येव । तेन हि सामान्यं कर्म उक्तम्, न विशिष्टम्, कथं विशिष्टकर्मद्योतिका द्वितीया उक्तार्था । तर्हि कृतः कट इति वाक्ये क्तेन कथं विशिष्टकर्माभिधानमिति चेत्, तदयुक्तम् । कृत इत्यनेन सामानाधिकरण्यात् तद्धितवृत्तौ पुनरेकार्थीभावात् सामानाधिकरण्याभावे तद्धिताभिधेयस्य कर्तुः करोतिक्रियया
Page #246
--------------------------------------------------------------------------
________________
।
।
ह.भाना
कोलिन का साकारल्या योग भवनायन, ...
च्यात इयत्र नामशब्दात में कमाए पायो । यो विहित : प्रत्यासत्या तस्व मार मणातिहणत . महोबा और मोम कय स्वा सदस्य कामकाजात नैनः शतभिषा भिहितबन् प्रकाशते' (क)
इति न्यायात प्रधानामताव्यातक्रियावाद लोग अलापूर्वी कट-' ते: । ननु करनन कदमहणजानियता बाना विमानचात नवम्, क़दग्रहणं कृति विद्यमाने तद्धितप्रयोग मा भूट एतदर्थम् । ताहे औपगय कटल्य कता इत्यादि तदिनप्रयोग न स्यात् । सबम् । कद्ग्रहणं कदया कर्मणि, पष्ट
यं तेन कनपूर्वा कटम् इत्यत्र कृता बागाभावान्न षष्ट गत टम्स का इत्यत्र तामह योग जाति - वियत तयगर्ने ठादि चरितार्थत्वादिति पजी | पक्षान्तरमाह - विशंपविधानाभावाचति । द्वितीया तृतीययोति सामान्यांवधानादि, कर्तरि पल्टीपल को नालाति
int'
दा भयानकता : काका यो कालो !
. नवन्धमतरतीति ( न्यायादिति । माद । सुखार्थीमाते . ननु : ग्रहणं सुखामिति .. - चित स्थान विद्यमान वाटात । तथा तिन-प्रदान कर -
माया मावा ग्रहण, तः रत पंद्रहण तर
Page #247
--------------------------------------------------------------------------
________________
माध्याय मा क : कृत्प्रत्ययमात्र योगे भवतीति लिया कि मन . तद्धितप्रत्यये न स्यादिति । लिः नई :पाचकतर इति भवत्येव । यांटे कदाचिद् आरन मात्रा . ला
, तदा निष्टादौ तरतमत्रत्यय, मामिति । अनि
माय- . 'धायैरामोदमुत्तपम्, बुद्धिपूर्व मा राजकृया पिता लाए पनि भट्टिायो ।
प्रत्ययः । राजकृत्वेति । राज - मोतीनि बाल कलामः दि मन - प्रत्ययश्च निष्टादिरिति ।
हेमकरस्तु - ननु कथं कृद्ग्रहणं सुखार्थम् , यावता तत्र न निष्ठान्तकरोतिद्वारकम् , कि तार्ह अन्यकृदन्तद्वारकं नई, तत्र षष्ठी न भवतु । एतदर्थमेव कृद्ग्रहह्मापवश्य कर्तव्यमिति, यथाकारपूर्वीकरमिति, नैवम् । कारपूर्वी कटस्येति भवत्येवेति पुखार्ट मित्याचष्टे । तन्न ! कारपूर्वीक स्येत्यप्रयोगात् । तस्मात् कृद्ग्रहणं कृयोग इस बप्टीप्रतिपत्रार्थमित्युक्तम --
अवाप्तरियं विधिवद् गुरुभ्यस्तं यौवनोदभेदविशेषकानम् । श्रीः सामिषापि ग्घोत्लुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ।।
(रघुल ३ !३३ इति कालिटासप्रयोगऽमिलापस्य कर्मणि द्वितीयैव, कृता सह बोगा भावाल : ततश्च वृत्तावपि दिनोगे का अतिति यत् ताईत बहस तत सोरता - मात्रस्योपलक्षा नोकाम् । गमन पनि कानुन मा काम --- --- प्रत्युदाहरणापेश्यैव गोगा !
[समीक्षा]
कृदन्त शन्दों के कर्ता तथा कर्म में पदी का विधान दोनों ही अपने किया है । पाणिनि का सूत्र है . ' कर्तृकर्मणो : कृति' (अ० २।३ । ६५) । अत : व
[विशेष रचन] १ वदानिवपनी बाययवहार. १८tc
Page #248
--------------------------------------------------------------------------
________________
२०६
कातन्त्रव्याकरणम् ३. प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत् प्रकाशते (क० च०)। ४. कृद्ग्रहणं कृद्योगे कर्मणि षष्ठीति विशेषलाभार्थम् (क० च०)। [रूपसिद्धि]
१. भवतः शायिका। 'शी' धातु से भाव अर्थ में वुञ् प्रत्यय होकर 'शायिका' शब्द निष्पन्न होता है, उसका कर्ता भवन्त्' शब्द से प्रकृत सूत्र द्वारा षष्ठी विभक्ति । भवन्त् + ङस् , नलोप तथा “रेफसोर्विसर्जनीयः' (२।३।६३) से स् को विसगदिश |
२. भवतः आसिका। आस् धातु से भाव अर्थ में वुञ् प्रत्यय होने पर निष्पन्न 'आसिका' शब्द के कर्ता भवन्त् में प्रकृत सूत्र द्वारा षष्ठी विभक्ति ।
३. अपां मष्टा। सृज् धातु से तृच्प्रत्ययान्त 'स्रष्टा' के कर्म ‘अप्' शब्द में प्रकृत सूत्र द्वारा षष्ठी विभक्ति । अप् + आम् ।
४. पुरां भेत्ता । तृच्प्रत्ययान्त 'भेत्ता' के कर्म 'पुर्' शब्द में प्रकृत सूत्र द्वारा षष्ठी विभक्ति । पुर् + आम् ।। ३२६।
३२७. न निष्ठादिषु [२।४।४२] [ सूत्रार्थ]
निष्ठादिकृत्प्रत्ययान्त शब्दों के प्रयोग में कर्ता तथा कर्म में षष्ठी विभक्ति नहीं होती है ।। ३२७।
[दु० वृ०]
कर्तृकर्मणोनिष्ठादिषु प्रयोगे षष्ठी न भवति । देवदत्तेन कृतम् ओदनं भुक्तवान् । ओदनं पचन् । ओदनं पचमानः । तत्र निष्ठादयः-क्त, क्तवन्तु, शन्तृङ्, आनश्, वन्सु, कि, उदन्त, उकञ्, अव्यय, खलर्थ, तृन् । द्विषः शत्रौ वा वक्तव्यम् । चौरं द्विषन्, चौरस्य द्विषन् ।। ३२७।
[दु० टी०]
न नि०। पूर्वेण प्राप्ता निषिध्यते । “क्तक्तवन्तू निष्ठा" (४! १ । ८४) इति वक्ष्यति । निष्ठैवादिर्येषामिति बहुव्रीहौ आदिशब्दो व्यवस्थावचन इत्याह – क्तेत्यादि ।
Page #249
--------------------------------------------------------------------------
________________
२०७
नामचतुष्टयाप्याये चतुर्थः कारकपादः कश्चिद्-आदिशब्दस्य व्यवस्थायाचित्वाद् अधिकरणे वर्तमाने च विहितस्य क्तप्रत्ययस्य न ग्रहणमिति मन्यते । तदयुक्तम्, निष्ठात्वं तस्य केनापनोद्यत इति । "इधारिभ्यां शन्तृङ् अकृच्छ्रे"(४।४।१०)-अधीयन् पारायणम् । धारयन् लोकायतम् । “पूयजोः शान" (४।४।८)- सोमं पवमानः । कवचम् उद्वहमानः- "शक्तिवयस्ताच्छील्ये" (४।४।९) । घटं विद्वान् इति पण्डितार्थत्वाद् वन्सुरेव | वचनम् अनूचानः । उपसेदिवान् गुरुम् | “आद् ऋवर्णोपघालोपिनां कि· च" (४।४।५३) दधिर्गाम्, चक्रि कटम् । "भाज्यलंकृञ्०" (४।४।१६) इत्यादिना इष्णुच् - कन्यामलंकरिष्णुः । “जिभुवोः ष्णुक्" (४।४।१८) इति । अरिं जिष्णुः । "त्रसिगृधिधृषिक्षिपां क्नुः" (४।४।२०)धनं गृध्नुः । “सनन्ताशंसिभिक्षामुः" (४।४।५१)- कटं चिकीर्षुः । इह व्यपदेशिवद्भावाद् उकारान्तता । 'येन विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धमन्तग्रहणं गणे सुखार्थम् ।
"श्रकम०" (४।४।३४) इत्यादिना उकञ्-ग्रामं गामुकः, भोगानभिलाषुकः । उकप्रतिषेधक एव प्रतिषेध इष्टः । दास्याः कामुकः रिरंसुविषये । अन्यत्र भोगान् कामुकः ।तन्न वक्तव्यम्, संबन्धस्यैव विवक्षितत्वात् । गणकृतमनित्यमित्येके ।अव्ययम् - कटं कृत्वा, घटं कर्तुं गतः । खलर्थः- ईषत्करः कटो भवता । ईषत्पानः सोमो भवता। तृन्-वदिता जनापवादान् । अको भविष्यद्विहितः इंश्च भविष्यदधमर्णविहित इह पठितव्यम् । कटं कारको व्रजति । क्रियायां क्रियार्थायामिति वुण् । ग्रामं गमी, ग्राममागामी भविष्यति गम्यादयः । शतं दायी । आवश्यकाधमर्णयोर्णिन् । भविष्यदधिकारविहितस्याकस्येह ग्रहणम् । तेन वर्षशतस्य पूरकः । पुत्रपौत्रस्य दर्शकः । “द्विषः शत्रौ शन्तृङ्" (४।४।११) इति कर्मणि द्वितीया, सम्बन्धविवक्षायां तु षष्ठीति मनसिकृत्याह -द्विष इत्यादि । 'ईषत्करः कटो भवतः, शतस्य दायी' इति संबन्धविवक्षापि दृश्यते । “कृत्यानां कर्तरि वा" (अ० २।३।७१) इति न वक्तव्यम् । भवतः कटः कर्तव्यः' इति संबन्धे, 'भवता कटः कर्तव्यः' इति कर्तरि । ननु यदि विवक्षाया एव प्राधान्यं दर्शितम्, तर्हि कृति निष्ठादिवर्जिते संबन्धे षष्ठ्येव कर्मणि द्वितीयेति ? सत्यम् । व्यापकं सूत्रमिदं विवक्षया निर्वोदुमनुचितं मन्दधियः संकरमपि प्रतिपद्यन्त इति भावः ।।३२७।
Page #250
--------------------------------------------------------------------------
________________
१०८
कालव्याकरण
[वि० प० ]
न नि | अनुङ्, आनशु इति । "इधारिभ्यां शन्तृङकृच्छ्रे" (४|४|१०) - अधीयन् पारायणम्. धारयन्नुपनिषदम् । "वर्तमाने शन्तङानशी (४|४|१) इत्यादिना विहितयोः शन्तुङानशोरुदाहृतं वृत्तौ । तथा " पूयजोः भानङ' (४/४/८) - सोमं त्वमानः । “शक्तिवयस्ताच्छील्ये" (४।४।९) - कवचम् उद्वहमानः । “क्वन्सुकानौ परोक्षावच्च'' ( ४ । ४ । १ ) इति - कटं चक्राण: । क्वन्सु - ओदनं पेचिवान् । पचेः क्वन्सौ द्विर्वचनम् | "अस्यैकव्यञ्जनमध्ये" ( ३ | ४ | ५१ ) इत्यादिना एत्वम् अभ्यासलोपश्च । 'अर्तीणघसैकस्वरातामिडूवन्सौ " ( ४/६/७६ ) इति इटि रूपमिदम् । तथा "वेत्तेः शन्तुर्वन्सुः” (४।४।४)– कटं विद्वान् । "आदृवर्णोपधालोपिनां किर्डे च' (४|४|५३) इति कि: - दधिर्घटम । चलिः कटम् । उदन्तः - " भ्राज्यलंकृञ्०" (४|४|१६) इत्यादिना इष्णन् –कन्पालंकरिष्णुः । “जिभुवोः ष्णुक्” (४|४|१८) - जिष्णुः शत्रून् । "सिगृतिवृषिक्षिपां क्तुः " ( ४/४/२० ) - धनं गृध्नुः । " सनन्ताशंसिभिक्षामुः " (४|४|११ ) - कटं चिकीर्षुः । व्यपदेशिवद्भावादत्रोदन्तता । “श्रूकमगमहन०” (४ | ४ | ३४ ) इत्यादिना उकञ् - ग्रामं गामुकः । कथं दास्याः कामुकः ? संबन्धस्यैव विवक्षितत्वात् । तेनोकञ्प्रतिषेधे " कमेर्भाषायामप्रतिषेधः" इति न वक्तव्यम् । अव्यय इति क्त्वामकारान्तश्च कृत् स्वभावादसंख्य इत्यव्ययमेवेति वक्ष्यति । कटं कृत्वा टं कर्तुं गतः ।
46
""
"
खलर्थ:-- “ ईषदुःसुषु कृच्छ्राकृच्छ्रेषु खल" (४।५।१०२ ) - ईषत्करः कटो भवता । तथा "आद्भ्यो य्वदरिद्रातेः " ( ४/५ १०४ ) - ईषत्पानः सोमो भवतो । नृन् – वदिता जनापवादान् । तथा आदिशब्दस्य व्यवस्थावाचित्वात् अको भविष्यद्विहित इंश्च भविष्यदधमर्णयोर्विहितो निष्ठादिषु द्रष्टव्यः । कटं कारको व्रजति । ओदनं पाचको व्रजति । " भविष्यति गम्यादयः " ( ४/४/६८) इत्यधिकृत्य वुण्-तुमौ क्रियायां क्रियार्थायामिति भविष्यति काले वुण् । तस्यैवाकस्य ग्रहणम्, तेन 'वर्षशतस्य पूरकः, पुत्रपौत्रस्य दर्शकः' इत्यनिर्दिष्टकालाः प्रत्ययास्त्रिष्वपि कालेषु भवन्तीति, वुण्तृचाविति भविष्यति विहिते वुणि षष्ठी स्यादेव । ग्रामं गमी ग्राममागामी । भविष्यति गम्यादयः । शतं दायी सहस्रदायी । आवश्यकाधमर्णयोर्णिन् । द्विषः शत्राविति बताय- बार संबन्धविपर्य
1
I
Page #251
--------------------------------------------------------------------------
________________
२०९
नामचतुष्टयाध्याये चतुर्षः कारकपादः [क० च०]
न नि० । ननु घटस्य विधिरित्यत्र कथं कर्मणि षष्ठी किप्रत्ययस्य निष्ठादित्वात् ? सत्यम् । तन्प्रत्ययस्य साहचर्यात् ताच्छीलिक एव "आदृवर्णोपधालोपिनाम्"(४।४।५३) इत्यादिना विहितः किप्रत्ययो गृह्यते । न तूपसर्गे दः किरित्यनेन विहित इति । अथवा आदिशब्दस्य व्यवस्थावाचित्वात् "आदृवर्णोपधालोपिनाम्" (४।४।५३) इत्यादिना विहित एव गृह्यते इति । "सत्यानुकूला नरकस्य जिष्णवः" इत्यादौ संबन्धविवक्षया षष्ठीति केचित् । 'नत्रा निर्दिष्टस्यानित्यत्वात्' (का० परि० ६७) इति प्रायः ।।३२७।
[समीक्षा]
'क्त -क्तवन्तु' आदिकृप्रत्ययान्त शब्दों के प्रयोग में कर्ता-कर्म में प्राप्त षष्ठीविभक्ति का निषेध दोनों व्याकरणों में किया गया है । अन्तर यह है कि पाणिनि ने सभी प्रत्ययों को सूत्र में शब्दशः पढ़ा है - "न लोकाव्ययनिष्ठाखलर्थतनाम्" (अ० २।३।६९), जबकि कातन्त्रकार ने इन सभी के बोधार्थ निष्ठादि गण की व्यवस्था की है । इस प्रकार सूत्ररचनाशैली में भिन्नता होने पर भी अभीष्टसिद्धि में समानता ही है।
[रूपसिद्धि]
१. देवदत्तेन कृतम् । निष्ठासंज्ञकक्तप्रत्ययान्त ‘कृतम्' शब्द के प्रयोग में कर्ता देवदत्त में प्राप्त षष्ठी विभक्ति का प्रकृत सूत्र द्वारा निषेध होने पर “कर्तरि च" (२।४।३३) सूत्र से तृतीया विभक्ति । देवदत्त + टा | “ इन टा" (२।१।२३) से टा को इन तथा “अवर्ण इवणे ए" (१।२।२) से अकार को एकार - परवर्ती इकार का लोप ।
२. ओदनं भुक्तवान् । कर्म में प्राप्त षष्ठी का निषेध होने पर "शेषाः कर्मकरण०" (२।४।१९) इत्यादि से द्वितीया विभक्ति ।
३. ओदनं पचन् । ओदनं पचमानः। निष्ठादिगण में पठित, शन्तृङ्प्रत्ययान्त ‘पचन्' तथा आनश्प्रत्ययान्त 'पचमानः' के कर्म ‘ओदन' में प्राप्त षष्ठीविभक्ति का प्रकृत सूत्र से निषेध होने पर "शेषाः कर्मकरण०" (२।४।१९) इत्यादि से द्वितीया विभक्ति ।।३२७।
Page #252
--------------------------------------------------------------------------
________________
२१०
कातन्त्रव्याकरणम्
३२८. षडो णो ने [२।४।४३] [सूत्रार्थ]
षष्-घटित षकार के स्थान में होने वाले डकार को णकार आदेश होता है, विभक्तिसंबन्धी नकार के पर में रहने पर ||३२८ ।
[दु० वृ०] षडो णो भवति विभक्तौ ने परे। षण्णाम् । विभक्ताविति किम् ? षड्नयनम् ।। ३२८ । [दु० टी०]
षडो० । एकपदप्रस्तावाद् भिन्नपदे न भवतीत्याह - विभक्तौ न इति । विभक्तिविषये यो नकारः, तस्मिन्निति । वर्णग्रहणे तदादौ मतं वा । नकारादौ विभक्तावित्यर्थः । अत्र षष्ठीबहुवचन एव नकारः, पारिशेष्यात् । षड इति डान्तमनुकृत्य षष्ठी कृता इति कश्चिदाह । अत एव डत्वनिर्देशात् स्वरे डत्वं विज्ञायते । तेन षडिकः, षडियः, षडिन इति । तदयुक्तम् । इकः, इयः, इनश्च तद्धितः अनुकम्पायां लोकोपचाराद् यथा सिद्धस्तथा षषोऽपि डत्वं संज्ञाशब्दत्वादिति । षडङ्गुलिदत्तोऽपि षडित्युच्यते । यथा भीमसेनो भीम इति । षडादेर्बहुस्वरात् नृसंज्ञकाद् इक-इय-इनेषु द्विराद्यवयवस्य लोपो वा । स्वरे इवर्णस्य लोपे स्थानिवद्भावाड्डत्वमेवेत्यन्यः । षडङ्गुलिदत्तक इति पक्षे क एव ।। ३२८|
[वि० प०]
षडो० । नकारे परे "हशषछान्तेजादीनां ङः" (२।३।४६) इति डकारोऽस्त्येव । अतो डकारस्यैवायं णकार इति । डान्तमनुकृत्य षडः षष्ठीयं वक्ष्यमाणे सर्वत्रैकपदे एव कार्यं क्रियते । तत्प्रस्तावाद् इहापि एकपद एव भविष्यति । तच्च विभक्तिमन्तरेण न संभवतीत्याह - विभक्तौ न इति । विभक्तिविषये यो नकारस्तस्मिन्नित्यर्थः । षण्णाम् इति षष् + आम् । “संख्यायाःष्णान्तायाः"(२।१।७५) इति नुरागमः, "हशषछान्तेजादीनां डः" (२।३।४६) इति डकारः । तस्यानेन णकारः । “तवर्गश्चटवर्गयोगे चटव!" (२।४।४६) इति नस्य णत्वम् ।। ३२८ ।
Page #253
--------------------------------------------------------------------------
________________
२११
नामचतुष्टयाध्याये चतुर्षः कारकपादः [क० च०]
षडो०। तत्प्रस्तावादिहाप्येकपदे भवतीति । ननु समासे सति एकपदत्वेन विभक्तिमन्तरेणापि नकार संभवति, तत्कथमुच्यते विभक्तिमन्तरेण नकारो न संभवतीति ? सत्यम् । यद्यपि समासेऽप्येकपदत्वमस्त्येव, तथापि कार्यिनिमित्तयोभिन्नपदावस्थितत्वेन प्रस्तावादिति भावः । ‘षड्नयनम्' इत्यादौ कार्यिनिमित्तयोर्नेकपदे स्थितिः अन्तर्वर्तिविभक्त्याश्रयणेन भिन्नपदावस्थितत्वात् । किञ्च पूर्वतः षष्ठ्यानुवृत्त्या विभक्तिविपरिणामेन षष्ट्या नकारे परे इति व्याख्यानात् सर्वमुपपद्यते इति ।। ३२८।
[समीक्षा]
‘षड + नाम्' इस स्थिति में कातन्त्रकार तथा पाणिनि दोनों ही ड् को ण् आदेश करके 'षष्णाम्' प्रयोग सिद्ध करते हैं । अन्तर यह है कि कातन्त्रकार स्पष्टतः ड् के स्थान में ण् आदेश का निर्देश करते हैं, जबकि पाणिनि ने अनुनासिक परे रहते यर् को अनुनासिक आदेश किया है - "यरोऽनुनासिकेऽनुनासिको वा" (अ० ८।४।४५)। इस प्रकार कातन्त्र के निर्देश में विशेष सुगमता प्रतीत होती है।
[रूपसिद्धि]
१. षण्णाम् । षष् + आम् । “संख्यायाः ष्णान्तायाः" (२।१।७५) सूत्र से नु-आगम, "हशषछान्तेजादीनां डः" (२।३।४६) से ष् को ड्, प्रकृत सूत्र द्वारा ड् को ण् “तवर्गश्चटवर्गयोगे चटव!" (२।४।४६) से न को ण् आदेश ||३२८।
३२९. मनोरनुस्वारो धुटि [२।४।४४] [सूत्रार्थ]
धुट्संज्ञक' वर्गों के परवर्ती रहने पर पद के मध्य में रहने वाले म् तथा न् के स्थान में अनुस्वार आदेश होता है ।। ३२९ ।
१. धुड् व्यञ्जनमनन्तस्थानुनासिकम् (२।१।१३)। क् ख् ग् घ् , च् छ् ज् झ्, ट् ठ् ड् द, त् थ् द् ध्, प् फ् ब् भ्, श् ष् स् ह क्ष् (तुलनीय-पाणिनीय झल् प्रत्याहार)।
Page #254
--------------------------------------------------------------------------
________________
२१२
कातन्त्रव्याकरणम्
[दु० वृ०] ___ मनोरनन्त्ययोरनुस्वारो भवति धुटि परे । पुंसः । शान्तिः। उजिता । युौ । स्वाम्पि | अनन्त्ययोरिति किम् ? प्रशान् करोति । स्यादिधुटि पदान्तवत् पुम्भ्याम्, पुंभ्याम् । प्रशान्भ्याम् । सुकन्भ्याम् । धुटीति किम् ? गम्यते । हन्यते ।। ३२९।
[दु० टी०]
मनो० । नात्र मनाभ्यां तदन्तविधिर्विशिष्यमाणस्य लिङ्गस्य धातोर्वा प्रकृतस्यासम्भवात् । न च वक्तव्यम् - नामप्रकरणत्वान्नाम प्रकृतमिति । “लिङ्गान्तनकारस्य" (२।३।५६) इत्यत्र लिङ्गग्रहणमुत्तरत्र सामान्यार्थमित्युक्तमेवेत्याह-पुंसः शान्तिरित्यादि | 'शमु दमु उपशमे' (३।४२), "स्त्रियां क्तिः " (४।५।७२), "पञ्चमोपधायाः" (४।११५५) इत्यादिना दीर्घः | स्यादिधुटि पदान्तवदिति । लथमेतत् सन्ध्यनुस्वारविधौ अन्तग्रहणेनैव दर्शितमिति । स्यादिधुटि तु स्वभावान्न विरतिरस्तीति न तत्र तदन्तता । अतो वर्णमात्रे धुटि विधिरयम् ।। ३२९ ।
[वि० प०]
मनो०।युआाविति । 'युजिर् योगे' (६।७) । युनक्तीति “सत्सूद्विष०"(४।३।७४) इत्यादिना क्विप् । “युजेरसमासे नुर्पुटि" (२।२।२८) इति नुरागमः। स्वाम्पीति । शोभना आपो येषु तडागेषु इति विग्रहे "धुट्स्वराद् घुटि नुः" (२।२।११) इति नुरागमो नपुंसकलक्षणः,"अपश्च"(२।२।१९) इति दीर्घत्वम् ।अनन्त्ययोरित्यादि । प्रशाम्यतीति क्विप् । “पञ्चमोपधाया धुटि चागुणे" (४।१।५५) इति दीर्घत्वम् । “मो नो धातोः" (४।६।७३) इति मकारस्य सस्वरो नकारः, “अस्य च लोपः" (३।६।४९) । यद्येवम् अकारलोपस्य पूर्वविधिं प्रति स्थानिवद्भावेन धुटो व्यवहितत्वाद् अनुस्वारो न भवतीति ।तदयुक्तम् । “न पदान्तद्विर्वचनवर्गान्तानुस्वारप्रथम०"(का० परि० १०) इत्यादिनाऽनुस्वारविधि प्रति स्थानिवद्भावप्रतिषेधात् प्राप्नोतीत्यनन्तरयोरित्युच्यते । तत्पुनरेकपदप्रस्तावाद् वेदितव्यम् । स्यादिधुटीत्यादि । पदान्ते .यत् कार्यं तत् स्यादिधुटि भवति विरतेरभिधानाद् इत्यर्थः । तेन "मोऽनुस्वारं व्याने" (१।४।१५) इत्यनेनैवानुस्वारः । तथा च तत्रान्तग्रहणेनैव दर्शितम् । ततो “ वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इत्यतो विकल्प एव प्रवर्तते । ततः 'प्रशान्भ्याम्, सुकन्भ्याम्' इत्यत्र पदान्तवद्भावादनन्त्यो विधीयमानोऽनुस्वारो न भवति । स्यादिधुटीति वचनं त्यादिधुटि विरतेरभिधानं नास्तीत्याविर्भावार्थम् ।। ३२९ ।
Page #255
--------------------------------------------------------------------------
________________
२१३
नामचतुष्टयाध्याये चतुर्थः कारकपादः [क० च०]
मनो० । ननु "मोऽनुस्वारं व्यअने" (१।४।१५) इत्यत्रान्तग्रहणस्य विरत्यर्थतया पुम्भ्याम् इत्यादि तेनैवानुस्वारविकल्पेन तद्वर्गान्तो भवतु । सुकन्भ्याम् इत्यत्र कथमस्य न विषयः ? सत्यम् । मकारग्रहणस्यात्राविरत्यर्थत्वे सिद्ध तत्साहचर्यान्नकारस्यापि अविरतावेवानुस्वारविधिरिति । एवं च वृत्तौ अनन्त्ययोरित्यस्याविरतिभूतयोरित्यर्थः । यत्तु एकपदप्रस्तावादनन्त्ययोरित्युक्तमिति पत्रिकायां तत् प्रशाम्करोतीत्यत्र समाधानान्तरसूचनायेति केचित् । वस्तुतस्तु एकस्मिन् मनोरिति पदे मकारं प्रति अविरतिप्रस्तावादित्यर्थः । तेन साहचर्यमेव सूचितम् । स्यादिधुटि पदान्तवदिति वृत्तावुक्तमिति केचित् । धुटीति किम् ? गम्यते इति ।
ननु धुड्ग्रहणेन गम्यते कथं व्यावृत्यते, यावता “मोऽनुस्वारं व्याने" (१।४।१५) इत्यत्राधिकृतान्तग्रहणेनैव तस्य व्यावृत्तिः सिद्धति ? सत्यम् । तत्रान्तग्रहणाधिकाराभावे पदान्ताधिकाराद् व्यञ्जन एव पदान्ते मस्यानुस्वार इति नियमे सति "मनोरनुस्वारो धुटि" इति धुड्ग्रहणं विना व्यरमत इत्यादावपदान्तेऽनुस्वारः स्यात् । पुम्भ्यामित्यत्र चानेनानुस्वारे कृते "वर्गे वर्गान्तः" (२।४।४५) इत्यनेन नित्यं वर्गान्तः स्यात् ।अस्मन्मते स्यादिधुटि पदसंज्ञाविरहात् पदत्वं न स्यात् । अतोऽन्ताधिकारो विरतिमात्रे "मोऽनुस्वारं व्यअने" (१।५।१५) इत्यस्य विषयं परिकल्प्य सफल इति । अतो युक्तं गम्यत इति प्रत्युदाहरणमिति केचित् । तन्न “वर्गे तद्वर्गः" (१।४।१६) इत्यादौ योऽन्ताधिकारसंबन्धस्तनैव पुम्भ्यामित्यस्यापि सिद्धेः, अत एवानुस्वारविधावन्ताधिकारस्य गम्यते इत्येव प्रयोजनमुक्तम्, न तु पुम्भ्यामिति । न चाव्यवहितत्वात् तत्रान्तसंबन्धः कथं स्यादिति वाच्यम्, प्रकृतत्वादन्ताधिकारबाधकाभावाच्च । किन्तु "अतोऽन्तोऽनुस्वारः" (३।३।३१) इत्यत्रान्तग्रहणबलाच्चान्ताधिकारसिद्धः । अन्यथा यदि पदान्त एव स्यान्न विरताविति । तदाऽन्तग्रहणमनुस्वारस्यापि स्थित्यर्थम् । तेन पक्षे "तद्वर्गपञ्चम०" (१।४।१६) इति वृत्तिवाक्यासङ्गतेः ।
ननु तत्रानुस्वारविधावन्ताधिकाराभावे पुम्भ्यामित्यत्र अनेनानुस्वारे कृते कथं विकल्पेन तद्वर्गपञ्चमः स्यात् । यावता उत्तरत्र सूत्रे सन्निहितत्वादेतत्सूत्रविहितानुस्वारपरिग्रहणे विकल्पं बाधित्वा पुम्भ्याम् इत्यत्रापि नित्यं पञ्चमः स्यादिति । न च सन्धिपञ्चमविधावन्तग्रहणसंबन्धस्य किं फलमिति वाच्यम्, जङ्गम्यते इत्यादौ
Page #256
--------------------------------------------------------------------------
________________
२१४
कातन्त्रव्याकरणम्
प्रयोजनसत्त्वात् । अतः पुम्भ्याम्, पुंभ्याम् इति सिध्यर्थमेव "मोऽनुस्वारं व्याने" (१।४।१५) इत्यत्र अन्ताधिकार इति । अतो गम्यते इति प्रत्युदाहरणं युक्तम् । यद् वा अन्ताधिकारबलादत्र धुग्रहणास्थितौ व्यञ्जनेऽनुस्वारो भवन् मकारस्यैव भवति, न तु प्रशान्भ्यामिति नियमः स्यात् । तथा च गम्यते इत्यत्रास्य विषयः खण्डित एव ।
___ वस्तुतस्तु “नोऽन्तश्चछयोःशकारम्"(१।४।८) इत्यत्रान्तग्रहणेनैव पदान्ताधिकारो निराकृतः। अतः सामान्येनैव तेन सूत्रेण मकारस्यानुस्वारविधाने सिद्ध यद्विरत्यर्थान्ताधिकारः समाश्रीयते, तदिह सूत्रे मकारस्याविरतिभूतत्वज्ञापनार्थम्, तेनाविरतिभूतमकारसाहचर्यान्नकारोऽप्यविरतिभूत एव गृह्यते इत्येतदेवान्तग्रहणस्य फलमिति । अन्यथा एकपदप्रस्तावात् सुकन्भ्यामित्यत्रापि एकपदेऽनुस्वारस्य प्रसङ्गः स्यादिति । यत्तु तत्रान्त इति किं गम्यते इत्युक्तम् । तत् पुनरत्र सूत्रे धुड्ग्रहणस्थितावेवेति भाव्यमन्यत् सुधीभिः ।।३२९।
[समीक्षा]
'पुम् + सः, शाम् + तिः, यशान् + सि' इत्यादि दशा में अपदान्त्य 'म्-न्' को अनुस्वारादेश दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - "नश्चापदान्तस्य झलि" (अ० ८।३।२४)। कातन्त्र व्याकरण में प्रत्याहारों की व्यवस्था न होने के कारण 'झल्' प्रत्याहार के लिए 'धुट्' संज्ञा का व्यवहार किया गया है ।
[रूपसिद्धि]
१. पुंसः। पुमन्स् + शस् । “पुंसोऽन्शब्दलोपः" (२।२।४०) से 'अन्' भाग का लोप, प्रकृत सूत्र से म् को अनुस्वार तथा “रेफसोर्विसर्जनीयः” (२।३।६३) से 'स्' को विसर्ग आदेश ।
२. शान्तिः। शम् + क्ति । उपधादीर्घ, प्रकृत सूत्र से म् को अनुस्वार, “वर्गे वर्गान्तः” (२।४।४५) अनुस्वार को नकार तथा सि-विभक्तिकार्य ।
३. उञ्छिता। उन्छ् + ता । इडागम, प्रकृत सूत्र से न् को अनुस्वार तथा “वर्गे वर्गान्तः” (२।४।४५) से अनुस्वार को ञकारादेश । __४. युनौ । युज् + औ । “युजेरसमासे नुधुटि' (२।२।२८) से नु-आगम, प्रकृत सूत्र से न् को अनुस्वार तथा “वर्गे वर्गान्तः"(२।४।४५) से अनुस्वार को ञकारादेश |
Page #257
--------------------------------------------------------------------------
________________
२१५
नामचतुष्टयाध्याये चतुर्थः कारकपादः ५. स्वाम्पि। स्वप् + जस्, शस् (नपुंसकलिङ्ग)। "जस्शसौ नपुंसके" (२।१।४) से जस्-शस् की घुटसंज्ञा, “धुट्स्वराद् वुटि नुः" (२।२।११) से नुआगम, प्रकृत सूत्र से न् को अनुस्वार, “जस्शसोः शिः" (२।२।१०) से जस्शस् को 'शि' आदेश तथा “वर्गे वर्गान्तः' (२।४।४५) से अनुस्वार को मकारादेश ||३२९।
३३०. वर्ग वर्गान्तः [२।४।४५] [सूत्रार्थ]
पद के मध्य में वर्तमान अनुस्वार के स्थान में वर्गीय अन्त्य वर्ण आदेश होता है वर्गसंज्ञक वर्ण के परे रहते ।।३३०।
[दु० वृ०]
अनन्त्योऽनुस्वारो वर्गे परे वर्गस्यान्तो भवति श्रुतत्वात् तस्यैव । शङ्किता, उञ्छिता, वण्टिता, नन्दिता, युजौ, स्वाम्पि | वर्ग इति किम् ? आक्रस्यते ।।३३०।
[दु० टी०]
वर्गे०। ननु कथम् अनुस्वार इह वर्तते विधेयत्वात् कार्यिणोरेव मनोरनुवृत्तिर्युक्तेति ? सत्यम् । अनुस्वारो हि व्यक्तौ प्रतिपत्तव्योऽनुस्वारीभूतो हि नकारः खलु रषाभ्यां णत्वमतिक्रामति-कुर्वन्ती, हृष्यन्ती इति । यदि पुनः श्रुतस्यैव वर्गस्य वर्गान्तता किमनेन वर्गग्रहणेन ? सत्यम् । वर्गग्रहणं न विस्पष्टार्थम्, किन्तर्हि निमित्तस्यैव वर्गस्यान्तो यथा स्याद् इत्येवमर्थं तदा णत्वस्य बाधा सिद्धैव मनोर्वर्गे वर्गान्तः इति वाक्यार्थेऽप्यदोषः ।।३३०।
[समीक्षा]
'शं + किता, उं+ छितुम्, नं+दिता, कं + पिता' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ने ही अनुस्वार को वर्गीय अन्तिम वणदिश करके 'शङ्किता, उञ्छितुम्, नन्दिता, कम्पिता' आदि शब्द सिद्ध किए हैं । पाणिनि ने परसवणदिश विधान किया है - "अनुस्वारस्य ययि परसवर्ण:' (अ० ८।४।५८)। परसवदिश की अपेक्षा वर्गान्त आदेश में सरलता तथा स्पष्टता ही कही जाएगी । इस सूत्र पर विवरणपञ्जिका तथा कलापचन्द्र व्याख्या उपलब्ध नहीं है।
Page #258
--------------------------------------------------------------------------
________________
२१६
कातन्त्रव्याकरणम्
[ रूपसिद्धि ]
१ . शङ्किता । शन्क् + इता । "मनोरनुस्वारो धुटि" (२।४।४४) से न् को अनुस्वार तथा प्रकृत सूत्र द्वारा अनुस्वार को कवर्गीय अन्तिम वर्णादिश ।
२. उञ्छिता। उन् + छिता । " मनोरनुस्वारो धुटि" (२१४|४४) से न् को अनुस्वार तथा प्रकृत सूत्र द्वारा चवर्गीय अन्तिम वर्णादिश ।
३-६. बण्टिता । वन् + टिता । नन्दिता । नन् + दिता । युञ्ज । युज् + औ । नुआगम | स्वाम्पि । स्वप् + जस्, शस् । नु-आगम । चारों ही प्रयोगों में न् को अनुस्वार तथा परवर्ती वर्गानुसार अन्तिम वर्णादेश क्रमशः ण्, न्, ञ् तथा म् ||३३० | ३३१. तवर्गश्चटवर्गयोगे चटवर्गों [ २।४।४६ ]
[ सूत्रार्थ ]
आन्तरतम्य के नियमानुसार पदमध्यवर्ती तवर्ग के स्थान में चवर्ग- टवर्ग आदेश होते हैं चवर्ग- टवर्ग के योग में || ३३१ |
[दु० वृ० ]
तवर्गोऽनन्त्यश्चटवर्गयोगे चटवर्गौ प्राप्नोति आन्तरतम्यात् । मज्जति, लज्जते, भृज्जति, यज्ञः, याच्ञा, राज्ञः । टवर्गयोगे च - षण्णाम्, अड्डति, अट्टते । चटवर्गयोग इति किम् ? विश्नः प्रश्नः । अनन्त्य इति किम् ? मधुलिट् तरति ।। ३३१।
[दु० टी० ]
तबर्ग० । पूर्ववदत्राप्येकपदे । पदान्ते तकारस्य चटवर्गे पररूपविधानाच्च । चश्च टश्च चटौ, तयोर्वर्गौ चटवर्गों ताभ्यां योग इति । द्वन्द्वात् परं यल्लभते प्रत्येकमभिसंबन्धम् । तवर्गश्चटवर्गाभ्यां योगे चटवर्गी यथासंख्यं प्राप्नोतीत्यर्थः। चटवर्गाभ्यामिति कृते सहयोगे तृतीयेयमुत पञ्चमीति विप्रतिपद्येत । तस्माद् योगग्रहणं पूर्वपरेणाविशेषार्थम् ||३३१।
[वि० प० ]
तवर्ग० । मज्जति, भृज्जतीति । मस्जभ्रस्जोः सकारस्य “घुटां तृतीयः” (२ | ३ |६०) इति दकारे कृते पश्चाच्चवर्गः । 'यज्ञः, याच्ञा' इति " याचिविच्छि०" (४|५ /६९ )
Page #259
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्वः कारकपादः
२१७ इत्यादिना नङ् । विश्न इति । विछे: पूर्ववन्नङि कृते नित्यत्वादन्तरङ्गत्वाच्च "छवोः शूटौ पञ्चमे च" (४।१।५६) इति कृते नास्ति चवर्गयोगः ।।३३१ ।
[क० च०]
तवर्ग० । ननु ‘मधुलिट् तरति' इत्यत्रापि तकारस्यानन्त्यत्वसंभवात् कथम् अनन्त्यस्य व्यावृत्तिरिति ? सत्यम् । अनन्त्य इत्यस्य व्यावृत्तिबलादन्तशब्दस्य समीपार्थतया पदमध्य एव तात्पर्यं वर्णितमस्माभिरिति हेमकरस्याशयः । अन्ये तु यस्यैव पदस्य निमित्तम्, तस्यैव पदस्य कार्थी गृह्यते श्रुतत्वात् । तेनाभिन्नपदस्थकार्यिनिमित्तनिषेधपरमात्रमनन्त्यग्रहणम् | ननु तवर्गश्चटवर्गौ तद्योगे इति । तवर्गश्चटवर्गयोगे ताविति वा क्रियताम्, किं चटवर्गग्रहणेन ? सत्यम् । व्याप्त्यर्थं तदुपादानं तेन पदान्तेऽप्ययं विधिरिति । अतः ‘प्रशान्चरति' इत्यादौ नकारस्य ञकारः सिद्धः । यस्तु व्यवस्थितवास्मरणात् 'प्रशान् चरति' इति सनकारः प्रयोगः, स पुनः सन्धिप्रदर्शनार्थ एव । श्रीपतिरपि नकारस्य अकारविधानार्थं "प्रशामष्टठयोर्णः" (कात० परि०, सं० ६०) इत्यतः प्रशामोऽधिकारे "अश्चछयोः" (कात० परि०, सं० ६१) इति सूत्रं विदधाति स्म ।
स्वमते "जझशकारेषु' (१।४।१२) इत्यत्र तु जझञग्रहणं तस्यैव सूत्रस्याविर्भावार्थम् इति । नित्यत्वादन्तरङ्गत्वाच्च इति पनी। ननु कथमत्र नित्यत्वं यावता 'शब्दान्तरस्य विधिः प्राप्नुवन्ननित्यो भवितुमर्हति' (व्या० परि०- ७७) इति न्यायान्नित्यत्वस्याविषय इति । तथाहि नङ्प्रत्यये कृते तवर्गपञ्चमो निमित्तं अकारे च चटवर्गपञ्चमो निमित्तमिति शब्दान्तरता इत्याह - अन्तरङ्गत्वादिति हेमकराशयः । तन्न, नकारञकारत्वेन निमित्तत्वाभावात् किन्तु पञ्चमत्वेनैव तत्तु तवर्गचवर्गपञ्चमेऽप्यस्ति तस्मादियमाशङ्का । ननु विछेनङिति कृतस्य नङो नकारस्य अकारस्य प्रकारे सन्निपातलक्षणत्वात् शकार एव न प्राप्नोति, कथं नित्यत्वमुच्यते । वर्णग्रहणे निमित्तत्वादिति चेत्, अस्य न्यायस्य "भवतो वादेरुत्वम्" (२।२।६३) इति वचनेन ज्ञापितमनित्यत्वमित्यत आह - अन्तरङ्गत्वाचेति ।।३३१।
[समीक्षा]
'मस्ज् + अ + ति, लस्ज् + अ + ति, भ्रस्ज् + अ + ति, यज् + न, षड् + नाम्, अत्ट् + अ + ते' इस अवस्था में पाणिनि तथा कातन्त्रकार दोनों ही चवर्ग-टवर्ग
Page #260
--------------------------------------------------------------------------
________________
२१८
कातन्वव्याकरणम्
आदेश करके 'मज्जति, लज्जते, भृज्जति, यज्ञः, षण्णाम्, अट्टते' शब्दरूप सिद्ध करते हैं । अन्तर यह है कि पाणिनि सकार को पृथक् रूप में चवर्ग आदेश करते हैं, जबकि शर्ववर्मा ने “धुटां तृतीयः" (२।३।६०) से पहले स् को द् आदेश करके प्रकृत सूत्र द्वारा द् (तवर्ग) के स्थान में ज् - विधान किया है । पाणिनि का चवर्गविधायक तथा टवर्गविधायक सूत्र स्वतन्त्र है - "स्तोः श्चुना श्चुः, ष्टुना ष्टुः" (अ० ८|४|३९, ४०)।
[रूपसिद्धि]
१. मज्जति । मस्ज् + अ + ति | 'टु मस्नो शुद्धौ' (५।५१) धातु से “सम्प्रति वर्तमाना" (३।१।११) सूत्र से वर्तमानासंज्ञक प्रथमपुरुष-एकवचन में 'ति' प्रत्यय, "अन् विकरणः कर्तरि" (३।२।३२) से 'अन्', "धुटां तृतीयः" (२।३।६०) से स् को द् एवं प्रकृत सूत्र द्वारा दकार को जकारादेश ।
२. लज्जते । लस्ज् + अ + ति । पूर्ववत सकार को दकार तथा प्रकृत सूत्र से द् को ज् आदेश ।
३. भृजति। भ्रस्ज् + अ + ति । स् को द् तथा द् को ज् |
४. यज्ञः। यज् + नङ्+सि । 'यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से “याचिविछिप्रछियजिस्वदिरक्षियतां नङ्” (४।५।६९) सूत्र द्वारा नङ्प्रत्यय, प्रकृत सूत्र द्वारा न् को ञ्, ज् + ञ् = , “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२।१।१) से 'यज्ञ' की लिङ्गसंज्ञा, “तस्मात् परा विभक्तयः' (२।१।२) से प्रथमाविभक्तिएकवचन में 'सि' प्रत्यय तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
५-६. याञा। याच् + नङ् + आ + सि । राज्ञः। राजन् + शस् । पूर्ववत् प्रकृत सूत्र द्वारा न् को ञ् आदेश ।
७. षण्णाम् । षष् + आम् | “आमि च नुः' (२।१।७२) से 'नु' आगम, "षडो णो ने '' (२।४।४३) से ष् को ण् तथा प्रकृत सूत्र से न् को ण् आदेश ।
८-९. अड्डति । अद्ड् + अ + ति । अट्टते। अद्ड् +अ + ते । पूर्ववत् दकार को डकारादेश ||३३१।
Page #261
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२१९ ३३२. नामिकरपरः प्रत्ययविकारागमस्थः सिःषत्रुविसर्जनीयषान्तरोऽपि
[२।४।४७] [ सूत्रार्थ]
नामिसंज्ञक वर्ण, क् तथा रेफ से परवर्ती प्रत्ययस्थ, विकारस्थ एवं आगमस्थ दन्त्य सकार को मूर्धन्य षकार आदेश होता है नु-विसर्ग-ष का व्यवधान रहने अथवा न रहने पर ।।३३२।
[ दु० वृ०]
नामिकरेभ्यः परः प्रत्ययविकारागमस्थोऽनन्त्यः सिः षत्वमापद्यते नुविसर्जनीयषान्तरः। अपिशब्दादनन्तरोऽपि | नामिपरस्तावत् - अग्निषु, वायुषु । कपरः-दिक्षु । रपरः- गीर्षु, धूर्षु । विकारस्थ:- एषः। आगमस्थ:- सर्वेषाम् । नुविसर्जनीयषान्तरः- सीषि, धषि, सुपी षु, सुतूःषु । रप्रकृतिरनामिपरोऽपीति रत्वे वा पश्चाद् ईरूरौ । सर्पिष्षु, धनुष्षु, दोष्षु । अपिशब्दस्य बहुलार्थत्वात् "समासेऽङ्गलेः सङ्गस्य" (कात० परि०, ष० ३)- अङ्गुलिषङ्गः । तथा "भीरोः स्थानस्य" (कात० परि०, ष०३)- भीरुष्ठानम् ।अग्नेः स्तुतः-अग्निष्टुत् । “दीर्घात् सोमस्य" (कात० परि०,१०६)- अग्नीषोमौ । “ज्योतिरायुां च स्तोमस्य" (कात० परि०, १० ७)- ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः । समास इत्येव - ज्योतिः स्तोमं दर्शयतीत्यादयः ।। ३३२।
[ दु० टी०]
नामी च कश्च रश्चेति द्वन्द्वः । प्रत्ययविकारागमेषु तिष्ठतीति प्रत्ययविकारागमस्थः। ननु सकारमात्रत्वादागमे तिष्ठतीति सति कथम् आधाराधेयभावः इति ? सत्यम् । व्यपदेशिवद्भावादागमनम् आगमो वा एतत्साहचर्याद् विकारस्यापि सकारमात्रस्यैव न पुनरनेकवर्णविकारस्थस्येति तिसृभिर्मालाभिरिति न दुष्यति ।स्थग्रहणं प्रत्ययं प्रति चरितार्थम्, अन्यथा प्रत्ययैकदेशस्य कथं स्यात् । अग्निर्वायुरित्यत्र स्याद् एकपदप्रस्तावाद् विरामाश्रितो विसर्गोऽन्तरङ्गोऽपि बाध्यते । कश्चिद् एतेषु योगेषु अनन्त्य इति सिंहावलोकिताधिकारं मत्वा स्थग्रहणं सुखार्थं मन्यते । सर्वेषामिति परादित्वे
Page #262
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
प्रत्ययस्थत्वात् षत्वं सिद्धं परिष्करोतीत्याख्यातिकेनैव साध्यते ? सत्यम् | आगमग्रहणमिह मन्दधियां सुखप्रतिपत्त्यर्थमेव । सेरिकारः उच्चारणार्थः । नुविसर्जनीयषैरन्तरो बहिर्भूतः। अन्तरशब्दोऽत्र बहिर्योगे । करणे चेयं तृतीया । नुविसर्जनीयषा अन्तरेSस्येति मध्यवचनो वाऽत्रान्तरशब्दः । मध्यत्वं तु निमित्तापेक्षमेव ।
२२०
""
सुपीः ष्वित्यादि । “रप्रकृतिरनामिपरोऽपि ” (१।५।१४ ) इति रत्वे वा पश्चाद् “ईरूरौ” (२।३।५२) इत्यनेन वाशब्देन “नामिपरो रम् (१।५।१२ ) इति पक्षं प्रमाणीकृत्य पक्षान्तरं दर्शितमिति । 'सर्पिष्षु, धनुष्षु' इति । ननु किमर्थं षान्तरवचनं विसर्जनीयान्तरत्वात् षत्वे कृते पश्चात् पररूपं षत्वं भविष्यति ? सत्यम् । षत्वविधेश्च पररूपविधिरन्तरङ्ग इति विकारस्थत्वात् षत्वे कृते षान्तरत्वात् षत्वं न स्यादिति । नामि पर इति किमर्थम् ? मालासु सोमपासु । 'प्रत्ययविकारागमस्थः' इति किमर्थम् ? बिसं मुसलम् । अपिशब्दस्येत्यादि । श्रङ्गुलीषङ्ग इति । अङ्गुलीनां सङ्ग इति विग्रहः । अङ्गुलीनां सङ्गो यस्मिन्निति भिन्नाधिकरणो वा बहुव्रीहि: - 'अङ्गुलीषङ्गो वायुः' एवं सर्वत्र यथासंबन्धं समासः ।
,
'अग्नीषोमी' इति । " अग्नेः सोमवरुणयोर्देवताद्वन्द्वे" ( द्र०, कात० परि० ष० ५) ह्रस्वस्य दीर्घता । दीर्घादिति किमर्थम् ? अग्निर्ज्योतिः, सोमश्च लता - अग्निसोमौ । " ज्योतिरायुर्थ्यां च स्तोमस्य " (कात० परि० ष० ७ ) इति चकारेणाग्निरनुकृष्यते । तथा समासे मातृपितृभ्यां स्वसुः - मातृष्वसा, पितृष्वसा । "अलुकि वा” (मातुः पितुर्भ्याम् - कात० परि०, ष० १० ) - पितुःष्वसा पितुःस्वसा । मातुःष्वसा, मातुःस्वसा । “अभिनिष्टानो वर्णे" (कात० परि०, ब० ११) । विसर्जनीयस्येयं संज्ञा । अन्यत्र अभिनिस्तानो मृदङ्गः। "नदीष्णनिष्णातौ कौशले” (कात० परि० ष० १२) । नद्यां स्नातीत्यधिकरणेऽप्यभिधानात् कप्रत्ययः । नदीष्णो निष्णातः कटकरणे । कौशलादन्यत्र नदीस्नः, निस्नातः । प्रतिष्णातं सूत्रं चेत्, प्रतिस्नातमन्यत् । प्रष्ठोऽग्रगामी चेत्, प्रस्थोऽन्यः । “वेः स्त्रश्छन्दोनामैकदेशे” । विष्टारपङ्क्तिश्छन्दः । “गवियुधिभ्यां स्थिरस्य संज्ञायाम्" (कात० परि०, ष० ८ ) - गविष्ठिरः, युधिष्ठिरः । सप्तम्याश्चालुक् । कपिष्ठलो गोत्रं चेत् । कपिस्थलमन्यत् । “विकुपरिशमीभ्यः स्थलस्य" । (कात० परि०ष० १६)- विष्ठलम्, कुष्ठलम्, परिष्ठलम् । शम्याः स्थलं ‘शमिष्ठलम्' । ह्रस्वः क्वचिदिति “अम्बाम्बगोभूमिद्धित्रिकुशेकुशङ्क्वगुमञ्जिपुजिबर्हिर्दिव्यग्निभ्यः स्थस्य” (कात०
-
Page #263
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
परि० ष० १७ ) - अम्बाष्ठः, अम्बष्ठः, गोष्ठः, भूमिष्ठः, द्विष्ठः, त्रिष्ठः, कुष्ठः, शेकुष्ठः, शङ्कुष्ठः, अगुष्ठः, मञ्जिष्ठा, पुञ्जिष्ठः, बर्हिष्ठः, दिविष्ठः - सप्तम्याश्चालुक् । अग्निष्ठः । “निमित्तादककारादेकारे सस्य संज्ञायाम्" ( द्र०, कात० परि० १० २८ ) हरिषेणः, वायुषेणः । अककारादिति किम् ? विष्वक्सेनः । एकार इति किम् ? हरिसिंहः । संज्ञायामिति किम् ? पृथुसेनो राजा । “नक्षत्रादिकारान्ताद् वा" (कात० परि०, ष० १९ ) - रोहिणिषेणः, रोहिणिसेनः । ह्रस्वः क्वचिदिति । " सुषामादयश्च" (कात० परि०, ष० २० ) - शोभनं सामास्येति सुषामा । निर्गतः साम्नो निःषामा । सुषेधः । सोः पूजायामपि षत्वम् । निर्गतो दुर्गतः सेधोऽस्येति 'निःषेधो दुःषेध:' इति सिधिना योगाभावादुपसर्गता नास्ति । सुसन्धानं सुसन्धिः, दुःसन्धानं दुःसन्धिः । अपद्युसुभ्यः स्थस्य कुरौणादिकः । अपष्ठुः, दुष्ठुः, सुष्ठुः । गौर्याः सक्थि गौरिषक्थम् । राजादित्वादत्, ह्रस्वत्वं च । " सुबिनिदुर्भ्यः समस्य" (कात० परि०, ष० ३८, ३९ ) - सुषमम्, विषमम्, निःषमम्, दुःषमम् | सव्येष्ठा सारथिश्चेत् । सप्तम्या अलुक् । अपष्ठः परमष्ठः, परमेष्ठीति । समासराशेर्नित्यत्वात् सिद्धषत्त्वा एवामी समासशब्दाः । उदाहरणप्रपञ्चस्तु मन्दधियां सुखार्थं दर्शितः । अपिशब्दविषयास्तु “हस्वात् तादौ तद्धिते" (कात० परि०ष० २२) । वपुष्टरम्, वपुष्टमम् । नामिनः परस्यानव्ययसकारस्य पाशकल्पकाम्यकेषु । सर्पिष्पाशम्, धनुष्पाशम्, यजुष्पाशम् । सर्पिष्कल्पम्, यजुष्कल्पम् । सर्पिष्काम्यति, धनुष्काम्यति, यजुष्काम्यति । सर्पिष्कम्, धनुष्कम्, यजुष्कम् ।
,
२२१
निर्दुर्बहिराविसां सस्य कपवर्गयोः । नैष्कुल्यम्, नैष्पुरुषम्, दुष्कृतम्, दौष्पुरुषम्, निष्कृतम्, निष्पीतम् । बहिष्करोति, बहिष्फलम् | आविष्करोति, आविष्फलम् । तथा चतुरोऽपि अनव्ययविसृष्टत्वात् सकारे सति - चतुष्कम्, चतुष्फलम् । “सुच्प्रत्ययस्य वा” | द्विष्करोति, द्विः करोति । द्विष्पचति, द्विः पचति । " इसुसोः सम्बन्धार्थे” । सर्पिष्पिबति, सर्पिस्पिबति । धनुष्करोति, धनुस्करोति । संबन्धार्थे इति किम् ? तिष्ठतु सर्पिः पयः पिबतु । अनुत्तरपदयोस्तु समासे नित्यम् । सर्पिष्करणम्, सर्पिष्पानम्, धनुष्करणम्, धनुष्पानम् । अनुत्तरपदयोरिति किम् ? परमसर्पिः कुण्डिका, परमधनुःफलम् । विकल्पषत्वमपि न भवति ।। ३३२ ।
[वि० प० ]
नामि० । सुपी:ष्वित्यादि । सुष्ठु पेषति, सुष्ठु तोषतीति क्विप् । वाशब्दोऽत्र भिन्नक्रमे “रप्रकृतिरनामिपरोऽपि " (१।५।१४ ) इत्यनेन पूर्वमेव नामिमात्रं निमित्तमाश्रित्य "नामिपरो रम्” (१।५।१२ ) इत्यनेन वा रत्वे सतीति पक्षान्तरं दर्शितम् ।
Page #264
--------------------------------------------------------------------------
________________
२२२
कातन्त्रव्याकरणम् अघोषे रेफस्य विसर्ग एवोक्त इति विसर्जनीयात् परो भवति । 'सर्पिष्षु, धनुष्षु' इति । सृपेरिस्, धनेरुस् । प्रकृतिसकारस्य अन्तरङ्गत्वात् पूर्वं षत्वम्, ततः सुपः सकारस्येति । ननु विसर्जनीयान्तरत्वात् षत्वे कृते पश्चात् पररूपत्वं भविष्यति किं षान्तरवचनेन । तदयुक्तम्, षत्वात् पररूपविधेरन्तरङ्गत्वाद् विकारस्थस्य सकारस्य षत्वे सति षान्तरत्वात् षत्वं न स्यात् । अपीत्यादि । अङ्गुलीना सङ्ग इति तत्पुरुषः । अङ्गुलीनां सङ्गो यस्मिन् सोऽगुलीषङ्गो वायुरिति भिन्नाधिकरणो वा बहुव्रीहिः।। ___अग्निष्टुदिति । अग्निं स्तौतीति क्विप् । “धातोस्तोऽन्तः पानुबन्धे" (४।१।३०) इति तोऽन्तः । दीर्घादिति । दीर्घान्तादग्निशब्दादित्यर्थः । अग्निश्च सोमश्चेति विग्रहे "देवताद्वन्द्वेऽग्नेः सोमवरुणयोः" इति दीर्घत्वं तत्पुनर्हस्वस्य दीर्घता इत्यत्र क्वचिदधिकारादन्यत्र भवतीति । ज्योतिरग्निः, सोमश्च लता। तयोर्द्वन्द्वे अग्निसोमाविति । "ज्योतिरायुभ्यां च" (कात० परि०, १० ७) इति चकारेणाग्निरनुकृष्यते । ज्योतिषां स्तोम इति विग्रहः । समास इत्येवेति ज्योतिरिति प्रथमा, नपुंसकलक्षणः सिलोप इति इत्यादय इति । अन्येऽप्येवं षत्वविषयाः शिष्टप्रयोगानुसारेण वेदितव्या इति ||३३२ ।
[क० च०]
नामि० । नात्र नामिकराः परे यस्मादिति बहुव्रीहिः, असम्भवात् । अत उक्तं वृत्तौ 'नामिकरेभ्यः' इति । ननु पञ्चमीनिर्देशेनैव सिध्यति किं परग्रहणेन ? सत्यम् । परग्रहणम् अधिकद्योतनार्थम्, तेन ककारेण कवर्गत्वं रेफेण चान्तस्थोपलक्ष्यते । यथा प्रार्छ, नजिषु, हल्षु, क्रुषु, दुख्षु । वररुचिस्तु परग्रहणं "हस्वात् तादौ तद्धिते" (कात० परि०, १० २२) नाम्नः षत्वार्थमित्याह । तदपिशब्देन साधितमिति महान्तः। एकपदं यथासङ्ख्यनिवृत्त्यर्थमिति कुलचन्द्रः। तन्न । रेफादागमस्थस्य सकारस्यासंभवाद् वैषम्य-संबन्धाच्चेति । अन्यथा एकपदेऽपि कथं तद्भाव इति महान्तः।
ननु ‘भीरुष्ठानम्' इत्यादौ निमित्तात् परस्य विकारभूतस्य षकारस्य विद्यमानत्वात् षत्वं सिध्यति किमपिशब्दस्य बाहुल्याश्रयणेन ? सत्यम् । “उपसर्गात् सुनोति" (कात० परि०, ष० २३) इत्यादिना षत्वविधानबलात् पदान्तरस्थानिमित्तात् षत्वं नास्तीति ज्ञाप्यते । तेनापिशब्दस्य बाहुल्याश्रयणमेव शरणम् । अत एवानन्त्य इति यल्लभ्यते तदप्येकपदमात्रे तात्पर्यम्, अन्यथा स्थग्रहणाभावेऽनन्त्यग्रहणसत्त्वे टीकाकृता
Page #265
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
कथमुक्तम् अग्निर्वायुरित्यत्रैव स्यादिति द्व्यङ्गवैकल्यप्रसङ्गात् । स्थग्रहणस्थितावन्त्य एव व्यावृत्तिः, यथा सुपी : सुरिति ॥ ३३२ ॥
[समीक्षा]
'अग्नि + सु, दिक् + सु, गिर्+सु, एस + सि, सर्वे + स् + आम्, धनूं + सि, दोष् + सु, भीरु + स्थानम्, अङ्गुलि + सङ्गः, अग्नि + स्तोम:' इस स्थिति में दोनों ही शाब्दिक आचार्य दन्त्य सकार के स्थान में मूर्धन्य षकार आदेश करके 'अग्निषु, दिक्षु, गीर्षु, एषः, सर्वेषाम्, धनूंषि, दोष्षु, भीरुष्ठानम्, अङ्गुलिषङ्गः, अग्निष्टोमः ' शब्दरूपों की निष्पत्ति करते हैं । एतदर्थ पाणिनि ने तीन सूत्र बनाए हैं- “ इण्कोः, नुविसर्जनीय शर्व्यवायेऽपि, आदेशप्रत्यययोः " (अ० ८।३।५७-५९) ।
[विशेषवचन]
२२३
१. आगमग्रहणमिह मन्दधियां सुखप्रतिपत्त्यर्थम् एव (दु० टी० ) ।
२. उदाहरणप्रपञ्चस्तु मन्दधियां सुखार्थं दर्शितः (दु० टी० ) ।
३. अन्येऽप्येवं षत्वविषयाः शिष्टप्रयोगानुसारेण वेदितव्याः (वि० प० ) ।
४. परग्रहणमधिकद्योतनार्थम् (क० च० ) ।
५. सूत्रस्थ 'अपि' शब्द बहुलार्थक है, अतः 'भीरुष्ठानम्, अग्निष्टुत्, अग्नीषोमौ, ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः' आदि में भी मूर्धन्य षकारादेश प्रवृत्त होता है ।
६. स्वाभाविक मूर्धन्य षकारविशिष्ट शब्द -
पुष्पभूषणविषाणघोषकं दुष्- खपुष्करकरीषदुष्करम् | अम्बरीषपुरुषोषरौषधं वर्ष्म वर्षकलुषाणि किल्बिषम् || १ | गवेषितं गोष्पदभाष्यभेषजं हषीकमीषद् विषुवं विभीषणः । अमर्षपाषाणपुरीषमूषिका निषेधदुःषेधमृषाभिषङ्गिणः || २ | झषो मुष्कं ग्रीष्मप्रुषनिकषगण्डूषचषका तुराषाडाषाढौ विषविषदपीयूषभिषजः । कषायः कूष्माण्डं महिषवृषलव्योषदृषदः प्रदोषद्वेषोष्मप्लुषवृषनिषङ्गेषुपरुषाः ।। ३ ।
Page #266
--------------------------------------------------------------------------
________________
२२४
कातन्त्रव्याकरणम्
प्रत्यूषयूषकषकोषविषाददोषाः पाषण्डषण्डभषभीष्मतुरुष्कनिष्काः । उन्मेषमेषतुषतोषरुषाभिलाषाः कल्माषमाषवुषवेषतुषाररोषाः ।।४। ईर्ष्या वाधुषिको योषिदभिषेकामिषद्विषः। निषेक ऐषमप्रेष्यौ मञ्जूषा त्रपुषी तृषा ।।५। विशेषः शेमुषी शिष्यः श्लेषः श्लेष्म विशेषणम् । शिरीषं सुषिरं शष्पं शीर्षं तालव्यशादयः ।।६। तालव्यान्ताश्च गीष्पाशो धूष्पाशो वृषदंशकः। दन्त्यादयो वसिष्ठश्च सुषमा सर्षपः स्नुषा ।।७। (वंग भाष्य) [रूपसिद्धि]
१. अग्निषु। अग्नि + सुप् । नामिसंज्ञक इकार से परवर्ती तथा सुप्प्रत्ययस्थ सकार को प्रकृत सूत्र द्वारा षकारादेश ।
२. वायुषु। वायु + सुप् । “स्वरोऽवर्णवर्णो नामी" (१।१।७) सूत्र से वायुशब्दघटित उकार की नामिसंज्ञा, उससे परवर्ती तथा सुप्प्रत्ययस्थ सकार को प्रकृत सूत्र द्वारा षकारादेश ।
३. दिक्षु । दिश् + सुप् । श् को क् आदेश, उससे परवर्ती सुप्प्रत्ययस्थ स् को मूर्धन्य ष्, 'क्-ष्' संयोग से क्ष् ।
४-५. गीर्षु । गिर् + सुप् । धूर्षु। धुर् + सुप् । र् की उपधा इ-उ को दीर्घ, रेफ से परवर्ती सुप्प्रत्ययस्थ स् को ष् आदेश ।
६. एषः। एतद् + सि । “त्यदादीनाम विभक्तौ" (२।३।२९) से द् को अ, "अकारे लोपम्" (२।१।१७) से तकारोत्तरवर्ती अकार का लोप, प्रकृत सूत्र से सकार को षकार तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
___७. सर्वेषाम् । सर्व + आम् । “सुरामि सर्वतः” (२।१।२९) से 'सु'-आगम, ‘धुटि बहुत्वे त्वे' (२।१।१९) से अ को ए तथा प्रकृत सूत्र से स् को ष् ।
Page #267
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये चतुर्वः कारकपादः
२२५ ८-९ = सीषि । सर्पिस् + जस्, शस् । धनूंषि । धनुस् + जस्, शस् । “जस्शसोः शि' (२।२।१०) से जस्-शस् को शि-आदेश, “धुट्स्वराद् घुटि नुः" (२।२।११) से नु-आगम, “सान्तमहतो!पधायाः" (२।२।१८) से स् की उपधा को दीर्घ, यहाँ 'नु' का व्यवधान रहने पर भी प्रकृत सूत्र से स् को ष् तथा “मनोरनुस्वारो धुटि" (२।४।४४) से न् को अनुस्वारादेश ।
१०-११. सुपीःषु। सुपिस् + सुप् । सुतूःषु । सुतुस् + सुप् । स् को विसर्ग, "नामिपरो रम्' (१।५।१२) से विसर्ग को र्, “इरुरोरीरूरौ" (२।३।५२) से इर् को ईर् तथा उर् को ऊर्, पुनः "रेफसोर्विसर्जनीयः" (२।३।६३) से विसर्ग, इस विसर्ग का व्यवधान रहने पर भी प्रकृत सूत्र द्वारा सकार को षकारादेश ।।३३२। ३३३. रवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि
[२।४।४८] [सूत्रार्थ]
रेफ-षकार-ऋवर्ण से परवर्ती तथा पद के मध्य में रहने वाले नकार को णकारादेश होता है, स्वरवर्ण-ह-य-व-कवर्ग तथा पवर्ग का व्यवधान रहने अथवा न रहने पर भी ।।३३३।
[दु० वृ०]
रेफ-षकार-ऋवर्णेभ्यः परोऽनन्त्यो नकारो णत्वमापद्यते स्वरहयवकवर्गपवर्गान्तरः अपिशब्दादनन्तरोऽपि |स्वरान्तरस्तावत्-हरणम्, पुरुषेण,मातृकेण ।हान्तरः-अhण | यान्तरः- अर्येण | वान्तरः-पर्वणा । कवर्गान्तरः-अर्केण, मूर्खेण | पवर्गान्तरः- दर्पण, रेफेण । अनन्तरोऽपि -शीर्णम्, तिसृणाम् । स्वरत्वादनुस्वारविसृष्टाभ्यामपि-बृंहणम्, उरःकेण, उर :पेण । विसर्जनीयोपचाराज्जिह्वामूलीयोपध्मानीयाभ्यामपि -उरxकेण. उर8 पेण । अनन्त्य इति किम् ? वृक्षान् । कथम् अग्निर्नयति ? यस्यैवानन्त्यो नकारस्तस्यैव रवर्णा गृह्यन्ते श्रुतत्वात् । अपिशब्दस्य बहुलार्थत्वात् पूर्वपदस्थेभ्यः संज्ञायाम् - 'शूर्पणखा' इत्येवमादयः ।।३३३ ।
[दु० टी०]
रपृ० ।पुष्णातीति नोदाहृतम्, षकारादनन्तरो नकारः षटवगदिशेनैव सिद्ध इति । ऋवर्ण इति । वर्णग्रहणं दीर्घार्थम् । अन्यथा नित्यत्वाद् दीर्घ कृते 'पितृणाम्' इत्यादौ
Page #268
--------------------------------------------------------------------------
________________
२२६
कातन्त्रव्याकरणम् णत्वं न स्याद् इति । व्यवपृक्तपक्षेऽव्यवपृक्तपक्षेऽपि ऋवर्णग्रहणमिह कर्तव्यम् इति संज्ञासिद्धौ निश्चितमेव । पदग्रहणप्रस्तावात् पदस्यानन्त्यो मध्यो यो नकार इति मत्वाह – यस्यैवेत्यादि । स्वरहयवकवर्गपवर्गान्तर इति । यदा स्वरादयः एकैकाः समस्ता व्यस्ता वा तदाप्यन्तरत्वमुपलक्ष्यते । यथा – देवदत्तयज्ञदत्तविष्णुमित्रैः सह नाध्येयमिति एकेनापि नाधीयते द्वाभ्यामपि, न च सर्वान्तरत्वं क्वचित् संभवति । विसर्जनीयानुस्वारजिह्वामूलीयोपध्मानीयान्तर इति वक्तव्यं नेत्याह - स्वरत्वादित्यादि। स्वरव्यञ्जनयोर्मध्येऽनुस्वारविसर्जनीययोः पाठः उभयव्यपदेशार्थः । वर्णसमाम्नायविचारे निश्चित एवेति भावः । यथा राजाश्रिताः प्रकृतयो राजकुलवद् उपचर्यन्ते, यथा वा गुरुवद् गुरुपुत्रेऽप्युपचार इति, तथा विसर्जनीयसम्भवयोर्जिह्वामूलीयोपध्मानीययोर्विसर्जनीयोपचार इति ।
ननु 'स्थानिवदादेशो ह्यवर्णविधौ' (कात० प० ८) इति न्यायाद् अत्र वर्णाश्रिते विधौ स्थानिवद्भावो न दृश्यते । प्रकृतिप्रत्ययार्थप्रतिपत्तिं प्रति वर्णस्य केवलस्यास्वातन्त्र्यात् । प्रधानभावे खल्वयं व्यवहारः सिद्ध इति ? सत्यम् । जिह्वामूलीयोपध्मानीययो त्यन्तो ध्वनिकृतो विशेष इति विसर्जनीयेन सहाभेदोपचारः प्रवर्तते । यथा - 'अग्निर्माणवकः' इति । अग्नेः किञ्चित् तेजोऽनुकारादभेदोपचार इत्याह - विसर्जनीयोपचारादित्यादि । कश्चिन्नुविसर्जनीयान्तरमनुवृत्य नुग्रहणमनुस्वारोपलक्षणं मन्यते । यथा 'नक्षत्रमालोक्य वाचो विसृजेत्' इत्यनेन नक्षत्रविषयः कालो रात्रिर्लक्ष्यते। असत्यपि नक्षत्रदर्शने तस्मिन्नेव कालविषये वाचो विसृज्यान्ते सत्यपि नक्षत्रदर्शने तदितरकालविशेषे (असति कालविशेषे) न विसृज्यन्त इति । न्वागमाभावेऽनुस्वारे सति भवति 'तृहू, स्तृहू, तृन्हू हिंसायाम्' – 'तूंहणम्, तूंहणीयम्' इति | सत्यपि न्वागमेऽनुस्वाराभावान्न भवति प्रेन्वनम्, प्रेन्वनीयम् इति । इह हि “अनिदनुबन्धानाम्" (३।६।१) इति वर्जनाद् इदनुबन्धानामनुषङ्गमात्रं साधितम् इति। वकारोऽयं दन्त्योष्ठ्य इति अपवर्गीयत्वादवर्गे वकारे स एव नकार एवास्ति इत्युच्यते । अप्यधिकारे पुनरपिग्रहणं सुखार्थमेव ।
अपिशब्दस्येत्यादि । शूर्पाकारा नखा यस्या इति विग्रहः । न भवति च - शरनिवासः, शरनिवेशः, हर्यग्निः, दर्भानूपः, हरिनन्दी, हरिनन्दनः, गिरिनगरम् । गकारान्ताच्च न भवति - ऋचामयनम् ऋगयनम् । “पुरग-मिश्रक-सिध्रक-शारिका
Page #269
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२२७
कोटराग्रेभ्यो वनस्य" (द्र०, कात० परि०, ण० ३)- पुरगावणम् इत्यादि षष्ठीसमासो ह्रस्वस्य दीर्घता । वनस्याग्रे- अग्रेवणम् । अत्र सप्तम्या अलुक्संज्ञायां पूर्वनिपातश्च । प्र-निर्-अन्तर्-इक्षुप्लक्षशराम्र-कार्घ्यपीयूक्षाखदिरेभ्योऽसंज्ञायामपि । प्रगतं वनं निर्गतं वनात् प्रवणम्, निर्वणम् । वने अन्तः- अन्तर्वणं वनमध्य इत्यर्थः । अव्ययीभावोऽयम् इतरेषु षष्ठीसमासः । इक्षुवणम् इत्यादि । तथा ओषधिवृक्षेभ्यो द्वित्रिस्वरेभ्यो वा । दूर्वावणम्, दूर्वावनम्, शिरीषवणम्, शिरीषवनम् । “ओषध्यः फलपाकान्ता वृक्षाः पुष्पफलान्विताः" (मनु० १।४६, ४७) इति । इरिकादेर्न स्यात् - इरिकावनम् इत्यादि । अकारान्तादह्रोऽदन्तस्य (द्र०, कात० परि०, ण० ६)- पूर्वाह्नः, अपराह्नः । अकारान्तादिति किम् ? निर्गतमहो निरह्नम् । अदन्तस्येति किम् ? दीर्घाही शरत् । “बाह्याद् वाहनस्य" (कात० परि०, ण० ७)- उह्यतेऽनेनेति वाहनम् इत्यभिधानाद् दीर्घ :इक्षुवाहणं शकटम् । बाह्यादिति किम् ? दाक्षिवाहनम्, अभ्रवाहनम् । स्वामिविशेषे वर्तते दाक्षिस्वामिकम् इत्यर्थः । “देशाभिधाने पानस्य" (कात० परि०, ण० ८)। पीयते इति पानम् । अन्यत्रापीति कर्मणि युट् । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । यद्यपि सामानाधिकरण्यात् पुरुषा उच्यन्ते, तथाप्युशीनरादयो देशा एवाभिधीयन्ते । यथा 'मञ्चाः क्रोशन्ति' इति मञ्चशब्दसम्बन्धद्वारेण मानुषेष्वपि वर्तमानो मञ्चशब्द: स्वार्थमभिधत्ते इति ।
"भावकरणयोर्वा" (कात० परि०, ण० ९)-क्षीरपाणं क्षीरपानं वर्तते । क्षीरपाणः, क्षीरपानः कंसः । “गिरिनयादीनां च" (द्र०, कात० परि०, ण० १०)गिरिणदी, गिरिनदी । गिरिणद्धम्, गिरिनद्धम् । वक्रणितम्बा, वक्रनितम्बा | वक्रणदी, वक्रनदी। समासान्तसमीपयोश्च – माषवापिणौ, माषवापिनौ । “व्रताभीक्ष्ण्ययोश्च" (४।३।७८) इति णिनिः । माषवापिणा, माषवापिना | माषवापेण, माषवापेन । कर्मण्यण् । एवमन्यत्र । गर्गाणां भगिनी गर्गभगिनी । यदा तु गर्गाणां भगो गर्गभगः, सोऽस्यास्तीतीन् – गर्गभगिणी तदा भविष्यति । यथा मातृभोगाय हितः इतीनः मातृभोगीणः । खरपस्यापत्यं खारपायण इति "रवर्णेभ्यः" (२।४।४८) इत्यनेनैव । युवादीनां तु न दृश्यते - आर्ययूनाम्, क्षत्रिययूनाम् । प्रपक्वानि, परिपक्वानि । एकस्वरकवर्गवतोस्तु नित्यम् - वृत्रहणौ, उरःकाणि, उर केण । “आतोऽनुपसर्गात् कः" (४।३।४) । वस्त्रयुगिणौ, वस्त्रयुगाणि, वस्त्रयुगेण । समाराराशेर्नित्यत्वात् कृतणत्वा
Page #270
--------------------------------------------------------------------------
________________
२२८
कातन्त्रव्याकरणम्
एवामी समासशब्दा इति । अथवा समासे सत्येकमेव पदम् अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा अवश्यमङ्गीक्रियते कार्यार्थम्, तच्च कार्यं न दृश्यते इति स्थितम् । ___अपिशब्दविषयास्तु उपसर्गाण्णोपदेशस्य - प्रणमति, परिणमति, प्रणायकः, परिणायकः । हिनुमीनानीनाम् – प्रहिणोति, प्रहिणुतः । प्रमीणाति,प्रमीणीतः, प्रणिमीयते, प्रमाणि । कथं प्रकृष्टा वपा एषामिति प्रवपाणि मांसानि, अनर्थकत्वाद् उपसर्गत्वाभावाच्च । “उपसर्गाणेर्नदगदपतपददासंज्ञकमेङ्माङ्स्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदोग्धिषु च" (कत० परि०, ण० २४) प्रणिगदति, प्रण्यगत् । अटो धात्वादित्वादव्यवधानता । एवमन्येऽपि । “अकखादिष्वषान्तेषूपपदेषु धातुषु वा" (कात० परि०, ण० २५)-प्रणिपचति, प्रनिपचति । प्रणिभिनत्ति, प्रनिभिनत्ति ।
अकखादिष्वित्येव - प्रणिकरोति, प्रणिखादति । अषान्तेष्वित्यादि-प्रणिपिनष्टि, प्रणिपुष्णाति । उपदेशग्रहणादिह न स्यात् - पिष्ल संचूर्णने (६।१२)। प्रनिपेक्ष्यति, प्रनिचकार, प्रनिचखादेति । 'विश प्रवेशने' (५।५७) । 'प्रणिवेष्टा, प्रनिवेष्टा' इति वा स्यात् । अनितेरन्तस्यापि - प्राणिति, पराणिति । हे प्राण, हे पराण् । क्विप् । केचिद् एकवर्णव्यवधान एवेच्छन्ति । पर्यणिति, प्राणिनिषति, प्राणिणदिति । कृतात्वस्यैव द्विर्वचनम्, नात्र परं द्विवचनम् । अपिग्रहणाद् हन्तेरकारवतः-प्रहण्यते, परिहणनम् । अकारवत इत्येव - प्रघ्ननिन्त ? "वपयोर्वा" | प्रहण्वः, प्रहन्वः । प्रहण्मः, प्रहन्मः । अदेशे चान्तरः- अन्तर्हणनं वर्तते ।अदेशे इत्येव-अन्तर्मध्ये हन्यतेऽस्मिन्निति अन्तर्हननो देशः । उपसर्गादिवान्तरेऽपि णत्वविधिरिष्यते । वचनमिदमदेशार्थमेव अकारवत इत्येव - अन्तरघाणि । अयनस्य च - अन्तरयणं वर्तते । अदेशे इत्येव - अन्तरयनो देशः । स्वरात् कृतश्च - प्रयाणम्, प्रयायमाणम्, प्रयाणीयम्, अप्रयाणिः । "नव्यन्याक्रोशे"(४।५।९१)- रथप्रयायिणौ, प्रहाणिः, प्रहीणः ।अन-आन-अनीय-अनि-णिनिनिष्ठादेशा एव संभवन्ति । स्वरादिभ्य एव-प्रभुग्नः । 'विद ज्ञाने' (२।२७) इत्यस्य 'निर्विण्णः' इष्यते । इनन्ताद् वा- प्रयापणम्, प्रयापनम् । पूर्ववद् उदाहर्तव्यम्-इनन्तानिष्ठादेशो नास्त्येव । इनन्ताद् विहितस्य कृत इति विशेषणाद् यकारव्यवधानेऽपि विभाषा-प्रयाप्यनम्, प्रयाप्यमानम् । व्यञ्जनादेनाम्युपधात्-प्रकोपणम्, प्रकोपनम् । व्यञ्जनादेरित्येव - प्रेहणं प्रोहणमिति नित्यम् । स्वरादित्येव - प्रभुग्नः। नाम्यादेरेव सानुनासिकव्यञ्जनान्ताद् विहितस्य - प्रेक्षणम्, प्रोङ्क्षणम् । नाम्यादेरेवेति किम् ?
Page #271
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२२९ प्रमङ्गनम् । व्यञ्जनान्तादिति विशेषणम् इनन्तनिरासार्थम् । “निसिनिन्दिनिक्षां वा" णोपदेशत्वान्नित्यं प्राप्तम् - प्रणिंसनम्, प्रनिंसनम् । प्रणिन्दनम्, प्रनिन्दनम् । प्रणिक्षणम्, प्रनिक्षणम् ।
__ भाभूपूकमिगमिप्यायिवेपिभ्य इनन्तेभ्योऽपि न स्यात् । 'प्रभानम्, प्रभवनम्, प्रकमनम्, प्रगमनम्, प्रप्यायनम्, प्रवेपनम्' । एवम् – प्रभापनम्, प्रभावनम् इत्यादि । "नशेः षकारककारान्तस्य" - प्रनष्टः, परिनष्टः, प्रनङ्क्षति, परिनङ्क्षति | उपसर्गादिति समाप्तम् । तथा षकारात् पदे – निष्पानम्, सर्पिष्पानम् । अपदे तु णत्वं स्यादेव - सर्पिष्केण, यजुष्केण । तथा पदव्यवधानेऽपि - माषाणां कुम्भः, तं वपतीति कर्मण्यण् । माषकुम्भवापेन, माषकुम्भवापिनौ ।आभीक्ष्ण्ये णिनिः । चत्वार्यङ्गानि अस्येति चतुरङ्गः, तेन योग इति चतुरङ्गयोगेण । आर्द्रगोमयेण, शुष्कगोमयेण । गोर्विकारे मयट् । 'पदे' न वर्तते इति स्यात् णत्वम् । “क्षुभ्नादीनां च" (कात० परि० - ण० ३७)- क्षुम्नाति, क्षुभ्नीतः, क्षुभ्नन्ति । एकदेशविकृतस्यानन्यवद्भावान्नृतिश्चेक्रीयितान्तः- नरीनृत्यते । तृपेश्च नुप्रत्यय:- तृप्नोति । परिगहनमिति संज्ञायाम् । परिणदनम् इति । उपसर्गाण्णोपदेशत्वात् प्राप्तः । आचार्यभोगीनः । भोगोत्तरपदादीन इत्यादयो णत्वप्रतिषेधविषया अनुसर्तव्याः । बहुलं च सर्ववादिसम्मतमेव । अथ त एव विषयाः सुसंगृहीता येषां लक्षणं प्रपञ्चश्च । एवमुदाहरणैरेव प्रपञ्चो न्याय्यो लक्षणेनातिप्रसङ्गात् 'सिद्धस्य हि पुनर्वचने का निष्ठा' इत्युदाहरणैरेव प्रपञ्चो दर्शित इति ।।३३३ ।
[वि० प०]
रपृ० । वान्तर इति । वकारोऽयं दन्त्योष्ठ्योऽपवर्गीय इति पृथगुच्यते । शीर्णमिति । शृणातेः क्तः । “ऋदन्तस्येरगुणे" (३।५।४२) इतीर् । “नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः । “रानिष्ठातो नः" (४।६।१०१) इत्यादिना निष्ठातकारस्य नकारः । तिसृणाम् इति षष्ठीबहुवचने “त्रिचतुरोः स्त्रियाम्" (२।३।२५) इत्यादिना त्रिशब्दस्य तिम्रादेशः। “आमि च नुः" (२।१।७२) इति नुरागमः । स्वरत्वाद् इत्यादि । तृहि बृहि वृद्धौ, युडन्तः । “अनिदनुबन्धानाम्" (३।६।१) इति प्रतिषेधात् । इदनुबन्धानामनुषङ्गः साधित एव । तथा च तत्र वक्ष्यति । अत एव वर्जनादिदनुबन्धानां नोऽस्तीति । 'उर केण' इत्यादि । उरः कायति, उरः पायतीति । "आतोऽनुपसर्गात् कः" (४।३।४) इति कप्रत्ययः । इहानुस्वारविसर्जनीययोः स्वरत्वं सन्धौ दर्शितमेव । कथं तर्हि जिह्वामूलीयोपध्मानीयाभ्यामपि स्थानिवद्भावादिति चेत्,
Page #272
--------------------------------------------------------------------------
________________
२३०
कातन्त्रव्याकरणम्
न ।वर्णविधित्वात् स्थानिवदादेशो ह्यवर्णविधौ भवतीत्याह -विसर्जनीयोपचारादित्यादि । विसर्जनीयेन सहानयोरत्यन्तं ध्वनिकृतो भेदो नास्तीत्युपचारः प्रवर्तते इति भावः । भिन्नपदे णत्वप्रतिषेधार्थं समानपदग्रहणं कर्तव्यम् । यथा “रषाभ्यां नो णः समानपदे" (अ० ८।४।१) इति चोद्यम् । परिहारं च दर्शयति-कथमित्यादि । अपीत्यादि । शूर्पाकारा नखा यस्या इति विग्रहः । इत्यादयः इति । अन्येऽपि शिष्टप्रयोगानुसारेण वेदितव्या इति ।।३३३।
[क० च०]
रपृ० । इहानन्त्यग्रहणे सत्यपि समासेनैकपदे 'शूर्पणखा' इत्यादौ यद्यपि निर्विवादं णत्वं तथापि "समासान्तसमीपयोर्वा" (द्र०, कात० परि०, ण० ११) इत्यनेन णत्वविधानबलात् पदान्तरस्थनिमित्तात् णत्वं न भवति । अत एव 'शूर्पणखा' इत्यादौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य शूर्पभागस्य पदान्तत्वेन णत्वासिद्धौ अपिशब्दस्य बाहुल्यात् "पूर्वपदस्थेभ्यः संज्ञायाम्" (कात० परि०, ण० २) इति णत्वविधानार्थं प्रकारान्तरमाह ||३३३।
[समीक्षा]
'शीर् + नम्, तिसृ + नाम्, अh + न, मूर्खे + न,पुरुषे+न, हर् + अनम्' इत्यादि अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही न् को ण् आदेश करके 'शीर्णम्, तिसृणाम्, अhण, मूर्खेण, पुरुषेण, हरणम्' आदि शब्दरूप सिद्ध करते हैं । परन्तु पाणिनि ने णत्वादेश का ३९ सूत्रों में एक विस्तृत प्रकरण प्रस्तुत किया है - "रषाभ्यां नो णः समानपदे, अटकुप्वानुम्व्यवायेऽपि.....क्षुभ्नादिषु च" (अ० ८।४।१-३९)। दुर्गसिंह आदि व्याख्याकारों ने पाणिनीय अनेक सूत्रों का कार्य व्याख्याबल से सम्पन्न किया है । इस प्रकार कातन्त्रकार द्वारा एक ही सूत्र से सम्पादित णत्वविधि में परम लाघव कहा जा सकता है, जबकि पाणिनि द्वारा दर्शित प्रपञ्च गौरव का बोधक है ।
[विशेष वचन] १. वर्णग्रहणं दीर्घार्थम् (दु० टी०)।
२. यथा राजाश्रिताः प्रकृतयो राजकुलवद् उपचर्यन्ते, यथा वा गुरुवद् गुरुपुत्रेऽप्युपचारः इति । तथा विसर्जनीयसंभवयोर्जिह्वामूलीयोपध्मानीययोर्विसर्जनीयोपचार इति (दु० टी०)।
Page #273
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
२३१ ३. जिह्वमूलीयोपध्मानीययो त्यन्तो ध्वनिकृतो विशेष इति विसर्जनीयेन सहाभेदोपचारः प्रवर्तते। यथा 'अग्निर्माणवकः' इति (दु० टी०)।
४. बहुलं च सर्ववादिसम्मतमेव । अथ त एव विषयाः सुसंगृहीताः, येषां लक्षणं प्रपञ्चश्च । एवमुदाहरणैरेव प्रपञ्चो न्याय्यः, लक्षणेनातिप्रसङ्गात् ! सिद्धस्य हि पुनर्वचने का निष्ठेत्युदाहरणैरेव प्रपञ्चो दर्शितः (दु० टी०)।
५. अन्येऽपि शिष्टप्रयोगानुसारेण वेदितव्या इति (वि० प०)। [रूपसिद्धि]
१. हरणम् । ह + अन + सि । “युट् च" (४।५।९४) से युट् प्रत्यय, अनुबन्ध का प्रयोगाभाव, “युबुझामनाकान्ताः" (४।६।५४) से यु को 'अन' आदेश तथा अ के व्यवधान में प्रकृत सूत्र से न् को ण् । “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२।१।१) से 'हरण' की लिङ्गसंज्ञा, प्रथमाविभक्ति - एकवचन में सि-प्रत्यय तथा “अकारादसंबुद्धौ मुश्च" (२।२।७) से मु आगम-सिलोप ।
२. पुरुषेण । पुरुष + टा । "इन टा" (२।१।२३) से टा को इन, “अवर्ण इवर्णे ए" (१।२।२) से अ को ए-इ का लोप तथा ए के व्यवधान में प्रकृत सूत्र द्वारा न् को ण् आदेश ।
३. मातृकेण। मातृक+ टा । पूर्ववत् टा को इन, अ को ए, इ का लोप, तथा क् + ए के व्यवधान में नकार को णकारादेश ।
४-१०. अhण। अर्ह + टा (ह के व्यवधान में)। अर्येण । अर्य + टा (य् के व्यवधान में)। पर्वणा । पर्वन् + टा (व् के व्यवधान में) । अर्केण । अर्क+टा (क् + ए के व्यवधान में)। मूर्खेण । मूर्ख + टा (ख् + ए के व्यवधान में)। दर्पण। दर्प + टा (प् + ए के व्यवधान में)। रेफेण । रेफ +टा (फ् + ए के व्यवधान में)।
११-१२. शीर्णम् । शृ+ न + सि । तिसृणाम् ।त्रि (स्त्रीलिङ्ग) + आम् । शृधातुगत ऋ को इर्-ईर् होने पर रेफ और न में कोई व्यवधान नहीं है। इसी प्रकार त्रि को तिसृ आदेश तथा नु-आगम होने पर ऋ और न में भी कोई व्यवधान नहीं है । इन दोनों ही शब्दों में व्यवधान के अभाव में ही प्रकृत सूत्र द्वारा न को ण आदेश।
Page #274
--------------------------------------------------------------------------
________________
२३२
कातन्त्रव्याकरणम्
१३-१७. ईहणम् ।बूंह + युट् + सि । उर केण ।उर:क+टा |उरःपेण ।उर:प+टा | उरx केण । उरःक+ टा। उरपेण । उरःप + टा । ये उदाहरण अनुस्वार, विसर्ग, जिह्वामूलीय तथा उपध्मानीय - व्यवधान के हैं । इनमें भी प्रकृत सूत्र से नकार को णकारादेश होता है ।। ३३३।
३३४. स्त्रियामादा [२।४।४९] [सूत्रार्थ ] स्त्रीलिङ्ग वाले अकारान्त शब्द से 'आ' प्रत्यय होता है ।। ३३४। [दु० वृ०]
स्त्रियां वर्तमानाल्लिङ्गादकारान्ताद् आप्रत्ययो भवति । स्त्रीपुंनपुंसकानि लोकलिङ्गानुशासनगम्यानि । अजा, एडका, चटका, मूषिका, अश्वका ||३३४|
[दु० टी०]
स्त्रिया०। अथ किमिदं नाम स्त्रीति | स्त्रीपुंनपुंसकानि हि लिङ्गानि शब्दसंस्कारमात्रोपयोगीनि लोकरूढानि धर्मान्तराणीव भेदेनोपादीयन्ते । तथा होकार्थेऽपि शब्दभेदेन लिङ्गभेदो दृश्यते । येषां तु दर्शनं स्तनकेशादिभिः समवायलक्षणो (संयोगलक्षणः) वा संबन्धः । यदाह -
स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥इति । त एवावशिष्टाः स्तनादयो लिङ्गानि, यान् दृष्ट्वा हस्तिन्यां वडवायां च स्त्रियामियं च स्त्रीति बुद्धेः समन्वयो भवति, तैरेव वा स्तनादिभिर्विशिष्टैरभिव्यज्यते यत् स्त्रीत्वादिसामान्यं तद् वा लिङ्गम् । यदाहुः,
स्तनकेशादिसंबन्यो विशिष्टा वा स्तनादयः।
तदुपव्याना जातिर्लिङ्गमेतविरुच्यते॥ त्रिष्वप्येतेषु दर्शनेषु खट्वा, माला, कुटी, पात्रीति स्त्रियामादा ईश्च न सिध्यतीति स्तनादिसंबन्धाभावात् । वृक्षादीनां च कथं पुंस्त्वम्, लोम्नामत्यन्तासंभवात् । तस्माद् ईदृक् लक्षणं प्रायिकं मत्वाह - स्त्रीत्यादि । लोकेभ्यः शास्त्रकृद्भ्यो
Page #275
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२३३
लिङ्गानुशासनेभ्यश्च गम्यानीत्यर्थः । स्त्रियां वर्तमानत्वात् स्त्रियामभिधेयायां स्त्रियां समानाधिकरणायां वेति त्रयः पक्षाः। तत्राद्य एवादुष्टः पक्ष इत्याह - स्त्रियां वर्तमानादिति । तत् पुनर्धातोर्न संभवतीत्याह - लिङ्गाद् इति, प्रत्ययश्चात्र द्योतक इति । कुमारी देवदत्तेति सामानाधिकरण्यं द्विवचनबहुवचने च कुमार्यौ, कुमार्य इति । कामितरेत्यादौ प्रकर्षः स्त्र्यर्थद्योतकः पुनः प्रकर्षप्रत्ययान्ताद् आ भवति । देवदत्तिकेति संज्ञायां के विहिते तथा स्वभावादनेकप्रत्ययद्योतकत्वात् । अभिधेयवादी त्वाह - स्त्रीशब्दोऽयं विना भावप्रत्ययेन स्त्रीत्वे वर्तते । यथा गोशब्दो जातिपदार्थापेक्षया भावप्रत्ययाविहितो गोत्वे वर्तते, तथा स्त्रियामभिधेयायां स्त्रीत्वं प्रत्ययार्थ इति । कथन्तर्हि देवदत्तायाः स्त्रीत्वम् इति आप्रत्ययेनैव भावार्थोऽभिहित इति । सामानाधिकरण्यमेव स्यात् कुमारी देवदत्तेति, तद्वतोऽर्थस्य सामानाधिकरण्याभावश्च स्त्रीत्वस्य प्राधान्याच्च द्विवचनबहुवचने चाश्रयगते न स्त इति । अथ स्त्रीत्वेऽपि प्रत्ययो भवन्नाश्रयादभिन्नमेव स्त्रीत्वमाह स्वभावात् । अत उक्तदोषा न संभवन्ति । तर्हि प्रकृत्यर्थविशेषपक्षाद् विशेषणात् को भेद इति सामानाधिकरण्यपक्षः पुनरपपक्ष एव ।
स्तृणातेः स्त्रियां ड्रडिति कृते स्त्र्यर्थः खलु लिङ्गस्य सामानाधिकरण्याभावात् कथमीप्रत्ययो भवति । अथास्मादेव निर्देशादवसीयते, तथापि समानाधिकरणभिन्नाधिकरणभावो विभक्तिगम्य एव । विभक्तेश्च स्त्रीप्रत्ययः प्रागिति 'उष्णिहा, देवविशा, क्रुञ्चा' इति नाम्युपधात् के पचादित्वादचि वा स्त्रियामादा । क्विपि तु 'उष्णिक्, देवविट्, क्रुङ् स्त्री' इति भवितव्यमेव । दीर्घविधानमकारलोपः स्यादिति । प्रत्ययविधानं तु स्त्र्यर्थद्योतनार्थमिति । अजादेर्नदादित्वादीप्रत्ययो न स्यादाकृतिगणत्वादित्याह - अजेत्यादि । तथा ‘एडा, बाला, पाका, होडा, डिम्भा, वत्सा, मल्ला, कन्या, मन्दा, वयस्था, विडाला' इति अपश्चिमं वयः । 'पूर्वापहाणा, अपरापहाणा, प्रहाणा' इति युडन्तस्तत्रापिग्रहणाण्णत्वम् । अमूला, संफला, भस्त्राफला, अजिनफला, शणफला, पिण्डफला, त्रीणि फलान्यस्यामिति त्रिफला । सत्पुष्पा, काण्डपुष्पा, प्राकूपुष्पा, उदकपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, बहुपुष्पा । अतोऽन्यन्मूलफलपुष्पान्तं नदादि । शूद्र्येव भार्या शूद्रस्य जातिः शूद्रा । महत्पूर्वा जातिर्नदादिरिति महाशूद्री आभीरजातिः । आदित्यधिकारः प्रतिपत्तव्योऽविशेषे । नद इत्यकारान्तस्तप्रकारेभ्य इति वा ।। ३३४।
Page #276
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[वि० प०]
स्त्रिया० । स्त्रियां वर्तमानादित्यनेन प्रकृतिविशेषणं दर्शयति, प्रत्ययस्तु स्वार्थिकत्वाद् द्योतक इति दर्शितम् । अथ किमिदं नाम स्त्रीत्याह - स्त्रीपुंनपुंसकानि लोकेभ्यः शास्त्रकारेभ्यो लिङ्गानुशासनेभ्यश्च गम्यानीति भावः ।। ३३४।
[क० च०]
स्त्रिया० । ननु "स्त्रियामादा'' इत्यत्राकारे क्रियमाणेऽपि न दोषः ? सत्यम् । दीर्घकरणम् अन्यत्रापि आप्रत्ययः साध्यते । अकारलोपस्तु न स्यात्, विभक्तावित्यस्य उभयत्र संबन्धात् । नन्वत्र सूत्रे स्त्रीशब्दस्य शब्दसंस्कारानुगुणधर्मविशेष : शब्दविशेषवाच्यः स्त्रीत्वार्थः । न तु योन्यादिमत्त्वं स्त्रीत्वम् । 'कलत्रम्' इत्यादौ सत्यपि योन्यादिमत्त्वे स्त्रीत्वलक्षणकार्याभावात् । तटीत्यादाचसत्यपि योन्यादिमत्त्वे स्त्रीत्वलक्षणयोगात् । तथा च सति सर्वेषामर्थानां व्यक्तिशब्देनार्थशब्देन वस्तुशब्देन च स्त्रीत्वादयो धर्माः प्रतीयन्ते । ततः स्त्रीत्वविशिष्टेऽर्थे वर्तमानाल्लिङ्गाद् आप्रत्ययो भवतीति सूत्रार्थे कलत्रादिशब्दात् कथम् आप्रत्ययो न स्यात् । व्यक्तिशब्देन कलत्रशब्दस्यापि स्त्रीत्वावगमात् ? सत्यम् । यस्माच्छब्दात् प्रत्ययो विधातव्यः, प्रत्यासत्त्या यदि तेनैव शब्देन स्त्रीत्वं प्रतिपाद्यते, तदैवाप्रत्ययो भवति ।
कलत्रमित्यादौ तु कलत्रशब्दान्न स्त्रीत्वं प्रतीयते किन्तु नपुंसकत्वमिति । ननु यद्यर्थानां धर्माः स्त्रीत्वादयस्तदा तटादिशब्दवाच्यार्थस्य त्रिलिङ्गत्वात् लिङ्गत्रये एकशब्देनाभिधीयमानत्वात् । लिङ्गसङ्करदोषः । तदा किमाश्रितं कार्यं भवतीति ? सत्यम् । एकदा शब्देन लिङ्गत्रयं नाभिधीयते किन्तु क्रमेणैव स्वभावादिति च सङ्कर इति । तथा च श्रीपतिः
शब्दसंस्कारसिद्ध्यर्थमुपायाः परिकल्पिताः। सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः॥ ये तु योन्यादिसंबन्धाः प्राणिजातीयगोचराः। न ते छुपायाः संस्कारे कलत्रादितटादिषु ॥ त्रिलिङ्गत्वेऽपि वस्तूनां शब्दानामीदृशी गतिः। गृह्णन्ति यदमी लिङ्गमेकं द्वे त्रीणि वा न वा॥
Page #277
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
स्त्रीत्वमश्वा कुरङ्गीति लौकिकं यत् प्रतीयते ।
तत्तदन्वयिनि द्रव्ये शास्त्रीयस्त्रीत्वसंभवात् ॥ इति ।
२३५
[समीक्षा]
‘अज, एडक, चटक, मूषिक, अश्वक' इत्यादि अकारान्त शब्दों से स्त्रीलिङ्ग मे कातन्त्रकार ने आ-प्रत्यय करके 'अजा, एडका, चटका, मूषिका, अश्वका' आदि शब्द सिद्ध किए हैं । पाणिनि इन शब्दों के सिध्यर्थ 'टाप्' प्रत्यय करते हैं । उनका अधिकारसूत्र भी स्वतन्त्र है - " स्त्रियाम्, अजायतष्टाप्" (अ० ४ १ ३, ४) । [विशेष वचन ]
१. स्त्रीपुनंपुंसकानि लोकलिङ्गानुशासनगम्यानि ( दु० वृ० ) ।
I
२. स्त्रीपुंनपुंसकानि हि लिङ्गानि शब्दसंस्कारमात्रोपयोगीनि । लोकरूढानि धर्मान्तराणीव भेदेनोपादीयन्ते ( दु० टी० ) ।
३. लोकेभ्यः शास्त्रकृद्भ्यो लिङ्गानुशासनेभ्यश्च गम्यानीत्यर्थः (दु० टी०, वि०
प०) ।
४. शब्दसंस्कारसिध्यर्थम् उपायाः परिकल्पिताः ।
सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः ।। (क० च० ) ।
[ रूपसिद्धि ]
१. अजा। अज + आ + सि । 'अज' इस अकारान्त शब्द से स्त्रीत्व अर्थ में प्रकृत सूत्र द्वारा 'आ' प्रत्यय, “समानः सवर्णे दीर्घीभवति परश्च लोपम्” (१ ।२।१) से जकारोत्तरवर्ती अकार को दीर्घ, परवर्ती आ का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्ग्ङ्गम्” (२।१।१) से ‘अजा' की लिङ्गसंज्ञा, प्रथमाविभक्ति - एकवचन में सि-प्रत्यय तथा " श्रद्धायाः सिर्लोपम्" (२।१।३७ ) से सि का लोप ।
२-५. एडका। एडक + आ + सि । चटका । चटक + आ + सि । मूषिका । मूषिक + आ + सि । अश्वका । अश्वक + आ + सि । पूर्ववत् सर्वत्र प्रकृत सूत्र से 'आ' प्रत्यय, दीर्घ, आकारलोप, लिङ्गसंज्ञा, सि-प्रत्यय एवं उसका लोप ।। ३३४ ।
Page #278
--------------------------------------------------------------------------
________________
२३६
कातन्त्रव्याकरणम्
३३५. नदाद्यन्चिवाहूव्यन्स्यन्तृसखिनान्तेभ्य ई [ २।४।५० ]
[ सूत्रार्थ ]
नदादिगणपठित शब्दों, अन्च् भागान्त शब्दों, वाह् भागान्त शब्दों, उकारान्तइकारान्त-अन्स्भागान्त शब्दों, अन्तभागान्त, ऋकारान्त, सखिशब्द एवं नकारान्त शब्दों से स्त्रीलिङ्ग में 'ई' प्रत्यय होता है || ३३५ |
[दु० वृ० ]
नदादि-अन्चि-वाह्-उ-इ- अन्सि- अन्त्-ऋ - सखि - नान्तेभ्यः स्त्रियां वर्तमानेभ्यः प्रत्ययो भवति । नदी, मही, भाषी, प्लवी । अन्चि - प्राची, अतिप्राची । वाह् प्रष्ठौही | उदन्त-पट्वी । इदन्त-दाक्षी । अन्स्यन्त-विदुषी, अतिविदुषी । अन्तन्त - पचन्ती, अतिपचन्ती, भवती, मघवती । ऋदन्त - कर्त्री, अतिकर्त्री । सखि - सखी । नान्त - दण्डिनी ।
उतो गुणवचनादखरुसंयोगोपधाद् वा पटुः पट्वी । बहुरित्यपि स्यात् । खरुरियम्, पाण्डरियम् इत्यतो न स्यात् । इतश्च क्तिवर्जिताद् वा - धूलि:, धूली । क्तेस्तु न स्यात् – पङ्क्तिः । 'स्वसा, दुहिता, ननान्दा, याता, माता, तिस्रः, चतनः’ इति ईप्रत्ययेन विना स्त्रीत्वाभिधानात् । पञ्च, सप्तेति स्त्रीत्वाभावादेव न भवति । सखीति नित्यार्थम् । नदादिराकृतिगणः || ३३५ ।
-
[दु० टी० ]
"
नदा० । नद एव आदिर्यस्य गणस्येति आदिशब्दः प्रकारवचन इत्याह - नदादिराकृतिगण इति । द्वन्द्वात् परं यत् श्रूयते तल्लभते प्रत्येकमभिसंबन्धम् इति । अन्च्याद्यन्तेभ्यो लिङ्ग्ङ्गेभ्य इत्यर्थः । तर्हि सुसखी, अतिसखी इति स्यात्, कथं सखीति, व्यपदेशात् । ‘येन विधिस्तदन्तस्य ' ( कात० प० ३ ) इति सिऽन्तग्रहणं नदादेरतदन्तार्थमविशेषे गणसूत्रे सति तेन बहुनदा भूमिरिति । कथं परमनदीति, परमा चासौ नदी चेति विग्रहे सति तस्मात् स्वार्थ इति युक्तितो लब्धम् । नदमहभषप्लुभ्यः पचादित्वादच् । प्रष्ठौहीति । " वहश्च " ( ४ | ३ | ६१ ) इति विण् | अप्यधिकाराद् उतो गुणवचनादित्यादि । इह इत्यादि । इतो मनुष्यजातेरेव । अवन्तीनां क्षत्रियाणामपत्यं स्त्री अवन्ती । एवं कुन्ती । कुरुकुन्त्यवन्तीनां स्त्रियां गर्गादिपाठाण्ण्यो नास्ति, अभेदोपचारस्यैवाभिधानात् । उदपेयस्यापत्यं स्त्री उदपेयी दाक्षी । तित्तिरिरिति पक्षि
Page #279
--------------------------------------------------------------------------
________________
२३७
नामचतुष्टयाध्याये चतुर्थः कारकपादः जातित्वात् । कथं सुतङ्गमेन निवृत्ता ‘सौतङ्गमी' नगरी इति इनन्तादजातेरपि दृश्यते । कथं पर्णध्वब्राह्मणी । क्वावनुषङ्गलोपान्नायमन्स्यन्तः । नद्यन्तमाचष्टे नद्यन् स्त्रीति क्विपि न दृश्यते । ‘पञ्च, सप्त' इति भेदगणनाद्वारेण नान्ता हि संख्या खल्वियं प्रसिद्धिमत्तामनपेक्ष्य संख्येयमाहेति स्त्रीत्वाभावः । अपिग्रहणादेवानन्ताद् बहुव्रीहेर्वा - बहुराज्ञी पृथ्वी । बहुराजा, बहुराजानौ । अधिगता राजानो यया सा अधिराज्ञी ग्राम इति नित्यं संज्ञायां प्रत्ययमन्तरेण संज्ञा न गम्यते इति । संख्यादेम्निः - द्विदाम्नी, त्रिदाम्नी । न तु वमसंयोगात् सुपर्वा, सुपर्वाणौ । सुधर्मा, सुधर्माणौ । बहुव्रीहिरित्येव - अतिपर्वणी यष्टिः । मनन्ताच्च - ददातीति दामा, दामानौ । सीमा, सीमानौ ।
मनन्तबहुव्रीह्यनन्ताभ्यां डा चेति नदादौ गणसूत्रम् । मनन्ताद् अनन्ताद् बहुव्रीहेश्च स्त्रियां डा भवति । डकारोऽन्त्यस्वरादिलोपार्थः । दामा, दामे । सीमा, सीमे ! बहुराजा बहुराजे । सुपर्वा, सुपर्वे । तथा अप्यधिकारात् णकारस्वराघोषेभ्यो विहितादेव वन ईदृश्यते । ओण (१।१४७), वनिप् – अवावरी । दधातेः क्वनिप् - धीवरी, अतिधीवरी । श्रृणातेश्च - शर्वरी । दृशेः क्वनिप् – मेरुदृश्वरी । अरेफप्रकृतेरपि - रेफः । तथा बहुव्रीहौ वा - बहुधीवरी, बहुधीवरा |
नदादिः- नद, मह, भष, प्लव, चर, चोर (तोर), अनुचर, ग्राह, सूद, देव, पुत्र, गौर, शबल, कल्माष, शारङ्ग, पिषङ्ग, मत्स्य, मनुष्य, गवय, हय, शूकर, ऋष्य, शृङ्ग, पुट, द्रुण, द्रोण, (सुवहण, अवीहन), तुण, वट, भकण,आमलक, कुवल, बदर, बिल्व, बर्कर, बर्बर, पिप्पल, शफर, शर्कर, गर्गर, (अशर, अजर), गात्र (पात्र), सुषव, सुरभ, अलिन्द, अन्ज्, पाण्ड, कुश, आढक, आसन्द, शट, शाट, शङ्कल, सूर्य, सूर्म, यूप, सूचक, अशन, मृष, धातक, शल्लक, वल्लक, मालभ, वेतस, वृष, अतस, भङ्ग, भृङ्ग, मह, मठ, कमठ, अनड्वाह्, काल, मेष, मण्डल, पट, पिण्ड, तर, तर्क, कुट, फाण्ट, लोह, कदर, कमल, जयन्त, विकल, बिष्कल, लवण, पुंश्चल, सुन्द, कट, तट, सुन्दर, पट | रोहिणी रेवती नक्षत्रे । हरीतक्यादि, पृथिव्यादि, आविष्टलिङ्गमपुंवद्भावार्थम् । मनन्तबहुव्रीह्यनन्ताभ्यां डाच् । भाज-गोणनाग-काल-स्थल-कुण्ड-कुश-कामुक-कबरेभ्य: पक्वापणस्थूलकृष्णकृत्रिमाः सत्रायसरिरंसुकेशवेशेषु । नीलात् प्राण्योषध्योः । संज्ञायां वा शोणादेः । शोण, चण्ड, अराल, कमल, सहाय, कृपण, विकट, (विटप), विशाल, शकट (विशङ्कट), उपाध्याय, भरद्वाज । चन्द्रभागादनद्याम् । अहन, कल्याण, उदार, पुराण । वृत् ।
Page #280
--------------------------------------------------------------------------
________________
२३८
कातन्त्रव्याकरणम्
'अण्, एयण, इकण्, नण्, स्नण्, क्वरप्' षड् अनुबन्धाः । पुंनाम्नो योगात् अपालकान्तात् । पूतक्रतुवृषाकप्यग्निकुसितकुसीदानामै च | मनोरौ च वा । सूर्या देवी । इन्द्रवरुणभवशर्वरुद्रमृडाचार्याणामानन्तश्च । अर्यक्षत्रियाभ्यां वा । मातुलोपाध्यायाभ्यां वा । हिमारण्याभ्यां महत्त्वे । यवाद् दोषे । यवनाल्लिप्याम् । कृतात् करणादेः । क्तान्तादल्पोक्तौ । स्वाङ्गाद् अकृत-जात-मित-प्रतिपन्नेभ्यो बहुव्रीहौ । पाणिगृहीत्यूढा जातेरनाच्छादनाद् वा । स्वाङ्गादप्रधानात् । नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गगात्रकण्ठेभ्यः । पुच्छात् कबरमणिविषशरेभ्यः । उपमानादेः । पक्षात् । न क्रोडादेः । क्रोड, खुर, प्रोथ, त्रिक, बाल, कट, शफ, गुद, भग, गल । सह नविद्यमानपूर्वात् । नखमुखात् संज्ञायाम् । जातेरस्त्रीविषयादयोपधात् । पाक-पर्ण-कर्ण-वर्ण-पुष्प-फल-मूल-बालान्तात् । अपश्चिमे वयसि ।
तद्धितार्थे द्विगोः परिमाणान्तादसंख्याकालबिस्ताचितकम्बलेभ्यः । काण्डादक्षेत्रे । पुरुषाद् वा । केवल-मामक-भागधेय-पापावरसमानार्यकृतसुमङ्गलभेषजेभ्यः संज्ञायाम् । अन्तर्वली गर्भिण्याम् | पतिवनी भार्यायाम् | पत्युनश्च ऊढायाम् । सपूर्वस्य वा बहुव्रीहौ । समानैकवीरपिण्डपुत्रभ्रातृभ्यः । संख्यादेर्हायनाद् वयसि । वा पादः । ऊधसो नश्च । वा श्येतैतहरितलोहितेभ्यस्तश्च । असितपलितयोः क्नश्च । मनुष्यजातेरुकारान्ताद् ऊङ् । अप्राणिनामरज्ज्वादिभ्यः । बाह्वन्त-कद्रु-कमण्डलुभ्यः संज्ञायाम् । पशूः । श्वश्रूः । उपमानसहितसंहितसहशफवामलक्षणपूर्वादुरोः । अषावटाण्ण्यात् पौत्रादिदृष्टात् । आयनश्चान्तो वा - लोहितादिभ्यः शकलान्तेभ्यः । कौरव्यासुरिमाण्डूकेभ्यश्चेति ।
गणसूत्राणामुदाहरणमुच्यते । भाजादीनां पक्वादिषु यथासंख्यम् । भाज्यते इति भाजी पक्वा चेत् । अन्या भाजा | "गुरोश्च निष्ठा सेट्" (४।५।८१) इति 'अ' प्रत्ययः । गोणी आवपनं चेत् । यस्मिन् धान्यादि प्रक्षिप्य नीयते तदावपनम्, गोणा । नागी स्थूला चेत् । जातिवचनस्य नागशब्दस्य नेह ग्रहणम्, जातेरस्थौल्यात् । न तु गुणवचनस्य स्थौल्याव्यभिचारात् । यत्र हि स्थौल्यं संभवति, व्यभिचारोऽपि तद्विषय एवायं गृह्यते । काली कृष्णा चेत्, अन्या काला नाम । स्थली अकृत्रिमा चेत्, अन्या स्थला । या पुरुषव्यापारनिर्वृत्ता । कुण्डी अमत्रं चेत्, अन्या कुण्डा । या भाजनं न भवति । जातिवचनस्तु कुण्डशब्दो नपुंसकः, न तस्येह ग्रहणम् । कुशी आयसी चेत्, अन्या
Page #281
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२३९ कुशा । तदाकृतिरेव काष्ठादिमयी, न तु कुशशब्दस्य जातिनिमित्तस्य ग्रहणम् । कामुकी रिरंसुश्चेत्, अन्या कामुका, या न रमणेच्छावती । कबरी केशवेशश्चेत्, स पुनरलकाख्यः, अन्या कबरा । नीली बडवा, नीली ओषधिः । प्राण्योषध्योरिति किम् ? नीला शाटी । नीली, नीला | शोणी, शोणा इत्यादि । कमलशब्दः संज्ञायाम् अजातिवचनः । चन्द्रभागेति रूढं नद्याम् । अन्या चन्द्रभागी । अहन्शब्दस्यादन्तस्य - दीर्घाही शरत् । नित्यं कुम्भकारी औपगवी | चुरा शीलमस्याः; तपः शीलमस्याः 'चौरी, तापसी । एवमादेरण् । __आत्रेयी, आक्षिकी, सर्पिषा संस्कृता सार्पिष्की इसन्तादिकण, आदिलोपः । स्त्रैणी, पौंस्नी । “स्त्रीपुंसाभ्यां नणस्नणौ" चापत्यादावर्थे दृश्यते । सृत्वरी, जित्वरी । शिल्पिनि वुष्-नर्तकी, रजकी । प्रमाणे द्वयसट्-मात्रट-दध्नट्प्रत्ययास्तमादित्वात् । जानुः प्रमाणमस्याः ‘जानुद्वपसी जानुमात्री, जानुदघ्नी । कथं पठिता विद्या ? नायमिटष्टकारः क्तस्यानुबन्धः पुंसो नाम पुंसः संज्ञाभूतं योगादित्युक्तेऽपि श्रुतत्वात् पुंसो योगादादिपुरुषेण संबद्धाद्धेतोः पुंसः संबन्धमाचष्टे । प्रष्ठस्य भार्या प्रष्ठी । कस्यचित् प्रधानस्य संज्ञाभूतः शब्दः सोऽयमित्यभेदेन भार्यायां वर्तते । नामग्रहणं किम् ? प्रसूता प्रसवनिमित्तभूतत्वात् प्रसूतः । तत्संबन्धाद् भार्यापि प्रसूता । अपालकान्तादिति किम् ? गोपालिका | गवां पालकत्वेऽपि कस्यचिन्नामेति । 'पूतक्रतायी' इत्यादि | पुंयोगादिति किम् ? यया पूताः कृतवः सा पूतक्रतुर्भवति । मनोर्भार्या मानवी, मनायी, मनुर्वा । पुंयोगाद् ईप्रत्यये प्राप्ते आ निपात्यते – सूर्या देवी, सूरी अन्या । इन्द्रस्य भार्या इन्द्राणी | 'आचार्यानी' इत्यत्र णत्वं न भवति, तत्रापिग्रहणात् । दीर्घोच्चारणं सुखार्थम् । अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया | अपुंयोगार्थमिदम्, पृथक्करणात् | पुंयोगे तु अ-, क्षत्रियी | आगमविकल्पार्थमिदम्, नित्यम् ईकारः सिद्ध एव । मातुली, मातुलानी । उपाध्यायी,उपाध्यायानी | महद्धिमं हिमानी । महदरण्यम् अरण्यानी । वाशब्दोऽत्र न वर्तते । दुष्टो यवो यवानी । यवनानी लिपिः । यवनशब्दो यवनसंवन्धिन्यां लिप्यामभेदोपचारेण वर्तते । भेदे तु यवनानामियं लिपिर्यावनी । अनन्तत्वाद् आनन्तश्चेति निवृत्तम् । करणमेवादिरवयवो यस्य क्रीतशब्दस्य तस्मादिति, अर्थात् समास एव गम्यते । वस्त्रेण क्रीतेत्यभिधानाद् अविभक्त्यन्तेन समासः ।
Page #282
--------------------------------------------------------------------------
________________
२४०
कातन्त्रव्याकरणम्
कश्चिन्नपुंसकेन समस्य पश्चात् स्त्रीत्वविवक्षेत्याह - वस्त्रक्रीती । कथम्,
सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी ।
आदन्तेन समासोऽयम् आदिति हि प्रवर्तते ॥
अभ्रैर्विलिप्ता अभ्रविलिप्ती द्यौः । अल्पोक्ताविति किम् ? चन्दनविलिप्ता स्त्री । शङ्खौ भिन्नावस्याः शङ्खभिन्नी । अकृतादिभ्य इति किम् ? दन्तकृता, दन्तजाता, दन्तमिता, दन्तप्रतिपन्ना | बहुव्रीहाविति किम् ? हस्ताभ्यां पतिता हस्तपतिता । पाणिर्गृहीतोऽग्निसाक्षिकोऽस्या इति विग्रहः । एवं हि ऊढा स्यात् । पलाण्डुर्नाम जातिः। पलाण्डुर्भक्षितो यया सा पलाण्डुभक्षिती, पलाण्डभक्षिता । जातेरिति किम् ? मासजाता | अनाच्छादनादित्येव - वस्त्राच्छन्ना । अकृतादिभ्य इत्येव । कुण्डकृता, कुण्डजाता, कुण्डमिता । पलाण्डुजाता, वृक्षप्रतिपन्ना । वृक्षात् प्रतिपन्नम् प्रतिपतनम् अस्या इति विग्रहः । प्रतिपन्नमिति भावे क्तः । दीर्घकेशी, दीर्घकेशा |
अद्रनं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् ।
अतत्स्थं तत्र दृष्टं च तेन चेत् तत् तथायुतम् ॥
अद्रवमिति किम् ? बहुकफा । मूर्तिमदिति किम् ? बहुज्ञाना | प्राणिस्थमिति किम् ? दीर्घमुखा शाला । अविकारजमिति किम् ? बहुशोथा । अतत्स्थं तत्र दृष्टं च तदपि स्वाङ्गम् – दीर्घकेशी रथ्या, दीर्घकेशा । तेन चेत् तत् तथायुतम् - पृथुस्तनी प्रतिमा, पृथुस्तना । इहाप्रधानग्रहणाद् अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला | स्वाङ्गादिति किम् ? बहुपादा नान्दी, बहुयवा भूमिः । ' सिद्धे सत्यारम्भो नियमार्थः' (कात० प० ५९ ) । नासिकोदराभ्यामेव । बहुस्वराभ्यामिति ओष्ठादिभ्य एव । संयोगोपधेभ्य इति – शङ्कुनासिकी, शङ्कुनासिका । तनूदरी, तनूदरा । बिम्बोष्ठी, बिम्बोष्ठा । दीर्घजङ्घी, दीर्घजङ्घा । समदन्ती, समदन्ता । चारुकर्णी, चारुकर्णा । तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा । मृदङ्गी, मृदङ्गा । चारुगात्री, चारुगात्री । रक्तकण्ठी, रक्तकण्ठा । एभ्य इति किम् ? पृथुजघना, चारुचरणा, चारुगुल्फा । दीर्घपुच्छी, दीर्घपुच्छा । अतिपुच्छी, अतिपुच्छा | नासिकेत्यादिनियमनिवृत्तौ वचनम् । पूर्वेण विकल्पे प्राप्ते नित्यार्थमिदम् | कबरपुच्छी, मणिपुच्छी विषपुच्छी, शरपुच्छी । उलूकस्येव पुच्छोऽस्याः उलूकपुच्छी। उपमानादेरित्येव । उलूकस्येव पक्षोऽस्याः उलूकपक्षी ।
Page #283
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२४१ स्वाङ्गादप्रधानादिति प्राप्ते प्रतिषेधः। (कल्याण) कन्याक्रोडेत्यादि नेति वर्तते स्वाङ्गादप्रधानादिति च । सहकेशा, सकेशा, अकेशा, विद्यमानकेशा , शूर्पणखा, गौरमुखा । संज्ञायाम् इति किम् ? (तुङ्ग) ताम्रनखी कुक्कुटी । दीर्घमुखी शूकरी । नारायणी, चारायणी, बढची, कठी ।अस्त्रिविषयादिति किम् ? मक्षिका ।अयोपधादिति किम् ? क्षत्रिया । अत इत्यनुवर्तनात् तित्तिरिः, स्वार्थ एवेत्युक्तम् । प्रियकुक्कुटा, स्त्रीविषयार्थं वचनम् । ओदनपाकी, आखुकर्णी, मुद्गपर्णी, शङ्खपुष्पी, दाडिमफली, दर्भमूली, गोवाली । ओदनस्येव पाकः, आखोरिव को, मुद्गस्येव पर्णानि । शङ्खपुष्पमिव पुष्पम्, दाडिमस्येव फलम्, दर्भस्येव मूलम् । गोरिव बाला यस्याः, प्रत्येकमभिसंबन्धेन विग्रहीतव्यम् । समुदायसम्पादनाय यथाकथञ्चिद् व्युत्पत्तिः । अप्रधानादिति निवृत्तम् ।
'कुमारी, किशोरी, वर्करी, करभी, कलभी' प्रथमं वयः। तरुणी, तलुनी, वधूटी, चिरिण्टी' द्वितीयं वयः। अपश्चिम इति किम् ? स्थविरा वृद्धाः । वृद्धता यावदनेन वर्तितव्यम् । अपायेन वा युज्यते इति । उपचयापचययोगोऽत्र विवक्षितो न वयोऽवस्थानम् । न चैनयोरवस्थयोर्वयस्त्वप्रतीतिरिति । कथं द्विवर्षा, उत्तानशया, लोहितपादिका, मध्या, मध्यमा, ज्येष्ठा, कनिष्ठेति । अर्थादेवात्र वयो गम्यते न शब्दात् । द्वे वर्षे भूता या सा द्विवर्षा । तद्धितार्थद्विगुरिति, न त्विकण् । द्वे वर्षे अस्या इत्यपि वा विग्रहः । उत्ताना शेते इत्यच् । अपश्चिमे वयसि वर्तमानादिति श्रुतेर्न ईप्रत्ययः । कथं वृद्धकुमारीति, वृद्धा चासौ कुमारी चेति समासे सति सिद्धं पदसंस्कारकाले वृद्धशब्दो नास्तीति भावः । आदित्येव - शिशुः । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी, ट्याढकी । तद्धितार्थे समास इतीकण न भवति । परिमाणान्तादिति किम् ? पञ्चभिरश्वैः क्रीता पञ्चाश्वा । असंख्याकालविस्ताचितकम्वलेभ्य इति किम् ? द्वाभ्यां शताभ्यां क्रीता द्विशता । द्वे वर्षे परिमाणमस्याः द्विवर्षा । तद्धितार्थे समासे सति मात्रट् न भवति । द्वाभ्यां विस्ताभ्यां क्रीता, द्वाभ्याम् आचिताभ्यां क्रीता 'द्विबिस्ता, द्वयाचिता' । कम्वल्यम् जापलशतम् । द्वाभ्यां कम्बलाभ्यां क्रीता द्विकम्वल्या । तथा द्विगोरित्यत्र समाहारे द्विगुर्नदादिरिति वक्ष्यति । पोडशहस्तप्रमाणं काण्डम् । अक्षेत्र एवेति नियमार्थमिदम् । द्वे काण्डे परिमाणमस्याः द्विकाण्डी रज्जुः । पूर्ववन्मात्रट् न भवति । अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः । परिमाणादित्येव । द्वाभ्यां काण्डाभ्यां क्रीता द्विकाण्डा । चतुर्हस्तः
Page #284
--------------------------------------------------------------------------
________________
२४२
कातन्त्रव्याकरणम् पुरुषः इति। विकल्पार्थमेवेदं वचनम् । द्वौ पुरुषौ परिमाणमस्याः द्विपुरुषी यष्टिः, द्विपुरुषा | तत्परिमाणादित्येव - पञ्चभिः पुरुषैः क्रीता पञ्चपुरुषा | केवली, मामकी । त्वन्मदोरपि तवकममकावेकत्वे दृश्यते । भागधेयी, पापी, अवरी, समानी, आर्य्यकृती, सुमङ्गली, भेषजी । संज्ञायामिति किम् ? केवला, मामिका ।
अन्तःशब्दस्याधिकरणवाचित्वात् सामानाधिकरण्यं नास्ति । वन्तुर्नकाररहितो निपात्यते नश्चान्त इति । गर्भिण्या अन्यत्र अन्तरस्याः शालाया अस्ति । पतिरस्या अस्तीति वन्तुर्नश्चान्तो निपात्यते – पतिवनी भार्या । अत्र संगृहीतापि ऊढायामित्युत्तरत्र विशेषणादन्यत्र पतिमती । ऊढायां परिणीतायामिति नादेशे सति नान्ताद् ई: सिद्ध एव - पत्नी | पूनर्विधानं पुंवद्भावनिषेधार्थम् । तथोत्तरत्रापि भार्यायाम् इत्येव सम्बन्धो नोढायां मा भूत् । सहशब्दो विद्यमानवाची, पूर्वशब्दोऽवयववाची । विद्यमानः पूर्वोऽवयवोऽस्येति सपूर्वः, अर्थात् समासे एवेति । ग्रामस्य पतिामपत्नी, ग्रामपतिः । दृढः पतिरस्येति विग्रहे दृढपत्नी, दृढपतिः । बहुव्रीहावेवाप्रधान इति नियमार्थम्, तेन पतिमतिक्रान्ता अतिपतिरित्यादि। सत्यपि पूर्वत्वे बहुव्रीहावित्यनेन सिद्धे पुनर्विधानं (नियमार्थम्) नित्यार्थम् । समानः एकः पतिरस्या इति सपत्नी, एकपत्नी | सपल्याः अपत्यं सापत्न इति । न चायमीप्रत्ययसन्नियोगेन नकारः किन्तु स्वतन्त्रः । तस्मिन् सति ईप्रत्यय इति न निवर्तते नकारः । वयः कालकृतः प्राणिनामवस्थाविशेषः। वयसि गम्यमान इति द्वे हायने अस्या द्विहायनी, त्रिहायणी, चतुर्हायणी । त्रिचतुर्थ्यां हायनस्य वयसि णत्वम् । वयसीति किम् ? द्विहायना शाला | द्विपदी द्विपात् । त्रिपदी, त्रिपात् । कथं त्रिपदा गायत्री, पञ्चपदा पङ्क्तिरिति ? पादसमानार्थपदशब्देनैव सिद्धम् । त्रिपादित्यपि ऋचि । तर्हि प्राप्नोति इष्यते इत्येव | चतुष्पाद् ऋगिति दर्शनात् । व्यवस्थितविभाषया ऋचि तु ईर्न स्यात् । तेन पदान्ताद् ऋच्यभिधेयायाम् आ-प्रत्ययो न वक्तव्य एव | कुण्डम् इव ऊधः, द्वे ऊधसी, त्रीण्यूधांसि यस्या इति । कुण्डोनी, ट्यूनी, यूनी । बहुव्रीहावित्येव - प्राप्तोधाः । स्त्रियाम् इत्येव - महोधो धेनुकम्, धेनुसमूह इत्यर्थः । बहुव्रीहाविति निवृत्तम् । न इति वर्तते - श्येनी, श्येता । एनी, एता | हरिणी, हरिता । रोहिणी, रोहिता | कपिलिकादित्वाल्लत्वम् – लोहिनी, लोहिता । 'त' इति वर्तते । असिक्नी, असिता | पलिक्नी, पलिता । ऊविधानाय गणेऽस्मिन् पञ्च गणसूत्राणि पठ्यन्ते । कुरूः, ब्रह्मबन्धूः, ब्रह्मा बन्धुरस्या इति यथाकथंचिद् व्युत्पत्तिः
Page #285
--------------------------------------------------------------------------
________________
२४३
नामचतुष्टयाध्याये चतुर्थः कारकपादः स्वभावाज्जात्यनुवृत्त्या कुत्सां गमयति । दीर्घोच्चारणं नदीसंज्ञार्थम् । कप्रत्ययस्तु न स्यात् तत्र बहुलत्वात् । मनुष्यजातेरिति किम् ? धेनुः । कथम् अध्वर्युर्ब्राह्मणी चरणत्वाज्जातिः ? सत्यम्, व्यवस्थितविभाषयेति । अलाबूः, कर्कन्धूः । अप्राणिनामिति किम् ? कृकवाकुः । अरज्ज्वादिभ्य इति किम् ? रज्जुः, हनुः । मद्रौ बाहू यस्याः सा मद्रबाहुः । यथाकथंचित् समुदायसम्पादनाय व्युत्पत्तिः । कद्रुः, कमण्डलुः । संज्ञायामिति किम् ? वृत्तबाहुः, कद्रुः, कमण्डलुः । पॉश्वशुरयो:- ‘पशूः, श्वश्रूः' एतौ निपात्येते । करभस्येव ऊरुर्यस्याः सा करभोरूः। सहितोरू:, संहितोरू:, सहोरू:, शफोरूः, वामोरू:, लक्षणोरू: । गर्गस्यापत्यं पौत्रादि स्त्री गार्गी, वात्सी ।
षकारान्तस्यावटस्य च न भवति - पौतिमाष्या, आवट्या । पौत्रादिदृष्टादिति किम् ? गर्गादेराकृतिगणत्वात् कारुवाचिभ्योऽपत्यमात्रे ण्यः। तन्तुवायस्यापत्यं तन्तुवाय्या नापित्या, श्रुतत्वादायनो ण्यस्यैवान्त इति । गार्यायणी, पौतिमाष्यायणी, आवट्यायनी । वावचनं पावटार्थम् । गर्गाद्यन्तर्गणो लोहितादिः ।लोहितस्यापत्यं पौत्रादि स्त्री लौहित्यायनी ।शांसित्यायनी । मनायीशब्दात् मानय्यायनी । मनुशब्दात् मानव्यायनी (मानवीशब्दात् मानव्यायनी) । नित्यार्थं वचनम् । शकलान्तेभ्य इति किम् ? काण्ठ्यी, काण्ठ्यायनी। गर्गादेराकृतिगणत्वात् कुरोर्नकारादिभ्यश्चापत्यमात्रे ण्यः । कुरोर्ब्राह्मणस्यापत्यं स्त्री कौरव्यायणी | आसुरिशब्दादिनन्ताद् आसुरायणी | माण्डूकशब्दादणन्ताद् माण्डूकायनी । कथं कौरवी, "तस्येदम्' (२।६।७) इत्यणा सिद्धम् । नदादयो हि लोकोपचारात् सिद्धाः इति नदादिगणमग्रमेव स्वरूपमन्वाख्यातवान् । तथा चाभिधानकाण्डे सर्वमाहृतमिति नात्र न्यूनतादोषः । गणोदाहरणप्रपञ्चस्तु सुखप्रतिपत्त्यर्थ एव कृत इति ।। ३३५।
[वि० ५०]
नदा० । नद एवादिर्यस्य गणस्यासौ नदादिः। अञ्चिवाढ्यन्स्यन्तृसखिना एवान्ते येषां ते तथोक्ताः । नदादिश्च अञ्चिवायन्स्यन्तृसखिनान्ताश्चेति बहुव्रीहिगर्भो द्वन्द्वः । 'येन विधिस्तदन्तस्य' (कात० प० ३) इति सिद्धे यदन्तग्रहणं तदच्यादेरेव तदन्तार्थम् । नदादिः पुनरतदन्त एवेत्युदाहरति नदीत्यादि । 'नद, मह, भष, प्लव' इति पचादित्वादच् । तदन्ते तु न भवति बहुनदा भूमिः । प्रष्ठौहीति ! प्रष्ठो वहतीति । "वहश्च'' (४।३।६१) इति विण्, तदन्ताद् ई “वाहेर्वाशब्दस्यौः' (२।२।४८) ।
Page #286
--------------------------------------------------------------------------
________________
२४४
कातन्त्रव्याकरणम् सखीत्यत्र व्यपदेशिवद्भावात् तदन्तता। इहापि अप्यधिकारः प्रवर्तते इत्याह – उत इत्यादि । बहुरित्यपीति न केवलं बह्वीत्यर्थः । बहुशब्दोऽयं विपुलवचनत्वाद् गुणवचन: । स्वस्येत्यादि । स्वनादयो हि प्रत्ययमन्तरेणैव विशिष्टं स्त्रीत्वं स्वभावाद् अभिदधतीति कुतो द्योतकतया विधीयमानस्य ईप्रत्ययस्यावसर इति भावः । पञ्चेत्यादि । इह पुनत्यस्यैव स्त्रीत्वस्याभावात् कथं द्योतकः प्रत्ययो युज्यते । ष्णान्ता हि संख्या स्त्रीत्वविशिष्टेऽप्यर्थे वर्तमानाः स्वभावादलिङ्गका एवेति न स्त्रियां वर्तन्ते इति । तथा चाह - ष्णान्ता : संख्या अलिङ्गका कत्यव्यययुष्मदस्मदश्चेति । तेन "षट् स्वनादिभ्यः' इति न वक्तव्यम् भवति । षकारनकारान्ताः संख्या षड् इत्युच्यते । सखीति नित्यार्थमिति । अन्यथा इदन्तत्वादिश्च क्तिवर्जिताद् वेत्यनेन विकल्पः स्यादित्यर्थः । नदादिराकृतिगण इति, यत्र क्वचित् स्त्रियाम् ईप्रत्ययो दृश्यते स नदादिरित्यर्थः ।। ३३५।
[क० च०]
नदा० । “वायन्स्यन्तृ०" इत्यत्र इकारोकारयोर्यत्ववत्वादेशे प्रमाणाभावाद् यकारवकारयोः कथं न स्यात् । नैवम् – “दिव उद् व्यञ्जने'' (२।२।२५) इति निर्देशान्न वकारान्तस्य विधिः। अतस्तदन्तस्यैव तत्साहचर्याद् यकारस्य न ग्रहणम्, किन्तु इकारस्यैव । तथा ह्रस्वयोरिकारोकारयोर्ग्रहणं न दीर्घयोः प्रथमोपस्थितत्वात् । तथा वाहुशब्द इत्यपि नाशङ्कनीयम् । तदा निःसन्देहार्थं पूर्वमेव पठेत् । अन्चि - इकारयोरेकस्वरसाहचर्याच्च । वस्तुतस्तु आचार्यपारम्पर्याद वाह उ इत्येव गृह्यते । तथा शन्तृङोऽन्तृस्वरूप इति नाशक्यते अन्चेरनुबन्धरहित इति निर्देशस्य साहचर्यात् । ऋकारोऽपि पृथगेव गृह्यते आचार्यपारम्पर्याच्च । खरुरियं पाण्डुरियम् इत्यतो न स्यादिति वृत्तिः । उतो गुणवचनाद् विकल्पेन ईप्रत्ययो भवतु तत्र खरुपाण्डुशब्दात् सूत्रे उद्ग्रहणान्नित्यम् ईप्रत्ययः स्यात् । नैवम्, सूत्रोपात्त - उकारग्रहणाद् उदन्ताद् ईप्रत्ययो भवन् गुणवचनादेव विकल्पेन स्यात् । एतत् सर्वमप्यधिकारादेव लभ्यते । न दु उतो गुणवचनादखरुसंयोगोपधाद् वेति वक्तव्यान्तरम् इति । ननु यद्यपि अधिकारादेतल्लभ्यते तदा सूत्रे किमुकारग्रहणेन ? सत्यम् । उकारोपादानम् उकारेण उकारान्तमात्रपरिग्रहार्थम्, न च तदन्तस्य । तेन वृत्तौ उदन्ते ‘पट्वी' इति दर्शितम् नातिपट्वीति । एवम् “इतश्च क्तिवर्जिताद् वा" इत्यत्रापि बोध्यम् ।
Page #287
--------------------------------------------------------------------------
________________
२४५
नामचतुष्टयाध्याये चतुर्थः कारकपादः यद्यस्मिन् सूत्रेऽन्तग्रहणात् तदन्तपरिभाषाया अवकाशो नास्ति, किन्तु अन्तशब्दसंबन्धाद् अन्च्याद्यन्तस्यैव ग्रहणं तदा 'प्राची' इत्यत्रैव स्यात्, कथम् अतिप्राचीत्यादि ? सत्यम् । सूत्रे एतदेव इदुतोरुपादानं बोधयति - अन्येषामन्च्यादीनां तदन्तस्यापि भवतीति । अत एव वृत्तौ ‘अतिप्राची, अतिविदुषी' इत्यादिकं दर्शितम् इति हेमकरः। यद् वा कथं वृत्तौ अतिप्राचीत्यादिवद् अतिपट्वीति नोदाहृतम् ? सत्यम् । अधिकारात् सूत्रोपात्तोदन्तविधिर्भवन् यदि गुणवचन एव स्त्रियां वर्तते, तदैवेति । तेनातिक्रान्तः पटुर्यया अतिक्रान्ता पटुः स्त्री ययेत्युभयत्र अतिपट्वीति न भवति । आद्ये गुणवचनस्य स्त्रियामवृत्तित्वादन्ते यस्माद् ईप्रत्ययो विधातव्यः स यदि गुणवचनः स्यात् तदा ईप्रत्ययः । अत्र अतिपटुशब्दः स्त्रियां वर्तमानोऽपि द्रव्यवचनत्वान्न भवतीति । यैः प्राग् गुणमभिधायाभेदोपचाराद् द्रव्यमभिधीयते, ते गुणवचना इति । 'अतिपट्वी, अतिदाक्षी' इति नोदाहृतम् । यदा ‘अतिशायिता पट्वी' इत्यत्र गुणवचन एव स्त्रियां वर्तते, तदा ‘अतिपट्वी' इति भवत्येव ।
अथ मा भूद् वृत्तौ तदन्ते 'अतिपट्वी, अतिदाक्षी' इति कथनोदाहृतम् ? सत्यम् । ईकारग्रहणस्य विवरणस्वरूपम् "इतो मनुष्यजातेः" (अ० ४।१।६५) इति नित्यार्थं वक्तव्यान्तरं टीकायामुक्तम् । ततश्च मनुष्यजातिर्यदि स्त्रियां वर्तते तदैवायं विधिरिति । तेनातिक्रान्तो दाक्षिर्यया इत्यत्र न भवति, मनुष्यजातेः पुंसि वृत्तत्वात् । तथा अतिक्रान्ता दाक्षी ययेत्यत्रापि न भवति । यस्माद् ईप्रत्ययो विहितः स यदि मनुष्यजातिवाचकः स्यात् तदैवातिदाक्षिशब्दस्य मनुष्यजातित्वाभावान्न भवति । अत एव वृत्तौ अतिदाक्षीति नोदाहृतम् । यदा तु अतिदाक्षीति मनुष्यजातिवचनः स्त्रियां वर्तते, तदा अतिदाक्षीति भवत्येव । अतिधूलीत्यादिकं तु भवत्येवेति बाधकाभावात् । ननु यद्यन्तग्रहणात् तदन्तपरिभाषा नास्तीत्यस्मिन् सूत्रेऽन्तग्रहणात् तदन्तविधिर्भवन् प्राची इत्यत्रैव स्यात् कथम् अतिप्राचीति ? सत्यम् । अतिप्राचीत्यादेरपि अन्च्याद्यन्तता विद्यत एवेति को दोषः, तर्हि अन्तग्रहणेन किं कृतम् इति । नैवम्, 'बहुनदा भूमि' इति सिद्ध्यर्थमित्युक्तमेव । स्वसा दुहेत्यादि वृत्तिः। ननु कथमत्र प्रत्ययेन विना स्त्रीत्वाभिधानादिति सिद्धान्तितम् ।अतिमात्रेत्यत्र ईप्रत्ययेन विना स्त्री पुमान् वेति सन्देहः स्यात् । तथा 'भूमि-युवति' इत्यादिभ्योऽपि प्रत्यय विना स्त्रीत्वावगमाद् ईप्रत्ययो न स्यात् त्यन्तवर्जनवैयर्थ्याच्च ? सत्यम् । अतिमातेत्यादौ प्रत्ययं विनैव स्त्रियां प्रयोगस्य
Page #288
--------------------------------------------------------------------------
________________
२४६
कातन्त्रव्याकरणम् साधुत्वमिति । तथा अत एव क्तिवर्जनादुक्तेऽपि स्त्रीत्वे स्त्रीप्रत्यय इति । 'पञ्च, सप्त' इति वृत्तिः । ननु ‘अतिपञ्चानः, प्रियपञ्चानो दास्यः' इत्यत्र स्त्रीत्वावगमात् नान्तत्वाद् वा ईप्रत्ययः कथन्न स्यात् । नैवम्, अत्रापि लिङ्गाद् ईप्रत्ययो न कर्तव्य इति चेत्, कथं तर्हि 'प्रियपञ्चानि कुलानि' इत्यत्र नपुंसके जस्शसोः शिरिति ? सत्यम् । यत्र स्त्रीत्वादिविशेषो न प्रतीयते, तत्र सामान्यत्वान्नपुंसकमेव । एवं तर्हि पट्वी चासौ अतिपञ्च चेत्यत्र कथं पुंवद्भावे पट्वतिपञ्चेति स्यात् स्त्रियां तुल्याधिकरणे तस्य विधानात् ? सत्यम् । अत्रापि सामान्यत्वान्नपुंसकत्वेन समासं विधाय पश्चात् स्त्रीत्वविवक्षेति न दोषः । अन्यत् सूत्रद्वयं सुगगमम् ।। ३३५। ॥ इति कविराजसुषेणवियाभूषणविरचिते कलापचन्द्रे नामचतुष्टयाध्याये चतुर्थः कारकपादः समाप्तः॥
[समीक्षा]
पाणिनि ने जिन ईकारान्त शब्दों में स्त्रीत्वावबोधार्थ ७१ सूत्रों (अ० ४।११५ - ७५) द्वारा ङीप्-डीप्-डीन् प्रत्ययों का विधान किया है, उन सभी शब्दों को कातन्त्रकार शर्ववर्मा ने केवल एक ही 'ई' प्रत्यय द्वारा सिद्ध किया है | पाणिनि के प्रमुख सूत्र हैं - "ऋन्नेभ्यो ङीप्, टिड्ढाणब्धयसज्दघ्नमात्रच्तयप्ठठकञ्क्वरपः, अन्यतो ङीष् , षिद्गौरादिभ्यश्च, पुंयोगादाख्यायाम, जातेरस्त्रीविषयादयोपधात्, शाङ्ग्रवाद् यत्रो डीन्' (अ० ४।१।५, १५, ४०, ४१, ४८, ६३, ७३)। अनेक शब्दों के सिध्यर्थ वृत्तिकार दुर्गसिंह ने कुछ वार्तिकवचन तथा अन्य व्याख्याकारों ने विविध युक्तिवचन प्रस्तुत किए हैं, जिनका अनुशीलन करने पर कातन्त्रकार द्वारा आश्रित लाघव प्रशंसनीय ही कहा जा सकता है |
[विशेष वचन] १. द्वन्द्वात् परं यत् श्रूयते तल्लभते प्रत्येकमभिसंबन्धम् (दु० टी०)।
२. यवनानी लिपिः । यवनशब्दो यवनसंबन्धिन्यां लिप्यामभेदोपचारेण वर्तते । भेदे तु यवनानामियं लिपिर्यावनी (दु० टी०)।
३. गोबाली | गोरिव बाला अस्याः, प्रत्येकमभिसंबन्धेन विगृहीतव्यम् । समुदायसम्पादनाय यथाकथंचिद् व्युत्पत्तिः (दु० टी०)।
Page #289
--------------------------------------------------------------------------
________________
२४७
नामचतुष्टयाध्याये चतुर्थः कारकपादः ४. नदादयो हि लोकोपचारात् सिद्धा इति नदादिगणमग्रमेव स्वरूपमन्वाख्यातवान् (दु० टी०)।
___५. तथा च अभिधानकाण्डे सर्वमाहृतमिति नात्र न्यूनतादोषः । गणोदाहरणप्रपञ्चस्तु सुखप्रतिपत्त्यर्थ एव कृत इति (दु० टी०)।
६. स्वसेत्यादि । स्वनादयो हि प्रत्ययमन्तरेणैव विशिष्टं स्त्रीत्वं स्वभावाद् अभिदधतीति कुतो द्योतकतया विधीयमानस्य ईप्रत्ययस्यावसर इति भावः (वि० प०)।
७. नदादिराकृतिगण इति। यत्र क्वचित् स्त्रियाम् ईप्रत्ययो दृश्यते स नदादिरित्यर्थः (वि० प०)।
८. तथा भूमि-युवति' इत्यादिभ्योऽपि प्रत्ययं विना स्त्रीत्वावगमाद् ईप्रत्ययो न स्यात् (क० च०)।
[रूपसिद्धि]
१. नदी। नद + ई+सि । प्रकृत सूत्र द्वारा 'ई' प्रत्यय, “ईकारे स्त्रीकृतेऽलोप्यः" (२।४।५१) से दकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२।१।१) से 'नदी' की लिङ्गसंज्ञा, प्रथमाविभक्ति-एकवचन में सिप्रत्यय तथा "हस्वनदीश्रद्धाभ्यः सिर्लोपम्' (२।१।७१) से उसका लोप।
२-४. मही। मह + ई + सि । भषी । भष+ई+सि | प्लवी। प्लव +ई+सि | पूर्ववत् ईप्रत्यय, अकारलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ।
५-७. प्राची। प्राच् + ई+सि । अतिप्राची। अतिप्राच् + ई+सि । प्रष्ठौही। प्रष्ठ + वाह् + ई+सि । ईप्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप |
८-९. पवी । पटु + ई+सि । दाक्षी । दाक्षि + ई+ सि | ‘पटु' शब्द से ईप्रत्यय होने पर उ को व् तथा 'दाक्षि' से ईप्रत्यय होने पर समानलक्षण दीर्घ, सिप्रत्यय एवं उसका लोप ।
१०-१५. विदुषी। विद् + वस् (विद्वन्स्) + ई+सि । अतिविदुषी। अति + विद + वस् (अतिविद्वन्स्) + ई + सि । पचन्ती । पच् + शन्तृङ् (पचन्त्) + ई+सि । अतिपचन्ती। अति + पच् + शन्तृङ् (अतिपचन्त) + ई + सि । भवती। भू + शन्तृङ् (भवन्त्) + ई +सि | मघवती। मघ + मन्तु (मघवन्त्) + ई+सि । पूर्ववत् ईप्रत्यय, नलोप, लिङ्गसंज्ञा, सिप्रत्यय एवं उसका लोप ।
Page #290
--------------------------------------------------------------------------
________________
२४८
कातन्वव्याकरणम्
१६-१७. कीं। कर्तृ + ई + सि | अतिक: । अतिकर्तृ + ई + सि | प्रकृत सूत्र से ई-प्रत्यय, “रम् ऋवर्णः'' (१।२।१०) से ऋ को र, लिङ्गसंज्ञा, सिप्रत्यय एवं उसका लोप ।
१८. सखी। सखि + ई + सि | प्रकृत सूत्र द्वारा ईप्रत्यय, “समानः सवर्णे दीर्घाभवति परश्च लोपम्'' (१।२।१) से इ को दीर्घ ई, परवर्ती ई का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप। १९. दण्डिनी। दण्डिन् + ई + सि । ईप्रत्यय तथा विभक्तिकार्य ।।३३५ ।
३३६. ईकारे स्त्रीकृतेऽलोप्यः [२।४।५१] [ सूत्रार्थ]
स्त्रीलिङ्गसंबन्धी ईकार के परवर्ती होने पर पूर्ववर्ती अकार का लोप होता है ।। ३३६।
[दु० वृ०]
ईकार स्त्रियां कृते अकारो लोप्यो भवति । नदी, मही । स्त्रियामिति किम् ? कुण्डे । कृत इति किम् ? कुण्डेहा ।। ३३६ ।
[दु० टी०]
ईकारे० । आदिति यद्यपि पञ्चम्यन्तमनुवर्तते तथापीह प्रथमान्ततया संबध्यतेऽर्थवशात् । लोप्य इति आक्षिप्तकर्मपदं हि श्रूयते, न चान्यत् कर्म संभवति । कश्चित् पुनराह - अलोप्य इति अविभक्त्यन्ताकारप्रश्लेषो द्रष्टव्यः । अदिति मत्वा द्विलकारं पठन्ति । अन्येनैतद् द्वयमपि युक्तमिति । ईकार इति किमर्थम् । युवतिः, यूनस्तिर्लोकोपचारात् सिद्ध इति । नैतदेवम् । श्रुतत्वाद् ईकारे भविष्यति अकारे प्रयोजनाभावात् । अथ स्त्रीकृतग्रहणसामर्थ्यान्मतितिरित्यत्रापि स्यात् तर्हि स्त्रीकृतग्रहणमपि न क्रियते ? सत्यम् । अर्थवशात् सप्तम्यन्ततया विभक्तिविपरिणतिर्गरीयसीति इंकारग्रहणम् । अस्मिंस्तु कृते स्त्रीकृतग्रहणमन्तरेण औस्थानिकेऽपि ईकारे स्याद् इति । कारशब्दो हि स्वभावात् स्वरूपमात्रग्राहक एव दृष्टः । यथा “तुदभादिभ्य ईकारे" (२।२।३१) इति सत्यपि नपुंसकाधिकारे ईकारमात्रे भवतीत्याह - स्त्रीकृत इत्यादि । कृतग्रहणं यदि न क्रियते, स्त्रियां स्त्रीलिङ्गविषये ईकारे इत्येव प्रतिपद्येत इत्याह - कृत इत्यादि ।। ३३६ ।
Page #291
--------------------------------------------------------------------------
________________
२४९
नामचतुष्टयाध्याये चतुर्थः कारकपादः [वि० प०]
ईकारे० । “स्त्रियामादा" (२।४।४९) इत्यतः आदिति वर्तते, तच्च पञ्चम्यन्तमपि अर्थवशात् प्रथमान्ततया संबध्यते । यस्माल्लोप्य इति आक्षिप्तकर्मपदमिह दृश्यते, न चान्यत् कर्म संभवति अकारमन्तरेणेत्याह – अकारो लोप्य इति । स्त्रीग्रहणमन्तरेण
औकारस्थानिकेपि ईकारे स्यात् । न च वक्तव्यं स्त्रियाम् ईप्रत्ययः प्रकृत इति यस्माद् वर्णात् प्रयुक्तः कारशब्दः स्वरूपग्राहको दृष्टः । यथा “तुदभादिभ्य ईकारे"(२।२।३१) इत्यत्र सत्यपि नपुंसकाधिकारे कारशब्दबलादीकारे सामान्ये भवति तथेहापि स्याद् इत्याह - स्त्रियामिति किम् ? कुण्डे इति । "औरीम्" (२।२।९) इति कृते न भवतीत्यर्थः । कृत इत्यादि । कृतग्रहणमन्तरेण स्त्रीलिङ्गविषयेऽपि ईकारे स्यादिति भावः । ईहनम् ईहा । “गुरोश्च निष्ठा सेटः"(४।५।८१) इति अप्रत्ययः । कुण्डस्येहा कुण्डेहा ।। ३३६।
[समीक्षा] ___ 'नद + ई, कुमार + ई, गौर + ई' इस स्थिति में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य पूर्ववर्ती अकार का लोप करके 'नदी, कुमारी, गौरी' शब्दरूप सिद्ध करते हैं, परन्तु 'सखि + ई, दाक्षि + ई' इस स्थिति में पाणिनि ने तो पूर्ववर्ती इकार का लोपविधान किया है, जबकि कातन्त्रकार समानलक्षण दीर्घ आदेश करके ही 'सखी, दाक्षी' रूप निष्पन्न कर लेते हैं । अतः कातन्त्रकार की सूत्ररचना में लाघवकृत उत्कर्ष स्पष्ट है।
[विशेष वचन] १. अलोप्य इति अविभक्त्यन्ताकारप्रश्लेषो द्रष्टव्यः । अदिति मत्वा द्विलकारं
पठन्ति । अन्येनैतद्वयमपि युक्तमिति (दु० टी०)। २.ईकार इति किमर्थम् ? युवतिः, यूनस्तिर्लोकोपचारात् सिद्ध इति (दु० टी०)। ३. अर्थवशात् सप्तम्यन्ततया विभक्तिविपरिणतिर्गरीयसीति ईकारग्रहणम् __ (दु० टी०)। ४. कारशब्दो (ईकारे) हि स्वभावात् स्वरूपमात्रग्राहक एव दृष्टः (दु० टी०)। ५. कृत इत्यादि । कृतग्रहणमन्तरेण स्त्रीलिङ्गविषयेऽपि ईकारे स्यादिति भावः
(वि० प०)।
Page #292
--------------------------------------------------------------------------
________________
२५०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. नदी।नद + ई+सि । “नदाद्यन्चिवायन्स्यन्तृसखिनान्तेभ्य ई'(२४।५०) सूत्र से स्त्रीलिङ्ग में ई-प्रत्यय , प्रकृत सूत्र से पूर्ववर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्'' (२।१।१) से 'नदी' की लिङ्गसंज्ञा, प्रथमाविभक्ति- एकवचन में सिप्रत्यय तथा "ह्रस्वनदीश्रद्धाभ्यः सिर्लोपम्' (२।११७१ ) से उसका लोप ।
२. मही। मह + ई = सि । पूर्ववत् स्त्रीलिङ्ग में ईप्रत्यय, अकारलोप, लिङ्गसंज्ञा, सिप्रत्यय एवं उसका लोप ।।३३६ ।
३३७. स्वरो ह्रस्वो नपुंसके [२।४।५२] [सूत्रार्थ] नपुंसकलिङ्ग में वर्तमान लिङ्गान्त्य स्वर वर्ण को ह्रस्व आदेश होता है ।। ३३७। [दु० वृ०]
नपुंसके वर्तमानः स्वरान्तो ह्रस्वो भवति । सोमपम्, सेनानि, यवलु, अतिरि, अतिनु कुलम् । ‘स्वरो ह्रस्वः' इति योगविभागाद् गोरप्रधानस्यान्त्यस्य 'स्त्रियाम् आदादीनां च' इति ह्रस्वः । चित्रगुः, अतिखट्वः, निष्कौशाम्बिः, अतिकरभोरुः ।। ३३७।
॥ इति दौर्गसिंह्यां वृत्तौ द्वितीये नामचतुष्टयाध्याये चतुर्थः कारकपादः समाप्तः॥
[दु० टी०]
स्वरो० । 'येन विधिस्तदन्तस्य' (कात० प० ३) इति स्वरेण स्वरान्तविधिरारभ्यमाणस्तदन्तस्य भवति । स एवान्तो यस्य स तदन्न । यत्तदोर्नित्यसम्बन्धात् स्वर एव निर्दिष्टो वेदितव्य : इत्याह – स्वरान्तो ह्रस्वो भवतीति स चासावन्तश्चेति वा तदन्त: स्वरोऽन्तो ह्रस्व इत्यर्थः, तत्र षष्ठ्या उपलक्षणत्वात् । कथं काण्डीभूतं कुलं कुड्ये रमते कुलमिति ? सत्यम् । च्चिप्रत्ययविभक्तीनां लिङ्गयोगाभावात् च्चिरव्ययः स्यादिः संख्यामात्रार्थः । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (कात प० ४४) इत्येत्वे कृतेऽपि स्यादिरेव । आख्यातं च क्रियाप्रधानमिति नपुंसकं यस्य गुणः, तदिहार्थायातं वस्तुवाचिनामेवेति स्थितम् । कुण्डाय, कुण्डाभ्याम् इति । 'असिद्धं बहिरङ्गमन्तरङ्गे' (कात० प० ३३) इति न्यायान्न ह्रस्वः । यथा 'सेनानि, यवलु कुलम्' इति नात्र तोऽन्तः ।
Page #293
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः स च ह्रस्व : 'स्थानेऽन्तरतमः' (कात० प० १६) इति न्यायात् प्रवर्तते । “सन्ध्यक्षराणाम् इदुतौ हस्वादेशे" (कात० प० ४३) इत्यपि न्याय एव । यद्यपि - ए ऐ कण्ठ्यतालव्यौ,
ओ औ कण्ठ्योष्ठ्यौ, तथापि तालव्यत्वस्य भूयस्त्वात् तालव्य एव प्रत्यासन्नः । कण्ठ्यादप्यकारात् 'कण्ठ्यतालव्यत्वम् इदेदैताम्, कण्ठ्योष्ठत्वम्, उदोदौताम्' इति वर्णसूत्रं पठन्त्येके। तथा चोद्यमिह नास्ति ।
अथ किमर्थं स्वरग्रहणम्, लोकोपचारात् स्वरजात्यपेक्षया ह्रस्वादय एव स्वरग्रहणं व्यवस्थापयन्तीत्युक्तमेव । तस्मात् तदन्तविधिः सिद्ध एव ? सत्यम् । स्वरग्रहणसामर्थ्याद् योगविभागोऽपि प्रतिपत्तव्य इत्याह – 'स्वरो ह्रस्वः' इत्येकयोगः, ततो 'नपुंसके' इत्यपरयोगः | पुनर्वचनं पूर्वविधैर्लक्ष्यानुसारार्थम् इत्याह - गोरप्रधानस्येत्यादि । चित्रा गावो यस्य | खट्वाम् अतिक्रान्तः, निर्गतः कौशाम्ब्याः । करभोरुमतिक्रान्त इति विग्रहः । अप्रधानस्येति किम् ? अगौः, सुगौः, राजकुमारी । अन्तस्येति किम् ? 'गोकुलम्, खट्वाप्रियः, राजकुमारीपुत्रः' इति | कुमार्या यथा परपदमपेक्ष्याप्राधान्यं तथा अनन्त्यत्वमपि समासत्वात् पूर्वपदमपेक्ष्य च प्राधान्यमिति। "स्त्रियाम् आदादीनां च" इति वचनात् कृततदन्तस्य स्त्रियां न भवति-अतिश्रीः, अतितन्त्रीः, अतिलक्ष्मीः । कथं 'बहुकुमारीकः, प्रियवृषलीकः ? यथा प्रियं ग्रामणि कुलं यस्य 'प्रियग्रामणिकः, प्रियसेनानिकः' इति नपुंसके ह्रस्वः स्यात् तथायमपि प्राप्नोति, नैवम् । अन्तरतमः कः समासपदावयवत्वात् तादर्थ्यात् ताच्छब्दयमिति ।
अथवा किं नु एतेन योगविभागादिष्टसिद्धिरिति । तथा ईयनेसोर्बहुव्रीही न भवति - बहुश्रेयसी, बहुप्रेयसी राजेति । तद्धितार्थद्विगौ स्त्रीप्रत्ययस्य निवृत्तिरभिधानात् पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः, तथा दशपटुः । पञ्चभिरिन्द्राणीभिः क्रीतः(पञ्चेन्द्राण्यो देवता यस्य) पञ्चेन्द्रः । एवं दशेन्द्रः । 'सनियोगशिष्टानामन्यतरापाये उभयोरप्पपायः' (व्या० प० वृ० ४१) इत्यनागमो निवर्तते । गोणीसूच्योस्तु ह्रस्व एवाप्रधानलक्षण इति। पञ्चभिर्गौणीभिः क्रीतः पञ्चगोणिः, पञ्चसूचिः । यद्येवम्, अप्रधानलक्षणो हस्व इह लोकोपचारात् सिद्ध एव, किं योगविभागेन ? सत्यम् । स्वरग्रहणं तदन्तप्रतिपत्त्यर्थमेव ।। ३३७।
॥इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां द्वितीये नामचतुष्टया याये चतुर्षः कारकपादः समाप्तः॥
Page #294
--------------------------------------------------------------------------
________________
२५२
कातन्त्रव्याकरणम्
[वि० प०]
सोमपम् इत्यादि । सोमं पिबतीति “आतो मनिन् क्वनिन् वनिन् विच्" (४।३।६६) । तथा सेनां नयतीति “सत्सूद्विष०" (४।३।७४) इत्यादिना क्विम् । यवं लुनातीति “क्विप् च" (४।३।६८) इति क्विप् । 'अतिरि, अतिनु' इति । रायमतिक्रान्तं नावमतिक्रान्तं कुलम् इति विग्रहे “सन्ध्यक्षराणाम् इदुतौ हस्वादेशे" (कात० प० ४३) इत्यैकारौकारयोरिकारोकारौ ह्रस्वौ । ननु ह्रस्वादयो हि स्वराणामेव धर्मा इति सामर्थ्यात् स्वर एव ह्रस्वो भविष्यति किं स्वरग्रहणेन । न च तदन्तविशेषणं प्रयोजनम्, तस्य सामर्थ्यलब्धेनापि स्वरेण सिद्धत्वादिति ? सत्यम् । योगविभागार्थम् इत्याह – स्वरो ह्रस्व इत्यादि । 'स्वरो ह्रस्वः' इत्येकयोगः, 'नपुंसके' इति द्वितीयः । सामान्येन सिद्धे यत् पुनर्वचनं तत् पूर्वविधेर्लक्ष्यानुरोधार्थं सूचयतीत्याह – गोरप्रधानस्येत्यादि । स्त्रियामादादीनां चेति चकारेणाप्रधानानामन्त्यादीनामपीति समुच्चीयते । 'चित्रा गौर्यस्य , खट्वामतिक्रान्तः, निर्गतः कौशाम्ब्याः' इति विग्रहः । अतिकरभोरूरिति । उपमानसहितसंहितसहशफवामलक्षणपूर्वादूरोरिति ऊविधानार्थं नदादौ गणसूत्रं द्रष्टव्यम् । अतः स्त्रियामादादित्वमस्तीति ह्रस्वः प्रवर्तते । करभस्येवोरुर्यस्या इति । उपमानपूर्वादूङ् | करभोरूमतिक्रान्तः अतिकरभोरुरिति । अत एव स्त्रियामादादीनामिति बहुवचनमाकारेकारोङ्प्रत्ययानां बहुत्वादिति ।। ३३७। ॥इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायां द्वितीये नामचतुष्टयाध्याये चतुर्थः कारकपादः समाप्तः॥
[समीक्षा
‘सोमपा (नपुंसक) + सि, सेनानी (नपुंसक) + सि, यवलू (नपुंसक) + सि, अतिरै (नपुंसक) + सि, अतिनौ (नपुंसक) + सि' इस अवस्था में रणनि तथा शर्ववर्मा दोनों ही आचार्य ‘आ-ऐ-औ' को ह्रस्वादेश करके ‘सोमपम्, सेनानि, यवलु, अतिरि, अतिनु' (कुलम्) शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - "ह्रस्वो नपुंसके प्रातिपदिकस्य' (अ० १।२।४७) ।
[विशेष वचन] १. यत्तदोर्नित्यसंबन्धात् स्वर एव निर्दिष्टो वेदितव्य इत्याह - स्वरान्तो ह्रस्वो
भवतीति (दु० टी०)।
Page #295
--------------------------------------------------------------------------
________________
२५३
नामचतुष्टयाध्याये चतुर्थः कारकपादः २. यद्यपि ‘ए ऐ कण्ठ्यतालव्यौ ओ औ कण्ठ्योष्ठ्यौ तथापि तालव्यत्वस्य
भूयस्त्वात् तालव्य एव प्रत्यासन्नः (दु० टी०)। ३. स्वरग्रहणसामर्थ्याद् योगविभागोऽपि प्रतिपत्तव्यः (दु० टी०)। ४. ह्रस्वादयो हि स्वराणामेव धर्मा इति सामर्थ्यात् स्वर एव ह्रस्वो भविष्यति
किं स्वरग्रहणेन ? सत्यम् । योगविभागार्थम् (वि० प०)। ५. सामान्येन सिद्धे यत् पुनर्वचनं तत् पूर्वविधेर्लक्ष्यानुरोधार्थं सूचयति (वि०
प०)। [रूपसिद्धि]
१. सोमपम् । सोमपा + सि (नपुंसक)। प्रकृत सूत्र द्वारा आकार को ह्रस्व, "अकारादसंबुद्धौ मुश्च" (२।२।७) से 'मु'-आगम तथा सिप्रत्यय का लोप ।
२-३. सेनानि । सेनानी + सि | यवलु । यवलू + सि । पूर्ववत् ‘ई-ऊ' को ह्रस्व तथा “नपुंसकात् स्यमोर्लोपो न च तदुक्तम्' (२।२।६) से 'सि' प्रत्यय का लोप ।
४-५._अतिरि कुलम् । अतिरै + सि । अतिनु कुलम् । अतिनौ + सि | प्रकृत सूत्र द्वारा ‘ऐ - औ' को ह्रस्व 'इ-उ' तथा सिप्रत्यय का लोप ||३३७।
॥इति द्वितीये नामचतुष्टयाध्याये समीक्षात्मकश्चतुर्थः कारकपादः समाप्तः॥
Page #296
--------------------------------------------------------------------------
________________
अथ द्वितीये नामचतुष्टयाध्याये पञ्चमः समासपादः
३३८. नाम्नां समासो युक्तार्थः [२।५।१] [सूत्रार्थ]
वस्तुवाची दो अथवा उनसे अधिक नामपदों के एकत्र मिल जाने = संक्षिप्त हो जाने की समास संज्ञा होती है ।। ३३८ ।
[दु० वृ०]
वस्तुवाचीनि नामानि, मिलितं युक्तमुच्यते । नाम्नां युक्तार्थः समाससंज्ञो भवति । ततोऽन्यद् वाक्यम् इति रूढम् । संज्ञयैव वा विधिरन्वाख्यातः, स पुनरभिधानात् क्वचिन्नित्यः, क्वचिद् विकल्पः, क्वचिन्न स्यात् । तथा च वक्ष्यति ।।३३८ ।
[दु० टी०]
नाम्नाम् । बहुवचनमतन्त्रम् । युक्तश्चासावर्थश्चेति विग्रहः । नामपदानां युक्तार्थः समासाख्यो भवति । शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्धः । शब्द एव समाससंज्ञाफलं लभते । अथवा युक्तोऽर्थो यस्मिन् समुदाये स युक्तार्थो नाम्नामिति संबन्धः । तथा चाह
विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते । समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव च ॥
__(द्र०, भा० वृ० सं०, पृ० ६, सू० १३)। स पुनः स्वभावाद् वाक्याद् भिन्नः, तत् तुल्यरूपावयव इति कृत्वाऽबुधबोधनाय नाम्नां युक्तार्थ इत्युच्यते, अन्यथा व्यपदेष्टुमशक्यत्वात् । अत एव संख्याभेदाभावात् स्वभावतोऽनुपपन्नार्थेषु विभक्तयस्तत्र "तत्स्था लोप्या विभक्तयः" (२।५।२) इति व्याजेनोच्यते । तथा "प्रकृतिश्च स्वरान्तस्य, व्यजनान्तस्य यत् सुभोः" (२।५।३, ४) इति वचनम् । अन्यथा वर्णविमोहः स्यादिति । तथा "विभक्तयो द्वितीयाया नाम्ना परपदेन तु समस्यन्ते" (२१५।८) इत्यपि, अन्यथा कथं तत्पुरुषसंज्ञा प्रतीयते । एवमन्यदपि नीलोत्पलमित्यादि समासः । नीलमुत्पलम् इत्यादिवाक्यम्, भवतेर्गम्यमानत्वात् । अत एव वाशब्द इह न कृत इति । तथा च भर्तृहरिः
अबुधान् प्रत्युपायाश्च विचित्राः प्रतिपत्तये। शब्दान्तरत्वादत्यन्तं भेदो वाक्यसमासयोः॥
Page #297
--------------------------------------------------------------------------
________________
२५५
नामचतुष्टया याये पञ्चमः समासपादः उपायमात्रं नानात्वं समूहस्त्वेक एव सः। भिन्नाः संबोधनोपायाः पुरुषेष्वनवस्थिताः॥
(वा० प० ३।१४।४९,९८)। भेदः संसर्ग इति नानात्वं यत् तत् प्रतिपत्त्युपायमानं समूहस्त्वेक एवासौ भेदसंसर्गरूपो नरसिंहादिवद् राजपुरुषादिरिति भावः । अत आह - ततोऽन्यद् वाक्यमिति रूढम् । साध्यं साधनं च येन प्रत्याय्यते तदेकं वाक्यं लोकप्रसिद्धमित्यर्थः । संज्ञयैव वा विधिरन्वाख्यात इत्यनेन वाक्यमेव समासीभवतीति मतं दर्शयति- समसनं समासः । केन पुनर्नाम्नां युक्तार्थ इति वक्ष्यमाणवाक्यानि हि संज्ञासाधनान्येव ? सत्यम् । अस्मादेव वचनान्नाम्नां युक्तार्थताऽनुमीयते । अन्यथा कथं संज्ञित्वेन निर्दिश्यते । अथवा नाम्नां समासः संक्षेपो भवति । युक्तार्थ इह संबन्धार्थो विशेषणविशेष्यभावलक्षण उच्यते । युक्तोऽर्थो येषां पदानां तानि युक्तार्थानि । युक्तार्थाश्रयत्वाद् युक्तार्थः समास उच्यते । तदा तु युक्तार्थग्रहणं सुखार्थमेव । यस्मात् सामान्योक्तावपि यस्य येन संबन्धस्तस्य तेन सह समासो भवतीत्यथदिवावसीयते । यथा मातरि प्रवर्तितव्यम्, पितरि शुश्रूषितव्यम् । न चोच्यते स्वस्यां स्वस्मिन्निाते । यस्य या माता, यस्य यः पितेति गम्यते । तथेहापीति।
पश्य कष्टं श्रितो गुरुकुलं देवदत्तः' इति नात्र समासः, सम्बन्धाभावात्। अत्र कष्टमिति साधनं पश्येति साध्यमपेक्षते । श्रित इति क्रिया गुरुकुलमपेक्षते, कष्टाश्रितयोर्वाक्यान्तरावयवयोर्नास्ति व्यपेक्षेति भावः। एवं किं करिष्यति 'शङ्कुलया खण्डः, देवदत्तः उपलेन, पुरुषो राज्ञः, कम्बलो देवत्तस्य' । पृथगानामेकार्थीभावः समासो भवति । पूर्वोत्तरपदयोरर्थस्य संसृष्टरूपस्य प्रतीतेः । वाक्ये संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं च शब्दयोग इति । यथा ‘राज्ञः पुरुषः, राज्ञोः पुरुषः, राज्ञां पुरुषः' इति । वृत्तौ तु निर्विशेषावगमः, यथा 'राजपुरुषः' इति । विभक्त्यलोपे समासे सति स्वभावाद् विशेषणमात्रस्य प्रतीतिः । यथा 'गोषुचरः, वर्षासुजः, दास्याः पुत्रः' इति । अन्यः पुनराह - संख्यानामेकत्वादीनां संसर्गरूपमविभक्तं वृत्तौ तदभेदैकत्वमुच्यते ।
अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते । संसर्गरूपसंख्यानामविभक्तं तदुच्यते ॥ यथौषधिरसाः सर्वे मधुन्याहितशक्तयः। अविभागेन वर्तन्ते संख्यां तां तादृशीं विदुः॥
Page #298
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
वाचिका योतिका वापि संख्यानां या विभक्तयः । निवर्तते ॥
तद्रूपेऽबयवे वृत्ती संख्याभेदो
( वा० प० ३ | १४|१०१, १०२, १०० ) इति । समासराशिवादिनः समासे पुनरव्यक्ताभिधानं यथा द्विजकुलम् इति सम्बन्धिपदस्यापि द्विजशब्दस्य संभवात् सन्देशः । वाक्येऽपि क्वचित् सन्देहो दृश्यते - पशोरर्द्ध देवदत्तस्येति पशुगुणयुक्तस्य देवदत्तस्य वार्द्धं पशुस्वामिनो देवदत्तस्य वार्द्धमिति वृत्तौ व्यक्तं पश्वर्धं देवदत्तस्येति । उपसर्जनविशेषणं वाक्ये दृश्यते 'समृद्धस्य राज्ञः पुरुषः ' वृत्तौ तु न भवति । समृद्धस्य राजपुरुष इत्यसंबन्धात् । संबन्धिशब्देषु तु दृश्यते । यथा देवदत्तस्य गुरुकुलम्, देवदत्तस्य दासभार्येति । यतो लोके सर्वः संबन्धिशब्दो नित्यं प्रतियोगिनमपेक्ष्य प्रयुज्यते । चशब्दयोगो भिन्नार्थनिबन्धनो वाक्ये प्रयुज्यते । यथा राज्ञो गौश्चाश्वश्च पुरुषश्चेति, समासे तु न प्रयुज्यते । अत एव पदान्तरेण समासो विशेषणविशेष्यभावश्च राजगोऽश्वपुरुषास्तथा शोभना इति चयोगनिवृत्तिः । पदान्तरेण संक्षेपः संख्याभावस्तथा विशेषणभावश्च विसंवादि फलं खलु वृत्तिशब्दानामिति ।
२५६
परार्थाभिधानं वृत्तिरिति । परस्यानात्मीयस्यार्थस्य यदुपसर्जनपदेनाभिधानं सा वृत्तिरित्यर्थः । तत्र परार्थाभिधाने कल्पनामात्रकृतानामुपसर्जनपदानां स्वार्थत्यागेन जहत्स्वार्थवृत्तिर्भवति प्रक्रियावादे । यथा तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म राजकर्मविरोधि जहाति न तु विशेषणम् । अथवा अन्वयाद् राजविशिष्टस्य ग्रहणम् । यथा चम्पकपुटो मल्लिकापुट इति निष्ट्यूतेष्वपि निस्तृतेष्वपि पुष्पेष्वन्वयाद् विशेषणं भवतीति । तेन राजविशिष्टस्यानयनं न तु पुरुषमात्रस्य । अजहत्स्वार्था वृत्तिरित्येंक । अजहदेव स्वमर्थमुपसर्जनं प्रधानमर्थमाहेति भावः । यथा भिक्षुकोऽपरां भिक्षामापाद्य पूर्वां न जहाति, संचयायैव यतते इति । न चोद्यम्, प्रधानार्थे खलु उपसर्जनार्थोऽन्तर्भूत इति षष्ठी नाम निवर्तताम् द्विवचनं तु स्यादेव राजपुरुष इति । तदुक्तम्- 'प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः' इति । संघातस्यैक एवार्थो भेदसंसर्गरूप इति नावयवसंख्या स्याद् उत्पत्तौ निमित्तं भवति । यदुक्तम् -
अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् । परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥
आहुः
( वा० प० ३ | १४ | ९६ ) इति ।
Page #299
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पनमः समासपादः
२५७ इदमपि प्रक्रियाजालम् । ‘राज्ञः पुरुषः' इति वाक्ये राजा स्वाम्यन्तराद् व्यवच्छिद्यते पुरुषश्च स्वान्तरादिति भेदः संसर्गो वाऽत्रानुगृहीतो न हि व्यावृत्तस्य सम्बन्ध्यन्तरेणासंबद्धस्य स्वाम्यादेरवस्थानमिति । यदा राजा ममायमित्यपेक्षते, पुरुषोऽप्यहमस्येति, तदा संसर्गव्यावृत्तिरनुगृहीता । न ह्यव्यावृत्त्यमानयोः संबन्ध्यन्तरेभ्यः संसर्ग इति। यदा तूभयमपि प्राधान्येनोच्यते, तदोभयभेदसंसर्गो वाक्यार्थ इति । इदं दर्शनमाश्रित्याहअभिधानात् क्वचिद् विकल्प इत्यादि । नाम्नामिति किमर्थं तद्धितानां युक्तार्थः समासो मा भूदिति कार्यिणा गाग्र्येणेत्यत्र । अन्यथा समासान्तसमीपयोर्वा नकारस्य णत्वं प्रसज्येत । अर्थग्रहणं सुखार्थमेव । नाम्नां युक्तः समासो भवन्नर्थद्वारक एवावसीयत इति।।३३८।
[वि० प०]
नाम्नाम् । वस्तुवाचीनीति । वस्तु वक्तुं शीलमेषामिति “नाम्न्यजातौ णिनिस्ताच्छील्ये" (४।३।७६) इति णिनिः । मिलितं युक्तमिति । तत्पुनर्विशेष्यस्य विशेषणेन संबन्धः । यदाह विमलमतिः
विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते । समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव च ॥
(द्र०, भा० वृ० सं०, पृ० ६, सू० १३)। युक्तश्चासावर्थश्चेति विग्रहः । नाम्नां युक्तार्थः समासंज्ञो भवति । यद्यपि कर्मधारयेऽर्थः प्रधानम्, तथापि तत्र कार्यासंभवात् तद्वाचकाः शब्दा एव समाससंज्ञाफलं प्राप्नुवन्ति, शब्दार्थयोर्वाच्यवाचकलक्षणसंबन्धस्य विद्यमानत्वादिति । अथवा बहुव्रीहिरयम् । युक्तोऽर्थो यस्मिन् समुदाये युक्तार्थो नाम्नां समुदायः समास इति । तस्माद् यत् पुनरन्यत् तद् वाक्यमित्याह - ततोऽन्यद् वाक्यमिति । एतत्तु मतभेदादनेकरूपं वाक्यम् । इह पुनः कतमद् इत्याह - रूढमिति | साध्यं साधनं च येन प्रत्याय्यते तदेकं वाक्यं लोके रूढं प्रसिद्धमित्यर्थः । एतेन समासात् स्वभावादेव वाक्यं भिन्नमिति नित्यसमासवादिनो मतं दर्शितम् । वाक्यमेव समासीभवतीति मतं दर्शयितुमाह - संज्ञयैव वा विधिरन्वाख्यातः इति । ननु केन पुनर्नाम्नां युक्तार्थता विधीयते वक्ष्यमाणान्यपि वचनानि संज्ञासाधनान्येव ? सत्यम् । अनया संज्ञया युक्तार्थता
Page #300
--------------------------------------------------------------------------
________________
२५८
कातन्त्रव्याकरणम्
विधिरनुमीयते, कथम् अन्यथासौ संज्ञा स्यात् । न हि संज्ञिनमन्तरेण संज्ञासिद्धिरस्तीति व्यर्थमेवेदं संज्ञाविधानं स्यादिति । विधिपक्षमेवाश्रित्याह - स पुनरित्यादि । स पुनर्विधिरित्यर्थः । तथा चोक्तम् – 'अभिधानलक्षणा हि कृत्तद्धितसमासाः' इति ।।३३८।
[क० च०]
नाम्नाम् । नाम्नामिति समूहसम्बन्धे षष्ठी | नाम्नां यः समूहो युक्तार्थ एकार्थीभावापन्नः स समाससंज्ञो भवतीति निर्गलितार्थः । वचनमतन्त्रम् । “पदे तुल्याधिकरणे" (२।५।५) इत्यत्र द्वयोरपि नाम्नोः समासदर्शनात् । अथ किमिदं नाम, यस्य युक्तार्थः समास इत्युच्यत इत्याह - वस्तुवाचीनीति । वस्तु अभिधेयम् । नन्वेवं सति पचत्यादिपदस्यापि नामत्वं स्यात् । न च "आख्याताच्च तमादयः०" (२।६।४०) इत्यत्राख्यातग्रहणाद् आख्यातस्य न भवतीति वाच्यम् । एतावतापि वस्तुवाचीनीति लक्षणस्याख्यातेऽतिव्याप्तेर्दुर्निवारत्वात् । किञ्च तद्धितप्रत्ययानामपि अपत्यार्थवाचकत्वान्नामत्वं स्यात् । ततश्च कार्यिणा गाग्र्येणेत्यादौ इन-ण्यप्रत्यययोः प्रकृत्या सह समासे सति समासान्तसमीपयोर्वेत्यनेन नित्यणत्वं बाधित्वा विकल्पेन णत्वविधिः स्यादिति । अथ तद्धिताख्यातभिन्नत्वे सतीति विशेषणं देयं चेत् तथापि वस्तुवाचीनीति लक्षणं व्यर्थम् अव्यावर्तकत्वात् ।
अथ द्योतकानामुपसर्गाणां व्यावृत्त्यर्थं तदुपादानम् इति वक्तव्यम् । अत एव क्यविधौ नाम्नीति किम् अनुवाद्यं णिनिविधौ ‘उपभोक्ता' इति प्रत्युदाहरणं संगच्छते
चेत् तर्हि 'प्रणम्य' इत्यादौ प्रादीनां नामत्वाभावात् समासाभावे सति "क्त्वो यप्" (४।६।५५) न स्यात् । अत्र हेमकरः- वृत्तौ 'वस्तुवाचीनि' इति यदुक्तम्, तस्यायमाशयः- ननु वर्णमयानि घटपटादीनि नामानि, तानि कीदृशानि येन युक्तार्थः समास इत्याशक्य एवाह-वस्तुवाचीनीति । न तु नामलक्षणं वृत्तिकृता कृतमिति । वस्त्वभिधेयमात्रं वक्तुं प्रतिपादयितुं शीलं स्वभावो येषां नाम्नामिति । अत. उपसर्गा अपि द्योतकत्वादर्थं प्रतिपादयन्त्येव । तथा च सना द्योतितत्वादिषेरप्रयोग इति वक्ष्यति । तेनोपसर्गाणां नामत्वात् — प्रणम्य' इत्यादौ समासः सिध्यति । अत एव वाचकत्वाभावाद् उपसर्गाणां नामत्वं नास्तीति यबविधौ समासं प्रति वक्तव्यान्तरं वक्ष्यामि इति कस्यचिन्मतमपास्तमिति ।न चाख्यातस्य नामत्वं स्यादिति वाच्यम्, यस्मात् स्यादयस्तन्नामेति नामलक्षणस्य रूढत्वात् ।
Page #301
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
"
"
यद्येवं क्यब्विधौ अनुवाद्यं णिनिविधौ चोपभोक्तेति प्रत्युदाहरणं कथं संगच्छते । एतल्लक्षणव्याप्यत्वेनोपसर्गाणामपि नामत्वात् । नैवम्, कृत्प्रत्ययविधानम् प्रति उपसर्गाणां नामत्वाभावः “ उपसर्गे त्वातो डः” (४।२।५२) इति वचनात् । अन्यथा " नाम्नि स्थश्च " (४ | ३ |५) इति कप्रत्ययेनैव 'सुग्लः, सुम्ल:' इत्यादि सिध्यति । न च 'प्रजाः, प्रह्वः' इति कप्रत्यये संप्रसारणे सति इयुवादेशस्य विषयत्वान्न सिध्यतीति वाच्यम् । “ अन्यतोऽपि च” (४ | ३ | ४९) इति इप्रत्ययेनैव सिद्धत्वात् । यथा 'ब्रह्मज्यः, मित्रह्नः ' इति " आतोऽनुपसर्गात् ” (४ | ३ | ४) को न भवति । न च वक्तव्यम् " आतोऽनुपसर्गात् कः ” (४ । ३ । ४) इत्यनुपसर्गग्रहणस्य व्यावृत्त्या 'सुग्लः, सुम्लः' इत्यत्र कप्राप्तिर्नास्ति “कर्मण्यण्” (४ । ३ । ९) इत्यतः कर्माधिकारात् कर्मोपपद एव सोपसर्गव्यावृत्तिः । यथा 'गोसन्दायः' इति । ननु " उपसर्गे त्वातो डः " (४/२/५२ ) इति अक्रियमाणे 'आतोऽनुपसर्गात् कः " ( ४ | ३ | ४) इत्यतो “नाम्नि स्थश्च " ( ४ | ३ |५) इत्यत्रानुपसर्गाधिकारे तद्व्यावृत्तिबलात् 'सुग्लः, सुम्ल:' इत्यत्र प्राप्तिरेव नास्ति । कथमुच्यते " नाम्नि स्थश्च " ( ४ | ३ |५ ) इति कप्रत्ययेनैव सिध्यतीति ? सत्यम् । तत्रानुपसर्गाधिकारो न वर्तते इति वृत्तिकृतैवोक्तम्, पृथग्योगाद् यद्यनुवृत्तिः स्यात् तदा " आतस्थोः" इत्येकयोगमेव कुर्यात्, कथमयं पूर्वपक्षावसरः । अत एव नामलिङ्गानुशासनमिति सुतरां संगच्छत इत्याह - तन्नेति श्रीपतिः । तथाहि यदि स्यादिप्रकृतेरेव नामत्वम्, तदा नामलिङ्गयोः पर्यायत्वेन नामशब्देनैव सर्वत्र व्यवहारसिद्धौ लिङ्गसंज्ञा वृथा स्यात् । तथा च “स्याद्यन्तमिह नामेष्टं लिङ्गसंज्ञाऽन्यथा वृथा" इत्याचष्टे । तत् तुच्छम्, पूर्वाचार्यप्रसिद्धसंज्ञाया अवश्यान्वाख्यातत्वाद् अत्रोष्मसंज्ञावत् पञ्चमसंज्ञयैव व्यवहारोपपत्ती अनुनासिकसंज्ञावच्च ।
44
२५९
वस्तुतस्तु इदमेव दूषणं लिङ्गनाम्नोः पर्यायत्वे स्याद्यन्तस्य नामत्वाभावात् " नाम्नां परपदेन तु” (२।५।८) इत्यादौ " तत् प्राङ् नाम चेत्” (४|२|३) इत्यत्र च पदस्य नामत्वव्यवहारानुपपत्तेः । न च नाम्नः पदावयवत्वान्नाम्नोऽपि पदत्वमुच्यते लक्षणयेति वाच्यम्, मानाभावात् । सुप्सुपा समासः " सुपो वदः क्यप् च” (अ० ३।१।१०६), “सुप्यजातौ णिनिस्ताच्छील्ये" (अ० ३।२।७८) इति नाम्नः स्याद्यन्तपदेन व्यवहारस्य दृष्टत्वाच्च । अत्र केचिद् वस्तुशब्देनार्थमात्रम् उच्यते युक्तार्थपदेन नाम्नोऽर्थवाचकत्वे लब्धे वस्तुवाचीनीत्यर्थकथनस्य वैयर्थ्यात् । किन्तु स्याद्यन्तस्यापि
Page #302
--------------------------------------------------------------------------
________________
२६०
कातन्त्रव्याकरणम्
प्रकृतिभिन्नानुपस्थाप्योऽर्थो वस्तुशब्देनाभिधीयते । तेन स्याद्यन्तस्यादिप्रकृतिवाच्यार्थवाचीनीति नामानीत्यर्थः। एतन्मते स्यादिप्रकृतिस्याद्यन्तयोर्नामत्वं तेन स्याद्यन्तस्यादिप्रकृत्योरन्यतरोपस्थाप्यार्थप्रतिपादकत्वं नामत्वमिति पर्यवसितम् ।
नन्वेवमुपसर्गाणां स्याद्यन्तानां केवलानां वाऽर्थस्याभावान्नामत्वं न स्यादिति चेत्, नैवम् | उपसर्गा अपि द्योतकत्वादर्थं प्रतिपादयन्त्येव । अतस्तेषां नामत्वात् 'प्रणम्य' इत्यादौ समासः। तदेवं लिङ्गानां स्याद्यन्तानां च नामत्वे सति "नाम्ना परपदेन" (२।५।८) इत्यादौ पदस्य नामत्वव्यवहारः । नामलिङ्गानुशासनमित्यादौ च लिङ्गमात्रस्य नामव्यवहारश्चोपपद्यते । ननु यद्युभयोरेव नामत्वं तदाऽत्र नामपदेन लिङ्गमात्रमेव कथन्न गृह्यते, नैवम् । कर्मधारयादिविधौ विशेषपदग्रहणोपादानात् स्याद्यन्तनाम्न एव ग्रहणम् । अथ ‘“द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत” (२ | ५ | ११) इत्यत्र सामान्यनिर्देशात् स्यादिप्रकृतिमात्रयोरपि द्वन्द्वः स्यादेव । न च पूर्वपूर्वसूत्रेषु पदप्रस्तावेनात्रापि नाम्नां पदानामित्यर्थो भविष्यतीति वाच्यम् । सफलनिष्फले भूमी, नीललोहितौ पटौ, सजलनिर्जले नद्यौ, आढ्यदरिद्रे पल्यौ इत्यत्र स्यादिप्रकृतिमात्रयोरपि द्वन्द्वसमासदर्शनात् । अन्यथा अत्र स्याद्यन्तस्य समासे “स्त्रियामादा” (२ । ४ । ४९) इति कृते तुल्याधिकरणाभावात् पुंवद्भावाप्राप्तौ 'सफलानिष्फले भूमी, आढ्यादरिद्रे पल्यौ' इति स्यात् । न च सफलं च निष्फलं चेति सामान्यत्वान्नपुंसकस्याद्यन्तस्य द्वन्द्वे समासे पश्चात् स्त्रीत्वविवक्षायां समुदायाद् आप्रत्ययः स्यादिति वाच्यम् । 'सुधीजडे कलत्रे' इत्यत्र दीर्घश्रुत्यर्थं स्यादिप्रकृतिद्वयसमासस्यावश्यमङ्गीकर्तव्यत्वात् । यद्यत्र स्याद्यन्तस्य समासः स्यात् तदा सुधीशब्दस्य कलत्रविशेषणत्वान्नपुंसकलक्षणो ह्रस्वः स्याद् इत्याहुः । टीकायामपि नाम्नां पदानां चेत्यर्थ उक्तः । तन्न, पाणिन्यादौ सर्वत्र स्याद्यन्तेनैव द्वन्द्वसमासस्य दृष्टत्वात् !
न
यस्तु 'सुधीजडे कलत्रे' इति स्वकपोलकल्पितप्रयोगः स पुनरपंप्रयोग एव, ह्ययं प्रयोगः क्वापि तन्त्रे स्वीक्रियते । किञ्च 'सुधीजडे कलत्रे' इत्यत्र स्याद्युत्पत्तेः पूर्वं प्रकृतिद्वयस्य समासे सामान्यत्वान्नपुंसकत्वेन ह्रस्वप्राप्तौ को वारयितेति । न चाविभक्त्यन्तेन समासे स्त्रीत्वायोगात् ' आढ्यादरिद्रे पल्यौ' इत्यादीनां सिद्धिरिति वाच्यम् | स्याद्युत्पत्तेः प्रागपि स्त्रीत्वयोगस्य दुर्निवारत्वात् । ननु यदि स्याद्यन्तस्यैव नामत्वात् समासस्तदा माषं वप्तुं शीलमस्या इत्यर्थे णिनिप्रत्यये स्याद्युत्पत्तेः प्रागपि
Page #303
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२६१ स्त्रीत्वयोगाद् ईप्रत्यये समासान्तसमीपयोर्वेत्यनेन विकल्पेन णत्वं न स्यात् । यथा माषवापिनीति ? सत्यम् । परोऽपि “गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः" (व्या०प० वृ० ११८) इत्यत्र सुप्पदेन प्रातिपदिकाश्रयकार्यमात्रस्योपलक्षणव्याख्ययाऽत्र विकल्पेन णत्वं साधयति । एषोऽप्यभिधानाश्रयणस्यैव प्रकारोऽस्माभिरप्यादृतः । तथा च स्वमतेऽप्यभिधानाद् ईप्रत्ययात् प्राक् समाससिद्धौ विकल्पेन णत्वसिद्धिः । तस्मात् नामशब्दस्य स्याद्यन्तवाचकत्वेनैव सिद्धे उभयत्र शक्तिकल्पनं व्यर्थमेव मानाभावाद् गौरवाच्च । अत एव वस्तुवाचीनीत्यत्र वस्तुशब्दस्य स्याद्यन्तार्थवाचकत्वात् तदेव नामलक्षणम् उपपन्नमिति । यत्तु 'नामलिङ्गानुशासनम्' इत्यमरकोशः, तत्रापि नाम-शब्दस्य वाचकपरत्वेनैव संगतिः । यथा “एकादशेऽह्नि पिता नाम कुर्यात्" न ह्यत्र स्याद्यन्तं स्यादिप्रकृतिं वा पिता कुर्यादिति, किन्तु वाचं कुर्यादित्यर्थः।
न च "नाम्ना परपदेन" (२।५।८) इत्यत्र पदग्रहणं व्यर्थमिति वाच्यम्, पदग्रहणस्यानुष्टुप्छन्दः पूरणार्थत्वात् । अन्यथा भवन्मतेऽपि नामग्रहणवैयर्थ्यं दुर्निवारमेव, पदशब्देनोक्तार्थत्वात् । नामपदानामिति टीकावचने मेरुमहीभृदित्यादिवदन्वयः । ननु यदि स्याद्यन्तप्रकृत्युपस्थाप्योऽर्थो वस्तुशब्देनाभिधीयते, उपसर्गाणां तद्वाचकत्वाभावादनामत्वात् कथं समासः ? सत्यम् । अत्रापिशब्दबाहुल्याश्रयणात् समासः । तथा च श्रीपतिः
प्रादेरनर्थकस्यापि कृदन्तैरपदैः सह।
अपेर्बहुलवाचित्वात् समासो न विरुष्यते ॥ अत एव वृत्तिकारोऽपि एतामेव युक्तिमाश्रित्य यव्विधावनुकरणं च कृतेति समासार्थं वक्ष्यति । अनुकरणं कृता कृदन्तेन सह समस्यते चकारात् प्रादय उपसर्गाश्चेत्यर्थः । ननु पाणिनिमते विभाषयेति सूत्राद् विभाषाधिकारात् पक्षे युक्तार्थता-विधानात् "सुप सुपैकार्थम्" इत्यनेन समासो विधीयते इति वाक्यस्यापि स्थितिर्भवतीति विकल्पः सिद्धः । अस्मन्मते युक्तार्थताविकल्पविधानाभावाद् नित्यं समासे सति वाक्यस्य स्थितिर्न स्याद् इत्याह - ततोऽन्यद् वाक्यमिति । अयमाशयः- राजपुरुषः इत्यादि युक्तार्थीभूतसमासराशेर्नित्यत्वात् 'राज्ञः पुरुषः' इत्यादि वाक्यं ततो भिन्नमेवेति । यद्यत्र समासोऽवयवविभागेन व्युत्पाद्यते तदैवास्य विकल्पेन युक्तार्थताप्रसङ्गः प्रतिपादयितुं शक्यते । तदनुचितमेवावयवार्थविरहेण समुदायाद् विशिष्टार्थप्रतीतेः। ततो यस्य
Page #304
--------------------------------------------------------------------------
________________
२६२
कातन्त्रव्याकरणम्
स्वभावसिद्धा युक्तार्थता तस्य समाससंज्ञायां विधीयमानायां वाक्यस्य कः प्रसङ्गः । यदि समासराशेर्नित्यत्वं तर्हि तत्र समाससंज्ञाविधानं व्यर्थमिति । सुतरां च विभक्तिलोपविधानमिति । अस्मिन् पक्षे समासविधानं विभक्तिलोपविधानं चाबुधबोधनायैव पर्यवस्यतीति विस्तरेण टीकाकृता प्रतिपादितम् ।
ननु परेण समासविकल्पपक्षे वाक्यसंज्ञा विधीयते । अस्मन्मते वाक्यसंज्ञाविरहात् कथं वाक्यव्यवहार इत्याह - रूढमिति, ननु परेण विशेष्यविशेषणभावोपपन्नस्य वाक्यस्य युक्तार्थताविधानं प्रति सूत्रं विधीयते । तथाहि "समर्थः पदविधिः" (अ० २।१।१) इति सूत्रम् । अस्यार्थः- यो यः पदसंबन्धी विधिः समर्थः सन् साधुवेदितव्य इत्यर्थः । तथा च 'एकार्थत्वे समर्थोऽपि' इत्यमरः। यद्यपि समर्थशब्देन स्वकार्यक्षम उच्यते । सर्वेषां च शब्दानामर्थप्रतिपादनरूपस्वकार्यक्षमत्वम् अस्त्येव, तथापि यद् विशेषेणोपादानं तेनात्र कश्चिद् विशेष : आख्यायेत । वृत्त्यर्थं यद् वाक्यमुपादीयते, प्रत्यासत्त्या तदर्थप्रतिपादने यः शक्तः स इह समर्थ इति विशेषो गृह्यते । अतो ‘महत् कष्टं श्रितः' इत्यादौ सापेक्षत्वात् समर्थता नास्तीति । तदभावादस्मन्मते एकार्थताविधानं प्रति सूत्राभावात् ‘महत् कष्टं श्रितः' इत्यादौ समासः कथन्न स्यादित्याह – संज्ञयैव वा विधिरन्वाख्यात इति । वाशब्दः पूर्वोक्तनित्यपक्षमाश्रित्य समुच्चयार्थः । समासो नित्य एव यदि कार्य इत्युच्यते तदा संज्ञयैव युक्तार्थताविधिरनुमीयत इति ।
यद् वा वाशब्देन समसनं समासः संक्षेपः एकार्थीभावापन्न इति समासपदस्यान्वर्थबलाद् युक्तार्थता लभ्यते इत्युच्यते । मिलितं युक्तमिति पनी । मिलितं युक्तमिति भावे क्तः । विशेष्यस्येति कर्मणि षष्ठी, विशेषणेनेति कर्तरि तृतीया । उभयत्र प्राप्तौ कर्मण्येव षष्ठी, न कर्तरि षष्ठी | "ते वोभयोः" (कात० परि० का० ६२) इति षष्ठीविधानान्न निष्ठादित्वात् प्रतिषेधः । तद्वचनार्थोऽपि मिलितमुच्यते । तदेव मिलितं समासाख्यं स्यात् तद्धितोत्पत्तिहेतुत्वात् तदेव तद्धितोत्पत्तिरित्यर्थः ।। ३३८ ।
[समीक्षा]
सामान्य जन हो या विद्वान्, कभी वह किसी विषय को विस्तार से कहता है तो कभी संक्षेप में, क्योंकि यह सभी की प्रवृत्ति होती है | कृष्णद्वैपायन व्यास ने कहा है
Page #305
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः विस्तीर्य हि महज्ज्ञानमृषिः संक्षेपतोऽब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥
(नि० - दु० भा० ४।१।१; म० भा० १।५।१)। व्याकरणशास्त्र में इसीलिए समास और वाक्य समादृत हैं | समास में संक्षेप और वाक्य में विस्तार स्पष्टरूप में देखा जाता है । जैसे 'राजन् + ङस् + पुरुष + सु' में समास होने पर ‘राजपुरुष' रूप निष्पन्न होता है । यहाँ 'ङस् + सु' का लुक् (सुपो धातुप्रातिपदिकयोः- अ० २।४।७१) हो जाने से संक्षेप हो जाता है।
आचार्य शर्ववर्मा ने समास की परिभाषा की है, तदनुसार दो या उनसे अधिक स्याद्यन्त पदों के मिलकर एक हो जाने को समास कहते हैं - "नाम्नां समासो युक्तार्थः' (२।५।१), परन्तु पाणिनि ने समास का कोई अर्थ नहीं दिया है, केवल अधिकार के रूप में ही समास को प्रस्तुत किया है - "प्राक् कडारात् समासः" (अ० २।१३)।
वाक्यपदीयकार भर्तृहरि ने वाक्य - समास की प्रक्रिया को मन्दमति व्यक्तियों के अवबोधार्थ एक उपायमात्र बताया है
अबुधं प्रत्युपायाश्च विचित्राः प्रतिपत्तये। शब्दान्तरत्वादत्यन्तं भेदो वाक्यसमासयोः॥
(वा० प० ३।१४।४९)। समास को एकार्थीभाव भी कहते हैं | वाक्य में प्रयुक्त अनेक पदों के अर्थ इसमें एकरूप हो जाते हैं । यह प्रक्रिया विविध वृत्तिधर्मों के प्रयोग से होने वाले गौरव को दूर करने के उद्धेश्य से व्यवहार में लाई जाती है -
बहूनां वृत्तिधर्माणां वचनैरेव साधने। स्यान्महद् गौरवं तस्मादेकार्थीभाव आस्थितः॥
___ (वै० भू० सा०, का० ३३)। यह ज्ञातव्य है कि संक्षेप करने के लिए कम से कम दो शब्दों की आवश्यकता होती है और जब इनमें समास उपपन्न होता है तब यह विचार उत्पन्न होना स्वाभाविक
Page #306
--------------------------------------------------------------------------
________________
२६४
कातन्वव्याकरणम्
है कि उन दो शब्दों में से कौन प्रधान है ? इस प्रकार सामान्यतया पूर्वपदार्थप्रधान समास को अव्ययीभाव, उत्तरपदार्थप्रधान को तत्पुरुष, उभयपदार्थप्रधान को द्वन्द्व तथा अन्यपदार्थप्रधान को बहुव्रीहि नाम दिया गया है । तत्पुरुष समास में प्रथमान्त विशेष्यविशेषण आदि शब्दों का समास 'कर्मधारय' नाम से तथा उसमें भी संख्यापूर्वक शब्दों का समास 'द्विगु' नाम से प्रसिद्ध हैं । इस प्रकार छह समास व्याकरणशास्त्र में मान्य हैं । जैसे कहा गया है -
द्वन्द्वो द्विगुरपि चाहं गेहे मे नित्यमव्ययीभावः। तत्पुरुष कर्मधारय येनाहं स्यां बहुव्रीहिः॥
__ (द्र०, व्या० द० इति०, पृ० १९६)। दूसरे प्रकार से भी समास छह प्रकार का परिगणित है । जैसे - १. सुबन्त का सुबन्त के साथ । २. सुबन्त का तिङन्त के साथ । ३. सुबन्त का नाम (प्रातिपदिक) के साथ | ४. सुबन्त का धातु के साथ । ५. तिङन्त का तिङन्त के साथ तथा ६. तिङन्त का सुबन्त के साथ –
सुपां सुपा तिङा नाम्ना धातुनाथ तिडां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्वियो बुधैः॥
(वै० भू० सा०, स० प्र०, का० १)। पूर्वाचार्यों ने भी इस संज्ञा का प्रयोग किया है - निरुक्त-अथ तद्धितसमासेष्वेकपर्वसु चानेकपर्वसु च पूर्वं पूर्वमपरमपरं
प्रविभज्य निळूयात् । - - - एवं तद्धितसमासान्निद्र्यात् (२।१)। बृहदेवता - विग्रहानिर्वचः कार्यं समासेष्वपि तद्धिते ।
द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च ।
पञ्चमस्तु बहुव्रीहिः षष्ठस्तत्पुरुषः स्मृतः ।। (२।१०६, १०५) । अक्मातिशाख्य- सहेतिकाराणि समासमन्तभाक् (११।२५)। पुनर्बुवंस्तत्र
समासमिङ्गयेत् (११।३१)। वाजसनेयिप्रातिशाख्य-तिङ्कृत्तद्धितचतुष्टयसमासाः शब्दमयम् (१।२७)।
Page #307
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पथमः समासपादः
२६५ अथर्ववेदप्रातिशाख्य- गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदयः । समस्यते गतिस्तत्र आ गमिष्ठा इति निदर्शनम् ।। (१।१।११, १२, १३)। अक्तन्त्र- मासे यथादृष्टः । समासे इति । समास ऋक्षु चान्द्रे (२।१।१;
__३।११५; ४।९; ५।३; ७।५; ४।७।३, ११)। नाट्यशास्त्र - नामाख्यातनिपातैरुपसर्गसमासतद्धितैर्युक्तः ।
सन्धिविभक्तिषु युक्तो विज्ञेयो वाचकाभिनयः ।। (१४|४, ३२) । अर्वाचीन व्याकरणों में समास का प्रयोग - मुग्धबोधव्याकरण- दैक्यं सोऽन्वये (सू० ३१७)। जैनेन्द्रव्याकरण- सः (१।३।२)। शाकटायनव्याकरण-सुप् सुपा (२।१।१)। हैमशब्दानुशासन- नाम नाम्नैकार्थ्ये समासो बहुलम् (३।१।१८)। अग्निपुराण- षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः (३५४।१)। नारदपुराण-अधिस्त्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् (५२।९१-९६)। शब्दशक्तिप्रकाशिका - यादृशस्य महावाक्यान्तस्त्वादिर्निजार्थक।
यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ।। (का० ३१-३३)। [विशेषवचन] १. संज्ञयैव वा विधिरन्वाख्यातः, स पुनरभिधानात् क्वचिन्नित्यः, क्वचिद्
विकल्पः, क्वचिन्न स्यात् (दु० वृ०)। २. शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्धः (दु० टी०)। ३. विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते ।
समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव व ।। (दु० टी०, वि० प०)। ४. साध्यं साधनं च येन प्रत्याय्येत तदेकं वाक्यं लोकप्रसिद्धम् इत्यर्थः
(दु० टी०)। ५. समसनं समासः। - - - - अथवा नाम्नां समासः संक्षेपो भवति (दु० टी०)।
Page #308
--------------------------------------------------------------------------
________________
२६६
कातन्त्रव्याकरणम्
६. पृथगर्थानामेकार्थीभावः समासो भवति ( दु० टी० ) |
७. परार्थाभिधानं वृत्तिः । परस्यानात्मीयस्यार्थस्य यदुपसर्जनपदेनाभिधानं सा वृत्तिरित्यर्थः (दु० टी० ) ।
८. अर्थग्रहणं सुखार्थमेव (दु० टी० ) ।
९. अभिधानलक्षणा हि कृत्तद्धितसमासाः (वि० प० ) ।
१०. नाम्नां यः समूहो युक्तार्थ: एकार्थीभावापन्नः स समाससंज्ञो भवतीति निर्गलितार्थः (क० च० ) ।
११. अत उपसर्गा अपि द्योतकत्वादर्थं प्रतिपादयन्त्येव (क० च० ) 1 १२.स्याद्यन्त–स्यादिप्रकृत्योरन्यतरोपस्थाप्यार्थप्रतिपादकत्वं नामत्वम्(क० च०) । १३. वृत्त्यर्थं यद् वाक्यमुपादीयते, प्रत्यासत्त्या तदर्थप्रतिपादने यः शक्तः स इह समर्थ इति विशेषो गृह्यते (क० च० ) ।
१४. अभिधानलक्षणा हि कृत्तद्धितसमासाः । अभिधीयते उच्चार्यते यत् तद् अभिधानं शब्दः । अभिधानं लक्षणं चिह्नं नियामकं येषां ते अभिधानलक्षणा भवन्ति ( वं० भा० ) ।
३३९. तत्स्था लोप्या विभक्तयः [ २|५|२] [ सूत्रार्थ ]
युक्तार्थमात्र (समास) में प्रयुक्त विभक्तियों (सि, औ, जस् आदि) का लोप होता है ।। ३३९ ।
[दु० वृ० ]
तत्स्था युक्तार्थमात्रस्था विभक्तयो लोप्या भवन्ति । नीलोत्पलम्, राजपुरुषः, राजता, पुत्रीयति । क्वचिन्न लुप्यते अभिधानात् - 'कण्ठेकालः, उरसिलोमा' इत्येवमादयः ।। ३३९ |
[दु० टी० ]
तत्स्था० । तस्मिंस्तिष्ठन्तीति तत्स्थाः । " नाम्नि स्थश्च" (४ | ३ | ५) इति 'क'प्रत्ययः । तच्छब्दो युक्तार्थमनुकर्षति न तु प्रधानमपि समासम्, वचनात् । अन्यथा
Page #309
--------------------------------------------------------------------------
________________
२६७
नामचतुष्टयाध्याये पञ्चमः समासपादः प्रधानत्वात् समास एवानुवर्तिष्यत इति भावः । तेन तद्धितनामधातुष्वपि विभक्तिलोपार्थम् अन्वाख्यानमुपपद्यते इत्याह - युक्तार्थमात्रस्था इति । विधिपक्षे तु वक्तव्यमेव स्यात् – नायं नाम्नां समास इति । कश्चिद् आह – “इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च, एयेऽकवास्तु लुप्यते, कार्याववावावादेशौ" (२।६।४४, ४७, ४८) इति वचनाद् यिन्नय्योर्दीर्घविधानाद् इति लिङ्गस्यान्त्यस्वरादिलोपाच्च तद्धितनामधातुष्वपि विभक्तीनां लोप इति सर्वोद्दिष्टं ज्ञापकम् उन्नेयम् । अन्यथा कथमनन्तरभाव इति |
नीलोत्पलमिति मुरागमः संख्याव्यञ्जको निवर्तते तथा आदेशश्च । तव पुत्रस्त्वत्पुत्रः । यूयं पुत्रा अस्य युष्मत्पुत्र इति । कथं तर्हि 'द्विपुत्रः, उभयभार्या' इति विभक्तिवाच्यः कर्मादिसंसृष्टोऽर्थः स बाह्यो भेदो निवर्तते । द्वौ पश्यति, द्वाभ्यां कृतमिति | नामार्थद्वित्वं तु स्वार्थत्वादवतिष्ठते । उक्तं च -
ढ्यादीनां च द्विपुत्रादौ बाह्ये (संख्या) भेदो निवर्तते । विभक्तिवाच्यस्वार्थत्वानिमित्तं त्ववतिष्ठते॥
(वा० प० ३।१४।११७)। एकार्थीभावाद् विधिपक्षेऽपि मन्दधियां सुखार्थमेवेदमिति । विभक्तिर्यत्र लुप्यते स समास इति प्रायिकं चैतत् । स्थितायामपि विभक्तौ समासो दृश्यते, तदोभयपक्षेऽभिधानमेव प्रमाणम् । तद् यथा - स्तोकान्तिकदूरार्थकृच्छ्राणामसत्त्वार्थानां डसेरलोप उत्तरपदे । स्तोकार्थः- स्तोकान्मुक्तः, अल्पान्मुक्तः ।अन्तिकार्थः- अन्तिकादागतः, अभ्याशादागतः । दूरार्थ:- दूरादागतः, विप्रकृष्टादागतः । कृच्छ्रादागत इति । अर्थान्तरपदे (अनुत्तरपदे तु) स्तोकान्निष्क्रान्तो निस्तोक इति । ब्राह्मणाच्छंसीति ऋत्विग्विशेष एव रूढः । ब्राह्मणाद् ग्रन्थविशेषाद् अवयवमर्थं वा गृहीत्वा शंसति कथयति ताच्छील्ये णिनिः । ओजःसहोऽम्भस्तमोऽअसां तृतीयान्तानाम् - ओजसाकृतम्, सहसादृष्टम्, अम्भसास्पृष्टम् (अम्भसा तृप्तम्) । तमसावृतम्, अञ्जसास्थितम् ।।
पुंजनुषोरनुजान्धाभ्याम् – पुंसानुजः, जनुषान्धः । जनुरिति जन्मोच्यते । मनसः संज्ञायाम् – मनसादेवी, मनसागुप्ती, मनसाज्ञायी | मनसा ज्ञातुं शीलमस्येति णिनिः ।
आत्मनः पूरणे- भवतेर्गम्यमानत्वाद् आत्मा करणम् । आत्मनापञ्चमः, आत्मनाषष्ठः । 'आत्मचतुर्थो जनार्दनः' इत्यपि दृश्यते। आत्मा चतुर्थोऽस्येति वा बहुव्रीहिः ।
Page #310
--------------------------------------------------------------------------
________________
२६८
कातन्त्रव्याकरणम्
आत्मपरयोश्चतुर्थ्याः संज्ञायाम् - आत्मनेपदम्, परस्मैपदम् । आत्मनेभाषः, परस्मैभाषः । युत्पत्तिस्तु यथाकथञ्चित् । षष्ठ्यन्तस्याक्रोशे- दास्याः पतिः, चौरस्य कुलम् । पुत्रे विभाषा - दास्याः पुत्रः, दासीपुत्रः । वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु-वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः । हरतेः पचाद्यच्, अनादरसंबन्धे षष्ठी | तथा शुनः शेफपुच्छलाङ्लेषु संज्ञायाम् - शुनःशेफ इत्यादि । शेफ इति शिङो निपातितत्वाद् अच्प्रत्ययेऽकारान्तोऽयं प्रथमावान् । सान्तपक्षेऽपि सूत्रत्वात् सलोप इत्येके। तथा दिवोदासः, देवानांप्रियः । अमुष्य पुत्रस्य भावः, अमुष्य कुलस्य भावः आमुष्यपुत्रिका, आमुष्यकुलिका । क्रीतादित्वाद् भावे इकण् । अमुष्यापत्यम् आमुष्यायणः । कुमादित्वाद् आयनण् । वियायोनिसंबन्धिनः मदन्तस्य तेनैव - होतुः पुत्रः, होतुरन्तेवासी । पितुः पुत्रः, पितुरन्तेवासी । तेनैवेति किमर्थम् ? होतृगृहम्, पितृधनम् । स्वसृपत्योर्वा वियायोनिसंबन्धिनोरेव - पितुःस्वसा, पितृष्वसा । मातुःस्वसा, मातृष्वसा । मातृपितृभ्यां समासे विभक्तिलोपे नित्यं षत्वम् । दुहितुःपतिः, दुहितृ पतिः । ननान्दुःपतिः, ननान्दृपतिः ।
सप्तम्यन्तस्योत्तरपदेऽपि बहुलम् – 'स्तम्बेरमः, कर्णेजपः, गोषुचरः' इत्यादि । अकारव्यञ्जनान्तस्य स्वाङ्गस्यामूर्धमस्तकस्य कामवर्जितेन नाम्ना । कण्ठे कालोऽस्येति कण्ठेकालः, उरसिलोमा । अमूर्धमस्तकस्यैव । मूर्ध्नि शिखाऽस्येति मूर्धशिखः, मस्तकशिखः । कामवर्जितेनेत्येव । मुखे कामोऽस्येति मुखकामः । अकारव्यञ्जनान्तस्यैव । इह न भवति - अङ्गुलिव्रणः, जङ्घावलिः | बन्धे घञन्ते वा- चक्रेबन्धः, चक्रबन्धः । हस्ते बन्धोऽस्येति हस्तेबन्धः, हस्तबन्धः । कालवाचिनस्तराम् तमाम् - तर-तम-तमट्कालेषु वा पूर्वं च तदहश्चेति राजादित्वादत् । पूर्वाह्नेतराम्, पूर्वाह्नेतमाम् । पूर्वाह्नतराम्, पूर्वाह्नतमाम् ।पूर्वाह्नेतरः, पूर्वाह्नतमः । पूर्वाह्नतरः, पूर्वाह्नतमः ।पूर्वाह्नेतनः, पूर्वाह्नतनः । पूर्वाह्नापरालाभ्यां भावजातेऽर्थे तनट् । पूर्वाह्नकालः, पूर्वाह्नक. कृतापि-प्रावृषिजः, शरदिजः, कालेजः, दिविजः, वर्षेजः, वर्षजः । क्षतेजः, क्षतजः । सरसिजम्, सरोजम्, वारिजः इत्यादि । अकारव्यानान्तस्य कालवर्जितस्य शयवासवासिषु वा-खेशयः, खशयः । ग्रामेवासः, ग्रामवासः । ग्रामेवासी, ग्रामवासी । स्तोकान्मुक्तादीनां समासे सति तद्धितोत्पत्तिः पदान्तरेण च संक्षेपः। तद् यथा - स्तोकान्मुक्तस्तस्येदम् इत्यण् । स्तोकान्मुक्तं धनं स्तोकान्मुक्तस्य प्रियः स्तोकान्मुक्तप्रियः । वाक्ये तु व्यपेक्षावति कथं भवति । स्थग्रहणमिह सुखप्रतिपत्त्यर्थम् । कश्चिद् योगविभागार्थमिति मन्यते तत्स्था लोप्या
Page #311
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
इति । तेन शाकपार्थिवादिषु प्रधानादयो लोप्या इति । तदयुक्तम् । शाकप्रधानः पार्थिवः शाकपार्थिवः । दध्ना परिपूर्णो घटः दधिघटः । वर्णाश्रयो विधिर्वर्णविधिरिति । शाकपार्थिवादिषु प्रधानादयः शब्दा वृत्ताववगतार्था इति । केशसंघाताश्चूडा अस्य केशचूडः । सुवर्णविकारोऽलंकारोऽस्य सुवर्णालंकारः । संघातविकारयोर्दर्शनं सुखार्थम् । नहि संघातमन्तरेण चूडा, विकारमन्तरेण चालंकार इति । उष्ट्मुखमिव मुखमस्येति वाक्ये दृष्टो मुखार्थो वृत्तावन्तर्भवतीति । उष्ट्मुखः, उष्ट्रस्येव मुखमस्य । उष्ट्रमुखो वा खलूष्ट्रशब्दोऽन्तर्भावितोपमेयभावः । उष्ट्रमुखमस्येति विलपन्त्यन्ये । न विद्यमानाः पुत्राः न सन्ति वा पुत्रा अस्येति अपुत्रः । सत् क्रियापेक्षस्यापि नञो वृत्तेर्गमकत्वात् । न विद्यमानः अविद्यमानः पुत्रोऽस्येति अविद्यमानपुत्रः, स्वपदविग्रहः । प्रगत आचार्यः प्राचार्यः । प्रादयो हि गताद्यर्थे वर्तन्ते एव । प्रपतितं पर्णम् अस्य प्रपर्णः । स्वपदविग्रहे तु प्रपतितपर्ण इति भवत्येव । समासराशिपक्षे तु स्वभावादेवमर्थे शब्दा एव वर्तन्त इति ।। ३३९ ।
२६९
[वि० प० ]
तत्स्था० । तस्मिंस्तिष्ठन्तीति तत्स्थाः । “नाम्नि स्थश्च " ( ४ | ३ |५) इति कप्रत्ययः। युक्तार्थमात्रस्था इति कथमेतद् यावता पूर्वसूत्रे समासस्य प्रधानत्वात् तस्यैवानुवर्तनमुचितम् ? सत्यम् । अप्रधानस्यापि युक्तार्थस्यानुवर्तनं तद्ग्रहणादेवावसीयते । अन्यथा अनन्तरत्वात् प्रधानं समास एवानुवर्तिष्यते किं तद्ग्रहणेन । तद्धितनामधातुष्वपि लोपो भवति, तत्रापि युक्तार्थस्य संभवाद् इत्याह - राजता, पुत्रीयतीति । क्वचिद् इत्यादि । कण्ठे कालोऽस्य, उरसि लोमान्यस्येति विग्रहः । इत्येवमादय इति। अन्येऽप्यलुक्समासाः शिष्टप्रयोगानुसारेण वेदितव्या इति ।। ३३९।
[ क० च० ]
तत्स्था०। कथमेतद् यावतेत्यादि । ननु समासस्य कथं प्रधानत्वात् तस्यैवानुवर्तनमुचितमित्युच्यते । यावता पूर्वसूत्रे कार्यितया निर्दिष्टस्य नाम्नां युक्तार्थस्यैव प्राधान्यम्। अतस्तस्यैवानुवर्तनमुचितं न समासस्येति । अत एव “ तौ रं स्वरे " (२।३।२६) इत्यत्र कार्ययोस्तिसृचतनोरनुवर्तनार्थमेव तद्ग्रहणमुपात्तम् ? सत्यम् । समासस्यानुवृत्तावपि यदि प्रधानत्वान्नाम्नां युक्तार्थ इति समुदयोऽनुवर्तते तदैव समासानुवृत्तिः पर्यवस्यति । य एव नाम्नां युक्तार्थः स एव समास इत्यभिप्रायेण
Page #312
--------------------------------------------------------------------------
________________
२७०
कातन्त्रव्याकरणम्
समासस्य प्रधानत्वादित्युक्तम् । प्रधानस्य नाम्नां युक्तार्थ इति समुदायस्यैकदेशो युक्तार्थ इति युक्तार्थग्रहणमप्रधानमेव तद्ग्रहणादवसीयते । ननु तथापि तद्ग्रहणं न कार्यम्, यावता पूर्वसूत्रे व्यतिक्रमनिर्देशादेव युक्तार्थोऽनुवर्तिष्यते । नैवम् । बुद्ध्याध्यासितसंबन्धस्यापि व्यतिक्रमनिर्देशो युज्यते । तद्ग्रहणाभावे "स्थिता लोप्या विभक्तयः” इति सूत्रं कर्तव्यमिति भाव्यम् ।
ननु युक्तार्थमात्रस्था विभक्तयो लोप्या इत्युक्ते ‘राज्ञः पुरुषः' इत्यादिवाक्ये युक्तार्थस्य सत्त्वाल्लोपः कथं न स्यादिति चेत् - भ्रान्तोऽसि । पूर्वसूत्रे युक्तार्थपदेन एकार्थीभावापन्न एवोच्यते । स चाभिधानात् पदप्रत्ययसमूहः समासश्चाभिधीयते । तथा च श्रीपतिः (कात० परि०, स० सू० १)
ऐकायं पृथगर्थानां वृत्तिं युक्तार्थतां विदुः।
शब्दानां शक्तिवैचित्र्यात् तत् समासादिषु स्मृतम् ॥ इति कुतोऽत्र वाक्यप्रसङ्गः । अन्यथेति । ननु समासस्य कथमानन्तर्यम्, युक्तार्थग्रहणेनैव व्यवहितत्वात् ? सत्यम् । समासग्रहणेनात्र नाम्नां युक्तार्थतेति पर्यवस्यतीत्युक्तमेव, ततश्च “नाम्नां युक्तार्थः' (२।५।१) इति समुदायस्यैकदेशस्य युक्तार्थस्यानन्तर्यम् अविरुद्धमेवेति 'नाम्नां युक्तार्थः' इत्यनुवर्तते इति । ननु तथापि समासपदेन व्यवधानात् कथं नाम्नामित्यस्यानुवृत्तिः, येन समासग्रहणेन नाम्नां युक्तार्थ इत्यभिधीयते इत्याशङ्क्याह – प्रधानमिति । हेतुगर्भविशेषणमिदं नाम्नां युक्तार्थ इत्यस्य कार्यितया प्रधानत्वादित्यर्थः । यद् वा अनन्तरत्वादिति अनन्तरसूत्रोपात्तत्वात् प्रधानं नाम्नां युक्तार्थ इत्यनुवर्तते इत्यर्थः । नीलोत्पलमिति वृत्तिः । नन्वनेन विभक्तिलोपविधानाद् मु-आगमस्य कथं लोपः । अत्र दुर्गः- नीलोत्पलमिति मुरागमः संख्याव्यञ्जको निवर्तते । तथा आदेशश्च । तव पुत्रस्त्वत्पुत्रः, यूयं पुत्रा अस्येति युष्मत्पुत्र इति ।
हेमकरस्त्वस्याभिप्रायं वर्णयति – तथाहि संख्याव्यञ्जकत्वादादेशागमयोरपि लोपः, कथमन्यथा विभक्तिलोपप्रतीतिः, तन्न । स्यादेरदर्शनादेव लोपप्रतीतिः । नहि तच्चिसदर्शनेन तद्दर्शनं भवतीति । अन्यथा 'सखा' इत्यादौ "व्यानाच्च" (२।१।४९) इति विभक्तिलोपे विभक्तिचिह्नस्याकारस्यापि लोपः स्यात् । यदि पुनरमीषां विभक्तित्वमुपचर्यते संख्याव्यञ्जकत्वात्, तदा घोषवति विभक्तौ कथन्न दीर्घः स्यादिति हेमकरेणोक्तम् । तन्न | “अकारादसंबुद्धौ मुश्च" (२।२।७) इत्यत्र टीकायां मुरित्युकारस्य
Page #313
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२७१ घोषवदाश्रयदीर्घाभावार्थत्वे व्याख्यातत्वात् । तस्मात् संख्याव्यञ्जको निवर्तते इति टीकायां यदुक्तं तद् युक्तार्थलोपं प्रति आगमादेशस्य विभक्तित्वोपचाराभिप्रायेणैव । उपचारबीजं तु 'विभक्तयः' इति बहुवचनम् । तथा यूयं पुत्रा अस्येत्यादौ विभक्त्युपचाराद् विकृतिरूपमेव निवर्तते । प्रकृतिः पुनर्वर्तत एव । अन्यथा प्रकृतिरपि निवर्तते तदा कस्य समास इति । यद्यपि "प्रयोगतश्च" (३।१।१७) इति प्रयोगे “अव्ययाच्च" (२।४।४) इति सेोपेऽनेन सूत्रेण लोपाभावात् कथं युक्तार्थत्वम् । तदभावे च कथम् एकपदप्रतिपादिका विभक्तिरिति । तस्मादेकपदार्थं प्रत्ययलोपलक्षणन्यायेन विभक्तिरारोप्य लुप्यत इति हेमकरेणोक्तम्, तदुन्मत्तप्रलपितमिति । न ह्यनेन यत्र विभक्तिलोपस्तत्रैव युक्तार्थतेति निश्चितम् । अन्यथा 'कण्ठेकालः' इत्यादौ विभक्तिलोपाभावात् कथमैकपद्यं स्यात् ।
श्रीपतिस्तु त्वत्पुत्रो मणिप्राप्तो धेनुप्राप्त इत्यादिषु अकृतलक्षणेषु कौमाराः कार्यार्थं कृतमपि संस्कारं निवर्तयन्तीति परिभाषामाश्रित्य स्यादयः पुनरुत्थाप्य लुप्यन्ते । अस्यार्थः- अकृतलक्षणेषु अप्रवृत्तेषु तत्सूत्रकार्येषु नीलोत्पलमित्यादिप्रयोगेषु कार्यार्थमनेन लोपार्थं कृतमपि संस्कारं विभक्तिलोपादिकं निवर्तयन्ति दूरीकुर्वन्तीत्यर्थः । अस्याः परिभाषाया व्यञ्जनान्तस्य सन्ध्यक्षरान्ततेति बीजमित्याह । अन्यथा व्यञ्जनमन्ते यस्येति विग्रहे व्यञ्जनमित्यत्र विभक्तित्वाभावादागमस्य कथं लोपः स्यादिति । तन्नेति महान्तः । व्यञ्जनान्यन्ते येषामिति विग्रहे इकारस्वरूपविभक्तेः स्थानिवद्भावादनेन सूत्रेण तल्लोपे निमित्ताभावादागमनिवृत्तौ व्यञ्जनान्तस्येति निर्देशः सिद्ध एव । कथमुक्तन्यायस्य लिङ्गं भवितुमर्हति तस्मादयमेव सिद्धान्तः ।
तथाहि, तत्स्था लोप्या विभक्तय इत्यत्रापद्यन्ते इति क्रियान्वयित्वाल्लोपमिति कृते सिध्यति। यद् विभक्तय इत्यस्य लोप्या इति समानाधिकरणं पदं निर्दिशति, तेन लोपविशिष्टा विभक्तिरेव साध्यत्वेन गम्यते । ततश्च यत्र तत्र विद्यमाना विभक्तिस्तत्रानेन लोपमात्रं विधीयते। यत्र चान्येन सूत्रेण विभक्तिलृप्ता तत्रानेन सूत्रेण पुनस्तस्मात् परा विभक्तय इत्यनेनैकवाक्यतया विभक्तिर्विधाय लुप्यते । तेन नीलोत्पलमित्यादौ "अकारादसंबुद्धौ मुश्च" (२।२।७) इत्यनेन विभक्तिलोपे सति आगमे नीलमुत्पलमिति स्थितेऽनेन विभक्तौ विधीयमानायां सत्यां नैमित्तिकागमस्याभावे पुनरनेन विभक्तिलोपे सिद्धं नीलोत्पलमिति | न चानेन विभक्तिलोपे आगमो भविष्यतीति वाच्यम्, “अकारादसंबुद्धौ" (२१२।७) इत्यनेन यत्र लोपस्तत्रैवागमस्य विधानमिति मुश्चेति चकारेण ज्ञापितम्।
Page #314
--------------------------------------------------------------------------
________________
२७२
कातन्वव्याकरणम्
अयमेवार्यः श्लोकैरुक्तः। तथाहि,
लोपमात्रस्य साध्यत्वे लोपमित्येव निर्दिशेत् । अतो लोपविशिष्टस्य साध्यत्वमवगम्यते ॥१॥ विशिष्टस्य हि साध्यत्वे शास्त्रयुक्त्यनुसारतः। विशेषणं विशेष्यं वा तद् द्वयं वाभिधीयते ॥२॥ तथाहि लोहितोष्णीषा ऋत्विजः प्रचरन्त्विति । ऋत्विक्प्रचरणे सिद्धे रक्तोष्णीषविधिर्मतः॥३॥ ऊप्स्यद्भिश्च ऋत्विगग्निहोत्रं मासमिति श्रुतौ । गुणकालसमाविष्टं द्वयमेव विधीयते ॥४॥ नीलं घटं पिधेहीति लोकेऽपि द्वयमीक्ष्यते । क्वचिनीलगुणस्यैव विशिष्टस्य विधिः स्वचित् ॥५॥ एवं विभक्तिसत्त्वेऽत्र लोपस्यैव विधेयता। तदभावे विभक्तिश्च तल्लोपश्च विधीयते ॥६। अतो लोप्यपदस्यात्र पूर्वपाठोऽपि युज्यते । द्वयमेव यतः कार्यम् आचार्येण प्रदर्शितम् ॥७। एवं स्यादिस्वरूपस्य विधिना पुनरागमः। उपजातोऽस्य लोपश्च विकारश्च निवर्तते ॥८॥ अतो नीलोत्पले लोपः संश्रितो यो मुरागमः। निवृत्तिः सुतरां तस्य ततो लिङ्गं स्वरूपभाक् ॥९। न चानेनापि सूत्रेण लोपे जाते मुरागमः।
चकारकरणात् तत्र लुकि तेनैव युज्यते ॥१०॥ इत्याहुः । ननु संज्ञयैव वा विधिरन्वाख्यात इति पङ्क्त्या यत्र समाससंज्ञा तत्र युक्तार्थतानुमीयताम् । राजता, पुत्रीयतीत्यादौ समाससंज्ञा नास्ति तत्र कथं युक्तार्थ
Page #315
--------------------------------------------------------------------------
________________
नामचतुष्टयान्याये पथमः समासपादः
२७३ तानुमानं स्यात् ? सत्यम् । प्रधानत्वात् समासग्रहणानुवर्तने प्राप्ते यत्-तद्ग्रहणं दत्त्वा युक्तार्थग्रहणमनुवर्तते । तेनानुमीयते - प्रकृतिप्रत्यययोरपि युक्तार्थतास्तीति । तथा च,
ऐकार्य पृथगानां वृत्तिं युक्तार्थतां विदुः। शब्दानां शक्तिवैचित्र्यात् तत्समासादिषु स्मृतम् । पदानां प्रत्ययुर्योगाः समासाश्चेति वृत्तयः॥
(कात० परि०, स० -सू० १) इति ।। ३३९ । [समीक्षा]
'नील + सि + उत्पल + सि, राजन् + ङस् पुरुष + सि' आदि स्थिति में समास हो जाने पर 'सि, ङस्' आदि विभक्तियों का कातन्त्रकार के अनुसार लोप हो जाता है । पाणिनि समास हो जाने पर “कृत्तद्धितसमासाश्च" (अ० १।२।४५) से उसकी प्रातिपदिक संज्ञा करते हैं, उसके फलस्वरूप "सुपो धातुप्रातिपदिकयोः" (अ० २।४।७१) से सुप्-विभक्ति का लोप उपपन्न होता है।
पाणिनि ने "हलदन्तात् सप्तम्याः संज्ञायाम्, षष्ट्या आक्रोशे" (अ०६।३।९, २१) इत्यादि २४ सूत्रों द्वारा सप्तमी-षष्ठी आदि विभक्तियों का अलुक् दिखाया है, परन्तु शर्ववर्मा ने लोकव्यवहार के आधार पर इसे स्वीकार करके तदर्थ सूत्र नहीं बनाए । इसे वृत्तिकार दुर्गसिंह ने स्पष्ट करते हुए कहा है - "क्वचित्र लुप्यतेऽभिधानात् - कण्ठेकालः, उरसिलोमा इत्येवमादयः" । टीकाकार ने इसका विस्तार दिखाया है।
[विशेष वचन]
१. एकार्थीभावाद् विधिपक्षेऽपि मन्दधियां सुखार्थमेवेदमिति । विभक्तिर्यत्र लुप्यते स समास इति प्रायिकं चैतत्, स्थितायामपि विभक्तौ समासो दृश्यते । तदोभयपक्षेऽभिधानमेव प्रमाणम् (दु० टी०)।
२. आत्मनेपदम्, परस्मैपदम् । आत्मनेभाषः, परस्मैभाषः । व्युत्पत्तिस्तु यथा
कथञ्चित् (दु० टी०)। ३. समासराशिपक्षे तु स्वभावादेवमर्थे शब्दा एव वर्तन्त इति (दु० टी०)। ४. इत्येवमादय इति । अन्येऽप्यलुक्समासाः शिष्टप्रयोगानुसारेण वेदितव्या इति
(वि० प०)।
Page #316
--------------------------------------------------------------------------
________________
२७४
कातन्त्रव्याकरणम्
५. कौमाराः कार्यार्थं कृतमपि संस्कारं निवर्तयन्तीति परिभाषामाश्रित्य स्यादयः पुनरुत्थाप्य लुप्यन्ते (क० च० ) ।
[ रूपसिद्धि ]
१ . नीलोत्पलम् | नील + सि उत्पल + सि ।' नाम्नां समासो युक्तार्थः' (२।५।१) से समाससंज्ञा, “पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः " ( २/५/५ ) से उसकी कर्मधारयसंज्ञा, ‘“तत्स्था लोप्या विभक्तयः " (२।५।२ ) से नील तथा उत्पल के बाद प्रयुक्त सि-विभक्ति का लोप, " उवर्णे ओ” (१।२ । ३) से नीलशब्दघटित लकार से परवर्ती अकार को ओकार - उकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्” (२।१।१) से ‘नीलोत्पल' की लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन- सिप्रत्यय, नपुंसकलिङ्ग में “अकारादसंबुद्धौ मुश्च" (२।२।७) से सि का लोप तथा मु-आगम ।
२ . राजपुरुषः । राजन् + ङस् पुरुष + सि । राज्ञः पुरुषः “ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु | समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च ' (२।५।८) से षष्ठी तत्पुरुष समास, ‘“तत्स्था लोप्या विभक्तयः " (२।५।२) से ङस् -सि विभक्तियों का लोप, नलोप, ‘राजपुरुष' शब्द की लिङ्ग संज्ञा, प्रथमा एकवचन - सिप्रत्यय तथा ‘“रेफसोर्विसर्जनीयः” (२ | ३ |६३) से स् को विसगदिश ।
1
३ . राजता । राजन् + ङस् +त+सि । राज्ञो भावः । “तत्वौ भावे" (२ । ६ । १३) से 'त' प्रत्यय, “ऐकार्थ्यं पृथगर्थानां वृत्तिं युक्तार्थतां विदुः " (कात० परि०, स०सू० १) वचन के अनुसार तद्धित को वृत्ति स्वीकार करना, 'राज्ञः ' इस स्यादि पद तथा ‘त’ इस तद्धित प्रत्यय के योग से युक्तार्थता, इसके कारण "तत्स्था लोप्या विभक्तय:” (२ ।५।२) से विभक्तिलोप, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानलक्षणदीर्घ, लिङ्गसंज्ञा, सिप्रत्यय तथा सि का लोप ।
"
४. पुत्रीयति । पुत्र + अम् + यिन् + अन् + ति । पुत्रमिच्छति । यिन् प्रत्यय, दीर्घ, युक्तार्थता, उससे अम् विभक्ति का लोप, धातुसंज्ञा, तिप्रत्यय, “अन् विकरणः कर्तरि ' (३ |२| ३२ ) से अन् प्रत्यय तथा " अकारे लोपम्" (२।१।११) से अकार का लोप ।। ३३९ ।
३४०. प्रकृतिश्च स्वरान्तस्य [ २।५।३]
[ सूत्रार्थ ]
विभक्तिलोप हो जाने पर युक्तार्थ- स्थित स्वरान्तलिङ्ग को प्रकृतिभाव होता है । अर्थात् प्रत्ययलोपलक्षण प्राप्त नहीं होता है || ३४० |
Page #317
--------------------------------------------------------------------------
________________
२७५
नामचतुष्टयाध्याये पचमः समासपादः [दु० वृ०]
स्वरान्तस्य लिङ्गस्य युक्तार्थस्थस्य लुप्तासु विभक्तिषु प्रकृतिश्च भवति । सखा प्रियोऽस्येति सखिप्रियः, सखायं प्राप्तः सखिप्राप्तः, पितरि साधुः पितृसाधुः। गां गतः गोगतः। चकारो लोपमपेक्ष्य ‘देवेन्द्रः' इति सन्धिः स्यादेव ।।३४० ।
[दु० टी०]
प्रकृतिश्च । प्रकृतिः स्वभावः । समासे सति या यस्य लिङ्गस्य भूतपूर्वा प्रकृतिः सा तस्यैव, किन्तु प्रत्ययलोपलक्षणमिति विकृतिःप्राप्ता सा व्यवच्छिद्यते । सखा प्रियोऽस्येति "सख्युरन्, घुटि त्वै, डॉ अम्शसोरा" (२।२।२३,२४;१।६६:२।३४) एते न स्युः । एवमन्येऽपि योज्याः । चकारो लोपमपेक्ष्येति "तत्स्था विभक्तयो लोप्याः, प्रकृतिश्च स्वरान्तस्य" (२।५।२,३) इत्यर्थः । तेन प्रत्यासत्त्या विभक्तिकार्ये स्वरप्रकृतिरित्याह - देवेन्द्र इत्यादि । वाक्यसमासपक्षे प्रत्ययलोपलक्षणमिह चोदितमिति | अत एव पूर्वस्मिन् लुकं कृत्वा इदं सूत्रं न कर्तव्यमिति बालश्चोदयन्ति, लुग्लोपे न प्रत्ययकृतमिति भावः । तदापि युवाम् अतिक्रान्तेन अतियुवया, अत्यावयेति युवावादेशं प्रति कथं प्रत्ययलोपलक्षणमिति | अन्तग्रहणं च सुखार्थमेव ।।३४० ।
[वि० प०]
प्रकृतिः । इह विभक्तिलोपे सति या यस्य लिङ्गस्य , भूतपूर्वा प्रकृतिः सा तस्यैवेति कृते पुनः प्रत्ययलोपलक्षणमिति न्यायेन प्राप्ता विकृतिरतः प्रकृतिरुच्यते । सखा प्रियोऽस्येत्यादि "सख्युश्च, घुटि त्वै, अर डौ, अम्शसोरा" (२।२।२३,२४; १।६६,२।३४) इत्येतैरन्प्रभृतय आदेशाः समासे न भवन्तीति । यद्येवं 'देवानामिन्द्रः देवेन्द्रः, खरेणोढः खराढः' इति समासे कथं सन्धिलक्षणा विकृतिरित्याह - चकार इत्यादि । न केवलं 'तत्स्था विभक्तयो लोप्या भवन्ति प्रकृतिश्च स्वरान्तस्य' इत्यर्थः । ततः प्रत्यासत्त्या विभक्तिसंबन्धिष्वेव कार्येषु प्रकृतिः न च सन्धिलक्षणं विभक्तिकार्यम् । अत एव प्रत्ययलोपलक्षणेनैव प्राप्ता विकृतिः प्रतिषिध्यत इत्युक्तम् । यद्येवं पूर्वसूत्रे लुगेव क्रियतां 'लुग्लोपे न प्रत्ययकृतम्' (द्र०, कलाप०, पृ० २२२, सं० ६९) इति प्रतिषेधो भविष्यति । नैतद्, एवं सति व्यञ्जनान्तेषु प्रत्ययलोपलक्षणं नोपपद्यत इति । ततो युवाम् आवाम् अतिक्रान्तैरिति विग्रहे 'अतियुवाभिः, अत्यावाभिः' इति न सिध्यति द्विवाचिप्रत्ययाभावात् । लोपे तु प्रत्ययलोपलक्षणमुपतिष्ठत इति युवावौ भवत एव ।।३४०।
Page #318
--------------------------------------------------------------------------
________________
२७६
कातन्त्रव्याकरणम्
[क० च०]
प्रकृतिः। ननु सखायं प्राप्तः इत्यादौ विभक्तिलोपे सति निमित्ताभावन्यायेन ऐत्वे गते सख्भागस्यास्वरान्तत्वात् कथं प्रकृतिर्विधीयते इत्याह - इहेति ।(ननु सखायं प्राप्तः इत्यादौ विभक्तिलोपे निमित्ताभावन्यायादैत् गतेऽनेन सूत्रेण स्वरस्य विकृतौ सत्यां प्रकृतिर्विधीयते) सखायं प्राप्त इत्यादौ विभक्तिलोपे स्वरान्तत्वाभावात् कथमस्यावसर इत्याह - इहेति । एषोऽपि निमित्ताभावस्यैव प्रकारः । ननु तथापि या यस्येत्यादिनैव प्रकृतिभूते सखिशब्दे समायाते प्रकृतिः स्वभावसिद्धैव किमनेन प्रकृतिविधानेनेत्याह - पुनरिति । 'येन विधिस्तदन्तस्य' (कात० प०३) इति यदन्तग्रहणं तत् सुखार्थम् इति टीकायामुक्तम् ।
अत्र हेमकरः- ननु अन्तग्रहणं सुखार्थमिति कथमुक्तम् अन्तग्रहणबलात् स्वर एवान्तोऽवयवो यस्य तत् स्वरान्तम् इति अन्तग्रहणस्योपदेशार्थत्वात् । तेन ‘अतियुवाभिः, अत्यावाभिः' इत्यादौ प्रकृतिर्न भवति, उपदेशस्वरान्तत्वाभावात् । न च लाक्षणिकत्वान्न भविष्यतीति किमन्तग्रहणेनेति वाच्यम्, वर्णविधौ तस्यानङ्गीकारात् “गमहन०" (३।६।४३) इत्यत्र घस्ग्रहणेन ज्ञापितत्वात् । नैवम्। स्वरग्रहणमेव प्रतिपदोक्तार्थं भविष्यति । ननु स्वरग्रहणमन्तरेण स्वरान्तः कथं लभ्यते, येन प्रतिपदोक्तार्थं स्वरग्रहणं भविष्यति ? सत्यम् | "यजनान्तस्य यत्सुभोः" (२।५।४) इत्यत्र टीकायां 'राजानं गतः राजगतः' इत्यत्र व्यञ्जनान्तस्येत्यतिदेशेन लुप्तनकारस्यालुप्तवद्भावेन प्रत्ययलोपलक्षणन्यायेन प्राप्तस्य "घुटि चासंबुद्धौ"(२।२।१७) इति दीर्घस्य प्रतिषेधार्थमवश्यं नियमं वक्ष्यति' व्यञ्जनग्रहणबलात् । तथाहि सुभोर्यदुक्तं तद्भवतीत्युक्ते श्रुतत्वाद् यस्य यदुक्तं तस्य तदेव भवतीति न्यायाद् व्यञ्जनान्तस्यैव सुभोक्तसंभवात् तस्यैव भविष्यति न स्वरान्तस्य किं व्यञ्जनग्रहणेन ? यद् व्यञ्जनग्रहणं तद् व्यञ्जनान्तस्य सुभोक्तमेव भवति नान्यदिति नियमार्थम् । तेन — राजगतः' इत्यादौ न दीर्घप्रसङ्गः । अत इह पारिशेष्यात् स्वरान्तस्यैव प्रकृतिर्गम्यते, यत् पुनः स्वरग्रहणं तत् प्रतिपदोक्तार्थमित्याचष्टे | अतोऽन्तग्रहणं सुखार्थमिति यदुक्तं तदेव चारु |
तन्न । 'राजपुरुषः' इत्यादावतिदेशस्य विषयत्वान्नकारलोपे 'एकदेशविकृतस्यानन्यवद्भावाद्' (कात०प०१) “अवमसंयोगात्" (२।२।५३) इत्यादिना प्राप्तोऽकारलोप: "प्रकृतिश्च स्वरान्तस्य" (२।५।३) इति प्रकृतिभावान्न भवतीति लाक्षणिक
Page #319
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२७७ स्वरान्तस्यापि टीकायाम् “अवमसंयोगात्" (२।२।५३) इत्यत्र दर्शनात् । किञ्च स्वरग्रहणस्थितावेवोत्तरत्र व्यञ्जनग्रहणम् अनर्थकीभूय नियमं साधयितुमर्हति । तथाहि अत्र स्वरग्रहणं नास्ति परत्र व्यञ्जनग्रहणे नियमव्याख्यानार्थं व्यञ्जनग्रहणे खण्डितेऽन्तस्य यत् सुभोरिति स्थिते सुभोः परयोरन्तभूतस्य सामर्थ्यलब्धव्यञ्जनस्य यत् कार्यं तदतिदिश्यते इत्यर्थे सति 'विद्वद्गमनम्' इत्यत्रानुषङ्गलोपस्वरूपं मध्यकार्यमतिदेष्टुं न शक्यते । तस्मादेतत्सिद्धये बहुव्रीह्यर्थमेव व्यञ्जनग्रहणं कथं नियमार्थं भविष्यति । न चान्तग्रहणमपि न कर्तव्यमिति वाच्यम् । 'दास्यर्थः' इत्यादावेतदतिदेशप्राप्तादिघुटसंयोगान्तलोपाभावार्थम् अन्तग्रहणम् औपदेशिकव्यञ्जनार्थं कर्तव्यमिति टीकायामुक्तत्वात् । तस्मात् स्वरान्तमात्रस्यैव प्रकृतिभाव इत्यर्थः।।
ननु यद्यनेन लाक्षणिकस्वरान्तस्यापि प्रकृतिभावस्तदा कथम् ‘अतियुवाभिः' इति सिध्यति । "एषां विभक्तौ" (२।३।६) इत्यादिनाऽन्तलोपे स्वरान्तत्वे सति "युवावो" (२।३।७) इत्यादिना युवादेशं प्रति प्रकृतिभावस्य दुर्निवारत्वात् । नैवम् । युवादेशं प्रति यदि प्रकृतिभावः स्यात् तदा एतत् सूत्रमकृत्वैव "तत्स्था लोप्या विभक्तयः" (२।५।२) इत्यत्र लुग्ग्रहणं क्रियताम् । तथा च सति 'लुग्लोपे न प्रत्ययकृतम्' (द्र०, कलाप०, पृ०२२, सं०६९) इति निषेधो भविष्यति । न चैवं सति एनेन कृतम् 'एनकृतम्' । अर्वतश्छाया 'अर्वच्छाया' । मघवतः पुत्रो मघवत्पुत्रः' इत्यत्र लुग्लोपत्वेन प्रत्ययलोपलक्षणन्यायस्याभावात् कथम् एनादयः आदेशाः स्युरिति वाच्यम् । तत्र तत्र सूत्रे विषयसप्तम्या अङ्गीकारात् । विषयसप्तमीपक्षे तु न निमित्ताभावः, विभक्तिलोपेऽपि तद्विषयस्य सत्त्वात् । तस्माल्लुग्ग्रहणम् अकृत्वा यदेतत् सूत्रं विदधाति तद् बोधयति - क्वचित् प्रत्ययलोपलक्षणमवतिष्ठते इति सिद्धम् । अतियुवाभिरित्यादिकमिति संक्षेपः।
ननु स्वरग्रहणं किमर्थं परत्र नियमव्याख्यानार्थमिति चेत् तत्र नियमो नाभिधीयते । न च नियमाभावे राजगतम् इत्यादिकं न सिध्यतीति वाच्यम्, यतः प्रकृतिसूत्रेण व्यञ्जनान्तस्य च सामान्येन प्रकृतिभावविधौ ‘राजगतः' इत्यादावपि दीर्घादिकं न भविष्यति । "व्यानान्तस्य यत्सुभोः" (२।५।४) इत्यनेन सुभोक्तविधानान्नलोपादिकं भविष्यति ? सत्यम् । एवं सति स्वरग्रहणं श्लोकपूरणार्थम् । तस्मिन् सत्यवश्यं राजगतः' इत्यादौ दीर्घाभावार्थं व्यञ्जनान्तस्येत्यत्र नियमव्याख्यानेनैव निस्तारः । तेन प्रत्यासत्त्या
Page #320
--------------------------------------------------------------------------
________________
२७८
कातन्त्रव्याकरणम् विभक्तिसंबन्धिष्वेवेति पञ्जी । ननु युक्तार्थविभक्तिलोपे विभक्त्याश्रितपदसंज्ञापि न स्यात् । नैवम्, विकृतौ हि प्रकृतिर्विधीयते न नया पदसंज्ञया काचिद् विकृतिः क्रियते, अन्यथा नेत्येवं ब्रूयात् | अथ 'द्योऽर्धम्' इत्यकारलोपो न स्यात्, यतः पदसंज्ञायामकारलोपं प्रति निमित्तभवनमेव विकृतिभाव इत्येतदेव निराकर्तुमुपसंगृह्णन्नाह - अत एवेत्यादि । ननु "पूर्वपरयोः" (१।१।२०) इत्यत्र लुप्तविभक्तिकानामपि प्रत्ययलोपलक्षणन्यायेन प्राप्तं पदत्वं प्रकृतिभावान्न स्यात् । ततश्च पदत्वाभावात् "एदोत्परः" (१।२।१७) इत्यकारलोपो न स्यात् । नैवम्, अर्थवशाद् विभक्तिविपरिणामेन सप्तम्यन्ततया विभक्तीनाम् इहानुवर्तनं भविष्यति । तेन प्रत्यासत्त्या लुप्तविभक्तौ परतो या विकृतिः कार्यं प्रा गोति तां प्रति प्रकृतिभावः (सैव व्यवच्छिद्यते) न च पदसंज्ञा विभक्तौ विधीयते इति कुतः प्राप्तिः। एतदभिसंधानेनैव 'लुप्तासु विभक्तिष्विति सप्तम्यन्ततया वृत्तौ विवृतम् । चकारस्तु सुखार्थ एव ||३४० |
[समीक्षा]
'सखा प्रियोऽस्य, सखायं प्राप्तः, पितरि साधुः' इस विग्रह में बहुव्रीहि, द्वितीयातत्पुरुष, सप्तमीतत्पुरुष' समास तथा विभक्तिलोप होने पर 'सखिप्रियः, सखिप्राप्तः, पितृसाधुः' शब्दरूप दोनों व्याकरणों के अनुसार सिद्ध होते हैं । अन्तर यह है कि कातन्त्रकार सूत्र बनाकर विभक्तिलोप हो जाने पर प्रत्ययलोपलक्षण कार्य का निषेध करते हैं, जबकि पाणिनीय व्याकरण में 'वर्णाश्रये नास्ति प्रत्ययलोपलक्षणम्' (परि० शे०२) इस परिभाषावचन के आधार पर प्रत्ययलक्षण का निषेध स्वीकार किया गया है । "न लुमताङ्गस्य" (अ०१।१।६३) इस सूत्र की प्रवृत्ति मान लेने पर भी 'प्रकृतिभावविधान-प्रत्ययलक्षणनिषेध' से होने वाला लाघव-गौरव तो तदवस्थ रहेगा ही।
सूत्रस्थ चकार के बल पर विभक्तिलोप हो जाने से विभक्तिनिमित्तक तो कार्य नहीं होते हैं, किन्तु तद्भिन्न सन्धिकार्य तो हो ही जाते हैं । जैसे - देवानाम् इन्द्रः । देव+इन्द्रः देवेन्द्रः । खरेण ऊढः । खर + ऊढ:= खरोढः ।
[विशेष वचन]
१. प्रत्यासत्त्या विभक्तिसंबन्धिष्वेव कार्येषु प्रकृतिः, न च सन्धिलक्षणं विभक्तिकार्यम् । अत एव प्रत्ययलोपलक्षणेनैव प्राप्ता विकृतिः प्रतिषिध्यते इत्युक्तम् (वि०प०)।
Page #321
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२. यदन्तग्रहणं तत् सुखार्थम् (क० च० ) ।
३. अतोऽन्तग्रहणं सुखार्थमिति यदुक्तं तदेव चारु (क० च० ) ।
४. एवं सति स्वरग्रहणं श्लोकपूरणार्थम् (क० च० ) ।
५. अर्थवशाद् विभक्तिविपरिणामेन सप्तम्यन्ततया विभक्तीनाम् इहानुवर्तनं भविष्यति (क० च० )
(रूपसिद्धि)
१. सखिप्रियः । सखि + सि+प्रिय +सि । सखा प्रियोऽस्य । " स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । तान्यन्यस्य पदस्यार्थे बहुव्रीहि: ' (२।५।९) से बहुव्रीहि समास, विभक्तिलोप, लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन सिप्रत्यय तथा ‘“रेफसोर्विसर्जनीयः” (२ । ३ । ६३) से स् को विसगदिश । प्रकृत सूत्र के नियमानुसार ‘अन्’ का अभाव ।
२. सखिप्राप्तः। सखि + अम् + प्राप्त +सि । सखायं प्राप्तः । “विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च " ( २।५/८) से द्वितीयातत्पुरुषसमास, विभक्तिलोप, लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन सिप्रत्यय तथा स् को विसगदिश । प्रकृत सूत्र के नियमानुसार 'ऐ' आदेश
का अभाव ।
२७९
३. पितृसाधुः। पितृ+ङि+साधु +सि । पितरि साधुः । सप्तमीतत्पुरुषसमास, विभक्तिलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा विसर्ग आदेश । प्रकृतसूत्र के नियमानुसार "अर् ङौ” (२।१।६६) सूत्र से प्राप्त अर् आदेश का अभाव ।
""
४. गोगतः । गो + अम् + गत + सि । गां गतः । द्वितीयातत्पुरुष समास, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसर्गादिश । प्रकृत सूत्र से प्रकृतिभाव होने के कारण अम्शसोरा' (२ । २ । ३४ ) से प्राप्त 'आ' आदेश का अभाव | | ३४० |
३४१. व्यञ्जनान्तस्य यत् सुभोः [ २|५|४]
[ सूत्रार्थ ]
सकार तथा भकार के परे रहते जो कार्य बताए गए हैं, विभक्तिलोप हो जाने पर युक्तार्थस्थित व्यञ्जनान्त लिङ्ग को वे सभी कार्य सम्पन्न होते हैं || ३४१ ।
Page #322
--------------------------------------------------------------------------
________________
२८०
कातन्त्रव्याकरणम्
[दु० वृ०]
व्यञ्जनान्तस्य युक्तार्थस्थस्य लुप्तासु विभक्तिषु सुभोर्यदुक्तं तद् भवति । सुपि मुख्यं कार्यं नास्तीति सुभोर्युगयदुक्तं स्यात् । विद्वद्गमनम्, दिग्गतः, षडाकृतिः, ज्ञानभुदाश्रयः । अतिदेशोऽयम् ।। ३४१।
[दु० टी०]
व्यजनान्त।सुभोरिति । सुबिति सप्तमीबहुवचनम्, भकारोऽपि बिभक्तरेव गृह्यते अर्थात् । सुपीत्यादि । ननु अपां गमनम् अब्गमनम् इति भे परे दत्वस्य दृष्टत्वात् 'अपां भे दः' प्राप्नोति ? सुप्युक्तं नास्तीति व्यञ्जनोक्तमेव गम्यते । णोः कटावन्तौ । क्रुञ्चां पतिः क्रुपतिः । सुगणां पतिः सुगण्पतिरिति । नैतदेवम् । न तत् सूत्रम् अभिधानात् । वर्णागम इति तत्र निश्चितम् । किञ्च सुभोलिङ्गकार्यमेव दृष्टं कथमन्यत् कार्यं भवति, तेन सुभोरेककालोक्तं व्यञ्जनकार्यमेव स्यादिति भावः । यद्येवं साविति कथन्न कुर्यात्, किमिह भग्रहणेन ? नैवम् । अघोषे प्रथमोऽपि स्यात, आस्तां प्रथमः । स्वरघोषवतोस्तृतीयो भविष्यति । तर्हि पदान्ते धुटां प्रथमे सिद्धेऽतिदेशबलात् प्रथमो भवन् तृतीयं बाधेत | कश्चिदाह-उभयोरुपादानं यौगपद्यार्थम् । सुपि णोः कटौ विधीयेते इति । सुभोः पूर्वा प्रकृतिरेवावधारिता सैवात्रापि पूर्वव्यपदेशिनी गृह्यते । तेनोत्तारपदे भवति । अथवा भावकर्मणोः सिजाशिषोरित्यादिनिर्देशादन्तपदे न भवतीत्यवसीयते ।
विदुषां गमनम्, दिशो गतः, षण्णामाकृतिः, ज्ञानबुधामाश्रय इति विग्रहः । एवमन्यदपि प्रतिपत्तव्यम् । श्रुतत्वाद् यस्य यदुक्तं तस्य तदेव भवतीति कार्यमतिदिश्यते । कश्चिदाह - यद्ग्रहणं सर्वसादृश्यार्थम् इति । तदयुक्तम् । यद्ग्रहणमन्तरेण व्यञ्जनान्तस्य सुभोर्लुप्तयोः कार्यं स्यादिति प्रतिपद्यते । कथं राजानं गतः राजगतः, तथा विद्वदागतो महद्गत इति न संयोगान्तयोरलुप्तवद्भावात् । आप एव वनमस्य अब्बन इति "घुटि चासंबुद्धौ” (२।२।१९) इति दी? न स्यात् ? सत्यम् । व्यावृत्तिबलाद् व्यञ्जनान्तस्य यत् सुभोरुक्तं भवति, अन्यत्र वचने यदुक्तं तन्न भवतीति भावः । ननु च दास्यर्थः, मात्रर्थः, दान्वर्थः, वस्वर्थः इति यत्वे रत्वे च कृते संयोगादेः संयोगान्तस्य च धुटो लोपः कथन्न स्यात् ? सत्यम्, अन्तग्रहणबलाद् व्यञ्जनमेवान्तोऽवयवो यस्य तद् व्यञ्जनान्तम्, इदं तु (यत्वादि प्राक्) स्वरान्तमिति कुतः प्रसङ्गः । तदेतद्वाक्यसमासपक्षे जल्पनमिति ।।३४१।
Page #323
--------------------------------------------------------------------------
________________
२८१
नामचतुष्टया याये पञ्चमः समासपादः [वि० प०]
व्यञ्जनान्त० । ननु अपां गमनम् अब्गमनम् इत्यत्र “अपां भेदः' (२।३।४६) इति भकारोक्तः कथं दकारो न भवतीत्याह - सुपीत्यादि । मुख्यं कार्यं यत् साक्षात् सुप्युक्तं तदिह न विद्यते । यद्यपि सन्धिटीकायां साक्षात् सुप्युक्तं कार्यं “णोः कटावन्तौ वा शषससुप्स्विति तदपि न सूत्रम्, किन्तर्हि वर्णागम इति तत्र निश्चितम् । अतः सुपि सामान्यमेव कार्यमवगम्यते, तत्साहचर्याद् भकारेऽपि सामान्य कार्यम्, न विशिष्टम् । अतः सुभोर्युगपदुक्तमेककालोक्तम् । तत्पुनर्व्यञ्जनोक्तं कार्यमेव स्यादिति भावः । विद्वद्गमनमित्यादि । विदुषां गमनम्, दिशो गतः, षण्णामाकृतिः, ज्ञानबुधामाश्रय इति विग्रहः । इह "विरामव्यानादिष्वनडुनहिवन्सीनाच" (२।३।४४) इत्यादिना दकारादिकार्यं व्यञ्जनोक्तं भवति, एवमन्यदपि । अतिदेशोऽयमिति । यद्यपि शास्त्रान्तरे बहवोऽतिदेशा निरूपितास्तथापि कार्यातिदेश एवायम्, तत्तु इष्टत्वात् प्रवृत्तेः कार्येऽतिदिश्यमाने यस्य यदुक्तं तस्य तदेव श्रुतत्वादिति ।। ३४१ ।
[क० च०]
व्यानान्त०। युक्तार्थस्थस्येति वृत्तिः। अत्र वैयः- ननु युक्तार्थे तद्धितादिविषयेऽस्य सूत्रस्य विषयोऽस्ति न वा ? सत्यम् । नास्त्येवेति, यावता राजतेत्यादौ प्रत्ययव्यञ्जनमात्रे लिङ्गान्तनकारलोपोऽस्त्येव किमत्रातिदेशेन, तथा धुत्वम् इत्यत्रापि "दिव उद् व्याने" (२।२।२५) इत्यत्र सामान्यव्यञ्जनाश्रयणात् तेनैव सिद्धं कुतोऽत्रातिदेशावकाशः । तथा च "व्याने चैषां निः" (२।२।३८) इत्यत्र एषांग्रहणादेव व्यञ्जनमात्रस्य ग्रहणे पथित्वम् इत्यत्रापि तेनैवानुषङ्गलोपः, तथा "अनुषङ्गश्चानुश्चेत्, पुंसोऽनशब्दलोपः, चतुरो वाशब्दस्योत्वम्, अनडुहश्च" (२।२।३९, ४०, ४१, ४२) इत्यादावघुट्स्वरस्य प्रत्ययस्य साहचर्याद् व्यञ्जनस्यागि प्रत्ययस्यैव ग्रहणम् । अतः 'विद्वत्ता' इत्यादिष्वपि नास्त्यतिदेशावकाशः । तथा च "आत्वं व्यजनादौ,रैः"(२।३।१८, १९) इत्यादौ आदिशब्देन साक्षाद् विभक्तेः परिग्रहणाद् 'युष्मत्त्वम्, रैत्वम्' इत्यादिष्वपि नास्त्येवातिदेशप्रयोजनम् । तथा "विरामव्यञ्जनादिषु" (२।३।४४) इत्यादौ सुभोरित्यकरणेन व्यञ्जनग्रहणस्य करणात् सामान्यव्यञ्जनलाभेऽप्यादिशब्दबलात् प्रत्ययव्यञ्जनमेव गृहीतम् । तेन ‘विद्वत्ता' इत्यादिष्वपि तेनैव सकारस्य दकारः।
न च ‘वैदुष्यम्' इत्यादौ युक्तार्थमात्रानुवर्तनस्य प्रयोजनमिति वाच्यम् । यतः प्रत्ययव्यञ्जनव्यावृत्त्या प्रत्ययाघुट्स्वरे दकारो न भविष्यति। अतोऽत्रापि नास्ति तद्धित
Page #324
--------------------------------------------------------------------------
________________
२८२
कातन्त्रव्याकरणम्
प्रत्ययस्वरेऽतिदेशसंभावना । “अद् व्यजनेऽनक्" (२।३।३५) इत्यत्र च साक्षाद् विभक्तेः परिग्रहणात् तद्धितप्रत्यये नास्त्यतिदेशावकाशः । तस्मात् सूत्रमिदं समासविषयकमेव न युक्तार्थमात्रविषयकम् इति । अतो युक्तार्थमात्रस्येति वृत्तौ पाठो नास्तीति लक्ष्यते इत्याचष्टे | तन्न । तद्ग्रहणाधिकृतं युक्तार्थं निराकृत्य समासानुवर्तने मानाभावात् । किञ्च वचनमिदं नियमार्थं वक्ष्यति । यदि चात्र समासाधिकारः स्यात् तदा व्यावृत्तिरपि समास एव न युक्तार्थमात्रे, अतो 'महानिव महद्वत्, भवानिव भवद्वत्' इत्यत्र च युक्तार्थमात्रे प्रत्ययलोपलक्षणन्यायेन प्राप्तस्य “सान्तमहतो!पधायाः, अन्त्वसन्तस्य चाधातोः सौ" (२।२।१८, २०) इति दीर्घस्य प्रसङ्गात् । तथा च,
समासस्यानुवृत्तौ तु महद्वदिति दुष्यति ।
अतो युक्तार्थमात्रानुवृत्तिरत्र बुधैर्मता ॥ इति व्यञ्जनान्तस्य लिङ्गस्य सुभोरुक्तं भवत् साक्षात् सकारभकारोक्तकार्यस्यासंभवात् सकारभकार एवैककालोक्तं व्यञ्जनोक्तं भवतीति निर्गलितार्थः ।
_ [ यद् वा सुपीत्यादि, सुप उल्लेखविहितं कार्यमित्यर्थः । तत्साहचर्यात् भकारेऽपि उल्लेखविहितं कार्यं नातिदिश्यते इत्यर्थः] ।
सुपीत्यादि । ननु सुपि साक्षात् सकारभकारोक्तकार्यस्यासंभवाद् सामान्यकार्यस्यातिदेशो भवन् अघोषोक्तमपि कार्यं स्यात् । नैवम्, सुपः साहचर्याद् भकारे सामान्यकार्यमतिदिश्यमानं सुप्साहित्योक्तकार्यमेवातिदिश्यते, न "घुटां तृतीयः" (२।३।६०) इत्यादिकम्, सुभोरिति द्वन्द्वस्य साहित्यप्रधानत्वात् तथा भकारसाहचर्येण सकारोक्तसामान्यकार्यमतिदिश्यमानं भकारसाहित्योक्तमेवातिदिश्यते नाघोषोक्तमित्येतदेव हृदि कृत्वाह – साहचर्यादिति । तत्पुनर्व्यञ्जनकार्यमेवेति । यद्यप्यनेन न्यायेन विभा युक्तमपि सुभोक्तं संभवति, तथापि तत्पुत्र इत्यत्र नातिदेशप्रसङ्गः । त्यदादीनामपि विभक्तावित्यत्र साक्षात् प्रतिपत्त्यर्थविभक्तिग्रहणस्य व्यावृत्तिबलात् । अथ चतसृणां पुत्रः 'चतुष्पुत्रः' इत्यादौ समास एवातिदेशबलाच्चतम्रादेशः कथन्न स्यात् । न च तत्रापि विभक्तिग्रहणव्यावृत्तिबलान्नातिदेशप्रसङ्ग इति वाच्यम्, तत्र विभक्तिग्रहणस्य संबद्धाधिकारनिवृत्त्यर्थस्योक्तत्वात् ? सत्यम् । भकारो हि विभक्त्येकदेशस्तत्साहचर्यादेकदेशकार्यस्यैवायमतिदेशो न समुदायस्य ।
Page #325
--------------------------------------------------------------------------
________________
नामचतुष्टया याये पञ्चमः समासपादः
२८३ यद् वा तिसृणां पुत्रः 'त्रिपुत्रः' इत्यादौ समासे प्रकृतिश्च स्वरान्तस्येति प्रकृतिभावात् तिसादेशं प्रति नातिप्रसङ्गस्तत्साहचर्याच्चतम्रादेशं प्रति नातिदेशप्रवृत्तिः । यद् वा तत्र विभक्तिग्रहणं साक्षात् प्रतिपत्त्यर्थमिति व्याख्येयम् । अन्यथा यदि विकल्पनिवृत्तिरेव फलं तदा विभक्तिग्रहणमपास्य नित्यमिति कुर्यात् । अथ पुंस ईहा 'पुमीहा' इत्यादौ "मोऽनुस्वारं व्याने" (१।४।१५) इत्यनेन व्यञ्जनोक्तस्यानुस्वारस्य कथन्नातिदेश इति ? सत्यम् । सोरुकारोच्चारणेन प्रत्ययाश्रितकार्यस्यैवातिदेशात्, अन्यथा सभोरिति विदध्यात् । न चानुस्वारविधानं प्रत्ययव्यञ्जनोपाधिकम् । अतः प्रत्ययव्यञ्जनाश्रितस्याप्यनुषङ्गलोपादावतिदेशः । ननु ‘परमदण्डिनः, परमगोमन्तः, परमविद्वांसः' इत्यादौ लिङ्गान्तनलोपोऽनुषङ्गलोपः सकारस्य दकारश्च कथमतिदेशान्न स्युः, सत्यम् । भावकर्मणोरिति निर्देशाद् उत्तरपदे नातिदेश इति ।
[साक्षाद् व्यावृत्तिविषयस्य विभक्तिस्वरस्य विद्यमानत्वाद् अयमादेशो न प्रवर्तते इति । अर्थात् पूर्वपदस्यैवायमतिदेश इति पर्यवस्यति] |
अत्र वैयः- तत्तत्सूत्रोक्तव्यञ्जनादिग्रहणव्यावृत्तिबलादेव विभक्तिस्वरे न भविष्यति, अतोऽयमतिदेश उत्तरपदविषयो न्यायादेव भवितुं नार्हति, वृथैव "सुभोर्नोत्तरपदस्ये" (कात० परि०, स०-सू० ३३) इति सूत्र श्रीपतिराचष्टे, तदज्ञानविजृम्भितमेव युक्तार्थविषयं विहाय केवलं ‘दण्डिनः' इत्यादौ तत्तत्सूत्रीयव्यञ्जनादिग्रहणस्य व्यावृत्तिविषयत्वात् । एतेन सुभोर्नोत्तरपदस्येति सूत्रं वृथैवेति यदुक्तं तदवश्यं कर्तव्यम् । यदप्युक्तं लक्षणेऽस्मिन् दूषणं दृश्यते, तथाहि विद्वांसः, सुन्दराः पुत्रा अस्येति विद्वत्सुन्दरपुत्र इत्यत्रापि अतिदेशो न स्यात् । न ह्ययं विद्वच्छब्दः उत्तरपदे परतः, तन्मते समासान्तपदस्यैवोत्तरपदत्वेन रूढत्वात्, तस्मात् सुभोर्नोत्तरपदस्येति वक्तुमुचितमित्याचष्टे | तदप्यसङ्गतम् । उत्तरपदस्य निषेधे ‘सुविद्वत्पुत्रः' इति कर्मधारयगर्भतत्पुरुषेऽतिदेशाभावो न स्यात् कर्मधारयसमासापेक्षया तस्याप्युत्तरपदत्वात् । अत एव ‘परमसर्पिःकुण्डिका' इत्यादावुत्तरपदस्थत्वान्न षत्वम् । तथा च षत्वसूत्रे टीकायाम् अनुत्तरपदयोस्तु समासे नित्यं सर्पिष्पानम् अनुत्तरपदयोरित्येव ‘परमसर्पिः कुण्डिका' इत्युक्तमिति । यच्च “सुभोर्नोत्तरपदस्य" (कात० परि०, स०-सू० ३३) इति सूत्र तत्रोत्तरपदस्येति युक्तार्थान्तावयवपरत्वं बोध्यम्, न तु समासपरपदत्वम् । अत एव 'सुविद्वत्ता' इत्यादिकमपि सिध्यतीति दिक् ।
Page #326
--------------------------------------------------------------------------
________________
२८४
कातन्त्रव्याकरणम्
[ स्वमते पुनः “ भावकर्मणोः” (३।२।३०) इति निर्देशान्नोत्तरपदे कार्यमिति टीकासाधनम् | अत एव ‘प्रियमरुता' इत्यत्रापि पदान्तलक्षणस्तृतीयो न स्यादित्यर्थः । वस्तुतस्तु “भावकर्मणोः, सिजाशिषोः” (३ । २ । ३०; ५ । १०) इति निर्देशादुत्तरपदे न भविष्यति । अन्ये तु “सुभोरुत्तरपदे" (कात० परि०, स० सू० ३३) इति श्रीपतिसूत्रेऽपि समासपरपदमात्रम् उत्तरपदेन विवक्षितम् । न तु रूढ्या समासान्तपदम् इति । अन्यथा प्रकृतत्वाल्लोप्य उत्तरपदे इत्यत्रोत्तरपदानुवृत्तावुत्तरपदग्रहणं निरर्थकमेव स्यात् । किं च ‘“नोत्तरपदस्य” (कात० परि०, स० सू० ३३) इत्युक्ते शोभनो विद्वान् सुविद्वान् पश्चात् पुत्रशब्देन बहुव्रीहौ 'सुविद्वत्पुत्रः' इत्यत्र कर्मधारयगर्भबहुव्रीहौ प्रथमसमासापेक्षया विद्वच्छब्दस्योत्तरपदत्वाद् अतिदेशो न स्यादिति । तस्माद् युक्तमेव “भावकर्मणोः” (३।२।३०) इत्यादिनिर्देशादुत्तरपदस्य नातिदेश इति टीकाकारवचनम् ] || ३४१ ।
[समीक्षा]
'विद्वन्स् + गमनम् दिश् + गतः, षष् + आकृतिः, ज्ञानबुध् + आश्रय:' इस अवस्था में दोनों ही आचार्य सकार आदि को देकारादि आदेश करके 'विद्वद्गमनम्, दिग्गतः, षडाकृतिः, ज्ञानभुदाश्रयः' शब्दरूप सिद्ध करते हैं । पाणिनीय व्याकरण में विना ही अतिदेश के "वसुनन्सुध्वंस्वनडुहां दः" (अ० ८|२|७२) से स् को द्, “क्विन्प्रत्ययस्य कुः” (अ० ८|२| ६२ ) से श् को ग्, "झलां जशोऽन्ते" (अ० ८|२| ३९) से ष् को ड् तथा " झषस्तथोर्धोऽधः " ( अ० ८।२।४०) से बू को भ् आदेश किया गया है ।
।
[विशेष वचन ]
१. कश्चिदाह – उभयोः (सुभोः) उपादानं यौगपद्यार्शम् ( दु० टी० ) । २. अतः सुभोर्युगपदुक्तमेककालोक्तम्, तत्पुनर्व्यञ्जनोक्तं कार्यमेव स्यादिति भावः (वि० प० ) ।
44
३. “ अद् व्यञ्जनेऽनक्” (२ | ३ | ३५) इत्यत्र च साक्षाद् विभक्तेः परिग्रहणात् तद्धितप्रत्यये नास्त्यतिदेशावकाशः । तस्मात् सूत्रमिदं समासविषयकमेव न युक्तार्थमात्रविषयकमिति, अतो युक्तार्थमात्रस्थस्येति वृत्तौ पाठो नास्तीति लक्ष्यते इत्याचष्टे (क० च० ) ।
Page #327
--------------------------------------------------------------------------
________________
२८५
नामचतुष्टयाध्याये पनमः समासपादः [रूपसिद्धि]
१. विद्वद्गमनम् । विद्वन्स् + गमन + सि । विदुषां गमनम् । षष्ठीतत्पुरुषसमास, विभक्तिलोप, प्रकृत सूत्र द्वारा अतिदेश के कारण “अनुषङ्गश्चाक्रुञ्चेत्" (२।२।३९) से नकारलोप । “विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च' (२।३।४४) से स् को द्, लिङ्गसंज्ञा, सि-प्रत्यय, मु-आगम तथा सिलोप |
२. दिग्गतः। दिश् + गत + सि । दिशो गतः । पञ्चमीतत्पुरुष, विभक्तिलोप, अतिदेश, “चवर्गदृगादीनां च' (२।३।४८) से श् को ग्, लिङ्गसंज्ञा, सिप्रत्यय तथा “रेफसोर्विसर्जनीयः” (२।३।६३) से स् को विसर्गादेश ।
३. षडाकृतिः। षष् + आकृति + सि | षण्णामाकृतिः । षष्ठीतत्पुरुष समास, विभक्तिलोप, अतिदेश, “हशषछान्तेजादीनां डः" (२।३।४६) से ष् को ड्, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसर्गादेश ।
४. आनन्दभुदाश्रयः। आनन्दबुध् + आश्रय + सि । आनन्दबुधामाश्रयः । षष्ठीतत्पुरुष समास, विभक्तिलोप, अतिदेश, "तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं स्ध्वोः " (३।६।१००) से ब् को भ् “द्वितीयचतुर्थयोः प्रथमतृतीयौ" (३।३।११) से ध् को द्, लिङ्गसंज्ञा, सिप्रत्यय तथा “व्यञ्जनाच्च" (२।१।४९) से सिप्रत्यय का लोप || ३४१।
३४२. पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः [२।५।५] [सूत्रार्थ]
जिस समास में दो विशेष्य-विशेषण पद हों, उसकी कर्मधारय संज्ञा होती है ।। ३४२।
[दु० वृ०]
यत्र समासे द्वे पदे तुल्याधिकरणे भवतः, सः कर्मधारयो विज्ञेयः । नीलं च तदुत्पलं चेति नीलोत्पलम् । क्वचिन्नित्यसमासः- कृष्णसर्पः, लोहितशालिः । क्वचिद् असमासः- दीर्घश्चारायणः, रामो जामदग्न्यः, व्यासः पाराशर्यः, अर्जुनः कार्तवीर्यः । तथैकाधिकरणत्वात् - कृष्णमदीकृतः, छिन्नप्ररूढः, एकपुरुषः, सर्वान्नम्, जरद्धस्ती, पुराणधान्यम्, नवोदकम्, केवलान्नम् । तथा – पूर्वेषुकामशमी, संज्ञेयम् ।
Page #328
--------------------------------------------------------------------------
________________
२८६
कातन्त्रव्याकरणम्
संख्यापूर्वपदेऽपि - सप्तर्षयः, पञ्चाम्राः । तथा – याज्ञिककितवः । एवं पापकुलालः, अणकनापितः । क्वचिदुपमानभूतं विशेषणम् – शस्त्रीव श्यामा शस्त्रीश्यामा । क्वचिद् उपमानभूतं विशेषणं परं स्यात् - पुरुषो व्याघ्र इव पुरुषव्याघ्रः । एवं पुरुषसिंहः । तथा पूर्वपुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः । एवम् अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । तथा- कृताकृतम्, भुक्तापभुक्तम्, गतप्रत्यागतम्, यातानुयातम्, अशितानशितम्, क्लिष्टाक्लिशितम् । क्रयाक्रयिका, फलाफलिका, पुटापुटिका, मानोन्मानिका तथा सत्पुरुषः, महापुरुषः, परमपुरुषः,उत्तमपुरुषः , पुरुषोत्तम इति विशेषणंवा परं स्यात् । उत्कृष्टपुरुषः । तथा गोवृन्दारकः, गोनागः, अश्वकुञ्जरः, कतरकठः, कतमकठः । किंराजा । इभ्यपोटा, इभ्ययुवतिः । अग्निस्तोक इति विशेषणं परं स्यात् । एवं दधिकतिपयानि, गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत्, गोवष्कयणी, कठप्रवक्ता, कठश्रोत्रियः, कठाध्यापकः, कठधूर्तः । तथा गोप्रकाण्डम्, अश्वमतल्लिका, युवखलतिः, युवखलती, युवपलितः, युवपलिता, युववलिनः, युववलिना, युवजरम्, युवजरती ।तथा भोज्योष्णम्, तुल्यश्वेतः, सदृशश्वेतः, शुक्लकृष्णः, शुक्लशुक्लः, कुमारी च सा श्रमणा चेति कुमारश्रमणा | कुमारप्रव्रजिता | कुमारपण्डितः, कुमारपण्डिता । ___तथा गोगर्भिणी, अजगर्भिणी । तथा मयूर इव व्यंसको मयूरव्यंसकः । मयूरस्येव विगतावंसावस्येति वा विग्रहः । एवं छात्रव्यंसकः, कम्बोज इव मुण्डः कम्बोजमुण्डः । उच्चं च तदवचं चेति उच्चावचम् । एवम् उच्चनीचम् । न किञ्चन अकिञ्चनम् । अस्य वा किञ्चिन्नास्तीत्यकिञ्चनम् । पूर्वश्चासौ कायश्चेति पूर्वकायः । कायैकदेशे कायः । एवम् अपरकायः, अधरकायः, उत्तरकायः, मध्यकायः, मध्यमकायः, मध्याह्नः । अर्धं च तत् पिप्पली चेति अर्धपिप्पली । पिप्पल्यर्धमिति षष्ठीसमासोऽपि दृश्यते हि | चेद्यर्थं दक्षिणं मेरोः । शरार्धम्, चापार्धम्, चुल्लिकार्धमिति । असमप्रविभागेऽपि । न हीदमर्धजरतीयं लभ्यमिति । एवं द्वितीयभिक्षा, भिक्षाद्वितीयः । तृतीयभिक्षा, भिक्षातृतीयः । चतुर्थभिक्षा, भिक्षाचतुर्थः । तुर्यभिक्षा, भिक्षातुर्यः । तुरीयभिक्षा, भिक्षातुरीयः । मासजातः, संवत्सरजात इति बहुव्रीहिणा सिद्धम् । न ब्राह्मणः अब्राह्मणः इति कर्मधारयः । कर्मधारयप्रदेशा:- “कर्मधारयसंज्ञे तु पुंबद्भावो विधीयते" (२।५।२०) इत्येवमादयः ।। ३४२।
Page #329
--------------------------------------------------------------------------
________________
२८७
नामचतुष्टया याये पचमः समासपादः [दु० टी०]
पदे०।अव्युत्पन्न इह तुल्यशब्द एकपर्यायः । अधिकरणमर्थ उच्यते, अधिक्रियते नियुज्यतेऽभिधानाय शब्दोऽस्मिन्निति कृत्वा नीलोत्पलम् इति । इहाविदितविशेषे नीलगुणाधारे द्रव्ये सामान्येन नीलशब्दो वर्तते । उत्पलशब्दोऽप्यविदितगुणे गुणवति द्रव्ये । तत्र नीलसामान्यम् अन्येदेवोत्पलव्यतिरेकेणोत्पलसामान्यमपि नीलगुणनिरपेक्षमेवं यदा विवक्षितं तदा नास्ति सामान्यानाम् इतरेतरोपकार्योपकारकभावलक्षणः संबन्ध इति । कथमयं वृत्तेर्विषयः सामान्यानामसंबन्धात् ? सत्यम् । तौ नीलोत्पलशब्दौ विशिष्ट एव द्रव्ये व्यवस्थितौ प्रयोक्तृभिः स्वसंवेदनेन विदितस्वरूपयोरेतयोस्तत्रैव प्रयुक्तत्वात् । सामान्ये विशेषे चैकपदत्वात् (चैकरूपत्वात्) विशिष्टद्रव्यवाचित्वमेतौ शब्दौ एकैक प्रयोगेऽभिव्यक्तुमसमर्थों, तावेव तुल्याधिकरणभावेन संस्थितौ भेदेन प्रतिपादने परस्परतो व्यवच्छेदमिवाधाय नीलशब्द उत्पलशब्दं विशेषयतीवान्येभ्य उत्पलेभ्यः । उत्पलशब्दोऽपि नीलशब्दं व्यवच्छिनत्तीवान्येभ्यो द्रव्येभ्यः । परमार्थतः पुनरखण्डमेवैतदिति । प्रतिपत्तुर्गुणविषयो द्रव्यविषयश्च | यः संशयस्तमेव तौ शब्दौ व्यपनयत इति । एतयोर्जातिगुणाभिधायिनोभिन्नप्रवृत्तिनिमित्तयोर्भेदबुद्धिमारोप्य भेद्यभेदकभावं प्रतिपद्यन्ते । तथा चाह -
द्रव्येऽविज्ञातजातीये नीलशब्दः प्रवर्तते। अविज्ञातगुणे चैवोत्पलशब्दः प्रवर्तते ॥ सामान्यानामसंबन्धात्तौ विशेष व्यवस्थितौ । रूपाभेदाद् विशेषं तमभिव्यक्तुं न शक्नुतः॥ तावेव सन्निपतितौ भेदेन प्रतिपादने । अवच्छेदमिवाधाय संशयं व्यपकर्षतः॥
(वा० प० ३।१४।९-११) इति । विशेषणविशेष्यभावस्तुल्याधिकरणता च वस्तुतो न संभवति । नीलमुत्पलमिति पञ्च वस्तूनि संनिहितानि - नीलत्वं गुणसामान्यम्, नीलो गुणः, तदाधारो द्रव्यम् इति
Page #330
--------------------------------------------------------------------------
________________
२८८
कातन्त्रव्याकरणम्
त्रीणि । उत्पलत्वं जातिः, द्रव्यं च तदाश्रय इति द्वे । तत्र नीलजात्युत्पलजात्यो स्ति विशेषणविशेष्यभावो निर्गुणत्वात् । गुणकर्मसामान्यविशेषसमवायानां गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्वे इति । नीलत्वस्य च नीलगुणे समवाय उत्पलत्वस्य चोत्पलद्रव्ये इति तुल्याधिकरणत्वमपि नास्ति । उत्पलजातेर्नीलगुणस्य चास्ति तुल्याधिकरणता खल्चेकद्रव्यसमवायाद् विशेषणविशेष्यभावस्तु नास्ति जातेरनीलत्वाद् गुणद्रव्ययोस्तु संभवति विशेषणविशेष्यभावो द्रव्यस्यानेकगुणत्वात् । समानं तु तयोरपरमधिकरणं तृतीयं न विद्यते द्रव्ये गुणस्य समवायात् । नीलद्रव्योत्पलद्रव्ययोरपि न विशेषणविशेष्यभावो नापि तुल्याधिकरणत्वम्, इतरेतराभिसंबन्धाद् इति ।
अन्यस्त्वाह - जातिगुणयोरुत्पलत्वनीलगुणयोरेकस्मिन्नर्थेऽवयविनि उत्पलद्रव्ये समवेतयोः शब्दे जातिगुणयुक्तद्रव्याभिधायिनि नीलोत्पलमिति वृत्तिः । तस्माद् गुणद्रव्ययोर्विशेषणविशेष्यभावो जातिगुणयोरेकाधिकरणत्वात् तद्वाचिनोः पदयोस्तुल्याधिकरणत्वम् उभयोर्जातिगुणोपसर्जने द्रव्ये प्रवृत्तत्वादिति । येषां खलु रूपरसादीनां सत्यप्येकार्थ (प्यनेकार्थ)-समवाये आश्रयो द्रव्यं बीजपूरादि, सोऽयमित्यभिसंबन्धेन रूपरसादिशब्दै भिधीयते इति । रूपं बीजपूरो रसो बीजपूर इति परस्परानुपकारात् ते द्रव्याभिधानमन्तरेणैव केवलानां रूपरसादीनां वाचका द्वन्द्वसमासभाविनो न कर्मधारयसमासयोग्या इति । उक्तं च -
संस्तु रूपरसादीनामाश्रयो नाभिधीयते । द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः॥
(वा० प० ३।१४।२३) इति । किमेतेन वा वस्तुविचारेण, शब्दप्रमाणका हि वैयाकरणाः। यच्छब्द आह स तस्यार्थः । यद्यपि नीलोत्पलाख्यो द्रव्यात्मा बाह्य एकरूपस्तथापि गुणेन नीलेन संसर्गो यस्तभेदात् सोऽपि भिन्न इवोत्पलमिति जातिसंबन्धेन भेदादपरो द्वितीय इव विशिष्टजातीयोऽनवगतगुणो गृह्यते । ततो गुणजात्यभिधानेनैवाभिसंबन्धानानात्वं प्रकल्प्यते। तस्य बाह्यस्य द्रव्यस्यापरा तृतीयावस्था बुद्ध्या गृहीता नीलरूपा जातिगुणाभ्यामसंसृष्टा केवलम् इदं तदिति सर्वनामपदनिर्देश्या विशेषणविशेष्याख्ययोः पदयोराश्रयत्वे तुल्याधिकरणम् इदम् - एतयोरिति भाव्यते स्फोटवदिति यस्यामेतदुभयं संसृज्यते (गृह्यते) नीलं च तदुत्पलं चेति । उक्तं च,
द्रव्यात्मा गुणसंसर्गभेदादात्रीयते पृथक् । जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते ॥
Page #331
--------------------------------------------------------------------------
________________
२८९
नामचतुष्टयाण्याये पचमः समासपादः निमित्तैरभिसंबन्धाद् या निमित्तस्वरूपता। तयैकस्यापि नानात्वं रूपभेदात् प्रकल्प्यते ॥ द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरवस्थयोर्भेदाद् आश्रयत्वेन युज्यते ॥ (वा० प० ३।१४ | १२-१४) इति बुद्धिभेदोऽयं दर्शितः। यथा त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । एवम् अष्टकुलं पर्वतीयमिति ।
बुद्ध्यैक्यं भियते भित्रमेकत्वं चोपगच्छति। बुद्ध्यावस्था विभज्येत सा झर्थस्य विधायिका ॥
___ (वा० प० ३।१४।१५) इति । पदं यथैव वृक्षादिविशिष्टेऽर्थे व्यवस्थितम् ।
नीलोत्पलायपि तथा भागाभ्यां वर्तते विना ॥ (वा०प०३।१४।५३)। 'द्वे पदे' इति वचनाद् इह समास एव वर्तते इत्याह – यत्र समास इत्यादि । 'तक्षकः सर्पः, शिंशपा वृक्षः' इत्यसमास एव । उभयविशेषणविशेष्यभावे हि समासोऽयमभिधानाद् वाक्यमेव समासवादि। न हि तक्षकः सर्पत्वं व्यभिचरति, न च शिंशपा वृक्षत्वमिति । यदा तु तक्ष्णोतीति तक्षकः क्रियार्थः स्यादुपचारात् शिंशपापि फले । तदेतौ विशेष्याविति समास एव । न च आद्ये पक्षे तक्षकस्य सर्पताव्यभिचारात् शिंशपायाश्च वृक्षत्वाव्यभिचारात् सर्पवृक्षयोः प्रयोग एव नास्ति । सामान्याभिधानपूर्वके प्रक्रमे विशेषप्रयोगः । यथा ब्राह्मणमानय गार्यमिति । यदा तु प्रथमं विशिष्टमेव प्रयुज्यते तदा ब्राह्मणशब्दस्य कुतः प्रयोगः, उक्तार्थत्वात् ? सत्यम् । स्वरूपमात्रकथने प्रयोगो दृश्यते । यथा शीतं हिमम् उष्णोऽग्निरिति । तथा 'सर्पस्तक्षकः, वृक्षः शिंशपा' इति । तर्हि विशेषणत्वात् पूर्वनिपातः, 'नागृहीतविशेषणा बुद्धिर्विशेष्ये प्रवर्तते' इति उत्पलनीलम् इत्याद्यपि स्यात् । नैवम्, यद्यपि शब्दद्वारेण गुणस्य विशेष्यतया प्राधान्यं तथाप्यर्थद्वारेण लोके द्रव्यमेव प्रधानमिति । यथा 'शुक्लं पशुमालभेत' इति शुक्लाभावेऽन्यगुणोऽपि पशुर्गृह्यते . न तु विप्टकपिण्डादिः शुक्लगुणयुक्तोऽपि । न हि पिष्टकपिण्डीमालभ्यासौ कृती स्यात् ।
Page #332
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
२९०
ननु चोत्पलशब्दोऽपि नैव द्रव्यशब्दो जातिनिमित्तत्वात्, कथमस्य प्राधान्यम् । अथ जातिमतो द्रव्यस्याभिधानाद् द्रव्यशब्दो नीलशब्देऽपि प्रसङ्गः । सोऽपि हि गुणनिमित्तः सन् नीलगुणयुक्तस्य द्रव्यस्याभिधानाद् द्रव्यशब्दः स्यात् । नैतदेवम्, जातिरुत्पत्तेः प्रभृत्यादिविनाशं न जहाति द्रव्यं जातिनिमित्तोऽप्यविनाभावाद् द्रव्यशब्दः । गुणाः पुनरनपायिनश्चापायिनश्च सत्यपि द्रव्ये निवर्तन्ते इति । न तन्निमित्तशब्दो द्रव्यशब्दः, व्यभिचारादिाते । कथं 'विन्ध्यगिरिमुल्लध्य गतो जयाय न मेरुमहीभृतः, स देवदारुद्रुमवेदिकायाम्' इति ? सत्यम् । यथाभिधानमेव समासः । न चेहोभयविशेषणविशेष्यभाव आदृत इति । अन्यस्तु जल्पति-विन्ध्यादयो मनुष्याख्या अपि सन्तीति न विरुध्यते । अस्तस्य पर्वतः अस्तपर्वतः, उदयस्य गिरिः उदयगिरिरिति मन्यते । कृष्णसर्प इत्यादि । समुदाया एवैते विशिष्टजातिवचना इति वाक्यं न भवति । तथैकाधिकरणत्वादित्यादि । कृष्टश्चासौ मदीकृतश्चेति य एव पूर्वं कृष्टः स एव मटीकृत इति गम्यते ।
पूर्वकालैकसर्वजरत्पुराणनवकेवलानां तुल्याधिकरणे तेनैव समासः सिद्ध इति । पूर्वा चासौ इषुकामशमी चेति । सप्त च ते ऋषयश्चेति विग्रहः । नित्यसमासश्चायं न हि संज्ञा वाक्यं स्यात् । असंज्ञायामपि क्वचित् समासो दृश्यते 'पूर्वपुरुषः' इत्यादौ । क्वचिन्न दृश्यते – 'उन्नरा वृक्षाः, पञ्च ब्राह्मणाः' इति । तस्माद् दिक्संख्ये संज्ञायां समस्येते इत्यनर्थकम् । याज्ञिकश्चासौ कितवश्चेति याज्ञिककितवः । किं तवास्तीति धनमेवापेक्षमाणो द्यूते प्रवर्तते न जात्यादिकम्, तथा अयाज्ययाजने योऽसौ याज्ञिकः स कितव इति । कितवो याज्ञिकश्चात्र विशेषणतयाऽभिधीयते । कितवस्य विशेष्यस्य कथं पूर्वनिपातप्रसङ्ग इति । कुत्सितगची कुत्सितवचनैरेव समस्यतेऽभिधानादिति कुत्स्यन्ते एभिरिति कुत्सनानि । तेन नीलोत्पलवत् समास इति कुत्सितब्राह्मणश्चौरवैयाकरणः । न वैयाकरणत्वं शब्दप्रवृत्तिनिमित्तं ब्राह्मणोऽपि कुत्स्यते चौरोऽपि सम्यग् व्याकरणं देत्ति अधीते वा । किन्तु यस्य तद् वैयाकरणत्वं स कुत्स्यते वैयाकरणत्वं तस्योपलक्षणम् । एवं "पापाणके कुत्सने कुत्सितैः" (अ०२।१।५४) इति प्रवृत्तिनिमित्तमेव कुत्स्यते ।
क्वचिदित्यादि । उपमानभूतम् उपमानरूपम् । 'शस्त्रीव श्यामा' इत्युपमानोपमेयभावोपदर्शनमेतत् । समासवाक्यं तु शस्त्री चासौ श्यामा चेति । यदा शस्त्रीशब्द
Page #333
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२९१ ताद्धाच्छस्त्री धर्मिणि देवदत्तार्थे वर्तते शस्त्रीव शस्त्रीति तदा समासः । श्यामाशब्दसान्निध्यात् (सादृश्यात्) इह श्यामगुणवत्तया देवदत्तोपमीयते न तैक्ष्ण्यादिगुणवत्तया । प्रसिद्धिवशाच्च । यथा चन्द्रमुखीति चन्द्रे गुणाः परिमण्डलादयः सन्ति, तथापि प्रियदर्शनतयैव गम्यते । उपमानानि सामान्यवचनैरेव समस्यन्ते । श्यामस्योभयत्र भावात् तद्वाचकश्च श्यामशब्दः सामान्यवचन इति प्रसिद्धः । तथा चोक्तम् –
वृत्तौ विशेषवाचित्वं भेदे सामान्यवाचिता। उपमानसमासादौ श्यामादीनामुदाहृता॥
(वा० ५० ३।१४।३७) इति । फाला इव तण्डुला इत्ति समासो न स्यात् । फालवदीर्घास्तण्डुला इति जातिवचना इति । पुरुषव्याघ्र इति पूर्ववद् व्याख्यानम् । व्याघ्र इव व्याघ्र इत्यादि । पुरुषव्याघ्र इव शूर इति सापेक्षत्वादसमास इति उपमितमुपमानैः समस्यते यथेष्टमिति किमुपमितं व्याघ्रादिभिः सामान्याप्रयोग इति वचनेन । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरास्तुल्याधिकरणेन समस्यन्ते तेनैव । श्रेण्यादयश्च्व्यर्थवृत्तयः कृतादिभिः समस्यन्ते, तेनैवाभिधानात् । श्रेणिपूगकूटराशिनिचयनिधामेन्द्र (निधनेन्द्र) देवमुण्डभूतश्रमणचपलनिपुणाः। अन्येऽपि श्रेण्यादयः प्रयोगगम्याः । कृतमितमतभूतभक्तसमाज्ञातसमाम्नातसमाख्यातसंभावितावधारिताविकल्पितनिराकृतोपाकृताः । अन्येऽपि कृतादयः प्रयोगगम्याः इत्यभिधानमेवाश्रयः। च्च्यन्तानां नु नित्यसमास एव। श्रेणीकृता इति। यदा तु श्रेणयः कृताः दण्डीकृताः (दण्डिताः) इति तदानीं नीलोत्पलवत् समासेन भाव्यमेव । अनेकार्थत्वात् करोतेर्दण्डादिषु वृत्तिः। कृताकृतमित्यादि । एकस्यावयवधर्मेण समुदायस्य व्यपदेशात् कृताकृतत्वं कृतभागसंबन्धात् कृतम् अकृतभागसंबन्धाच्च तदेवाकृतम्। यदर्थं वा कृतं तत्रासमर्थत्वात् तदेवाकृतम्। यथा पुत्रकार्याक्षमत्वात् पुत्रोऽप्यपुत्र इति । अत्रोत्तरपदस्य क्तान्तस्य नजैव विशेषण इति समासः। किं "क्तेन नविशिष्टेनानञ्" इत्युक्तेन । यथा कृतं च तदकृतं चेति कृताकृतम्। एकदेशस्येष्टस्य करणादनिष्टस्य चैकदेशस्याकरणाादिति।
एवं 'भुक्तापभुक्तम्, भुक्तविभुक्तम्' इत्यपि भवति ! विशब्दोऽत्राशोभनत्वं द्योतयति। अथ वा भुक्तं च तदेकदेशस्याभ्यवहृतत्वाद्, विभुक्तं च तदेकदेशस्य विशेषेणाभ्यव
Page #334
--------------------------------------------------------------------------
________________
२९२
कातन्त्रव्याकरणम्
हृतत्वात्। एवं गतं च तत् प्रत्यागतं चेति क्रियानुबन्धरूपत्वात् । यातं च तत् पूर्वम् अनुयातं च पश्चात्। अशितं च तदभ्यवहृतत्वाद् अनशितं च अशितकार्याकरणात् कुत्सिताद् वा। एवं क्लिष्टाक्लिशितम् इति । क़याक्रयिका इति। महान् यः स क्रयः, स्वल्पा च क्रयिका । क्रयावयवसंबन्धाच्च क्रयः क्रयिकावयवाच्च क्रयिका। क्रयश्चासौ समुदायः क्रयिका चेति विग्रहे हस्वस्य दीर्घता। एवं फलाफलिकेत्यादि! सत्पुरुष इत्यादि। पुरुषोत्तम इति । 'विशेषणं वा परम्' इति वाशब्देन पक्षद्वयं सूचयति - पुरुषेषूत्तम इति वा सप्तमीसमासः। ‘महाजनः, महोदधिः' इत्युत्तरपदस्य प्रमाणातिरेकिता तस्मात् "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः" (अ० २।१।६१) समस्यन्ते इत्यनर्थकम्। कथमुत्कृष्टो गौः, कर्दमाद् उद्धृत इत्यर्थः। ‘उत्कृष्टगवः' इति समासे पूज्यमानताया एवाभिधानात् प्रतीतिर्नोद्धृतत्वस्येति भावः। गोवृन्दारकादीनामप्यभिधानाद् विशेषणं परं भवति । वृन्दारकनागकुञ्जरैरुपमानतया पूजावचनैर्जातिवचनस्य समास इति नाद्रियते । वृन्दमस्यास्तीति वृन्दारकः। सुषीमो नाग इति | संज्ञायाम् असमास एवाभिधानात् ।
देवदत्तो नागोऽस्मान्मुख्यादिति सापेक्षत्वादसमासः, अभिधानात्। कतरकतमौ जातिपरिप्रश्नवृत्ती समस्येते। कतरो देवदत्तो भवतोः । कतमो देवदत्तो भवतामिति वाक्यमेव । कुत्सितो राजा किंराजा यो न रक्षति प्रजाः । “किं क्षेपे" (अ० २।१।६४) इति नाद्रियते! क्षेपादन्यत्र को राजा पाटलिपुत्रे, सापेक्षत्वादसमासः। ईषद्गुणवचनेन तेनैव समस्यते। ईषत्पिङ्गलस्तद्धिते समासान्तरे च फलम्। ईषपिङ्गलः, ईषत्पिङ्गलपुत्रः। उभयव्यज्जिका पोटा, इभ्या चासौ पोटा चेति इभ्यपोटेत्यादि । गृष्टिरेकवारप्रसूता धेनुः प्रत्यग्रप्रसवा | वशा बन्ध्या । वेहद् गर्भोपघातिनी। बष्कयणी तरुणवत्सा । पोटा युवतिः। “स्तोककतिपयगृष्टिवशावेहबष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तेर्जातिः” (अ० २।१।६५) समस्यते इति नाद्रियते। अजातिवचनस्य तु नीलोत्पलवत् समासः, धूर्तदेवदत्तः। प्रवक्तृदेवदत्तः । एवं दधिकतिपयादीनामपि अविशेषणस्यैव परत्वमभिधानादिति भावः। एवं जातिः प्रशंसावचनैश्च रूढिप्रकारैर्नियतलिङ्गसंख्याकैः प्रकाण्डमतल्लिकामचर्चिकादिभिः समस्यते इति । गौश्चासौ प्रकाण्डं चेति गोप्रकाण्डम् । प्रशस्ता गौश्चासौ प्रकाण्डं चेति गोप्रकाण्डम् । प्रशस्ता गौरुच्यते । एवं लिङ्गविशिष्टोऽपि युवा खलतिपलितवलिनजरद्भिः समस्यते पुंवद्भावश्च तुल्याधिकरणत्वात् ।
Page #335
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये पनमः समासपादः
२९३ परस्त्वाह-जरतीशब्देन समासवचनात् कथं युवजरन्निति भाष्ये चानुदाहृतत्वात् सन्देह इति। पदकारेण पुनरेतन्निश्चितमेव। "कृत्यतुल्याख्या अजात्या" (अ०२।१।६८) समस्यन्तेऽभिधानात्। भोज्योष्णम् इत्यादि। यद्यपि परार्थे प्रयुज्यमानाः शब्दाः सादृश्यं गमयन्ति तथापि तत्र नाभिधानम्। जात्या तु 'भोज्य ओदनः' इति वाक्यमेव । विशेषवर्णवाची वर्णविशेषवाचिना तेनैव समस्यत इति शुक्लावयवसम्बन्धात् समुदायोऽपि शुक्लः कृष्णावयवत्वात् कृष्णः शुक्लश्चासौ समुदायः कृष्णश्चेति विग्रहः। यदा (शुक्लगुणयोगात् ) शुक्लरूप उच्यते पुनः स एव शुक्लत्वेन विशिष्यते तदा शुक्लशुक्ल इति भवत्येव । अतिशयशुक्ल इत्यर्थः । कुमार्याः श्रमणादिभिस्तथैव समासः। श्रमणा प्रव्रजिता 'कुलटा,गर्भिणी, तापसी, बन्धकी, दासी' एतैः स्त्रीलिङ्गैः समस्यते। 'अध्यापक (अध्यायक)-अभिरूप-पटु मृदु-पण्डित-कुशल-चपल-निपुण' एतैरुभयलिङ्गा इयन्त एव रूढाः। चतुष्पाज्जातिवचनस्य गर्भिण्या तेनैव समासः। अजा चासौ गर्भिणी चेति अजगर्भिणी ।पुंवद्भावो भवत्येव ।अजातिवचनस्य नाभिधानम् ।काणाक्षी गर्भिणी चतुष्पादोऽन्यत्र ब्राह्मणी गर्भिणी | मयूरव्यंसकादीनां युक्तित एवं सिद्धिरित्याह-मयूर इवेत्यादि । उच्चावचादीनि च प्रकृत्यन्तराण्येव ।आचोपचादीनि पृषोदरादिषु द्रष्टव्यानि। आचितं चोपचितं चेति विगृह्य आचोपचम् इति निपातनम्। आचितं च पराचितं च आचपराचम् । निचितं च प्रचितं च निश्चप्रचम् एहिवाणिजादयोऽन्यपदार्थे इष्यन्ते । एवमर्शआदित्वात् सिध्यन्तीति । एहिवाणिजम् अत्रारतीति एहिवाणिजा किया। एवम् 'अपेहिवाणिजा, एहिस्वागता, अपेहिस्वागता' इत्यादयोऽप्यनुसतव्या इति।
एवं क्रियाद्वयेनापि - अश्नीत पिबतेति नियोगो यस्यां सा अश्नीतपिबत। क्रिया | एवं पचतभृज्जता खादतमोदता, हसतजल्पतेत्यादि । तथा च अश्नीतपिबतीयन्तीत्यादि ।] पूर्वापराधरोत्तराणामेकदेशवाचिना तुल्याधिकरणेन समासः इति अन्यो ब्रूते तदयुक्तमित्याह-पूर्वश्चासावित्यादि । समुदायवचनोऽयं कायशब्दः । पूर्वादयोऽप्येकदेशवचना वैयधिकरण्यात् कथं कर्मधारय इत्याह-कायेत्यादि । समुदाये प्रवृत्ताःशब्दा अवयवेऽपि वर्तन्ते । यथा तैलं भुक्तम्, घृतं भुक्तम्, शुक्लः, नील इति तैलायेकदेशे तैलादिशब्दस्तद्वदयमपीति भावः । तर्हि कायस्य पूर्वमिति कथन्न षष्ठीसमासः स्यात् ? सत्यम् । सापेक्षत्वात् कायस्य पूर्वं किं तदूर्ध्वमिति । अथ प्रधानस्य सापेक्षस्यापि समासो दृश्यते । अत्र च प्रधानं सापेक्षमिति चेत्, न । अत्राभिधानसामर्थ्यभस्त्यगमकत्वात् । समप्रविभागवृत्त्यर्थं नपुंसकं तथैव तुल्याधिकरणमित्याह - अर्धं च तदित्यादि । नपुंसकादन्यत्र ग्रामाझे नगरार्द्ध इत्येव यथा स्यादिति चेत् तदयुक्तम् इत्याह - असमेत्यादि ।अर्धश्चासौ
Page #336
--------------------------------------------------------------------------
________________
२९४
कातन्त्रव्याकरणम्
जरती चेति अर्धजरती, तत्र भवम् अर्धजरतीयम् अभिधानादीयो दृश्यते । द्वितीयतृतीयचतुर्थतुर्याणां षष्ठीसमासोऽप्यभिधीयते इति पक्षान्तरं क्रमेणाह-द्वितीयेत्यादि । पूरणेनापि समासोऽभिधानाच्चतुरो यदीयौ च लोपश्च दृश्यते । तुरीयशब्देनापि समासोऽयमिति परसूत्रस्य न्यूनतां दर्शयति । परिमाणिना षष्ठ्यन्तेन परिमाणानां कालानां प्रथमान्तानां समास इष्यतेऽन्यैः स इह बहुव्रीहिणा सिद्ध इत्याह-मासजात इत्यादि । यस्य जातादेर्मासः परिमाणं तस्य मासो जातः सम्पन्न इत्यर्थः । अन्यथा मासः कथं परिमाणमिति नार्थो भिद्यते । अथ जातशब्दस्य क्तान्तत्वाद् बहुव्रीहौ पूर्वनिपातः स्यादिति जातो मासोऽस्य जातमासः ? नैवम्, जातिकालसुखा-दिभ्यस्तु क्तान्तस्य परनिपातः एवाभिधानात् । षष्ठीसमासोऽपि विशेषणानर्थक्यान्न भवति । यत्र व्यवछेद्यव्यवच्छेदकत्वं तत्र षष्ठीसमासः । यथा राजपुरुष इति । न चात्र मासपरिमाणिनो जातस्य मासं त्यक्त्वा परिमाणान्तरेण संबन्धो नापि समासः परिमाणिनं त्यक्त्वा मासस्य परिमाणस्यान्येन संबन्ध्यन्तरेण संभवति । स्वरूपानुवादकन्तु वाक्यमिहेति । अब्राह्मण इत्यादि, न च वक्तव्यम्
सतां न च निषेधोऽस्तु सोऽसत्सु च न वियते।
जगत्यनेन न्यायेन नर्थः प्रलयं गतः॥ नत्रयं पर्युदासवृत्तिः प्रसज्यप्रतिषेधवृत्तिश्च । तत्राद्ये पक्षे ब्राह्मणादन्योऽब्राह्मणत्वेनाध्यासितः । क्षत्रियादिः ब्राह्मणसदृश एवाब्राह्मण इत्युक्ते प्रतीयते, द्वितीये तु पक्षे नञा भ्रान्तिनिमित्तेन केनचित् क्षत्रियादौ ब्राह्मण इति प्रवृत्तस्य मिथ्याज्ञाननिवृत्तिः क्रियते ब्राह्मणोऽयं न भवति अब्राह्मण इति ब्राह्मणत्वेनाध्यासितो न स्यादित्यर्थः । तत्र सादृश्याद् ऋते मिथ्याज्ञानासम्भवात् प्रयोगसामर्थ्याच्च सदृशप्रतिपत्तिः, तद्गते च लिङ्गसंख्ये भवत इत्याह – 'नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः' इति । तदेवं पक्षद्वयेऽपि पूर्वार्थप्राधान्यम् । समासस्तु तनैव तुल्याधिकरणत्वाच्चायं कर्मधारयः । भिन्नाधिकरणे त्वव्ययीभावः स्याद् यस्य पुनरुत्तरपदार्थप्रधानस्तत्पुरुष इति दर्शनम् । न स नञ एवार्थः खल्वभावसमासार्थः इति प्रतिपद्यते । नात्र नञा परपदार्थस्य कीलप्रतिकीलन्यायेन निवृत्तिः क्रियतेऽशक्यत्वात् । यद्येतन्नञः सामर्थ्यं स्यात् तदा न कदाचिद् राजानो हस्त्यश्वादीन् बिभृयुः । न मे शत्रव इत्येवं ब्रूयुः । तस्मात् स्वाभाविकी निवृत्तिननिमित्तादुपलब्धिरिति । उक्तं च -
Page #337
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
प्राक् समासात् पदार्थानां निवृत्तिर्योत्यते नत्रा । स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ॥
प्राधान्येनाश्रिता पूर्वं श्रुतेः सामान्यवृत्तयः । विशेष एव प्रक्रान्ताः ब्राह्मणक्षत्रियादयः ॥ यथा गौरादिभिस्तेषामवच्छेदो विधीयते । असताप्यनभिव्यक्तं तादर्थं व्यज्यते नञा ॥
२९५
( वा० प० ३ | १४ |२५२,२६१-६२) । असतापि नञा तादर्थ्यमसदर्थत्वं व्यज्यते इत्यर्थः । अथवा समुदाये जातिशब्दः प्रवृत्तोऽवयवेऽपि वर्तते । जातिहीने गुणहीने चेति । तत्र,
तपः श्रुतं च योनिश्च एतद् ब्राह्मणकारणम् । तपः श्रुताभ्यां यो हीनो जात्या ब्राह्मण एव सः ॥ (मभार० - अनु० १२१ । ७) ।
जात्यादिगुणसमुदायवाची ब्राह्मणशब्दः । तथा च पुराकल्पे ब्राह्मणस्य गुणाः = गौरः, शुद्धाचारः, पिङ्गलः, कपिलवेशः इति । जातिहीने सन्देहतो दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते । कुतश्चिन्निमित्तादभावेऽवगते प्रयुङ्क्ते नायं ब्राह्मणः, अपि तु अब्राह्मण इति, ब्राह्मणजातिरहिते क्षत्रियादौ प्रत्ययः । अत्र ब्राह्मणस्तिष्ठति, तमानयेति । तत्र प्रदेशे यमेव पश्यति स एव ब्राह्मण इत्यवसाय स्वयमेवासाधारणं ब्राह्मणविरोधि कार्यं दृष्ट्वा निश्चिनोति - 'अब्राह्मणोऽयम्' इति । गुणहीने अब्राह्मणोऽयं यस्तिष्ठन् मूत्रयति गच्छन् भक्षयतीति । उक्तं च,
अनेकधर्मवचनैः शब्दैः संघाभिधायिभिः ।
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥ ( वा० प०३ | १४ | २६६)
इति ब्राह्मणादिशब्दैस्तुल्यरूपाः केवलं परमार्थतः पुनरन्य एव । तत्रैकदेशवाचित्वं ब्राह्मणादिशब्दानां नञा द्योत्यते इति स्यात् परपदप्रधानता । अत्र पक्षे 'सर्वस्मै' इत्यन्यार्थे सर्वनामत्वम् । ‘अवर्षा हेमन्ते' इत्यादौ स्वभावाल्लिङ्गवचनानि इत्यवाच्यम् । वाक्यसमासवादोऽयम् । उक्तं च,
Page #338
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् शब्दान्तरेऽपि चैकत्वमुपाश्रित्य विचारिणा। अब्राह्मणादिषु नञः प्रयोगो न बिहन्यते ॥
(वा० ५० ३।१४।२५१) । वृत्तिशब्दान्तरमन्वाख्यानसमयेऽप्येकत्वमुपाश्रित्य परपदार्थप्रधान इति विचारणा । स्वभावात् पुनः समुदायः क्षत्रियाद्यभिधायीति । एवं च सर्वत्र पक्षे वाक्येऽप्येकत्वाध्यारोपाद् अनेकमित्येकवचनम् । बहुत्वं त्वयातमेव प्रतीयते । कथमेतत्, 'कयं न्चमी सन्ततमस्य सायका भवन्त्यनेके जलरिवोर्मयः' इति । अथ न विद्यते एकमेषामिति बहुव्रीहिः । तदोपसर्जनत्वादिकारो न स्यात् । एकशब्दोऽयमन्यार्थ इति वाक्यार्थो न घटते । तस्मात् प्रमादपाठ एव । असंबद्धै (असमर्थे)- रपि कश्चित् समासो दृश्यते । सूर्य न पश्यन्ति असूर्यम्पश्यानि मुखानि । न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः। श्राद्धं न भुङ्क्ते अश्राद्धभोजी | सत्यपि गमकत्वेनाभिधीयते समासः । यथा किञ्चिन्न कुर्वाणं मासं न हरमाणं गवां नोत्सृष्टमिति अकिञ्चित्कुर्वाणम्, अमांसहरमाणम्, अगवोत्सृष्टमिति करोत्यादिभिरेव नञः संबन्धाद् एवम् उदाहरणभूयस्त्वमुपवर्णितमिह प्रपञ्चार्थमेवेति ।।३४२ ।
[वि० प०]
पदे० । इह तुल्यशब्दोऽव्युत्पन्न एकपर्यायः । यथा-देवदत्तयज्ञदत्तयोस्तुल्या माता एका मातेत्यर्थः । न पुनस्तुलया संमितं तुल्यम्, तदर्थस्याघटनाद् इति । अधिक्रियते नियुज्यते शब्दोऽस्मिन्नभिधानायेत्यधिकरणमर्थः ।तुल्यम् अधिकरणं ययोरिति विग्रहः । नीलोत्पलमिति । नीलं विशेषणम्, उत्पलं विशेष्यम् । अनयोर्विशेषणविशेष्ययोर्व्यवच्छेद्यव्यवच्छेदकभावेनैकस्मिन्नर्थे प्रयोक्तृभिः प्रयुक्तयोस्तुल्याधिकरणत्वमस्तीति कर्मधारयो भवति । [तथेति] – “पूर्वकालैकसर्वजरत्सुराणनवकेवलाः समानाधिकरणेन" (अ० २।९।४९) इति न वक्तव्यम् । युक्तार्थत्वात् पूर्वेणैव समासस्यं सिद्धत्वात् तुल्याधिकरणत्वाच्चानेन कर्मधारयसंज्ञा इत्याह-तथैकाधिकरणत्वादिति । तत्र पूर्वकाले कृष्टमदीकृतः, छिन्नप्ररूढ इति । य एव पूर्वं कृष्टः स एव मदीकृतः । ततः कृष्टश्चासौ मदीकृतश्चेति विग्रहः । एवं छिन्नप्ररूढ इति ।एवं “दिक्संख्ये संज्ञायाम्" (अ०२।१।५०) इत्यपि न वक्तव्यम् । तथैव सिद्धत्वादित्युदाहरति ‘पूर्वेषुकामशमी' इति । पूर्वा चासौ
Page #339
--------------------------------------------------------------------------
________________
नामचतुष्टयान्याये पनमः समासपादः
२९७ इषुकामशमी चेति विग्रहः । संज्ञेयमिति प्राच्यदेशे ग्रामोऽयम् । संख्यापूर्वपदेऽपीति संज्ञायामेव नित्यसमासश्चायं नहि वाक्येन संज्ञा गम्यते । वाक्यं तु सुखार्थमुपदिश्यते । अथान्तरेणैतद् वचनम् ‘उत्तरा वृक्षाः, पञ्च ब्राह्मणाः' इत्यसंज्ञायामपि कथं न भवति । यद्येवं सत्यपि वचने कथं पूर्वपुरुष इत्यादावसंज्ञायां समास इति । अभिधानादिति चेत् तदेवास्तु किं विशेषवचनेन तस्य व्यभिचारात् । अभिधानादेव क्वचिन्न भविष्यति । तथेत्यादि । तुल्याधिकरणत्वादित्यर्थः ।
कितवो द्यूतकारः स हि किन्तवास्तीति धनमेवापेक्षमाणो द्यूते प्रवर्तते न जात्यादिकम्, तद्वद् अयाज्ययाजनेऽपि प्रवर्तमानः कितव इव कितवः । ततो याज्ञिकश्चासौ कितवश्चेति तुल्याधिकरणत्वमस्ति न चात्र याज्ञिकशब्दस्य परनिपातप्रसङ्गश्चोदनीयः, तस्य विशेषणतयाऽभिधीयमानत्वात् कः कितवो याज्ञिक इत्यर्थः । "कुत्सितानि कुत्सनैरेव" (अ० २।१।५३) समस्यन्तेऽभिधानादिति । तथा "पापाणके कुत्सितैः" (अ० २।१।५४) इत्यपि न वक्तव्यम् इत्याह - एवमिति क्वचिदित्यादि। क्वचिद् इत्यनेन लक्ष्यानुरोधं सूचयति ।तेन "उपमानानि सामान्यवचनैरेव" (अ० २।१।५५) समस्यन्ते इति न वक्तव्यम् । शस्त्रीव श्यामेति । नेदं समासयोग्यं वाक्यं त्रिपदत्वाद् भिन्नाधिकरणत्वाच्च । किन्तूपमानोपमेयभावकथनं दर्शितम् । यथा तु शस्त्रीशब्दः श्यामगुणसाधात् स्त्रियां वर्तते शस्त्रीव शस्त्री तदा शस्त्री चासौ श्यामा चेति वाक्यम् । इह श्यामगुणस्योभयनिष्ठत्वात्तद्वाचकः श्यामशब्दः सामान्यवचन इति जातिवचनैर्न भवति । फाला इव तण्डुला इति । तथा "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (अ० २।१।५६) इत्यपि न वक्तव्यम् इत्याह - क्वचिदित्यादि । नेह विशेषणं पूर्वमिति सूत्रमुक्तम् । अपि तु 'नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते' इति बुद्धिरेव तथेत्युक्तम् । सा पुनरन्यथैव क्वचिद् गमिकेति गमकत्वाद् विशेषणं परं स्यात् । ___अथवा पूर्ववद् व्याघ्रादय एव विशेष्यतयाभिधीयन्ते । पुरुषश्चासौ व्याघ्रश्चेति विग्रहः । पुरुषो व्याघ्र इवेत्युपमानोपमेयभावप्रदर्शनमेतत् । एवमन्यदपि । न चात्र व्याघ्रादिगणकृतविशेषोऽस्ति । व्याघ्रादिभिरन्यैश्च समासोऽभिधीयत एव । यदाह जयादित्यः-आकृतिगणश्चायमिति । तस्मादभिधानमेव युक्तम् । यदपि सामान्याप्रयोग इति किं पुरुषो व्याघ्र इव शूरः इति, अत्रापि शूरादिपदापेक्षत्वादसामर्थ्यमिति कुतः प्राप्तिः । एवम् “पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च" (अ०२।१।५८) इति
Page #340
--------------------------------------------------------------------------
________________
२९८
कातन्त्रव्याकरणम् न वक्तव्यम्, नीलोत्पलवत् पूर्वेणैव सिद्धत्वादित्याह - तथेति । एवमिति च्व्यर्थवृत्तयः "श्रेण्यादयश्च कृतादिभिः" (अ० २।१।५९) तेनैव समस्यन्तेऽभिधानात् । तथाहि श्रेण्यादयः कृतादयश्चाकृतिगणत्वाद् गणपरिपठिता अपि अभिधानाद् वेदितव्याः इत्यभिधानमेवाश्रयः । च्व्यन्तानां तु नित्यसमास एव श्रेणीकृता इति । तथेति । "क्तेन नविशिष्टेनानञ्" (अ० २।१।६०) इति न वक्तव्यम् इत्यर्थः । कृताकृतमिति | कृतं च तदकृतं चेति विग्रहः । कृतावयवसंबन्धात् कृतम् । अकृतावयवसंबन्धादेवाकृतमिति तुल्याधिकरणता । भवति हि अवयवधर्मेण समुदायव्यपदेशः । यथा ‘काणो देवदत्तः, कुब्जो देवदत्तः' इति । अथवा यदर्थं कृतं तत्रासमर्थत्वात् तदेवाकृतम् | यथा पुत्रकार्याक्षमत्वात् पुत्रोऽप्यपुत्र उच्यते लोके । तथा "भुक्तापभुक्तादीनामुपसंख्यानम्" इत्यपि न वक्तव्यम् इत्युपलक्षणमाह - भुक्तापभुक्तमित्यादि । एकदेशस्येष्टस्य भुक्तत्वाद् भुक्तम्, अनिष्टस्य चैकदेशस्यापभुक्तत्वात् तदेवापभुक्तमिति । भुक्तं च तदभुक्तं चेति विग्रहः।
एवं गतं च तत् प्रत्यागतं चेति । गतं च तत् पूर्वम् अनुगतं चेति पश्चादिति क्रियाप्रतिबन्धरूपत्वात् । अशितं च तद् अभ्यवहृतत्वाद् अनशितं च तदशितकार्याकरणात् कुत्सितत्वाद् वा । क्लिष्टं च तद् दुःखहेतुत्वाद् अक्लिशितं च तत् सफलत्वात् । महान् यः स क्रय उच्यते । स्वल्पा च क्रयिका, क्रयावयवसंबन्धात् क्रयः, क्रयिकावयवसंबन्धाच्च स एव समुदायः क्रयिका । तथा क्रयश्चासौ क्रयिका चेति विग्रहे ह्रस्वस्य दीर्घता | तथा फलाफलिकेत्यादि । तथा "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः" (अ० २।१।६१) इत्यपि न वक्तव्यम् । पूर्वेणैव सिद्धत्वाद् इत्युदाहरति सत्पुरुष इत्यादि । तथान्तरेणैतद् वचनम् ‘उत्कृष्टो गौः कर्दमाद् उद्धृतः' इत्यत्र कथन्न भवति ? सत्यम् । इहाप्युत्कृष्टगव इति भवत्येव समासे केवलं पूज्यमा तैवाभिधीयते नोद्धृतत्वम् । किञ्च पूज्यमानतामन्तरेणापि समासो दृश्यते । यथा 'महाजनः, महोदधिः' । न ह्यत्रोत्तरपदस्य पूजा गम्यते । अपि तु प्रमाणातिशयः । अभिधानात् क्वचिद् विशेषणं परं स्यादित्याह – पुरुषोत्तम इत्यादि । पुरुषेषूत्तम इति सप्तमीसमासो वेति वाशब्देन सूच्यते । तदा वृन्दारकादीनामुपमानतया पूजावचनानां विशेषणत्वेऽपि परत्वम् अभिधानाद् इत्याह – गोवृन्दारक इत्यादि । गौश्चासौ वृन्दारकश्चेति गोवृन्दारकः, प्रशस्ता गौरित्यर्थः । तेन "वृन्दारकनागकुजरेः पूज्यमानम्" (अ० २।१।६२) इति नाद्रियते ।
Page #341
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
यदप्युक्तम् – पूज्यमानमिति किम्, सुषीमो नाग इति । इहापि संज्ञायाम् अभिधानमेव समासस्येति ।‘कतरकठः, ,कतमकठः' इति, अभिधानात्, “कतरकतमौ जातिपरिप्रश्ने” (अ० २।१।६३) समस्येते, अन्यत्र न भवति । भवतोर्मध्ये कतरो देवदत्तः, कतमो देवदत्तो भवतामिति । किंराजेति, कुत्सितो राजा । किं राजा यो न रक्षति प्रजा इति क्षेपो गम्यते । समासान्तविधेरनित्यत्वात् किमः क्षेपेऽदन्तता नास्ति । 'को राजा पाटलिपुत्रे' इति क्षेत्रादन्यत्र न भवति, सापेक्षत्वात् । तस्मात् " किमः क्षेपे" (अ० ४ / ५ / ७० ) इति न वक्तव्यम् ।
२९९
इभ्यपोटेत्यादि । इभमर्हतीत्यर्थे दण्डादिभ्यो यप्रत्ययो दृश्यते । इभ्या चासौ पोटा चेति विग्रहः । पोटा उभयव्यञ्जिका । एवमिति । दधिकतिपयादीनां विशेषणं परमित्यर्थः । गृष्टिरेकवारप्रसूता धेनुः प्रत्यग्रप्रसूता | वशा बन्ध्या । वेहद् गर्भोपघातिनी । बष्कयणी तरुणवत्सा । पोटादिभिः पूर्वेणैव जातिः समस्यते इति । " पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तेर्जातिः" (अ० २ ।१ । ६५) इत्यपि न वक्तव्यम् । अजातिवचनस्य तु न भवति, अनभिधानात् । देवदत्तप्रवक्तेति प्रवक्तृदेवदत्त इति नीलोत्पलवद् भवत्येव । एवं प्रशंसावचनैश्च रूढैर्नियतलिङ्गसंख्याकैः प्रकाण्डादिभिर्जातिः समस्यते इति दर्शयति । 'गोप्रकाण्डम्, अश्वमतल्लिका' इति । गौश्चासौ प्रकाण्डं चेति, अश्वश्चासौ मतल्लिका चेति विग्रहः । तथा स्त्रीलिङ्गोऽपि युवन्शब्दः' खलतिपलितबलिनजरद्भिः समस्यते इत्यपि न वक्तव्यम् इत्याह-युवखलतिरित्यादि । युवा चासौ खलतिश्चेति विग्रहः । एवं युवतिश्चासौ खलती चेति विग्रहे “पुंबद् भाषित०” (अ० ६ | ३ | ३४ ) इत्यादिना पुंवद्भावे “ यूनस्तिः " ( अ० ४ | १।७७) इति युवन् शब्दात् स्त्रियां विहितस्तिप्रत्ययो निवर्तते । एवमन्यत्रापि वेदितव्यम् । तथा “कृत्यतुल्याख्या अजात्या” (अ० २ । १ । ६८) समस्यन्ते, अभिधानाद् इत्याह-भोज्योष्णम् इत्यादि । जात्या तु 'भोज्य ओदनः' इति वाक्यमेव । तथा " वर्णो वर्णेन" (अ० २।१।६९) इति न वक्तव्यम्, पूर्वेणैव सिद्धत्वाद् इत्याह- शुक्लकृष्ण इत्यादि । अवयवधर्मेण समुदायो व्यपदिश्यते । शुक्लावयवसंबन्धात् शुक्लः, कृष्णावयवसंबन्धात् स एव समुदायः कृष्ण इति । तुल्याधिकरणत्वात् शुक्लश्चासौ कृष्णश्चेति विग्रह: ।
१. युवा खलतिपलितवलिनजरतीभिः (ऊ० २।१।६७) ।
Page #342
--------------------------------------------------------------------------
________________
३००
कातन्वष्याकरणम्
यदाह जयादित्यः- अवयवधर्मेण (द्वारेण) कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवतीति । शुक्लशुक्ल इति अतिशयशुक्ल इत्यर्थः । कुमारी चेत्यादि । तुल्याधिकरणत्वात् पूर्वणैव समासो यथासंभवं पुंवद्भावश्चेति । “कुमारः श्रमणादिभिः" (अ० २।१।७०) इत्यपि न वक्तव्यम् । चतुष्पादो गर्भिण्या समस्यते, अभिधानादित्याह - 'गोगर्भिणी' इत्यादि । अन्यत्र न भवति - ब्राह्मणी गर्भिणी | जातिवचनस्यैवेष्यते, तेन काणाक्षी गर्भिणी, काणे अक्षिणी यस्या इति विगृह्य "सक्थ्यक्षिणी स्वा३" (२।६।४१५०) इति राजादित्वाद् अत् । ततः स्त्रियामीप्रत्ययः । मयूर इवेत्यादि । विगतावंसावस्येति व्यंसकः । मयूर इव मयूरः, ततो मयूरश्चासौ व्यंसकश्चेति विग्रहः । अथवा नेहादृतः स्वरविशेष इति बहुव्रीहिणापि सिध्यति इत्याह - मयूरस्यैवेत्यादि । तेन "मयूरव्यंसकादयश्च" (अ० २।१।७२) इति न वक्तव्यम् । पूर्वश्चासावित्यादि । ननु कथमत्र सामानाधिकरण्यम्, यावता पूर्वादिशब्दः एकदेशवचनः कायशब्दश्चैकदेशिवचनः । ततः षष्ठीसमासः प्राप्नोति । पूर्वापराधरोत्तरोत्तमान्येकदेशिनैकाधिकरणेनेति न वक्तव्यम् इत्याह – कायैकदेशे काय इति ।
यथा ‘ग्रामो दग्धः, पटो दग्धः' ग्रामाद्येकदेशे ग्रामादिशब्दस्तद्वदिहापीति भावः । अथ षष्ठीसमासापवादवचनमन्तरेण कायस्य पूर्वमित्यत्र षष्ठीसमासः कथन्न स्यात् । कायस्य पूर्व किं तदूर्ध्वमिति पूर्वशब्दस्य सापेक्षत्वाद् इत्यपि वक्तुं न युज्यते, प्रधानसापेक्षत्वेऽपि समासस्य दर्शनात् । यथा 'राजपुरुषः शोभनः' इति ? सत्यम्, तथाप्यनभिधानादेव न भविष्यति । मध्यकाय इत्यादिना सर्वस्यैकदेशवचनस्य समासं दर्शयन् परसूत्रस्य विशेषविधानमनर्थकमिति सूचयति । मध्याह्न इति । मध्यं च तद् अहश्चेति विगृह्य राजादित्वात् "नस्तु क्वचित्" (२।६।४५) इति नलोपो न भवति, तत्र क्वचिद्ग्रहणात् । समप्रविभागवृत्तिरर्द्धशब्दो नपुंसकलिङ्गः पूर्वेणैव समस्यते । तथा एकाधिकरणत्वाच्च कर्मधारयः । ततः "अर्थ नपुंसकम्" (अ० २।२।२) इति न वक्तव्यम् इत्याह - अर्धं च तदित्यादि । अत्रापि पिप्पल्येकदेशे पिप्पलीशब्दः । अथान्तरेणैतद् वचनं षष्ठीसमासोऽपि स्याद् इति चेत्, इष्यत एवेत्याह - पिप्पल्यमिति।दृश्यते हीत्यादिना अभ्युपगतं षष्ठीसमासमेव शिष्टप्रयोगानुसारेण द्रढयति । अथ असमप्रविभागवृत्तेरर्धशब्दस्यानपुंसकलिङ्गस्य कर्मधारयो मा भूद् इत्येतदर्थं सूत्रं वक्तव्यम् । यथा ग्रामाझे नगरार्द्ध इति । तदप्ययुक्तमित्याह - असमेत्यादि । अर्धा चासौ
Page #343
--------------------------------------------------------------------------
________________
नामचतुष्टयाभ्याये पनमः समासपादः जरती चेति अर्धजरती, तत्र भवम् अर्धजरतीयम्, अभिधानाद् ईयः । न ह्यत्रार्धशब्दः समप्रविभागे वर्तते । एवमित्यादि । इहापि भिक्षैकदेशे भिक्षाशब्दः, ततो द्वितीया चासौ भिक्षा चेति द्वितीयभिक्षा, भिक्षाया द्वितीयो भाग इत्यर्थः । पक्षे षष्ठीसमासस्तु पूरणप्रत्ययान्तेनापि सिद्ध एव, प्रतिषेधाभावाद् इति । "द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्" (अ० २।२।३) इति न वक्तव्यमेव । तुरीयशब्देनापि समासो दृश्यते इति परसूत्रस्य न्यूनतां दर्शयति । तुरीयभिक्षेति । चतुर्णां पूरणस्तुर्यस्तुरीय इति चतुरो यदीयौ च लोपश्च तमादित्वात् कालवाचिनः शब्दाः परिमाणवचनाः प्रथमान्ताः परिमाणिना षष्ट्यन्तेन क्तेन समस्यन्ते । यथा मासो जातोऽस्य 'मासजातः' इति कश्चिदाह । तथा च परसूत्रम् "कालाः परिमाणिना क्तेन" (अ० २।२।५) इति । तदिह कथमित्याह - मासजात इत्यादि । मासो जातोऽस्य, संवत्सरो जातोऽस्येति विग्रहः । यस्य जातस्य मासः परिमाणं तस्य मासोऽपि जातः सम्पन्न इत्यर्थोऽपि न भिद्यते । कथम् अन्यथा मासः परिमाणं स्यादिति भावः । बहुव्रीहौ जातशब्दस्य विशेषणत्वात् पूर्वनिपातप्रसङ्ग इत्यपि न वक्तव्यम् | जातिकालसुखादिभ्यः क्तान्तस्य बहुव्रीहौ परनिपात एवाभिधानात् । अथ वचनादृते जातस्य मासः इति षष्ठीसमासः कथं न भवतीति चेत्, नैवम् । यत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावस्तत्र षष्ठीसमासः, यथा 'राजपुरुषः' इति । तथाहि राजा स्वाम्यन्तराद् व्यवच्छिद्यते, पुरुषश्च स्वान्तरात् । इह तु मासपरिमाणिनो जातस्य मासं परित्यज्य न परिमाणान्तरेण संबन्धः, नापि तं परिमाणिनं विहाय तदीयो मासः परिमाणम् अन्येन सम्बन्धिना (परिमाणिना) सह संबध्यते इति नास्ति व्यवच्छेद्यव्यवच्छेदकभावः । वाक्यं तु स्वरूपानुवादकतया प्रयुज्यते । अब्राह्मण इति । अथायं नञ् प्रतिषेधवचनः, स किं सतः प्रतिषेधं प्रतिपादयति, आहोस्विद् असतः ? न तावत् सतः, तस्याशक्यसाधनत्वात् । यद्येतन्नञः सामर्थ्यं स्यात् तदा न केचिद् राजानः हस्त्यश्वादीन् बिभृयुः । न सन्ति मे शत्रवः इत्येवं ब्रूयुः । नाप्यसतः, तस्य स्वत एव प्रतिषिद्धत्वात् । न च सदसद्भ्याभपरः प्रकारोऽस्ति , यत्र नञो व्यापारः । तदुक्तम् -
सतां न प्रतिषेधोऽस्ति सोऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नञर्थः प्रलयं गतः॥ इति । नैतदेवम्, सर्वो हि शब्दः प्रयोगं प्रति स्वार्थे प्रयोक्तुनिमपेक्षते । स्वय हि ज्ञातमर्थं परं प्रतिपादयितुकामेन शब्दः प्रयुज्यते । तच्च ज्ञानं द्विविधम् - सम्यग् मिथ्या च |
Page #344
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
द्वयमप्येतद् ब्राह्मणशब्दप्रयोगे कारणम् । तत्र सम्यग्ज्ञानपूर्वके ब्राह्मणशब्दप्रयोगे नास्तीति नञो व्यापारः । न हि तेन तत्र किञ्चित् क्रियते ब्राह्मणशब्दस्य यथार्थ - `विषयत्वेन तदर्थस्य प्रतिषेद्धुमशक्यत्वात् । मिथ्याज्ञानपूर्वके त्वस्ति नञो व्यापारः । तत्र हि तेन ब्राह्मणशब्दस्य मिथ्याज्ञानप्रभवत्वमाख्यायते । स च नञ् द्विविधः - पर्युदासवृत्तिः, प्रसज्यवृत्तिश्च । तत्राद्ये पक्षे ब्राह्मणसदृश एव क्षत्रियादिरब्राह्मण इत्युक्ते प्रतीयते । द्वितीये तु मिथ्याज्ञाननिवृत्तिरेव । ब्राह्मणोऽयं न भवतीत्यब्राह्मण इति ब्राह्मणत्वेनाध्यासितो न भवतीत्यर्थः। तच्च मिथ्याज्ञानम् इन्द्रियहेतुकं सादृश्यमन्तरेण न संभवतीत्यर्थात् सदृशप्रतिपत्तिः, तद्गते च लिङ्ग्ङ्गसंख्ये भवतः । तथा चोक्तम् – “नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः” (कात० प० ४९) इति, तदेवम् उभयपक्षेऽपि पूर्वपदार्थस्य प्राधान्यम् । तद्वशेन सदृशस्य निवृत्तेश्च प्रतीयमानत्वात् ।
३०२
एवं च सति न सतः प्रतिषेधो नाप्यसतः, किन्तु भ्रमादतस्मिंस्तदिति प्रयुक्तस्य ब्राह्मणशब्दस्यार्थः प्रतिषिध्यते इति कथं तृतीयप्रकाराभावः । युक्तार्थत्वात् तेनैव समासः ।तुल्याधिकरणत्वाच्चानेन कर्मधारयः । भिन्नाधिकरणे त्वव्ययीभावः, ब्राह्मणस्याभावोऽब्राह्मणम् इति स्थितम् । समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थम् अनुष्टुब्बन्धेन विरचित इत्यत्र विज्ञेयग्रहणम् । एवम् उत्तरेष्वपि योगेषु शब्दलाघवं न चिन्तनीयम्, अर्थप्रतिपत्तिलाघवस्य शर्ववर्मणोऽभिप्रेतत्वाद् इति || ३४२ |
[क० च०]
पदे० । यद्यपि दृष्टानुवृत्तिकतयाऽत्र । युक्तार्थ एवानुवर्तितुम् उत्सहते, तथापि " पदे द्वे” (२ । ५ । ९) इति वचनात् सर्वथा समास एव पर्यवस्यतीति स एवानुवर्तिष्यते, न च-युक्तार्थमात्रम् । स च प्रथमान्तोऽप्यर्थवशात् सप्तम्यन्ततया विपरिणमते इत्याहयत्र समासे द्वे पदे इति वृत्तिः । ननु तदेव तुल्याधिकरणपदद्वयं यदेव समात्ताख्यम्, तत् कथं भेदनिबन्धनेनाधाराधेयभावेनान्वयः ? सत्यम् । 'नहीं: शिरः' इत्यादिवद् अभेदेऽपि भेदबुद्धिमारोप्येदमुक्तमिति न दोषः ।
-
वस्तुतस्तु (यद् वा) नाम्नां समूहस्य समाससंज्ञाविधानात् समूहसमूहिनोराधाराधेयभावः सुतरामस्त्येव । ततश्च यत्र समासे नामसमूहे तुल्याधिकरणं पदद्वयं भवति स कर्मधारय इति न दोषः । यद् वा समसनं समाराः संक्षेप एकार्थीभावापन्न इति यावत् । तत्र चतु तुल्याधिकरणपदद्वयं भवति, स कर्मधारयः । ननु यदि यत्र
Page #345
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
पदद्वयस्य
F
समासे द्वे पदे तुल्याधिकरणे भवतः स कर्मधारय इत्युच्यते, तदा आरूढो वानरोऽयं सः ‘आरूढवानरो वृक्षः' इति बहुव्रीहिस्थलेऽपि आरूढवानरयोर्भिन्नप्रवृत्तिनिमित्तत्वेनैकार्थत्वात् कथं कर्मधारयसंज्ञा न स्यात् ? सत्यम्, यस्य समासस्तत्पदद्वयोपस्थाप्यार्थो यदि समासवाच्यः स्यात् तदैवायं समासविधिरिति व्याख्येयम् । बहुव्रीहौ तु अन्यपदार्थस्य वाच्यत्वम्, न तत्पदद्वयार्थस्येति कुतः प्रसङ्गः । यद्येवं ‘राज्ञः पुरुषः' इत्यत्र राजसम्बन्धिपुरुषस्य प्रतिपाद्यत्वेन द्वयोः पदयोस्तुल्याधिकरणत्वात् संज्ञेयं प्रवर्तताम् । नैवम्, अत्र षष्ठ्या स्वामित्वरूपसंबन्ध एव प्रतिपाद्यते, न तु संबन्धीति नास्ति तुल्याधिकरणता । यत्तु राजसम्बन्धिपुरुष इति विशिष्टार्थप्रतीतिः, तत्तु वाक्यार्थवशादेव | यदपि " शेषाः" इत्यत्र स्वाम्यादावित्युक्तं तत्र स्वामीत्यादावित्येव तस्यार्थः । नैयायिकास्तु एकार्थवाचकैकविभक्तिमत्त्वमेव शाब्धं सामानाधिकरण्यमिति रूढम् | प्रकृतेस्तु षष्ठ्या सम्बन्धिन उक्तार्थत्वात् प्रथमायाश्च लिङ्गार्थमात्रे विधीयमानत्वान्नास्त्येकार्थवाचकैकविभक्तिमत्त्वमित्याहुः । तन्न, 'विद्वन्मानिनी' इत्यत्र तुल्याधिकरणत्वाणिनि पुंवद्भाव इति वचनानुपपत्तेः । 'कालीम्मन्या' इत्यादौ पुंवद्भावबाधनार्थं 'विवक्षितकर्तृकर्मैकवस्तुप्राप्तं पुंवद्भावं बाधते, परत्वात्' इति वृत्तिकृतो यत्नान्तरानुपपत्तेः अत्र 'मन्या' इत्यस्य प्रथमान्तत्वात् कालीमित्यस्य द्वितीयान्तत्वादेव न तुल्याधिकरणत्वमिति अस्यैव वक्तुमुचितत्वात् । तस्माद् भिन्नविभक्तिमत्त्वेऽपि यत्रैकार्थप्रतीतिस्तत्रापि तुल्याधिकरणत्वमस्त्येव । अथ तर्हि पट्ट्ट्या अभिनेति समासे सति एकार्थवाचकत्वात् पुंवद्भावः स्यादिति चेत्, भवत्येव पुंवद्भाषितपुंस्केत्यनेन पुंवद्भाव इति को विरोधः । ननु 'कठ्या अभिन्ना' इत्यादौ कव्यभिन्नाशब्दयोरेकार्थपर्यवसाने सति तुल्याधिकरणत्वात् कर्मधारयसंज्ञायां सत्यामेतत्संज्ञानिमित्तकपुंवद्भावः स्यात् । नैवम्, 'पदे' इत्यनेनात्र विभक्त्यन्तपदद्वयस्य लाभादौचित्येनैकविभक्त्यन्तपदद्वयस्यैव समासोऽयमिति । तेन 'राज्ञः पुरुषः' इत्यत्रापि न पूर्वपक्षावस:, [तेन 'कठ्या अभिन्ना' इत्यत्रापि न पुंवद्भावस्यावसरः ।] श्रीपतिस्तु " कारयति यः स हेतुश्च" (२।४।१५) इत्यत्र चकारेण ज्ञापितम् - क्वचित् संज्ञयापि संज्ञान्तरं बाध्यते । तेन ‘राज्ञः पुरुषः इत्यत्र तत्पुरुषसंज्ञैवास्ति बाधिका' इत्याचष्टे । अस्मिन्मतं बहुव्रीहावप्ययमेव सिद्धान्तः । दुर्गमते तु चकारस्य सुखार्थतया उक्तत्वात् सामर्थ्यं नोपपद्यते इति दिक् ।
३०३
'अर्जुनः कार्त्तवीर्यः' इति वृत्तिः । ननु कथं 'कार्त्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् ' इत्यत्र समासो दृश्यते ? सत्यम् | अपपाटोऽयम् । इलोके 'कार्त्तवीर्योऽर्जुनो नाम ' इत्येव
Page #346
--------------------------------------------------------------------------
________________
३०४
कातन्वव्याकरणम्
पाठ इति । शरणदेवस्तु - अत्रापि समासो भवत्येव । केचित्तु अर्जुनशब्दस्य प्रधानत्वात् कार्तवीर्यस्य वाचकोऽर्जुन इति षष्ठीसमासे द्विरेफादिवदभिधानाभिधेययोरभेदोपचाराद् द्रव्याभिधानम्, अतो बाहुसहनभृद् इत्यादिनाऽन्वय इत्याहुः । ___इदानीं पनी व्याख्यायते - ननु तुलया संमितं परिमितं तुल्यं तदेवाधिकरणमर्थो ययोरित्युक्ते पलकर्षावित्यत्र संज्ञेयं स्याद् इति चेत्, अत्र परत्वाद् द्वन्द्वसंहवास्ति बाधिकेति । तथापि 'पलघृतम्' इत्यादिष्वेव स्यात् परिमाणार्थत्वात्, न नीलोत्पलमित्यादौ । नैवम्, योगार्थापेक्षया रूढ्यर्थस्य शीघ्रोपस्थितत्वाद् व्याप्तिन्यायाच्च एकार्थ एवात्र तुल्यशब्द इति हदि कृत्वाह - तुल्येति । तदर्थस्याघटनादिति नीलोत्पलादीनामपि साध्यत्वेनोपस्थित्वात् तेषु तदर्थस्य सम्मितार्थस्याघटनादित्यर्थः । यद् वा "नस्य तत्सुरुषे लोप्यः" (२।५।२२) इत्यादिसूत्रस्य वैफल्यादिति भावः । नन्वधिकरणशब्दस्याधारार्थत्वात् सर्वेषामेव पदानामाश्रयस्याकाशस्यैकत्वात् तुल्याधिकरणग्रहणं व्यर्थमेव स्यात्, व्यावृत्तेरयोगाद् इत्याह - अधिक्रियते इत्यादि ।अभिधानायार्थप्रतिपत्तये इत्यर्थः । तुल्यम् अधिकरणं ययोः पदयोरित्यर्थः । ननु तुल्यम् अधिकरणं ययोरर्थयोरिति आर्थिकाधारः कथन्न गृह्यते इति चेत्, ‘पदे'.इत्यस्यानन्वयान्न हि द्वे पदे इत्यर्थौ भवतः । अथ तुल्यार्थवाचकत्वात् पदद्वयस्यापि तुल्यार्थतेति वक्तव्यम् ? सत्यम् । तथापि न घटते । तथाहि नीलोत्पलपदेन पञ्च वस्तून्युपस्थाप्यन्ते । तत्र नीलपदेन नीलगुणाश्रया जातिः, नीलो गुणः, नीलगुणविशिष्टं द्रव्यमिति त्रीणि, उत्पलशब्देन चोत्पलत्वं जातिः, तद्विशिष्टं च द्रव्यमिति द्वे । न तावन्नीलत्वोत्पलत्वजात्योरैकाधिकरण्यम्, असंभवात् । यतो नीलत्वं गुणे, उत्पलत्वं च द्रव्ये कयमेकाधारता तयोरिति । तथा नीलगुणोत्पलद्रव्ययार्न संभवति । यतो नीलगुणो द्रव्ये, उत्पलं च द्रव्यं द्रव्यान्तरे आकाशादौ । तथा नीलगुणविशिष्टद्रव्योत्पलद्रव्ययोःकाधिकरण्यं संभवति आधारभूतस्य तृतीयवस्त्वन्तरस्यासंभवात् । केवलं नीलगुणोत्पलत्वजात्गेरेकस्मिन्नेवोत्पलद्रव्ये समवायाद् ऐकाधिकरण्यं संभवति । किन्तु विशेषणविशेष्यभावस्य विरहादेवोपेक्ष्यते । तथाहि युक्तार्थः समासः, स च विशेषणविशेष्यभावलक्षण इत्युक्तम् । न चात्र नीलगुणविशिष्टमुत्पलत्वमिति जातेरनीलत्वात् । तस्माद् वाच्यवाचकसंबन्धेन शब्दल्यार्थे वर्तमानत्वात् शाब्द्यमधिकरणमेव गृह्यते इति पञीकृतामाशयः । एतेन भिन्नप्रवृत्तिनिमित्तत्वे सति एकार्थप्रयुक्तत्वं सामानाधिकरण्यमिह विवक्षितमिति । ननु अन्यूनानतिरिक्तार्थवाचकस्य वृक्षो महीरुह
Page #347
--------------------------------------------------------------------------
________________
३०५
नामचतुष्टयाभ्याये पनमः समासपादः इत्यादिशब्दद्वयस्य एकदा प्रयोग एव न विद्यते । तत् किं लक्षणे भिन्नप्रवृत्तिनिमित्तत्वे सतीति विशेषणेन व्यवच्छिद्यते ? सत्यम् | स्वरूपकथनमेवेति न्यासः। द्वन्द्वे सर्वेषामेव पदानां सहितत्वप्रवृत्तिनिमित्तत्वेन सर्वार्थवाचकत्वात् पट्वीमृद्व्यौ स्त्रियौ इत्यत्र "भाषितपुंस्कानूडू" (अ० १।२।६६) इत्यादिना पुंवद्भावनिषेधार्थं तद्विशेषणमिति रक्षितः।
नवीनास्तु शब्दस्यानेकार्थवाचित्वे सन्देहोच्छेदाय हरिः सिंह इत्यादौ विशेषप्रवृत्तिनिमित्तकस्य सिंहादिशब्दस्य प्रयोग इष्यते । यथा 'उत्सुकानीव मे स्वा हि जातयो भरतर्षभ!' इति । तत्र कर्मधारयनिषेधार्थमेतद् विशेषणमित्याहुः । ननु नाम्नां युक्तार्थः समासः, युक्तार्थता च सम्बन्धार्थत्वे सत्येव भवति । संबन्धार्थत्वं चोपकार्योपकारकभावे सत्युपपद्यते । न च नीलमुत्पलमिति वाक्ये परस्परोपकारितास्ति अन्योऽन्यानपेक्षितत्वात् । तथाहि नीलशब्दो विदितविशेषनीलगुप्पाधारे द्रव्ये वर्तते, उत्पलशब्दश्चाज्ञातगुणोत्पलाख्ये द्रव्ये वर्तते, तत् कथं समासस्य विषय इत्याह - नीलं विशेषणम्, उत्पलं विशेष्यमिति । ननु कथमिदमुच्यते, यावता विशेषणत्वं हि तद्गतत्वे सति तन्निष्ठव्यावृत्तिधीजनकत्वम् । विशेष्यत्वं च तदाश्रयत्वे सति तज्जन्यव्यावृत्तिधीविषयत्वम् । यथा घटत्वविशिष्टो घट इति ।
[घटत्वं घटगतं सद् घटनिष्ठस्यात्मनो व्यावृत्तिबुद्धिं जनयति, अन्यत्र गवादौ, न तथा नीलत्वम्, उत्पलगतं सद् उत्पलनिष्ठस्यात्मनो व्यावृत्तिबुद्धिमन्यत्र जनयति । अलिकज्जलादेरपि तद्गुणस्य प्रतीयमानत्वात] ।
___ तदिह नीलोत्पलादौ न संभवति, नीलगुणविशिष्टस्योत्पलगतत्वेनाप्रतीयमानत्वात् । न हि नीलगुणविशिष्टद्रव्यमुत्पले वर्तितुमुत्सहते नीलोत्पलप्रतिपाद्यार्थस्याभिन्नत्वात् ? सत्यम् । शाब्दोऽत्र विशेषणविशेष्यभावोऽङ्गीकर्तव्यः । शाब्दं विशेषणत्वं सामान्यवाचकशब्दस्य स्वार्थमात्रावच्छेदेनार्थोपस्थापकत्वम् । तथाहि सामान्यवाचकस्योत्पलस्यार्थी नीलशब्देन स्वार्थनीलगुणावच्छेदेनोपस्थाप्यते इति नीलं विशेषणम् । शाब्दं विशेष्यत्वं च सामान्योपस्थापकत्वे सति शब्दान्तरसन्निधानेन तदर्थपर्यवसायित्वम् । तथाहि सामान्योत्पलद्रव्यवाचिना उत्पलशब्देन नीलशब्दसान्निध्यान्नीलशब्दप्रतिपाद्यं नीलगुणविशिष्टम् उत्पलम् उपस्थाप्यते इति उत्पलं विशेष्यम् ।
नन्वेवं सति 'तक्षकः सर्पः' इत्यादौ न कथं समासः, सामान्यवाचकस्य सर्पशब्दस्य तक्षकत्वावच्छेदेनार्थोपस्थापकत्वेन तक्षकस्य विशेषणत्वात्, एवं सर्पस्यापि विशेष्यत्वाच्च ?
Page #348
--------------------------------------------------------------------------
________________
३०६
कातन्त्रव्याकरणम्
सत्यम् । यत्रोभयोर्विशेषणविशेष्यभावस्तत्रैवायं समासोऽभिधानादाश्रीयते । नहि तक्षकस्य सर्पो विशेषणं तक्षकत्वस्य सर्पत्वाव्यभिचारेण सामान्यवाचकत्वाभावात् । नीलोत्पलादौ तु नीलस्य विशेष्यत्वम् उत्पलस्य विशेषणत्वमपि घटते । तथाहि सामान्यनीलगुणवाचकस्य नीलशब्दस्यार्थ उत्पलशब्देनोत्पलत्वावच्छेदेनोपस्थाप्यते इति उत्पलस्य विशेषणत्वम् । एवम् उत्पलशब्दजनितविशेषबुद्धिविषयत्वान्नीलस्यापि विशेष्यत्वं बोध्यम् । अथ तर्हि विशेषणम् उत्पलं विशेष्यमित्युक्तम् | उक्तरूपेणोभयोरेव विशेषणत्वविशेष्यत्वलाभात् ? सत्यम् । यद्यप्यर्थद्वारा उभयोर्विशेषणत्वविशेष्यत्वयोः साम्यम्, तथापि गुणद्रव्ययोः समासे सति द्रव्यशब्दस्यैव विशेष्यत्वं लोकप्रसिद्धमिति युक्तमुक्तं पञ्याम् । ननु तथापि विशेषणं पूर्वमिति वचनाभावादुत्पलशब्दस्यापि पूर्वनिपातः कथं न स्यात् ? सत्यम् । 'नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते' इति न्यायाद् विशेषणस्य पूर्वत्वं सिद्धम् । ननु नाम्नां युक्तार्थः समासः, स चापेक्ष्यापेक्षकभावलक्षणः । तथा च श्रीपतिः- 'तत् तेन सह युक्तार्थं यत् पदं यदपेक्षते' । अत्र नीलोत्पलादौ नीलशब्देनोत्पलमनपेक्ष्य नीलगुणविशिष्टं द्रव्यमेवाभिधीयते । उत्पलशब्देन च नीलम् अनपेक्ष्य सामान्योत्पलत्वाविशिष्टं द्रव्यमिति भिन्नार्थयोर्नीलोत्पलशब्दयोः परस्परनिरपेक्षयोर्युक्तार्थत्वाभावात् कथं तुल्याधिकरणत्वमित्याह -- अनयोरित्यादि । अनयोर्विशेषणविशेष्यभूतयोर्नीलोत्पलशब्दयोः प्रत्येकं व्यवच्छेद्यव्यवच्छेदकभावेन विशेषणविशेष्यभावेनैकस्मिन्नर्थे नीलगुणविशिष्टोत्पले प्रयोक्तृभिः प्रयुक्तयोस्तुल्याधिकरणत्वमित्यर्थः । __अयमभिप्रायः- यद्यपि नीलगुणविशिष्टेऽलिकज्जलादौ सामान्येन नीलशब्दो वर्तते ।उत्पलशब्दश्चोत्पलत्वविशिष्टे द्रव्ये, तथापि प्रत्यक्षेणाधिगते नीलगुणविशिष्टोत्पल एव द्वयं प्रयुक्तमिति । न चैकेनैव नीलशब्देन नीलगुणविशिष्टोत्पलशब्दस्योक्तत्वाद् उत्पलशब्दो व्यर्थ इति वाच्यम् । प्रतिपत्तुः सन्देहव्युदासाय शब्दद्वयप्रयोगस्यावश्यकत्वात् । अन्यथा वक्त्रा नीलमित्युक्ते कस्मिन् नीलशब्दः प्रयुक्त इति प्रतिपत्रा निश्चेतुं न शक्यते अलिकज्जलादेरपि नीलत्वात् । ननु पाचकादिक्रियाशब्दानामपि विशेष्यनिघ्नतया नीलादिगुणशब्दवद् अस्वातन्त्र्यात् कथं देवदत्तः पाचक इत्यादौ तस्य विशेष्यभावः । अत्र कश्चित् पाचकादिक्रियाशब्दानां गुणशब्दादस्त्येव विशेषः । तथाहि पाचकः' इत्यादौ कर्तरि वुण्प्रत्ययेन कर्तुर्मुख्यता क्रियाया गौणता प्रतिपाद्यते । अतोऽत्र पचनकर्तेव पाचकशब्दस्य प्रधानमर्थः स्वातन्त्र्याद् भवत्येव । तथा च अपचन्नपि सूपकारः पचन
Page #349
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३०७ योग्यतया पाचक उच्यते, गुणशब्दश्च नैतादृशः, यतो नीलशब्देन नीलगुण एव प्रधानतया प्रत्याय्यते। तद्विशिष्टद्रव्यप्रतीतिस्तु आश्रयज्ञानं विना आश्रितस्य गुणस्यासंभवाद् इत्यत आश्रयस्य प्राधान्यम् । तेन ‘पटुकृपणः, कृपणपटुः, रथिदण्डी, दण्डिरथी' इत्यादिशब्दवद् 'देवदत्तः पाचकः, पाचको देवदत्तः' इत्यादयो यथेष्टं भवन्तीति ।
एवम् ‘आचार्यो देवदत्तः, देवदत्त आचार्यः' इत्यपि कामचारतः प्रयोजनीयम् इत्याचष्टे । तन्न, अस्यापि नीलशब्दवत् समानयुक्तिकत्वात् । तथाहि यथा गुणस्य द्रव्योत्पत्तिप्रभृतिविनाशपर्यन्तं स्थितेरभावाद् द्रव्यशब्दत्वाभावेन विशेषणत्वम्, तथा क्रियाशब्दानामपि । न हि देवदत्तादेरुत्पत्तिविनाशपर्यन्तं पचनकर्तृत्वयोग्यताऽस्ति, तस्माद् ‘देवदत्तः पाचकः' इत्यादि प्रयोग एव | उदयनाचार्य इत्यादयः प्रयोगास्तु उदयननामा आचार्य इति शाकपार्थिवादित्वान्मध्यपदलोपिसमासे साधवः इत्यलं बहुना | "पूर्वकालैकसर्वजरसुराणनवकेवलाः समानाधिकरणेन" (अ०२।१।४९) इति पाणिनिः । अस्यार्थः- एते पूर्वादयः शब्दाः समानाधिकरणेन परपदेन सह समस्यन्ते, एकादीनां द्वन्द्वं कृत्वा पश्चात् पूर्वकालशब्देनैकादीनां पुनर्द्वन्द्वः । अन्यथा एकादीनामल्पस्वरत्वादेकादन्यतमस्य पूर्वनिपातः स्यात् । अथ एर व कथन्न कृतमिति चेद् एकादिभ्यः पूर्वकालशब्दस्य पृथक्करणात् किञ्चिद् वैलक्षण्यं व्याख्येयम् ।
तथाहि एकादीनां शब्दस्वरूपाणामेव ग्रहणम्, पूर्वकालादीनां तु अर्थानां ग्रहणम् । [पूर्वकालेन तु पूर्वकालविशिष्टत्वमुच्यते ] । तेन कृष्टमदीकृतः, छिनप्ररूढ इति पूर्वकालविशिष्टमेव वृत्तौ दर्शितम्, पूर्वकालस्तु समासवाच्यः । ननु “विशेषणं विशेष्येण बहुलम्" (अ० २।१।५७) इति सामान्यसूत्रेण समासः सिध्यति, किमनेन ? सत्यम्, यत्र पदद्वयमेव विशेषणयोग्यम् तत्रैकादिशब्दानां पूर्वनिपातव्यवस्थापनार्थम् । यथा 'एकपण्डितः, जरत्पण्डितः' इत्यादि । तर्हि 'एकपत्नी, पुराणतरुः' इत्यादि कथमत्र सूत्रे भाषावृत्तौ दर्शितम्, गुणद्रव्ययोः समासे गुणवाचकस्यैव विशेषणत्वम् इत्युभयोविशेषणत्वाभावात् “विशेषणं विशेष्येण बहुलम्" (अ०२।१।५७) इत्यनेन सिद्धत्वात् । नैवम्, 'एकपण्डितः' इत्याद्यर्थं विधीयमानं सूत्रमेतदपि विषयीकरोतीति न्यायाद् उदाहृतमिति न दोषः । अस्मन्मते त्वेकादीनामभिधानादेव पूर्वनिपातः । न च खञ्जकुब्जादिवद् व्यवस्थेति । खञ्जकुब्जः, कुब्जखञ्जः इति ।
Page #350
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम् ननु कथं 'पुराणैकं देहि, कार्षापणैकं देहि' -
पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः।
तस्मान्मूर्खसहनेभ्यः पण्डितैको विशिष्यते ॥ इत्यादिप्रयोगः । "पूर्वकाल०" (अ० २।१।४९) इत्यादिना एकशब्दस्य पूर्वनिपातस्यैव योग्यत्वान्नैवं "येकयोः" (अ० १।४।२२) इति निर्देशाद् एकशब्दः संख्यावाचकोऽप्यस्ति, अन्यथा सर्वथा संख्येयपरत्वे संख्येयानां बहुत्वाद् दयेकयोरिति द्विवचनमुपपन्नं न स्यात् । “आ दशभ्यः संख्याः संख्येये" इति यदुक्तं तत् प्रायिकम् । ततः पणस्यैकम् इति षष्ठीसमासः । तर्हि एकशब्दस्य संख्यानवाचित्वात् कथं देहीति क्रियासंबन्धः, न हि तत्र पणस्यैकसंख्या देहीति पदार्थ: ? सत्यम्, धर्मधर्मिणोरभेदोपचारात् ।
[द्रव्याभिधायित्वमपीति देहीत्यादि क्रियान्वयो न विरुध्यते । अपप्रयोग इत्यन्यः । वैयस्तु पुराणशब्दस्यात्र सामान्योपात्तत्वात् कार्षापणवाचकस्यापि एकशब्देन सह समासे परत्वात् पुराणशब्दस्यैव पूर्वनिपातः । पुराणैक इति कथमिति चेत्, पुराणशब्दस्येह सूत्रे पाठेन परत्वाद् इत्याचष्टे । एवं जरत्शब्दस्यापि परत्वाज्जरदेक इति नियतपूर्वनिपात इति लभ्यते । अतो "जरदेकपुराणादेः" (कात० परि० स०४२) इति श्रीपतिसूत्रं युक्तमेव । अथ यदि परत्वादेव पुराणशब्दस्य पूर्वनिपातस्तदा परस्मिन् "पूर्वापर०" (अ० २।१।५८) इति सूत्रे वीरशब्दपाठात् कथं 'जगदेकवीरः, षड्वर्षेणैकवीरः' इत्यत्र माघप्रयोगे वीरशब्दस्य परनिपातः 'वीरैकः' इति प्रयोगस्य योग्यत्वात्, नैवम् । एकशब्दोऽत्र धर्मवचनस्तेनैकत्वस्याश्रयो वीर इत्याश्रयाश्रयिसंबन्धे षष्ठीसमासः इति न दोषः]।
“दिक्संख्ये संज्ञायाम्" (अ०२।१।५०) इति पाणिनिः। अस्याः -दिक्शब्देन दिक्प्रवृत्तिनिमित्तशब्द उच्यते संख्येति । संख्यावाचक उच्यते । तयोः समानाधिकरणयोः परपदेन संज्ञायामेव समास इति । “विशेषणं विशेष्येण बहुलम्" (अ० २।१।५७) इति सिद्धे यत् पुनरिदं वचनं तन्नियमार्थम् इत्याह - संज्ञायामेवेति । कथमित्यादीति | ननु कथं परमतेऽभिधानात् समास इत्युक्तम्, न हि तेनाभिधानमाश्रित्य पूर्वपुरुषादिकमसंज्ञायां साध्यते । किन्तु “पूर्वापरप्रथम०" (अ० २।१।५८) इत्यादिना साध्यते । अत्र
Page #351
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३०९
हेमकरः - ‘उत्तरपुरुषः' इत्येतदर्थमभिधानाश्रयणं 'पूर्वपुरुष:' इत्यादिकमपि विषयी - करोतीति न्यायात् ‘पूर्वपुरुषः' इत्यत्र व्यभिचारो दर्शितः । महान्तस्तु “विशेषणं विशेष्येण बहुलम्” (अ० २।१।५७ ) इत्यनेन " पूर्वापरप्रथम० " ( अ० २।१।५८) इत्यादिना च सिद्धे यत् “ दिक्संख्ये संज्ञायाम् " ( अ० २ | १ | ५० ) इति विधीयते तन्नियमार्थम् । दिग्वाचकस्य संज्ञायामेवेति । " पूर्वापर०" (अ० २ | १ | ५८ ) इत्यत्र तु देशकालवचनस्य ग्रहणम् । “दिक्संख्ये संज्ञायाम् ” ( अ० २ ।१ । ५० ) इत्यत्र तु दिग्ग्रहणात् कालाद्यर्था पूर्वादयो न गृह्यन्ते । किन्तु दिग्वाचकानां संज्ञायामेवेति नियमबलेनासंज्ञायां दिग्वाचकस्य समासो न स्यात् । समासार्थं परेणाभिधानमवश्यमङ्गीकर्तव्यमिति पञ्जीकृता व्यभिचारो दर्शितः इति न दोषः । ' पूर्वपुरुषः' इत्यादिषु आदिशब्देन चतुर्वर्णद्विपदाश्रितो विधिरिति अत्रापि व्यभिचार इति सूच्यते । एतद् उदाहरणत्रयं प्रति भाषावृत्तावपि कार्योऽत्र यत्न इत्युक्तम् ।
श्रीपतिस्तु अत्र " पूर्वापरस्यैव दिशः " (कात० परि० - स० ४७ ) इति सूत्रम् आचष्टे । अस्यार्थः- पूर्वापरस्यैव दिग्वाचिनः कर्मधारयो भवति संज्ञायामसंज्ञायां चेति । तत्तुच्छम्, संज्ञायाम् ' उत्तरकुरुः' इत्यत्र पाणिनिमते समासस्येष्टत्वेन नियमवैफल्याच्च । तथा ‘दक्षिणापथः, उत्तरापथः' इत्यत्र दक्षिणोत्तरयोराच्प्रत्यये सति “दिक्संज्ञायाम्” इत्यनेन समास इति शरणदेवोक्तत्वात् । "कुत्सितानि कुत्सनैः” (अ० २।१।५३) इति पाणिनिः । अस्यार्थः - कुत्सितानि कुत्सावाचकैः सह समस्यन्ते । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (अ० २ | १ | ५६ ) इत्यनेनैव याज्ञिकशब्दस्य पूर्वनिपाते सिद्धे यत् पुनरिदं सूत्रं तत् सामान्यस्यापि प्रयोगे यथा स्याद् इत्येतदर्थम्, तेन 'याज्ञिकः कितवः इव धूर्त:' इत्यत्रापि ' याज्ञिककितवः' इति समासो भवत्येव । न च धूर्तपदापेक्षया युक्तार्थ इति वाच्यम्, प्रधानसापेक्षे हि तस्य दृष्टत्वात् । ननु अस्मन्मते एतत्सूत्राभावे कितवादीनां विशेषणत्वात् पूर्वनिपातः प्राप्नोति । तत्कथं ‘याज्ञिककितवः' इत्याह - न चात्रेति । ननु यो याज्ञिकः स कितवः इत्युक्ते कितवस्यापि विशेषणत्वात् कदाचित् पूर्वनिपातोत्पत्तिः स्यादित्याह - कुत्सितानि कुत्सनैरेवेति । कुत्सितवाचीनि परभूतैरेव कुत्सावचनविशेषैरेव समस्यन्ते, अभिधानादिति भावः । पूर्वपदप्रवृत्तिनिमित्तस्य यदा कुत्सा गम्यते तदैवायं विधिरिति पाणिन्यनुसारिभिर्व्याख्यायते । अतः ‘चौरो वैयाकरणः' इत्यत्र वैयाकरणस्य कुत्साभावात् 'वैयाकरणश्चौरः' इति प्रयोगो न भवति । अपि तु 'चौरवैयाकरणः' इत्येव सामान्यसूत्रेण समासात् साधुरिति ।
Page #352
--------------------------------------------------------------------------
________________
३१०
कातन्वव्याकरणम्
नन्नेवं सति ‘याज्ञिककितवः' इत्यादिकं नोदाहर्तुमुचितम्, याज्ञिकशब्दप्रवृत्तिनिमित्तस्य कुत्साप्रतीतेरभावात् ? सत्यम् । योऽयाज्ययाजने प्रवृत्तः स यज्ञशास्त्रं सम्यङ् न वेत्ति इति गम्यते । तेन याज्ञिकशब्दप्रवृत्तिनिमितस्य यज्ञशास्त्राध्ययनस्य तस्य जीवनस्य वा कुत्सा गम्यते इति न्यासः । एवं 'मीमांसकदुर्घटः' इत्यत्रापि नास्तिकत्वेन मीमांसाज्ञानमेव प्रवृत्तिनिमित्तं कुत्स्यते इति बोध्यते । “कुत्सितानि कुत्सनैः" (अ० २।१।५२) इत्यनेन पापाणकशब्दयोर्नियतपरनिपातः स्याद् इति नियतपूर्वपाठार्थं "पापाणके कुत्सितैः" (अ० २।१।५४) इत्यनेन पापाणकशब्योर्नियतपूर्वनिपातार्थं पाणिनिसूत्रान्तरम् । अस्यार्थः- पापाणकशब्दौ कुत्सितैः परपदैरेव समस्येते इति। तदस्मन्मतेऽभिधानादेव भविष्यतीत्याह – तथा पापाणकेत्यादि । “उपमानानि सामान्यवचनैः" (अ० २।१।५५) इति पाणिनिः । अस्यार्थः- उपमानानि सामान्यवचनैः परभूतैः सह समस्यन्ते । उपमानस्य विशेषणत्वात् “विशेषणं विशेष्येण बहुलम्" (अ० २।१।५७) इति सिद्धे यत् पुनरिदं सूत्रं विधीयते, तदुपमानस्य विशेष्यत्वविवक्षायां श्यामत्वस्य च विशेषणत्वविवक्षायां श्यामशस्त्रीति प्रयोगो मा भूदिति एतदर्थम् । अस्मन्मते तदभावात् श्यामशस्त्रीत्यपि प्रयोगः स्याद् इत्याह - तेनोपमालानीत्यादि । त्रिपदत्वाद् भिन्नाधिकरणत्वाच्चेति कथमिदमुच्यते यावता शस्त्रीशब्दो लक्षणया तत्सदृशे वर्तते इवशब्दस्तदर्थद्योतकत्वान्निरर्थकस्ततः पदद्वयोरेकार्थप्रयुक्तत्वात् कथं भिन्नाधिकरणत्वम् ? सत्यम् । भिन्नाधिकरणत्वादित्यनेन पक्षद्वयेऽपि पत्रिकायां सिद्धान्तः उत्थापितः । तथाहि शस्त्रीव श्यामेति इवशब्दसत्त्वे इवशब्दासत्त्वेऽपि न समासयोग्यवाक्यम् । तत्रेवशब्दसत्त्वपक्षेऽपि सिद्धान्तयति-त्रिपदत्वादिति ।इवशब्दाभावपक्षेऽपि लक्षणायां बीजाभावाद् उपमानोपमेयभावसंबन्धे षष्ठी प्राप्तेति तत्र सिद्धान्तयति-भिन्नाधिकरणत्वादिति । यद् वा सामानाधिकरण्याभाव एव भिन्नाधिकरणम् । तच्च इवशब्दस्य निरर्थकत्वादस्त्येवेति भावः । अथवा इवशब्देन सादृश्यं सम्बन्धश्चोच्यते इति यन्मते, तन्मते शस्त्रीशब्देन निजार्थोऽभिधीयते, तद्गतसादृश्यं संबन्धश्चेवशब्देन श्यामशब्देन श्यामगुणयुक्ता शस्त्रीति ।
ननु कथमिदमुच्यते यावता शस्त्रीशब्द एव शस्त्रीसदृशे वर्तते इवशब्दस्तु द्योतक एव, ततश्च या शस्त्री सा श्यामा सदृशीत्यैकाधिकरण्यं स्फुटमेव विद्यते ? सत्यम् । इवशब्दसत्त्वे त्रिपदत्वमेव समासयोग्यताभावे हेतुः । यदि त्रिपदत्वाभावार्थम् इहेव
Page #353
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
शब्दोऽपसार्यते, तदोपमानोपमेयसंबन्धद्योतकषष्ठ्युत्पत्तौ सत्यां व्यधिकरणत्वमेव स्यादिति भिन्नाधिकरणत्वाच्चेत्युक्तम् । यद् वा इवशब्द एव संबन्धसदृशवाचक यन्मतं तन्मते तत्रेवशब्देनैव षष्ठ्यर्थस्योक्तत्वात् षष्ठ्यनुत्पत्तावपि शस्त्रीवेत्यस्य श्यामशब्देन व्यधिकरणत्वं स्फुटमेवेति । तथा च काव्यप्रकाशकृता - यथेवादयः शब्दाः श्रुत्यैव षष्ठीवत् सम्बन्धं प्रतिपादयन्तीति अतो भिन्नाधिकरणत्वं स्फुटं संगच्छते । अन्यैश्च समासोऽभिधीयत एवेति । 'बाहुलता करपल्लवे' इत्यादौ लतादिभिरित्यर्थः । अत्रापि शूरादिपदापेक्षत्वादिति । नन्वेवं सति 'मुखचन्द्रो मनोरमः पुरुषव्याघ्रः शूरोऽयम्' इति प्रयोगो न स्यात्, सापेक्षत्वात् ? सत्यम् । समासं कृत्वा पश्चात् समुदायेन सह मनोरमादिपदान्वयो भवतीति परसूत्रस्य व्यभिचारमाह- किञ्चेति, पूज्यमानतामन्तरेणेति । ननु ‘सत्पण्डितः’ इत्यादौ सदादीनां परनिपाताभावार्थं “सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः " (अ० २ । १ । ६१) इति परसूत्रम् । अपूज्यमानतायां तु यथासंभवं “विशेषणं विशेष्येण बहुलम्” (अ० २।१।५७ ) इत्यनेन 'महाजनः, महोदधिः' इत्यादि भवत्येव, कथं परस्य व्यभिचारः । सत्यम्, सन्महदादिसूत्रे पूजायामिति सिद्धे कर्मप्रत्ययं विधायाक्षरगौरवं चाश्रित्यं पूज्यमानैरित्यनेन यदुत्तरपदं विशेषयति । तद् बोधयति - सदादयः पूज्यमानैरेव समस्यन्ते, नान्यैरित्यवधारणेन 'महाजनः, महोदधिः' इत्यत्र “विशेषणं विशेष्येण बहुलम् " ( अ० २।१।५७ ) इत्यनेन प्राप्तोऽपि समासो निवर्तते इति । अभिधानमेवाभ्युपगन्तव्यम् इति पञ्जीकृत आशयः ।
३११
षष्ठीसमासविधानार्थम् " अर्द्ध नपुंसकम्” (अ० २।२।२) इति पाणिनिसूत्रं खण्डयित्वा ‘जातस्य मासः' इति षष्ठीसमासविधानार्थं सूत्रान्तरं खण्डयति कालवाचिनः शब्दाः इत्यादि । ननु सामान्यशब्दस्य जातिवचनत्वेन 'फाला इव तण्डुलाः' इत्यत्र तण्डुलत्वसामान्यवचनस्य सत्त्वादस्य सूत्रस्य विषयः कथन्न स्यादिति चेत्, नैवम् । सामान्यं हि अनेकसाधारणमुच्यते । इह चोपमानस्य श्रुतत्वात् तस्य चोपमेयापेक्षत्वाद् उपमानोपमेययोः साधारणो यो धर्मः स एव सामान्यं विज्ञायते इत्येतदेवाह - इह श्यामगुणेति । उभयसाधारणत्वादिति उपमानभूता या शस्त्री, उपमेयभूता च या देवदत्ता, तदुभयोः साधारणो यो धर्मः श्यामत्वमित्यर्थः । ' फाला इव तण्डुलाः' इति फालवद् दीर्घास्तण्डुला इत्यर्थः । ननु यद्यत्र समासो न स्यात् तदा कथं 'विद्यासन्ध्या' इत्यादौ विद्येव या सन्ध्या सा विद्यासन्ध्येति समासः, श्यामाशब्दवत् सन्ध्याशब्दस्य
Page #354
--------------------------------------------------------------------------
________________
३१२
कातन्त्रव्याकरणम्
सामान्यवृत्तित्वाभावात् । तथा तप्तमिव तप्तम्, तप्तं च तद् रहश्चेति तप्तरहसमिति राजादिषूदाहरिष्यते । अत्रापि रह:शब्दस्य सामान्यवृत्तित्त्वाभावादिति । सत्यम्, बहुवचनाद् व्याघ्रादित्वाद् वा समास इति । "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (अ० २।१।५६) इति पाणिनिः । अस्यार्थः- उपमितस्योपमानापेक्षितत्वाद् व्याघ्रादीनामुपमानत्वमपि गम्यते, तेनोपमेयं पूर्वपदं व्याघ्रादिभिरुपमानभूतैः परपदैः समस्यते । उभयसाधारणधर्मवाचकशब्दस्य यदि प्रयोगो न विद्यते, यथा – 'करपद्मम्' इति । सामान्यसूत्रेणैव सिद्धे यदिदं विधीयते, तदुपमानभूतस्य विशेषणस्य परनिपातार्थम् । __अस्मन्मते तदभावाद् विशेषणस्य पूर्वनिपात एव स्यादित्याह - तथोपमितमित्यादि । ननु यदि विशेषणत्य परत्वं पूर्वत्वं च स्यात् तदाऽनियमे कष्टं स्यादित्याह – अथवेति । पूर्ववदिति यथा 'याज्ञिककितवः' इत्यत्र कितवशब्दस्य विशेष्यत्वमभिधीयते, तथाऽत्रापीति को व्याघ्र इव यः पुरुषः इति । शस्त्री चासौ श्यामा चेतिवदस्यापि उपचारेण वाक्यार्थं दर्शयति । पुरुषश्चासावित्यादि । तर्हि कथं वृत्तौ पुरुषो व्याघ्र इवेति वाक्यं दर्शितम् इत्याशङ्क्याह -पुरुषो व्याघ्र इवेति, एवमन्यदपीति । मुखचन्द्रादय इत्यादि | ननु परेण व्याघ्रादिभिरिति विशेषोपादानात् तेषामेव परनिपातः क्रियते । भवन्मते व्याघ्रादिगणकृतविशेषाभावादन्ये वामपि परनिपातः स्यादिति चेद् भवत्येवेति एतदेवाह - न चेत्यादि । व्याघ्रादिभिरन्यैश्च समासोऽभिधीयते इति यदुक्तं तदेव जयादित्येन आकृतिगणत्वेन साध्यते इति भावः । ननु व्याघ्रादेराकृतिगणत्वमुच्यते, तदा कथम् अन्यैश्चेत्युक्तम् । अन्यैश्चेत्यनेनोक्तानामपि आकृतिगणत्वेनैव ग्रहणात् । नैवम्, व्याघ्रादिभिरिति यदुक्तं तेन गणपठित एव गृहाते इति। तस्मादिति। भवन्मतेऽपि आदिग्रहणे ग्रहीतव्ये यस्मादभिधानमेव शरणम् । तस्मात् तदेव शर्ववर्ममते "श्रेयः" इति परसूत्रे सामान्याप्रमाणे इत्यस्य व्यावृत्त्या यत् साध्यते, तदन्यथैवेत्याह- यदपीत्यदि । शूरादिपदसापेक्षत्वादिति। ननु सापेक्षत्वादसमास इति कथमुक्तं प्रधानसापेक्षे समासस्येष्टत्वात्। यथा'राजपुरुषः शोभनः' इत्यादि । अत एव भाषावृत्तावपि।
ननु सापेक्षत्वादेव समासो न भविष्यति किं प्रतिषेधेन, तस्मादयमेव प्रतिषेधो ज्ञापयति-प्रधानसापेक्षे समासो भवतीति, अन्यथा प्रतिषेध एव व्यर्थः स्यादित्युक्तमिति? सत्यम्। परमते सामान्याप्रयोगे उपमानभूतस्य व्याघ्रादेः परनिपातार्थं वचनमिदम् । ततश्च यत्र सामान्यभूतशूरादिपदप्रयोगः क्रियते, तत्रानेन सूत्रेणोपमानभूतव्याघ्रादेः
Page #355
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३१३
परनिपातो निषिध्यताम्, “विशेषणं विशेष्येण बहुलम् " ( अ० २।१।५७ ) इत्यनेन समासे ‘व्याघ्रपुरुषशूरः’ इति कथन्न स्यात् न च सापेक्षत्वान्न भवतीति वाच्यम् । 'सामान्याप्रयोगे' इत्यनेन मुख्यसापेक्षे समासस्य ज्ञापितत्वात् । तस्मादत्रावश्यं वक्तव्यं बहुलवचनान्न भवतीति । एवं सति अस्मन्मतेऽपि ' पुरुषो व्याघ्र इव शूरः' इत्यत्रानभिधानादेवासमास इति । यत्तु पत्रिकायां सापेक्षत्वादित्युक्तम्, तत् प्रथमकक्षायामेव बोध्यम्। ननु यदि प्रधानसापेक्षेऽप्यभिधानादसमासः, कथन्तर्हि 'मुखचन्द्रो मनोरमः, शूरोऽयं व्याघ्रपुरुषः' इत्यादौ समासः ? सत्यम् । येन धर्मेणोपमानोपमेयभावस्तद्धर्मवाचकशब्दस्याप्रयोग एवास्य सूत्रस्य विषयः । धर्मान्तरवाचकशब्दप्रयोगे तु समासः स्यादेव। तेन ‘मुखचन्द्रमनोरमः' इत्यादौ यदि आह्लादिगुणेनोपमीयते, तदा मनोरमादिशब्दप्रयोगेऽपि समासोऽविरुद्ध इति । यदि मुखं चन्द्र इव मनोरमम् इति मनोरमत्वेनोपमीयते तदा न समास इति दिक् ।
ननु ‘युवतिसरिता’ इति माघप्रयोगे “ उपमितं व्याघ्रादिभिः” (अ० २।१।५६) इत्यनेन कर्मधारये “कर्मधारयसंज्ञे तु” (२/५/२० ) इत्यादिना पुंवद्भावः कथन्न स्यात् ? सत्यम् । नात्र युवतिरिति स्त्रियां तिप्रत्ययः, किन्तु यौतेरौणादिकवतिप्रत्यये युवतिरिति निपातितमिति कुतः प्राप्तिरिति । " पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च" (अ० २ | १ | ५८ ) इति पाणिनिः । अस्यार्थः - पूर्वादयः शब्दाः समानाधिकरणेन समस्यन्ते । सामान्यसूत्रेण सिद्धे यत् पुनरिदं विधीयते तत् 'पूर्वपण्डितः' इत्यादौ विशेषणयोः समासे पूर्वादीनामेव पूर्वनिपातार्थम् । अन्यथा खञ्जकुब्जादिवद् व्यवस्था । यत्तु ‘पूर्वभार्यः' इति भाषावृत्तावुक्तं तत्तदर्थं क्रियमाणमेतदपि विषयीकरोतीति न्यायात् । तन्न वक्तव्यमित्येवाह - पूर्वापरेत्यादि । अस्मन्मतेऽभिधानात् ' पूर्वपण्डितः’ इत्येव भवति न पण्डितपूर्वः इति । "श्रेण्यादयः कृतादिभिः” (अ० २।१।५९) इति पाणिनिः । अस्यार्थः - एते श्रेण्यादयः कृतादिभिः परपदैः समस्यन्ते । श्रेण्यादयस्तु च्व्यर्थवृत्तय एव गृह्यन्तेऽभिधानात्। च्व्यर्थवृत्तित्वं तु कृतभूतशब्दाम्यां सह समासे सति बोध्यम्, अन्येन सहासंभवात् । च्व्यर्थस्तु द्विविधः - च्व्यन्तोऽच्व्यन्तश्च । तत्र च्व्यन्तस्य "ऊर्यादिडाचोऽपि" (अ० १ |४ | ६१ ) इत्यनेन गतिसंज्ञायां सत्यां “कुगतिप्रादयः” (अ० २ । २ । १८) इत्यनेन नित्यसमासोऽस्त्येव अतोऽच्व्यन्तस्यैव ग्रहणमिति । “पूर्वापराधरोत्तराण्येकदेशिनैकाधिकरणे" (अ० २।२।१ ) इति पाणिनिः । षष्ठीसमासबाधकमिदं
Page #356
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
सूत्रम् । एको देशः प्रदेशो यस्येति बहुव्रीहिणा एकादेशशब्दोऽवयवमभिधत्ते, अत एव मत्वर्थीयोऽपि सिध्यति। स हि कर्मधारयादेव नेष्यते । कर्मधारयमत्वर्थीयबहुव्रीहिरेवेष्टी लघुत्वादिति कात्यायन-वचनादिति रक्षितः । तन्न, न्यासकृतस्तु कर्मधारयादेवायं मत्वर्थीयः, कात्यायनवचनस्य नात्र विषयः, एकदेशशब्दस्य योगार्थापेक्षेण अवयवे रूढित्वादिति।‘नीलोत्पलवत्सरः' इतिवद् मत्वर्थीय इत्याहुः । तथा चायमर्थः - एकदेशिनः एकदेशापेक्षितया पूर्वादयः एकदेशवचना एव समस्यन्ते इत्यर्थादेव गम्यते । पाणिनिसूत्रे एकाधिकरण इति तृतीयार्थे सप्तमी, व्यत्ययो बहुलमिति वचनात् । तथा चात्र एकदेशिना समानाधिकरणेनेत्यर्थः । अन्ये तु नात्र तृतीयार्थे सप्तमी, किन्तु एकदेशिना एकाधिकरणे वर्तमानान्येतानि समस्यन्ते इति योजनया एकदेशिनः एकाधिकरणलाभ इत्याहुः । अतः फलितार्थ एवैकाधिकरणेत्यनेन टीकाकारेणोक्तः । तन्न एकाधिकरणशब्दोऽत्र द्रव्यवाचकः एकसंख्याविशिष्टं द्रव्यमेकाधिकरणमिति न्यासदर्शनात् ।
३१४
यद्यपि अवयवावयविनोराधाराधेयभावो विद्यते, तथापि सप्तम्यन्तेन न समासः, आधाराधेयभावस्य बाह्यक्रियापेक्षया बहिरङ्गत्वात् । यथा 'वृक्षे शाखा तिष्ठति' अयं ‘राज्ञः पुरुषः' इत्यादौ क्रियापदं विनापि वाक्यं निराकाङ्क्ष दृश्यते, तद्वद् यदि पूर्वं कायस्येति क्रियानिरपेक्षं वाक्यं स्यात् तदा षष्ठीसमासबाधकमिदं सूत्रम् । षष्ठ्यन्तस्य पूर्वपदस्य निषेधार्थं पूर्वकायो दृश्यताम् इत्यत्र यद्यपि सन्निहितं त्रयं समुदाय एकदेशो दर्शनक्रिया च निर्धारणहेतुस्तथापि समासः प्रवर्तते, न तु “ निर्धारणे " ( २ | ४ | ३६) इति निषेधः, षष्ठ्यन्तस्य पूर्वपदस्य च समासनिषेधकालेऽर्थद्वयस्यैव विवक्षितत्वात्। येषां पूर्व वाक्यं क्रियासमाप्यमिति दर्शनम्, तेषां निषेधबाधकोऽयं योग इति मैत्रेयः । “अर्धं नपुंसकम् ” (अ० २ । २ । २ ) इत्यस्यायमेवार्थः षष्ठीसमासविधानार्थम् “अर्ध नपुंसकम्” (अ० २।२।२) इति पाणिनिसूत्रं खण्डितम् । 'जातस्य मातः' इति षष्टीसमासविधानार्थं सूत्रान्तरं खण्डयति - कालवाचिनः शब्दाः इत्यादि ।
ननु अस्मन्मते 'मासपरिमाणे जातः' इति परिमाणी समासार्थः । परमते परिमाणं मास इति परिमाणमेव समासार्थः इत्यर्थभेदात् कथं तत्सूत्रखण्डनमिति ? सत्यम् । परमतेऽपि वाक्येन परिमाणार्थप्रतीतावपि रूढिवशात् समासेन परिमाण्येवाभिधीयते । तथा च श्रीपतिः-‘जातस्य मासः' इति मतेऽपि स्वभावात् परिमाण्येव समासार्थ इति भाष्यादावूरीकृतत्वाद् इह नार्थो भिद्यते' इत्याचष्टे । तस्माद् उभयथैव परिमाण्येव
Page #357
--------------------------------------------------------------------------
________________
३१५
नामचतुष्टयान्याये पनमः समासपादः समासार्थः इति निश्चितवाक्यं प्रति उभयमतेऽपि वास्तविकं समानार्थं प्रदर्शयन्नाहयस्य जातस्येत्यादि। ननु परमते सामान्येन कालस्य परिमाणिना सह समासाभिधानाद् मृतस्य मासः गतस्य मास इत्यत्रापि समासे मासमतो मासगत इति भवति। अस्मन्मते बहुव्रीहेरर्थस्याभावात् का गतिः ? सत्यम् । परमते समासस्य परिमाणाभिधानप्रसक्तौ परिमाणिनि शक्त्यन्तरमवश्यं कल्पनीयम्। अस्मन्मते शक्त्यन्तरकल्पनगौरवभयाद् मासशब्दस्यैव परिमाणसम्बन्धिपरिमेये वृत्तिं स्वीकृत्य कर्मधारयो मन्तव्य इति । राजा स्वाम्यन्तराद् व्यवच्छिद्यते इति कथमुच्यते, यावता राजेत्युक्ते सामान्यस्यामात्यादेः राजनि स्वामित्वप्रतीतौ पुरुषशब्देनामात्यादिभ्यः स्वान्तरेभ्यो राजा व्यवच्छिद्यते, पुरुषस्यैव राजा नान्येषामिति इत्युक्ते सामान्यस्यामात्यादेः पुरुषे स्वत्वप्रतीतौ राजपदेन पुरुषः स्वाम्यन्तराद् व्यवच्छिद्यते । राज्ञः पुरुष एव स्वं नान्यस्येति । तथा च राजा स्वान्तराद् व्यवच्छिद्यते पुरुषश्च स्वाम्यन्तरादिति वक्तुमुचितम् ? सत्यम् । षष्ठ्यन्तपदमवलम्ब्यैव व्यवच्छेद्यव्यवच्छेदकभावविचारः।
तथाहि पुरुषस्येति स्वषष्ट्या स्वामित्वमपेक्षते । ततः पुरुषस्य स्वामीत्युक्तेऽमात्यादेरपि स्वामित्वप्रतीतौ राजपदसान्निध्यात् पुरुषपदेन राजा स्वाम्यन्तरेभ्योऽमात्यादिभ्यो व्यवच्छिद्यते । राजेव स्वामी नान्यः, एवं राज्ञः' इति स्वामिनि षष्ट्या सामान्यस्वत्वमपेक्षते । ततश्च ‘राज्ञः स्वामी' इत्युक्ते सामान्येन स्वत्वप्रतीतौ पुरुषपदसन्निधानात् राजपदेन स्वान्तराद् धनादेः सकाशात् पुरुषो व्यवच्छिद्यते। राज्ञो नान्यद् धनादिकं पुरुष एवं स्वम्। अथवा पुरुषस्येत्युक्ते राजामात्याद्यर्थस्य स्वामित्वप्रतीतौ राजपदेन स्वाम्यन्तरेभ्यो राजार्थो व्यवच्छिद्यते। एवं राज्ञः' इत्युक्ते सामान्येन पुरुषधनाद्यर्थे स्वत्वप्रतीतौ पुरुषपदेन स्वान्तराद् धनादेः सकाशात् पुरुषार्थो व्यवच्छिद्यते इति । यद् वा 'राज्ञः' इत्युक्तेऽनेकस्य धनादेः राजनि स्वामित्वप्रतीतौ पुरुषशब्देनात्मीयस्वामित्वारोपेण धनादिसम्बन्धिस्वामित्वाद् राजा व्यवच्छिद्यत एव । पुरुषस्येत्युक्तेऽनेकस्य राजामात्यादेः पुरुषे स्वत्वप्रतीतौ राजशब्देन पुरुषे आत्मीयस्वत्वारोपेणामात्यादेः स्वत्वात् पुरुषो व्यतिक्रमेणान्वय इति। अन्येऽपि बहवः पक्षा ग्रन्थगौरवभयादुपेक्षिताः इति दिक् ।
इह त्वित्यादि। ननु जातस्यैव मासः परिमाणं न मृतस्य तथा जातस्य मास एव परिमाणं न वर्षादिकमिति कथन्न व्यवच्छेद्यव्यवच्छेदकभावः? सत्यम् । नात्र जातस्य मासः परिमाणमित्यनभिज्ञस्य जनस्य प्रतिपत्तये जातस्य मास इति प्रयोगः क्रियते.
Page #358
--------------------------------------------------------------------------
________________
३१६
कातन्त्रव्याकरणम् किन्तु सर्वथा मासपरिमाणत्वेन ज्ञातस्य स्वरूपार्थानुवादकतया एवेति हृदि कृत्वाह - इह तु मासपरिमाणिनो जातस्येत्यादि । मासपरिमाणिनो जातस्य सर्वथा मासपरिमाणित्वेन जातस्य जातस्येत्यर्थः । न परिमाणान्तरेणेति न वर्षादिनेत्यर्थः । नापीति मासमात्रपरिमाणत्वेन जातं जातमित्यर्थः। अथ तर्हि किमर्थं वाक्यप्रयोग इत्याह-वाक्यम् इति । न तु यत्र मासपरिमितत्वेनानभिज्ञस्य ज्ञापनार्थं प्रयोगस्तत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावो विद्यत एव, तत्र कथं न षष्ठीतत्पुरुषः । इदं तु प्रथमाकाङ्क्षायामुक्तम् । परमार्थतस्तु जातस्य मासः परिमाणमिति वाक्ये युक्तार्थताविधिर्न भवत्यभिधानादेवेति तात्पर्यमिति साम्प्रदायिकाः।
महान्तस्तु, ननु पाणिन्यादितन्त्रे उभयोर्व्यवच्छेद्यव्यवच्छेदकभावे षष्ठीसमास इति क्वापि न दृश्यते। ‘करिकरभकुम्भस्तनभरा, राहुमुण्डः' इत्यादौ एकतरव्यवच्छेद्यव्यवच्छेदकेऽपि षष्ठीसमासस्य सर्वतन्त्रसिद्धत्वात् कथं यत्रोभयोरिति सङ्गतिः? सत्यम्, पजीपङ्क्तेरयमाशयः । दुर्गमतेऽपि एकार्थीभाव एव समासोऽभिधीयते । एकार्थीभावश्च पदानाम् एकशक्त्यर्थप्रतिपादकत्वम्। तेन 'राज्ञ' पुरुषः' इत्यादिवाक्ये पदैः खण्डशः एवार्थ उपस्थाप्यते । अन्वयबोधाच्च विशिष्टार्थप्रतीतिः | समासे तु तैरेव पदैः स्वार्थत्यागेन समुदायेन विशिष्टार्थ उपस्थाप्यते, तत्रैव व्यवच्छेद्यव्यवच्छेदकभावविचारः। तथाहि 'राजपुरुषः' इत्यत्र समुदायेन राजसम्बन्धी पुरुष इति विशिष्टार्थप्रतिपादनार्थं राजा वाक्यप्रतिपाद्यात् स्वान्यर्थाद् व्यवच्छिद्यते। पुरुषपदेन यस्मात् पुरुषपदसान्निध्याद् राजा स्वार्थं परित्यजति। एवं पुरुषश्च वाक्यप्रतिपाद्यात् स्वरूपात् स्वार्थाद् राजशब्देन व्यवच्छिद्यते । यतो राजशब्दसान्निध्यात् पुरुषशब्दः स्वार्थं त्यजतीति राजपुरुषशब्दयोरस्ति व्यवच्छेद्यव्यवच्छेदकभावः। एतदेव हृदि कृत्वा पञ्जिकाकारःप्रोवाच- यत्रोभयोरित्यादि । राजा स्वाम्यन्तरात् समुदायप्रतिपार्या नात् स्वामित्वरूपात् समुदायार्थप्रतिपादनार्थं व्यवच्छिद्यते पृथक् क्रियते । एवं पुरुषशब्दोऽपि स्वान्तरात् समुदायप्रतिपाद्यभिन्नात् पुरुषस्वरूपात् स्वार्थाद् राजपदेन समुदायप्रतिपादनार्थं व्यवच्छिद्यते पृथक् क्रियते इति । इह त्विति जातस्य मास इति वाक्ये मासं परित्यज्य वाक्योपस्थाप्यं समासार्थं परित्यज्य जातशब्दस्य न परिमाणान्तरेण वाक्यप्रतिपाद्यार्थभिन्नसमुदायप्रतिपाद्येन सम्बन्ध इत्यादि सोपस्कृतं योज्यम् । अथात्रैव युक्तार्थता कथं न स्यादिति चेत्, न । युक्तार्थताविधेर्लक्ष्यानुसारित्वाद् इति हृदयम् ।
Page #359
--------------------------------------------------------------------------
________________
३१७
नामचतुष्टयाप्याये पत्रमः समासपादः नन्वेवं कुत्रापि वाक्ये युक्तार्थताविरहाद् वाक्यसमासयोराभिधानेन वाक्याभिधानमुचितमित्याह - वाक्यन्तु इति । मुख्यार्थकथनाय वाक्यशब्दप्रयोग इत्यर्थः । तदुक्तं न्यासकृता -वृत्तिवाक्ययोरभिन्नार्थत्वं मुख्यार्थमादायैव कथ्यते । न ह्यनयोरन्यूनातिरिक्तार्थता क्वापि संभवतीत्याहुः । अब्राह्मण इति वृत्तिः । अत्र "नञ्" इति पाणिनिसूत्रम् । अस्यार्थः- उत्तरपदेन नञ् समस्यते इति। तत्र अकारकरणात् सानुबन्धस्य नकारस्य तत्पुरुषो निरनुबन्धस्य नकारस्य "सुप सुपा" (अ० २।१।४) इत्यनेन सामान्यसमासे "गमिकर्मीकृतनैकनीवृता'' इत्यादयः प्रयोगाः सिध्यन्ति । तथा च 'न लोभो नाशुभा मतिः' इत्यत्र सहस्रनामटीकायां शङ्कराचार्येणापि "सुप सुपा" (अ०२।१।४) इत्यनेनैव समास इत्युक्तम् । तदस्मन्मते नैक इत्यादिप्रयोगा न सिध्येयुः, "नस्य तत्पुरुषे लोप्यः" (२।५।२२) इत्यनेन लोपप्रसङ्गात् । सत्यम् । अस्मन्मतेऽपि सानुबन्ध यैव नञः कर्मधारय इष्यते । निरनुबन्धस्य तु नाम्नामित्यनेन सामान्यसमासः । अतो "नस्य तत्पुरुषे लोप्यः" (२।५।२२) इत्यनेन तत्पुरुषयोग्यनकारस्य लोपात् नैक इत्यादयः प्रयोगाः सिध्यन्तीति । ननु ‘अवल्लजास्तृणम्' इत्यादौ नसमासस्योत्तरपदार्थभिन्नव्यक्तिवाचित्वाद् विशेष्यतृणादिगतमेव लिङ्गं संख्या च भवितुमर्हतीति कथम् उत्तरपदलिङ्गसंख्यानियम इत्यत आह - तद्गते च लिङ्गसंख्ये भवतः इति । नजिव युक्तमित्यादि । नञ् युक्तमिव, युक्तं च ब्राह्मणादिपदं स्वार्थादस्मिन् स्वार्थसदृशेऽधिकरणे वर्तते इति । अत्रैव हेतुमाह - तथा यर्थगतिरिति ।हि यस्मात् तादृशी अर्थावगतिरित्यर्थः । तेन ब्राह्मणशब्दस्योपचारेण सदृशार्थाभिधानाल्लिङ्गसंख्ययोरपि न परित्यागः, षट् पुरुषानित्यादौ स्वलिङ्गसंख्यापरित्यागादर्शनात् । अत्र अस्त्रियाम्' इत्यादि ज्ञापकमुन्नेयम् । तुल्याधिकरणत्वाच्चानेन कर्मधारय इति ।
ननूत्तरपदस्य स्वार्थभिन्नवाचित्वेन नोऽभावार्थः पृथग् विद्यते न वा ? सत्यम्, यद्यस्तीत्युच्यते, तदा 'अब्राह्मणः' इत्यत्र ब्राह्मणपदस्य ब्राह्मणसदृशवाचित्वेन नञश्च तदर्थभिन्नवाचित्वेन ब्राह्मणसदृशक्षत्रियभिन्न इत्यर्थे सति तुल्याधिकरणत्वमेव नास्ति, यदि नञोऽर्थ एव न विद्यते तदा सुतरामेवैकाधिकरण्यं न संगच्छते, पूर्वपदस्यार्थाभावात् ? सत्यम् । नञ्पदसन्निधानात् लक्षणया ब्राह्मणपदेन तत्सदृशं क्षत्रियादिकमुच्यते । नपदेन चानुपचरितब्राह्मणपदार्थभिन्नमेवोच्यते स्वभावात् । तदुक्तं चिन्तामणिकृता- नञ उत्तरपदार्थसदृशे क्षत्रियादौ लक्षणेति, ततश्च ब्राह्मणभिन्नोऽयं
Page #360
--------------------------------------------------------------------------
________________
३१८
कातन्वयाकरणम्
ब्राह्मणसदृश इत्यन्वयबोधात् सामानाधिकरण्यं विद्यत एवेति । एवं प्रसज्यपक्षेऽप्यूह्यमिति संक्षेपः। [एवं प्रसज्यपक्षेऽत्यन्ताभाववाचिना नत्रापि ब्राह्मणशब्दस्यार्थस्यात्यन्ताभाववानित्यस्योक्तत्वेन नजो लक्षणया विशेषस्य क्षत्रियस्य वाचकत्वादुपचरितक्षत्रियार्थाभिधायिना ब्राह्मणशब्देन सह सामानाधिकरण्यमविरुद्धम् इति न दोषः । ।।३४२ ।
[समीक्षा]
'नीलं च तद् उत्पलं च' इस लौकिक विग्रह में वर्तमान 'नीलम्' तथा 'उत्पलम्' पदों का अधिकरण एक ही है, अतः इन पदों में होने वाले समास की कर्मधारयसंज्ञा दोनों ही व्याकरणों में की गई है | पाणिनि का सूत्र है - "तत्पुरुषः समानाधिकरणः कर्मधारयः" (अ० १।२।४२) । यह कहीं पर नित्यरूप में प्रवृत्त होता है, तो कहीं उसकी प्रवृत्ति होती ही नहीं है । कहीं उपमानभूत विशेषण पूर्वपद होता है तो कहीं पर उत्तरपद आदि । कुछ आचार्य कर्मधारय-घटित 'कर्म' शब्द को धर्मार्थपरक मानते हैं । पूर्वाचार्यों द्वारा भी इस संज्ञा का प्रयोग किया गया है | जैसे -
बृहदेवता-द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च (२।१०५)। नाट्यशास्त्र - तत्पुरुषादिकसं निर्दिष्टः षड्डिधः सोऽपि (१४।३२)।
अर्वाचीन व्याकरण आदि में प्रयोग - जैनेन्द्रव्याकरण- पूर्वकालैकसर्वजरत्पुराणनवकेवलं यश्चैकाश्रये (१।३।४४) । शाकटायनव्याकरण- विशेषणं व्यभिचार्येकार्थे कर्मधारयश्च । (२।१।५८)। हैमशब्दानुशासन-विशेषणं विशेष्येणैकार्थे कर्मधारयश्च । (३।१।९६)। मुग्धबोधव्याकरण- भिन्नान्येकार्थव्यापि संख्याव्ययादीनां च-ह-य-ष-ग-वाः (सू०
३१८)। शब्दशक्तिप्रकाशिका - क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् ।
तादास्येन भवेदेष समासः कर्मधारयः ।। (कारिका ३४)। अग्निपुराण- कर्मधारयः सप्तधा नीलोत्पलमुख स्मृतः ।
विशेषणपूर्वपदो विशेष्योत्तरतस्तथा ।।
Page #361
--------------------------------------------------------------------------
________________
३१९
नामचतुष्टयाध्याये पचमः समासपादः वैयाकरणखसूचिः शीतोष्णं द्विपदं शुभम् । उपमानपूर्वपदः शङ्खपाण्डुर इत्यपि ।। उपमानोत्तरपदः पुरुषव्याघ्र इत्यपि । संभावनापूर्वपदो गुणवृद्धिरितीदृशम् ।। गुण इति वृद्धिर्वाच्या सुहदेव सुबन्धुकः ।
अवधारणपूर्वपदः - - - - - - - - - -।। (३५५।८-११)। नारदपुराण - नीलोत्पलं महाषष्ठी तुल्यार्थे कर्मधारयः (५२।९३)। [विशेष वचन] १. गुणद्रव्ययोस्तु संभवति विशेषणविशेष्यभावो द्रव्यस्यानेकगुणत्वात् (दु०
टी०)। २. शब्दप्रमाणका हि वैयाकरणाः । यच्छब्द आह स तस्यार्थः (दु० टी०)। ३. यदा शुक्लगुणयोगात् शुक्लरूप उच्यते, पुनः स एव शुक्लत्वेन विशिष्यते,
तदा 'शुक्लशुक्लः' इति भवत्येव । अतिशयशुक्ल इत्यर्थः (दु० टी०)। ४. संज्ञायामेव नित्यसमासश्चायम्, न हि वाक्येन संज्ञा गम्यते, वाक्यं तु
सुखार्थमुपदिश्यते (वि० प०)। ५. समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थम् अनुष्टुब्बन्धेन विरचित इत्यत्र विज्ञेयग्रहणम् । एवम् उत्तरेष्वपि योगेषु शब्दलाघवं न चिन्तनीयम्,
अर्थप्रतिपत्तिलाघवस्य शर्ववर्मणोऽभिप्रेतत्वाद् इति (वि० प०)। ६. वाच्यवाचकसंबन्धेन शब्दस्यार्थे वर्तमानत्वात् शाब्द्यमधिकरणमेव गृह्यते
(क० च०)। ७. 'उदयनाचार्यः' इत्यादयः प्रयोगास्तु 'उदयननामा आचार्यः' इति शाक
पार्थिवादित्वान्मध्यमपदलोपिसमासे साधवः (क० च०)। [रूपसिद्धि]
१. नीलोत्पलम् । नील + सि + उत्पल + सि । नीलोत्पल + सि । नीलं च तदुत्पलं चेति विग्रहः । “नाम्नां समासो युक्तार्थः' (२।५।१ ) से समाससंज्ञा, प्रकृत सूत्र द्वारा
Page #362
--------------------------------------------------------------------------
________________
३२०
कातन्त्रव्याकरणम्
कर्मधारयसंज्ञा, “तत्स्था लोप्या विभक्तयः' (२।५।२) से विभक्तिलोप, “उवणे
ओ" (१।२।३) से अ को ओ - उ का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२।१।१) से 'नीलोत्पल' की. लिङ्गसंज्ञा, प्रथमाविभक्ति- एकवचन सिप्रत्यय तथा "अकारादसंबुद्धौ मुश्च" (२।२।७) से 'मु' आगम -सिलोप ।
कर्मधारय के नित्य-अनित्य, उपमानपूर्वपद - उपमानोत्तरपद आदि भेदों तथा. उनमें भी मतबाहुल्य के कारण ११६ उदाहरण दुर्गसिंह ने इस समास के अपने वृत्तिग्रन्थ में प्रस्तुत किए हैं ।। ३४२ ।
३४३. संख्यापूर्वो द्विगुरिति ज्ञेयः [२।५।६] [सूत्रार्थ]
तद्धितार्थ, उत्तरपद तथा समाहार में संख्यापूर्वक कर्मधारय समास की द्विगुसंज्ञा होती है ।। ३४३।
[दु० वृ०]
कर्मधारय इति संबन्धः पञ्चसु कपालेषु संस्कृतः ओदन: ‘पञ्चकपाल ओदनः' । पञ्च गावो धनम् अस्येति ‘पञ्चगवधनः' । पञ्चानां पूलानां समाहारः- पञ्चपूली । तद्धितार्थोत्तरपदसमाहारेषु संज्ञेयम् ।। २४३ |
[दु० टी०] ____ संख्या०। संख्यैव पूर्वा यस्य कर्मधारयस्य स संख्यापूर्वः। तद्धितार्थेत्यादि। तद्धितार्थश्चोत्तरपदं च समाहारश्चेति विग्रहः। सप्तमीयम् अर्थवशाद् भिद्यते । तद्धितस्यार्थे विषयभूतेऽपत्येकणादिवर्जितस्य स्वरादितद्धितस्य चाभिधेये उत्तरपदे च परतः समाहारे चाभिधेये तेनैव समासोऽभिधीयते। तुल्याधिकरणत्वाच्च कर्मधारयः । पञ्चसु कपालेषु संस्कृत इति समासे कृते "संस्कृतं भक्ष्यम्" (अ० ४।२।१६) इत्येवम् आदित्वादण् न भवति, उक्तार्थत्वात् । यथा 'चित्रगुः' इत्यत्र मत्वर्थीयो न भवति । पञ्चसु शरावेषूद्धृत
ओदनः 'पञ्चशरावः ओदनः' । द्वौ वेदावधीते द्विवेदः। पञ्चानां गर्गाणां भूतपूर्वो गौः पञ्चगर्गरूप्यः। पञ्चसु ब्राह्मणेषु साधुः पञ्चानां नापितानामपत्यम् इति इण्, अतः 'पाञ्चनापितिः'। द्वाभ्यां नौभ्यां क्रीतम् इति इकण् 'द्वैनाविकम्'। पञ्च गावो धनमस्येति विग्रहेऽन्तरङ्गत्वात् कर्मधारयसमासे सति “गौरतद्धितार्थे" (२।६।४१-२) समासान्तादत्।
Page #363
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३२१ तथा पूर्वो गौः प्रियोऽस्येति पूर्वगवप्रियः। पञ्च नावो धनमस्य पञ्चनावधनः । द्वे खा? धनमस्येति द्विखारधनः । द्विगो वः खार्या वा समासान्तोऽत् । समुदायस्तु बहुव्रीहाविति। पञ्चपूलीति अकारान्तः समाहारद्विगुः अपात्रादिर्नदादिः ।
ननु च बाह्यव्यापारेण बुद्ध्या वा समाहरणं समाहारः एकीकरणं स च समूह एव । ततश्च तद्धितार्थः किमिति वृत्तौ भेदेन दर्शितः? सत्यम्। ग्रामजनगजबन्धुसहायेभ्यः समूहे तो दृश्यते, यथा - ग्रामता । अभिधेये तु पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी। यथा स्याद् व्यञ्जनादित्वेऽपीति भावः। द्विगुसंज्ञायां तु यथासम्भवं प्रयोजनम् अनुष्टुब्बन्धेन समासस्तद्धितश्च विरचित इह बालावबोधार्थः। शब्दलाघवं न चिन्तनीयमिति ।।३४३।।
[वि० प०]
संख्या० । तद्धितेत्यादि । एकापीयं सप्तमी अर्थवशाद् भिद्यते। तद्धितार्थे विषयभूतेऽपत्येकणादिवर्जितस्य स्वरादितद्धितस्य चाभिधेये उत्तरपदे परतः समाहारे चाभिधेये समासोऽयमभिधीयते । पूर्वेणैव तुल्याधिकरणत्वात् कर्मधारयत्वे द्विगुसंज्ञेयम् । तत्र विषयभूते इदमुदाहरणम्- पञ्चानां गर्गाणां भूतपूर्वा गौः पञ्चगर्गरूप्यः। पञ्चसु ब्राह्मणेषु साधुः पञ्चब्राह्मण्यः इति समासेन तद्धितार्थस्यानभिहितत्वात् षष्ठ्यन्ताद् भूतपूर्वेऽभिधेये रूप्यश्चेति तमादित्वाद् रूप्यप्रत्ययः। “नावस्ता]" (२।६।९) इत्यादिना च साधावर्थे यप्रत्ययः सिद्धो भवति। वृत्तौ पुनरभिधेये दर्शितम्- ‘पञ्चकपाल ओदनः' इति समासेनैव संस्कृतार्थस्याभिहितत्वात् "संस्कृतम् भक्ष्यम्" (अ० ४।२।१६) इत्येवमादित्वादण् न भवति। यथा 'चित्रगुः' इत्यत्र मत्वर्थीयो न भवति बहुव्रीहिणा तदर्थस्योक्तत्वात्। एवमन्यत्रापि। ___ अपत्येकणादीनां त्वर्थे विषयभूते एव समासे इति स्यादेव प्रत्ययः । यथा पञ्चानां नापितानामपत्यं पाञ्चनापिति. “इणतः" (२।६।५) इतीण् । एवमिकणादेरपि । द्वाभ्यां नौभ्यां क्रीतं 'द्वैनाविकम्' इत्यादि। ‘पञ्चगवधनः' इत्युत्तरपदे पञ्च गावो धनमस्येति विग्रहेऽन्तरङ्गत्वात् कर्मधारयसमासे सति "गौरतद्धिताभिधेये" (२।६।४१-२) इति राजाादित्वादत् । समुदायस्तु बहुव्रीहिः। ‘पञ्चपूली' इति समाहारे नदादित्वाद् ईप्रत्ययः। तथा च वक्ष्यति-अपात्रादिरदन्तोऽयमित्यादि ।। ३४३ ।
[क० च०]
संख्या०। नन्वेकपुरूष इत्यत्र द्विगुन्नदादित्वं स्याद् इत्याह-तद्धित इत्यादि। अयमाशयः- पूर्वाचार्यप्रसिद्धा द्विगुसंज्ञाऽन्वाख्यायते । तेन संज्ञिनां सामान्यत्वसंभवेऽपि
Page #364
--------------------------------------------------------------------------
________________
३२२
कातन्त्रव्याकरणम् पूर्वाचार्यप्रसिद्धा एव संज्ञिनो गृह्यन्ते न तु सामान्येनेति । यद् वा इतिशब्दस्य प्रसिद्धार्थत्वादेव पूर्वाचार्यप्रसिद्धानां संज्ञिनां लाभ इति । ननु पाणिनिना तद्धितार्थविषय एव समासं कृत्वा पश्चादुत्पन्नस्य तद्वितस्य लोपार्थं "लुगनपत्ये" (अ० ४ । १।८८) इत्यादिसूत्राणि विहितानि । अस्मन्मते तद्धितादेर्लोपाभावात् कथं सिध्यतीत्याह - एकापीत्यादि। अर्थवशादिति एकस्याः सप्तम्या विवक्षितार्थस्याघटनादित्यर्थः। एतेनाधारोऽत्राविशेषणसप्तम्या अर्थो विवक्षितः न तु विशेषणसप्तम्या ः स च स्वभावान्नानाविध इति । तेन क्वचिदभिधेये, क्वचिद् विषयभूते, क्वचित् परतः इत्यर्थः सिद्धो भवति । तथा च सति यत्र यत्र पराते लुगस्ति, तत्रास्मन्मतेऽभिधेये । यत्र च लुक् नास्ति, तत्र विषयभूते समासोऽयमिष्यते इति । एतदेव विवृणोति- तद्धितार्थे विषयभूते इत्यादि । अपत्येकणादिवर्जितस्येति- ननु द्वे काण्डे परिमाणमस्या 'द्विकाण्डी रज्जुः' इति । व्यञ्जनादितद्धितस्याभिधेयेऽपि समासे मात्र प्रत्ययस्यादर्शनात् कथं स्वरादितद्धितस्येत्युक्तम् ।
अत्र कुलचन्द्रः ‘नदादेराकृतिगणत्वादेवात्रापि परिमाणाविहितमात्रटप्रत्ययो नेष्यते' इत्याचष्टे । अन्ये तु स्वरादितद्धित इत्युपलक्षणमित्याहुः । अपत्येकणादीनां पुनरर्थे विषयभूत इत्यादि-ननु कथमिदं यावता याढकीत्यत्र तद्धितार्थे समासे सति ‘इकण्' न भवतीति टीकाकृता नदादिसूत्रे व्याख्यातमिति ? सत्यम्। इकणो वर्जनमपि प्रायिकमेवेति बोध्यम् । ननु पाणिनिना तद्धितार्थोत्तरपदसमाहारेषु दिसंख्ययोः कर्मधारयं विधाय संख्यापूर्वः कर्मधारयो द्विगुरित्युक्तम्। तेन पञ्च गावो धनमस्येति त्रयाणां पदानां पूर्व बहुव्रीहिं विधाय पूर्वपदयोरुत्तरपदे परे कर्मधारयः इति तन्मते सर्वमुपपद्यते। अस्मन्मते तु बहुव्रीहिषिये कथं कर्मधारयः स्यादित्याह- अन्तरङ्गत्वादिति। परोऽपि बहुव्रीहिरन्यपदार्थमितत्वाद् बहिरङ्ग इति कृत्वा स्वार्थमात्राधितत्वेनान्तरङ्गः कर्मधारयो वहुव्रीहिं बाधित्वा प्रथमतः प्रवर्तते, बहुव्रीहिस्तु पश्चादिति । नन्वेवं सति चित्रा गातो धनमस्येति वाक्ये (चित्रागोधन - इत्यत्रपि) अन्तरङ्गत्वात् कर्मधारयसंज्ञया "गौरतद्धिताभिधेये" (२।६।४१-२) इत्यत्प्रत्यये 'चित्रगवधनः' इति प्रयोग : स्यात् ? सत्यम् । 'अवयवसिद्धेः समुदायसिद्धिर्बलीयसी' (व्याः परि० पा० १०८) इति न्यायात् समुदायाश्रितबहुव्रीहिसंज्ञाविधावबाधितकर्मधारयज्ञा नास्तीत्याभ्युपगम्यते । किन्वत्रोत्तरपदं द्विगुसंज्ञाविधानतानथ्यांत त्रिपदबहुब्राहिविपर्य क्वचित् कर्मधारयनज्ञापि भवतोति ज्ञायते . स च हायकस्य लक्ष्यानुसारित्वाद् दिक्पूर्वसंख्या पूर्वे एव त्रिपदबहुब्राही ज्ञाप्यत इति।
Page #365
--------------------------------------------------------------------------
________________
३२३
नामचतुष्टयाध्याये पञ्चमः समासपादः दिक्पूर्वस्य च फलं 'पूर्वगवधनः' इति टीकाकृतैवोक्तमिति। ननु तथापि 'पञ्चगवधनः' इत्यत्र गोशब्दस्य स्त्रीत्ववृत्तिपक्षे ईप्रत्ययः कथं न स्यात् । ततश्च ‘पञ्चगवीधनः ' इति प्रयोगः स्यात् ? सत्यम् । 'असिद्धं बहिरङ्गमन्तरङ्गे' (कात० प० ३३) इति न्यायान्न भवति । तथाहि अप्रत्ययो द्विगुसमासाश्रितत्वाद् बहिरङ्गः । गोशब्दस्य स्त्रीत्वमाश्रित्यान्तरङ्गे ईप्रत्यये कर्तव्ये बहिरङ्गोऽत्प्रत्ययोऽसिद्ध इति ईप्रत्ययो न स्यादिति । अन्ये तु बहुव्रीहौ पदानामन्यपदार्थवाचित्वेनावयवपदानामर्थाभावे स्त्रीत्वाभावात् स्त्रीप्रत्ययो न भवतीति समादधुः ।। ३४३ |
[समीक्षा]
‘पञ्चसु कपालेषु संस्कृतः' इत्यादि तद्धितार्थ में, 'पञ्च गावो धनमस्य' इत्यादि उत्तरपदे में तथा ‘पञ्चानां पूलानां समाहारः' इत्यादि समाहार में पाणिनि तथा शर्ववर्मा दोनों ही द्विगु समास मानते हैं । पाणिनि का सूत्र है-"संख्यापूर्वो द्विगुः" (अ० २।१।५२)। रचनाशैली की दृष्टि से उभयत्र समानता ही कही जा सकती है, क्योंकि पाणिनि पहले कर्मधारय, तदनन्तर तत्पुरुष तथा इसके बाद संज्ञा का विधान करते हैं जबकि कातन्त्रकार 'कर्मधारय-द्विगु' संज्ञाएँ पहले प्रस्तुत करके उन दोनों की 'तत्पुरुष' संज्ञा का निर्देश बाद में करते हैं
[विशेष वजन]
१. अनुष्टुब्बन्धेन समासस्तद्धितश्च विरचित इह बालावबोधार्थः । शब्दलाघवं न चिन्तनीयमिति (दु० टी०)।
२. एकापीयं सप्तमी अर्थवशाद् भिद्यते (दु० टी०, वि० प०)। ३. अयमाशयः- पूर्वाचार्यप्रसिद्धा द्विगुसंज्ञाऽन्वाख्यायते (क० च०)।
४. एतेनाधारोऽत्राविशेषणसप्तम्या अर्थो विवक्षितः, न तु विशेषणसप्तम्याः। स च स्वभावान्नानाविधः इति, तेन क्वचिदभिधेये क्वचिद् विषयभूते, क्वचित् परत इत्यर्थः सिद्धो भवति (क० च०)।
[रूपसिद्धि]
१. पञ्चकपाल ओदनः। पञ्चन् +सुप्+कपाल+सुप् + सि । पञ्चसु कपालेषु संस्कृतः । प्रकृत सूत्र से द्विगु समास, “तत्स्था लोप्या विभक्तयः" (२।५।२) से
Page #366
--------------------------------------------------------------------------
________________
३२४
कातत्वव्याकरणम्
सुप्-विभक्ति का लोप, नलोप, लिङ्गसंज्ञा, प्रथमाविभक्ति- एकवचन में सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश ।
२. पञ्चगवधनः। पञ्चन् + जस्+गो+जस्+धन+सि | पञ्च गावो धनमस्य । पञ्चन् तथा गोशब्द का कर्मधारय समास “गोरतद्धिताभिधेये" (२।६।४१-२) से अत्प्रत्यय तदनन्तर 'धनम्' के उत्तरपद में रहने पर प्रकृत सूत्र से द्विगुसमास, "तत्स्था लोप्या विभक्तयः" (२।५।२) से विभक्तिलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा विसगदिश ।
३. पञ्चपूली । पञ्चन्+ आम्+ पूल+ आम्+ ई+ सि । पञ्चानां पूलानां समाहारः । समाहार अर्थ में प्रकृत सूत्र से द्विगुसमास, विभक्तिलोप, नलोप, ईप्रत्यय, सिप्रत्यय तथा उसका लोप
पूर्वाचार्यों द्वारा व्यवहृत द्विगुसंज्ञा - बृहदेवता- द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च ।
पञ्चमस्तु बहुव्रीहिः षष्ठस्तत्पुरुषः स्मृतः।। (२।१०५)। काशकृत्स्नधातुव्याख्यान - प्रत्ययोत्तरपदयोः (सू० ३)।
(यु० मी० व्या० - स च द्विगुसंज्ञो भवति)। नाट्यशास्त्र- तत्पुरुषादिकसं निर्दिष्टः षड्विधः सोऽपि ।। (१४।३२)। अर्वाचीन ग्रन्थों में द्विगुसंज्ञा का व्यवहार - जैनेन्द्रव्याकरण- संख्यादी रश्च (१।३।४७)। हैमशब्दानुशासन - संख्यासमाहारे च द्विगुश्चानाम्न्ययम् । मुग्धबोधव्याकरण-भिन्नान्यैकार्थद्वयापिसंख्याव्ययादीनां च-ह-य-ष-ग-वाः
(सू० ३१८)। अग्निपुराण- द्विगुराभाषितो द्विधा (३५४।१५)। नारदपुराण - पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः (५२।९२)। शब्दशक्तिएकाशिका- संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् ।
अभेदेनैव यत् स्वार्थे स द्विगुस्त्रिविधो मतः ।। (कारिका ३५) ।।३४३ ।
Page #367
--------------------------------------------------------------------------
________________
३२५
नामचतुष्टयाप्याये पनमः समासपादः
३२५ ३४४. तत्पुरुषावुभौ [२।५।७] [सूत्रार्थ] पूर्ववर्ती कर्मधारय तथा द्विगु की तत्पुरुषसंज्ञा होती है ।।३४४। [दु० वृ०]
उभौ द्विगुकर्मधारयौ तत्पुरुषसंज्ञौ ज्ञेयौ। तत्पुरुषप्रदेशाः- "नस्य तत्पुरुषे लोप्यः" (२।५।२२) इत्यधिकारे 'कूष्ट्रः' इति कद्भावो बहुव्रीहौ न स्यात् ।।३४४ ।
[दु० टी०]
तत्पु०। महाराजः, व्यहः त्र्यहः। तत्पुरुषत्वादद् भवति। द्विगोः कर्मधारयत्वे तत्पुरुषसंज्ञा सिद्धैव विशेषातिदिष्टत्वाद् अनन्तमात्रस्य न भवति। यत् कृतम् उभाविति, तदिह सुखार्थम् ।।३४४॥
[वि० प०]
तत्पु०। नस्येत्यादि। ननु ‘महाराजः, व्यहः, त्र्यहः' इति तत्पुरुषत्वाद् अत्प्रत्ययोऽपि प्रयोजनमस्त्येव तत् कथं नोक्तम् । तथा च बक्ष्यति- 'प्रागुक्तो विधिस्तत्पुरुष एव इति, सत्यम् । एवं मन्यते- न तत् सूत्रम्, अपितु राजादिराकृतिगणः। ततः कर्मधारयादपि भविष्यति । स्थितेऽपि सूत्रे प्रयोजनं भवति। अत एव 'तत्पुरुषप्रदेशाः' इति वृत्तौ बहुवचनमुक्तम् ।।३४४ ।
[समीक्षा]
तत्पुरुष समास के ही 'द्विगु- कर्मधारय' में दो प्रमुख भेद माने जाते हैं। पाणिनि ने "तत्पुरुषः समानाधिकरणः कर्मधारयः" (अ० १।२।४३) इस कर्मधारयसंज्ञाविधायक सूत्र में तत्पुरुष का साक्षात् उल्लेख किया है, तथा “तत्पुरुषः" (अ० २१ २२) के अनन्तर “द्विगुश्च" (अ० २।१।२३) सूत्र बनाकर द्विगु की भी तत्पुरुषसंज्ञा की है। शर्ववर्मा ने २।१।५ में कर्मधारय संज्ञा एवं २।१।६ में द्विगुसंज्ञा करने के बाद उन दोनों को प्रकृतसूत्र से तत्पुरुषसंज्ञक माना है । इस प्रकार रचनाशैली की दृष्टि से कातन्त्रीयविधान सुविधाजनक कहा जा सकता है ।। 3४४।
Page #368
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
३४५. विभक्तयो द्वितीयाया नाम्ना परपदेन तु।
समस्यन्ते समासो हि ज्ञेयस्तसुरुषः स च ॥ [२।५।८] [सूत्रार्थ]
परवर्ती पदों के साथ द्वितीयादि विभक्तियों का जो समास होता है, उसे तत्पुरुष कहते हैं। अर्थात् उसकी तत्पुरुषसंज्ञा होती है ।।३४५।
[दु० वृ०] यत्र समास इति संबन्धः।
द्वितीया- कष्टं श्रितः कष्टश्रितः। एवं कान्तारातीतः, नरकपतितः, ग्रामगतः, तरङ्गात्यस्तः, सुखप्राप्तः, दुःखापन्नः, ग्रामगमी, ग्रामागमी ।ओदनबुभुक्षुः । खट्वारूढो जाल्मः। अहरतिसृता मुहूर्ताः, अहःसंक्रान्ताः, रात्र्यारूढाः। मासप्रमितश्चन्द्रमाः, मुहुर्तसुखम्, सर्वराजकल्याणी। क्वचिद् वाक्यमेव-ओदनं भुक्तवान् ।
तृतीया- गिरिणा काणः गिरिकाणः, एवं धान्यार्थः मासपूर्व,: पितृसदृशः, पितृसमः, मासोनः, मासविकलः, असिकलहः। वानिपुणः, गुडमिश्रः, वाक्श्लक्ष्णः। तथा- राजहतः, नखनिर्भिन्नः, काकपेया नदी, बाष्पच्छेद्यानि तृणानि क्वचिन्न स्यात्काकेन पातव्या। क्वचित् स्यात् बुषोपेन्ध्यम्, घनघात्यम्, दध्मा उपसिक्त ओदनः। गुडेन मिश्रा धानाः ‘गुडधानाः' ।
चतुर्थी- गोभ्यो हितं गोहितम्। एवं गोसुखम्, कुबेरबलिः, गोरक्षितः, यूपाय दारु यूपदारु, देवदेयं पुष्पम्, ब्राह्मणदेयं धनम्, वरप्रदेया कन्या। क्वचिन्न स्यात्ब्राह्मणाय दातव्यम् । ब्राह्मणार्थः पूपः, ब्राह्मणार्था प्रपा, ब्राह्मणार्थं पयः । नित्यसमासः, सर्वलिङ्गता च।
पञ्चमी-वृकाद् भयम् 'वृकभयम्'। एवं वृकभीतः, वृकभीतिः, वृकभीः, ग्रामनिर्गतः, सुखापेतः, कल्पनापोढः, चक्रमुक्तः । मञ्चपतितः, तरङ्गापत्रस्तः ।
षष्ठी- राज्ञः पुरुषः ‘राजपुरुषः' । एवम् आत्मषष्ठः, भिक्षाद्वितीयः, वर्तमानसामीप्यम्, चन्दनगन्धः, नदीघोषः, कन्यारूपम्, स्तनस्पर्शः, फलरसः, ब्राह्मणस्य कर्तव्यम्। वृत्तिरपीष्यते। ब्राह्मणस्य कुर्वन् , ब्राह्मणस्य कुर्वाणो वाक्यमेव । तथा फालानां तृप्तः, छात्रस्योच्चैहमिति सापेक्षत्वात् । पलाशशातनम्, मातृस्मरणम्, सुरेश्वरः, राजपूजितः इत्यादिषु संबन्धषष्ट्या समास एवं ।
Page #369
--------------------------------------------------------------------------
________________
३२७
नामचतुष्टयाध्याये पचमः समासपादः सप्तमी-अक्षेषु शौण्डः ‘अक्षशौण्डः'। एवम् अक्षधूर्तः, अक्षकितवः। वनेऽन्तवसतिः वनान्तर्वसतिः। तथा काम्पिल्यसिद्धः, छायाशुष्कः, कुम्भीपक्वः, चारकबन्धः, तीर्थ-ध्वाङ्क्षः, तीर्थकाकः तथा पूर्वाह्वगेयं साम, मासदेयम् ऋणम्, पूर्वाह्नकृतम्, अपराह्णकृतम्, पूर्वरात्रकृत्रम्, अपररात्रकृतम् । एवमन्येऽपि।
परपदेनेति किम् ? गतो ग्रामम् । कथं प्राप्तो जीविकां प्राप्तजीविकः? एवम् आपन्नजीविकः? अत्यादयः क्रान्तायर्थे द्वितीयया - अतिकान्तः खट्वाम् अतिखट्वः? अवादयः क्रुष्टायर्थे तृतीयया-अवक्रुष्टं कोकिलया अवकोकिलं वनम् ? एवम् अवमयूरम् । पर्यादयो ग्लानायर्थे चतुर्थ्या-परिग्लानोऽध्ययनाय पर्यध्ययनः ? निरादयो गतायर्थे पञ्चम्या- निर्गतः कौशाम्बिः? सत्यम् । कृते समासे पूर्वनिपातः, अभिधानात् । यथा दन्तानां राजा 'राजदन्तः' इति। 'कुब्राह्मणः' इत्यादीनां कर्मधारयः।। ३४५।
[दु० टी०]
विभक्तयः। आदौ भवा आद्याः। द्वितीया आद्या यासां ता द्वितीयाद्या विभक्तयः परपदेन तु नाम्ना समस्यन्ते । हि यस्मात् समासः स तत्पुरुषो ज्ञेय इत्यर्थः । बुद्धिविवक्षायां वाक्यसमासपक्षे वा तेनैव समास इति भावः । पूर्वपदेन तु समासो नाभिधीयते । वाक्यसमासैकनिष्ठः पुनराह - नियमपूर्विकेयं संज्ञेति । विभक्तयो द्वितीयाद्याः परपदेनैव नाम्ना भिन्नाधिकरणेन समस्यन्ते इति । तेन गतो ग्रामम् इत्यादिषु समासो न स्यात् । केवलादपि गमेर्णिन्-ग्रामगामी । भविष्यति गम्यादयो निपाता गृह्यन्ते । खट्वारूढ इति । स्वभावात् क्षेपो निन्दा समासवाच्य एवायं न वाक्यगम्यः अधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वा रोढव्या, योऽन्यथा खट्वारोहणं करोति स विमार्गस्थितस्तिरस्कारार्थमेवमुच्यते। क्षेपादन्यत्र नाभिधीयते समासः। खट्वामारूढोऽध्यापकोऽध्यापयति । स्वयम् इत्यव्ययमात्मनेत्यर्थे वर्तते स्वयं विधौतौ पादौ । तत्पुरुषसंज्ञाया इह प्रयोजनं नास्ति समासस्तु तेनैव ऐकपद्यात् तद्धितसमासान्तरयोग्यः स्यात्। तथा सामीत्यव्ययम् अर्धपर्यायः, सामिकृतमेकपदं भवति। अहरतिसृता इत्यादि ।
__काला इति षण्मुहूर्ताश्चराचरास्ते रात्रिं गच्छन्ति कदाचिद् दक्षिणायने, कदाचिदहर्गच्छन्त्युत्तरायणे मासप्रमित इति आदिकर्मणि क्तः । मासं प्रमातुमारब्ध इत्यर्थः। क्तेनापि विना कालवाचिनां समासः मुहूर्तसुखमित्यादि। सर्वा चासौ रात्रिश्चेति समासान्तोऽत्।सुखकल्याणीभवनेन व्याप्यत्वादत्यन्तसंयोगः। तस्माद् "वितीया श्रितातीत
Page #370
--------------------------------------------------------------------------
________________
३२८
कातन्वव्याकरणम् पतितगतात्यस्तप्राप्तापन्नैर्गम्यादिभिः, खट्वा क्षेपे, तान्तेन, स्वयम्, सामि, कालात्यन्तसंयोगे च" (अ० २।१।२४,२६,२५,२७,२८,२९) इति नाद्रियन्ते यथेष्टं महाकविनिबन्धा दृश्यन्ते दीर्घाघ्रातानित्यादयः, तस्मादभिधानमेवाश्रयः इत्याह-क्वचिदित्यादि । भुक्तवान् इत्यनेन क्तवन्तुरिहोपलक्ष्यते, तेन धान्यं छिन्नवानित्यादि। तृतीयान्तस्य गुणवचनेन तृतीयान्तकृतेनार्थशब्देन च पूर्वसदृशसमानार्थकलहनिपुणमिश्रश्लक्ष्णैश्च समासस्तेनैव ।
ननु च 'गिरिकाणः' इत्यत्र नामकरणतापेक्षया कारकलक्षणा तृतीया स्याद् अर्थादिशब्दयोगे कथमिति? सत्यम्, भवतेर्गम्यमानत्वात् सर्वत्रैव तृतीया करणे, कृतशब्दो वाऽत्र गम्यमानार्थ इति कर्तरि तृतीया। कथं पित्रसदृशः, पितृसमः? तुल्याथै ः सह भावनायां तृतीयेत्युक्तम् । ननु च सर्वथा सदृशशब्दस्य योगभावनायां तृतीयासमासो नाभिधीयते। न हि देवदत्तेन गतो 'देवदत्तगतः' इति स्यात् ? सत्यम्, सदृशसमाभ्यामभिधानात्। अथवा षष्ठीसमासो भविष्यति। यथा 'पितृतुल्यः' इति। अनभिधानाद् धान्येन धनवान्, घृतेन पाटवमिति। गुणे वर्तित्वा योऽन्यद्रव्ये वर्तते न गुणवचन इत्युक्तम् । तथा हेतुविशेषणकुत्सिततृतीयाया न समासाभिधानम् । अथवा कन्याशोको देवदत्तस्येति संबन्धमात्रविवक्षायां भवितव्यम्, हेतुविवक्षायामपि तु यदि स्यात् का वस्तुक्षतिरिति? जटायुक्तस्तपस्वी जटातपस्वीति विवक्षायां भाव्यमेव विशेषणविवक्षयापि का वस्तुक्षतिरिति भावः । अक्षि काणमस्येति ‘अक्षिकाणः' इति भवितव्यमेव 'अक्ष्णा काणः' इति विवक्षायां का वस्तुक्षतिरिति । परमतेनापि भवितव्यमेव। यथा गिर्यादिना काणः कृतस्तथा अक्षणापि, न ह्यचक्षुः काणो भवति 'प्रमादकाणः, प्रमादमूर्खः' इति च दृश्यते एवं 'धान्यधनवान्, घृतपाटवम्' इति संबन्धविवक्षया चेत् तृतीययापि का वस्तुक्षतिरिति भावः। एवं कर्तृकरणयोस्तृतीयायाः कृदन्ते यथाभिधानं 'राजहतः' इत्यादि राज्ञा का हतः, नखैः करणैर्निभिन्नः इति समास एव । पादाभ्यां ह्रियते पादहारकः । संज्ञाशब्दोऽयं "कृत्ययुटोऽन्यत्रापि" (४।५।९२) इत्यपिशब्दस्य बहुलार्थत्वात् कर्मणि वुण गले चुप्यते 'गलेचोपकः' इति यथा कर्तरि करणे वा तृतीया तादर्थ्यचतुर्थ्या वाभिधानात् समासः, पदार्थं ध्रियते नपुर इत्यर्थः। 'दात्रेण लूनवान्, परशुना' छिन्नवान्-वाक्यमेव । तथा कृत्यान्तैरधिकार्थवचनैः स्तुतिनिन्दानिमित्तक मध्यारोपितवचनमधिकार्थवचनम् । पूर्णत्वोभावनं नद्याः स्तुतिर्निन्दार्थमध्यारोपितार्थः काकपेयत्वम् एवं नाम पूर्णा यत् तटस्थैः काकैरपि पातुं शक्या, तथैवं मृदूनि तृणानि,
Page #371
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
यद, बाष्पैरपि छेत्तुं शक्यानि इति । अन्यस्त्वाह - योग्यतयाऽध्यारोपितार्थवचनमधिकार्थवचनं मांसान्योष्ठावलेप्यानि निन्दाविवक्षाऽत्र गरीयसीति । अधिकार्थवचनादन्यत्र काकै: पातव्या नदीति स्वरूपस्याविष्करणं क्वचित् स्यादिति । 'बुषैरूपेन्ध्यः' इति इन्धेर्घ्यम् । घनेन घात्यमिति स्वराद् यः अधिकार्थवचनादन्यत्रापीति भावः । तथा व्यञ्जनवाच्यान्नवाचिना मिश्रीकरणवाचिनेति । संस्कारकं व्यञ्जनम्, संस्कार्यमन्नम् । मिश्रीकरणं च संस्कारकं भक्ष्यस्येति ।
३२९
"
ननु च क्रियाकृतः कारकाणां सम्बन्धो न स्वभावात् काचिद् वृत्ताविह क्रिया श्रूयते इति परस्परसंबन्धात् कथं समासः ? सत्यम् । वृत्तेः पदेनैवोपसिक्तादिक्रियायाः प्रख्यापनादस्ति संबन्धः । यथा गुडादिपदैः स्वभावान्माधुर्यादयो गम्यन्ते, किमुपसिक्तेन पृथगेव वाक्यमाह–दध्नोपसिक्त इत्यादि । चतुर्थीत्यादि । हितादिभिस्तादर्थ्य एव चतुर्थी । परस्त्वाह - विकृतिः प्रकृत्या समस्यते इति । यूपायेति व्यपदेशान्तरयोगेन यूपस्य विकृतित्वम् । रन्धनं न विकारः, स्थाल्या इति रन्धनाय स्थालीति वाक्यमेव । यथा गोभ्यो रक्षितं तृणम्, कुबेराय बलिः, भक्तमिति नात्र प्रकृतिविकृतिभावस्तादर्श्यमिति । यद्येवम् ‘अश्वघासः, श्वश्वम्बरम्, हस्तिपिधानम्, अवहननोदूखलम्, नाट्यशाला, रन्धनगृहम्, वासभवनं न सिध्यति । अथ अश्वस्य घासः अश्वघास इति षष्ठी - समासश्चेत् ‘गोहितम्, रन्धनस्थाली' इति कथन्न भवति । तस्माच्चतुर्थीसमासे षष्ठीसमासे च नास्ति विशेषः तथा च भाष्यकारोऽप्याह- अश्वघासादयः षष्ठीसमासा भविष्यन्ति यद्धि यदर्थं तत् तस्यापीति सम्प्रदानचतुर्थ्या अपि समासो दृश्यते इत्याहदेवाय देयमित्यादि। ग्रामाय गतो 'ग्रामगतः' इति द्वितीयायाश्चतुर्थ्याश्च समासो विशेषभाव इत्यविरोधः । 'देवाय नमः' इति नमआदिभिरनभिधानादसमासः । ब्राह्मणार्थमित्यादि । तादर्थ्यचतुर्थ्या अर्थशब्देन गतार्थत्वादेवाप्रयोग इति वाक्यनिवृत्तिः सिद्धैव, समासस्त्वाविर्भावनमात्रमुच्यते, स्वभावसिद्धत्वात् । यद्यप्यर्थशब्दः पुंलिङ्गः उत्तरपदार्थप्रधानश्च तत्पुरुषः, तथापि वृत्तिशब्दानामत्यन्तवैलक्षण्याद् ब्राह्मणार्थशब्दः कृतसमासो येन येनाभिधेयेन संबध्यते, तस्य तस्य गुणवचनवल्लिङ्गमादत्ते, स्वाभावादिति । अपर आह-बहुव्रीहिणा लिङ्गविशेष इति ब्राह्मण एवार्थो यस्याः प्रपायाः सा ब्राह्मणार्था । एवं ब्राह्मणार्थं पयः इति यद् वस्त्रादिकं मातृनिमित्तं तस्य माता प्रयोजनं भवति, विवक्षया नार्थो भिद्यते, न च महदर्थम् इत्यात्त्वं प्रसज्येत, भिन्नाधिकरणबहुव्रीहित्वात् । महद्भ्यो
Page #372
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
यो महान्, तद्विषयोऽर्थः प्रयोजनमस्येति महद्भ्यो महतीदमित्यर्थो न भिद्यते । तत्पुरुषे त्वर्थशब्दस्य पुंलिङ्ग्ङ्गत्वात् पुंलिङ्ग एव समासः स्यात्, वचनमपि सर्वलिङ्गतार्थं क्रियमाणयुक्तमिति।
३३०
पञ्चमीत्यादि । “भयमीतभीतिभीभिर्निर्गतेन चापेतापोढमुक्तपतितापत्रस्तैरल्पशः” (अ० २ । १ । ३७-३८) इति नाद्रियते ? अधर्माज्जुगुप्सुरित्यादिदर्शनात्।‘अल्पश:' इति वचनान्महतो न स्यात्। 'प्रासादात् पतितः' इत्ययुक्तम् । भास्वद्ग्रावोद्गतेनेत्यादिदर्शनात् । न च तत्राल्पविवक्षा । पुंलिङ्गत्वाद् देवदत्तात् पूर्वः' इत्यादौ सापेक्षत्वादसमास इति । षष्ठीत्यादि। ‘आत्मषष्ठः' इति पूरणप्रत्ययान्तेनाप्यभिधानात् समास इति भावः। ‘छात्राणां पञ्चमः' इत्यादिष्वनभिधानमेव । वर्तमानसामीप्यमिति । यथा गन्धादिष्वगुणवचनेषु समासो दृश्यते, भावान्तेष्वपीति भावः । समीपस्य भावः सामीप्यम्, वर्तमानस्य सामीप्यमिति विग्रहः । तद् यथा - गोशतम्, गोसहस्रम् बुद्धिवैगुण्यम्, करणपाटवम्, पुरुषसामर्थ्यम्, अङ्गमार्दवम्, बुद्धिकौशलम् बुद्धिनैपुण्यम्, पटुचापलम्, अर्थगौरवम्, शब्दलाघवम्' उदाहरणभूयस्त्वम्- 'द्रव्यकाठिन्यम्, आत्मशौचम्' इत्यादयो दृश्यन्ते । गुणवचनानां तु विशेष्यसापेक्षत्वादसमासः । चन्दनस्य मृदुरिति गन्धोऽत्र विशेष्यः । तव्यप्रत्ययेनापि यथा वाक्यं तथा समासो दृश्यते इत्याह- ब्राह्मणस्य कर्तव्यम् इत्यादि । ‘ब्राह्मणस्य कुर्वन्’ इत्यादि कर्मपदान्तरस्याविवक्षायां सामर्थ्यं चेत् तथापि शन्तृङानशोः प्रथमैकाधिकरणे क्रियापेक्षायां विधानात् सापेक्षतेति भावः ।
एवं ‘मातुः स्मरणम्, सर्पिषो दयमानः' इति तथेत्यादि । यथा शन्तृङानशोर्वाक्यं तथा ‘फलानां तृप्तः’ इति वाक्यमेव, अकर्मकत्वात् कर्तरि क्तः, सम्बन्धे षष्ठीयम् । ननु 'करणविवक्षायां फलैस्तृप्तः फलतृप्तः इति समासः केन वार्यते । यदि षष्ठीसमासोऽपि स्याद् बुद्धिभेदात् कोऽपरो भेद इति । 'फलानामाशितः, फलानां सुहितः' अव्ययेनापि न्यायादसमास इत्याह- छात्रस्येत्यादि । किमुच्चैर्गृहमित्यपेक्षते । यथा ब्राह्मणस्य शुक्ला: केशदन्ता इति । तथा मित्रस्य कृत्वा प्रियस्य कृत्वेति परकालापेक्षता शर्ववर्मणः सूत्रकारस्येति समानाधिकरणे समासो नास्ति । धनादिसंबन्धे षष्ठीति परस्परैकार्थत्वाद् असम्बन्ध इति। एवं निर्धारणे या षष्ठी, तस्याश्च शूरादिपदापेक्षया निर्धारणप्रत्ययात् 'पुरुषाणां क्षत्रियः शूरः, गवां कृष्णा सम्पन्नक्षीरा, गच्छतां धावन्तः शीघ्राः' इति । यथा सर्पिषो ज्ञानं सर्पिर्ज्ञानम् इति सम्बन्धषष्ठ्याः, तथा कर्तृकर्मणोः कृति विहिताया
1
Page #373
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
अपि इत्याह- पलाशशातनमित्यादि । शातंयत्यनेन, शातयतीति वा करणे कर्तरि वा युट् । एवम् इध्मव्रश्चनः पलाशस्येति कर्मणि षष्ठी । मातुः स्मरणमपि कर्मणि, तथा 'सुराणाम् ईश्वरः' इति । योऽपि प्रतिपदविहितायाः षष्ठ्याः समासं नेच्छति, तेनापि सम्बन्धषष्ठ्याः समासः एष्टव्य एवेति भावः, प्रयोगाणामेषां लोकसिद्धत्वात् ।
३३१
राजपूजित इत्यादिष्विति । राज्ञां पूजित इति " वर्तमाने क्तः " (अ० ३।२।१८८)। आदिग्रहणेन ' इदमेषामाशितम्, आश्चर्यो गवां दोहोऽगोपालकेन । भवतः आसिका, अपां स्रष्टा, ओदनस्य पाचिका' इति । अधिकरणविहिते क्ते " उभयप्राप्तौ कर्मणि कर्तरि च " (अ० २।३।८) यौ तृजकौ, तत्र संबन्धषष्ठ्याः एवेति भावः। यथा ‘ब्राह्मणयाजकः, गुरुपूजकः' इति याजकादिभिरिष्यत एवेति । तथा क्रीडायां जीविकायां च रूढित्वान्नित्यसमास एवेति । 'उद्यानपुष्पभञ्जिका' इति कस्याश्चित् क्रीडायाः संज्ञा, “संज्ञायां च " ( ४|५|८८) इति वुञ् । 'दन्तलेखकः' इति जातिचचनसमुदायः, कर्तरि वुण् । तस्मान्निर्धारणपूरणगुणसुहितार्थेत्यादीनां सूत्राणामिह नैवादर इति । तथा च पटशौक्त्यादीनां भावप्रत्ययान्तानां प्रयोगो भट्टेनापि निश्चित इति । वैशेषिकाणां दर्शने तु नैते गुणा इति समासो न विहन्यते । वाक्यपद्यां च स्वभावार्था एवैते योगाः खलु निश्चिताः इति संक्षेपार्थः । सप्तमीत्यादि । शौण्डादिभवनेऽक्षादीनां विषयादिभावादधिकरणता । शौण्डादिभिरन्यैश्च समासेन भाव्यम् । एवं परेषां गणपाठोऽनर्थकः । ध्वाङ्क्षार्थेन क्षेपे समासः अभिधानात् । तीर्थेत्यादि । ध्वाङ्क्षपर्यायाणां भवने तीर्थम् औपश्लेषिकमधिकरणम् उपमानेन क्षेपो गम्यते-तीर्थे ध्वाङ्क्ष इवेति । यथा तीर्थे ध्वाङ्क्षो न चिरं स्थाता, तद्वत् कर्तव्यं प्रत्यस्थिरः स तीर्थध्वाङ्क्षवाच्यः । इवार्थस्तु समासान्तर्भूत इति कृत्यप्रत्ययान्तेनावश्यम्भावे गम्यमाने समासः, अभिधानात् । तथेत्यादि । पूर्वाह्ण इति विषयभावे सप्तमी । मासदेयमृणमिति सामीपिकमधिकरणम् । माससमीपे दिवसे यद् ऋणदानादिकं तदपेक्षया देयम्, मासे व्यतीतेऽनन्तरो दिवसः समासप्रत्या-सन्नत्वाद् उपश्लेषलक्षणा वा भावलक्षणा वा सप्तमीत्येके । संज्ञायां विषयेऽभिधानाद् ‘अरण्ये तिलकाः, वने कशेरुकाः, वने वल्लजाः' । सप्तम्या अलोप एव | अत्रेति क्तान्तेन समस्यते एकपदार्थम् - तत्रकृतम्, तत्रभुक्तम् । तथा क्तान्तेन क्षेपः ‘अवतप्ते नकुलस्थितम्' अवतप्ते प्रदेशे नकुलश्चिरं स्थाता न स्यात् । स्वभावादयमपि उपमानाभिधायी समासः । यः कार्यमारभमाणश्चिरं न तिष्ठति स एवमुच्यते ।
Page #374
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
एवम् 'उदके विशीर्णम्, प्रवाहे मूत्रितम्, भस्मनि हुतम्' । निष्फलमनुष्ठानमुच्यते । स्वभावादलोप इह सप्तम्याः- - पात्रेसमिताः, पात्रेबहुलाः, उदुम्बरमशकः, कूपमण्डूकः, मातरिपुरुषः, पिण्डीशूर : गेहेनर्दी, गोष्ठेपण्डितः, गोष्ठेपटुः । अवधारणेन क्षेपः ‘पात्र एव समिताः, पिण्ड्यामेव शूरः' इति । क्वचिदुपमया क्षेपः - उदुम्बरेण मशक इति उदुम्बरमशको यस्तत्रैवाबद्धो न क्वचिद् याति तमेवोत्कृष्टं मन्यते स एवोच्यते यथालक्ष्यं योज्यम् । पात्रेसमितादीनां समासान्तरं नाभिधीयते इति 'परमाः पात्रेसमिताः' इति । तद्धितास्तु दृश्यन्ते - पात्रेसमितस्यापत्यं पात्रेसमितिः । अहोरात्रावयवाः क्तान्तेनेति । पूर्वाह्णकृतम्, अपररात्रकृतम् | अवयवादन्यत्र - अह्नि कृतम्, रात्रौ कृतम् । कथं दिवसकृतम्, रात्रिकृतमिति करणतृतीयायाः समासः । यथा अन्यजन्मकृतम् इति बुद्धेरन्यः को भेद इति किं विशेषवचनेन ? कथमित्यादि । नियमपक्षे दुष्यतीति भावः । परिहारमाह – सत्यमित्यादि । द्वितीयान्तानामेव प्राप्तादिभिः समासः। वाक्यसमासपक्षेऽपि पूर्वनिपात इत्यादि । समासराशिपक्षे तु न चोद्यम् एवम्भूता एवामी शब्दाः, स्वभावादिति । अथवा बहुव्रीहिणा साध्यते - प्राप्ता जीविका येन, आपन्ना जीविका येन, अर्थस्याभेदात् । प्राप्ता जीविका यया, आपन्ना जीविका यया सा प्राप्तजीविका, आपन्नजीविका इति । पूर्वपदस्य च तुल्याधिकरणत्वात् पुंवद्भावः पूर्वपक्षे तु याकारौ स्त्रीकृतौ ह्रस्वौ क्वचिदिति प्रतिपत्तव्यम् । द्वितीयासमासोऽपीष्यत एव जीविकाप्राप्तः, जीविकापन्नः। स्वरविधेरनादरादिह बहुव्रीहिरेव श्रेयान् । पूर्वनिपातपक्षस्तु अभ्युपगमवादेन दर्शितः । अत्यादय इत्यादि । नित्यसमास एवाभिधानात् क्रान्ताद्यर्थवृत्तित्वाच्च संबन्धोऽप्यस्तीति शब्दान्तरेणार्थस्त्वाविर्भाव्यते । अतिकान्तो राजानम् ‘अतिराजः' इति तत्पुरुषत्वादत् । कुब्राह्मण इति । कुशब्दोऽयमव्ययः कुत्सितो ब्राह्मण इति । भवति हि तुल्याधिकरणः । तथा ईषदुष्णं कोष्णम् । तथा प्रादयो गतार्थे प्रथमया" । प्रगतः आचार्य:, प्रान्ते वासी प्रवासी । एवं प्रणायकः, प्रगतो नायकः। अधिसेकः, अधिकः सेकः । दुर्निन्दार्थः, दुष्पुरुषः । कृच्छ्रार्थेऽपि दृश्यते – दुष्कृतम्, कृच्छ्रकृतमित्यर्थः । सुपुरूषः, शोभनः पुरुषः । सुकृतम् । सुष्ठु कृतम् । अतिष्टुतम्, अतिशयेन स्तुतम् "स्वतिभ्यां पूजायाम्” षत्वम्, अतिस्तुतम्, अतिक्रान्तं स्तुतम्। आकडारः, ईषत्कडारः । आबद्धः, सुष्ठु बद्धः || ३४५ |
[वि० प० ]
विभक्तयः। अनुष्टुभैव सूत्रार्थः स्पष्टमाख्यातः इति न विवृतः, नाम्नां युक्तार्थत्वात् समासः सिद्ध एव । यदिह पुनर्विधानं तत् सुखार्थमेव, नियमार्थमित्यपरः । परपदेनैव
३३२
Page #375
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३३३ नाम्ना समस्यन्ते, न तु पूर्वपदेनेति । पूर्वपक्षे तु गतो ग्रामम् इत्यादिष्वनभिधानादेव न भवति। "द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः" (अ० २।१।२४) इति कश्चिदाह-तदिह सामान्यविधानात् सिद्धमित्याह - कष्टं श्रित इत्यादि । तथाहि दीर्घाघ्रातानित्यादयो यथेष्टं महाकविनिबन्धाद् द्वितीयासमासा दृश्यन्ते, तस्मादभिधानमेव श्रेयः किं विशेषवचनेन । तथा "गम्यादीनामुपसंख्यानम्" (अ० २।१।२४-वा०) इत्यपि न वक्तव्यमित्याह - ग्रामगमीत्यादि । गमिष्यतीति गमी। “भविष्यति गम्यादयः" (४।४।६८) इति निपात्यन्ते। ग्रामं गमी, ग्राममागामीति निष्ठादेराकृतिगणत्वादिह कृप्रयोगेऽपि षष्ठीप्रतिषेधः 'खट्वारूढो जाल्मः' इति, विमार्गस्थित इत्यर्थः। अधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वा आरोढव्या। तत्र योऽन्यथा खट्वामारोहति स तिरस्कारार्थमेवमुच्यते । खट्वारोहणं चात्र विमार्गस्थितस्योपलक्षणम् , सर्व एवाविनीतः खट्वारूढ उच्यते। नित्यसमासश्चायम्, न हि वाक्येन क्षेपो गम्यते। खट्वा क्षेपे क्तेन समस्यते, अभिधानात् । क्षेपादन्यत्र न भवति-खट्वामारूढोऽध्यापयति। तस्मात् किं "खट्वा क्षेपे" (अ० २।१।२६) इति वचनेन।
तथा कालाः क्तेन समस्यन्ते इत्याह-अहरित्यादि षण्मुहूर्ताश्चराचरास्ते चाहर्गच्छन्त्युत्तरायणे, रात्रिं गच्छन्ति दक्षिणायने इति । मासप्रमितश्चन्द्रमाः' "आदिकर्मणि कर्तरि च" (४।६।४८) इति कर्तरि क्तः। मासं प्रमितो मासप्रमितः। मासं प्रमातुरारब्धः प्रतिपच्चन्द्रमा इत्यर्थः। तथा अत्यन्तसंयोगेऽपि समासं दर्शयति-मुहूर्तसुखम् इत्यादि । इह भवतेरन्तर्भूतक्रियान्तरस्य गम्यमानत्वात् कर्मत्वम् । सर्वा चासौ रात्रिश्चेति विग्रहे "अहःसर्वेकदेश०" (२।६।७३-१७) इत्यादिना राजादित्वाद् अत् ‘ओदनं भुक्तवान्' इत्यनेन क्तवन्तुरुपलक्ष्यते । तेन ‘धान्यं छिन्नवान्' इत्यादावपि न भवति एवं "तृतीया तत्कृतार्थेन गुणवचनेन" (अ० २।१।३०) इत्यपि न वक्तव्यम् इत्याह-तृतीयेत्यादि। अथ तत्कृतेन तृतीयान्तकृतेन गुणवचनेनैव यथा स्याद् इह मा भूत् – अक्ष्णा काणः, तदयुक्तम् । अक्षि काणमस्येति अक्षिकाणः इति बहुव्रीहिणा भवितव्यमेव । यदि च अक्ष्णा काणः ‘अक्षिकाणः' इति भवति, तदा का वस्तुक्षतिः? न ह्यनयोरर्थभेदोऽस्ति, किञ्च तत्कृतत्वमस्त्येव । यथा गिरिणा काणः, तथा अक्ष्णापि, न ह्यचक्षुः काणो भवति। यथा 'धान्येन धनवान्, घृतेन पाटवम्' इति चेत्, नैवम् । सम्बन्धविवक्षया षष्ठीसमासेन भवितव्यमेव- घृतस्य पाटवं घृतपाटवमिति । यदि तत्र तृतीयासमासो भवति तदा
Page #376
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
का वस्तुक्षतिरिति। यथा “पूर्वसदृशसमासोनविकलकलहनिपुणमिश्रश्लक्ष्णैः” (अ० २।१।३१) इत्यादि न वक्तव्यमेव । ननु चान्यत्र भवतेः कृतशब्दस्य वा गम्यमानत्वात् करणे कर्तरि तृतीयाऽस्तु कथं 'पितृसदृशः, पितृसमः' इत्यत्र तृतीया? सत्यम् । तुल्यार्थे सहार्थभावनायां "तृतीया सहयोगे" (अ० २।३।२९) इत्यनेनैव तृतीया सिद्धा। ननु च सहार्थे तृतीयायाः समासो नाभिधीयत एवेति न हि भवति पुत्रेणागतः पुत्रागत इति। तत् कथमिदमुच्यते? सत्यम्। सदृशसमाम्यां भवति, अभिधानात् । अथवा षष्ठीसमासोऽयम्, यथा 'पितृतुल्यः' इति, तथा "कर्तृकरणे कृता बहुलम्" (अ० २।१।३२) इत्यपि न वक्तव्यम् । तत्र हि बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् इत्युक्तम् । ततो यथाभिधानमेवाश्रय इत्याह - तथेत्यादि । ‘राज्ञा हतः, नखैभिन्नः' इति विग्रहः । यथाक्रमं कर्तृकरणयोस्तृतीया । तथा "कृत्यैरधिकार्थवचने" (अ० २।१।३३) इत्यपि न वक्तव्यम् । स्तुतिनिन्दानिमित्तकम् अध्यारोपितार्थवचनमधिकार्थवचनम्, तस्य व्यभिचारात् । 'काकपेया नदी' इति पूर्णत्वोद्भावनं स्तुतिः निन्दार्थमध्यारोप्यते काकपेयत्वं नामेति । एवं 'बाष्पच्छेद्यानि तृणानि'। मृदुत्वोद्भावनं स्तुतिः, अयलच्छेद्यत्वं निन्दार्थमध्यारोप्यते । क्वचिन्न स्यादिति अधिकार्थवचनादन्यत्रेति भावः।
व्यभिचारमाह - क्वचित् स्यादिति । 'बुबैरुपेन्ध्यम्, घनेन घात्यम्' इति विग्रहः। इन्धेर्च्यण। हन्तेश्चेनन्तात् स्वराद् यः । न ह्यधिकार्थवचनमत्रावगम्यते । अथ "अन्नेन व्यजनम्, भक्ष्येण मिश्रीकरणम्" (अ० २।१।३४,३५) इत्यपि न वक्तव्यम्। सामान्येनैव सिद्धत्वाद् इदमुदाहरणद्वयं दर्शयति । दधना उपसिक्तः' इति। स्वभावादुपसिक्तादिक्रिया वृक्तावुक्तार्थेति न प्रयुज्यते । चतुर्थीत्यादि । हितादिभिस्तादर्थ्य एव चतुर्थ्याः । सम्प्रदानचतुझं अपि समासो दृश्यते इत्याह- देवदेयमित्यादि । तस्मात् "चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः" (अ० २।१।३६) इत्यापे न वक्तव्यम्, सामान्येन सिद्धत्वात् । यद्यपि तदर्थेन प्रकृतिविकारभावेन समासोऽयमिष्यते । यथा- 'यूपदारु, कुण्डलहिरण्यम्' इति । इह न भवति ‘रन्धनाय स्थाली, अवहननाय उदूखलम्' इति । तदप्ययुक्तमिति । एवं सति 'अश्वघासः, श्मश्रुक्षुरम् (श्वश्वम्बरम्), नाट्यशाला, रन्धनगृहम्, हस्तिपिधानम्' इत्यपि न सिध्यति प्रकृतिविकारभावस्याभावात् । 'अश्वघासः' इति षष्ठीसमासोऽयम्। यदाह भाष्यकार:- अश्वघासादयः षष्ठीसमासा भवन्तीति तर्हि रन्धनस्थाली, अवहननोदूखलम् इति न कथं षष्ठीसमासः । एवं च सति तस्मिंश्चतुर्थीसमासोऽप्यस्तु, विशेषाभावात् । यद्धि यदर्थं तत्तस्यापीति नार्थो भिद्यते।
Page #377
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पचमः समासपादः ब्राह्मणार्थ इत्यादि । ब्रह्मणायायमियमिदमिति अर्थपदेन विग्रहः, अर्थशब्देनैवाभिहितत्वात् तादर्थे चतुर्थी न प्रवर्तते इति वाक्यनिवृत्तौ नित्यसमासः सिद्ध एव सर्वलिङ्गतेत्यपि न वक्तव्यम्। अर्थशब्दोऽयं यद्यपि पुंलिङ्गः उत्तरपदार्थप्रधानश्च तत्पुरुषः, तथापि समासे सति येन येनाभिधेयेन संबध्यते तस्य तस्य गुणवचनवल्लिङ्गमादत्ते स्वभावाद् इत्याह – नित्यसमासेत्यादि । पञ्चमीत्यादि । “पञ्चमी भयभीतभीतिनिर्गतेन चापेतापोटमुक्तपतितापत्रस्तैरल्पशः" (अ० २।१।३७-३८) इति न वक्तव्यम् । 'अधर्माज्जुगुप्सुः' इत्यादावन्यत्रापि पञ्चमीसमासस्य दर्शनाद् यद्यल्पशः इति वचनात् 'प्रासादात् पतितः' इति महतो न भवति, तदप्यनुचितम्, महतोऽपि दर्शनात् । यदाह मयूरभट्टः- 'भास्वद्ग्रावोद्गतेन' इति । न चाल्पविवक्षा मुक्तिमती 'देवदत्तात् पूर्वः' इत्यादौ सापेक्षत्वादेवासमासः ।प्रधानसापेक्षत्वेऽपि स्यादिति चेत् तथाप्यनभिधानादेव न भविष्यति षष्ठीत्यादि ।आत्मषष्ठः इत्यादि पूरणप्रत्ययान्तेनापि समासः, अभिधानात् । 'छात्राणां पञ्चमः' इत्यादिष्वनभिधानादेव न भवति । तथा गुणवचनेनापि समासः इत्याह-चन्दनेत्यादि । ‘ब्राह्मणस्य कर्तव्यम्' इति तव्येन तावद् वाक्यम् इष्यत एवेत्याह-वृत्तिरपीत्यादि । वाक्यमेवेति शन्तृङानशोरनभिधानमेव समासस्येत्यर्थः । तथेति वाक्यमेवेत्यर्थः । अथवा 'फलैस्तृप्तः' इति तृतीयासमासेन भवितव्यमेव । यदि षष्ठीसमासोऽपि स्याद् अस्तु तदा को दोषः । न खलु वस्तुभेदोऽस्ति । तथाऽव्ययेनापि । अर्थात् षष्ठीसमासो न भवतीत्याह- छात्रस्यादि ‘ब्राह्मणस्य कृत्वा' इत्यादावपि परकालापेक्षत्वान्न भवति । तस्मात् “पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन" (अ० २।२।११) इति प्रतिषेधो नाद्रियते। यदपि ‘बलाकायाः शौक्ल्यम्, काकस्य कार्ण्यम्' इति गुणेनोदाहृतम्, तदप्यनुचितम् । इह 'बलाकाशौक्ल्यम्' इत्यपि भवत्येव । तथा च कात्यायनः - तत्स्थैर्गुणैः षष्ठी समस्यते न तद्विशेषणैरिति । अस्यार्थः- गुणवचनैस्तत्स्थैः केवलगुणस्थैः षष्ठी समस्यते । यथा 'चन्दनगन्धः' । गन्धादयो हि केवलगुण एव वर्तन्ते न कदाचिद् गुणिनि । यदाह भट्टः
न कदाचित् प्रयोगोऽस्ति चन्दनं गन्ध इत्ययम् ।
चन्दनस्यैव गन्धो हि स्वप्रधानं प्रतीयते ॥ अतः शौक्ल्यादिशब्दोऽपि भावप्रत्ययान्तः केवलगुणवृत्तिरेवेति समासो न विहन्यते । तथा च भटेनैवोक्तम् -
Page #378
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
यदा गन्यादिभिस्तुल्या तेषामपि गुणस्थता।
भट्टशौक्ल्यादिवत् तेन समासोऽपि तदेष्यते ॥ तद्विशेषणैस्तु गुणगुणिस्थैः समासो न भवति । तथा ‘पटस्य शुक्लो गुणः' इति शुक्लादयो हि गुणयोगाद् गुणिनि वर्तन्ते, कदाचिद् गुणेऽपि । यदाह जयादित्यः -
कदाचित् कः प्रयोगोऽस्ति गोः शुक्लो गुण इत्ययम् ।
तेनैवमादिशब्देषु समासोऽपि निषिध्यते॥ न तु पटशौक्ल्यादिष्विति स्थितम् । सम्बन्धेत्यादि । योऽपि प्रतिपदविहिता षष्ठी न समस्यते इति वक्तव्यमाह-तेनापि सम्बन्धषष्ट्याः समासो द्रष्टव्य एव । अतः ‘पलाशशातनम्' इत्यादिषु “कर्तृकर्मणोः कृति नित्यम्, स्मृत्यर्थकर्मणि, स्वामीश्वर०" (अ० २।३।६५,५२,३९) इत्यादिना प्रतिपदविहिताया अपि षष्ठ्याः यदि समासः स्यात् तदापि न काचित् साध्यक्षतिरिति । ‘राजपूजितः' इति "क्तस्य वर्तमाने षष्ठी" (अ० २।३।६९) इति परः । इह संबन्धविवक्षयैव "ज्यनुबन्ध०" इत्यादिना वर्तमाने क्तः सप्तमीत्यादि। शौण्डादिभिरन्यैश्च शिष्टप्रयुक्तसमासों दृश्यते । सप्तमीति शौण्डादिभिरित्यनर्थकम् (इति न वक्तव्यम्) । तथेति । "सिद्धशुष्कपक्वबन्यैश्च" (अ० २।१।४१) इत्यपि न वक्तव्यम् इति भावः । तथा "ध्वाक्षेण क्षेपे" (अ० २।१।४२) इत्यपि न वक्तव्यम् । ध्वाङ्क्षपर्यायेणापि क्षेपे समासोऽभिधानादित्याह - तीर्थेत्यादि । उपमानेन क्षेप इह गम्यते। तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । यथा तीर्थे ध्वाङ्क्षश्चिरं स्थाता न भवति, तद्वद् यः कार्यं प्रत्यस्थिरः स एवमुच्यते इत्यर्थः क्षेपादन्यत्र न भवति । तीर्थे ध्वाङ्क्षस्तिष्ठति । तथेति कृत्यप्रत्ययान्तेनापि समासो भवत्येव । यथा पूर्वाह्ने गेयम् इति नियोग उपलक्ष्यते । तथा ऋणेऽपीति "कृत्यैणे" (अ० २।१।४३) इत्यपि न वक्तव्यम् । पूर्वाह्नेत्यादि । पूर्वं च तदहश्चेति अपरा चासौ रात्रिश्चेति विग्रहः, राजादित्वादत् । णत्वविधौ "अहोऽदन्तात्" (अ० ८।४।७) इति दर्शनात् 'पूर्वाह्न ः' इति णत्वम् । अथेह कथन्न भवति अह्नि कृतम्, रात्रौ कृतमिति । तस्मात् "क्तेनाहोरात्रावयवाः" (अ० २।१।४५) इति वक्तव्यम्। यद्येवं कथं 'रात्रिकृतम्, दिवसकृतम्' इति करणविवक्षायां तृतीयासमासः। यदाह-अन्यजन्मकृतम् इति चेत् तर्हि विशेषवचनेन, न हि सप्तम्यास्तृतीयाया वा समासे कश्चिदर्थभेदोऽस्ति । तत्रशब्दः
Page #379
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३३७
क्तेन समस्यते, अभिधानात् । तत्रकृतम्, तत्रभुक्तम् । इह समासे सत्येकपदत्वम्, तस्मिन् सति समासान्तरं तद्धितोत्पत्तिश्च फलम् । वाक्ये त्वपेक्षावति कथं स्यात् । तथा क्षेपे 'अवतप्ते नकुलस्थितम्' । इहाप्युपमानतया क्षेपो गम्यते । यथा अवतप्ते देशे नकुलश्चिरं स्थाता न भवति, तद्वद् यः कार्यमारभ्य चिरं न तिष्ठति स एवमुच्यते । एवम् ‘उदके विशीर्णम्, प्रवाहे मूत्रितम्, भस्मनि हुतम्' । निष्फलं यदनुष्ठितम्, तदेवमुच्यते । तथा "पात्रेसमितादयश्च" (अ० २।१।४८)। शिष्टप्रयोगानुसारेण क्षेपे समासशब्दा वेदितव्याः । यथा- पात्रेसमिताः, पात्रेबहुलाः। इहावधारणेन क्षेपो गम्यते। पात्र एव समिताः, न पुनरन्यस्मिन् क्वचित् कार्ये इत्यर्थः । एतेषु “तत्स्था लोप्या विभक्तयः" (२।५।२) इति सप्तम्या लोपो न भवति, अभिधानात्।
एवं 'पिण्डीशूरः' इत्यादयोऽपीत्याह- एवम् अन्यत्रापीति । कथमित्यादि । "प्राप्तापन्ने च द्वितीयया" (अ० २।२।४) । तथा अत्यादयः क्रान्ताद्यर्थवृत्तयो द्वितीयादिविभक्त्यन्तैः समस्यन्ते इति न वक्तव्यम् इति भावः । अत्यादीनां नित्यसमासत्वात् पदान्तरेणातिक्रान्तः इत्यादिनाऽर्थं कथयति। सत्यमित्यादि । जीविकां प्राप्त इत्यादि विग्रहः कार्यः । स्त्रियां तु 'जीविकां प्राप्ता' इत्यादिविग्रहे पूर्वनिपाते सति "याकारी स्त्रीकृतौ हस्यौ क्वचित्" (२।५।२९) इति ह्रस्वः। ‘राजदन्तः' इति दृष्टान्तमुपन्यस्य "राजदन्तादिषु परम्" (अ० २।२।३१) इत्यपि न वक्तव्यम् इति दर्शयति । अनेनैव न्यायेन तस्यापि सिद्धत्वादिति । अथवा नेहादृतः स्वरविशेष इति प्राप्तापन्नयोर्बहुव्रीहिणा सिध्यति। प्राप्ता जीविका येन, आपन्ना जीविका येनेति अर्थस्याभेदात् । इदं पुनरभ्युपगमवादेन दर्शितम्। इह तु द्वितीयासमासोऽपीष्यते यथा 'जीविकां प्राप्तः, जीविकामापन्नः' इति यथायोगम् ‘अतिक्रान्ता खट्वा येन, अपक्रुष्टं कोकिलया यत्र' इत्यादि विवक्षया न साध्यक्षतिरिति । अत्यादयः' इत्यादिशब्देनापरेऽपि वृद्धप्रयोगानुसारेण वेदितव्याः । यथा उद्गतो वेलाम् उद्वेलः समुद्रः। परिणद्धो वीरुधा परिवीरुत् । संनद्धो वर्मणा संवर्मा। उद्युक्तः संग्रामाय उत्संग्रामः। अपगतः शाखायाः अपशाखः इति। तथा “कुगतिप्रादयः" (अ० २।२।१८) इति न वक्तव्यम्, तुल्याधिकरणत्वात् कर्मधारयेणैव सिध्यति इत्याह - कुब्राह्मणेत्यादीनामिति । कुशब्दोऽयमव्ययः कुत्सितार्थः। कुत्सितो ब्राह्मणः कुब्राह्मणः इति पदान्तरेणैव तुल्याधिकरणत्वं दर्शनीयम् । एवमीष
Page #380
--------------------------------------------------------------------------
________________
३३८
कातन्त्रव्याकरणम् दर्थेऽपि समस्यते । ईषदुष्णं कोष्णम् ।प्रादयो गताद्यर्थे प्रथमया । प्रगत आचार्यःप्राचार्यः प्रान्तेवासी प्रवासी । दुनिन्दायाम्-दुष्पुरुषः । स्वती पूजायाम् । सुपुरुषः, अतिपुरुषः इत्यादयः । ऊर्यादयस्तु नाम्नां युक्तार्थत्वात् समस्यन्ते तत्पुरुषश्चाभिधानात् । ऊरीकृत्य, ऊररीकृत्य | तथाऽन्येऽपि यप्समासविधौ दर्शयिष्यन्ते ।। ३४५ ।
[क० च०]
विभक्तयः। ननु 'चैत्रं शोभनं प्राप्तः' इत्यत्र समानाधिकरणयोस्तत्पुरुषः कथन्न भवति चेत्, नैवम् । श्रितादिभिरेव समासस्य विधानात् । तर्हि 'पण्डितस्य सूत्रकारस्य धनम्' इत्यत्रापि स्यात् षष्ठीसमासः विशेषाभावात् ? सत्यम्। 'द्वितीयाद्याः' इति सिद्धे यदिह विभक्तिग्रहणं तद् यदपेक्षया विभक्तयस्तेनैव परपदेन समास इति श्रुतव्याख्यानार्थम् । अत्र तु सूत्रकारादिपरपदापेक्षया पण्डितस्येत्यत्र न षष्ठी, किन्तु धनपदसंबन्धादिति । ननु परपदेनेति सिद्धे किमिह नामग्रहणेन | न च वक्तव्यम् – कटं करोतीत्यादौ आख्यातिकपरपदेन सभासो भविष्यतीति “नाम्नां समासः' (२।५।१) इत्यनेन स्याद्यन्तानां समाससंज्ञाविधानस्योक्तत्वाद् ? सत्यम् अनुवादार्थमवश्यं कर्तव्यं समस्यन्त इति पदम् । ततश्च नामग्रहणमन्तरेणाख्यातिकपरपदेन समासोऽनेन विधीयते । “नाम्नां युक्तार्थः" (२।५।१) इत्येन स्याद्यन्तानां समाससंज्ञाविधानस्योक्तत्वादित्यर्थ : कथं न स्यादित्याशङ्कानिरासार्थमेव नामग्रहणमिति । पदग्रहणं तु अनुष्टुप्पूरणार्थमेव ।
वररुचिमतानुसारिणस्तु 'नाम्ना' इत्यनेन परशब्दस्य श्रेष्ठार्थः परिकल्प्यते । तेन नाम्ना परपदेन प्रसिद्धपदेन इत्यर्थ आयातः, प्रसिद्धश्च स एव येन सह पूर्वाचार्यः समासो विधीयते इति, तेन क्वचित् पूर्वपदेनापि द्वितीयादीनां समासः । यथा - अतिखट्वः, अवकोकिलम् इत्याहुः । 'कष्टं श्रितः' इत्यादीति । ननु एतद्वचनमन्तरेण सामान्यविधानादन्यत्रापि चेत्, स्यादेव । तर्हि कुत्र स्यादित्याह- तथा हीति। "तृतीया तत्कृतार्थेन गुणवचनेन" ( अ० २।१।३०) इति पाणिनिः । अस्यार्थः- तत्कृतेति लुप्ततृतीयान्तं पदम् । तेन तृतीयान्तप्रतिपाद्यार्थेन कृतः जनितो यो गुणवचनस्य प्रवृत्तिनिमित्तार्थः, स तत्कृत्गुणवचनप्रवृत्तिनिमित्तार्थः । अर्थे कार्यासंभवात् तद्वाचिना गुणवचनेन परपदेनार्थपदेन च तृतीया समस्यते इति । अक्षि काणमस्येति बहुव्रीहिणा भवितव्यमेवेति । ननु अक्षिशब्दस्य द्रव्यवचनस्य सन्निधौ काणशब्दस्य गुणवचनस्य
Page #381
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३३९
विशेषणत्वात् पूर्वनिपात एव प्राप्नोति । ततश्च ‘काणाक्षिः' इति प्रयोगः स्यात् ? सत्यम् । अत्राक्षिपदेन लक्षणयाऽक्षिसम्बन्धीत्युच्यते। काणशब्देन काणत्वं गुणः । ततश्चाक्षिसंबन्धी काणोऽस्येत्यर्थे उभयोर्गुणशब्दत्वात् कृपणपटुरित्यादिवत् कामचारेण परनिपात इति । स्तुतिनिन्दानिमित्तम् इत्यादि। स्तुतौ निन्दा स्तुतिनिन्दा, सैव निमित्तं यस्याधिकार्थवचनस्य तत् तथा । स्वभावसिद्धस्तुतौ निन्दार्थं काकपेयत्वेनारोपितोऽर्थो यस्मिन् काकपेय इति वचने निर्गलितार्थः । “अन्नेन व्यञ्जनम्" (अ० २।१।३४) इति पाणिनिः। अन्नेन व्यञ्जनं समस्यते इत्यर्थः । अन्नपदेनात्र खरविषदद्रव्यभिन्नमदनीयमुच्यते । व्यज्यते उपस्क्रियतेऽनेनेति व्युत्पत्त्या व्यञ्जनशब्देनान्नभक्षणोपकारकमुच्यते । एतेन ‘जलौदनम्' इत्यपि भवतीति रक्षितः ।
"भक्ष्येण मिश्रीकरणम्" (अ०२।१।३५) इत्यपरं सूत्रम् । भक्षशब्दो यद्यपि घञन्तो यौगिकाभ्यवहार्यमात्रवृत्तिः, तथापि रूढ्या खरविषदाभ्यवहार्यद्रव्ये वर्तते । खरं दृढं पिष्टकादि, विषदं परस्परासंबद्धम् । अमिश्र मिश्रं क्रियतेऽनेनेति मिश्रीकरणम्, तेनापिण्डितद्रव्येण पिण्डीकरणयोग्यस्य गुडादेः समास इति श्रीपतिः। ब्राह्मणार्थ इत्यादि । ननु वाक्ये अर्थशब्देन चतुर्थ्यर्थः कथ्यते, ततश्चोक्तार्थत्वात् चतुर्थ्यभावे कथं चतुर्थीसमास इति उच्यते । एतदेवाह - ब्राह्मणायायमित्यादि। अर्थपदेन विग्रह इति । ननु अर्थपदेन विग्रहवाक्ये कर्तव्येऽपि अर्थशब्दसमानार्थशब्देनैव वाक्यार्थो दर्शयितुं युज्यते । न हि अर्थशब्दार्थ इदम्-शब्देनाभिधातुं पार्यते ।अर्थशब्दस्य च प्रयोजनवाचित्वात् । इदम्-शब्दस्य च स्वरूपार्थत्वात् ? सत्यम् । ‘ब्राह्मणार्थः पूपः' इत्यादौ समासे प्रयोजनस्वरूपार्थ एवार्थशब्दः स्वभावात् प्रयोजनस्वरूपचतुर्थ्यर्थस्तु समासेनैवोच्यते । तेन 'ब्राह्मणार्थं पयः' इत्यस्य ब्राह्मणप्रयोजनकम् इदं पय इत्यन्वयबोधः । वाक्यनिवृत्ताविति ।अर्थशब्देन चतुर्थ्यन्तस्य वाक्यस्य निवृत्तावित्यर्थः । सर्वलिङ्गता न वक्तव्या ।
पाणिन्यनुसारिणोऽपि सर्वलिङ्गतार्थमभिधानमेवाश्रयन्तीति भावः । पञ्चमीत्यादि । "पञ्चमी भयेन" ( अ० २। १।३०) इति पाणिनिः। भयवाचिना परपदेन पञ्चमी समस्यते इत्यर्थः । भयेति धातुविशेषनिर्देशात् 'वृकात् त्रस्तः' इत्यादौ न समास इति विवक्षितम् । अत्र पञ्चमीति योगविभागबलाद् निर्गतशब्देनापि समासः । तथा "अपेतापोढमुक्तपतितापत्रस्तैरल्पशः" (अ० २।१।३८) इति परसूत्रम् । एभिः परपदैः
Page #382
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
पञ्चमी समस्यते । ‘अल्पश:' इति पञ्चम्यन्तस्यापि अल्पत्वविवक्षायामित्यर्थः । एतत् सर्वं न वक्तव्यम् इत्याह-भयभीतेत्यादि । षष्ठीत्यादि । " पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन” (अ० २ । २ । ११ ) इति पाणिनिः । " न निर्धारणे " ( अ० २।२।१० ) इत्यस्मान्नकारोऽनुवर्तते । पूरणप्रत्ययान्तादिना षष्ठी न समस्यते इत्यर्थः । गुणशब्देनात्र वैशेषिकशास्त्रसिद्धा रूपरसगन्धस्पर्शशब्दस्वरूपा गुणा गृह्यन्ते, न संख्यादयः, शतसहनान्ता निष्कादिवचनात् । यद्यनेनात्र समासनिषेधो भविष्यति तदा कथं शताद्यन्तस्य संख्याप्रतिपादकस्य लिङ्गनियमार्थं वचनमुपपद्यते । एतन्मतेऽपि तत्स्थैर्गुणैः समस्यते, न तु तद्विशेषणैरिति प्रतिषेधेन वक्तव्येन गुणमात्रवाचकैः शब्दैः समासस्य विधीयमानत्वात् पारिशेष्येणात्र गुणशब्देन गुणिवाचक शुक्लादिशब्दो गृह्यते इति । नापि धर्मवचनोऽत्र गुणो गृह्यते । “वर्तमानसामीप्यम्” (अ० ३।३।१३१) इति महाजनसूत्रे समासदर्शनात् । तेन 'बुद्धिवैगुण्यम्, मुनिचापल्यम्, वस्त्रपीतत्वम्, अक्षरगौरवम्' इत्यादयः सिध्यन्ति । सुहितार्थ इति तृप्त्यर्थ इत्यर्थः । सदिति शन्तृङानशोः संज्ञा । समानाधिकरणमिति शर्ववर्मणः सूत्रकारस्य कृतिरिति ।
३४०
ननु कथमत्र षष्ठीसमासो निषिध्यते कर्मधारयस्यानिवार्यत्वेन निर्विशेषात् । न च कर्मधारये विशेषणं पूर्वं निपतति इति विशेषोऽस्तीति वाच्यम् । “उपसर्जनं पूर्वम्” (अ० २।२।३०) इति सामान्यवचनेन षष्ठीसमासेऽपि तुल्यत्वात् । नैवम्, 'जरतो वैयाकरणस्य कृतिः' इत्यादौ षष्ठीसमासे उभयोरेव विशेषणत्वाद् वैयाकरणशब्दस्यापि पूर्वनिपातप्रसङ्गः स्यात् कर्मधारये तु पूर्वकालेत्यादिना 'जरद्वैयाकरण:' इत्येव स्यादिति भेदः । एतत्सूत्रस्य व्यभिचारमाह - 'आत्मषष्ठः' इत्यादि । छात्रस्येत्यादीति सापेक्षत्वादिति । अयमभिप्रायः - गृहपदसम्बन्धेन छात्रशब्दात् षष्ठीविधानेन गृहस्य विशेषणेनोच्चैरित्यनेन संबन्धो नास्तीति परकालापेक्षत्वादिति । क्त्वाप्रत्ययस्य परकालापेक्षित्वेन धनादिपदापेक्षितेन षष्ठ्यन्तेन ब्राह्मणशब्देन क्त्वाप्रत्ययस्य संबन्धाभावाद् युक्तार्थता नास्तीति भावः । तेषामपि गुणस्थतेति तेषां शौक्ल्यादीनां गुणस्थता केवलगुणवाचकता । पटशौक्ल्यादिवदिति । यथा पटशौक्ल्यम् इत्यत्र समासस्तथा बलाकाशौक्ल्यमित्यत्रापि । तेन केवलगुणस्थत्वेन हेतुना समास इष्यते इति संबन्धः । तद्विशेषणैरित्यादि । ते गुणा एव वाच्यत्वेन विशेषणानि येषां शब्दानां ते तद्विशेषणाः । गुणयोगाद् यथा गुणिनि शुक्लादयः शब्दा वर्तन्ते तदा शब्दैर्गुणा विशेषणतयाऽभिधीयन्ते इत्याह – गुणगुणिस्थैरिति ।
-
Page #383
--------------------------------------------------------------------------
________________
३४१
नामचतुष्टयाध्याये पञ्चमः समासपादः इयं तु व्याख्या पजीकृतः स्वकपोलकल्पितैव । पाणिन्यनुसारिणस्तु तस्य गुणस्य गन्धादेर्विशेषणैर्मृद्वादिभिः समासो न भवतीत्यर्थ इत्याहुः । यथा चन्दनस्य मृदुर्गन्धः । मृदुशब्दोऽत्र गन्धस्यैव विशेषणम् । एष पक्षस्तु सापेक्षत्वादेव समासो न भवतीति टीकाकृतैवोक्तत्वात् पञीकृता नोद्भावित इति । प्रतिपदविहितेति परमते संबन्धषष्ठीभिन्ना या षष्ठी सा प्रतिपदशब्देन नोच्यते इति भावः । इदं पुनरभ्युपगमवादेन दर्शितमिति । इदम्-शब्देनात्र द्वितीया-तत्पुरुष एवोच्यते । ननु यदि बहुव्रीहिरेव परमार्थत आश्रीयते तदा प्राप्ता नदी येनासौ प्राप्तनदिरित्यत्र नदीलक्षणकप्रत्ययो नित्यं स्यात् । नैवम्, कप्रत्ययस्याभिधानमाश्रित्य प्रवृत्तत्वात् । हेमकरस्तु बहुव्रीहौ तत्पुरुषोऽभ्युपगन्तव्यः इत्यर्थ इत्याचष्टे ||३४५।
[समीक्षा]
पाणिनि ने तत्पुरुष-संज्ञा तथा विधिसूत्रों के लिए पर्याप्त विस्तार का आश्रय लिया है। सूत्र "तत्पुरुषः" (२।१।२२) से लेकर सूत्र “क्त्वा च" (२।२।२२) तक ७३ सूत्रों में यह विस्तार द्रष्टव्य है । कातन्त्रकार शर्ववर्मा ने लोकाभिधान के आश्रय से एक ही सूत्र बनाकर संक्षिप्त मार्ग का आश्रय लिया है । उनके अभिप्राय को व्याख्याकारों ने स्पष्ट किया है और पाणिनि के सूत्रों की अनावश्यकता सिद्ध की है ।
[विशेष वचन] १. नियमपूर्विकेयं संज्ञेति (दु० टी०)। २. जटायुक्तस्तपस्वी जटातपस्वीति विवक्षायां भाव्यमेव, विशेषणविक्षयापि ___ का वस्तुक्षतिरिति भावः (दु० टी०)। ३. 'देवाय नमः' इति नमआदिभिरनभिधानादसमासः (दु० टी०)। ४. एवम्भूता एवामी शब्दाः, स्वभावादिति (दु० टी०)। ५. यदिह पुनर्विधानं तत् सुखार्थमेव (वि० प०)। ६. समासे सति येन येनाभिधेयेन संबध्यते तस्य तस्य गुणवचनवल्लिगमादत्ते,
स्वभावात् (वि० प०)।
Page #384
--------------------------------------------------------------------------
________________
३४२
कातन्त्रव्याकरणम् ७. वररुचिमतानुसारिणस्त.....तेन क्वचित् पूर्वपदेनापि द्वितीयादीनां समासः । __यथा - 'अतिखट्वः, अवकोकिलम्' इत्यादि इत्याहुः (क० च०)। ८. अन्नपदेनात्र खरविषदद्रव्यभिन्नमदनीयमुच्यते (क० च०)। ९. इयं तु व्याख्या पञ्जीकृतः स्वकपोलकल्पितैव (क० च०)। [रूपसिद्धि]
१. कष्टश्रितः। कष्ट+अम् +श्रित+सि (पुंलिङ्ग) । कष्टं श्रितः । प्रकृत सूत्र द्वारा तत्पुरुषसमास, "तस्था लोप्या विभक्तयः" (२।५।२) से विभक्तिलोप, लिङ्गसंज्ञा, प्रथमा-एकवचन 'सि' प्रत्यय तथा "रेफसोर्विसर्जनीयः” (२।३।६३) से विसगदिश ।
वृत्तिकार दुर्गसिंह ने इसके अतिरिक्त द्वितीयाविभक्ति के ‘कान्तारातीतः' इत्यादि १६ उदाहरण, तृतीयाविभक्ति के 'धान्यार्थः' इत्यादि १९, चतुर्थी विभक्ति के ‘गोहितम्' इत्यादि ११, पञ्चमी के 'वृकभयम्' इत्यादि १०, षष्ठी के ‘राजपुरुषः' इत्यादि १३ तथा सप्तमी के 'अक्षशौण्डः' इत्यादि १६ उदाहरण दिए हैं । इस प्रकार तत्पुरुष समास के १७+१९+११+१०+१३+१६ = कुल ८६ प्रमुख शब्दरूप प्रस्तुत किए गए हैं। इनके अतिरिक्त वार्त्तिकवचनों के भी ८ उदाहरणों का यहाँ उल्लेख हुआ है । 'कुब्राह्मणः' इत्यादि में वृत्तिकार ने कर्मधारय समास स्वीकार किया है।
पूर्वाचार्यों के तत्पुरुषसंज्ञाविषयक वचन - बृहदेवता - षष्ठस्तत्पुरुषः स्मृतः (२। १०५) । निरुक्त- तद्धितसमासेष्वेकपर्वसु चानेकपर्वसु च पूर्वं पूर्वमपरमपरं प्रविभज्य
निर्ब्रयात् (२।१) । नाट्यशास्त्र - तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधः सोऽपि (१४।३२) । अर्वाचीन आचार्यों के वचन - जैनेन्द्रव्याकरण- षम् (१।३।१९) । शाकटायनव्याकरण - ति-दुस-स्वत्यावन्यस्तत्पुरुषः (२।१।२०)।
Page #385
--------------------------------------------------------------------------
________________
३४३
नामचतुष्टयाध्याये पञ्चमः समासपादः हैमशब्दानुशासन - गतिक्वन्यस्तत्पुरुषः (३।१।४२)। मुग्धबोधव्याकरण- भिन्नान्यैकार्थद्वयापि संख्याव्ययादीनां च-ह-य-ष-ग-वाः ।
(सू० ३१८)। अग्निपुराण- स्यादष्टधा तत्पुरुषः, उत्तरपदार्थमुख्यः । (३५४ । ३, १८)। नारदपुराण- रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ।
___ व्याघ्रभी राजपुरुषोऽक्षशौण्डः (५२।९१-९२)। शब्दशक्तिप्रकाशिका - यदीयेन सुबर्थेन युतयद्बोधनक्षमः । यः समासस्तस्य तत्र स तत्पुरुष उच्यते (कारिका ३९) ।। ३४५ । ३४६. स्यातां यदि पदे दे तु यदि वा स्युर्बहून्यपि ।
तान्यन्यस्य पदस्यार्थे बहुव्रीहिः [२।५।९] [सूत्रार्थ]
विशेष्यविशेषणभावापन्न तथा अन्यपदार्थ को कहने वाले दो अथवा अधिक पदों के समास को बहुव्रीहि कहते हैं । अर्थात् उसकी बहुव्रीहिसंज्ञा होती है ।।३४६ ।
[दु० वृ०]
यत्र समास इति सम्बन्धः । आरूढो वानरो यं स आरूढवानरो वृक्षः । कृतः प्रणामो येन स कृतप्रणामो जनः । एवं दत्तभोजनोऽतिथिः । उच्छिन्नजनपदो देशः । चित्रगुर्देवदत्तः । बहूदका नदी । बहुपदेऽपि-मत्तबहुमातङ्गं वनम् । तथा उपगता दश एषाम् उपदशाः । एवम् आसन्नदशाः, आपन्नदशाः, अदूरदशाः, अधिकदशाः । ते पुनर्नवैकादश वा । त्रिर्दश परिमाणमेषां त्रिदशाः । दशशब्दः संख्याने वर्तते, परिमाणशब्दसान्निध्यात् । यथा पञ्च परिमाणमेषां पञ्चकाः शकुनयः । द्वौ वा त्रयो वा परिमाणमेषां द्वित्राः । भिन्नाधिकरणेऽपि-कण्ठेकालः, उरसिलोमा, उच्चैर्मुखः। अन्यपदार्थे प्रथमान्तेऽपि-सह पुत्रेणागतः सपुत्रकः। सह लोम्ना वर्तते सलोमकः। विद्यमानलोमकः इत्यर्थः । एवं सपक्षकः, सकण्टकः । ‘सहैव दशभिः पुत्रैभरि वहति गर्दभी' इति, अनभिधानात् । केशेषु च केशेषु च गृहीत्वा युद्धं वृत्तम्- 'केशाकेशि' । दण्डैश्च दण्डैश्च प्रहत्य युद्धं वृत्तम् – 'दण्डादण्डि' । बहुव्रीहिप्रदेशा:- "बहुव्रीहो" (२।१।३५) इत्येवमादयः। ॥३४६ ।
Page #386
--------------------------------------------------------------------------
________________
३४४
कातन्त्रव्याकरणम्
[दु० टी०]
स्याताम्। आरूढ इत्यादि । दत्तं भोजनं यस्मै, उच्छिन्ना जनपदा यस्मात्, चित्रा गावो यस्य, बहून्युदकानि यस्याम् इति विग्रहः । पुनरन्यार्थं पदम् अन्यपदस्यार्थे वर्तते? सत्यम् । वाक्ये यानि पदानि विशेषणत्वेन विशेष्येऽन्यपदार्थे वर्तन्ते, तान्येव वृत्तौ सविशेषणस्यान्यपदार्थस्य वाचकानि,स्वभावादिति । कथं तर्हि समासोक्तस्यान्यपदार्थस्य प्रयोगः 'चित्रगुर्देवदत्तः' इति ? सत्यम् । मत्वर्थवृत्तिना बहुव्रीहिणा सामान्यमभिहितं न विशेष इति न विरुध्यते । न च विशेषाभिधाने वृत्तिरस्ति, सापेक्षत्वात् । चित्रा गावो
देवत्तस्येति वाक्यमेव । यद्येवं चित्रगु सर्वं चित्रगु तदिति कथम् ? सत्यम् । सामान्यमपीह विशेषतुल्यं व्यावर्तकत्वादिति न चित्रगुरेकः किन्तर्हि सर्व इति । ननु च द्वयोर्बहूनां नाम्नां समासस्तत्र सिद्ध एव वचनस्यातन्त्रत्वाद् अन्यस्य पदस्यार्थे यः समासः, स बहुव्रीहिरिति शक्यं विज्ञातुम्, यदिह द्विपदबहुपदग्रहणं करोति तज्ज्ञापयति- अन्यत्राविशेषे युक्तार्थत्वात् समासो द्विपद एव प्रतिपत्तव्यः । ननु विशेषेणाघ्रातत्वाद् अन्यस्यैवार्थे भविष्यति किमन्यग्रहणेन, नैवं कल्पनैवं दुरधिगमा स्यात् । मत्ता बहवो मातङ्गा यस्मिन् मत्तबहुमातङ्गः, तथा पञ्च गावो धनमस्येति पञ्चगवधनः । “संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये" (अ०२।२।२५)। संख्येये या सङ्ख्या तया संख्यया समस्यते, तेनैव संज्ञेयम् अन्यपदार्थलक्षणा भवतीति । उपगताः समीपगता दश एषां नवानामेकादशानां वा । एवमासन्ना दश एषाम् अदूरे दश एषाम्, अधिका दश एषाम् इति विग्रहः। त्रिर्दश परिमाणमित्यादि । यद्यपि 'आदशभ्यः संख्या संख्येये वर्तन्ते' इति दर्शनम्, तथापि परिमाणशब्दसन्निधानेन हि दशशब्दः संख्यायाः परिमाणमेव संख्येयमाह । तच्च दशसंख्यया परिच्छिद्यमानं संख्यानरूपं नातिवर्तते एवेत्याह- यथेत्यादि । तदस्य परिमाणमित्यस्मिन् विषये संख्यायाः संज्ञायां कविधौ यथा, पञ्च-संख्या परिमाणेनाभिसंबध्यमाना संख्यानवृत्तिः। परिमाणेषु शकुनिषु षष्ठ्यर्थेषु प्रकृतित्वमनुभवति । तथेहापि दशशब्दः संख्यानवृत्तिरिति सुजर्थस्य समासेनाभिहितत्वादप्रयोगः “संख्याया अबहोः" (२।६।४१-६०) इति समासान्तोऽत्।
___ एतेनाधिका विंशतिरेषां ते अधिकविंशा इत्यनेन तुल्यत्वं स्थापितम् । 'द्वित्राः' इति वार्थेऽस्याभिधानम् । तत्र च संशयितेऽर्थे बहुवचनं प्रयुज्यते, यथा 'कति भवतः पुत्राः' इति । अथवा द्वौ वेति यः संशयः सः त्रयो वेत्यपेक्षते । त्रयो वेति द्वौ वेत्यपेक्षते ।
Page #387
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३४५ संशयस्योभयावलम्बनत्वात् पञ्चार्थबुद्ध्यपेक्षया समासाभिधेया इति । यदि तर्हि सैषा पञ्चाधिष्ठाना वाक् । एवं तर्हि स्थाणुर्वा पुरुषो वेति व्यधिष्ठानत्वाद् द्विवचनं स्यात् । न चायं समासः, किन्तु वाक्यं भेदाभिधानाद् यथास्वमेव (सुखार्थमेव) विभक्तिभिन्नेत्यादि । उरसि स्थितानि लोमान्यस्य, कण्ठे स्थितः कालोऽस्येति स्थितशब्दः समासे गतार्थो न प्रयुज्यते ।उच्चैर्मुखमस्येति।अव्ययस्याद्रव्यवाचित्वाद्रव्यवाचिना मुखशब्देन वैयधिकरण्यम् । सहेत्यादि। आगमनम् उभयोस्तुल्यमिति तुल्यार्थोऽत्र सहशब्दो विद्यमानार्थश्च समस्यते इत्याह-सह लोम्नेत्यादि । सहशब्दस्य तुल्ययोगे तृतीयान्तेन समास इति नाद्रियते। केशेषु चेत्यादि । सप्तम्यन्तं तृतीयान्तं च सरूपं तत्र गृहीत्वा तेन वा प्रहत्य युद्धेऽन्यपदार्थे समासस्तेनैव बहुव्रीहिश्च, अभिधानादिति भावः । ह्रस्वस्य दीर्घता। एवं मुष्टामुष्टि। क्रियाव्यतीहारे बहुव्रीहिसमासोऽन्त इच्, इचि नाम्यन्तस्य पूर्वपदस्यात्वं दृश्यते। कैश्चिदव्ययोऽयम् । 'अस्तिक्षीरा ब्राह्मणी' इति अस्तिशब्दोऽयमव्ययस्त्याद्यन्तप्रतिरूपक इति ।
__कथं 'नीलोत्पलवत्सरः कृष्णसर्पवान् वल्मीकः, रक्तशालिमान् ग्रामः' इति । एते हि संज्ञाशब्दाः मत्वर्थाभिव्यक्तावसमर्था इति मन्त्वादयो भवन्त्येव तर्हि कथं :बिसकिसलयच्छेदपाथेयवन्तः' इति, पूजाद्यर्थलाभात् । तुल्याधिकरणेऽपि क्वचिद् वाक्यमेव दृश्यते । पञ्च भुक्तवन्तोऽस्य इति प्रथमान्तेऽपि। अन्यत्र न दृश्यते । वृष्टे देवे गतो यः स वृष्ट-देव इति । तस्मात् तुल्याधिकरणे भिन्नाधिकरणे वाऽभिधानात् समाससंज्ञेयमिति । अतस्तुल्याधिकरणानि पदानि द्वितीयाद्यन्तेऽन्यपदार्थे इत्यधिकारमाश्रित्य न वक्तव्यमेव ।।३४६।
[वि० प०]
स्याताम्। नाम्नां युक्तार्थत्वात् समासः सिद्ध एव केवलं बहुव्रीहिसंज्ञाविषयाः कथ्यन्ते इत्याह-यत्रेत्यादि । एवमिति दत्तं भोजनं यस्मै अतिथये, उच्छिन्ना जनपदा यस्मात्, चित्रा गावो यस्य, बहून्युदकानि यस्याम्, मत्ता बहवो मातङ्गा यस्मिन् वने इति विग्रहः । “संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये" (अ० २।२।२५) इति वक्तव्यम्। अस्यार्थः- संख्येये वर्तमानया संख्यया अव्ययासन्नादूराधिकसंख्याः समस्यन्ते । तद् यथा- उप समीपे दशानाम् उपदशाः । एवम् आसन्ना दशानाम्, अदूरे दशानाम्, अधिका दशानाम्, त्रिर्दश द्वौ वा त्रयो वेति विग्रहः । तदेतन्न वक्तव्यम् अन्यपदार्थस्या
Page #388
--------------------------------------------------------------------------
________________
३४६
कातन्त्रव्याकरणम् वर्तमानस्य समानाधिकरणपदद्वयस्य बहुव्रीहिः सिद्ध एवेत्याह - तथेत्यादि । उपगताः समीपगता इत्यर्थः । एषां नवानाम् एकादशानां वेत्यर्थः । ये हि दशानां समीपे तेषामपि दश उपगताः समीपगता इत्यर्थोऽपि न भिद्यते । तथा ये आसन्ना दशानां तेषां दशाप्यासन्ना इति आसना दश एषामदूरे दश एषामधिका दश एषामिति विग्रहः ।
ननु ये दशानामधिकास्तेषां कथमधिका दश इति न ह्येकादशानामधिका दश भवितुमर्हन्ति तस्माद् ‘अधिकदशाः' इत्यनेनात्र नवैवोच्यन्ते । नैयासिकानां तु मते एकादशैवेति (न कथं) विरोधः । तदयुक्तम्-अधिका दश येषाम् इत्युक्ते एकादशैवोच्यन्ते । यस्मादधिकत्वं दशानामेकाद्यपेक्षया त्ववयवेन विग्रहः । समुदायस्तु समासार्थः । अत एवाह शाकटायनः- अधिका दश येषु ते अधिकदशा एकादशादय इति । एवं द्वादशादिषु अपि एकाद्यपेक्षया अधिका दश विद्यन्ते । ततोऽवयवेन विग्रहः समुदायस्य समासार्थत्वात् तेऽप्यधिकदशा उच्यन्ते इति भावः । ते पुनर्नवैकादश वेति । वृत्तिग्रन्थस्तु उपदशादिभिः संबन्धनीयः। अधिकदशा इत्यनेन तु एकादशैवेति, तच्चोपलक्षणम् - एकादशादय इत्यर्थः । संख्यायाः समासमाह-त्रिरित्यादि । "द्वित्रिचतुर्थ्यः सुच्" (२।६।४०१३) इति संख्याया वारे सुच्, तमादित्वात् । यद्यपि आदशभ्यः संख्याः संख्येये वर्तन्ते । अतः परं संख्याः संख्याने संख्येये चेति दर्शनम् । तथापि दशशब्दः परिमाणसन्निधौ वर्तमानः संख्यायाः परिमाणमेव संख्येयमाह । तच्च दशसंख्यापरिच्छद्यमानं संख्यानमेव प्राप्तमित्याह-दशशब्द इत्यादि। किमेवं दृष्टमित्याह-यथेत्यादि । कथमन्यथा तदस्य परिमाणमित्यस्मिन्नर्थे संख्यायाः संज्ञायां कप्रत्ययविधौ शकुनयः षष्ठ्यन्ततामनुभवेयुरित्यर्थः । सुच्प्रत्ययस्तु समासेऽवगतार्थो न प्रयुज्यते । द्वित्रा इति वाऽर्थेऽस्याभिधानम् । वाऽर्थस्तु न विकल्पः, किन्तर्हि संशयः । विकल्पे हि यदा द्वौ भवतस्तदा बहुवचनं न स्यात्। संशये तु सदा बहुवचनं प्रयुज्यत एव । यथा कति भवतः पुत्रा इति । तथा चोक्तं भाष्ये-अविज्ञातेऽर्थे बहुवचनं प्रयोक्तव्यमिति । अथवा संशयज्ञानस्योभयपक्षपरामर्शित्वेन बहुत्वविषयत्वाद् बहुवचनमिति । यथोक्तम् - द्वौ वेत्युक्ते त्रयो वेति गम्यते । सैषा ‘पञ्चाधिष्ठाना वाग्' इत्यत्र तु बहुवचनं युक्तम्। 'स्थाणुर्वा पुरुषो वा' इत्यादिवाक्येन भेदस्याभिधीयमानत्वाद् एकवचनमेव, न द्विवचनमिति । एतेषु संख्यायाः “अबहोरन्त्यस्वरादिलोपश्च" (२।६।४१-६०) इति राजादित्वाद् अत् प्रत्ययः, अन्त्यस्वरादिलोपश्च । यथा पञ्च षट् परिमाणमेषां पञ्चषा इति बहुव्रीहिः
Page #389
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
समानाधिकरणानामिति कश्चित् । तदयुक्तम् इत्याह- भिन्नेत्यादि । उच्चैर्मुख इति । उच्चैर्मुखमस्येति विग्रहः । उच्चैः शब्दस्याद्रव्यवाचित्वाद् मुखशब्दस्य द्रव्यवाचित्वाद् भिन्नाधिकरणता । कश्चिद् अधिकारमाश्रित्य द्वितीयाद्यन्तान्यपदार्थे बहुव्रीहिरिति । तदप्ययुक्तमित्याह - अन्येत्यादि । तुल्ययोगेऽत्र सहशब्दः । यस्मादागमनमुभयोस्तुल्यम् ।“सपरस्वरायाः” (३ । ४ । १ ) इत्यादि ज्ञापकस्य लक्ष्यानुरोधाद् बहुव्रीहौ सहस्य सो विभाषयेति वचनात् सहस्य सभावः। तथा विद्यमानवचनस्यापि समासो दृश्यते । अतस्तेन सह तुल्ययोग इति न वक्तव्यम् इत्याह-विद्यमानेत्यादि । सह दशभिरिति, विद्यमानैरित्यर्थः । केशेष्वित्यादि। सप्तम्यन्तस्य तृतीयान्तस्य च सरूपोपपदे यथाक्रमं ग्रहणप्रहरणोपाधिके युद्धेऽन्यपदार्थे क्रियाव्यतीहारे गम्यमाने तेनैव समासो बहुव्रीहिश्चाभिधानात् । इदं तु न वक्तव्यमेव " तत्र तेनेदम् इति सरूपे" (अ० २।२।२७) इति न्यूनत्वात् " हस्वस्य दीर्घता” (२।५।२८) इति दीर्घः, सद्यआद्यत्वात् क्रियाव्यतीहारे बहुव्रीहिसमासेऽन्त इच्च । यथा मुष्टामुष्टीति क्वचिद् नाम्यन्तस्य च पूर्वपदस्यात्वं दृश्यते अव्ययत्वं चास्य स्वभावात् ।। ३४६ ।
३४७
[ क० च० ]
स्याताम्०। यत्रेति पाठो वृत्तौ नास्ति । यदि शब्देनान्वयादिति कुलचन्द्रः। अस्य तु मते समास इति प्रथमान्ततयाऽनुवर्तते, तन्नेति महान्तः । यत्रेति पाठस्यान्यसम्भवात् । तथाहि यदि द्वे पदे विशेषणविशेष्यभावापन्ने स्यातां यदि वा बहूनि पदानि विशेषणविशेष्यभावापन्नानि स्युस्तदा तानि पदानि अन्यपदस्यार्थे यत्र समासे वर्तन्ते । ते च पदे यदि वर्तेते तदा स समासो बहुव्रीहिर्भवतीत्यर्थः । बहुपदेऽपीति वृत्तिः । नन्वत्र सूत्रे बहुग्रहणं किमर्थं द्विग्रहणमेवास्ताम् । तर्हि कथं 'भत्तबहुमातङ्गं वनम्' इति बहुपदे बहुव्रीहिः स्यादिति चेत्, आदी मत्तबहुशब्दयोः कर्मधारयं विधाय पश्चाद् द्विपदेनैव बहुव्रीहिर्भविष्यतीति नैवम् । 'चित्रगोधनम्, महन्नीलोत्पलम्' इत्यत्र बहुव्रीहिस्थलेऽपि प्रथमतः कर्मधारयं कृत्वा पश्चाद् बहुव्रीहौ पुंवद्भावे महतोऽन्तस्यात्वे च चित्रगवधनम्, महानीलोत्पलम्' इति अपप्रयोगः स्यात् । तर्हि द्विपदग्रहणमपि न क्रियतां पदमित्युच्यताम् एकस्य युक्तार्थताभावाद् द्वयोर्बहूनां चैव भविष्यति ? सत्यम् । अत्र बहुग्रहणं ज्ञापयतिबहुव्रीहिरेव बहुपदे भवति नान्यः समासः इति । तेन महन्नीलोत्पलं चित्रागोधनमित्यादि
"
Page #390
--------------------------------------------------------------------------
________________
३४८
कातन्त्रव्याकरणम्
त्रिपदकर्मधारयो न स्यात् । न चात्रापि महत आत्वे चित्राशब्दस्य पुंवद्भावे 'महानीलोत्पलम्, चित्रगवधनम्' इति भविष्यतीति वाच्यम् । आत्वपुंवद्भावयोरुत्तरपदे एव विधानात् । नवैकादश वेति वृत्तिः।
ननु दशानां समीपगता उपदशा इत्यर्थे सति उपदशशब्देन दशत्वसंख्यापरिच्छिन्नां व्यक्तिमपेक्ष्य समीपवर्तिनि गृह्यमाणे तामेव दशत्वसंख्यापरिच्छिन्नामवयवभूतां व्यक्तिमादाय एकादशैव वक्तुं पार्यते कथं नवेति ? सत्यम् । सामीप्यमिह दशत्वसंख्यामपेक्ष्य गृह्यते, ततश्च दशत्वसंख्यायाः समीपगता या संख्या तविशिष्टा व्यक्तय उपदशशब्देनोच्यन्ते । ते पुनर्नवैकादश वेति न दोषः । बहुव्रीहिपक्षेऽपि इत्थमेव व्याख्येयं परिमाणशब्दसान्निध्यादिति । वाक्यस्थपरिमाणशब्दसान्निध्यादित्यर्थः । न हि परिमाणशब्दं विना बहुव्रीहिः संभवतीति भावः । संख्याया इति पञी। त्रित्वरूपाया इत्यर्थः। परिमीयते परिच्छिद्यतेऽनेनेति परिमाणं संख्यानं दशत्वमित्यर्थः । संख्याया इत्याश्रयाश्रयिभावसंबन्धे षष्ठी । तथा च परिमाणं दशत्वं त्रित्वरूपायाः संख्यायाः संख्येयमित्यर्थः । परिमाणमेव संख्येयमाहेति । एतेन दशशब्दस्य संख्यानवृत्तित्वेऽपि संख्येयवाचिता न व्याहतेति भावः । प्रकृते संख्यानस्यैव संख्येयरूपत्वात् । ननु दशत्वसंख्यायाः परिमाणं संख्येयमाहेत्युक्तेऽपि परिमाणशब्दस्य सामान्यवाचित्वाद् दशसंख्यायाः परिमाणं किं ह्रस्वत्वदीर्घत्वादिना, संख्यया वा इत्याह-परिमाणमित्यर्थः, चकारः पुनरर्थे दश इति दशत्वमित्यर्थः । संख्येति त्रित्वरूपया परिच्छिद्यमानं संख्यानं दशत्वमेव न ह्रस्वदीर्घादिरित्यर्थः। यतो दशत्वं संख्यानम् अतः संख्यानमेव प्राप्तम् । सैषेति सा एषा वाक् पञ्चाधिष्ठाना पञ्चाभिधेया पञ्चविषया इति हेतोर्बहुवचनं प्रयुक्तमित्यर्थः । भेदस्याभिधीयमानत्वादिति वस्तुगतभेदस्योक्तत्वादिति । स तु स्थाणुर्वा इत्युक्ते वस्तुनो द्वित्वादिभेदोऽवगम्यत इति । अद्रव्यवाचित्वादिति सामानाधिकरण्येन मुखरूपद्रव्यस्यावाचित्वादिति । यस्माद् उच्चैःशब्दस्योच्चाधिकरणत्ववाचितेति ।
केशेष्वित्यादि । तत्र तेनेदमिति सरूप इति परः । अस्यार्थः- इदमित्यर्थे सप्तम्यन्ते तृतीयान्ते च समानरूपे द्वे पदे समस्येते इत्यर्थः । इतिशब्दो लौकिकविवक्षार्थः । तेन ग्रहणप्रहरणोपाधिोके प्रसिद्धत्वाल्लभ्यते इत्यर्थः । न्यूनत्वादिति । सूत्रे साक्षाद् ग्रहणप्रहरणादीनामनुपादानादित्यर्थः।। ३४६ ।
Page #391
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पचमः समासपादः
३४९
[समीक्षा]
कातन्त्रकार ने दो ही सूत्रों (प्रकृत सूत्र तथा अग्रिम सूत्र) द्वारा ‘आरूढवानरो वृक्षः, बहूदका नदी, पञ्चकाः शकुनयः, द्वित्राः, केशाकेशि' आदि शब्दों में बहुव्रीहि समास का विधान करते हैं, जबकि पाणिनि ने छह सूत्र बनाए हैं - "शेषो बहुव्रीहि. ..तेन सहेति तुल्यययोगे" (अ० २।२।२३-२८)। व्याख्याकारों ने 'सहैव दशाभिः पुत्र र वहति गर्दभी' आदि में समास की अप्रवृत्रि लोकाभिधान के आधार पर मानी है। इस प्रकार पाणिनीय व्याकरण में गौरव स्पष्ट है।
[विशेष वचन]
१. वाक्ये यानि पदानि विशेषणत्वेन विशेष्येऽन्यपदार्थे वर्तन्ते, तान्येव वृत्तौ सविशेषणस्यान्यपदार्थस्य वाचकानि स्वभावात् (दु० टी०)।
२. सामान्यमपीह विशेषतुल्यम, व्यावर्तकत्वात् (दु० टी०)।
३. 'द्वित्रा' इति वाऽर्थेऽस्याभिधानम् । वाऽर्थस्तु न विकल्पः, किन्तर्हि संशयः । विकल्पे हि यदा द्वौ भवतस्तदा बहुवचनं न स्यात् । संशये तु सदा बहुवचनं प्रयुज्यत एव (वि० प०)।
४. तथा चोक्तं भाष्ये - अविज्ञातेऽर्थे बहुवचनं प्रयोक्तव्यम् (वि० प०)।
५. इतिशब्दो लौकिकविवक्षार्थः । तेन ग्रहणप्रहरणोपाधिोके प्रसिद्धत्वाल्लभ्यत इत्यर्थः (क० च०)।
[रूपसिद्धि]
१. आरूढवानरो वृक्षः। आरूढो वानरो यं सः । आरूढ + सि +वानर + सि । "नाम्नां समासो युक्तार्थः" (२।५।१) से समास संज्ञा, प्रकृत सूत्र से बहुव्रीहि समास, "तत्स्था लोप्या विभक्तयः' (२।५।२) से विभक्तिलोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्' (२।१।१) से लिङ्ग संज्ञा, प्रथमविभक्ति - एकवचन में सिप्रत्यय, तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश ।
इस समास के २३ अन्य भी उदाहरण प्रस्तुत किए गए हैं ।। ३४६।
Page #392
--------------------------------------------------------------------------
________________
३५०
कातन्त्रव्याकरणम्
३४७. विदिक् तथा [२/५/१०] [सूत्रार्थ]
दो-दो मुख्य दिशाओं के वाचक शब्दों का अन्तरालवर्तिनी दिशा के अर्थ में बहुव्रीहि समास होता है ||३४७।
[दु० वृ०]
तथा विदिगभिधेयो बहुव्रीहि यः । अर्थाद् दिग्वाचकयोः शब्दयोः समासे सति । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा दिक् ।। ३४७।
[दु० टी०]
विदिक् । रूढेरेव दिग्वाचकैः समासोऽभिधीयत एव । ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति वाक्यमेव । पूर्ववद् अन्यपदार्थे बहुव्रीहिस्तथा दिग्वाचकाभ्यां पदाभ्यामन्यस्य पदस्यार्थे विदिगिति भावः । सूत्रं तु "दिशां वा" (२ / १ / ३६) इत्यत्र प्रतिपदोक्तबहुव्रीह्यर्थमिति । तथा च तत्र वर्णितमेवेति ||३४७ ।
[वि०प०]
विदिक्० । विदिग् इत्यन्तरालं दिगित्यर्थः । तथेति । यथा पूर्वोऽन्यपदार्थस्तथायमपीत्यर्थः । तर्हि पूर्वेणैव सिद्धं किमनेन ? सत्यम् । प्रतिपदोक्तबहुव्रीह्यर्थमिदम् । तथा च "दिशां वा" (२ / १ / ३६) इत्यत्र दर्शितम् । ननु “दिङ्नामान्यन्तराले" इति सूत्राभावात् कथं दिङ्नाम्नामेव समास इत्याह - अर्थादिति । अन्यथा विदिगभिधेयत्वमेव न स्यादित्यर्थः । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (जै० परि० वृ० १०३) ||३४७।
[समीक्षा]
'दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम्' इस लौकिक विग्रह तथा 'दक्षिणा + ङस् + पूर्वा + ङस्' इस अलौकिक विग्रह में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य बहुव्रीहि समास एवं पूर्वपद 'दक्षिणा' को पुंवद्भाव करके 'दक्षिणपूर्वा' शब्द सिद्ध करते हैं। दो मुख्य दिशाओं की मध्यवर्तिनी दिशा के अवबोधार्थ पाणिनि ने 'अन्तराल' शब्द का तथा कातन्त्रकार ने 'विदिक्' शब्द का प्रयोग किया है । अतः दोनों में ही साम्य है ।
Page #393
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपाद:
३५१
[रूपसिद्धि]
१. दक्षिणपूर्वा । दक्षिणा + ङस् + पूर्वा + ङस् । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम् । प्रकृतसूत्र से बहुव्रीहि समास, लिङ्गसंज्ञा तथा विभक्तिकार्य ॥३४७। ३४८. द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत् [२/५/११]
[सूत्रार्थ]
जिस समास में दो अथवा बहुत पदों का समुच्चय होता है, उसकी द्वन्द्व संज्ञा होती है ।।३४८।
[दु० वृ०]
द्वयोर्नाम्नोर्बहूनां वापि नाम्नां यः समुच्चयः स द्वन्द्वो भवेत् । देवदत्तश्च यज्ञदत्तश्च देवदत्तयज्ञदत्तौ । धवखदिरपलाशा : | वाग्दृशदम् । पीठच्छत्रोपानहम् । इतरेतरयोगः, समाहारश्च समुच्चयस्यैव भेद इति ।।३४८।
[दु० टी०]
द्वन्द्वः। समुच्चितिः समुच्चयो राशीभाव इत्यर्थः । अस्यैव भेदः इतरेतरयोगः समाहारश्चेति। तत्र यः समुच्चयः प्राधान्येन क्वचित् क्रियाविशेषेऽनेकेषां समुच्चीयमानता । तथा धवांश्च खदिरांश्च पलाशांश्च छिन्द्वीति । इतरेतरयोगोऽन्योऽन्यार्थोपादानाद् यथा देवदत्तयज्ञदत्तावित्यादि । देवदत्तशब्दो यज्ञदत्तार्थो भवति यज्ञदत्तश्च देवदत्तार्थोऽपीति इतरेतरार्थयोगः । स च प्रधानभावेनेति संभवापेक्षया द्विवचनबहुवचने समासाद् भवतः । वाक्ये तु चकार एव यथोक्तमर्थमभिव्यनक्तीति न वचनभेदः । समाहारस्तिरोहितावयवभेदः समुदायः, स चैक इत्येकवचनमेव । यथा वाग्दृशदमिति समाहारद्वन्द्वाच्चवर्गदशहान्तादत् । मुख्ये तु समुच्चये परस्परासम्बद्धानां प्रधानानां क्रियाभिसंबध्यमानानां नास्ति समासः । अन्वाचयस्तु समुच्चयात् पृथगेव । यथा भिक्षामट गाञ्चानयेति । भिक्षाटनमत्र प्रधानम्, यदि पश्यसि गामप्यानयेति प्रधानस्येतरनिरपेक्षत्वाद् असम्बन्ध इत्यत्रापि नास्ति समासः । चार्थ इति न कृतमत्रापि, विशेषस्येष्टत्वात् । यद्यपि समुच्चयो राशीभावरूपत्वादसत्त्वभूतस्तथापि गुणवचनवदा
Page #394
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
३५२
श्रयतो लिङ्गवचनमुक्तम्, तथा संज्ञाकार्यमपि भवतीति भावः । विप्रतिषिद्धेष्वप्यन्योऽन्यार्थोपादानता सिद्धैव । न चोद्यं जननमरणे, शीतीष्णे, सुखदुःखे इति कथं विरुद्धयोरेकेनाभिधानमिति । सर्व एव हि शब्दाः परस्परं विप्रतिषिद्धार्थाः । देवदत्तशब्दोऽपि प्रयुक्तः स्वार्थं प्रत्याययति, यज्ञदत्तार्थं निवर्तयतीति तथैव यज्ञदत्तशब्दोऽपीति तथैव यज्ञदत्तशब्दोऽपीति को विशेषः । तस्मात् स्वभावात् समासाभिधानमेव । अन्यथा द्विवचनबहुवचनमपि कथम् । तथा च आराद् दूरान्तिकयोः पुराशब्दश्च भविष्यदतीतयोः स्वभावादिति किं प्रलपितेन बहुनेति स्थितम् । कश्चिद् आह - देवदत्तयज्ञदत्तयोः : समुदाय एताभ्यां प्रतीयत इति तस्य च द्व्यवयवत्वाद् द्विवचनं सिद्धमिति न युक्तिरियं समुदायस्याश्रयभूतस्य एकत्वाद् एकार्थः कथन्न स्यात् । यथा शतयूथमिति तस्मादितरेतरयोगे द्वन्द्वस्यान्वर्थतापि तेनैवाधिगतेति ॥ ३४८ |
[वि० प० ]
द्वन्द्वः। ननु नाम्नां यः समुच्चयः स द्वन्द्व इत्युक्ते कथमितरेतरयोगे समाहारे च भवतीत्याह - इतरेतर इत्यादि । समुच्चितिः समुच्चयो राशीभाव:, स चानयोरपि विद्यते इत्यर्थः । तत्र इतरेतरयोगोऽवयवप्रधान इति तत्कृते द्विवचनबहुवचने भवतः । यथा देवदत्तयज्ञदत्तादि | समाहारः संहतिप्रधान इत्येकवचनमेव । वाग्दृशदम् इत्यादि । इह ‘समाहारद्वन्द्वचवर्गदषहान्त' (२/६/४१ - ३६) इति राजादित्वाद् अत् । यस्तु प्राधान्येन समुच्चयः क्वचित् क्रियाविषयेऽनेकेषां समुच्चीयमानता । यथा धवांश्च खदिरांश्च पलाशांश्च हिन्द्वीति । तत्र समासो न भवति, प्राधान्येन क्रियासंबद्धानां धवादीनां परस्परासंबद्धत्वान्नास्ति युक्तार्थता | अन्वाचयस्तु समुदायादन्य एवेति न तत्र प्राप्तिः समासस्य । यथा भो वटो ! भिक्षामट, यदि पश्यसि गां चानयेति । न चात्र संबन्धोऽस्ति भिक्षाटनस्य प्रधानत्वेनेतरनिरपेक्षत्वात् || ३४८ ।
[क० च० ]
द्वन्द्वः। यत्र समासे नाम्नोर्नाम्नां वा यः समुच्चयः स द्वन्द्व इत्युक्ते राजपुरुष इत्यादावपि द्वन्द्वसंज्ञा स्यात् । अत्रापि नाम्नोः समुच्चयस्य विद्यमानत्वात् । नैवम् | नाम्नामित्यर्थपरोऽयं निर्देशः । ततश्च यत्र यत्र समासे नामार्थस्य समुच्चयो राशीभावः प्रतीतिविषयो भवति तस्मिंस्तस्मिन् वाक्ये समुच्चयो द्वन्द्वो भवतीति सूत्रार्थः ।
Page #395
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः अर्थसमुच्चये द्वन्द्वस्यासम्भवात् तद्वाचिनामेव द्वन्द्वसंज्ञाफलभागितेति निर्गलितार्थे 'राजपुरुषः' इत्यत्र तत्पुरुषस्योत्तरपदार्थप्रधानत्वेन पुरुषस्य वाचकत्वान्नास्ति नामार्थस्य समुच्चय इति ।
ननु ‘राजपुरुषः' इत्यत्र राजपुरुषशब्दाभ्यां राजार्थपुरुषार्थयोरुपस्थापितत्वेन तयोः समुच्चयः केन वार्यताम् ? सत्यम्, समुच्चयो हि साहित्यम्, तच्च युगपदेकक्रियान्वयित्वमिति मीमांसकाः। ततश्च 'राजपुरुषमानय' इत्यत्र राजशब्देन सहानयनादिक्रियायाः संबन्ध एव नास्तीति । यद् वा नाम्नोरिति शब्दपरोऽयं निर्देशः । ततश्च यत्र समासे नाम्नां यः समुच्चयः एकक्रियान्वयित्वं स द्वन्द्वो भवतीति सूत्रार्थे 'राजपुरुषः' इत्यत्रापि नास्ति द्वन्द्वसंज्ञाप्रसङ्ग इति । ननु चार्थे द्वन्द्वः इति । ननु "चार्थे द्वन्द्वः" (अ० २/२/२९) इति पाणिनिः। चार्थश्च समाहारः इतरेतरयोगश्चान्वाचयशिष्टश्च । तत्रान्वाचयशिष्टे न भवतीत्यग्रे पञ्जीकृता युक्तिर्वक्ष्यते । अस्मन्मते चार्थग्रहणाभावे समाहार इतरेरयोग इति विशेषः कथं लभ्यते इत्याशयेनाह - नन्वित्यादि । न चानयोरपीति समुच्चयोधर्मविशेषश्च वाच्यत्वेनानयोरितरेतसमाहाराभिधानसमस्यमानपदकदम्बयोर्विद्यत इति । एतेन इतरेतरयोगः समाहारश्च समुच्चय उच्यते इत्याशयेन वृत्तावितरेतरयोगः समाहारश्च समुच्चयस्यैव भेदः इत्युक्तमिति । समाहारश्च संहतिप्रधान इति समस्यमानपदकदम्बार्थसंहतिः समाहारस्तत्प्रधानत्वात् । पदकदम्बोऽपि समाहार उच्यते इति भावः । __अथ यत्रैव समुच्चयः प्रतीयते स एव द्वन्द्व इत्युक्ते इतरेतरसमाहारातिरिक्ते समुच्चये द्वन्द्वः कथन्न स्यादित्याह - यस्त्वित्यादि | प्राधान्येनेति । प्राधान्यं तु इतरपदार्थनैरपेक्ष्येण प्रत्येकमेकक्रियान्वयित्वम् । पञ्जीपङ्क्तेस्तु यः प्राधान्येन समुच्चयस्तत्र समासो न भवतीति परेणान्वयः। प्रधानसमुच्चयमेव विवृणोति - क्वचिदित्यादि । अनेकेषां समुच्चीयमानतेति । अत्रापि प्राधान्येनेत्यस्यान्वयो बोद्धव्यः । धवखदिरपलाशा इत्यत्र तु सर्वेषामेकदैवैकक्रियान्वयित्वमिति भेदः । “चार्थे द्वन्द्वः" (अ० २/२ | २९) इति पाणिनिसूत्रेऽन्वाचयस्यापि चार्थत्वात् तन्मते तत्रापि समासः स्यादिति चार्थग्रहणस्य संकोचदर्शनाद् दूषयति । अन्वाचयस्त्वित्यादि । अस्य विषयो यथा देवदत्तो यज्ञदत्तश्च भवतीति 'भो वटो ! भिक्षामट यदि पश्यसि गां चानय' इत्यादिना तु अन्वाचयदर्शनमात्रं कृतमिति भावः ।। ३४८।
Page #396
--------------------------------------------------------------------------
________________
३५४
कातन्त्रव्याकरणम्
[समीक्षा]
‘धव + सि + खदिर + सि + पलाश + सि, वाच् + सि + दृषद् + सि, छत्र+सि + उपानह् + सि' इस स्थिति में दोनों ही व्याकरणों में बहुव्रीहि समास आदि कार्य होकर 'धवखदिरपलाशाः, वाग्दृषदम्, छत्रोपानहम्' शब्दररूप सिद्ध किए गए हैं । अन्तर यह है कि पाणिनि 'चार्थ' शब्द से एवं शर्ववर्मा साक्षात् 'समुच्चय' शब्द से अभिप्रेतार्थ को अभिव्यक्त करते हैं । वृत्तिकार दुर्गसिंह ने समुच्चय के ही दो भेद माने हैं - इतरेतरयोग तथा समाहार ।
[रूपसिद्धि]
१.धवखदिरपलाशाः।धव + सि + खदिर + सि + पलाश + सि ।धवश्च खदिरश्च पलाशश्च । इतरेतरयोग अर्थ में प्रकृत सूत्र से द्वन्द्व समास, लिङ्गसंज्ञा, विभक्तिलोप, पुनः लिङ्गसंज्ञा, प्रथमाविभक्ति-बहुवचन में जस् प्रत्यय, "समानः सवर्णे दीर्घाभवति परश्च लोपम्" (१/२/१) से सवर्णदीर्घ-परवर्ती आकार का लोप तथा "रेफसोविसर्जनीयः" (२/३/६३) से सकार को विसगदिश |
२. वाग्दृषदम् । वाच् + ङस् + दृषद् + ङस् +अत् (समासान्त) | वाचश्च दृषदश्च समाहारः। समाहार अर्थ में प्रकृत सूत्र से द्वन्द्व समास, लिङ्गसंज्ञा, विभक्तिलोप, "समाहारद्वन्द्वचवर्गदषहान्त" (२/६/४१-३६) से अत् प्रत्यय, पुनः लिङ्गसंज्ञा, सिप्रत्यय, मु आगम तथा सिलोप ।
३. पीठच्छत्रोपानहम् । पीठच्छत्र + ङस् + उपानह् + ङस् + अत् समासान्त । पीठच्छत्रस्योपानहश्च समाहारः । समाहार अर्थ में प्रकृत सूत्र से द्वन्द्व समास आदि, "शरद्विपाशयस्चेतस्मनस्उपानहविदः संज्ञायाम्" (२/६ / ४१ - ३८) से समासान्त अत् प्रत्यय तथा विभक्तिकार्य ।। ३४८।
३४९. अल्पस्वरतरं तत्र पूर्वम् [२/५/१२] [सूत्रार्थ] द्वन्द्वसमासघटित पदों में अल्पस्वर वाले पद का पूर्वनिपात होता है ||३४९। [दु००]
तत्र द्वन्द्वे समासे यदल्पस्वरतरं तत् पूर्वं निपतति । प्लक्षन्यग्रोधम, धवाश्वकर्णम्, तरग्रहणं द्विपदनियमार्थम् । तेन - शङ्खदुन्दुभिवीणाः । व्यभिचरति - उदूखलमुषले, तण्डुलकिण्वे । चित्ररथबाह्लीको इत्येवमादयः ।। ३४९ ।
Page #397
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये पनमः समासपादः
३५५
[दु० टी०]
अल्प० । द्वितीयादितत्पुरुषस्य परपदेनेति वचनाद् कर्मधारयवद् 'नागृहीतविशेषणा बुद्धिर्विशेष्ये भवति' इति न्यायाद् बहुव्रीहावपि पूर्वनिपातः सिद्ध एव द्वन्द्वार्थमिदमुच्यते । यद्यपि प्रयोगे विपर्ययो न दृष्टस्तथापि पुरुषनियामके प्रयोगे पुरुषापराधाद् विपरीतप्रयोगोऽपि संभाव्यते । येषां वाक्यमेव समासीभवतीति दर्शनम्, तेषां वाक्यस्यापि नियतक्रमत्वात् तद्विकारोऽपि समासोऽनियतक्रम इति पक्षं सूचयन्नभिधानमाश्रयति - उदूखलेत्यादि । एवंप्रकारा आदयो येषामिति । स्नातकराजानौ, अक्षिध्रुवम्, दारगवम् ।
अग्न्यन्तं च पूर्वम् – पटुगुप्तौ । क्वचित् परम् - चित्रास्वाती, भार्यापती, जायापती, जम्पती, दम्पती, पुत्रपती, पुत्रपशू, केशश्मश्रू, शिरोबिन्दू | समासे जायाशब्दसमासार्थों 'जम् - दम्' - शब्दौ सिद्धाविति । क्वचिदनियमः- मधुसर्पिषी, सर्पिर्मधुनी । आद्यन्तौ, अन्तादी । वृद्धिगुणौ, गुणवृद्धी ।
बहूनां चानियमः- पटुमृदुशुक्लाः, पटुशुक्लमृदवः । क्वचित् स्वराद्यन्तं पूर्वम् - अश्वमयूरम, उष्ट्रखरम् । क्वचिद् विपर्ययः-शूद्रार्य्यम्, अवन्त्यश्वकम्, विष्वक्सेनार्जुनौ । क्वचिदनियमः- धर्मार्थो, अर्थधर्मों, शब्दार्थों, अर्थशब्दौ, कामार्थों, अर्थकामौ, चन्द्रार्की, अर्कचन्द्रौ, इन्द्राग्नी, अग्नीन्द्रौ, चन्द्रार्केन्द्राः, इन्द्रार्कचन्द्राः | अतुनक्षत्राणां तुल्यस्वराणामानुपूर्येण - हेमन्तशिशिरौ, कृत्तिकारोहिण्यः । अतुल्यस्वराणान्त्वल्पस्वरतरं तत्र पूर्वम् - ग्रीष्मवसन्तौ । बहूनां व्यभिचारः- 'शरद् - ग्रीष्म- वसन्तेषु प्रायशो दधि गर्हितम्' | श्रवणधनिष्ठाश्विनीषु यजेन्नरः फलोपचयकामः ।संख्याभ्रातृवर्णानामपि क्रमात् - पञ्चषट्, त्रिचतुः, पञ्चषाः, युधिष्ठिरार्जुनौ, ब्राह्मणक्षत्रियविट्शूद्राः । व्यभिचारोऽपि दृश्यते-हयेकयोर्द्विवचनैकवचने- चतुस्त्रिवर्जिताः, अर्जुनभीमसेनौ, शूद्रविट्क्षत्रियविप्राणाम् ।
लघ्वक्षरं पूर्वम् - कुशकाशम् । व्यभिचरति च-काशकुशावलम्बनमिति दर्शनात् । तत्पुरुषकर्मधारयबहुव्रीहीणामपि व्यभिचारो निगद्यते । राजदन्तादिषु परम् - दन्तानां
Page #398
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
राजा राजदन्तः । वनस्याग्रे अग्रेवणम् । सप्तम्या अलुक् । एवमन्येऽप्यूह्याः । एवं पूर्वकालस्यापि परनिपातः । लिप्तवासितः । पूर्वं वासितः पश्चाल्लिप्तः । एवं नग्नमुषितः, सिक्तसंमृष्टः, भृष्टलुचितः, क्लिन्नपक्वः, अर्पितोढः, तप्तगाढः । क्वचिद् विशेषणविशेष्ययोर्यथाभिधानम् । कडारश्चासौ जैमिनिश्चेति कडारजैमिनिः, जैमिनिकडारः। गरुलकाणः, काणगरुलः । खञ्जकुष्ठः, कुष्ठखञ्जः । खोडखलतिः, खलतिखोडः । गौरवृद्धः, वृद्धगौर : । भिक्षुपिङ्गलः पिङ्गलभिक्षुः । तनुवटरः, वटरतनुः । कृष्णश्वेतः, श्वेतकृष्णः इत्यादयः ।
उद्यतोऽसिर्येन, असिरुद्यतो येन । विशेषणविशेष्ययोर्यथेष्टत्वाद् उभयं भवति उद्यतासिः, अस्युद्यतः । एवम् आहिताग्निः, अग्न्याहितः । जातपुत्रः, पुत्रजातः । जातदन्तः, दन्तजातः । जातश्मश्रुः, श्मश्रुजातः । तैलपीतः, पीततैलः । पीतघृतः, घृतपीतः । ऊढभार्यः, भार्योढः । एवमन्येऽपि । जातिकालसुखादिभ्योऽपि क्तान्तस्य पूर्वनिपातो बहुव्रीहौ नेष्टः, तथा विशेषणविशेष्ययोर्यथेष्टत्वादुभयम् - शारङ्गजग्धी-जग्धशारङ्गी । पलाण्डुभक्षिती - भक्षितपलाण्डुः ।मासजाता - जातमासा | सुखहीना - हीनसुखा । तथा प्रियस्यापि - गुडप्रियः- प्रियगुडः । सर्वनाम्नामपि विशेषणत्वादेव पूर्वनिपातः । सर्वः श्वेतोऽस्य सर्वश्वेतः । एवं सर्वकृष्णः । तथा संख्यायाः- पञ्च वक्त्राण्यस्य पञ्चवक्त्रः । एवं षडुन्नतः । द्वावन्यावस्य व्यन्यः, एवं व्यन्यः । कथं गडुकण्ठः, गडुशिराः, वज्रपाणिरिति कण्ठादेरधिकरणत्वाद् विशेषणमेव ? सत्यम् । कण्ठे गडुरस्येति विग्रहे कण्ठगडुरित्यादि भवत्येव । इह तु गडूपलक्षितः कण्ठोऽस्येति विग्रहः । क्तान्तस्य विवक्षया परनिपातोऽस्तीति मतम् । कटे कृतमनेनेति विग्रहे 'कटकृतः' इति भवितव्यम्, भावे क्तस्य विधानाद् अर्थभेदस्याभावाद् यथेष्टं विग्रहः क्रियताम् । दृश्यते च प्रयोगःरिपुस्कन्धघृष्टचक्रायेति । रिपुस्कन्धे घृष्टं चक्रं येन तस्मै रिपुस्कन्धवृष्टचक्रायेति । अविशेषणस्य क्तान्तस्य पूर्वनिपाते सतीहापि घृष्टशब्दस्य पूर्वनिपातः स्यात् । ततो विशेषणस्यैव क्तान्तस्य पूर्वनिपातः इति युक्तम् । बहुव्रीहावपि संख्यायाः क्रम एव । द्वौ वा त्रयो वा परिमाणमेषां द्विवाः । तरग्रहणमित्यादि । अयमल्पस्वरः । अयमनयोरल्पस्वरः अल्पस्वरतर इत्यर्थः। तर्हि द्वयोरित्यत्रैव कथं न कृतवान् ? सत्यम् । प्रयोगदर्शनमाश्रित्येदमुक्तम् । प्रक्रर्षमात्रेऽपि तरप्रत्ययो दृश्यते इति भावः ।। ३४९ ।
Page #399
--------------------------------------------------------------------------
________________
३५७
नामचतुष्टयाध्याये पचमः समासपादः [वि० प०]
अल्प० । तरग्रहणमित्यादि द्वयोरेकस्य निर्धारणे प्रायेण तरप्रत्ययस्य तमादौ विधानाद् द्विपदनियमार्थता ।। ३४९।
[समीक्षा]
'प्लक्ष + सि + न्यग्रोध + सि,शङ्ख + सि + दुन्दुभि + सि + वीणा + सि' इस स्थिति में द्वन्द्व समास के अनन्तर प्लक्ष, शङ्ख तथा वीणा शब्दों का पूर्वनिपात दोनों ही व्याकरणों में होता है, क्योंकि न्यग्रोध- दुन्दुभि' शब्दों की अपेक्षा उनमें स्वर कम हैं | पाणिनि का सूत्र है - "अल्पान्तरम्" (अ० २/२/३४) । अतः उभयत्र साम्य है ।
[रूपसिद्धि]
१. प्लक्षन्यग्रोधम् । प्लक्ष + ओस् + न्यग्रोध+ ओस् । प्लक्षन्यग्रोधयोः समाहारः । द्वन्द्वसमास, विभक्तिलोप, प्रकृत सूत्र से 'प्लक्ष' शब्द का पूर्वनिपात, लिङ्गसंज्ञा तथा विभक्तिकार्य।
२. धवाश्वकर्णम् । धव + ओस् + अश्वकर्ण + ओस् । धवाश्कर्णयोः समाहारः । द्वन्द्वसमास, विभक्तिलोप, ‘धव' शब्द का पूर्वनिपात, लिङ्गसंज्ञा तथा विभक्तिकार्य ।। ३४९।
३५०. यच्चार्चितं द्वयोः [२/५/१३] [सूत्रार्थ] द्वन्द्वसमासघटित दो पदों में अर्चितश्रेष्ठ का पूर्वनिपात होता है ।।३५०। [दु० वृ०]
तत्र द्वन्द्वे समासे द्वयोर्यदर्चितं तत् पूर्वं निपतति । देवदैत्यौ । वासुदेवार्जुनौ । व्यभिचरति च - नरनारायणौ । उमामहेश्वरौ । काकमयूरौ ।।३५०।
[दु० टी०]
यच्च० । अल्पस्वरतरमपि परत्वादयं बाधते । इह समासप्रकरणे यत् पूर्वमुक्तं तदेव पूर्वं निपतति क्रमेण, व्यतिक्रमेण प्रयोजनाभावात् ।। ३५०।
[समीक्षा]
'देव - दैत्य, वासुदेव - अर्जुन, मातृ-पितृ, श्रद्धा – मेधा, दीक्षा – तपस्' शब्दों का द्वन्द्व समास होने पर देव - वासुदेव आदि शब्दों का पूर्वनिपात इसलिए होता है
Page #400
--------------------------------------------------------------------------
________________
३५८
कातन्त्रव्याकरणम्
-
कि वे दैत्य – अर्जुन आदि शब्दों की अपेक्षा श्रेष्ठ = प्रशंसनीय हैं। पाणिनि ने इसके लिए सूत्र नहीं बनाया है, परन्तु महाभाष्य आदि में वार्त्तिकवचन उपलब्ध होता है - "अभ्यर्हितं च पूर्वं निपततीति वक्तव्यम्" ( द्र० म० भा०; काशिका २/२ / ३४ - वा० ) । [रूपसिद्धि]
१. देवदैत्यौ । देव + सि+ दैत्य + सि । देवश्च दैत्यश्च । द्वन्द्व समास, विभक्तिलोप, श्रेष्ठ होने के कारण 'देव' शब्द का पूर्वनिपात तथा विभक्तिकार्य ।
२. वासुदेवार्जुनौ । वासुदेव + सि+अर्जुन+सि । वासुदेवश्चार्जुनश्च । द्वन्द्व समास, विभक्तिलोप, अर्जुन की अपेक्षा श्रेष्ठ होने के कारण 'वासुदेव' शब्द का पूर्वनिपात तथा विभक्तिकार्य || ३५० |
३५१. पूर्व वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते [२/५/१४]
[सूत्रार्थ]
जिस समास में पूर्व पदार्थ विशेष्य के रूप में प्रतीत होता है, 'अव्ययीभाव' संज्ञा होती है || ३५१ । [दु० वृ०]
समासस्येति संबन्धः । कारके स्त्रीष्वधिकृत्य कथा प्रवृत्ता - अधिस्त्रि । समीपेउपकुम्भम् | ऋद्धौ -सुमद्रम् | अभावे निर्मक्षिकम् । तथा गवधिकानामृद्धेर्विगमःदुर्गवाधिकम् । शीतानामतिक्रमः - अतिशीतम् । अतितैसृकम्; तैसृकाणामाच्छादनानां न सम्प्रत्युपभोगकालः । शब्दप्रादुर्भावे- इतिपाणिनि तत्पाणिनि । पश्चादर्थे- अनुरथम् । यथार्थे-अनुरूपम् | रूपस्य योग्यत्वम् । अथमर्थं प्रति-प्रत्यर्थम् । यथाशक्ति, अनुज्येष्ठम् । शक्त्यनतिक्रमेण, ज्येष्ठानुक्रमेण इत्यर्थः । सादृश्ये- किख्याः सदृशं सकिख़ि | साकल्येसतृणम् अभ्यवहरति, साग्न्यधीते । एवमन्येऽपि । अव्ययीभावप्रदेशा :- " अव्ययीभावादकारान्ताद् विभक्तीनाम् अमपञ्चम्याः " ( २/४/१) इत्येवमादयः ।। ३५१ ।
[दु० टी०]
पूर्व० | वाच्यग्रहणादिह पूर्वशब्देन पूर्वपदार्थ उपचरित उच्यते । पूर्वपरव्ययहृतिरपि कल्पितरूपाखण्डस्य समासस्य यस्येति सम्बन्ध एव षष्ठी ! येन समासेन पूर्व
-
उसकी
"
Page #401
--------------------------------------------------------------------------
________________
३५९
नामचतुष्टयाध्याये पचमः समासपादः पदार्थ उच्यते इति विवक्षया स्यादित्यर्थः । अनव्ययमव्ययं भवतीति भुवो णप्रत्ययश्च्वावस्येत्त्वम् ।पूर्वपदमव्ययं परपदमनव्ययं तद्वशेन समुदायोऽनव्ययोऽप्यव्ययत्वं प्रतिपद्यते इति प्रक्रियावादः । परमार्थतस्तु स्वभावादेवाव्ययत्वमवगन्तव्यम् । अव्ययपूर्वपदं दर्शयति - यथाभिधानं कारक इत्यादि । कारकार्थे यदव्ययमिति ।स्त्रीषु कथा प्रवृत्तेति नित्यसमासत्वाद् अस्वपदविग्रहेणार्थयते । अधिशब्दोऽधिकरणे वर्तते तत्सा-मानाधि-करण्यात् स्त्रीशब्देन सप्तम्यन्तेन समासः ।
कश्चिद् आह - प्रथमान्तेनैव समासोऽधिनैवाधिकरणार्थस्योक्तत्वात् । तदेतदुभयमपि प्रक्रियायाम् । समीप इति समीपार्थे यदव्ययमिति । समीपसम्बन्धे षष्ठीकुम्भस्य समीपम् उपकुम्भम् । ऋद्ध्यर्थे यदव्ययमिति ।ऋद्धिर्दिधा-समृद्धिरात्मभावसम्पत्तिश्च | सुमद्रम्-मद्राणां समृद्धिरित्यर्थः । आत्मभावसम्पत्तौ च-सब्रह्म, सम्पन्नं ब्रह्मशरीरमित्यर्थः । सहस्य सभाव एव । अभावार्थे यदव्ययमिति । स च सम्बन्धिभेदाद् बहुविधः । यद्यप्यभावस्य निरूपकत्वेन नास्ति भेदः, तथापि यस्यासावभावः स सम्बन्धी भिद्यते । तभेदाच्याभावस्याप्युपकल्पितो भेदः । अत्यन्ताभावे-अभावो मक्षिकाणां निर्मक्षिकम् इत्यर्थः । तथेत्यादि । ऋद्ध्यभावोऽतिक्रमाभावः संप्रत्यभावश्चेति । अर्थाभावः क्वचिद् देशे सर्वथै-वाभावो वस्तूनां न तूत्पन्नस्य पश्चादिति भावः । सम्प्रत्यभाव इति उपभोगस्य यो वर्तमानः कालस्तस्य प्रतिषेधः । तिसृका नाम ग्रामस्तत्र भवस्ततो वा आगत इत्यण् । अथेतरेतराभावे धर्मभावे च कथन्न संज्ञेयम् ? सत्यम् । तुल्याधिकरणत्वात् कर्मधारयस्य विषयः । गौरश्वो न भवति, क्षत्रियो ब्राह्मणो न स्यात् । अथवा अभावो बहुविध इति किमनया चिन्तया यथाभिधानमेव युक्तम् । पाणिनिशब्दो नाम प्रादुर्भूतः, ख्यातिं गत इत्यर्थः । पश्चादर्थे यदव्ययं रथस्य पश्चादित्यर्थः । यथार्थे यदव्ययमिति । यथार्थोऽनेकप्रकारः- योग्यता-वीप्सा-पदार्थानतिवृत्ति-आनुपूर्व्य-सादृश्यभेदात् । अर्थमर्थं प्रति' इति प्रतेर्वीप्सायां कर्मप्रवचनीयसंज्ञाभ्युपगमबलाद् वाक्यमपि । यथाभिधानमिति वा । अथवा वीप्सायां यदव्ययं वर्तते तदा समासः । इह तु कर्मप्रवचनीयः संबन्धस्य भेदक इति समासेनैव वीप्सा उक्तेति न द्विवचनम् । यथाशक्तीति । शक्तिः सामर्थ्यम्, तस्यानति
Page #402
--------------------------------------------------------------------------
________________
३६०
कातन्वव्याकरणम् वृत्तिरनतिक्रमः ।अनुज्येष्ठमिति | आनुपूर्व्यमनुक्रमः । सकिखीति ।सहशब्दस्य तदर्थस्य समासः।
कश्चिद् आह - सदृशः किख्या सकिखीति गुणीभूतेऽपि समासोऽयमिति । तदिह सत्त्वभूतत्वान्न प्राप्नोति ? सत्यम् । क्वचिदभिधानात् सत्त्वभूतेऽपि दृश्यते । यथा-शब्दस्य सादृश्ये न भवति । यथा देवदत्तस्तथा यज्ञदत्त इति । अन्यस्त्वाहयथाशब्दोऽयमुपमानार्थः । यथा देवदत्त स्तथा यज्ञदत्त इति एतदुपमेयमपेक्षते सापेक्षत्वाच्चासम्बन्धः इति , तदयुक्तम् । यथा देवदत्त इति समुदाय उपमानवचनस्तेन तस्यैवोपमेयसापेक्षत्वाद् असम्बद्धता, न यथाशब्दस्य | थाप्रत्ययान्तोऽयं यथाशब्दः सदृशवाची स्वभावाद् गुणवचनवदाश्रयार्थोऽव्युत्पन्नादव्ययादन्यः | साकल्यं परिग्रहापेक्षयाऽशेषग्रहणम् । सतृणमभ्यवहरतीति यावदभ्यवहार्यं परिगृहीतं ततस्तृणादिकमपि न परित्यजतीत्यर्थः । न पुनर्जगति यावदभ्यवहार्यं किञ्चिदस्ति तत् सर्वं तृणान्वितमभ्यवहरतीति प्रतीयते । एवं पर्यन्तप्रतिपादनेऽपि साग्न्यधीते, अग्निग्रहणपर्यन्तमित्यर्थः ।
___ कश्चिद् आह-सतृणमभ्यवहरतीति न किञ्चिद् अभ्यवहार्यं त्यजतीत्यधिकरण-वचनमेतत् । अन्त इति परिग्रहापेक्षया समाप्तिरिति भिद्यते । का नः क्षतिरिति यथाभिधानं तर्हि भविष्यति । एवमन्येऽपीति । यौगपद्ये यदव्ययम् – सचक्रं धेहि | चक्रेण सहैककालं घेहीत्यर्थः । यावदियत्त्वेऽव्ययम् । इयत्त्वं भाजनानाम् – यावद्भाजनं ब्राह्मणानामात्रयस्व । इयतो भावः इयत्त्वम् । भाजनेयत्तया ब्राह्मणेयत्ता विवक्षितेति यावच्छब्द इयत्त्वे वर्तते । यावद्दत्तं यावद्भुक्तं कियद्दत्तं कियद्भुक्तम् इतीयत्त्वं नास्ति यदि समासस्य कर्मधारयस्य विषयः । 'सूपप्रति, शाकप्रति' इति प्रतिना स्तोकार्थेन समासो नित्यमेव । यस्य तत् स्तोकं तस्य षठ्यन्तस्य तत्पुरुष एव । अव्ययीभावसंज्ञायां नास्ति प्रयोजनमिति । प्रतिसूपमिति च स्तोकार्थे खलु नास्त्यव्ययीभावोऽभिधानात् । तथा अक्षशलाकासंख्यानां परिणा द्यूतेऽन्यथावृत्तौ तत्पुरुष एवाभिधीयते नित्यम् । पत्रिका नाम यूतं पञ्चभिरक्षः शलाकाभिर्वा भवति । यदा सर्वा उत्ताना अवाङ्मुखा वा भवन्ति तदा पातयिता जयति । ततोऽन्यथावृत्तौ अक्षादीनां करणत्वं कर्तृत्वं वेति तृतीयान्तता, वृत्तौ संख्याविशेषानवगमाद् अक्षशलाकयोरेकवचनान्तयोरेव समासः । अक्षपरि, शलाकापरि हारितम् एकपरि, द्विपरि, त्रिपरि, चतुष्परि । क्रमेणाक्षेण तथा वृत्तं यथा पूर्वम् । एकया शलाकया न तथा वृत्तं यथापूर्वमित्याद्यर्थदर्शनं कर्तव्यमिति ।
Page #403
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
अपपरिबहिरञ्चनां पञ्चम्यन्तेन समासोऽव्ययीभावो भवत्येव । वाक्यमप्यर्थतो दृश्यते । अप त्रिगर्तेभ्यः, अपत्रिगर्तं वृष्टो देवः । परि त्रिगर्तेभ्यः, परित्रिगर्तं वृष्टो देवः । बहिर्ग्रामात्, बहिर्ग्रामम् । प्राग् ग्रामात्, प्राग् ग्रामम् । अपपरिभ्यां पर्यपाङ्योगे पञ्चमी । बहिर्योगेऽवधेरेव विवक्षितत्वात् प्राग्योगे दिग्लक्षणैव पञ्चमी । प्राञ्चतीति क्विप् । सप्तमीपञ्चमीप्रथमान्ताद् दिग्देशकालेष्वस्तातिः, तस्याञ्चतेर्लुक् निपातनात् । अभिप्रत्योर्लक्षणेन समासाभिधानम् । अग्निमभि, अग्निं प्रति । अभ्यग्नि, प्रत्यग्नि शलभाः पतन्ति । अग्निरत्र लक्षणम्, तन्निमित्तीकृत्य शलभाः पतन्तीति । अभिप्रती आभिमुख्य एव वर्तेते । स्रुघ्नं प्रतिगत इति स्रुघ्नान्मथुरां प्रस्थितो दिङ्मोहात् सुघ्न एव निवर्तते इति नात्र लक्षणम् । किञ्च गमिना सम्बन्धः प्रतेरिति सापेक्षता । 'अभ्यङ्काः, प्रत्यङ्का गावः' इति अभिनवोऽङ्क आसामिति अभिशब्दोऽभिनवार्थे गवाङ्कश्च लक्षणम् । किन्त्वन्यपदार्थत्वाद् बहुव्रीहिः । अनुर्यस्य सामीप्यायामवृत्तिस्तेन नाम्ना समस्यते । वनस्यानु अनुवनम् अशनिर्गतो वनस्य सामीप्येनेत्यर्थः । गङ्गाया अनु अनुगङ्ग वाराणसी, गङ्गाया आयामेन युक्ता वाराणसी सोऽयमित्यभेदसम्बन्धाद् आयामशब्देनोक्ता तस्मान्नास्त्यत्र भेदाभावाल्लक्ष्यलक्षणभाव इति प्रथमैव । अन्यथा भेदलक्षणा षष्ठी स्यात् । अनुगङ्गं वाराणस्या इति । कश्चिद् आह - आयामितया प्रसिद्धा गङ्गा न तु वाराणसी । प्रसिद्धं हि लक्षणं भवति । अनुशब्देन गङ्गाया आयाम उच्यते, तद्वत्या गङ्गया लक्षणभूतया वाराणसी आयामवती लक्ष्यते इति विवक्षा सिद्धा तदा लक्षणे द्वितीयेति । पारेगङ्गायाः पारेगङ्गम् । मध्ये गङ्गाया मध्येगङ्गम् । पारे - मध्येशब्दौ अव्ययावधिकरणप्रधानौ इह प्रतिपत्तव्यौ । तेनानयोः षष्ठ्यन्तेन समासः सिद्धोऽव्ययीभावश्च भवतीति । तिष्ठद्गुप्रभृतीनां समासस्याव्ययीभावत्वं लोकोपचारात् । तिष्ठन्ति गावो यस्मिन् दोहाय स तिष्ठद्गु कालः । एवं वहद्गु । आयन्ति गावो यस्मिन् आयतीगवम् । आङ्पूर्वस्येणः शन्तृङन्तस्य तथा न पुंवद्भावः, राजादित्वाद् अत् । नित्यसमासत्वादेषां वाक्यान्तरेण विग्रहः खलेयवम्, तथा सप्तम्या अलोपः । लूयमानयवं लूनयवम्, पूतयवम्, संक्रीयमाणयवम्, संक्रीतयवम्, संक्रीयमाणबुषम्, संक्रीतबुषम् । सर्वेषामुक्तानां कालेऽन्यपदार्थः ।
३६१
Page #404
--------------------------------------------------------------------------
________________
३६२
कातन्त्रव्याकरणम्
तथा संख्याया वंशेन समासस्य च - द्वौ मुनी द्विमुनि व्याकरणस्य वंश्यौ । द्विमुनि व्याकरणस्य, द्विमुनि व्याकरणम् इति वा । विद्यया जन्मना वा एकलक्षणः सन्तानो वंशः, तत्र वियैकलक्षणो वैयाकरणवंशः उपाध्यायवंशस्तत्र भवौ द्वौ मुनी, ताभ्यां समासः, संबन्धे षष्ठी यदा तु विद्यावतो विद्यया सहाभेदस्तदापि समास इति भावः । यदा तु बहुव्रीहिः, द्वौ मुनी वंशौ यस्य तद् द्विमुनि व्याकरणमिति । तदा तु नाव्ययीभावत्वं सिद्धम् । तथा नदीभिः समाहारे । द्वयोर्यमनुयोः, तिसृणां यमुनानां वा समाहारः-द्वियमुनम्, त्रियमुनम् । बहुव्रीहौ तु संज्ञायाम्-उन्मत्तगङ्गम्, लोहितगङ्गम् । नहि वाक्यं संज्ञेति नित्यसमास एव ।
[वि० प०]
पूर्वम्। अनव्ययमव्ययं भवतीति च्चिप्रत्ययान्ताद् अव्ययशब्दाद् "भुवो वा ज्वलादिदुनीभुवो णः" (द्र०, अ० ३।१।१४०) इति णप्रत्ययः । पूर्वपदमव्ययं परपदमनव्ययं तद्वशेन समुदायोऽनव्ययोऽप्यव्ययो भवतीति अव्ययीभावः । अन्वर्थसंज्ञाबलात् प्रायेणाव्ययमेव पूर्व भवति, अतः कारकादिष्वर्थेषु वर्तमानं यदा तदैव समस्यते । यथाभिधानमित्याह – कारक इत्यादि । ऋद्धाविति ऋद्ध्यर्थे यदव्ययमित्यर्थः । ऋद्धिश्च द्विधा-समृद्धिरात्मभावसम्पत्तिश्च । सुमद्रमिति । समृद्धिर्मद्राणाम्, ऋद्धराधिक्यमित्यर्थः । आत्मभावसम्पत्तौ च सम्पन्नं ब्रह्म सब्रह्म इत्यादि द्रष्टव्यम् । सम्पन्नं ब्रह्मशरीरमित्यर्थः । ज्ञापकस्य लक्ष्यानुरोधाद् अव्ययीभावस्य काल इति नित्यं सहस्य सभावः । अभाव इति निरूपणत्वेन यद्यप्यभावस्य भेदो न संभवति, तथापि सम्बन्धिभेदाद् भिद्यते । अत्यन्ताभाव ऋद्ध्यभावोऽतिक्रमाभावः सम्प्रत्यभावश्चेति क्रमेण दर्शयति । तत्रात्यन्ताभावः क्वचिद् देशेऽत्यन्तं वस्तूनामभावो न तूत्पन्नानाम् । यथा - 'निर्मक्षिकम्' इति मक्षिकाणां सर्वथाभाव इत्यर्थः । अतिक्रमाभाव इति । अतिक्रमो भूतत्वं स एवाभावः । आतेतैसूकम् इति । तिसृका नाम ग्रामस्तत्र भवस्ततो वागत इत्येवमादित्वादण् । न सम्प्रत्युंपभोगकाल इत्युपभोगस्य वर्तमानकालनिषेधस्तैसृकाणामाच्छादनानामयमुपभोगकालो न भवति इत्यर्थः । अब्राह्मण इत्यादा-वितरेतराभावे नास्ति समासाभिधानम् । शब्देत्यादिपाणिनेः शब्दः प्रादुर्भूतः पाणिनिरित्ययं संज्ञाशब्दो लोके स्पष्टं गतः इत्यर्थः ।
पश्चादिति । रथस्य पश्चादित्यर्थः । यथार्थ इति । योग्यतावीप्सापदार्थानतिवृत्तानुपूर्व्यसादृश्यभेदाद् यथार्थोऽनेकप्रकार इति क्रमेणोदाहरति - अनुरूपमित्यादि । साकल्य
Page #405
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३६३ इति । परिग्रहापेक्षयाऽशेषग्रहणं साकल्यम् । सतृणमभ्यवहरतीति यावदभ्यवहार्यं परिगृहीतं तत्र तृणादिकमपि न त्यजतीत्यर्थः । साग्न्यधीते इति । पर्यन्तप्रतिपादनेऽपि समासः । अग्निग्रहणपर्यन्तमधीते इत्यर्थः । इहापि पूर्ववत् सहस्य सभावः । एवमन्येऽपीति यौगपद्ये यदव्ययं तदपि समस्यते अव्ययीभावश्च समासो भवति । सचक्रं देहि । चक्रेण सहैककालं देहीत्यर्थः । यावदियत्त्वेऽव्ययम्, इयत्त्वं भाजनानां यावद्भाजनं तावद्ब्राह्मणानामन्त्रयस्व | इयतो भावः इयत्त्वम् ।भाजनेयत्तया ब्राह्मणेयत्ता विवक्षितेति । यावच्छब्द इयत्त्वे वर्तते । इयत्त्व इति किम् ? (यावद्भुक्तं कियद्दत्तम्) यावद्दत्तं कियद्भुक्तमिति नावधारयति, यदि समस्यते तदा कर्मधारयस्यैव विषयः । एवमन्येऽपि शिष्टप्रयोगानुसारेण वेदितव्या इति ।। ३५१ ।
[क० च०]
पूर्वम् । यद्यपि अधिस्त्रीत्यत्र स्त्रीशब्दस्य विशेष्यत्त्वेन प्रतीतिस्तथापि स्त्रीविषये कथा प्रवृत्ता इत्यधिकरणार्थप्रधानत्वाद् विशेषणत्वमिति । समीप इति वृत्तौ सामीप्यपरः । अव्ययीभावसूत्रे सामीप्यमत्र प्रधानमित्युक्तत्वात् । ननु यदि यस्य समासस्य पूर्वपदार्थो वाच्यो भवेत् सोऽव्ययीभाव इत्युच्यते, तदा दन्तानां राजा 'राजदन्त.' इत्यत्रापि अव्ययीभावः स्यादित्याह – पूर्वपदमव्ययमित्यादि । तद्वशेनेति अव्ययपूर्वपदार्थप्रधानवशेनेत्यर्थः । प्रायेणेति तेन 'द्विमुनि, त्रिमुनि' इत्यत्रापि अनव्ययपूर्वपदस्यापि समास इति निश्चितम्, ननु यद्यन्वर्थबलादव्ययपूर्वपदार्थे वाच्येऽव्ययीभाव इत्युच्यते, तदा ‘अतिखट्वः' इत्यत्रापि स्यादित्याह- यथाभिधानमिति । एतत्तु इष्यते इत्यस्योपादानात् सिध्यतीति भावः । अत्र “अव्ययं विभक्तिसमीपसमृद्ध्यर्थभावात्मभावसम्पत्तिशब्दप्रादुर्भावपश्चाद्यथार्थानुपूर्वयोगपद्यसादृश्यसाकल्यपर्यन्तेयत्त्ववचनेषु" इति 'पाणिनिसूत्रम् । एतदनुसारेणैव वृत्तिकृता कारके स्त्रीष्वित्यादिना ‘अधिस्त्रि' इत्युदाहृतम् । आत्मभावसम्पत्तिश्चेति आत्मभावः स्वभावो यस्य प्रवृत्तिनिमित्तमिति । सम्पत्तिरुत्कृष्टता । सब्रह्मेति । ब्राह्मणानां प्रवृत्तिनिमित्तरूपं ब्रह्म सम्पन्नमुत्कृष्टम् इत्यर्थः । एतदेवाह - सम्पन्नं ब्रह्मशरीरमिति ब्रह्मशरीरं ब्रह्मस्वरूपमिति यावत् ।। ३५१।
अव्ययं विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्नवचनेषु (अ०२/१/६)।
Page #406
--------------------------------------------------------------------------
________________
३६४
कातन्त्रव्याकरणम्
[समीक्षा
किसी भी समास में सामान्यतया दो शब्दों के रहने से जो प्रधानाप्रधान का विचार किया जाता है, तदनुसार अव्ययीभाव को पूर्वपदार्थप्रधान, तत्पुरुष को उत्तरपदार्थप्रधान, द्वन्द्व को उभयपदार्थप्रधान तथा बहुव्रीहि को अन्यपदार्थप्रधान माना जाता है, परन्तु कुछ अपवादरूप शब्दों में इन लक्षणों के संगत न होने से 'अव्ययीभावाधिकारपठितत्वमव्ययीभावत्वम्, तत्पुरुषाधिकारपठितत्वं तत्पुरुषत्वम्, द्वन्द्वाधिकारपठितत्वं द्वन्द्वत्वम्, बहुव्रीह्यधिकारपठितत्वं बहुव्रीहित्वम्' इस प्रकार का लक्षण स्थिर किया जाता है | पाणिनीय व्याकरण में इनकी संगति इसलिए बन जाती है, क्योंकि वहाँ इस प्रकार अधिकारसूत्र उपलब्ध होते हैं | कातन्त्रव्याकरण में प्रत्येक समास के लिए अधिकारसूत्र की व्यवस्था नहीं की गई है । अतः वहाँ तो 'पूर्व वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते' इसी प्रकार के लक्षण की संगति हो सकती है । अपवादों के विषय में व्याख्याकारों के वचन द्रष्टव्य हैं । विभक्ति- समीप आदि अर्थ वृत्तिकार दुर्गसिंह ने प्रस्तुत किए हैं, जिन्हें पाणिनीय व्याकरण में सूत्र में कहा गया है ।
[रूपसिद्धि]
१. अधिस्त्रि | स्त्रीष्वधिकृत्य कथा प्रवृत्ता । स्त्री + सुप् (विभक्ति) । प्रकृत सूत्र से अव्ययीभाव समास, लिङ्गसंज्ञा, कारकार्थक ‘अधि' का पूर्वनिपात, | "स नपुंसकलिङ्गं स्यात्" (२।५।१५) से नपुंसकलिङ्ग, “स्वरो हस्वो नपुंसके" (२।४।५२) से ईकार को ह्रस्व, अव्ययीभाव की अन्वर्थता से अव्ययसंज्ञा तथा “अव्ययाच्च" (२।४।४) से सिलोप ।
२. उपकुम्भम् । कुम्भस्य समीपम् । कुम्भ + ङस् + उप | अव्ययीभावसमास, लिङ्गसंज्ञा, विभक्तिलोप, उप का पूर्वनिपात, सि - प्रत्यय, “अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः" (२।४।१) से सि को अमादेश।
३. सुमद्रम् । मद्राणां समृद्धिः । मद्र + आम् + सु । पूर्ववत् समास, लिङ्गसंज्ञा, विभक्तिलोप, सु का पूर्वनिपात, सिप्रत्यय, २।४।१ से सि को अम् आदेश |
४.निर्मक्षिकम् ।मक्षिकाणाम् अभावः । मक्षिका + आम् + निर् । पूर्ववत् समासादि, हस्व, सि को अम् आदेश।
५.दुर्गवधिकम् । गवधिकानां व्यद्धिः । गवधिक + आम् + दुर् |पूर्ववत् समासादि ।
Page #407
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३६५
६. अतिशीतम् । शीतानामतिक्रमः । शीत + आम् + अति । पूर्ववत् समासादि । ७. अतितैसृकम् । तैसृकाणामाच्छादनानां न सम्प्रत्युपभोगकालः । तैसृक + आम् + अति । पूर्ववत् समासादि ।
८. इतिपाणिनि । पाणिनिशब्दो लोके प्रकाशते । पाणिनि + सु + इति । पूर्ववत् 1 समासादि, अव्ययसंज्ञा होने से " अव्ययाच्च" (२ / ४ / ४) से सिलोप ।
९. तत्पाणिनि । पूर्ववत् ।
१०. अनुरथम् । रथस्य पश्चात् । रथ + ङस् + अनु । अव्ययीभाव समासादि पूर्ववत् ।
११ . अनुरूपम् । रूपस्य योग्यम् । रूप + ङस् + अनु | पूर्ववत् समासादि तथा सि प्रत्यय को अम् आदेश |
१२. प्रत्यर्थम् । अर्थमर्थं प्रति । अर्थ + अम् + प्रति । वीप्सार्थ में समास आदि, सि को अम् आदेश |
१३ . यथाशक्ति । शक्तिमनतिक्रम्य । शक्ति + अम् + यथा । पूवर्वत् समासादि तथा सि - प्रत्यय का लोप ।
१४. अनुज्येष्ठम्। ज्येष्ठमनुक्रम्य । ज्येष्ठ + अम् + अनु । पूर्ववत् समास आदि । १५. सकिखि। किख्याः सदृशम् । किखि + ङस् + सह | सादृश्यार्थ में समास । १६. सतृणम् । तृणमप्यपरित्यज्य । तृण + अम् + सह | साकल्य अर्थ में समास | १७. साग्न्यधीते। अग्निग्रन्थपर्यन्तम् अधीते । अग्नि + अम् + सह, पर्यन्त अर्थ में समास || ३५१ |
३५२. स नपुंसकलिङ्गं स्यात् [२/५/१५]
[सूत्रार्थ]
अव्ययीभावसमासविशिष्ट पद नपुंसकलिङ्ग होता है ।। ३५२ । [दु० वृ०]
सोऽव्ययीभावसमासे नपुंसकलिङ्गं स्यात् । तथा च उदाहृतम्, उदाह्नियते च । समत्वं भूमेः - समंभूमि, समंपदाति । तथा सुषमम्, विषमम्, निःषमम्, दुःषमम्, अपर
Page #408
--------------------------------------------------------------------------
________________
कातन्वव्याकरणम्
समम् । शोभनत्वं समस्येत्यादि वाक्यम् । तथा प्रमृगम्, प्ररथम्, प्रदक्षिणम् । अव्ययपूर्वादलिङ्गतैव प्राप्तेति वचनम् ।। ३५२ ।
[दु० टी०]
स नपुं० । स इह विशेष्यो नपुंसकलिङ्गमिति विशेषणं चेत् तत्र यदि नपुंसकं लिङ्गं यस्येति बहुव्रीहिस्तदा तत्र नपुंसकलिङ्ग इति भवितव्यम् । तच्छब्देनाव्ययीभावः पुंलिङ्ग उच्यते । अथ नपुंसकं च तल्लिङ्गं चेति कर्मधारयस्तदा तस्य नपुंसकलिङ्गमिति भेदात् षष्ठी स्यात् ? सत्यम् । नपुंसकलिङ्गयोगाद् अव्ययीभावोऽपि नपुंसकलिङ्गमुच्यते । स्वलिङ्गाभिधानं च यथा 'कुन्तान् स्त्रीः प्रवेशय' इति । कश्चिद् आह - अव्ययीभावो नपुंसकलिङ्गमापद्यते इति स्यादिति वक्ष्यमाणेन सम्बन्धः । एवमपि नात्रा-व्ययीभावो निवर्तते । किन्तर्हि धर्मान्तरेण युज्यते । अथैतदेव विवर्तनं तथापि न युक्त-रूपं न चाव्ययीभावो नपुंसकलिङ्गं प्रतिपद्यत इति युक्तम् । प्रतिपत्तिः कथमव्ययीभाव-स्यावबोधरूपस्य किं वा साधयितुम्, तस्मात् श्लोकबन्धस्य गमकत्वात् स्याच्छब्दोऽत्रैव पठितव्यः समंभूमीत्यादि । समत्वं भूमेः समत्वं पदातेरिति विग्रहः । समंशब्दोऽयमव्ययः समत्वे वर्तते न सहार्थेऽनभिधानात् ।
शोभनत्वं समस्येत्यादि इति । शोभनत्वं विगतत्वं निर्गतत्वं दुष्टत्वम् अपरत्वं समस्येत्यादि वाक्यम् । षत्वं च तत्रापिग्रहणात् । ननु च कथमपरसमम् इति नायम् अपरशब्दोऽव्ययः ? सत्यम् । यथा आयतीसममिति । आयतीत्वं समायाः संवत्सरस्य | आयतीसममिति अव्ययीभावःसिद्धस्तथात्रापीति |यस्मात् पूर्ववाच्यत्वमस्तीति प्रायेणाव्ययं पूर्वपदम् इत्यव्ययीभाव उच्यते । अत एव कैश्चित् समंभूनीति समशब्दस्यानव्ययस्यानुस्वारवर्णागम इष्यतेऽभिधानात् । एवं पापत्वं समायाः पुण्यत्वं समायाः पापसमम्, पुण्यसमम् ।" स्वरो ह्रस्वो नपुंसके"(२/४/५२) भवति ।अव्ययेत्यादि । अथालौकिकेऽपि अन्यपदार्थेऽभिधेयलिङ्गता प्राप्तेति भावः ।। ३५२ ।।
[वि० प०]
स नपुं० । नपुंसकं च तल्लिङ्गं चेति कर्मधारयः, नपुंसकलिङ्गयोगादव्ययीभावोऽपि तथोच्यते । तच्छब्देनाव्ययीभावो निर्दिश्यते । अतः पुंलिङ्गनिर्देश इत्याह - सोऽव्ययीभाव इति । समभूमीत्यादि । समंशब्दोऽयमव्ययः समत्वे वर्तते । यथा शोभनत्वं
Page #409
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
समस्येत्यादि । आदिग्रहणाद् विगतत्वं निर्गतत्वं दुर्गतत्वम् अपरत्वं समस्येति तत्रापिग्रहणात् " सुविनिदुर्भ्यः समस्य" (कात० परि० ३८) इति षत्वम् । अपरशब्दस्यानव्ययस्यापि समासे पूर्वपदार्थप्राधान्यमस्तीति अव्ययीभावसंज्ञाप्रवृत्तौ नपुंसकलिङ्गत्वम् । अव्ययपूर्वपदत्वं च प्रायेणेत्यन्वर्थः कथ्यते । अव्ययेत्यादि । पूर्वपदार्थप्रधानो ह्यव्ययी - भावः पूर्वपदार्थस्य चासत्त्वभूतत्वाल्लिसंख्याभ्यां योगो न स्याद् अतः इदमुच्यते इत्यर्थः ।। ३५२ ।
३६७
[क० च०]
स नपुं० । ननु किमर्थमिदं यावता विशेषलिङ्गावगत्यभावात् सामान्यत्वान्नपुंसकं सिद्धमेवेत्यभिप्रायेण सिद्धान्तमाह- अव्ययपूर्वपदत्वादिति वृत्तिः । ननु नपुंसकं लिङ्गं यस्याव्ययीभावस्येत्यन्यपदार्थप्रधानत्वान्नपुंसकलिङ्ग इति पुंसा निर्देशो युज्यते इत्याह - नपुंसकमिति ।। ३५२ । [समीक्षा]
‘अधिस्त्रि, उन्मत्तगङ्गम्, लोहितगङ्गम्' इत्यादि अव्ययीभावसमासविशिष्ट पदों के नपुंसकलिङ्ग होने का निर्देश पाणिनि तथा कातन्त्रकार दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है - " अव्ययीभावश्च" (अ० २/४/१८) ।
[रूपसिद्धि]
१. समभूमि । समत्वं भूमेः । समम् + भूमि + ङस् | समम्शब्द यहाँ समत्व अर्थ में अव्यय है, उसका भूमि - शब्द के साथ अव्ययीभाव समास, प्रकृत सूत्र से इसके नपुंसकलिङ्ग होने के कारण " नपुंसकात् स्यमोर्लोपो न च तदुक्तम्” (२/२/६) से सि - प्रत्यय का लोप म् को अनुस्वार ।
२. समंपदाति। समत्वं पदातेः । समम् + पदाति + ङस् । पूर्ववत् समास तथा नपुंसकलिङ्गता आदि |
३. सुषमम्। शोभनत्वं समस्य । सु + सम + ङस् । अव्ययीभावसमास, नपुंसकलिङ्गता तथा मूर्धन्य षकार आदेश " सुविनिदुर्भ्यः सुपः, समसूत्योश्च" (कात० परि० - ष० ३८, ३९)।
४. विषमम् । विगतत्वं समस्य । वि + सम + ङस् ।
Page #410
--------------------------------------------------------------------------
________________
३६८
कातन्त्रव्याकरणम्
५. निःषमम् । निर्गतत्वं समस्य । निर् + सम + ङस् । ६. दुःषमम् । दुष्टत्वं समस्य । दुर् + सम + ङस् ।
७. अपरसमम् । अपरत्वं समस्य । अपर + सम + ङस् । यहाँ आयतीत्वं समायाः 'आयतीसमम्' की तरह अव्ययत्व उपपन्न होता है ||३५२ ।
३५३. द्वन्द्वैकत्वम् [२/५/१६] [सूत्रार्थ] समाहार द्वन्द्व में एकवचन तथा नपुंसकलिङ्ग होता है ।। ३५३ । [दु० ०]
द्वन्द्वस्यैकत्वं नपुंसकलिङ्गं स्यात् । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम्, अर्काश्वमेधम् । पदकक्रमकम् | आराशस्त्रि | गङ्गाशोणम् । कुरुकुरुक्षेत्रम् । मथुरापाटलिपुत्रम् । अहिनकुलम् । तक्षायस्कारम् । पाणिपादम् | मार्दङ्गिकपाणविकम् | हस्त्यश्वम् । यूकालिख्यम् । बदरामलकम् । प्लक्षन्यग्रोधम् । धवाश्वकर्णम् । कुशकाशम् । तिलमाषम् ।रुरुपृषतम् । हंसचक्रवाकम् । दधिघृतम् । सुखदुःखम् । अनुवादे चरणानाम् । स्थेणद्यतनीप्रयोगविषयाणाम् । अनपुंसकलिङ्गानाम्, यजुःक्रतूना च निकटपाठानाम् | अप्राणिजातिविसदृशलिङ्गनदीदेशनगराणाम् ।शाश्वतिकवैरिणामथ, कारूणां प्राणितूर्यकाङ्गानाम् । सेनाङ्गानां च बहुत्वे भवति क्षुद्रजन्तुकफलानाम् । वृक्षतृणधान्यमृगशकुनिविशेषकाणां विभाषैव । व्यञ्जनविशेषकाणाम्, साद्रव्याणां विरोधिनां च समता । तेषां च समाहारो दधिपयसां खलु भवेदेन्यः । एकत्वमिति किम् ? हस्त्यश्वौ, दधिघृताः ||३५३।।
[दु० टी०]
द्वन्द्वैः । इतरेतरयोगः समाहारश्च द्वन्द्व उक्तः । तत्रसमाहारस्यैकत्वात् समाहारद्वन्द्वो नपुंसकलिङ्गं भवतीत्यर्थः । द्वन्द्वस्य समाहारोऽभिधेयो न त्ववयवस्येत्येकत्वं सिद्धम् । द्वन्द्वस्य समाहारोऽभिधेयो न त्ववयवस्येत्येकत्वं सिद्धम् । यथाक्रमम् उदाहरणानामाभिरर्थदर्शनं कृतम् । तत् पुनः प्रपच्यत इति - अनुवाद इत्यादि । प्रतीतस्य शब्देन संकीर्तनम् अनुवादः । प्रत्यष्ठात् कठकालापम् । उदगात् कठकौथुमम् इति । कश्चिद् एवमनुवदति । अन्यत्र प्रत्यष्ठुः कठकालापाः । उदगुः कठकौथुमाः इत्यप्रसिद्धं
Page #411
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पनमः समासपादः कथयति । कठादिप्रोक्तेष्वध्ययनेषु शाखाख्येषु सोऽयमित्यभेदसंबन्धात् कठादिशब्दास्तानि कठादिशब्दवाच्यान्यध्ययनानि चरणानि यदाऽध्ययनसम्बन्धात् पुरुषेषु वर्तन्ते, तदा द्वन्द्वः समाहार एवाभिधीयते स्थेणद्यतनीत्यदि । तिष्ठतेरिणश्च याऽद्यतनी तस्याः प्रयोग एव विषयो येषामिति । कठेन प्रोक्तं वेदं विदन्ति अधीयते वा एवं कुथुमिना प्रोक्तम्, कालापिना प्रोक्तम् इत्यण, तस्य लुक् नाद्रियते । इह संज्ञारूपास्तद्धिता लोकोपचारादेवावसेया इति । यजुर्वेदविहिताः क्रतवो यजु:क्रतवस्तेषामनपुंसकलिङ्गानाम् | अर्कश्चाश्वमेधश्चेति । नपुंसकलिङ्गानां तु राजसूयवाजपेये । ससोमको हि यागः क्रतुस्तेन दर्शपौर्णमासावित्यत्र न नियमः।
अमावास्यायां भवो दर्शः, पौर्णमास्यां भवः पौर्णमासः।निकटपाठानामिति । निकटः पाठो येषाम् इति पदमधीत्य क्रममधीते, बहुललक्षण एव कः । अप्राणीत्यादि । अप्राणिजातयश्च विसदृशलिङ्गानि च नदाश्च देशाश्च नगराणि चेति । आरा शस्त्रीति । प्राणिनोऽन्योऽप्राणी प्राणिसदृशस्तेनाद्रव्यजातेर्न स्यात् । रूपरसगन्धस्पर्शाः । गङ्गा च नदी, शोणश्च नदः, कुरवश्च देशाः, कुरुक्षेत्रं च मथुरा च नगरी, पाटलिपुत्रं च नगरम् इति । देशानामिति सिद्धे नगराणामिति वचनाद् ग्रामाणां न भवति । जाम्बवशालूकिन्यौ । जाम्बवश्च ग्रामः, शालूकिनी चेति विग्रहः कथं शौर्यं च नगरं केतवा च ग्रामःशौर्यकतवम् | नगराश्रयो हि मुख्यो विधिः, ग्रामाश्रयप्रतिषेधो नास्ति । देश इह जनपदाध्यासितो गृह्यते, पृथक् नदीग्रहणात् । तेन गौरी च पर्वतः कैलासश्च गौरीकैलासौ । शाश्वतिकं वैरं विद्यते येषामिति । अहिश्च नकुलश्च अहिनकुलम् । कथं 'देवासुरैरमृतमम्बुनिधिर्ममन्थे' इति नेदं शाश्वतिकमेषां वैरमिति, अपि तु नैमित्तिकमिति । कारवः शिल्पिनो रजकादयः । तक्षा च अयस्कारश्चेति विग्रहः । तूर्य एव तूर्यकः, स्वार्थे कः । प्राण्यङ्गानां तूर्यकाङ्गानां चेति सम्बन्धः । पाणी च पादौ चेति । मार्दङ्गिकश्च पाणविकश्चेति । मृदङ्गवादनं पणववादनं शिल्पमस्येति इकण् । तेनेत्यादि । हस्तिनश्च अश्वाश्चेति । अबहुत्वे तु हस्ती चाश्वश्चेति हस्त्यश्वौ । क्षुद्रजन्तव एव क्षुद्रजन्तुकाः । कुत्सायां कः । क्षुद्रजन्तुकानां फलानां च यो द्वन्द्व इति संबन्धः । व्यञ्जनात् प्राग् बहुत्वे इति संबध्यते । यूकाश्च लिख्याश्चेति अपचितपरिमाणा इह क्षुद्रा गृह्यन्ते न तु अङ्गहीनाः। शीलहीनः कृपणश्चेति । तत्र क्षुद्रेषु जन्तुषु स्मृतिभेदः, अनस्थिकाः प्राणिन इत्येके |
Page #412
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
स्वशोणितरहिता इत्यपरे । शतेनाञ्जलिर्येषां पूर्यते इत्यन्ये । गोचर्ममात्रेऽपि राशौ हते यत्र न पतितत्वं श्रुतिस्मृतिभ्यामुक्तमित्यपरे । नकुलपर्यन्ता इत्येके । इयमेव स्मृतिः प्रमाणम् इतरासां परस्परविरोधादिति । अत्र श्लोकः -
३७०
क्षुद्रजन्तुरनस्थिः स्याद् अथवा क्षुद्र एव यः ।
शतं वा प्रसृतौ येषां केचिदानकुलादपि || इति ।
"
फलानां बदराणि चामलकानि चेति । वृक्षादीनां विशेषशब्दः प्रत्येकमभिसंबध्यते । प्लक्षाश्च न्यग्रोधाश्चेति बहुवचनेन विग्रहः । पक्षे प्लक्षन्यग्रोधाः इत्यादयोऽप्युदाहार्याः । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ इत्यप्राणिजातित्वात् कथं न स्यात् ? सत्यम्, व्यक्तिवचनत्वात् । व्यञ्जनेत्यादि । विशेषा एव विशेषकाः, स्वार्थे कः । सेत्यनेन विभाषोच्यते । सा विभाषा बहुत्वेऽबहुत्वे चेत्यर्थः । पक्षे दधिघृते, दधिघृतानीति अप्राणिजातित्वात् नित्ये प्राप्ते वचनम् । न द्रव्याणि अद्रव्याणि तेषां विरोधिनामित्यर्थः । सहानवस्थानं विरोधः । समता भवति, सामान्यमेव भवति । इतरेतरयोगः समाहारश्चेत्यर्थो निदर्शनं खल्वप्राणिजातित्वान्नित्यं प्राप्नोति । सुखदुःखम्, सुखदुःखे । अद्रव्याणामिति वचनात् शीतोष्णे उदके नित्यं सुखदुखे । स्यात् । तेषां चरणादीनां समाहार एव । दधिपयसामिति बहुवचनेन गणो गृह्यते दधिपय-आदीनामन्य इतरेतरयोग एवेत्यर्थः । तद् यथा दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, वशिष्ठकौशिकौ, प्रधानापसदौ, याज्यानुवाकौ, कृष्णशुक्लौ, इध्माबर्हिषी । ह्रस्वस्य दीर्घता । दीक्षातपसी, मेधातपसी, श्रद्धातपसी, अध्ययनतपसी, उदूखलमुषले, आद्यवसाने, श्रद्धामेधे, ऋक्सामे, वाङ्मनसे । गवाश्वादीनां समाहार एवाभिधीयते । गवाश्वम्, गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम् कुब्जवामनम्, कुब्जकिरातम्, पुत्रपौत्रम्, श्वचाण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीप्रच्छदम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, शकृन्मेदः, मांसशोणित-मित्यादयः ।
गवाश्वप्रभृतिषु उच्चारितद्वन्द्ववृत्तं रूपान्तरे नायं विधिः - गोऽश्वम्, गोऽश्वौ । पशुद्वन्द्वे विभाषैव । दश मार्दङ्गिकपाणविकाः इति गणनायां भेदेनार्थस्य व्यवस्थितत्वाद् दिशामिव समाहारो नास्ति । यथा दिक्संख्यायाः समाहारेऽभिधेये प्रतिषेधमन्तरेणापि समाहाराभावः सिद्धः, तथापीति भावः । संख्यासामीप्यविवक्षायां त्वभेदेन समाहारे
Page #413
--------------------------------------------------------------------------
________________
नामचतुष्टया याये पचमः समासपादः
३७१ सत्यव्ययीभावः । भेदे तु इतरेतरयोगे बहुव्रीहिरनुयुज्यते । दशानां समीपम् उपदशं पाणिपादम् । उपगताः समीपगताः दश एषाम् उपदशाः पाणिपादाः, दर्शितेभ्योऽन्यत्रानियमः । एषामभिधानव्यवस्था भाष्येऽप्यादृतेति ||३५३।
[वि० प०]
द्वन्दै० । यद्यपीतरेतरयोगे समाहारे च द्वन्द्वः प्रतिपादितस्तथाप्येकत्वमिति वचनादिह समाहारद्वन्द्वप्रतिपादितस्तथाप्येकत्वमिति वचनादिह समाहारद्वन्द्व एव गृह्यते । समाहारो हि संहतिः, सा च द्वन्द्वस्याभिधेयेति तत्रैवैकत्वमस्ति नेतरेतरयोगे तस्यावयवप्रधानत्वात् । यद्येवमेकत्वमर्थस्तत् कथं नपुंसकलिङ्गमिति ? सत्यम्, अर्थे कार्यस्यासम्भवात् तद्वाचिनो द्वन्द्वस्य नपुंसकलिङ्गत्वमित्यदोषः, इदानीमुक्तानामुदाहरणानामर्थप्रदर्शनद्वारेण समाहारद्वन्द्वस्य इतरेतरयोगस्य च विषयं विवेक्तमार्याभिरभिधानव्यवस्थामाह - अनुवाद इत्यादि । अन्यतोऽवगतस्यार्थस्य पुनः शब्देन संकीर्तनमनुवादः । चरणशब्दः शाखानिमित्तकपुरुषे वर्तते । कठेन प्रोक्तोऽध्ययनविशेषः । शाखासंज्ञकः सोऽयमित्यभेदात् कठः। तथा कालापिना प्रोक्तः कालापः, कुथुमिना प्रोक्तः कौथुम इति । अत्र कठादिशब्दोऽध्ययनविशेषमान ?णो यदा तदध्ययनसम्बन्धाद् अध्येतृपुरुषे वर्तते, तदा कठादीनां चरणानां एव द्वन्द्व इत्यर्थः। कीदृशानामित्याह - स्थेणद्यतनीप्रयोगविषयाणामिति । स्थाश्च इणश्च स्थेणौ ताभ्याम् अद्यतनी तस्याः प्रयोगः स एव विषयो येषामिति विग्रहः । तद् दर्शितं प्रत्यष्ठाद् इत्यादिना ।
कठाश्च कालापाश्च कटकालापम् इति । कठकालापादीनां प्रतिष्ठोदयावन्यतः प्रतिपन्नौ यदा पुनःशब्देनानुद्येते तदैवमुदाहरणम् । यदा तु पूर्वमनवगतस्यैवार्थस्य शब्देनार्थप्रत्यायनं तदा नासावनुवादः । तदेतरेतरयोगो भवति । प्रत्यष्ठुः कठकालापाः उदगुः कठकौथुमाः इत्यप्रतीतं प्रत्याययति । अश्विमेधम् इति । एतौ यजुर्वेदविहितौ क्रतू । अनपुंसकलिङ्गानामिति किम् ? राजसूयवाजपेये । क्रतुशब्दः ससोमके यागे प्रसिद्धः इति । दर्शपौर्णमासावित्यत्र न भवति । निकटपाठानामिति । निकटे पाठो येषाम् अध्येतॄणां ते तथोक्ताः । पदकक्रमकमिति । पदमधीत्य क्रममधीते इत्यर्थे बहुलत्वात् क्रमादिभ्यः कप्रत्ययो दृश्यते । पदमधीत्य क्रममधीते इत्यर्थः । अधीयमानयोः पदक्रमयोः सन्निहितत्वात् तदध्येत्रोरपि पदकक्रमकशब्दवाच्ययोनिकटपाठत्वम् । अप्राणीत्यादि ।
Page #414
--------------------------------------------------------------------------
________________
३७२
कातन्त्रव्याकरणम् विसदृशं लिङ्गमेषामिति विसदृशलिङ्गानि च तानि नदीदेशनगराणि चेति विग्रहे पश्चाद-प्राणिजातयश्च विसदृशलिङ्गनदीदेशनगराणि चेति द्वन्द्वः । आरा शस्त्रीत्यादि । यथा-क्रमं चत्वार्युदाहरणानि ।प्राणिजातेस्तु न भवति - ब्राह्मणक्षत्रियविट्शूद्राः ।अप्राणीति नजिवयुक्तन्यायेन प्राणिनो द्रव्यस्य वर्जनाद् द्रव्यजातेरेव भवतीति न गुणकर्मजातेःरूपरसगन्धस्पर्शाः ।उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानीति |सदृशलिङ्गानांतुनद्यादीनां न भवति - गङ्गायमुने, मद्रकेकयौ, मथुरातक्षकशिले इति ।
ननु नद्यास्तावद् देशग्रहणेन ग्रहणं जनपदे देशशब्दस्य रूढत्वात् । यदाह - जनपदोहि देशः इति । नगरग्रहणं तु किमर्थम्, देशद्वारेणैव सिद्धत्वात् ? सत्यम् । ग्रामाणां मा भूत् । जाम्बवश्च ग्रामः शालूकिनी चेति विग्रहे जाम्बवशालूकिन्याविति । यदा तु सौर्यं च नगरं केतवता च ग्रामस्तयोर्द्वन्द्वे सौर्यकतवतमिति समाहार एव | नगराश्रयो विधिमुख्य इति ग्रामाश्रयः प्रतिषेधो न भवति । अथ कारूणामिति । कारवः शिल्पिनो रजकादयः। प्राणीत्यादि । तूर्य एव तूर्यक इत्यार्यापूरणार्थं स्वार्थे कः । अङ्गशब्दः प्रत्येकमभिसंबध्यते । मार्दङ्गिकपाणविकम् इति । मृदङ्गवादनं शिल्पमस्य, पणववादनं शिल्पमस्येत्यर्थे इकण् । मृदङ्गपणवमिति, अप्राणिजातित्वादेव भवति । सेनेत्यादि । हस्ति-नश्चाश्वाश्चेति विग्रहः । बहुत्वादन्यत्र न भवति । हस्ती चाश्वश्चेति हस्त्यश्वौ । क्षुद्रजन्तुकेत्यादि । क्षुद्रजन्तव एव क्षुद्रजन्तुकाः, कुत्सायां कः । क्षुद्रजन्तुकाश्च फलानि चेति विग्रहः । 'बहुत्वे' इत्यनुवर्तते, तेन यूकाश्च लिख्याश्चेति विग्रहः । अबहुत्वे न भवति - यूका च लिख्या चेति यूकालिख्ये | व्यञ्जनात् प्राग् बहुत्वाधिकारो ज्ञेयः । यद्यपि कृपणे अङ्गहीने शीलहीने च तण्डुलावयवे च क्षुद्रशब्दो वर्तते, तथापीह जन्तुशब्दस्य सान्निध्याद् अल्पपरिमाणं प्राणिनमाह । तत्र च स्मृतिभेदः
क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः।
शतं वा प्रसृतौ येषां केचिदानकुलादपि ॥ इति । अस्यार्थः- यस्यास्थीनि न विद्यन्ते, केवलं चर्मशोणितमांसमात्रमस्ति स क्षुद्रजन्तुः । स्मृत्यन्तरमाह - अथवा क्षुद्र एव यः इति । क्षोदयितुं शक्यः क्षुद्रशब्दार्थवशात् स्वशोणितरहितो मशकादिरेव । शतं वा प्रसृतौ येषामित्यन्या स्मृतिः । येषां शतेन प्रसृतेरञ्जलेरढ़ें पूर्यते, ते क्षुद्रजन्तवः । केचिद् आनकुलादपि इत्यपरा स्मृतिः प्रमाणम् ।
Page #415
--------------------------------------------------------------------------
________________
नामचतुष्टया याये पञ्चमः समासपादः
३७३ इतरासां परस्परविरोधादिति । वृक्ष इत्यादि । पक्षे वृक्षादीनामितरेतरयोगः । प्लक्षन्यग्रोधा इत्यादयः । तथा अबहुत्वेऽपि । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधावित्यादि । न चाप्राणिजातित्वात् प्राप्तिरिह नियतदेशादिव्यवच्छेदेन व्यक्तिवचनस्य विवक्षितत्वात् । अत्रेमौप्लक्षन्यग्रोधौ तिष्ठतः । व्यञ्जन इत्यादि । विशेषा एव विशेषकाः, स्वार्थे कः । विभाषेत्यर्थः । अप्राणिजातित्वान्नित्ये प्राप्ते विकल्प उच्यते बहुत्वेऽबहुत्वे चेति | अद्रव्याणामित्यादि । समता, तुल्यता, समाहारः, इतरेतरयोग इत्यर्थः । पक्षे सुखदुःखे सहानवस्थानम् इह विरोधः ।अद्रव्याणामिति किम् ? शीतोष्णगुणयोगात् शीतोष्णे उदके इति नित्यं भवति । विरोधिनाम् इति किम् ? कामक्रोधौ | कामवानपि क्रोधाश्रयः स्यान्नास्ति विरोधः । तेषामिति चरणादीनामित्यर्थः । दधिपयसामिति बहुवचनेन गणो निर्दिश्यते यथा दधिपयसामिति । अन्यो दधिपयसादीनाम् इतरेतरयोग इत्यर्थः । यथा 'दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती' इत्यादयः । हस्त्यश्वाविति बहुत्वाभावात् सेनाङ्गत्वेऽपि न समाहारः । दधिघृता इति । व्यञ्जनविशेषकाणां समाहारस्य विभाषितत्वादिति । दर्शितेभ्योऽन्यत्र समाहारः इतरेतरयोगगश्च प्रवर्तते, नियमस्याभावात् ।। ३५३।
[क० च०]
द्वन्दै० । सौर्यकतवतमिति समाहार एवेति मुख्य इति । विसदृशलिङ्गनदीदेशनगराणामित्यत्र नगरशब्दस्योपादानान्मुख्य इत्यर्थः । ग्रामाश्रयप्रतिषेधस्य व्याख्यानतो लाभाद् गौणत्वमित्यर्थः । ननु कथं नगराश्रयस्य विधेः संभावनाऽपि येन मुख्यतेत्युच्यते । यावता देशावयवग्रामादौ व्यावृत्तिद्वारेण केवलनगराणां समाहारव्यवस्थापकत्वेन सफलं नगरग्रहणमिति ? सत्यम् । देशद्वारेणैव नगरस्य सिद्धौ यन्नगरग्रहणं तद् बोधयतिअवयवानां समाहारे विधातव्ये नगररूपावयवानामेव भवति, नान्येषां ग्रामादीनाम् । तेन व्यावृत्तिः केवलं ग्रामादिविषयैवेति न दोषः । द्वन्द्वैकत्वमिति षष्ठीसमासः । षष्ठी च वाच्यवाचकलक्षणा द्वन्द्वस्य वाच्यं यदेकत्वमित्यर्थः एकत्वं तु द्वन्द्वस्थपदानामर्थस्य विज्ञेयम् ।
अयमर्थः- पूर्वत्र द्वन्द्व इतीतरेतरयोगे समाहारे चोक्तं तत्रेतरेतरयोगे समुच्चीयमानप्रधानत्वादेकत्वं वाच्यं न स्यात् समाहारस्य समुच्चीयमानसमाहारत्वादेकत्वमेव
Page #416
--------------------------------------------------------------------------
________________
३७४
कातन्वव्याकरणम्
वाच्यमित्यतः समाहारद्वन्द्वप्रधानेन व्यपदिश्यते । अर्थे कार्यासम्भवात् तद्वाचकशब्दे कार्यं स्यात् । अर्धर्चादौ घृतादीनां पुंस्त्वमिति कश्चित् । तथा च अमरः अपर्चादौ घृतादीनां पुंस्त्वम्' । कठेनेति कठमुनिनेत्यर्थः । शाखानिमित्त इति पञी | ननु शाखाध्ययनमेव प्रवृत्तिनिमित्तं शाखाध्ययने शाखाशब्दः, उपचारात् । किञ्च अध्ययनमिति कर्मसाधनमते न दोषः । एकस्य भाव एकत्वं द्वन्द्वस्यैकत्वं द्वन्द्वैकत्वमिति तत्पुरुषः । आरा शस्त्रीत्यादि । आरा चर्मप्रभेदिका | गङ्गाशोणमिति । अथ शोणशब्दस्य नदविशेषवाचकत्वे कथं नदीत्वेन ग्रहणम् । उच्यते - नदीदेशनगराणामित्यत्र नदीशब्देन जलाधारमात्रमुच्यते, उपलक्षणत्वात् । तेन गङ्गाह्रदमित्याद्यपि सिद्धमिति भावः ।
शाश्वतिकवैरिणाम् इति । शाश्वतिकवैरं सततं वैरं विद्यते येषामिति विग्रहः । तर्हि कथम् – 'देवासुररमृतमम्बुनिधिर्ममन्थे' इति चेत्, नेदं शाश्वतिकवैरम्, अपि तु नैमित्तिकमिति टीकाकृत् । व्यञ्जनविशेषकाणामिति । सा विभाषा | यथा दधिघृतम्, दधिघृता इति । अद्रव्याणाम् इति । अद्रव्याणां विरोधिनां सहानवस्थितानां च विभाषया । यथा - सुखदुःखम्, सुखदुःखानि । तेषामित्यादि । तेषां चरणादीनां द्वन्द्वः समाहार एव भवतीति पूर्वोक्तोऽर्थो निश्चित इत्यर्थः । दधिपयसामिति | दधिपयआदीनां पुनर्द्वन्द्वः खलु निश्चितमन्यो भवेत् । अन्येषां समाहार इतरेतरश्च शेषो द्वयोरिति वचनादित्यर्थः । दधिघृता इति । अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं मतम् इत्यमरकोशदर्शनाद् घृतशब्दस्य पुंस्त्वमिति केचित् । अस्मन्मते शिष्टप्रयोगतो जेयः। पञ्यां तथाप्येकत्वमितीति | अन्यथा द्वन्द्व इत्येतावन्मात्रमुच्यते इत्याशयः । ब्रह्मप्रजापती इत्यादय इति । आदिग्रहणात् शिववैश्रवणौ, स्कन्दविशाखौ, प्रधानापसदावित्यादि । गवाश्वादीनां तु समाहार एव-'गवाश्वम्, गवाविकम्, गवैडकम्, खजूरामलकम्, कुब्जकैरातम्, कुब्जवामनम्, अजा-विकम्, अजैडकम्, पुत्रपौत्रम्, श्वचाण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीप्रच्छदम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रपुरीषम्, शकृन्मेदः, मांसशोणितमित्यादयः । दर्शितेभ्योऽन्य-त्रानियमः । एषामभिधानव्यवस्था भाष्येऽप्यादृतेति टीका ||३५३ ।
[समीक्षा]
समाहार द्वन्द्व तथा समाहार द्विगु समास में एकवद्भाव तथा उसके नपुंसकलिङ्ग की व्यवस्था पाणिनीय तथा कातन्त्र दोनों ही व्याकरणों में की गई है | पाणिनि के सूत्र हैं - "दिगुरेकवचनम्, बन्दश्च प्राणितूर्यसेनाङ्गानाम्" (अ० २/४/१, २ - १६) ।
Page #417
--------------------------------------------------------------------------
________________
नामचतुष्टया याये परमः समासपादः
३७५ वस्तुओं के एकत्र समूह या समुदाय को समाहार करते हैं, इसी का अवबोध कराने के लिए समाहार में एकवचन का विधान अन्वर्थक माना जाता है ।
समाहार समुदाय में प्रायः सभी लिङ्गवाले शब्दों का समावेश होता है । अतः 'सामान्ये नपुंसकम्' की तरह यहाँ भी नपुंसकलिङ्ग का विधान किया जाता है | पाणिनि का सूत्र है - "स नपुंसकम्" (अ० २/४ / १७) कातन्त्र में एकवद्भावविधान के लिए पृथक् सूत्र नहीं है, जबकि पाणिनि ने द्वन्द्व समास के एकवद्भाव के लिए १५ सूत्र बनाए हैं। उन्हें वृत्तिकार दुर्गसिंह ने आर्याच्छन्दों में निबद्ध किया है।
[रूपसिद्धि]
१. प्रत्यष्ठात् कठकालापम् | कठाश्च कालापाश्च, तेषां समाहारः । कठ + आम् + कालाप + आम् + सि । द्वन्द्व समास, विभक्तिलोप, एकवद्भाव, सिप्रत्यय, नपुंसकलिङ्ग, सिलोप तथा मु का आगम ।
२. उदगात् कठकोथुमम् । कठाश्च कौथुमाश्च, तेषां समाहारः । कठ + आम् + कौथुम + आम् + सि । पूर्ववत् समासादि ।
३-२३. अर्काश्वमेधम् । पदकक्रमकम् । आराशस्त्रि । गङ्गाशोणम् । कुरुकुरुक्षेत्रम् | मथुरापाटलिपुत्रम् । अहिनकुलम् । तक्षायस्कारम् । पाणिपादम् । मार्दङ्गिकपाणविकम् । हस्त्यश्वम् । यूकालिख्यम् । बदरामलकम् । प्लक्षन्यग्रोधम् । धवाश्वकर्णम् । कुशकाशम् । तिलमाषम् । रुरुपृषतम् । हंसचक्रवाकम् । दधिघृतम् । सुखदुःखम् ।
इन सभी शब्दरूपों में एकवद्भाव तथा नपुंसकलिङ्ग की प्रवृत्ति होती है । इनमें अनेक प्रकार के शब्दों का समावेश है। जैसे – वेदशाखाध्ययनकर्ता, यागवाचक अध्ययनविषय, नदी - देश - नगरवाचक, शाश्वतविरोधवाचक, शिल्पिवाचक | प्राणितूर्यसेनाङ्गवाचक, मृगपक्षिविशेषवाचक आदि ।। ३५३।
३५४. तथा द्विगोः [२/५/१७] [सूत्रार्थ] समाहारद्विगु में विहित एकत्व को भी नपुंसकलिङ्ग प्रवृत्त होता है ।।३५४।
Page #418
--------------------------------------------------------------------------
________________
३७६
कातन्त्रव्याकरणम्
[दु० वृ०]
तथा द्विगोरप्येकत्वं नपुंसकलिङ्गं स्यात् । पञ्चगवम्, चतुष्पथम् । शोभनमिति विशेषणात् । एकत्वमिति किम् ? पञ्चकपाल ओदनः । अपात्रादिरदन्तोऽयं स्त्र्यादन्तो वा द्विगुस्तथा ।
अनन्तश्च समाहारो नदादिषु निगद्यते || ३५४ |
[दु० टी० ]
तथा । एकविभक्तियुक्तस्याप्येकदेश एकत्वमिह वर्तते, द्विगोरित्युपादानात् । तथा तेनैव प्रकारेणेति स्वरूपार्थमेव । पञ्चानां गवाम्, चतुर्णां पथां समाहार इति विग्रहः । समाहारस्यैवात्र द्विगोर्ग्रहणं द्विगोः संबन्धे यदेकत्वमिति वचनात् । ते पञ्चसु कपालेषु संस्कृत ओदनः ‘पञ्चकपाल ओदनः' इत्यत्र न स्यात् । संस्कृतत्वमत्रार्थ इति भावः । न च वक्तव्यम् – पञ्च गावः समाहता इति वाक्यान्तरेण बहुवचनं प्राप्नोति द्रव्याणां बहुत्वात् । तस्मादेकवद्भावो विधेय इति । यस्मात् समाहारोऽत्राभिधेयस्तदाश्रितमेकत्वं सिद्धम्, तत्र हि समाहारो भावसाधन एव प्रतिपत्तव्यः, न कर्मसाधन इति । तेन पञ्च कुमार्यः समाहृता इति वाक्यमेव |
ननु विशेषणं यन्नाम विशेष्यगतलिङ्गसंख्याकं स्यात् । कथं चतुष्पथमिदमिति । अनुप्रयोगे - यथा यूथमिदमिति तदेव निर्दिश्यत इति नास्ति दोषः । अपात्रादिरित्यादि । पात्रादिवर्जितो द्विगुरयमदन्तो नित्यं नदादिषु निगद्यत इति संबन्धः । पञ्चानां पूलानां समाहारः पञ्चपूली । द्वयोः पुरोः समाहारः- द्विपुरी, त्रिपुरी राजादित्वादत् । पञ्चगवम् इत्यादिभ्योऽन्योऽपात्रादिरिति । यथा - द्विपात्रम्, त्रिभुवनम्, चतुर्युगम्, चतुष्पथम् । कश्चित् 'पञ्चवटी' इत्युदाहरति । स्त्रियां विहित आत् स्त्र्यात्, सोऽन्तो यस्येति विग्रहः । विभाषया द्विगुर्नदादिरिति । यथा पञ्चखट्टी, पञ्चखट्वम् । तथा अनन्तश्चेति । पञ्चतक्षी, पञ्चतक्षम्, “नस्तु क्वचित् " ( २ / ६ / ४५ ) इति नलोपः ।
ननु चात्रान्यपदार्थबहुव्रीहेरन्यपदार्थलिङ्गता परपदार्थप्रधानस्य तत्पुरुषस्य परपदार्थलिङ्गता युक्ता । कथम् इतरेतरार्थस्य योगस्य द्वन्द्वस्य परलिङ्गतेति ? नैतदेवम्,
Page #419
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
1
स्वभावादेवास्य वृक्षस्येव पुंवल्लिङ्गता सिद्धा । यद्येवं द्विग्वव्ययीभावयोर्नपुंसकलिङ्गविधानमनर्थकम् ? सत्यम्, मन्दमतिबोधनार्थमेव । येषां तु वाक्यमेव समासीभवतीति मतं तेषां द्वन्द्वैकत्वं नपुंसकलिङ्गं स्यादिति वचनम् इतरेतरार्थयोगे साधारणं नपुंसकलिङ्गं नास्तीति साधितम् । युगपदनेकलिङ्गसम्भवाभाव इत्यन्यतरलिङ्गेन भवितव्यम्, कदाचित् पूर्वस्य कदाचित् परस्येति ? सत्यम् । समासेऽप्यनेकपदाध्यवसायाद् यस्यैव सन्निहिता विभक्तिर्लिङ्गव्यञ्जिका तस्यैव लिङ्गं योज्यम् । सन्निहितपरित्यागे व्यवहितं प्रति कारणं वाच्यमिति न्यायात् । कुक्कुटमयूर्याविमे, मयूरीकुक्कुटाविमौ इति कथं तर्हि अश्ववडवौ, अश्ववडवे इति ? सत्यम् । “ असन्ध्यक्षरयोरस्य तौ तल्लोपश्च " (३/६/४०) इति ज्ञापकात् क्वचित् पूर्वस्यापि लिङ्गं प्रतिपत्तव्यम् । अन्यथा असन्ध्यक्षरयोर्नपुंसकत्वात् तच्छब्दस्यापि नपुंसकलिङ्गं स्यात् । ते इति । तेनाश्वशब्दस्य पुंस्त्वं वडवाशब्दस्यापि भवतीत्यर्थः । समासानां तु यल्लिङ्गान्यत्वं दृश्यते तल्लिङ्गानुशासने प्रतिपत्तव्यमिति || ३५४ |
[वि० प०]
३७७
तथा० । पञ्चगवमित्यादि । पञ्चानां गवां चतुर्णां पथां समाहार इति विग्रहे "गौरतद्धिताभिधेये (द्र०, २/६/४१ – ९), पन्थ्यपूपुर् ” (२/६/४१ - १९) इति राजादित्वात् । पञ्चकपाल ओदन इति । पञ्चसु कपालेषु संस्कृत इति संस्कृतत्वमात्रमर्थो विवक्षितो नैकत्वम्, अत इह समाहारद्विगुरेव गृह्यते । अपात्रादिरित्यादि । पात्रादिवर्जितो द्विगुरयम् अदन्तो नदादिषु निगद्यते, नदादेराकृतिगणत्वादिति संबन्ध । पञ्चानां पूलानां समाहारः पञ्चपूलीत्यादि । पात्रादेस्तु नपुंसकत्वमेव । द्विपात्रम्, त्रिपात्रम्, त्रिभुवनम्, चतुर्युगम् इति । स्त्र्यादन्तो वेति । स्त्रियामादन्तो यस्येति विग्रहः । पञ्चखट्वम् इत्यादि । अनन्तश्च | पञ्चानां तणां समाहारः पञ्चतक्षी, पञ्चतक्षम् इत्यादि । " नस्तु क्वचित् " (२/६/४५) इति नलोपः । । ३५४ ।
[क० च०]
तथा० । एकविभक्तियुक्तस्यापि एकदेश एकत्वमिह वर्तते द्विगोरिति षष्ठीनिर्देशबलात् । यथा द्वन्द्वस्यैकत्वं नपुंसकलिङ्ग तथा द्विगोरपीत्यर्थः । ननु विशेषणं नाम
Page #420
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
विशेष्यगतलिङ्ग्ङ्गसंख्याकं तत् कथं चतुष्पथम् इदम इतीदम् एकत्वेनानुप्रयोगः । चतुर्णां पथां समाहारः इत्युक्ते बहुत्वार्थस्य लाभाच्चतुष्पथाद्यतिरिक्तसमाहारादर्थान्तरस्याभावेन विशेषणेऽपि बहुवचनस्यैव युक्तत्वादित्याह - शोभनमिति । शोभनत्वपरः । शोभनत्वप्रकारेणैकत्वाच्चतुष्पथं शोभनमिदमिति वाच्यत्वाददोष इति भावः । अन्ये तु शोभनमिति विशेषणाभावेऽपि चतुष्पथमिदमिति स्यादेव । यथा यूथमिदमिति । तथा चोक्तम् -
३७८
द्वन्द्वादी वा विशेष्ये वा यल्लिङ्गं तद् विशेषणे । प्रयोक्तव्यं पुनस्तत्र त्यदादिषु यदृच्छया ॥
इति त्यदादिषु विशेष्यस्य लिङ्गं यदृच्छया प्रयोक्तव्यमित्यर्थः ? अथान्यपदार्थबहुव्रीहेरन्यपदार्थलिङ्गता परपदार्थप्रधानतत्पुरुषस्यापि परपदार्थलिङ्गता भवतु, कथम् इतरेतरद्वन्द्वस्य परलिङ्गता ? सत्यम्, वृक्षादेरिव स्वभावात् । यद्येवं द्विग्वव्ययीभावयोर्नपुंसकलिङ्गविधानमनर्थकं स्वभावादेव सिद्धेरिति चेत्, मन्दमतिबोधनार्थम् । कथं तर्हि अश्ववडवौ, अश्ववडवे इति ? सत्यम् । असन्ध्यक्षरयोरस्य तौ तल्लोपश्चेति ज्ञापकात् क्वचित् पूर्वस्यापि लिङ्गं प्रतिपत्तव्यम् | अन्यथा सन्ध्यक्षरस्य नपुंसकत्वात् तच्छब्दस्यापि तदेव स्यादिति । अथ 'पञ्चगवम्, चतुष्पथम्' इत्यत्रापि अपात्रादिरदन्तोऽयमित्यादिना ई - प्रत्ययः कथन्न स्यात्, एतद्वचनवैयर्थ्यादिति । पात्रादेः‘द्विपात्रम्, त्रिभुवनम्' इत्युदाह्नियताम् । उच्यते - पञ्चगवम् इत्यादिरपि पात्रादिरिति । अत एव टीकाकृताऽपि पञ्चगवम् इत्यादिभ्योऽन्योऽपात्रादिरित्युक्तम् || ३५४।
[समीक्षा]
समाहारद्विगु समास के एकवद्भाव को नपुंसकलिङ्ग का विधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है- “स नपुंसकम्" (अ० २/४/१७) । अन्य विवरण पूर्ववर्ती सूत्र की समीक्षा के ही सदृश है ।
I
[रूपसिद्धि]
१. पञ्चगवम् । पञ्चानां गवां समाहारः । पञ्चन् + आम् + गो + आम्। “संख्यापूर्वी द्विगुरिति ज्ञेयः " (२/५/६ ) से द्विगु समास, विभक्तिलोप, "गौरतद्धिताभिधेये” ( द्र०,
Page #421
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३७९
२ / ६ / ४१-९) से समासान्त 'अत्' प्रत्यय, अवादेश, नलोप, 'पञ्चगव' की लिङ्गसंज्ञा, सिप्रत्यय, नपुंसकलिङ्ग होने से सिलोप तथा मु-आगम ।
२. चतुष्पथम् । चतुर्णां पथां समाहारः । चत्वार् + आम् + पथिन् + आम् +सि | द्विगुसमास, विभक्तिलोप, "पन्थ्यपूपुरः " (२/६/४१ – १९ ) से समासान्त ' अत्' प्रत्यय, इन्भाग का लोप, वा को उ, रेफ को विसर्ग-सकार - षकार, 'चतुष्पथ' की लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु - आगम || ३५४ |
३५५. पुंवद्भाषितपुस्कानूङपूरण्यादिषु स्त्रियां तुल्याधिकरणे [२/५/१८]
[सूत्रार्थ]
ऊङ्प्रत्ययान्तशब्दों को छोड़कर स्त्रीलिङ्गवाले भाषितपुंस्क शब्द का पुंवद्भाव होता है, पूरण्यादिवर्जित तुल्याधिकरण पद के परे रहने पर || ३५५ |
[दु० बृ०]
स्त्रियां वर्तमानो भाषितपुंस्कानूङ् पुंवद् भवति, स्त्रियां वर्तमाने तुल्याधिकरणे पूरण्यादिवर्जिते पदे परतः । शोभनभार्यः, दीर्घजङ्घः । अर्थात् पूर्वस्य च । स्त्रियामिति विशेषणात् - ग्रामणि कुलं दृष्टिरस्येति ग्रामणिदृष्टिः । कल्याणी प्रधानमेषां कल्याणीप्रधानाः । भाषितपुंस्कोऽर्थ इति किम् ? द्रोणीभार्यः । अनूङिति किम् ? ब्रह्मबन्धूभार्यः । अपूरण्यादिष्विति किम् ? कल्याणीपञ्चमा रात्रयः । मुख्यपूरणीग्रहणात् -कल्याणपञ्चमीकः पक्षः । आदिग्रहणात् कल्याणीप्रियः । 'प्रिया, मनोज्ञा, सुभगा, दुर्भगा, भक्ति, सचिवा, ष्वसा, कान्ता, क्षान्ता, समा, बाला, दुहिता, वामना' इति ।
[दु० टी० ]
पुंवदभा० । अथ कथमिह विग्रहः । किं भाषितपुंस्कादनूङ् भाषितपुंस्कश्चासौ अनूङ् चेति वा । तत्र यदि पञ्चमीलक्षणस्तत्पुरुषः स्याद् ऊसदृशः स्त्रीप्रत्ययः पुंवद् इति पुंवद्भावेन स्त्रीप्रत्ययप्रतिषेध एव गम्यते । नहि पुंसः प्रतिपदं कार्यमस्ति येनाति - दिश्यते । वतिप्रत्ययनिर्देशेऽपि प्रतिषेधो विज्ञायते । तद् यथा - उशीनरवन्मद्रेषु यवाः सन्तीति गम्यते । मातृवदस्याः कलाः सन्ति न सन्तीति गम्यते । एवमिहापि
Page #422
--------------------------------------------------------------------------
________________
३८०
कातन्वव्याकरणम्
पुंवदिति पुवन्न भवति इति वाक्यशेषः । यथा पुंसः स्त्रीप्रत्ययो न भवति । एवं भाषितपुंस्कस्यापि तुल्याधिकरणे पदे न स्यादित्यर्थः । एवं सति एनी भार्या यस्य स एतभार्य इत्यत्र स्त्रीप्रत्ययस्य निवृत्तौ स्त्रीत्वमस्तीति नकारस्य स्थितिः स्यात् । पट्वी भार्या यस्य स ‘पटुभार्यः' इत्यत्र स्त्रीप्रत्ययस्य स्थानिवद्भावाद् वत्वं स्यात् । गार्ग्यश्च ता वृन्दारिकाश्चेति गर्गवृन्दारिका इत्यत्र च स्त्रीत्वमस्तीति ण्यस्य लुक् न स्यात् । किं च रूढानां दरदादीनां स्त्रियामपत्येऽभेदोपचार एव नित्यमभिधानाद् दरदोऽपत्यं स्त्री दरत् दारदवृन्दारिकेति शब्दस्य पुंवद्भावो न स्यात् । एवम् इडविट् । ऐडविडवृन्दारिका । पृथुक - पाथुकवृन्दारिका ।उषिज-औषिजवृन्दारिका । नैतदेवम् – प्रसज्यप्रतिषेधोऽयम् । ऊङोऽभावोऽनूङ् । भाषितपुंस्कादनूङ् यस्मिन्निति भिन्नाधिकरणेन बहुव्रीहिणा शब्द उच्यते, स च स्त्रियां वर्तमान इति । कथं स्त्रियामिति पूर्वपदस्य विशेषणं लभ्यते ? सत्यम् । पुमानिव पुंवदिति वचनात् नपुंसकं हि साधारणरूपम् अर्थादिह स्त्री प्रतीयते लोकोपचारश्चैवमिति । तथा चैवम् भाषितपुंस्कं पुंवदायावित्यत्र प्रतिपत्तव्यमेव, उभयविशेषणं वा । यथा “ओदन्ता अ इ उ आ निपाताः" (१/३/१)। साहचर्याद् वेति । कर्मधारये तु न विद्यते ऊङ् यस्मादसावनूङ् ।
उभयपक्षेऽपि रूपातिदेशोऽयं पुंवाचकस्य नाम्नो यद् रूपं स्त्र्यर्थाभिधायिनोऽप्यान्तरतम्यात् तद् भवतीत्यर्थः । कथं द्रोणीभार्यः, कुटीभार्य इति । भाषितः पुमान् येन शब्देन स भाषितपुंस्क इति प्राप्नोति ? नैवम् । समानायामाकृतौ पुंवद्भावः कथं भिन्नायामाकृतौ भवति । यस्मादर्थोऽन्यपदार्थत्वेनाश्रितो भाषितः पुमान् यस्मिन्नर्थे स भाषितपुंस्क इति । तथाहि द्रोणशब्द: पुंसि मानार्थः जलक्षेपणे च स्त्रियामिति । कुटशब्दश्च घटे पुंसि अल्पावासे च स्त्रियामिति नात्रैकजातिरिति । सोऽपि न सर्वः, अपि तु प्रत्यासत्तेः शब्दस्य प्रवृत्तिनिमित्तम्, स एव विज्ञायते । यदि येन केनचिच्छब्देन भाषितपुंस्क उच्यते, तदा भाषितपुंस्कग्रहणमनर्थकं स्याद् व्यावृत्तेरभावात् । कुंतः पुनरिदं चोद्यम् । अङ्गारकाः शकुनयस्तेषां कालिकाः स्त्रियः कालिकाः वृन्दारिकाः प्राप्नुवन्ति । क्षेमवृत्तयः क्षत्रियास्तेषां तनुकेश्यः स्त्रियः तनुकेशीवृन्दारिकाः, क्षेमवृत्तिवृन्दारिकाः प्राप्नुवन्ति । हंसस्य वरटा, कच्छपस्य द्रोणी, ऋष्यस्य रोहिता, अश्वस्य वडवा, पुरुषस्य योषित्, अङ्गारकत्वादिर्जातिः । कालिकादिषु शब्दान्तरेषु संभवतीति नात्रोङन्तादन्योऽनूङ् स्त्रीप्रत्यय आश्रीयते पूर्वोक्तदोषप्रसङ्गात् ।
Page #423
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३८१
यदि पुनर्भाषितपुंस्कोऽर्थ पुमर्थो भवतीति अतिदिश्यते, अविशेषादेतेष्वपि पुंबद्भावः स्यात् । ऊङोऽभावश्च यस्मादिति कल्पयितुं न शक्यते, न ह्यर्थे पौर्वापर्यमस्ति । किं च 'कालिम्मन्या, विदुषिम्मन्या' इत्यत्र पुंवद्भावाद् ह्रस्वः पर इति नोपपद्यते | शब्दस्य ह्रस्वत्वम् अर्थस्य पुंवद्भाव इति । अन्य आह - अयं तावददोषः । अर्थादिह विप्रतिषेधो गम्यते । नावश्यं द्विकार्ययोग एव संभवतीति किन्तर्हि असम्भवेऽपि स चात्रास्त्यसंभवः पुंवद्भावो हि विवर्तमानो ह्रस्वस्य निमित्तं व्याहन्ति । ह्रस्वो हि विवर्तमानः पुंवद्भावं बाधते ? एषोऽत्रासंभवः । सत्यसंभवे युक्तो विप्रतिषेधः । पट्वी मृद्व्यौ भार्ये यस्य स पट्वीमृदुभार्य इति भवितव्यम् । यदनन्तरं तुल्याधिकरणे पदे तस्य पुंवद्भावो न व्यवहितस्येति ।
ननु च ‘“ऊङ् संज्ञापूरणीकोपधास्तु न” इति कथन्न विदध्याद् इह वा नञ्ग्रहणमकरणीयं स्यात् । नैवम् । प्रतिषिद्धार्थं हि "कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते" (२/५/२०), स यथा संज्ञापूरणीकोपधानां स्यादेव, ऊङोऽपि ब्रह्मबन्धुवृन्दारिकेति । अथ पृथक् प्रतिषेधेऽपि प्रतिषेधार्थ आबन्तः कथं न भवति ? सत्यम् । तत्र भाषितपुंस्कानूङ् इत्यनुवर्तनात् पृथक्प्रतिषेधसामर्थ्याच्चेति । एवं विगणय्य आह- स्त्रियां वर्तमान इत्यादि । पूरणप्रत्ययान्ता हि स्त्री पूरणीत्युच्यते । कल्याणी पञ्चमी यासां रात्रीणाम् इत्यवयवेन विग्रहः रात्रयो ह्यत्र मुख्या इति समासान्तश्च स्यात् । मुख्येत्यादि । कल्याणी पञ्चमी अस्येति विग्रहे नात्र पूरणार्थं प्रतिपद्यते इति गौणत्वात् पुंवद्भावः । कथं प्रजातभार्यः, प्रसूतभार्यः ? प्रजातप्रसूतशब्दौ स्त्रियां गर्भविमुक्तौ वर्तेते । पुंसि तु गर्भोत्पत्तिनिमित्तमुपादाय यथा प्रजाता व्रीहयः, प्रसूताः शालयो गर्भाधानस्य कारणतां गता इत्यर्थः । स्त्रिया गर्भेण निरवयवेन पुंसश्च सावयवेनेति भिन्नाकृतित्वात् चेत्, नैवम् । प्रजातप्रसूतयोर्विमुक्तौ गर्भाधाने चासत्तासम्बन्धमात्रमभिन्नम् । गर्भस्यान्तर्वर्तित्ववस्तुसम्बन्धमात्रं तुल्यप्रवृत्तिनिमित्तं विवक्षितम् । यथा स्त्रियाम् अश्वायां वा द्विपाच्चतुष्पात्त्वे पुंवदिति योगविभागादित्येके । ‘तस्-त्र-तम-तर-चरट्-जातीय- कल्प- देश्य- देशीय - रूप. पाश - था - धमुण् - धा - दा - थमु - र्हि - इष्ठ - इमन् - ईयसु । स्त्रीत्वस्याविवक्षा | तस्यास्तत इत्यादि । एवं सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो न वक्तव्य एव । तस्या मुखं तन्मुखम्, तस्या इदं तदीयम् । शसि च बह्वर्थस्य बह्वीभ्यो देहि अल्पाभ्यो देहि । बहुशो देहि, अल्पशो देहि । तत्वयोर्गुणवचनस्य पट्ट्या भावः पटुता, पटुत्वम् ।
-
Page #424
--------------------------------------------------------------------------
________________
३८२
कातन्त्रव्याकरणम् तद्धिते ये स्वरे च। हस्तिन्यां भवो हस्त्यः, हस्तिनीनां समूहो हास्तिकम् । एयणि तु स्त्रीत्वविवक्षा दृश्यते । श्यैनेयः, रौहिणेयः । न च दृश्यते अग्नायी देवता अस्येति आग्नेयः स्थालीपाकः । एवं भवत्याश्छात्रा भवदीयाः, भावत्काः इतीकण आदिलोपो दृश्यते । कुक्कुट्यादीनामण्डादिषु च स्त्रीत्वस्याविवक्षा | कुक्कुट्या अण्डं कुक्कुटाण्डम्, मृग्याः पदं मृगपदम्, काक्याः शावः काकशावः | सतोऽप्यविवक्षा स्यात् । यथा नमिका, एडका, अनुदरा कन्येति । असतश्च विबक्षा - समुद्रः कुण्डिका बिन्ध्यो वर्धितकः । भक्तिशब्दः पूरण्यादौ पठ्यते । दृढभक्तिरित्यपि विवक्षया भवति । समासशब्दपक्षे पुंवद्भावविधानं प्रपञ्चार्थमेव । भाषितपुंस्क इति किमर्थम्, इह मा भूत् - खट्वाभार्यः । तुल्याधिकरण इति किमर्थम् ? कल्याण्या माता कल्याणीमाता | समासप्रस्तावाद् वाक्ये न भवति - कल्याणी भार्या यस्येति ।। ३५५ ।
[वि० प०]
पुंवद्भा० । भाषितपुंस्कानूङ इति । न विद्यते ऊङ् यस्माद् असौ अनूशब्दः । भाषितपुंस्कश्चासावनूङ् चेति विग्रहः । अर्थादित्यादि । ननु कथमेतद् यावता स्त्रियामित्येकमेवेदं पदम् । तच्च सान्निध्यात् परपदमेव निमित्तं विशिष्यते, न तु पूर्वम् । एकेनैव संबन्धेन चरितार्थत्वात् ? सत्यम् । लोके स्त्रियामेव पुमानिव पुंवद् इत्युपमानोपमेयभावः प्रसिद्धः, न तु नपुंसके विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वात् । उभयविशेषणं वा यथा ओदन्ता निपाता अ इ उ आश्च निपाता इति । अथवा परपदस्य स्त्रियां वर्तमानस्य साहचर्यात् पूर्वोऽपि स्त्रीलिङ्ग एव ? तेन स्त्रियां वर्तमानो भाषितपुंस्कानूङ् पुंवदिति । ननु भाषितः पुमान् येन स भाषितपुंस्कः शब्द इति । तदा 'द्रोणीभार्यः' इत्यत्रापि प्राप्नोति । तस्मात् समानायामाकृताविति वक्तव्यम् इत्ययुक्तमित्याह - भाषितपुंस्क इति । भाषितः पुमान् यस्मिन्नर्थे स भाषितपुंस्क इत्यर्थोऽन्यपदार्थत्वेनाश्रितो न तु शब्द इति |
ननु केन पुनः शब्देन तत् पुमान् भाषितः इति चेद् उच्यते – यस्य पुंवद्भावो विधातुमिष्यते, तेनैव तस्यैव प्रत्यासत्तेः । यदि पुनः येन केनचिच्छब्देन भाषितपुंस्क इत्याश्रीयते, तदा भाषितपुंस्कग्रहणमनर्थकं स्याद् व्यवच्छेद्याभावाद् यतोऽर्थशब्देनाप्यधीयमानत्वेन सर्वस्यैवार्थस्य भाषितपुंस्कतोपपत्तेः । अत्र तु द्रोणशब्दः पुंसि परिमाणार्थः
Page #425
--------------------------------------------------------------------------
________________
नामचतुष्टयायाये पनमः समासपादः
३८३ स्त्रियां तु जलप्रक्षेपणार्थ इति । नार्थोऽत्र भाषितपुंस्कः, यथा दीर्घजङ्घ इति पुंसि स्त्रियां च वर्तमानेन दीर्घशब्देन भाषितपुंस्को दीर्घत्वलक्षणोऽर्थ इति । पुंवद्भावनिबन्धनं तु कार्य शब्दस्यैवार्थे तस्यासम्भवात् । अनूङ् इत्यादि । ब्रह्म बन्धुरस्या इत्यमनुष्यजातेरुकारान्ताद् ऊङ् इति नदादिवचनादूङ् प्रत्ययः । यदि पुंवद्भावः स्यात् तदा ऊडो लोपः स्यात् । कल्याणीपञ्चमा रात्रय इति । कल्याणी पञ्चमी यासां रात्रीणामिति अवयवेन विग्रहः । समुदायस्तु समासार्थः । अवयवश्व समुदायेऽन्तर्भवति । रात्रयो ह्यत्र स्त्रियो मुख्या इति । पूरणीप्रमाण्याविति राजादित्वादत् । मुख्य इत्यादि । कल्याणी पञ्चमी यस्येति विग्रहे स्त्रीत्वविशिष्टपूरणार्थो नात्र प्रतिपादित इति प्रतिषेधो न भवति । पूरणप्रत्यान्ता हि स्त्री पूरणी न चेह बहुव्रीहिणा स्त्री वाच्या अपि तु पुमान् पक्ष इति, अतो गौणत्वमस्याः। तथा समासान्तविधिरपि न भवति, तत्रापि मुख्यपूरणीग्रहणात् ।। ३५५।
[क० च०]
पुंवद्भा० । पुमानिव पुंवत्, प्रथमान्ताद् वतिः । पूरणप्रत्ययान्तः स्त्रीवाचकः पूरणीत्युपचारात् । सा आदिर्येषां ते पूण्यादयः, पश्चान्नञ्समासः । तेष्विति विग्रहः । अधिक्रियते नियुज्यतेऽस्मिन्नित्यधिकरणमर्थः । तुल्यमधिकरणं यस्येति भिन्नप्रवृत्तिनिमित्तमेकार्थप्रयुक्तत्वमुच्यते एकप्रवृत्तिनिमित्तस्य यौगपद्येन प्रयोजनाभावात् । अन्यातिदेशस्यासंभवाद् रूपातिदेशोऽयम् । पुंवाचकस्य नाम्नो यद् रूपं स्त्र्याभिधायिनोऽपि नाम्न आन्तरतम्याद् भवतीत्यर्थः । पदे परत इत्येकदेशेनार्थो गम्यत इति न्यायात् पदे इत्यस्योत्तरपदे इत्येवार्थः । तेन चित्रा जरद्गुरित्यत्र जरतीशब्दे परे पुंवत्त्वं चित्रापदस्य न पुंवत्त्वम् । एवं पट्वी मृद्वी भार्या यस्य स पट्वीमृदुभार्यः इत्यादिष्वपि बोद्धव्यम् । अथ यदि स्त्रियामिति तुल्याधिकरणपदेन सह संबध्यते, तदा ग्रामणिदृष्टिरित्यत्रापि पुंवत् स्यात् । नपुंसकलक्षणहस्वनिवृत्तिः प्रयोजनम् । यदि च भाषितपुंस्कानूङा सह साहचर्यं तर्हि कल्याणीप्रधाना इत्यत्रापि स्यात् पुंवत्त्वे स्त्रीकारनिवृत्तेः प्रयोजनत्वादित्याह - अर्थादित्यादि । अस्य प्रमाणं तु क्रियानिमित्तयोर्मध्ये स्त्रियामित्यस्य पाठ इति भावः । मुख्येत्यादि ।
Page #426
--------------------------------------------------------------------------
________________
३८४
कातन्त्रव्याकरणम्
यत्तु स्त्रीत्वविशिष्टत्वे समासवाच्यं तन्मुख्यमित्यर्थः । ननु सूत्रे पूरणीमात्रस्य ग्रहणात् कथं मुख्यस्यैव ग्रहणं चेत् पूरणीति ईकारनिर्देशात्, अन्यथा पूरणादिष्विति कुर्यात् । पूरण्यादिगणमाह - प्रियेत्यादि । तर्हि कथं 'दर्शितशिष्यभक्तिः, दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः' इत्यादिषु भक्तिशब्दे पुंवत् स्यात् ? सत्यम् । भक्तिशब्दो हि द्विविध:- कर्मसाधनो भावसाधनश्च । तत्र च सुभगादिशब्दस्य द्रव्यवाचिनः साहचर्याद् भक्तिशब्दोऽत्र कर्मसाधनो द्रव्यवाची गृह्यते । अत एव कुलचन्द्रोऽपि भज्यते इति भक्तिः कर्मण्येव पूण्यादिरित्याह - आदिशब्दस्य व्यवस्थावाचित्वादित्यन्ये | टीकाकृता तु दृढभक्तिरिति विवक्षयेत्युक्तम् । तस्याप्ययमाशयः- विशेषोक्तमिति विवक्षया पुनः कर्मसाधनं व्याख्यायेत्यर्थस्य कर्तव्यत्वात् ।
ननूत्तरत्र ऊङ् संज्ञापूरणीकोपधास्तु नेति क्रियतां किमिहोङः प्रतिषेधेन । नैवम् । प्रतिषेधो हि "कर्मधारयसंज्ञे तु" (२/५/२०) इत्यादिना पुंवद्भावार्थः । स यथा संज्ञापूरणीकोपधानां स्यात्, तथा ऊङः कथं न स्याद् ब्रह्मबन्धूदारिकेति टीका । कथं प्रजातभार्यः, प्रसूतभार्यः । प्रजात-प्रसूतशब्दौ स्त्रियां गर्भविमुक्तौ वर्तते । पुंसि तु गर्भोत्पत्तिनिमित्तमुपादाय यथा प्रजाता व्रीहयो गर्भाधानस्य कारणताङ्गता इत्यर्थ । स्त्रियां हि गर्भेण निरवयवेन संबन्धः । पुंसि तु सावयवेनेति भिन्नाकृतित्वात् चेत्, नैवम् । प्रजातप्रसूतयोर्विमुक्तौ गर्भाधाने सत्तासंबन्धमात्रमभिन्नं गर्भान्तमात्रभिन्नमिति तुल्यप्रवृत्तिनिमित्तत्वं विवक्षितम् । यथा स्त्रियामश्वायां वा द्विपाच्चतुष्मात्त्वेऽपि गर्भस्यान्तर्वर्तित्वेन तुल्यतेति | पुंवदिति योगविभागादिति अपरे | योगविभागे च विपरीतनिर्देशो बीजम् । तथा 'तस्-त्र-तम-तर- चरट्-जातीय- कल्प-देश्य- देशीय-रूप-पाशधमुण्-थमु-था-दा-धा-हि-इष्ठ-ईयन्सु' । स्त्रीत्वस्याविवक्षा । तस्यास्तत इत्यादि । एवं 'सर्वनाम्नो' वृत्तिमात्रे पुंवद्' इति न वाच्यम् । तस्या मुखं तन्मुखम् इत्यादयः । अन्यत् टीकाया-मूहनीयम् । पञ्यां चरितार्थत्वादिति | शब्दबुद्धिकर्मणां विवरणस्य व्यापाराभावादित्यर्थः । “ओदन्ताः" (१/३/१) इत्यत्र बहुवचनबलादुभयविशेषणता । इह तु कथमित्याहअथवेति ||३५५।
[समीक्षा]
'दर्शनीया भार्या यस्य, दीर्घा जङ्घा यस्य' आदि में समास के अनन्तर पूर्वपद 'दर्शनीया' तथा 'जङ्घा' को पुंवद्भाव दोनों आचार्य करते हैं । पाणिनि का सूत्र
Page #427
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३८५ है - "स्त्रियाः पुंवद् भाषितपुंस्कादनूङ समानाधिकरणे स्त्रियामपूरणीप्रियादिषु" (अ० ६/३/३४)।
[रूपसिद्धि]
१. शोभनभार्यः । शोभना भार्या यस्य । शोभना + सि + भार्या + सि | बहुव्रीहि समास, विभक्तिलोप, शोभना' शब्द का प्रकृत सूत्र से पुंवद्भाव, परवर्ती भार्या-शब्दस्थ आकार को ह्रस्व, लिङ्गसंज्ञा, सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/३/६३) से सकार को विसगदिश।
२. दीर्घजङ्घः । दीर्घा जङ्घा यस्यासौ । दीर्घा + सि + जया + सि । बहुव्रीहि समासादि दीर्घा' को पुंवद्भाव, 'जङ्घा' शब्द को ह्रस्वादेश तथा विभक्तिकार्य ।।३५५ ।
३५६. संज्ञापूरणीकोपधास्तु न [२/५/१९] [सूत्रार्थ]
संज्ञाशब्द, पूरणप्रत्ययान्त शब्द तथा ककारोपधावाले शब्दों का पुंवद्भाव नहीं होता है ।।३५६।
[दु० वृ०]
इह पुंवन्मात्रं वर्तते । संज्ञापूरणीकोपधास्तु पुंवद्पा न भवन्ति । दत्ताभार्यः, गुप्ताभार्यः, पञ्चमीभार्यः, पञ्चमीयते, पञ्चमीमानिनी । पाचिकाभार्यः, मद्रिकाभार्यः । कथं पाकभार्यः, भेकभार्यः, शुष्कभार्यः ? इति, अभिधानात् । वृद्धिनिमित्तस्यारक्तविकारस्य न च तद्धितस्यापीदन्तस्य स्वाङ्गस्य, न त्वमानिनि, तथा जातेः ।।३५६ ।
[दु० टी०]
संज्ञा० । इह पुंवन्मात्रं वर्तते इति किमुक्तं भवति । कृदाख्यातयोरपि पुंवद्भावस्य प्रतिषेधः, न पुनः प्रस्तुतस्यैवेत्यर्थः । कथमेतत् पृथग्वचनात्, अन्यथा असंज्ञापूरणीकोपधं पुंवदित्यादि सूत्रं विदध्यात् । तसादिष्वेषां यथासंभवं स्त्रीत्वविवक्षैव दृश्यते । दत्ता भार्या यस्य, गुप्ता भार्या यस्येति व्युत्पत्तिः । संज्ञायां दत्ता-गुप्ताशब्दौ दानगोपनक्रियाप्रवृत्तिनिमित्तभूतौ भाषितपुंस्काविति कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम् । तद्धितस्य वोश्च यः ककार इत्यर्थः । मद्रवृजिभ्यां को दृश्यते भवादावर्थे । वृद्धीत्यादि । वर्धनं वृद्धिरित्याकारोऽपि गृह्यते । वृद्धेनिमित्तं यस्मिन्नस्ति स वृद्धिनिमित्तस्तद्धितः । रक्तश्च
Page #428
--------------------------------------------------------------------------
________________
३८६
कातन्त्रव्याकरणम्
विकारश्च रक्तविकारार्थत्वाद् रक्तविकार उच्यते । न रक्तविकारोऽरक्तविकारः । तदन्तस्य वद्भावो न दृश्यते इति । नद्यां भवा नादेयी सा भार्या यस्य स नादेयीभार्यः, एवं सौनीभार्यः । बहुव्रीह्याश्रयणम् आगमिकावृद्धिनिवृत्त्यर्थम्, तेन वैयाकरणी भार्या यस्य स वैयाकरणभार्यः । रक्तविकारयोस्तु कषायेण रक्ता काषायी सा बृहतिका यस्य स काषायबृहतिकः पटः । लोहस्य विकारो लौही सा ईशा यस्य स लौहेशः । एवं सौनीयते, सौनीमानिनी । ईदन्तस्य स्वाङ्गस्य दीर्घकशीभार्यः, दीर्घकशीयते । मानिनि तु पुंवद्भाव एव । दीर्घकशमानिनी । तथा जातेरिति । कठीभार्यः, बढचीभार्यः, कठीयते, बढचीयते | अमानिनीत्येव-कठमानिनी, बढ्चमानिनी । तसादिष्वेषां यथासंभवं स्त्रीत्वविवक्षैव ।। ३५६ ।
[वि० प०]
संज्ञा० । इहेत्यादि । एतेन कृदाख्यातयोरपि पुंवद्भावस्य प्रतिषेधो न तु प्रस्तुतस्यैवेति दर्शयति- पञ्चमीयते इति । कथमेतद् यावता अनन्तरस्यैव प्रतिषेधः स्यात् ? सत्यम्, पृथग्वचनात् । अन्यथा ह्यसंज्ञापूरणीकोपधं पुंवद्भाषितेत्याद्येकयोगेऽपि कृते सिध्यतीति । दत्ता-गुप्ताशब्दौ संज्ञायामपि वर्तमानौ दानगोपनक्रियाप्रवृत्तिनिमित्ताविति भाषितपुंस्कता । पञ्चमीयत इति | पञ्चमीवाचरतीति "कर्तुरायिः सलोपश्च" (३/२/८) इत्यायौ कृते नामिव्यञ्जनान्ताद् इत्यनेन आयेरादिलोपे “भाषितपुंस्कं पुंवद्" (३/६/६१) इति पुंवद्भावः प्राप्तः प्रतिषिध्यते । पञ्चमीमानिनीति "मनः पुंवच्चार" (४/३/७९) इति णिनि पुंवद्भावे प्राप्ते प्रतिषिध्यते । वृद्धीत्यादि । वृद्धेर्निमित्तं वृद्धिनिमित्तम्, रक्तविकारार्थे विहितस्तद्धितो रक्तविकार उच्यते, उपचारात् । पश्चान्नसमासः । एवम्भूतस्य तद्धितान्तस्यापि पुंवद्भावो नैवेत्यर्थः । नद्यां भवा नादेयी । “स्त्रीभ्य एयण" इति तमादित्वाद् एयणप्रत्ययः । नादेयी भार्या यस्य स नादेयीभार्यः । तथा मुघ्ने भवेत्यण् । स्रौनी भार्या यस्यासौ सौघ्नीभार्यः । एवं सौनीयते, सौघ्नीमानिनी । वृद्धेनिमित्तं यस्मिन्निति बहुव्रीह्याश्रयणमागमिकावृद्धिनिवृत्त्यर्थमिति कश्चित् । तदयुक्तम् । एवमप्यणो वृद्धेर्निमित्तत्वस्य सम्भवात् । न खल्विह बहुव्रीहिणा कश्चिदुपार्जितोऽर्थविशेषो येनैवं स्यात् । तस्मादिह स्वरस्य इत्यध्याहारात् स्वरस्य स्थाने या वृद्धिस्तस्या निमित्तम् ।
Page #429
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३८७
इयं चागमिका वृद्धिरिति कुतोऽत्र प्रतिषेधप्राप्तिः । यथा वैयाकरणी भार्या यस्य स वैयाकरणभार्य इति पुंवद्भाव एव । तथा रक्तविकारयोरपि । कषायेण रक्ता काषायी, काषायी बृहतिका यस्य स काषायबृहतिकः । लोहस्य विकारो लौही, लौही ईशा यस्य स लौहेशः । ईदन्तस्य स्वाङ्गस्य न त्विति । तुशब्देऽप्यर्थे नापि ईदन्तस्य स्वाङ्गस्येत्यर्थः । दीर्घकेशीभार्य इति अमानिनीति वचनाद् मानिनि पुंवद्भाव एव दीर्घकेशमानिनी । तथा जातेरिति । कठीभार्यः । बह्वृचभार्यः । अमानिनीत्येव - कठमानिनी । बह्वृचमानिनी || ३५६ । [क० च०]
"
1
संज्ञा० । क एवोपधा यस्य स्त्रीप्रत्ययस्येति विग्रहः । पञ्चमीभार्यः । ननु पञ्चमीशब्दस्य स्त्रीकारान्तस्य भाषितपुंस्कत्वाभावादेव पुंवत्त्वं न भविष्यति किं पूरणीप्रतिषेधेनेति ? उच्यत-अत एव निषेधादवयवस्य भाषितपुंस्कत्वात् समुदायस्य भाषितपुंस्कताऽस्त्येवेत्यनुमीयते । तेन कल्याणी इत्यत्र न द्व्यङ्गवैकल्यमित्युक्तम् । मद्रिकाभार्य इति । वृजिमद्राभ्यां भवाद्यर्थे को दृश्यते इति टीका । अत्र कथं पुंवद्भावः कोपधत्वादित्याह-कथमिति ।पाकाभ्यां तद्धितः को विधीयते, रजकादित्वात् । भेक इत्यौणादिकः । पाकी भार्या यस्य, भेकी भार्या यस्येति विग्रहः । तथा जातेरिति । आकृतिग्रहणा जातिरिह गृह्यते । ईदन्तस्येत्यनुवर्तते, तेन न शूद्रा भार्या यस्य 'अशूद्रभार्यः' इति पुंवत् स्यादेव | 'शूद्रान्महतः' इति नियमाज्जातिमात्रे ईर्न स्यात् । पञ्ज्यां वैयाकरणभार्य इति पुंवद्भाव एवेति । अथैवं टीकया सह विरोधः । वृद्धेर्निमित्तं यस्मिन्निति टीकाकृतोक्तत्वात् ? सत्यम् | टीकाकृता तु मतान्तरम् अनेन दर्शितम् || ३५६ |
[समीक्षा]
‘दत्ताभार्यः, गुप्ताभार्यः' आदि संज्ञाओं में, 'दशमीभार्यः, पञ्चमीपाशा' आदि पूरणप्रत्ययान्त शब्दों में तथा पाचिकाभार्यः, कारिकाभार्यः आदि कोपध शब्दों में पुंवद्भाव का निषेध दोनों ही व्याकरणों में किया गया हैं । पाणिनि ने एतदर्थ दो सूत्र बनाए हैं - " न कोपधायाः, संज्ञापूरण्योश्च" (अ० ६/३/३७,३८) ।
[रूपसिद्धि]
9.
दत्ताभार्यः । दत्ता भार्या यस्य सः । दत्ता + सि + भार्या + सि । दानक्रियाप्रवृत्तिनिमित्तभूत होने से दत्ताशब्द संज्ञाशब्द तथा भाषितपुंस्क है, अतः उक्त सूत्र
Page #430
--------------------------------------------------------------------------
________________
३८८
कातन्त्रव्याकरणम् से प्राप्त पुंवद्भाव का प्रकृत सूत्र से निषेध, परवर्ती पद के अन्तिम आकार को ह्रस्व तथा विभक्तिकार्य।
२. गुप्ताभार्यः । गुप्ता भार्या यस्य सः। गुप्ता + सि + भार्या + सि | बहुव्रीहिसमास, विभक्तिलोप, गोपनक्रियाप्रवृत्तिनिमित्तभूत होने से उक्त सूत्र द्वारा प्राप्त पुंवद्भाव का प्रकृत सूत्र से निषेध, उत्तरपदवर्ती आकार को ह्रस्व तथा विभक्तिकार्य ।
३. पञ्चमीभार्यः। पञ्चमी भार्या यस्य सः । पञ्चमी + सि + भार्या + सि | समास, विभक्तिलोप, पूरणप्रत्ययान्त होने से ‘पञ्चमी' शब्द के पुंवद्भाव का प्रकृत सूत्र से निषेध, आकार को ह्रस्व तथा विभक्तिकार्य ।
४. पञ्चमीयते ।पञ्चमीवाचरति । “कर्तुरायिः सलोपश्च" (३/२/८) से आयिप्रत्यय, "नामिव्यानान्ताद्" (३/६/४२) से आयि के आदि आ का लोप, वर्तमानकाल में ते - प्रत्यय तथा "भाषितपुंस्कं पुंवत्०" (३/६/६०) से प्राप्त पुंवद्भाव का प्रकृत सूत्र से प्रतिषेध।
५. पञ्चमीमानिनी। पञ्चमी मानिनी यस्याः सा । पञ्चमी + सि + मानिनी + सि । समास, विभक्तिलोप, लिङ्गसंज्ञा, सि - प्रत्यय,पूरणप्रत्ययान्त पञ्चमीशब्द को उक्त सूत्र से प्राप्त पुंवद्भाव का प्रकृत सूत्र से निषेध तथा विभक्तिकार्य ।
६. पाचिकाभार्यः। पाचिका भार्या यस्य सः । पाचिका + सि + भार्या + सि | बहुव्रीहि समास, विभक्तिलोप, उक्त सूत्र से प्राप्त पुंवद्भाव का प्रकृत सूत्र से निषेध पाचिका के ककारोपध होने के कारण लिङ्गसंज्ञा, सिप्रत्यय, आकार का ह्रस्व तथा विभक्तिकार्य ।
७. मद्रिकाभार्यः। मद्रिका भार्या यस्य सः । मद्रिका + सिं + भार्या + सि | समासादि कार्य तथा ककारोपध होने से मद्रिका शब्द के पुंवद्भाव का निषेध ||३५६।
३५७. कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते [२/५/२०] [सूत्रार्थ]
कर्मधारय समास में तुल्याधिकरण पद के परे रहने पर ऊङन्तवर्जित भाषितपुंस्क शब्द का पुंवद्भाव होता है ।।३५७।
Page #431
--------------------------------------------------------------------------
________________
नामचतुष्टयान्याये पसमः समासपादः
३८९
[दु० वृ०]
भाषितपुंस्कानूप्रतिषेधबाधकोऽयम् । कठी च सा भार्या चेति कठभार्या । एवं दत्तभार्या, पञ्चमभार्या, पाचकभार्या, भाषितपुंस्क इति किम् ? खट्वावृन्दारिका, अनूङिति किम् ? ब्रह्मबन्धूदारिका ।।३५७।
[दु० टी०]
कर्म० । कर्मधारयः संज्ञा यस्येति विग्रहः। प्रतिषेधबाधकोऽयमिति । येन केनचित् प्रतिषेधःप्राप्तः सोऽनेन बाध्यते इति ।तथा च उपलक्षणमात्रं कठभार्येत्युदाहृतम् । जातीयदेशीययोश्च स्त्रीत्वस्याविवक्षैव । दत्तजातीया, दत्तदेशीया । पञ्चमजातीया, पञ्चमदेशीया । कारकजातीया, कारदेशीया । दीर्घमुखजातीया, दीर्घमुखदेशीया इत्येवमादयः ।।३५७।
[वि०प०]
कर्म० | कर्मधारयः संज्ञा यस्येति विग्रहः । अथ किमर्थमिदम्, तुल्याधिकरणत्वात् पुंवद्भाषितेत्यादिनैव सिध्यतीत्याह-भाषितेत्यादि । कठभार्येति । तथा जातेरिति प्रतिषेधः प्राप्तः ।।३५६।
[क० च०]
कर्म० । 'कर्मधारयसंज्ञे' इति विषयसप्तमीयम्, न पुनरौपश्लेषिकाधारः, संज्ञाग्रहणात् । अन्यथा कर्मधारये त्विति कुर्यात् । अत्रैवापूरण्यादिषु कर्मधारये चेत्यकरणाद् वा । नत्र न वर्तते मुंवद्भावग्रहणात् । निषेधानुवृत्तौ पुंवद्भावस्य लाभाभावात् पुनर्वैयर्थ्यांपत्तेः । प्रतिषेधबाधकोऽयमिति । अत एव येन केनचित् प्रतिषेधः प्राप्तः, सोऽनेन बाध्यते । तथा चोपलक्षणमात्रमुदाहृतम् - 'कठभार्यः' इत्यादिकमिति टीकाकृतोक्तम् । एतेन पूरण्यादिष्वपि पुंवद्भावः 'वारुणत्रयोदशी' इत्यादौ । न चानन्तरत्वात् “संज्ञापूरणीकोपधास्तु न" (२/५/१९) इत्यस्यैव वाधक इति वाच्यम्, संज्ञापूरणीकोपधानां कर्मधारय इत्यकरणात् । यद्येवम् ऊङन्तस्यापि स्यात् । उच्यते , पूर्वत्र "ऊसंज्ञापूरणीकोपधास्तु न" इति सिद्धे पृथक्करणाद् ऊङो न स्यात् । तस्माद् भाषितपुंस्कानूङ् प्रतिषेधबाधकोऽयम् इत्यस्यायमाशयः। भाषितपुंस्कोऽपूण्यादिषु इत्यस्य संज्ञापूरणीकोपधास्तु नेत्यस्य च बाधकोऽयम् । अत एव अनूङ् इति किम् ? ब्रह्मबन्धूदारिकेति
Page #432
--------------------------------------------------------------------------
________________
३९०
कातन्त्रव्याकरणम्
वृत्तिकृता प्रत्युदाहृतमिति भावः । 'सर्वाबाधाप्रशमनम्' (दु० स० श० ११ / ३९) इत्यत्र वत्करणस्य स्वाश्रयार्थत्वात् पुंवन्न स्यात् || ३५७ |
[समीक्षा]
संज्ञाशब्द, पूरणप्रत्ययान्त शब्द तथा कोपध शब्दों में उक्त सूत्र से पुंवद्भाव का निषेध निर्दिष्ट होने से 'दत्तभार्या, पञ्चमभार्या, पाचकभार्या' आदि में पुंवद्भाव नहीं हो सकता था, कर्मधारयसमास में उसके विधानार्थ दोनों व्याकरणों में पृथक् सूत्र बनाए गए हैं । पाणिनि का सूत्र है " पुंवत् कर्मधारयजातीयदेशीयेषु " ( अ० ६/३/४२) । [रूपसिद्धि]
१. कठभार्या । कठी च सा भार्या च । कठी + सि + भार्या + सि । कर्मधारयसमास, विभक्तिलोप, प्रकृत सूत्र द्वारा 'कठी' शब्द को पुंवद्भाव तथा विभक्तिकार्य । २. दत्तभार्या । दत्ता च सा भार्या च । दत्ता + सि + भार्या + सि । कर्मधारयसमासादि तथा प्रकृत सूत्र से 'दत्ता' शब्द को पुंवद्भाव |
३. पञ्चमभार्या । पञ्चमी च सा भार्या च । पञ्चमी + सि + भार्या + सि । कर्मधारय समास आदि, उक्त सूत्र से पूरणप्रत्ययान्त पञ्चमीशब्द में प्राप्त पुंवद्भाव का निषेध एवं प्रकृत सूत्र से उसका विधान ।
४. पाचकभार्या । पाचिका च सा भार्या च । पाचिका + सि + भार्या + सि ! कर्मधारय समास आदि, ककारोपध 'पाचिका' शब्द में उक्त सूत्र से पुंवद्भाव का निषेध प्राप्त एवं से उसका विधान || ३५७ |
३५८. आकारो महतः कार्यस्तुल्याधिकरणे पदे [ २/५/२१] [सूत्रार्थ]
तुल्याधिकरण पद के परे रहते 'महन्त्' शब्द के अन्त्यावयव 'तू' के स्थान में आकारादेश होता है || ३५८ |
[दु० वृ०]
महादेवः, महावक्त्रः । अन्तरङ्गत्वान्नलोपे सत्याकारच्च्यन्तस्य न भवति - महद्भूतश्चन्द्रमाः। योगविभागाद् महत्या घास : महाघासः, एवं महाकरः, महाविशिष्टः || ३५८ ।
Page #433
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
[दु० टी०]
आकारो० | तुल्याधिकरणग्रहणं कर्मधारयनिवृत्त्यर्थम् । महांश्चासौ देवश्चेति, महद् वक्त्रमस्येति विग्रहः । च्व्यन्तस्येत्यादि । अमहान् महान् सम्पन्नो महद्भूतश्चन्द्रमाः इति । अमहान् महतः प्रकृतिभूतोऽतीतः अमहान् महत्येवेति भिन्नार्थत्वादेव च्छ्यन्तसमासोऽत्र नित्योऽसौ प्रकृतेः कर्तृत्वम् अर्थान्महत्त्वेनेति । कथं पुंवद्भावः - अमहती महती सप्पन्ना महद्भूता स्त्री । महान् हि नित्यम् अमहति वृत्तः समुद्भूतवाची । भूतशब्दोऽत्र शयितवदनतीतत्वादेकार्थे वार्यते, तेन विकारस्यात्र कर्तृत्वम् अर्थान्महतीति गम्यतेऽभेदेऽत्र चिः । उक्तं च
-
३९१
-
अवस्थापजहत्पूर्वी संस्पृशन् धर्ममुत्तरम् । संमूर्च्छित इवार्थात्मा जायमानोऽभिधीयते ॥
भेदविवक्षायां च अगोमती गोमती सम्पन्ना गोमतीभूतेति । गौणमुख्यार्थबाचित्वाच्छब्दो वा स तथोच्यते ।
स तत्र नाश्रितो यस्मात् पुंवद्भावः प्रवर्तते ॥
अन्य आह - महत्त्वं महत्त्वेन वा प्राप्तो महद्भूतः खलु प्राप्तावपि हि भूधातुः क्रियाविशेषणं वेति । जातीये च वक्तव्यम् - महाजातीयः । घासकरविशिष्टेषु पुंवच्चेत्येके । भिन्नाधिकरणार्थं चकारोऽयमन्वाचयशिष्टः । तेन महतो घासः महाघासस्तन्न वक्तव्यमित्याह-योगविभागादिति । समासशब्दस्य नित्यत्वाद् वा उदाहरणैरपि प्रपञ्चः साधित एव । यथा विद्यायोनिसम्बन्धिनि ऋकारान्ते द्वन्द्वे विद्यायोनिसम्बन्धिन ऋकारान्तस्य द्वन्द्वे आकाशे दृश्यते । होतापोतारौ, प्रशास्ताप्रतिपत्तारौ । योनिसंबन्धिनश्च - मातापितरौ, याताननान्दरौ। पुत्रे च पितापुत्रः, मातापुत्रौ ।
1
वेदे सहश्रुतानां देवतानां वादुवर्जितानां द्वन्द्वे उत्तरपदे आकारो भवति । सूर्याचन्द्रमसौ, मित्रावरुणौ । देवतानामित्येव - यूपऩमसौ । अवाधूनामित्येव - अग्निवायू, वाय्वग्नी । वेद इत्येव - शशिवैश्रवणां, स्कन्दविशाखौ । सहेत्येव - विष्णुशक्रौ । श्रुतानामित्येव चन्द्रसूर्यौ, दिवाकरनिशाकरी । अग्नेरावृद्ध्यादावुत्तरपदेऽ विष्णावाकारो न भवति - अग्निमारुतम्, अग्निशौरि । आद् वृद्ध्यादावित्येव - अग्नामरुतौ, अग्ना
Page #434
--------------------------------------------------------------------------
________________
३९२
कातन्त्रव्याकरणम्
विष्णू | अविष्णावित्येव-अग्नावैष्णवम् । सोमवरुणयोरुत्तरपदयोरग्नेरीकारो भवति - अग्नीषोमौ । तत्रापिग्रहणात् षत्वम् । अग्नीवरुणौ । अनाद् वृद्ध्यादावित्येव-अग्नीवारुणीम् अनड्वाहीमालभेतेति । दिवो द्यावा । द्यौश्च क्षमा च द्यावाक्षमे द्यावाभूमी । दिवस् पृथिव्यां वा-दिवस्पृथिव्यौ, द्यावापृथिव्यौ । उषस् उषसा भवति । उषश्च नक्तं च उषसानक्तम् ||३५८। [वि० प० ]
आकारो० | महांश्चासौ देवश्चेति, महद् वक्त्रम् अस्येति विग्रहः । तुल्याधिकरणग्रहणं कर्मधारयनिवृत्त्यर्थम् । तेन बहुव्रीहावपि भवति । अन्तरङ्गत्वाद् इत्यादि । नलोपः पुनर्व्यञ्जनान्तस्य यत्सुभोरिति वचनात् । यदि पुनर्नित्यत्वाद् आकारः प्राग् भवेत् तदा व्यञ्जनान्तत्वाभावान्नलोपस्याभावः । च्व्यन्तस्येत्यादि । अत्र यद्यपि अमहान् महान् भूत इति शाब्दं सामानाधिकरण्यम्, तथापि भूतशब्दस्यातीतवचनत्वादमहान् महान् भूतः अतीतः, स चार्थात् महत्येवेति महति भूत इति गम्यते, वैयधिकरण्यात् कुतः प्रसङ्गः । अथवा महान् महतः प्रकृतिरिति प्रकृतेरेवात्र प्राधान्यं तन्मूलत्वाच्च विकृतेरप्राधान्यमिति गौणत्वादेव न भवति । घासकरविशिष्टेषु पुंवच्चेति वैयधिकरण्यार्थं यथासंभवं पुंवद्भावार्थं च कश्चिद् आह तदिह कथमित्याह - योगविभागादिति । एवं महतो घासो महाघासः इत्यादयोऽपीति । ननु योगविभागादाकारो नाम भवतु । पुंवद्भावस्तु कथमिति चेत् ? सत्यम् ! तत्रापि योगविभागो वक्तव्य एवेत्यदोषः || ३५८ । [क० च०]
आकारो० । कार्यग्रहणादर्थपरस्यैव महत आकारस्तेन 'महच्छब्द:' इत्यत्र न भवति । तुल्याधिकरण इत्युक्तं पद इति लब्धे पदग्रहणं समासान्तपदलाभार्थम् । अतो महतो घटस्य रूपं यत्रेति 'महद्घटरूप:' इत्यादौ न भवति जातीयप्रत्यये च वक्तव्यम्महाजातीयः। विद्यायोनिसंबन्धिनि ऋकारान्ते द्वन्द्वे आकारो दृश्यते । होतापोतारी, प्रशास्ताप्रतिपत्तारौ । योनिसंबन्धिनः- मातापितरौ, याताननान्दरौ । पुत्रे च - मातापुत्रौ, पितापुत्रौ । वेदे - सहश्रुतानां वायुवर्जितानां द्वन्द्वे उत्तरपदे आकारो भवति । सूर्याचन्द्रमसौ, मित्रावरुणौ । देवतानामित्येव - यूपचमसौ । अवायूनामित्येव । अग्निवायू, वाय्वग्नी |
Page #435
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पचमः समासपादः
३९३ वेद इत्येव-शशिवैश्रवणौ । स्कन्दविशाखौ । सहेत्येव-विष्णुशक्रौ । श्रुतानामित्येव - चन्द्रसूर्यौ । अग्नेरावृद्ध्यादावुत्तरपदेऽविष्णावाकारो न भवति । वेदे सहश्रुतेत्यादिना प्राप्ते प्रतिषेधोऽयम् । अग्निमारुतौ, अग्निशौरी |आद् वृद्ध्यादावित्येव-अग्नामरुतौ, अग्नाविष्णू । अविष्णावित्येव - अग्नावैष्णवम् । सोमवरुणयोरुत्तरपदयोरग्नेरीकारो भवति - अग्नीषोमौ । तत्रापिग्रहणात् षत्वम् । अग्नीवरुणौ । आद् वृद्ध्यादावित्येव-अग्नावारुणीमनड्वाहीमालभेत । दिवो द्यावा - द्यौश्च क्षमा च द्यावाक्षमे । द्यावाभूमी | दिवस्पृथिव्यां वा-दिवस्पृथिव्यौ, द्यावापृथिव्यौ । उषस उषसा भवतिउषश्च नक्तं च उषसानक्तमिति टीका | अथ स एव महान् स एव सम्पन्न इति कुतो वैयधिकरण्यमित्याह-अथवेति पञ्याम् ।।३५८ ।
[समीक्षा]
'महादेवः, महावक्त्रः' इत्यादि शब्दरूपों में 'महत्' शब्द के अन्त्यावयव तकार को आकारादेश दोनों ही व्याकरणों में किया गया है | पाणिनि का सूत्र है - "आन्महतः समानाधिकरणजातीययोः" (अ० ६/३/४६)। कातन्त्रव्याकरण में 'महन्त्' को प्रातिपदिक (लिङ्ग) माना गया है, अतः "व्यञ्जनान्तस्य यत्सुभोः" (२/५/४) से नलोप होने के बाद आकारादेश प्रवृत्त होता है।
[रूपसिद्धि]
१. महादेवः। महांश्चासौ देवश्च । महन्त् + सि + देव + सि । कर्मधारयसमास, विभक्तिलोप, अन्तरङ्ग होने से “व्यञ्जनान्तस्य यत् सुभोः” (२/५/४) से नकार का लोप,तकार को प्रकृत सूत्र से आकार, ‘महादेव' शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. महावक्वः। महद् वक्त्रमस्य । महन्त् + सि + वक्त्र + सि | बहुव्रीहिसमास, विभक्तिलोप, नलोप, तकार को आकार, लिङ्गसंज्ञा एवं विभक्तिकार्य ।
३-४. महापासः । महतो महत्या वा घासः । महन्तु, महती + ङस् + घास + सि | महाकरः। महांश्चासौ करश्च । महन्त् + सि + कर + सि । महाविशिष्टः। महद् विशिष्टमस्य । महन्त् + सि + विशिष्ट + सि । पूर्ववत् सर्वत्र समासादि तथा तकार को आकारादेश ।। ३५८।
३५९. नस्य तत्पुरुषे लोप्यः [२/५/२२] [सूत्रार्थ]
नञ् से प्रारम्भ किए जाने वाले तत्पुरुष समास में नञ् - घटित नकार का लोप होता है ||३५९।
Page #436
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[दु० वृ०]
नस्य संबन्धिनि तत्पुरुषे नस्य संबन्धी नकारो लोप्यो भवति । द्विनकारो वा पाठः । न सवर्णः असवर्णः । न विद्यते घोषो ध्वनिर्येषां ते अघोषाः। ब्राह्मणस्याभावःअब्राह्मणम् । तत्पुरुष इहोपलक्षणम् ।। ३५९ ।
[दु० टी०]
नस्य० । तत्र यदि तत्पुरुषे यो नकारस्तस्य लोप इत्युच्यते । मदनस्य पुत्रो मदनपुत्रः इत्यत्रापि प्रसज्येत । अथ 'अर्थवद्ग्रहणे नानर्थकस्य' (का० परि० ४) इति । एवमपि 'प्रश्नपुत्रो विश्नपुत्रः' इत्यत्रापि स्यात् । निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४५) इत्यभ्युपगम्यते । तदा ‘पामनपुत्रो वामनपुत्रः' इत्यत्रापि प्रसङ्गः । पामा विद्यतेऽस्य, वामा विद्यतेऽस्य । पामादेरस्त्यर्थे न प्रत्ययो दृश्यते । अथैवम् अर्थे शब्द एव प्रवर्तते, अस्य तद्धितस्याभिधानादिति मतम् । किञ्च पद इति सप्तम्यन्तमपि विशेषणविशेष्ययोरिष्टत्वातन्नस्य पदस्येति भविष्यति । पदे परत इत्युक्तेऽपि साहचर्यात् पदमेव गम्यते वा ? सत्यम् । प्रतिपत्तिगौरवं स्यादित्याह - नस्येत्यादि । यो नत्रा आरभ्यते स नस्य तत्पुरुषः । लुप्यत इति लोपः प्रथमान्तं पदमिह नास्तीति श्रुतत्वान्नस्यैवा-वयवो लोप्य इति गम्यते । तत्र चासवर्णे अघोषा इत्यादिनिर्देशात् नकार एव प्रतिपत्तव्यो न त्वकारः । द्विनकारो वा पाठ इति । द्वौ नकारौ यस्मिन्निति विग्रहः । तदा चोद्यमेव नास्ति । ___ न च वक्तव्यम् – ज्ञापकादेव नलोपः सिध्यतीति ‘सविकल्पान्यपि ज्ञापकानि भवन्ति' । असवर्ण इत्यादिना समासत्रयेणापि दर्शयति, तुल्याधिकरणानुवर्तनेन सिध्यतीति । यद्येवं तत्पुरुषग्रहणेनापि किमित्याह - तत्पुरुष इहोपलक्षणम् इति । समासमात्रे भवतीत्यर्थः । तत्पुरुषग्रहणं तु उत्तरार्थमेव । अवक्षेपेत्यादौ नस्य लोपो वक्तव्यः । अपचसि त्वं जाल्म | त्वम् अकरोषि जाल्म । तन्न वक्तव्यम् ! अमानोनाः प्रतिषेधवचना इति अकारः प्रतिषेधवाच्यम् । नञोऽप्यवक्षेपेत्यादौ प्रयोगो नाभिधीयते ।।३५९।
[वि० प०]
नस्य० । नस्येति सम्बन्धे षष्ठीत्याह - नस्य संबन्धिनि तत्पुरुष इति । यो नत्रारभ्यते स नस्य संबन्धी तत्पुरुषो भवति । तेन ‘मदनपुत्रः' इत्यादिषु लोपो न भवति । अथ अनर्थकत्वादेवात्र न भविष्यति तत् किमेवमुच्यते इति चेत्, तर्हि 'प्रश्नपुत्रः'
Page #437
--------------------------------------------------------------------------
________________
नामचतुष्टयायाये पनमः समासपादः
३९५ इत्यादिषु, स्यात् । अथ 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४५) इति नङ्प्रत्ययस्य न भवति । यद्येवं ‘पामनपुत्रः, गोमनपुत्रः' इत्यादिषु स्यात् । पामादिभ्योऽस्त्यर्थे नप्रत्ययस्तद्धितो दृश्यते । तदयुक्तम्-न खलु शर्ववर्मकृतसूत्रमेतदर्थे वर्तते । किन्त्वेवमर्थे पामनादिशब्द एव वर्तते इति कुतः प्रसङ्गः । अथवा पद इति वर्तते, ततश्च पदे परतः इत्युक्ते तत्साहचर्यात् नस्य पदस्यैवेति कथं पदावयवस्य भवतीति ? सत्यम् । एवं तर्हि प्रतिपत्तिगौरवनिरासार्थमेव नस्य संबन्धिनीत्युक्तम् । लुप्यत इति लोप्य: पवर्गान्तत्वात् कर्मणि यप्रत्ययः । न चान्य इह कर्मभूतः प्रथमान्तोऽस्तीति । श्रुतत्वात् तस्यैवावयवो लोप्यः, स च नकार एवासवर्ण इत्यादिनिर्देशात् । न पुनरकार इत्याह - नस्य सम्बन्धी नकार इति । नस्येति नञ इति यावत् । द्विनकारो वा पाठ इति द्वौ नकारौ यस्मिन्निति विग्रहः । अत्र पक्षे देश्यमेव नास्तीति लोपनीयस्य नकारस्य प्रथमान्तस्य प्रथमत एव निर्दिष्टत्वादिति भावः ।।३५९।
[क० ०]
नस्य० । नस्य संबन्धी नकार इति । एतेनाकारविनिर्मुक्तस्य व्यञ्जननकारमात्रस्य लोप इत्यायातम्, असवर्ण इति ज्ञापकादित्यर्थः । 'ज्ञापकानि सविकल्पानि भवन्ति' इति न्यायादकारवतोऽपि क्वचिल्लोपः कथन्न स्यात् सूत्रेऽकारयुक्तस्य श्रवणा-दित्याहद्विनकारो वेति । अथ न विद्यते घोषो ध्वनिर्येषामिति वाक्ये बहुव्रीहौ कथं स्याद् इत्याहत-त्पुरुष इहोपलक्षणमिति । अघोषा इत्यादिज्ञापकात् समासमात्रे स्यादिति शेषः । तत्पुरुषग्रहणन्तूत्तरार्थमेव | आक्षेपेत्यादौ नस्य लोपो वक्तव्यः । अपचसि त्वं जाल्म, अकरोषि त्वं जाल्मेति, तन्न वक्तव्यम् अमानोना प्रतिषेधवचना इति अकारप्रतिषेधे चाव्ययः । नञोऽप्याक्षेपेत्यादौ प्रयोगा नाभिधीयन्त इति टीका । मतान्तरमाहअथवेति पनी ।। ३५९।
[समीक्षा]
'असवर्णः, अघोषः, अब्राह्मणः' आदि शब्दों के सिद्ध्यर्थ नघटित नकार का लोप दोनों व्याकरणों में किया गया है | पाणिनि का सूत्र है - "नलोपो नत्रः" (अ० ६/३/७३)।
Page #438
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. असवर्णः। न सवर्णः । न + संवर्ण + सि । प्रकृत सूत्र से नघटित नकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से सकार को विसगदिश ।
२. अघोषाः । न विद्यते घोषो ध्वनिर्येषां ते । न + घोष + जस् । बहुव्रीहि समास, विभक्तिलोप, नघटित नकार का प्रकृत सूत्र द्वारा लोप, लिङ्गसंज्ञा, प्रथमाबहुवचन में जस्प्रत्यय, समानलक्षणदीर्घ, परवर्ती अकार का लोप एवं सकार को विसगदिश |
३. अब्राह्मणः । ब्राह्मणस्याभावः । नञ् + ब्राह्मण + सि | नघटित नकार का प्रकृत स्त्रद्वारा लोप, लिङ्गसंज्ञा, प्रथमा-एकवचन सिप्रत्यय तथा सकार को विसगदिश ||३५९।
३६०. स्वरेऽक्षरविपर्ययः [२/५/२३] [सूत्रार्थ]
नञ्तत्पुरुषसमास में स्वर वर्ण के परवर्ती होने पर 'न' तथा 'अ' अक्षर का विपर्यय होता है ।।३६०।
[दु० वृ०]
नस्य सम्बन्धिनि तत्पुरुषे स्वरेऽक्षरविपर्ययो भवति । अनजः, अनजम्, अनजकः ।।३६०।
[दु० टी०]
स्वरे० । अक्षरमिह वर्णो वा स्वरो वा । अनज इत्यादि । न अजः, अजस्याभावः, न विद्यतेऽजो यस्मिन्निति विग्रहः ।अनस्वर इति न कृतम्, विपर्ययग्रहणसामर्शद् "णना हस्वोपधाः स्वरे द्विः" (१/४/७) इत्यपि बाध्यते । तत्रोपधाग्रहणमनित्यार्थं चेत्, तर्हि तस्यैव प्रपञ्चार्थम् । न भ्राजते नभ्राट् । “क्विन् प्राजि०" (४/४/५७) इत्यादिना क्विप् । नपात् । पातेः शन्तृङ्, नपुंसकत्वान्नलोपः न वेत्तीति नवेदाः, अस्प्रत्ययान्तः । असत्सु साधवोऽसत्याः, न असत्याः नासत्याः, सत्या एवेत्यर्थः । न मुञ्चतीति नमुचिः । मुचेरौणादिकः किः । नास्य कुलमस्तीति नकुलः । नास्य खमस्तीति नखः । न स्त्री न पुमान् इति नपुंसकम् । स्त्रीपुंसयोः पुंसकभावश्च | न क्षरति क्षीयते वा नक्षत्रमिति निपातनम् ।
Page #439
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३९७
न क्रामतीति नक्रः, क्रमेर्डः । नास्मिन्नकम् अस्तीति नाकः । कमिति सुखमुच्यते नकम्, अकं दुःखम् इत्यर्थः । " नभ्राडादिषु नञ् प्रकृत्या ” इति न वक्तव्यमेव |
रूढिशब्दा ह्येते यथाकथंचिद् व्युत्पाद्याः लोकोपचारादेव सिद्धाः । तथा न गच्छन्तीति अगाः पर्वताः, नगाः पर्वताः । नगा वृक्षाः, अगा वृक्षाः । न गम्यप्राणिनि वा । प्राणिनि तु अगो वृषलः शीतेन । “अन्यतोऽपि च " (४/३/४९) इति गमेर्ड: । तथा एकादिभ्यश्च नञ् प्रकृत्या एकस्य चान्त आत् । एकेन न विंशतिः एकान्नविंशतिः । एकेन न त्रिंशत् एकान्नत्रिंशत् नञ्समासे कृते पश्चादेकशब्देन योगः । ऊनार्थो नञ्, एकेनोना विंशतिरित्यर्थः । एकाद् न विंशतिरिति " पञ्चमे पञ्चमांस्तृतीयान्नवा" ( १/४/२) इति || ३६० । [वि० प० ]
स्वरे० | अनज इत्यादि । न अजः अजानामभावः । न विद्यतेऽजो यस्मिन्निति च विग्रहः || ३६० |
[क० च०]
स्वरे० । अक्षरमिह वर्णः स्वरो वा पौर्वापर्यव्यवहारः क्रमः, तद्विपरीतो विपर्ययः । तत्पुरुषाव्ययीभावबहुव्रीहीणां क्रमेणोदाहरणम् - अनज इत्यादि । अथ न भ्राजते इति नभ्राट् । “ क्विब् भ्राजि०" (४/४/५०) इत्यादिना क्विप् । न पततीति नपात् । पातेः शन्तृङ्, नपुंसकत्वान्नकारलोपः । न वेत्तीति नवेदाः । असत्सु साधवः असत्याः, न असत्याः नासत्याः । न मुञ्चतीति नमुचिः, औणादिकः किः । नास्य कुलमस्तीति नकुलः । नास्य खमस्तीति नखः । न स्त्री न पुमानिति नपुंसकम् । स्त्रीपुंसयोः पुंसकभावः । न क्षरति न क्षीयते वा नक्षत्रम्, निपातनम् । न क्रामतीति नक्रः, क्रमेर्डः । नास्मिन्नकमस्तीति नाकः । कं सुखम्, अकं दुःखमुच्यते । न गच्छतीति नगः पर्वतः इत्यादौ "नस्य तत्पुरुषे लोप्यः” (२/५/२२) कथन्न स्यात् ? सत्यम्, न भ्राजादिषु " नञ् प्रकृत्या ” इति न वक्तव्यम् | किं तर्हि रूढिशब्दा होते यथाकथंचिद् व्युत्पत्त्या लोकत एव वेदितव्याः । तथा एकादिभ्यः प्रकृत्या नत्र एकस्य चान्त आत् । एकेन न विंशतिः एकान्नविंशतिः । एकेन न त्रिंशत् एकान्नत्रिंशत् । नञ्समासे कृते पश्चादेकेन योगः । ऊनार्थो नञ् एकोनविंशतिरित्यर्थः । एकाद्नविंशतिरिति “पञ्चमे पञ्चमांस्तृतीयान्नवा” (१/४/२) इति टीका || ३६० |
1
Page #440
--------------------------------------------------------------------------
________________
३९८
कातन्त्रव्याकरणम्
[समीक्षा]
'न अजः इति अनजः, न अश्वः इति अनश्वः' आदि शब्दों की सिद्धि के लिए पाणिनीय व्याकरण में पहले नघटित नकार का लोप करके नुडागम किया जाता है - "नलोपो नत्रः, तस्मान्नुडचि" (अ० ६/३/७३,७४) । कातन्त्रकार ने ऐसी स्थिति में न और उससे परवर्ती स्वर वर्ण का परस्पर विपर्यय करके रूपसिद्धि की है । इससे स्पष्ट है कि कातन्त्रीय प्रक्रिया में पर्याप्त सरलता सन्निहित है । यहाँ पाणिनीय निर्देश उपहासास्पद भी कहा जा सकता है जो उन्होंने एक नकार का लोप करके दूसरे नकार को स्थापित करने के लिए नुडागम किया है।
[रूपसिद्धि]
१. अनजः। न अजः । नञ् + अज + सि । नञ्तत्पुरुष समास, विभक्तिलोप, प्रकृत सूत्र द्वारा ‘न-अ' का विपर्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से सकार को विसगदिश ।
२. अनजम् । अजस्याभावः । नञ् + अज + सि | अव्ययीभाव समासादि, 'नअ' का विपर्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा नपुंसकलिङ्ग में सिलोप-मु आगम ।
३. अनजकः । न विद्यतेऽजो यस्मिन् । नञ् + अज + सि । बहुव्रीहि समासादि, 'न-अ' को विपर्यय, समासान्त कप्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसगदिश ।।३६०।
३६१. कोः कत् [२/५/२४] [सूत्रार्थ] तत्पुरुष समास में 'कु' को 'कत्' आदेश होता है ||३६१ । [दु० वृ०]
कुशब्दस्य तत्पुरुषे स्वरे कद् भवति । कुत्सितोऽश्वः कदश्वः । एवं कदुष्ट्रः । तत्पुरुष इति किम् ? कूष्ट्रो देशः ।।३६१ ।
[दु० वृ०]
कोः कत्० । कुशब्दः पृथिवीवचनोऽप्यस्ति, तस्य न भवति । कौ उदयः कूदय इति । यस्मादुत्तरत्रेषदर्थे कुशब्दस्येति विशेषणमाह - अतोऽव्ययस्यैव ग्रहणं दृष्टकल्पना
Page #441
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
वशात् नञ्साहचर्याद् वेति । स्वर इति किमर्थम् ? कुग्रामः । रथवदयोश्चाभिधानात्कुत्सितो रथः कद्रथः कुत्सितो वदः कद्वदः । पचाद्यजन्तोऽयम् । तृणे जातौ । कुत्सितं तृणं कत्तृणम् । रूढित्वात् तृणविशेष एवोच्यते च कुत्सितास्त्रयः कत्त्रयः, कुत्रयः । 'कवत्रयः' इत्यपि दृश्यते ।। ३६१ ।
[क० च०]
कोः : कत् । कुशब्दस्य पृथिवीवाचकस्य न भवति, उत्तरत्रेषदर्थे कुशब्दस्य विशेषणाद् अव्ययस्यैव ग्रहणात् । दृष्टाधिकारवशेन नञ्साहचर्याद् वा । स्वर इति किम् ? कुग्रामः । रथवदयोश्चाभिधानात् कुत्सितो रथः कद्रथः । कुत्सितो वदः कद्वदः । पचाद्यजन्तः । तृणे च जातौ - कुत्सितं तृणं कत्तृणम्, तृणविशेष एवोच्यते । त्रिशब्दे च - कुत्सितास्त्रयः कत्त्रयः, कवत्रयः, कुत्रयः इत्यादि दृश्यते इति टीका | "नस्य तत्पुरुषे” (२/५/२२ ) इत्यत्र तत्पुरुषानुवृत्तिफलमाह - तत्पुरुष इति किमिति ।। ३६१ । [समीक्षा]
तत्पुरुष समास में कुत्सितार्थक 'कु' शब्द का 'कत्' आदेश दोनों ही व्याकरणों में किया गया है और इस प्रकार 'कदश्वः, कदुष्ट्र: ' शब्दरूप सिद्ध हुए हैं। पाणिनि ने एतदर्थ अनेक सूत्र बनाए हैं, परन्तु कातन्त्र के व्याख्याकारों ने 'कद्रथः, कत्तृणम्' आदि प्रयोगों की सिद्धि अभिधान के बल पर की है । पाणिनि के हैं- "को: कत् सूत्र तत्पुरुषेऽचि, रथवदयोश्च, तृणे च जातौ का पथ्यक्षयोः " (अ०६ / ३ / १०१ – १०४) ।
"
३९९
[रूपसिद्धि]
T
१ . कदश्वः । कुत्सितोऽश्वः । कु + अश्व + सि । तत्पुरुष समास, विभक्तिलोप, स्वर के पर में रहने पर प्रकृत सूत्र से कु को कत् आदेश, लिङ्गसंज्ञा, तथा स् को विसगदिश ।
सिप्रत्यय
२. कदुष्ट्रः । कुत्सित उष्ट्रः । कु + उष्ट्र + सि । तत्पुरुष समास, विभक्तिलोप, स्वर के परवर्ती होने पर प्रकृत सूत्र से कु को कत् आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य || ३६१ ।
Page #442
--------------------------------------------------------------------------
________________
४००
कातन्त्रव्याकरणम्
३६२. का त्वीषदर्थेऽक्षे [२/५/२५] [सूत्रार्थ]
तत्पुरुष समास में ईषदर्थक 'कु' शब्द को 'का' आदेश होता है, ‘अक्ष' शब्द के भी पर में रहने पर || ३६२ ।
[दु० वृ०]
कुशब्दस्य तत्पुरुषे ईषदर्थे वर्तमानस्य कादेशो भवति, अक्षशब्दे च परतः । ईषल्लवणम्-कालवणम्, काम्लम्, काक्षेण वीक्षते । ईषदर्थे स्वरे तु परत्वात् कादेश एव ।। ३६२ ।
[दु० टी०]
का त्वी० । तुशब्दोऽत्र पुनरर्थे , का पुनरीषदर्थे तत्पुरुषे भवतीत्येतावन्मात्रमेव । तेन व्यञ्जने स्वरे च ईषल्लवणं कालवणम्, ईषदम्लं काम्लम् । अधिकारस्येष्टत्वात् स्वर इह न वर्तते इति कश्चिदाह । अन्ये तुशब्दग्रहणं पादपूरणार्थम् । “ईषदर्थे, का त्वक्षे" इति कर्तव्ये यदीषदर्थ इति वचनं मध्ये तद् बोधयति - योगोऽत्र विभक्तव्य इति । तेन ईषदर्थस्य पूर्वेण सिद्धत्वात् कुत्सितार्थस्य कादेशः सिद्धो भवति । कुत्सितमक्षं काक्षम् तेन वीक्षते इत्यर्थः । अनिन्द्रियपर्यायेऽपि अक्षशब्दे भवितव्यम् अविशेषादिति मतम् । कुत्सितोऽक्षः काक्षो द्यूतादिः । बहुव्रीहावपि मतम् । कुत्सिते अक्षिणी यस्य स काक्षः । "सक्थ्यक्षिणी स्वाङ्गे" (२/६/४१-५०) इति राजादित्वादत् । नैतद् भाष्ये वार्तिक च चिन्तितमिति । ईषत् पन्थाः कापथः, कुत्सितः पन्थाः कुपध इति राजादित्वादत् । पथशब्दोऽकारान्तोऽपि संभवति । केचित् कुत्सितार्थस्य पन्धिशब्दे कादेशमिच्छन्ति - कुत्सितः पन्थाः कापथः । बहुव्रीहावप्यपरे - कुत्सितः पन्था यस्मिन् स कापथ इति राजादित्वादत् । अर्थग्रहणमिह सूत्रे सुखार्थम् ।। ३६२ ।
[वि० प०]
का त्वी० | इह वाक्यद्वयं वेदितव्यम् । कथमेतद् यावता एकमेव वाक्यमुपलभ्यते । तत ईषदर्थे कादेशोऽक्षशब्दे परत एव स्यात् ? सत्यम् । एवं सतीषदर्थे “का त्वक्षे” इति विदध्यात् । कार्टी, निमित्तम्, कार्यम् इत्येष निर्देशक्रम इति न्यायात् । अतो विपरीतकरणात् ‘का त्वीषदर्थे' इत्येकं वाक्यम्, अक्ष इति द्वितीयमित्याह-अक्षशब्दे चेति ।
Page #443
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये पनमः समासपादः
४०१ पूर्वयोगे तुशब्दः पुनर का पुनरीषदर्थे तत्पुरुषे भवतीति । तेन स्वर इह न संबध्यते । यत्र क्वचिद् ईषदर्थता तत्र स्वरे व्यञ्जने च भवतीति । ईषदर्थे पूर्वेणैव सिद्धत्वाद् अक्षशब्दे परतः कुत्सितार्थस्यैव भवति इत्याह-काक्षेणेत्यादि । कुत्सितमक्षं काक्षम्, तेनेषदर्थ इति विशेषणादिहाव्यय एव कुशब्दो न पृथ्वीवाची, तथा "कोः कत्" (२/५/२४) इत्यत्रापि दृष्टपरिकल्पनावशात् ततो हि कुशब्दो वर्तत इति ।।३६२ ।
[क० च०]
का त्वी० । अर्थग्रहणं तु सुखार्थम् । 'का त्वक्षे ईषद्' इति ईषदर्थस्य लाभात् । अनिन्द्रियपर्यायेऽक्षशब्देऽपि स्यादेवाविशेषात् । कुत्सितोऽक्षः काक्षो द्यूतादिः । बहुव्रीहावपि मतम्-कुत्सिते अक्षिणी यस्य स काक्षः । “सक्थ्यक्षिणी स्वाङ्गे" (२/६/४१ – ५०) इत्यत्प्रत्ययः । नैतद् भाष्ये वार्तिके च चिन्तितमिति टीका ।।३६२ ।
[समीक्षा]
'ईषन्मधुरम्-कामधुरम्, ईषल्लवणम्-कालवणम्' इत्यादि स्थलों में ईषदर्थक 'कु' शब्द को 'का' आदेश दोनों व्याकरणों में उपलब्ध होता है । पाणिनि के सूत्र हैं - "का पथ्यक्षयोः, ईषदर्थे" (६/३/१०४,१०५)। अष्टाध्यायी में विस्तार अभीष्ट होने से 'कु' के 'कत्-का-कव' आदेशविधायक आठ सूत्र हैं, जबकि कातन्त्र में लाघव की प्रधानता के कारण केवल तीन ही सूत्र उपलब्ध होते हैं।
[रूपसिद्धि]
१. कालवणम् । ईषल्लवणम् । कु + लवण + सि । तत्पुरुष समास, विभक्तिलोप, ईषदर्थक 'कु' शब्द के स्थान में प्रकृत सूत्र द्वारा 'का' आदेश, लिङ्गसंज्ञा, सिप्रत्यय, उसका लोप तथा मु-आगम ।
२. काम्लम् । ईषद् अम्लम् । कु+अम्ल +सि । पूर्ववत् समासादि, कु को का आदेश, समानलक्षण दीर्घ, परवर्ती अकार का लोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
___३. काक्षेण वीक्षते । कुत्सिते अक्षिणी यस्य, तेन | कु + अक्षि + औ+टा । बहुव्रीहिसमास, विभक्तिलोप, कु को का-आदेश, “सक्थ्यक्षिणी स्वाङ्गे" (२/६/ ४१ -५०) से समासान्त ‘अत्' प्रत्यय, इकारलोप, लिङ्गसंज्ञा ता प्रत्यय, इन आदेश, "अवर्ण इवर्णए"(१/२/२) से अ को ए-इका लोप तथा नकार को णकारादेश ।।३६२ ।
Page #444
--------------------------------------------------------------------------
________________
४०२
कातन्त्रव्याकरणम्
३६३. पुरुषे तु विभाषया [२/५/२६] [सूत्रार्थ]
तत्पुरुषसमास में पुरुष शब्द के परवर्ती होने पर कु-शब्द को वैकल्पिक काआदेह होता है ।।३६३।
[दु० वृ०]
कुशब्दस्य तत्पुरुषे पुरुषशब्दे च परे विभाषया कादेशो भवति । कापुरुषः, कुपुरुषः । इयमप्राप्ते विभाषैव । ईषदुष्णम्-कोष्णम्, कवोष्णम्, कदुष्णम् इति वक्तव्यम् ।।३६३।
[दु० टी०]
पुरुषे० । नन्वीषदर्थे नित्यं प्राप्तः कुत्सितार्थे त्वप्राप्त एव कादेशः तत्रोभयत्र विभाषा युक्तेति । न चोद्यम् नात्र विभाषा विधेया, किं तर्हि कादेशः, स चाप्राप्तः कुत्सितार्थ एवेत्याह - इयमित्यादि । वाग्रहणे विधेयत्वाशङ्का स्यादित्यनव्ययो विभाषाशब्दस्तृतीयान्त उच्यते । विपूर्वाद् भाषतेः “गुरोश्च निष्ठासेटः" (४/५/८१) इत्या ययः। कादेशस्तावत् सिद्ध एवेत्याह-कवोष्णमित्यादि । उष्णशब्दे कवादेशः कदादेशश्चेति वक्तव्यं व्याख्येयं लोकोपचारादित्यर्थः ।।३६३।
[वि० प०]
पुरुषे० । इयमित्यादि । ननु कथमवधारणमीषदर्थे नित्यं प्राप्तः कुत्सितार्थे त्वप्राप्त एव कादेशः, ततश्चोभयत्र विभाषा युक्तेति ? सत्यम् । विभाषयेति तृतीयानिर्देशादिह कादेशस्य विधेयत्वं न विभाषायाः । यच्च विधेयं तदप्राप्तमेवेति मन्यते । ईषदित्यादि । नित्यं कादेशे प्राप्ते कवादेशः कदादेशश्चोष्णशब्दे विधीयते । वक्तव्यमिति व्याख्येयम्, लोकोपचारादित्यर्थः ॥३६३ ।
[क० च०]
पुरुषे० । विपूर्वाद् भाषतेर्गुरोश्च निष्ठासेट इत्यप्रत्यये सति विभाषेति रूपम् । कादेशस्तावत् सिद्ध एवेत्याह - कवोष्णम् इत्यादि । पञ्ज्यां न विभाषेति अन्यथा वेति कृते सिध्यतीति भावः ।।३६३।
Page #445
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
४०३
[समीक्षा]
कुत्सितः पुरुषः ‘कापुरुषः, कुपुरुषः' में 'पुरुष' शब्द के परवर्ती होने पर 'कु' को 'का' आदेश का विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है - "विभाषा पुरुषे" (अ० ६ / ३ / १०६) ।
[रूपसिद्धि]
१. कापुरुषः, कुपुरुषः । कुत्सितः पुरुषः । कु + पुरुष + सि । तत्पुरुष समास, विभक्तिलोप, प्रकृतसूत्र से कु के स्थान में वैकल्पिक 'का' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः " ( २/३/६३) से स् को विसगदिश || ३६३ | ३६४. याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् [ २/५/२७] [सूत्रार्थ]
समास में लक्ष्यानुरोध से कहीं-कहीं पर स्त्रीलिङ्गकृत ईकार तथा आकार को स्वादेश होता है || ३६४|
[दु० बृ०]
ईश्च आकारश्च याकारौ, याकारौ स्त्रीकृतौ ह्रस्वौ भवतः, समासे क्वचिल्लक्ष्यानुरोधात् । रेवतिमित्रः, रोहिणिमित्रः, भरणिमित्रः, इष्टकचितम् ईषिकतूलम्, मालभारिणी कन्या । एवमन्येऽपि || ३६४ | [दु० टी०]
याकारौ० । क्वचिद्ग्रहणाद् इह तत्पुरुषो न वर्तते इत्याह-समास इति । रेवती मित्रमस्य, रोहिणी मित्रमस्य, भरणी मित्रम् अस्येति विग्रहः । शिशपायाः स्थलं शिशपस्थलम्, संज्ञायाम् एव । न च भवति - नान्दीकरः, नान्दीघोषः, नान्दीविशालः, लोमकाषण्डः । इष्टकाभिश्चितम्, ईषिकायास्तूलम् । मालां बिभर्तीति ताच्छील्ये आभीक्ष्ण्ये वा णिनिः । “इष्टकेषिकामालानां चिततूलभारिषु" (अ०६/३/६५) तदन्तविधिरपीष्यते । पक्वेष्टकचितम्, मुञ्जेषिकतूलम्, उत्पलमालभारिणी । अङ्गीकृतयोरपीकारोकारयोर्वा ह्नस्व इष्यते । ग्रामणिपुत्रः, ग्रामणीपुत्रः । यवलुपुत्रः, यवलूपुत्रः । इयुवाश्रययोर्न स्यात् । श्रीकुलम्, भ्रूकुलम् ।
भ्रूकुंशादीनां वा दृश्यते । भ्रुकुंशः, भ्रूकुंशः । भ्रुकुटि:, भ्रुकुटि: । अन्य आहअकारश्च वक्तव्यः । भ्रकुंशः, भ्रकुटिः । बहुपदेऽपि दृश्यते - अलाबुकर्कन्धुदुन्दुफलमिति ।
Page #446
--------------------------------------------------------------------------
________________
४०४
कातन्वव्याकरणम्
अलाबूश्च कर्कन्धूश्च, दुन्दूश्च, तासां फलमिति । के प्रत्यये समानस्य ह्रस्वः इष्यते । ग्रामणिकः, यवलुकः, खटिका । अज्ञाताद्यर्थे कप्रत्ययः । बहुव्रीहौ न स्यात्-बहुनदीकः । नवृदन्ताद् बहुव्रीहौ को दृश्यते । स्त्रीकृतादन्तस्य तु विभाषा ।बहुखट्वाकः, बहुखट्वकः । शेषाद् वा बहुव्रीहौ को दृश्यते । भाषितपुंस्कात् स्त्रीकारस्य तरतमरूपकल्पचेलब्रुवगोत्रमतहतेषु ह्रस्वः । ब्राह्मणितरा, ब्राह्मणितमा, ब्राह्मणिरूपा, ब्राह्मणिकल्पा, ब्राह्मणिचेली, ब्राह्मणिब्रुवा, ब्राह्मणिगोत्रा, ब्राह्मणिमता, ब्राह्मणिहता । तमादयः कल्पपर्यन्ताः प्रत्ययाः। चेलादीन्युत्तरपदानि । चिल वसने, पचाद्यच् नदादित्वादी । कुत्सिता ब्रह्म णिचेलीत्युच्यते । ब्रवीतीति ब्रुवः पचाद्यच् । अभिधानाद् वच्यादेशो न भवति, उवादेशश्च स्यात् । सर्वत्र कर्मधारयः । भाषितपुंस्कादित्येव । आमलकीतरा । आमलकीशब्देन हि स्त्रीलिङ्गो वृक्षार्थेऽभेदोपचारात् फले नपुंसके च वर्तते । न ह्युपचारवृत्तौ चानेन भाषितः पुमानिति । एकस्वरात्तु विभाषा । स्तृणातेमुट्-स्त्रितरा, स्त्रीतरेत्यादि । स्त्रीकारस्येति किम् ? श्रीतरा । अन्स्यन्तिभ्यां च स्त्रीकृतेकारस्य विभाषा । 'विदुषीतमा, विदुषितमा, पचन्तीतमा, पचन्तितमा' इत्यादि । कथं विद्वत्तमेत्यादि नात्र पुंवद्भावो वक्तव्यः ? सत्यम् । प्रकर्षयुक्तस्य पश्चात् स्त्रीत्वं विवक्षितमिति भावः । ऊङश्च वा ह्र स्वः - धीबन्धुतमा, धीबन्धूतमेत्यादि ।।३६४। .
[वि० प०]
याकारो०। रेवती मित्रमस्य, रोहिणी मित्रमस्य, भरणी मित्रमस्येति विग्रहः । लक्ष्यानुरोधाद् इष्टकेषिकामालानां चिततूलभारिषु दर्शयति-इष्टकचितम् इति । इष्टकाभिश्चितम्, इषिकायास्तूलम् इति विग्रहः । तथा मालां बिभर्तीति ताच्छील्ये आभीक्ष्ण्ये वा णिनिः । एवमन्येऽपि शिष्टप्रयोगानुसारेण वेदितव्या इत्यर्थः ।।३६४।
[क० च०]
याकारो०। स्त्रियामिति कृते 'सोमपा स्त्री, सेनानी स्त्री' इत्यत्रापि ह्रस्वप्रसङ्गात् स्त्रीकृतावित्युक्तम् । क्वचिद् ग्रहणान्नेह तत्पुरुषानुवृत्तिरित्यत आह -समास इति ।इष्टकेषिकामालानां चिततूलभारिषु तदन्तविधिरपीष्यते । पक्वेष्टकचितम् । आप्तेषिकतूलम्, उत्पलमालभारिणीति | अस्त्रीकृतयोरपीकारोकारयोर्वा ह्रस्व इष्यते । ग्रामणिपुत्रः, ग्रामणीपुत्रः । यवलुपुत्रः, यवलूपुत्रः । इयुस्थानथोर्न स्यात् - श्रीकुलम्, भ्रूकुलम् । भ्रकुंशादीनां दृश्यते - भ्रकुंशः, भ्रुकुटिः ।
Page #447
--------------------------------------------------------------------------
________________
४०५
नामचतुष्टयाध्याये पञ्चमः समासपादः अन्य आह - अकारश्च वक्तव्यः । भ्रकुंशः, भ्रकुटिः ।सम्प्रसारणं च-भृकुटिमुखम् । बहुपदेऽपि-अलाबुकर्कन्धुदुन्दुफलम् ।अलाबूश्च कर्कन्धूश्च दुन्दुश्च, तासां फलमिति | के प्रत्यये समानस्य ह्रस्व इष्यते ग्रामणिकः, यवलुकः, खट्किा । अज्ञाताद्यर्थे कः, तेन ह्रस्वार्थम् आदीदूतां के लिङ्गादिति श्रीपतिवचनं व्यर्थम् । बहुव्रीहौ न स्यात् -बहुनदीकः, बहुबधूकः । नबृदन्ताद् बहुव्रीहौ कः । तेन न बहुव्रीहाविति वचनमुपादेयम् । स्त्रीकृतादन्तस्य तु भवति विभाषया | बहुखट्वाकः, बहुखटवकः । शेषाद् वा बहुव्रीहौ को दृश्यते । स्त्र्यातो वेति श्रीपतिसूत्रं व्यर्थम् । टीकातोऽन्यदप्यूहनीयम् ।।३६४ ।
(समीक्षा]
'रेवती मित्रम् अस्य, रोहिणी मित्रम् अस्य रेवतिमित्रः, रोहिणिमित्रः' इत्यादि शब्दरूपों में ह्रस्वादेश का विधान दोनों व्याकरणों में किया गया है | पाणिनि ने 'बहुल' शब्द के निर्देश से 'क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः' को सूचित किया है तो कातन्त्रकार ने साक्षात् 'क्वचित्' शब्द ही सूत्र में पढ़ा है । इससे कातन्त्रकार ने एक ही सूत्र से अभीष्टसिद्धि की है, परन्तु पाणिनि को तीन सूत्र बनाने पड़े हैं - 'ड्यापोः संज्ञाछन्दसोर्बहुलम्, त्वे च, इष्टकेषीकामालानां चिततूलभारिषु" (अ० ६/३/६३-६५)।
[रूपसिद्धि]
१. रेवतिमित्रः । रेवती मित्रमस्य । रेवती+सि + मित्र +सि । बहुव्रीहिसमास, विभक्तिलोप, प्रकृत सूत्र से रेवती-घटित ईकार को ह्रस्व, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश ।
२-३. रोहिणिमित्रः।रोहिणी मित्रमस्य ।रोहिणी + सि+मित्र+सि । भरणिमित्रः । भरणी मित्रमस्य । भरणी + सि + मित्र+सि । पूर्ववत् पहुव्रीहि समासादि तथा ईकार को ह्रस्व ।
४-६.इष्टकचितम् ।इष्टकाभिश्चितम्।इष्टका + भिस् +चित +सि ।इषिकतूलम्। ईषिकायास्तूलम् । ईषिका + ङस् + तूल +सि | मालभारिणी कन्या । मालां बिभर्तीति । माला + अम् + भृ + णिनि + सि | दो शब्दरूपों में तृतीयातत्पुरुष समास आदि तथा 'इष्टका - ईषिका' इन आकारान्त शब्दों का ह्रस्व । ‘मालभारिणी' में उपपदसमास आदि एवं 'माला' में आकार को ह्रस्वादेश-विभक्तिकार्य ।।३६४।
Page #448
--------------------------------------------------------------------------
________________
कातन्वव्याकरणम् ३६५. ह्रस्वस्य दीर्घता [२/५/२८] [सूत्रार्थ]
लक्ष्यानुरोधवश (लोकाभिधान से) समास में कहीं कहीं पर ह्रस्व वर्ण को दीर्घ आदेश होता है ।।३६५।
[दु० वृ०]
ह्रस्वस्य दीर्घता भवति समासे क्वचिल्लक्ष्यानुरोधात् । दात्राकर्णः, द्विविधाकर्णः, द्विगुणाकर्णः, ट्यगुलाकर्णः । चिह्नस्यैव कर्णे दीर्घः । क्वचिन्न स्यात् अष्टकर्णः, पिष्टकर्णः । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्विबन्तेषु प्रादिकारकाणामेव दीर्घः- उपानत्, उपावृत्, प्रावृट, मर्मावित्, नीरुक्, ऋतीषट्, परीतत् । एवमन्येऽपि ।।३६५।
[दु० टी०]
हस्वस्य० । दात्राकर्ण इत्यादि । दात्राकृतिः कर्णोऽस्य, द्विविधः कर्णोऽस्य, द्विगुणः कर्णोऽस्य,ट्यगुलःकर्णोऽस्य इति विग्रहः ।चिह्नस्यैवेत्यादि । चियते गवादियुनावयवगतेन दावादिना संस्थानेन स्वामिविशेषसंस्थानद्वारेण तच्चिह्नम् अङ्क इत्यर्थः।क्वचिन्न स्यादित्यादि । अष्टप्रकाराः कर्णा अस्य, पिष्टावलिप्तौ कर्णौ अस्येति | चिह्नस्यैव कर्णे पिष्टाष्टपञ्चभिन्नछिन्नछिद्रसुवस्वस्तिकवर्जितस्येति प्रतिपत्तव्यम् । उपनह्यतीति क्विप् । एवमुपवर्तत इति । प्रवर्षतीति । मर्माणि विध्यतीति । निरोचत इति । ऋतिं सहते, तत्रापिग्रहणात् षत्वम् । परितनोतीति यममनतनगमां क्वाविति पञ्चमलोपः ।
एवमन्येऽपीति । विश्वस्य वसुराजोर्दीर्घः । विश्वं वसु अस्य विश्वावसुः । विश्वं राजते विश्वाराट् । नरे संज्ञायाम् । विश्वं नरा अस्य विश्वानरः । तथा ऋषौ मित्रे । विश्वं मित्रमस्य विश्वामित्रो नाम ऋषिः । एवम् अञ्जनागिर्यादयः । अञ्जनानां गिरिः अञ्जनागिरिः। एवं भञ्जनागिरिः। किंशुकागिरिः। असंज्ञायां न भवति । अञ्जनवर्णो गिरिरञ्जनगिरिः। घान्ते विभाषा लक्ष्यते । प्रतिवेशः, प्रतीवेशः । प्रतिरोधः, प्रतीरोधः । प्रतिहारः, प्रतीहारः । प्रतिकारः, प्रतीकारः । नाम्यन्तस्य काशेश्च प्रत्ययान्ते । नीकाशः, अनुकाशः । न च दृश्यते-निकाशः, अनुकाशः ।ह्रस्वग्रहणम् इह ह्रस्वमात्रप्रतिपत्त्यर्थम् । तेन मध्यवर्तिनोऽपि भवति दुःखार्तादिषु ।असमासेऽपि दृश्यते-पुरुषः, पूरुषः ॥३६५।
Page #449
--------------------------------------------------------------------------
________________
४०७
नामचतुष्टयायाये पचमः समासपादः [वि०प०]
ह्रस्वस्य० । दात्रेत्यादि । दात्राकृती कर्णौ यस्य, द्विविधौ कर्णौ यस्य, द्विगुणौ कर्णौ यस्य, व्यगुलौ कर्णौ यस्येति विग्रहः । क्वचिन्न स्यादिति । अष्टप्रकारौ को यस्य, पिष्टलिप्तौ कर्णौ यस्येति वाक्यम् । एतच्चोपलक्षणम् । अन्यत्रापि न भवतीति । यदाह- चिह्नस्यैव कर्णे दीर्घः। पिष्टाष्टपञ्चभिन्नछिन्नछिद्रसुवस्वस्तिकवर्जितस्येति प्रतिपत्तव्यमिति । न हीत्यादि । उपनह्यति, उपवर्तते, प्रवर्षति, मर्माणि विध्यति, निरोचते, ऋतिं सहते, परितनोतीति क्विप् । ऋतिषडिति । तत्रापिग्रहणात् षत्वम् । तनोतेर्यममनतनगमां क्वाविति पञ्चमलोपः। "पातोस्तोऽन्तश्च" (४/१/३०) इति आतश्चाद् भवति ।
[क० च०]
हस्वस्य० । दीर्घो भवन् ह्रस्वस्यैव भविष्यति । ह्रस्वग्रहणं स्वरमात्रप्रतिपत्त्यर्थम्, तेन मध्ववर्तिनोऽपि स्याद् दुःखार्तादिषु । दुःखेन ऋतः इत्यादिविग्रहः । दीर्घ इति कृते सिद्धे भावप्रत्ययो वैचित्र्यार्थः।समास इत्युपलक्षणम् ।पुरुषः,पूरुषः । तनुस्तनूरित्यसमासेऽपि दर्शनात् । क्वचिद्ग्रहणानुवृत्तेः फलमाह-क्वचिन्न स्यादिति । बिभ्यत्सतीतिवद् मर्मविद् इत्यत्र "हचतुर्थान्तस्य०" (२/३/५०) इत्यादिनाऽऽदिचतुर्थत्वं स्याच्चेत्, उच्यते । अभ्यासादेवाकृतसम्प्रसारणस्यैव ब्यधेरोष्ठ्यबकाराभ्युपगमात् । अत एव 'इषुर्व्यवाद् व्यधात्' इति माघयमकेऽप्यभङ्गः।
एवमन्येऽपीति । विश्वस्य वसुराजोर्दीर्घः । विश्वं वस्वस्य विश्वावसुः । विश्वं राजते विश्वाराट् । नरे संज्ञायाम् । विश्वं नरा अस्य विश्वानरः । ऋषौ मित्रे । विश्वं मित्रमस्य विश्वामित्रो नाम ऋषिः । एवम् अञ्जनागिर्यादयः- अञ्जनानां गिरिः अञ्जनागिरिः । एवं भञ्जनागिरिः । असंज्ञायां न स्यात् । अञ्जनवर्णो गिरिरञ्जनगिरिः । घान्ते विभाषया लक्ष्यते - प्रतिवेशः, प्रतीवेशः । प्रतिरोधः, प्रतीरोधः । प्रतिहारः, प्रतीहारः । प्रतिकारः, प्रतीकारः, नाम्यन्तस्य काशेश्च प्रत्ययान्ते-नीकाशः, अनूकाशः। न च दृश्यते - निकाशः, अनुकाशः इति टीका । संज्ञायां बहुस्वरस्य वत्यनजिरादे:अमरावती, वीरणावती, अनजिरादेरिति किम् ? अजिरवतो, खदिरवती । अजिरखदिरशशकारण्डवप्रभृतयः। शरादीनां द्विस्वरात् - शरावती, वंशावती । पद्मशरधूमकुशमृगादीनां संज्ञायाम् । पद्मावती, शरावती, धूमावती, कुशावती, मृगावतीत्यादि । वलप्रत्ययेऽपि- कृषीवलः, आसुतीवलः । न च दृश्यते - तमोवलः, मातृवलः, पितृवलः, भ्रातृवलः इति कुलचन्द्रः। तेन "संज्ञायाम् अनजिरादिबहुस्वरस्य वति
Page #450
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
दीर्घः, पद्मशरधूमकुशवंशमृगाणां च, वलचि च" (कात० परि० - नाम० ९४, ९५,९७) इति श्रीपतिसूत्रत्रयं न वाच्यम् || ३६५ |
[समीक्षा]
सम्प्रसारणस्य"
'दात्राकर्णः, द्विविधाकर्णः' आदि शब्दरूपों में दीर्घ का विधान दोनों व्याकरणों में किया गया है | पाणिनि ने २५ सूत्रों में इस दीर्घविधान का विस्तार दिखाया है - "कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रनुवस्वस्तिकस्य (अ० ६/३/११५-१३९) । कातन्त्रकार ने लक्ष्यानुरोधवश इस दीर्घ का विधान केवल एक सूत्रद्वारा ही किया है । इस प्रकार कातन्त्रकार का यह निर्देश अत्यन्त लाघव काही बोधक कहा जा सकता है ।
[रूपसिद्धि]
४०८
------
१. दात्राकर्णः । दात्राकृती कर्णावस्य सः । दात्र + औ + कर्ण + औ । बहुव्रीहिसमास, विभक्तिलोप, प्रकृत सूत्र से 'दात्र' शब्द के अन्तिम अकार को दीर्घ, लिड्गसंज्ञा, सि - प्रत्यय तथा "रेफसोर्विसर्जनीयः” (२/३/६३) से सकार को विसगदिश ।
२ - ४. द्विविधाकर्णः । द्विविधौ कर्णावस्य सः । द्विविध + औ + कर्ण + औ । द्विगुणाकर्णः । द्विगुणैौ कर्णावस्य सः । द्विगुण + औ + कर्ण + औ । द्व्यङ्गुलाकर्णः । गुलौ कर्णावस्य सः । द्व्यङ्गुल + औ + कर्ण + औ । सर्वत्र बहुव्रीहि समास आदि तथा प्रकृत सूत्र के निर्देशानुसार दीर्घ आदेश |
५. उपानत् । उपनह्यति । उप + नह् + क्विप् + सि । क्विप् प्रत्यय, सर्वापहारी लोप, प्रकृत सूत्र से दीर्घ, 'उपानह् ' की लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप । ६-११. उपावृत् । उपवर्तते । उप + वृत् + क्विप् + सि । प्रावृट् । प्रवर्षति । प्र + वृष् + क्विप् +सि । मर्मावित् । मर्माणि विध्यति । मर्मन् + व्यध् + क्विप् + सि । नीरुक् । निरोचते । नि + रुच् + क्विप् + सि । ऋतीषट् । ऋतिं सहते । ऋति + सह् + क्विप् + सि । परीतत् । परितनोति । परि + तनु + क्विप् + सि । सर्वत्र क्विप् प्रत्यय, सर्वापहारी लोप होने के बाद दीर्य तथा विभक्तिकार्य || ३६५| ३६६. अनव्ययविसृष्टस्तु सकारं कपवर्गयोः [२/५/२९] [ सूत्रार्थ]
कवर्ग एवं पवर्ग के परवर्ती होने पर अव्ययभिन्न शब्द - घटित विसर्ग के स्थान में लक्ष्यानुरोधवश सकारादेश होता है || ३६६ ।
Page #451
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
४०९
[दु० वृ०]
अनव्ययविसृष्टस्तु कपवर्गयोः परयोः सकारमापद्यते क्वचिल्लक्ष्यानुरोधात् । अयस्पाशम्, अयस्कल्पम्, अयस्काम्यति, अयस्कम् - पाशकल्पकाम्यकेषु दृश्यते । रप्रकृतेः काम्ये न भवति - गीः काम्यति, धूः काम्यति, अयस्कारः, अयस्कामः, अयस्कंसः, अयस्कुम्भः ।
कृञ्कामिकंसकुम्भेषु समासेऽयमतः परः । अनुत्तरे कुशाकर्ण्योर्भास्करादिषु लक्ष्यतः ॥
नञा निर्दिष्टमनित्यम् । नमस्कर्तुम्, पुरस्कर्तुम् इत्यादयः ।। ३६६ । ॥ इति दौर्गसिंह्मां वृत्तौ नामचतुष्टयाध्याये पञ्चमः समासपादः समाप्तः ॥
[दु० टी०]
1
अनव्यय० । कुत्सितम् अयः अयस्पाशम् तमादित्वान्निन्द्ये पाशप्रत्ययः । अयस्कल्पम् इति । किञ्चिदूने कल्पप्रत्ययः । अयस्काम्यतीति, अय इच्छतीति काम्यप्रत्ययः । अयस्कम् इति । अज्ञाताद्यर्थे कप्रत्ययः । अयस्कार इति “कर्मण्यणु" (४/३/१) । एवम् अयस्कामयते इति शः। कृञित्यादि । अयसा मिश्रः, अयस्कंसः । अयसः कुम्भः अयस्कुम्भः । लिङ्गविशिष्टेऽपि दृश्यते - अयस्कुम्भी । एवम् अयस्पात्रम्, अयस्पात्री । कुशेति स्त्रीलिङ्गम्-अयस्कुशा । अयस्कर्णी, अयस्कर्णिः । समास इति सर्वत्र संबध्यते । अयं विसृष्टोऽतः परः, अकारात् पर इत्यर्थः । अनुत्तरे अनुत्तरपदे इत्यर्थः सर्वत्र संबध्यते । इह न भवति- गीः कारः, भाकरणम् । कथन्तर्हति वितर्क्याह - भास्करादिषु लक्ष्यत इति । असमासे न भवति । यशः करोति, यशः कामयते । उत्तरपदे यो विसृष्टस्तस्य न स्यात् – परमायः कामः । न च दृश्यते - पयःकामः, अनव्ययस्येति किम् ? प्रातः कल्पः । प्रातः शब्दोऽयमधिकरणप्रधानोऽव्ययस्तद्युक्तस्योनार्थता । उच्चैः काम्यति, स्वःकारः, स्वःकामः । अव्ययादन्यदनव्ययं लिङ्गमुच्यते, तस्य विसृष्ट इति विभक्तेर्न स्यात् । कः पचति, कः फलति । कथन्तर्हि कस्कः, विसृष्ट इति वीप्सायामत्र द्विर्वचनम् । भ्रातुष्पुत्रः, शुनस्कर्णः ? सत्यम् । क्वचिदधिकार एव श्रेयान् इति
I
पयः पाता ।
Page #452
--------------------------------------------------------------------------
________________
४१०
कातन्वव्याकरणम्
तथाऽन्येऽपि दृश्यन्ते-अयस्काण्डः, अयस्कान्तः । नत्रा निर्दिष्टमनित्यमिति नमसः कृत्रि विभाषा प्रतिपत्तव्या-नमस्कृत्वा, नमः कृत्वा गत इति । तिरश्च कृत्रि विभाषा - तिरस्कृत्य, तिरःकृत्य गत इति । इह तु न भवत्येव - तिरः कृत्वा काष्ठं गतः । अधःशिरसोः पदे नित्यम् - अधस्पदम्, शिरस्पदम् । घोषवति तु घोषवत् कार्यमेव दृश्यते - अयोघातः । अयोभोजनमित्यादि । उदकस्योदः संज्ञायाम् इत्यादयो लोकोपचारादेव । उदकस्य मेघः उदमेघः । उदकं वहतीति उदवाहः । उदकं पीयतेऽस्मिन्निति उदपानम् । परपदे च दृश्यते - अच्छमुदकमस्मिन् अच्छोदः । क्षीरमुदकमस्मिन् क्षीरोदः । असंज्ञायामपि दृश्यते - वासपेषवाहनेषु । उदवासः, उदपेषं पिनष्टि, उदवाहनमिति । भाण्डसंबन्धिनो व्यञ्जने संयोगवर्जिते विभाषा | उदकुम्भः, उदककुम्भः । उदपात्रम्, उदकपात्रम् । संयोगवर्जित इति किम् ? उदकस्थानम् । भाण्डसंबन्धिन इत्येव-उदकफेनः । मन्थौदनबिन्दुसक्तुवज्रभारहारवीवधगाहसारेषु च विभाषा | उदमन्थः, उदकमन्थः । उदौदनः, उदकौदनः । उदबिन्दुः, उदकबिन्दुः । उदसक्तुः, उदकसक्तुः । उदवज्रम्, उदकवज्रम् | उदभारः, उदकभारः । उदहारः, उदकहारः। उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः |उदसारः, उदकसारः |बहुव्रीहिहेतोः सहस्य सो विभाषा - सपुत्रः, सहपुत्रः । बहुद्र हिहेतारित्येव । सहयुध्वा, सहकृत्वा । प्रियोऽस्येति प्रियसहयुध्वा प्रियसहकृत्वा । संज्ञायान्तु नित्यम् - साश्वत्थेन वर्तते साश्वत्थम्, सामलकम् । एवं सपलाशम् । अप्रत्यक्षपरिच्छेद्यवस्तुवृत्तेश्च - सहाग्निना वर्तते साग्निः कपोतः । एवं सपिशाचा वात्या | कपोतादिभावे क्वचिद् अग्न्यादिदर्शनात् । अन्यत्रापि कपोतादेरग्न्यादियोगमवगम्य प्रयोगः। अव्ययीभावस्याकाले । सम्पन्नं ब्रह्म सब्रह्म । ब्रह्मणां सम्पत्तावव्ययीभावः । काले तु न स्यात् । पूर्वाह्वेन सह सहपूर्वाह्नम् । एवं सहापरालम् । सचक्रं देहीति यौगपद्येऽव्ययीभावः । ग्रन्थाधिक्ययोरपि -ग्रन्थस्यान्ते आधिक्ये च वर्तमानस्य सहस्येत्यर्थः । कलान्तं सकलम्, मुहूर्तान्तं समुहूर्तम् । साकल्येऽव्ययीभावः । कला कालविशेषः, कलाप्रतिपादकोऽपि ग्रन्थस्तादर्थ्यात् कलार्थं वचनम् । ग्रन्थवृत्तिरपि कलादिः कालशब्द इति, अधिको द्रोणोऽस्यां सद्रोणा खारी । बहुब्राहित्वाद् विकल्पे प्राप्ते वचनम् । नाशिष्यगोवत्सतृणेषु - सहपुत्राय राज्ञे स्वस्ति । अगोवत्सतृणेष्वित्येव । स्वस्ति सगवे, स्वस्ति सवत्साय, स्वस्ति सतृणाय, विकल्पविधिः स्यात् । दिक्शब्देभ्यस्तीरस्य तारो वा ।
Page #453
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये पचमः समासपादः
४११ दक्षिणे स्थितं तीरं दक्षिणतीरं दक्षिणतारम् । एवम् उत्तरतारम्, उत्तरतीरम् । एवम्भूता एव समासशब्दाः स्थिताः । तथा च-वर्णागम इत्यादि पञ्चविधं निरुक्तम् इति । अपूर्वस्य वर्णस्य प्राप्तिर्वर्णागमः। यथा को जीर्यतीति कुञ्जरः । वर्णविपर्ययः- हिनस्तीति सिंहः । वर्णविकारः- षड्भिरधिका दश षोडश |वर्णनाशः-पृषदुदरं पृषोदरम् ।धातोस्तदर्थातिशयेन योगः- मह्यां रौतीति मयूरः । प्राणिविशिष्टे रवक्रियासंबन्धः । पदविकारोऽधिकोऽत्र दृश्यते । तस्माल्लोकोपचाराद् यः सिद्धस्तव किं यत्नेन ॥३६६।
॥इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां नामचतुष्टयाण्याये पचमः समासपादः समाप्तः॥
[वि०प०]
अनव्यय० । अयस्पाशम् इत्यादि । कुत्सितमयः अयस्पाशम् । कुत्सितवृत्तेम्निः एव पाशः । ईषदूनमयःअयस्कल्पम् ।ईषदसमाप्तावित्यादिना कल्पप्रत्ययः ।अय इच्छति अयस्काम्यति । "काम्य च" (३/२/६) इति काम्यप्रत्ययः । अयस्कम् इति । कस्येदम् अयः, कुत्सितं वा अयः इत्यज्ञाताद्यर्थे कप्रत्ययः । अयस्कार इति । अयः करोतीति कर्मण्यण् । अयस्काम इति । अयः कामयते इति शीलिकामीत्यादिना णप्रत्ययः । एतद् दर्शयति कृञ्कामीत्यादिना | अयसा मिश्रः कंसः अयस्कंसः । अयसां कुम्भः । एवम् अयसां कुशा, अयसां कर्णि:- अयस्कुशा, अयस्कर्णिः । समास इति वचनादिह न भवति । अयःकरोतीति, अयः कामयते इति ।अयमतः पर इति । अयं विसृष्टोऽकारात् पर इत्यर्थः । इह न भवति - गी:कारः, धूःकारः, भा:कार इत्यादि । अनुत्तर इति वचनाद् उत्तरपदस्थस्य न भवति । परमायःकारः, परमायःकामः इत्यादि । क्वचिद् न दृश्यते - पय:कामः, पयःपातेति । कथन्तर्हि 'भास्करः' इत्याह - भास्करादिष्वित्यादि । भासं करोतीति "दिवाविभानिशा०"(४/३/२३) इत्यादिना टप्रत्ययः । अनव्ययविसष्ट इति किम् ? प्रातःकल्पः, प्रातःकाम इति ॥३६६। ॥इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायां नामचतुष्टयाप्याये पञ्चमः समासपादः समाप्तः॥
[क० च०]
अनव्यय० । अव्ययादन्यद् अनव्ययं लिङ्गम् उच्यते इति विभक्तेर्न स्यात् - कः पचति, कः फलतीति । तर्हि कथं भ्रातुष्पुत्रः, शुनस्कर्णः ? सत्यम्, क्वचिदधिकाराद् । तुशब्दश्छन्दोऽर्थः । कश्च पश्च कपौ, तयोर्व! तयोरित्यर्थः । अथ कखपफेष्विति
Page #454
--------------------------------------------------------------------------
________________
४१२
कातन्त्रव्याकरणम्
क्रियतां किं व्याप्त्यर्थेन वर्गग्रहणेन । न च घोषवत्कार्यबाधनार्थमिति वाच्यम् । घोषवति तु घोषवत्कार्यं दृश्यते - अयोघातः, पयोभोजनम् इत्यादीति टीकाकृतोक्तेः क्वचिदग्रहणादघोष एवेति कुलचन्द्रोक्तेश्च । तेन पयोभ्यां शिरोमणिरित्यपि न दोषश्चेत् तर्हि वैचित्र्यार्थमेव । विवरणे समास इति पाठो नास्त्येव । समासेऽयमतः पर इति पुनः समासग्रहणवैयर्थ्यप्रसङ्गात् । पाशकल्पकाम्यकेष्विति । एतत्तु क्वचिद्ग्रहणबलाल्लभ्यते । रप्रकृतिरित्यादि । अत्रापि क्वचिद्ग्रहणं बीजम् । अयस्कुम्भ इति लिङ्गविशिष्टस्यापि दृश्यते -अयस्कुम्भी।
नत्रा निर्दिष्टमनित्यमिति नमः कृषि विभाषा प्रतिपत्तव्या । नमस्कृत्वा, नमः कृत्वा गतः । तिरसः कृत्रि वा-तिरस्कृत्य, तिरःकृत्य गतः । इह न भवति - तिर कृत्वा काष्ठं गतः। अधःशिरसोः पदे नित्यम् - अधस्पदम्, शिरस्पदम् । उदकस्योदः संज्ञायाम् । उदकस्य मेघः उदमेघः । उदकं वहतीति उदवाहः । उदकं पीयतेऽस्मिन्नुदपानमित्यादि टीकाकृताप्युक्तम् । अन्येऽप्यूहनीयाः ।। ॥इति श्रीविद्याभूषणाचार्यसुषेणशर्मकविराजकृते कापचन्द्रे नामचतुष्टयाध्याये पञ्चमः समासपादः समाप्तः॥
[समीक्षा
'अयस्पाशम्, अयस्कल्पम्, अयस्काम्यति' इत्यादि शब्दरूपों में विसर्ग को सकारादेश का विधान दोनों व्याकरणों में किया गया है | कातन्त्रकार लक्ष्यानुरोध का निर्देश करके एक ही सूत्र द्वारा अभीष्टसिद्धि करते हैं, परन्तु पाणिनि ने इसका पर्याप्त विस्तार किया है और इसीलिए उन्हें १७ सूत्र बनाने पड़े हैं - "विसर्जनीयस्य सः, सोऽपदादौ, नमस्सुरसोर्गत्योः- इडाया वा" (अ०८/३/३४,३८,४० - ५४)। इससे उभयत्र प्रक्रियाकृत लाघव - गौरव स्पष्ट है ।
[रूपसिद्धि]
१. अयस्पाशम् । कुत्सितम् अयः । अयः+ पाश + सि । कुत्सित अर्थ में पाशप्रत्यय, विसर्ग को सकार आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२-४. अयस्कल्पम् । किञ्चिदूनं कल्पम् । अयः+ कल्प + सि । किञ्चिदून अर्थ में कल्प-प्रत्यय, विसर्ग को सकारादेश तथा विभक्तिकार्य | अयस्काम्यति ।अयस्काम्यति । अयः+ काम्य + अन् + ति | समासादि, काम्यप्रत्यय तथा सकारादेश | अयस्कम् । अज्ञातादि अयः । अयः+ क + सि | समासादि, कप्रत्यय एवं सकारादेश |
Page #455
--------------------------------------------------------------------------
________________
नामचतुष्टयायाये पथमः समासपादः
४१३
५-८. अयस्कारः। अयस्करोतीति । अयः+ कृ + अण् + सि | अयस्कामः | अयः कामयते । अयः+कमु+ णः। अयस्कंसः । अयसा मिश्रः । अयः+कंस + सि । अयस्कुम्भः। अयसः कुम्भः । अयः+कुम्भ + सि ।
९-१०. नमस्कर्तुम् । नमः+ कृ+तुम् + सि । पुरस्कर्तुम् । पुरः+ कृ+तुम् + सि ॥३६६।
॥इत्याचार्यशर्ववर्मप्रणीतस्य कातन्त्रव्याकरणस्य द्वितीये नामचतुष्टयाध्याये समीक्षात्मकः पञ्चरः समासपादः समाप्तः॥
Page #456
--------------------------------------------------------------------------
________________
॥श्रीः॥ अथ कातन्त्रव्याकरणे द्वितीये नामचतुष्टयाध्याये
षष्ठस्तद्धितपादः
३६७. वाऽणपत्ये [२/६/१] [सूत्रार्थ]
अपत्य अर्थ की विवक्षा में षष्ठ्यन्त नाम (स्याद्यन्त पद) से वैकल्पिक अण् प्रत्यय होता है ||३६७।
[दु० वृ०]
षष्ठ्यन्तान्नाम्नोऽपत्येऽभिधेयेऽण् प्रत्ययो भवति वा । उपगोरपत्यम् औपगवः । एवम् पाण्डवः, आश्वपतः, शैवः, प्रौष्ठः । अपत्यसामान्यविवक्षायाम् आद्यप्रकृतेरेव । पौत्रादेस्तु प्रशस्य एवापत्ये स्त्रीवर्जितेऽणादयोऽभिधीयन्ते । वाग्रहणाद् उपगोरपत्यम् - उपग्वपत्यं च स्यात् ।।३६७।
[दु० टी०]
वाऽण० | प्रत्ययः पर इति वचनं पूर्वां प्रकृतिमाक्षिपति, अपत्यस्य हि सम्बन्धिशब्दत्वाद् यस्य तदपत्यं तत एव स्यात् । धर्मेणापत्यम्, धर्मादपत्यमिति विवक्षया नैव प्रत्ययविधिःसापेक्षत्वादित्याह - षष्ठ्यन्तादित्यादि ।तथा कम्बलोपगोरपत्यं देवदत्तस्येत्यत्र नैव भवति असंबन्धादिति । तर्हि य एव जनकस्तत एव स्यान्न त्वपत्यापत्य इति । तथा च लोके पितामहस्योत्सङ्गे बालकमासीनं दृष्ट्वा कश्चित् पृच्छति 'कस्येदमपत्यम्' ? स आह - देवदत्तस्येति, इंसादयितारमुपदिशति नात्मानम् । नैवम्, न पतन्त्यनेनापत्यमिति इहार्थनिर्देशः। तेनापत्यापत्यमप्यपत्यशब्दवाच्यम् । येन जातेन यावतामपायेष्वपतनं तावतामपत्येन मुख्य एव योग इति ।
यच्चोक्तम् - उत्पादयितारं व्यपदिशति नात्मानमिति, न खलु तेन यस्यापतनं स जिज्ञासितः, किन्तर्हि उत्पादयिता एवेति । अत इह तस्यापत्यमिति न कृतम्, किं च तच्छब्देन हि जनकस्यैवाभिधानं स्यात् । अथोपचारात् सर्वपूज्यानां भविष्यति, एवमपि किमनेनार्थमूलेनेति । उपगूनाम्, पाण्डूनाम्, अश्वपतीनाम्, शिवानाम्, प्रोष्ठानाम् अपत्यमिति विग्रहः अथवा उपगुशब्देन उपगुवंश उच्यते, उपचारात् । उपगोरपत्यम् इति
Page #457
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४१५ विग्रहः । न च प्रत्यपत्यविभागेनान्यस्मादन्यस्मात् प्रकृतिविशेषाद् अन्यश्चाणिणायनणादिः प्राप्नोति, यथा उपगोरपत्यम् इति विग्रहे उपगोरण, औपगवादिण्, औपगवेरायनण्, औपगवायनादिण् इत्येकेनैवापत्येनार्थस्योक्तत्वाद् इह जन्यजनकसंबन्ध एव विवक्षित इति सूत्रमन्तरेणाप्याद्यप्रकृतेरेवाणादिविधिः । स च भवन्नथदिव प्रत्यय इत्याह - अपत्यसामान्येनेत्यादि । कथन्तर्हि गाय॑स्यापत्यं गार्यायणः, दाक्षेरपत्यं दाक्षायण इत्याह - पौत्रादेरित्यादि । पौत्रादेरपत्यात् पुनः प्रशंसायुक्तेऽपत्ये इत्यर्थः । प्रशस्यते इति प्रशस्यः, शन्सेः क्यप् ।
___ अपत्यार्थे सिद्धे पुनरपत्यविधानं प्रशंसामेवाभिदधातीति भावः । यो गुरावसत्यपि न स्वैरी, स मृतस्यापि गुरोस्तदादिष्टाचरणात् प्रशंसर्थं गाायण उच्यते । पूर्व गुर्वायत्तोऽभूदिति गार्यायण इत्युच्यते, तथापि न दोषः सर्वत्र गाायणशब्दो विशेषाविवक्षायामप्यस्त्येव । मृतेऽपि प्रशंसा) गाायण एवेष्यते, एवं तु आचार्याः स्मरन्ति । अभिजनप्रबन्धसंभूते पित्रादौ जीवति सति पौत्रादेर्यदपत्यं स गुर्वायत्त उच्यते । तथा मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति सति यवीयान् भ्राता गुर्वायत्तः । तथा भ्रातुरन्यस्मिन् पितृव्ये पितामहभ्रातरि वा ज्ञानेन वयसा वाऽधिके जीवति पौत्रप्रभृतिर्यदपत्यं जीवदेव गुर्वायत्त इति । तस्मादेकगोत्रे भिन्नगोत्रेऽप्यभिधानं दृश्यते । अत इह "जीवति तु श्ये युवा" (अ० ४/१/१६३) इति नाद्रियते । कथं 'गार्यायणो जाल्मः' इति जाल्मशब्दादत्र कुत्सा गम्यते, न गाायणशब्दात् । अनेन तु विशेषः प्रदर्श्यते । पदसंस्कारकं हि व्याकरणम् । स्त्रियामपत्ये तु गार्गी । पतिरेको गुरुः स्त्रीणां वर्णानां ब्राह्मणो गुरुः' इति नात्रापतनकृता प्रशंसाभिधीयते इति भावः । अपत्य इत्येकवचनान्तेन निर्देशः । तेनैकस्मिन्नेवापत्ये स्यात् । तथा वर्तमान एवास्तेर्गम्यमानत्वात् । यथोक्तम्यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिभवतीतिपरः । प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यत इति ।
___ न चोद्यं नेह लिङ्गवचनादिकं विवक्षितम्, यथा 'ब्राह्मणो न हन्तव्यः, सुरा न पेया' इति । ब्राह्मणी, ब्राह्मणौ, ब्राह्मणाश्च न हन्यन्ते इति द्वे बढ्यश्च सुरा न पीयन्ते । अवश्यं हि येन केनचिल्लिङ्गादिना निर्देशः कर्तव्यो नान्तरीयकत्वात् तस्येहोपादानम् । यथा धान्यार्थिना पलालादेरप्रधानस्यापि । वाग्रहणाद् उपगोरपत्यम् उपग्वपत्यं चेति पक्षे समासः स्यादेव । न चोद्यं समासवृत्तिस्तद्धितवृत्त्या बाध्यत इति । ननु चेहाक्रियमाणोऽपत्यार्थस्तस्येदमेवमादौ प्रविशति, ततश्च तेनैव सिध्यति । यथा
Page #458
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
उपगोः स्वम् औपगवम् । एवमुपगोरपत्यम् औपगव इति ? सत्यम्, तस्येदमेवमादेरणः स्वराणामादावाद् वृद्धिमतः इतीयोऽस्ति बाधकस्तद्बाधनार्थं वचन-मिदम् । तेन भानोरपत्यं भानवः, श्यामगोरपत्यं श्यामगवः । उणादिवदभियुक्तैस्तद्धिता व्युत्पायाः। साध्यमपश्यताऽनेन दिङ्मात्रमिह दर्शितम् ।।३६७।
[वि० प०]
वाऽण | अपत्यस्य सम्बन्धिशब्दत्वाद् अपत्यवतः शब्दात् प्रत्ययो भवन् अर्थात् षष्ठ्यन्तादेव भवतीत्याह - षष्ठ्यन्ताद् इत्यादि ।धर्मेणापत्यम्, धर्मायापत्यम्, धर्मादपत्यम् इत्यादौ न भवति, सापेक्षत्वादिति । अपत्यवान् हि देवदत्तादिरपेक्ष्यते । कस्य धर्मेणापत्यं देवदत्तस्येति । अतः किं तस्यापत्यमिति षष्ठीनिर्देशेन । यद्येवम्, पुत्रपयित्वादपत्यशब्दस्य पौत्रादौ कथं प्रत्ययः, न खलु तदपत्यम् । तथाहि लोके पितामहस्योत्सङ्गे बालकमासीनं दृष्टा कश्चित् कञ्चित् पृच्छति कस्येदमपत्यम् इति ? स आह देवदत्तस्येति उत्पादयितारं व्यपदिशति नात्मानमिति । तदयुक्तम्, नायमपत्यशब्दः पुत्रपर्यायः, किन्तर्हि न पतति वंशो येन जातेन तदपत्यमित्यन्वर्थनिर्देशः ? तेनापत्यापत्यमप्यप-त्यमुच्यते । यतस्तेनापि जातेन पूर्वेषाम् अपाये स्ववंशस्यापतनं स्यात् । ____ एवं चाद्यप्रकृतेरुत्तरं सर्वमपत्यतया सामान्येन विवक्षितमिति । अतो न्यायादेवापत्यप्रकृतेः प्रत्ययविधिरित्यालोच्याह - अपत्येत्यादि ।लोके यद्यपि पृष्टः पितामहो नात्मानं व्यपदिशतीत्युक्तम्, तथापि खलु पृच्छता यस्यापतनं स न जिज्ञासितः । किन्तर्हि उत्पादयितेति ? तथैवोत्तरमपीति । ननु "एको गोत्रे" (अ० ४/१/९३) इति वचनस्याभावादपत्यप्रत्ययान्तादपरोऽप्यपत्यप्रत्ययः । कथं न स्यादिति न देश्यम् । एकेनैवापत्यप्रत्ययेनापतनार्थस्य प्रतिपादितत्वात् कथमपरःप्रत्ययः । यद्येवम्, गार्ग्यस्यापत्यं गाायणः, दाक्षेरपत्यं दाक्षायणः इत्याह - पौत्रादेस्त्वित्यादि । पौत्रादिवाचिनः पुनः शब्दात् प्रशस्ये प्रशंसायुक्त एवेत्यर्थः । आधेनैव प्रत्ययेनापतनार्थ उक्तः, पुनः प्रत्ययविधानं प्रशंसार्थमेव प्रतिपादयतीति भावः। तत्र प्रशस्यो गुर्वायत्त उच्यते । गुरुश्च पिता भ्राता ज्यायान् पितृव्योऽन्यो वा सगोत्रः स्थविरतरः। तत्र पित्रादौ जीवति सति तदादिष्टमाचरन् प्रशंसार्थं गाायण उच्यते, तथा यो गुरावसत्यपि न स्वैरी । मृतस्यापि गुरोस्तदादिष्टाचरणात् प्रशंसा) गाायण इत्युच्यते । तथा ज्ञानेन
Page #459
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४१७ वयसा वाऽधिकस्यासमानगोत्रस्याप्यायत्तः प्रशंसार्थत्वातद् गार्यायण उच्यते । यदि पूर्व गुर्वायत्तोऽभूत् सोऽपि गाायण उच्यते, तथापि न दोषः । यस्मादेवं विशेषस्य विवक्षायां गाायणशब्दः सर्वत्रैव प्रयुज्यते । तस्माद् "जीवति वंश्ये युवा, प्रातरि च ज्यायसि वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति" (अ० ४/१/१६३,१६४,१६५) इति नाद्रियते । युवेति प्रशस्य इत्यर्थः । स्त्रीवर्जिते इति । स्त्रियामपत्ये न भवति । यथा गार्गी स्त्री, युक्तं चैतत् स्त्रिया वर्जनं प्रशस्यत्वानुपपत्तेः । सा हि पत्यादिष्टमाचरन्ती कथं प्रशस्या नाम | तथा च शास्त्रम् ‘पतिरेको गुरुः स्त्रीणाम्' इत्यादि । तस्मान्नात्र प्रशंसाभिधीयते । उपग्वपत्यं चेति न चोद्यमिह तद्धितवृत्त्या समासवृत्तिर्बाध्यत इति । वाक्येन पक्षे तद्धितवृत्तेरेव बाधितत्वात् । पक्षान्तरे समासोऽपि न निवर्तते, बाधकाभावात् ।।३६७।
[क० च०]
वाऽण | सन्धिसाम्येऽपि आणिति दीर्घादि शक्यते । निमित्तस्यापत्यस्य ह्रस्वादेः साहचर्यात् । नञ्पूर्वात् पतेरौणादिकयप्रत्ययेऽपत्यमिति रूपम् | “प्रत्ययः परः" (३/२/१) इति वचनं पूर्वां प्रकृतिमाक्षिपतीत्याह-षष्ठ्यन्तान्नाम्न इति । अपत्य इति नौपश्लेषिकाधारे सप्तमी कार्थी निमित्तं कार्यमित्येवं निर्देशात् “वाऽपत्येऽण" इत्यकरणादाह - अपत्येऽभिधेय इति . औपगव इति । उपगुशब्देनात्र वंश उच्यते । एवं पाण्डोरपत्यं 'पाण्डवः' इत्यत्रापि पाण्डुशब्देन पाण्डुवंशस्यादिभूत एवोच्यते इति परः । अस्यार्थः- गोत्रेऽभिधेये एक एवापत्यप्रत्ययो भवति नान्यत् । भवन्मते तु सूत्राभावाद् उपगोरपत्यम् इत्यण, औपगवादिण्, औपगवेरायनण् इत्यपत्यप्रत्ययान्तात् पुनरपत्यप्रत्ययान्तरं कथं न स्यात् । नैवम्, एकेनैवापत्यप्रत्ययेनोक्तार्थत्वादपरोऽप्यपत्यप्रत्ययो न स्याद् अतः सूत्रमन्तरेणापि जन्यजनकसंबन्धादादिप्रकृतेरेवेत्याह-अपत्यसामान्य इति । तर्हि कथं गार्ग्यस्यापत्यं गाायणः इत्यादौ पुनरपत्यप्रत्यय इत्याहपौत्रादेस्त्वित्यादि । प्रशस्यत इति प्रशस्यः “दुहिशंसिभ्यां क्यप्" अथ सूत्रमिदमकृत्वा "तस्येदमेवमादेः" (२/६/७) इत्यत्रापत्यार्थः प्रवेश्यताम् । यथा उपगोः स्वम् औपगवम्, तथा उपगोरपत्यम् इति औपगवोऽपि ? सत्यम् ।? तस्येदमेवमादेरणः स्वराणामादावाद् वृद्धिमतः इतीयो बाधकस्तद्बाधनार्थमिदम् । तेन भानोरपत्यं भानवः, श्यामगोरपत्यं
Page #460
--------------------------------------------------------------------------
________________
४१८
कातन्त्रव्याकरणम्
श्यामगव इति सिद्धम् । अन्यथा 'स्वराणामादा' इत्यादिना ईय एव स्यादिति टीका | पञ्याम् अतः किम् - तस्यापत्यम् इति । ननु गुरुकुलमित्यत्र नित्यसापेक्षे समासवद् धर्मेणापत्यम् इत्यादावपत्यप्रययः स्यात् ? सत्यम् । नित्यसापेक्षेऽपत्यप्रत्ययो न भवति, अनभिधानात् । तस्मान्नात्र प्रशंसेति । अत एव "जीवति युवा" (अ० ४/१/१६३) इति सूत्रे परेणापि पुंसा निर्दिष्टमिति भावः ।
[पुस्तकान्तरे पाठः] वाऽण | "तस्यापत्यम्" (अ० ४/१/९२) इति परसूत्रम् । अस्यायमर्थः- तस्येति षष्ठ्यन्तमनुकृत्य लुप्तपञ्चमीको निर्देश इत्याह - तस्येति । षष्ठ्यन्तादित्यर्थः। अथ तस्येत्यभावाद् यथा कर्तरि कारके वर्तमानात् प्रत्ययो भवन् कर्तृवाचकादेव स्यात् । तथात्रोपात्तस्वरूपमपत्यमित्यर्थः स्यात् ? सत्यम् । अत एवाह - अपत्यशब्दस्य सम्बन्धिशब्दत्वादिति ।अथातः किमायातम्, उच्यते- सम्बन्धिशब्दत्वात् सम्बन्धिनमपेक्षते (ततः सम्बन्धिविशेषणविशेष्यम्)। ततः प्रकृत्यर्थो विशेषणम्, प्रत्ययार्थश्च विशेष्य इति अपत्यवतः स्यात् । धर्मेणापत्यमिति । अथ किमर्थमिदमुच्यते, पूर्वं सम्बन्धिशब्दादेवापत्यवत एव भवतीति निश्चितम्, धर्मेणापत्यमित्यादौ च कः प्रसङ्गः ? सत्यम् । सम्बन्धिशब्दत्वादिति हेतुरुक्तः पूर्वभेदोऽत्रापि सम्बन्धोऽस्तीति । अथवा सम्बन्धः किल क्रियावाचकपूर्वो भवतीति धर्मेणापत्यमित्यादौ तु व्यक्तिर्वा किं वाऽपत्यमिति जायते, भवतीति गम्यते । ततश्च जन्यजनकद्वारेण चेदत्रापि जन्यजनकसंबन्धो विद्यते । अथ तत्रापि सम्बन्धिसापेक्षे युक्तार्थे स्यादेव प्रत्ययः । यथा 'देवदत्तस्य गुरुकुलम्' इति । नैवम्, कश्चिदाहअपेर्बाहुलकत्वादिति तत् प्राप्तं प्रत्ययसापेक्षे न स्यात् । किञ्च युक्तार्थे तावत् प्रत्ययस्य स्वातन्त्र्येणार्थं प्रतिपादयन् शक्तिरस्तीति युक्तार्थे सति सवपिक्षायामपि स्यात् । अत्र किल प्रकृतिः प्रत्ययानामर्थमभिधत्ते । प्रकृतिर्हि जहन्निजार्था सती प्रत्ययमनुगच्छति प्रत्ययश्च प्रकृतिमिति । यथा औषधस्य मधुना योगः पृथङ् नोपपद्यते, तथात्र सम्बन्धिसापेक्षेऽण्प्रत्ययविधिः केवलं 'धर्मेणापत्यम्' इत्यत्र युक्तार्थयोग्यता हेत्वर्थः विभक्तिलोपे तदर्थाप्रतीतेः । अत एवाख्याते भ्रातृपुत्रीयतीति युक्तार्थत्वाद् इत्युक्तम् । एतेन प्रत्ययानां धर्मेणापत्यमित्यादावजहत्स्वार्थभावः। तस्यापत्यमिति तस्य षष्ठ्यन्ताभिधेयमपत्यमण्प्रत्ययाभिधेयं स्यात् । अतः ‘अपत्ये' इति सूत्रे यदुक्तं तत्र
Page #461
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः स्यादिसंबन्धो मा भूदित्येतदर्थम् । अतो वर्तमानकाल एव न्यायादिति शङ्का निरासिता स्याद् अपत्यसम्बन्धिमात्राद् विधानाद् विद्यमानम् अविद्यमानम् वाऽपत्यम् इति भावः । परस्य तच्छब्दभूतस्याणः प्रकृतिभूतत्वेनार्थस्य तस्येत्यर्थः ।
कश्चित् पृच्छति पितामहमित्यर्थः । अत एव नात्मानमिति व्यपदिशति । कस्यायं बालक इति तदापत्यशब्दं गृहीत्वा फक्किका कृता । बालकशब्देन किमायातम् ? सत्यम् । अपत्यशब्दः पुत्रपर्याय इति पूर्वपक्षः कृतः स्यात् । ततोऽत्र बालकशब्देन पुत्र उच्यते, षष्ठ्यपि जन्यजनकसम्बन्धे । अत एव वक्ष्यति उत्पादयितेति टीकायामपि बालक इति पाठः । पुस्तकान्तरे अपत्यमिति पाठः, तदा विसंवादो नास्ति । अन्वर्थ इत्यादि । नपूर्वात् पतधातोः करणे यप्रत्ययो भवति औणादिकः । अपाये इति । अपतनमिति अपायाभाव इत्यर्थः । न्यायादेव यस्यायं जन्म इति व्यवहारो धर्मेण उपगोरपत्यम् इति वंशे स पुनराद्यप्रकृतिं विहाय सर्वेषामेवास्ति, अतो विधिराद्यप्रकृतेरेव स्यात् । एक इति । गोत्रे वंशे एक एवापत्यप्रत्ययो न द्वितीयः । एकेनैवेति । वंशापतने सर्वेषामेव करणभूतत्वात् । अथ यद्यादिभूतादेव स्यात् तदा ‘पाण्डवः' इत्याधुदाहरणम्, न हि पाण्डुरादिप्रकृतिरिति ? सत्यम् । अन्तरान्तरे पाण्डोर्ये ये वंशा जनिष्यन्ति तेषामाद्यभूतः पाण्डुरिति स्यात् । एतदुदाहरणेन तत् सूत्रं सुखार्थं न स्यादिति सूचितम् । तथाहि "तस्येदम्" (२/६/७) इत्यनेन सामान्यविहितेनाणा सिध्यति, किन्तु स्वराणामित्यादिना ईप्रत्ययबाधनार्थं वचनम्, तस्य बाधकं तद्बाधापि स्यात् । प्रशंसां प्रतिपादयतीति इयमेव गतिः । यदि द्वितीयाद्यपत्यप्रत्ययेऽप्यपत्यप्रत्ययार्थः स्यात् तदा निष्फलं स्यात् । अतो विशेषप्रशंसारूपा प्रशस्यते । प्रशस्य इति गुर्वायत्तो यः प्रशस्यो गुरुश्च पिता भ्रातर इत्युक्तमेव । ननूक्तार्थानामायत्ता एव पत्युरेव । किं कारणमित्याह - तथा चेति । वाग्रहणादिति । अथ वाग्रहणेन किम् ? यत्र वाग्रहणं नास्ति तत्रापि वाक्यदृष्टत्वात् । यथा देवदत्तस्य भावो देवदत्तत्वम्, प्रकृष्टः पाचकः पाचकतरः, पुनः पुनः पचति पापच्यते । तथात्रापि उपगोरपत्यम् औपगव इति ? सत्यम् । तत्र यदा प्रकृतिः पुनः पुनः पाके वर्तते तदावश्यमेव यशब्दः स्यात् । यदा पाकमात्रे तदा पुनःपुनः शब्देन वाक्यमेव सर्वत्र ततो यदापत्यसम्बन्धिदेवदत्ते विवक्ष्यते, तदाप्युपचारेऽप्युपगोरपत्यमिति स्यादिति । अथ तथापि किमायातम्, सामान्ये वर्तमानेऽपत्यशब्दसन्निधानात् तत्सम्बन्धी प्रतीयते,
Page #462
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
तत्पुनर्वाक्यार्थेन बुध्यते, एवं सति पदार्थत्वेनेति । अथ यद्यत्र संबन्धिशब्दादषष्ठ्यन्तात् तदा तस्मात् परा इत्यादौ परग्रहणम् अनर्थकम् इति । नैवम्, परग्रहणसामर्थ्याद् विभक्तिरवश्यं भवतीति, ततः क्व विभक्तिः स्यात् । अथ सम्बन्धिशब्दात् षष्ठी स्याद् अन्यथा नित्यत्वादणेव स्यात् ॥ ३६७ |
४२०
[समीक्षा]
प्रातिपदिक (लिङ्ग) या स्याद्यन्त शब्दों अपत्य या गोत्रापत्य अर्थ में अण् प्रत्यय का विधान दोनों व्याकरणों में किया गया है । पाणिनि ने विस्तार से इसके लिए ७१ सूत्र बनाए हैं, परन्तु कातन्त्रकार ने केवल छह सूत्रों में ही इस प्रकरण को समाप्त किया है । पाणिनि ने २५ प्रत्यय, ३ आदेश तथा ३ आगम किए हैं। जबकि कातन्त्र में केवल ५ प्रत्ययों का ही निर्देश है - १. अणू, २. ण्य, ३ . आयनणू, ४. एयण् तथा ५. इण् । पाणिनि के २५ प्रत्यय- - १ इञ्, २. च्फञ्, ३. फक् ४. अञ, ५. यञ्, ६. फञ् ७. अणू, ८. ढक्, ९. ऐरक्, १०. द्रक्, ११. आरक्, १२. छण्, १३. ढञ्, १४. यत्, १५. ख, १६. ढकञ्, १७. खञ्, १८. छ, १९. व्यत्, २०. व्यन्, २१. ठक्, २२. ण, २३. ण्य, २४. फिञ् २५. फिन् ।
२. आदेश - १. अकङ्, २. उ, ३. इनङ् ।
३. आगम - १. वुक्, २. कुक्, ३ षुक् ।
कातन्त्रवृत्तिकार दुर्गसिंह ने अपत्य और गोत्र अर्थ में प्रत्ययविधान की भिन्नता स्पष्ट करते हुए कहा है कि अपत्यसामान्यविवक्षा में आद्य प्रकृति से ही प्रत्यय होता है, जबकि गोत्रापत्य अर्थ में तभी प्रत्यय होता है जब पौत्रादि की प्रशंसा अभीष्ट होती है ।
[विशेष वचन ]
१. अपत्यसामान्यविवक्षायाम् आद्यप्रकृतेरेव, पौत्रादेस्तु प्रशस्य एवापत्ये स्त्रीवर्जितेऽणादयोऽभिधीयन्ते ( दु० वृ० ) ।
तर्हि
२. अपत्यस्य हि संबन्धिशब्दत्वाद् यस्य तदपत्यं तत एव स्यात् । य एव जनकस्तत एव स्यान्न त्वपत्यापत्ये (दु० टी०वि० प० ) ।
३. न पतन्त्यनेनापत्यमितीहार्थनिर्देशः, तेनापत्यापत्यमप्यपत्यशब्दवाच्यम् । येन जातेन यावतामपायेष्वपतनं तावतामपत्येन मुख्य एव योग इति (दु० टी० ) ।
Page #463
--------------------------------------------------------------------------
________________
४२१
नामचतुष्टयाम्पाये पष्ठस्तद्धितपादः ४. पदसंस्कारकं हि व्याकरणम् (दु० टी०)।
५.आद्येनैव प्रत्ययेनापतनार्थ उक्तः,पुनःप्रत्ययविधानं प्रशंसाथमव प्रतिपादयतीति भावः (वि० प०)।
[रूपसिद्धि]
१. औपगवः । उपगोरपत्यम् । उपगु+ ङस् + अण् । प्रकृत सूत्र से 'अण्' प्रत्यय, णकारानुबन्ध से "वृद्धिरादौ सणे" (२/६/४९) से आदि वृद्धि, "उवर्णस्त्वोत्वमापाद्यः" (२/६/४६) से उ को ओ, “कार्याववावावादेशौ०" (२१६/४८) से ओ को अव्, 'औपगव' शब्द की लिङ्गसंज्ञा, प्रथमा- एकवचन में सि - प्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से विसर्गादेश ।
२. पाण्डवः । पाण्डोरपत्यम् । पाण्डु +ङस् +अण् । प्रकृत सूत्र से अण् प्रत्यय, आदिवृद्धि, उ को ओ, ओ को अव्, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसगदिश ।
३. आश्वपतः। अश्वपतेरपत्यम् । अश्वपति+ङस् + अण् । अण्प्रत्यय, वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से तकारोत्तरवर्ती इकार का लोप तथा विभक्तिकार्य ।
४. शैवः। शिवस्यापत्यम् । शिव+ ङस् +अण । अण् प्रत्यय, आदिवृद्धि, अकारलोप तथा विभक्तिकार्य ।
___५. प्रौष्ठः । प्रोष्ठस्यापत्यम् । प्रोष्ठ + ङस् + अण् । अण् प्रत्यय, आदिवृद्धि, अकारलोप अवं विभक्तिकार्य ।।३६७।
३६८. ण्य गगदिः [२/६/२] (सूत्रार्थ) .
अपत्यार्थ की विवक्षा में गर्गादिगणपठित शब्दों से ‘ण्य' प्रत्यय होता है ।।३६८। [दु० वृ०]
गगदिर्गणादपत्येऽभिधेये ण्यो भवति । गर्गस्यापत्यम् - गार्यः । एवं वात्स्यः। गोत्रादिभूतादेव पौत्रादावेवापत्येऽभिधानात् । अन्यत्र गार्गिः। अनन्तरोऽपि । रामो जामदग्न्यः, व्यासः पाराशर्यः, अर्जुनः कार्तवीर्यः इत्यपि दृश्यते । जामदग्नः, पाराशर इति च । गर्गादिराकृतिगणोऽयम् ॥३६८।
Page #464
--------------------------------------------------------------------------
________________
४२२
कातन्वयाकरणम्
[दु० टी०]
ण्य० । गोत्रेत्यादि । ये संज्ञाकारित्वेन प्रसिद्धा गर्गादिनामानः केचिदादिपुरुषाः यदपत्यसन्तानान्तःपातिनः पुमांसो गर्गादिव्यपदेशमासादयन्ति ते गोत्रादिभूताः। उक्तं च
अभिज्ञातिपदार्था ये स्वतन्त्रा लोकविश्रुताः।
शास्त्रार्थस्तेषु वक्तव्यः शब्देषु न तदुक्तिषु॥ पुत्रस्यापत्यं पौत्रः स एवादिर्यस्येति आदिग्रहणं सुखार्थं पौत्रशब्दवाच्या हि सर्व इति । अन्यत्र गार्गिरिति । यो गोत्रादिभूतो न भवति यच्च पौत्राद्यपत्यं न भवति तत्र "इणतः" (२/६/५) इत्यर्थः । क्वचित् प्रथमापत्येऽप्यभिधानमित्याह-अनन्तरोऽपीत्यादि । प्रथमापत्येऽणपि दृश्यत इत्याह-जामदग्न इत्यादि । यस्तु पौत्रादाविति कृतवान् स आह-पुत्रोऽपि पौत्रादिकार्यकरणशीलत्वात् तथा व्यपदिश्यते ।प्रथमापत्यविवक्षायामणेव न्यायादिति, तदेतच्चिन्त्यम् । कथं रामो भगवान् व्यासः पौत्रादिकार्यकरणशीलः । इहाद्यपवादोऽयं योगः।
गर्गादिः । गर्ग, वत्स, राज (असमासे), संकृति, असंकृति, अज, व्याघ्रपाद, विदभृत, प्राचीन, योग, पुलस्ति, रेभ, अग्निवेश, शङ्ख, शट, शक, धूम, अवट, चमस, धनञ्जय, वृक्ष, अक्ष, दक्ष, विश्वावसु, जरमाण, सालु, कुरुकत, अनड्डाह, लोहित, शंसित, बभ्रु, वर्ण, वफु, मन्तू, मङ्कु, शम्भु, मङ्क्ष, सङ्कुल, सर्कु, निलु (लिगु), गडुल, गुहलु, जिगीषु, मनु, तन्तु, मनायी, कच्छप, श्रुव, रुक्ष, कन्न, भाण्ड, तण्ड, वतण्ड, तङ्ग, कपिकत, शकलकण्ठ, गोकक्ष, अगस्ति, (अगस्त्य), कुण्डिलि (कुण्डिनि), यज्ञवल्क, पर्णवल्क, अभयाजात, रोहित (विरोहित), वृषगण, बाहोगण, शण्डिल, मुद्गल, मुषल, अनल, पराशर, भृगु, जतुकर्ण, मन्त्रित, अश्वरथ, शर्कराक्ष, पूतिमाष, अररक, बलाक, पिङ्गल, कृष्ण, गोनर्द, (गोलन्द), अनुक, उलूक, तितिक्ष, भिषज्, भण्डित, दन्त, विरतिक, दण्ड, देवहू, इन्द्रहू, पिप्पल, बृहदग्नि, जमदग्नि, अनाजिन, उक्थ, कुटिगु, उछ, कुटाश्व' एते गर्गादयः प्रसिद्धाः।
इहान्येऽपि प्रतिपत्तव्याःअभिधानादित्याह-गर्गादिराकृतिगण इति । राज असमास इति राजशब्दो ण्यमुत्पादयति । असमासे राज्यः। असमास इति किम् ? सुराजस्या
Page #465
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये षष्ठस्तबितपादः
४२३
पत्यं सौराजिः । ननु ग्रहणवता लिङ्गेन तदन्तविधिर्नास्तीति ? सत्यम् । तर्हि राजशब्द एवासमासे भवन् विशिष्यते । राजेर्गत्यर्थस्य घञि राजशब्दस्य ग्रहणम् । इह मा भूत्रातेः क्विपि राः । अजतेरचि अजः । राश्चासावजश्चेति राज इति । मनुशब्दोऽत्र पठ्यते कथं मानवी प्रजेति गर्गादिण्यादायगणन्तश्चेति नदादौ गणसूत्रम् । तेन मानव्यायनीति भवितव्यम् । नैष दोषः-प्रायेण पौत्रादावित्युक्तम्, प्रथमापत्येऽण् भवत्येव । मनोरियं मानवी "तस्येदम्" (२/६/७) इत्यण् । मनायीशब्दोऽत्र पठ्यते । मनाय्या अपत्यं मानय्यः । तद्धिते स्वरे च स्त्रीत्वस्याविवक्षा । अत्र तु स्त्रीत्वविवक्षाऽभिधीयते । अन्यः पुनराह - मनुशब्दपाठादेव सिद्धः । न चार्थभेदोऽस्ति । मनोर्हि स्त्री मनायी तस्या यदपत्यं तन्मनोरपि । यत्तु मनोस्तत् तस्या अपि लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् । तथा च मनायीशब्दादौत्वपक्षेऽपि ण्यो भवति । यन्मनायीशब्दं पठति तत्पुंवद्भावबाधनार्थं परत्वादेयणा बाधा स्यादिति पाठोऽयम् ।।३६८।
[वि०प०]
ण्य० । गोत्रेत्यादि । अपत्यमिह पौत्रप्रभृतिकं गोत्रं तस्यादिभूतादाद्यपुरुषादित्यर्थः । इहाप्यपत्यसामान्यविवक्षायामाद्यप्रकृतेरेवेत्यर्थः । अन्यत्रेति । यो गोत्रादिभूतो न भवति, अपि तु कश्चिदर्वाचीनो गर्गनामा । यच्च पौत्राद्यपत्यं न भवति अपि तु प्रथम एव तत्र “इणतः" इणित्यर्थः । क्वचित् प्रथमापत्येऽभिधानं दृश्यत इत्याह-अनन्तरोऽपीति | प्रथमापत्येऽपीत्याह-जामदग्नः,पाराशर इति चेति ।गर्गादिराकृतिगण इति ।गर्गादिप्रभृतिश्च गणपुस्तकेऽभियुक्तैर्वेदितव्य इत्यर्थः ।।३६८।
[क० च०]
ण्य० । गर्ग आदिर्यस्य गणस्येति गणवाचकत्वाद् एकवचनमित्याह - गणादिति । पौत्रादावेवेति पुत्रस्यापत्यं पौत्रः स एवादिर्यस्यापत्यस्येति विग्रहः । अभिधानादिति । 'अभिधानलक्षणा हि कृत्तद्धितसमासाः' (व्या० परि० ७२) इति न्यायादित्यर्थः । अन्यत्र गार्गिरिति । ण्यप्रत्ययस्य इणाद्यपवादकत्वाद् यो गोत्रादिभूतो न भवति, यच्च पौत्राद्यपत्यं न भवति तत्रेणेवेत्यर्थः । अनन्तरोऽपीति प्रथमापत्यमित्यर्थः । अनन्तरः प्रथमापत्यमपि ण्यप्रत्ययेनोच्यते इत्यन्वयः । अर्जुनः कार्तवीर्य इति वृत्तिपाठो नास्ति । टीकाकृता कृतवीरशब्दस्य गर्गादिगणेऽगणितत्वादिति केचित् । वस्तुतस्तु यदि बहुपुस्तके वर्तते
Page #466
--------------------------------------------------------------------------
________________
४२४
कातन्त्रव्याकरणम्
तदा आकृतिगणत्वाद् भविष्यति । अत एव टीकाकृता च अन्येऽपि प्रतिपत्तव्या अभिधानाद् इत्युक्तम् ।कथमन्यथा पाराशर्यः' इति स्यात्, पराशरशब्दस्यापि तत्रागणनात् ।
ननु वाऽधिकाराद् गर्गादिशब्दात् पक्षेऽण् कथं न स्यात् । अत्र केचिद् गर्गस्यापत्यमिति वाक्य एव वाशब्दस्य चरितार्थत्वादिति । तन्न, पूर्वसूत्रे उपगोरपत्यम् इति वाक्ये वाशब्दस्य चरितार्थत्वेऽपि सिद्ध कथमुक्तं वाग्रहणाद् उपगोरपत्यम् उपग्वपत्यं च स्यादिति ? वयन्तु ब्रूमः-विधेयत्वादण् वाऽपत्य इति सिद्धे यत् पूर्वं वाग्रहणं तबलादनुक्रमेण वाऽधिकार इति भावः । यद्यपि गर्गादिगणादपत्यार्थे ण्यप्रत्यये उक्तस्तथापि केषांचिद् अर्थविशेष एव | बभ्रोः क्षत्रिये बाभ्रव्यम्, बाभ्रव्योऽन्यः। कपिबोधिवातण्डेभ्य आङ्गिरसे | काप्यः, बौद्धः, वातण्ड्यः। अन्यत्र कापेयः, बौधिः, वातण्डः ।साधोब्राह्मणे ।साधव्यः,साधवोऽन्यः ।सेनान्तकारुभ्य इण् च, चकाराण्ण्यश्चहारिषेण्यः, हारिषेणिः ।अन्तग्रहणम् ऋष्यस्वकादणमपि बाधते ।जातसेन्यः।जातसेनिः । भैमसेन्यः, भैमसेनिरिति । लाक्षण्यः, लाक्षणिः। वार्धक्यः, वार्धकिः । तान्त्रवाय्यः, तान्त्रवायिः । कुर्वादिभ्यः प्रथमापत्ये । कौरव्यः, गार्गर्यः । कुरु, गर्गर, खण्डुक, अयिसार, रथकारेत्यादि । दित्यदितियमेभ्यः । दैत्यः, आदित्यः, याम्यः । कथं दैतेयः, आदितेयः । "इतश्च क्तिवर्जिताद्वा" इति वचनात् स्त्रीदन्तदित्यदितिभ्यां स्त्र्यत्र्यादेरेयण, प्रजापत्यादेश्च ।प्राजापत्यः, बार्हस्पत्यः, गाणपत्यः । राज्ञो जातौ । राजन्यः क्षत्रियजातिः । अन्यत्र राजनः । तथा मनोर्यदणिणः । यच्चाण् च इण् च यदणिणस्तस्मिन् यश्चान्त इत्यर्थः । मनुष्यः, मानुषः, मानुषिः । बाह्वादीणन्तायी । श्वशुरस्य न वृद्धिः। श्वशुर्य इति कुलचन्द्रः॥३६८।
[समीक्षा]
गर्ग, शब्द से 'गार्ग्यः' शब्दरूप के साधनार्थ पाणिनि ने 'यञ्' प्रत्यय तथा कातन्त्रकार ने ‘ण्य' प्रत्यय किया है । केवल अनुबन्धभेद है, लेकिन उससे आदिवृद्धिरूप फल में कोई अन्तर नहीं आता, क्योंकि अपने-अपने व्याकरणों में आचार्यों ने इसी प्रकार की योजना की है । पाणिनीय गर्गादिगणपाठ में ८९ शब्द उपलब्ध हैं, जबकि कातन्त्रीय गणपाठ में ९९ । शब्दों में विशेष भिन्नता नहीं है । संख्या में कुछ भिन्नता विशेष महत्त्व नहीं रखती, क्योंकि यह आकृतिगण है और आकृतिगण में प्रयोगानुसार अन्य शब्दों का भी समावेश संभव होता है। पाणिनि ने गोत्रापत्य अर्थ में तथा
Page #467
--------------------------------------------------------------------------
________________
४२५
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः कातन्त्रवृत्तिकार ने भी इसी अर्थ में गार्ग्य आदि शब्द सिद्ध किए हैं । 'जामदग्न्यः, पाराशर्यः' शब्द अपत्यार्थ में ही साधु माने जाते हैं।
[विशेष वचन]
१. यो गोत्रादिभूतो न भवति, यच्च पौत्राद्यपत्यं न भवति, तत्र "इणतः" (२/६/५) इणित्यर्थः (दु० टी०)।
२. पूत्रोऽपि पौत्रादिकार्यकरणशीलत्वात् तथा व्यपदिश्यते (दु० टी०)।
३. गर्गादिराकृतिगण इति । गर्गादिप्रभृतिश्च गणपुस्तकेऽभियुक्तैर्वेदितव्य इत्यर्थः (वि० प०)।
४. अभिधानलक्षणा हि कृत्तद्धितसमासाः (क० च०)। [रूपसिद्धि
१. गार्ग्यः । गर्गस्यापत्यम् । गर्ग + ङस् + ण्य +सि । प्रकृत सूत्र से ण्यप्रत्यय, "वृद्धिरादौ सणे" (२/६/४९) से आदि वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से अकारलोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. वात्स्यः। वत्सस्यापत्यम् । वत्स + ङ्स् + ण्य +सि। ण्यप्रत्यय, आदिवृद्धि, अकारलोप, लिङ्गसंज्ञा एवं विभक्तिकार्य ।
३.जामदग्न्यः।जमदग्नेरपत्यम् | जमदग्नि + ङस् + ण्य +सि। यहाँ केवल अपत्य अर्थ में ही ण्यप्रत्यय होता है।
४. पाराशर्यः। पराशरस्यापत्यम् । पराशर + ङस् + ण्य +सि । पूर्ववत् यहाँ भी अपत्यार्थ में ण्यप्रत्यय ||३६८।
३३९. कुनादेरायनः स्मृतः [२/६/३] [सूत्रार्थ] गोत्रापत्य अर्थ में कुञादिगणपठित शब्दों से आयनण् प्रत्यय होता है ।।३६९ । [दु० वृ०]
कुञादेर्गणाद् गोत्रादिभूतात् पौत्रादावेवापत्येऽभिधेये आयनण् भवति । ण्यश्च स्मृतस्तदन्तात् प्राङ् नडादेरबहुत्वेऽस्त्रियाम् । तदेतत् कथं स्मृतग्रहणस्येष्टविषयत्वात ।
Page #468
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
४२६ कौशायन्यः, कौञ्जायन्यौ । ब्राध्नायन्यः, ब्राध्नायन्यौ । स्त्रियान्तु कौआयनी ? बहुत्वे च कौञ्जायनाः । नडादेस्तु नाडायनः । एवं चारायणः, मौजायनः । कुञ्जो नाम कश्चित् तस्यापत्यं कौञ्जिः । प्रथमापत्यं च कौजिः । कुनादिराकृतिगणः।।३६९।
[दु० टी०]
कुजा० । ण्यश्चेत्यादि । स एवान्तो यस्येति विग्रहः । तच्छब्देनायनण् उच्यते आयनणन्तादित्यर्थः । पाक्षिकी वृत्तिस्तु न स्यात् 'रूटिशब्दा हि तद्धिताः' इति स्मृतग्रहणस्येष्टत्वाद् वा आयनण् ण्यान्तोऽपत्यार्थमभिधत्ते तत्सन्नियोगेन ण्यस्य विधानात् । न च प्रत्येकमपत्यार्थो युज्यते ।प्राङ् नडादेरिति वक्तव्ये यद् वृत्तावादिग्रहणं तद्व्याप्त्यर्थम्, अन्यथा नडापेक्षया एकशब्दग्रहणमेव प्रतिपद्यते । अबहुत्वेऽस्त्रियामिति कुञ्जस्यापत्यं स्त्रीति विगृह्य आयनण्मात्रं तथा कुञ्जस्यापत्यानि बहूनीति विगृह्य कुञ्जस्य प्रथमापत्यं स्त्रीति विगृह्य इण् तदन्तादी-कौञ्जी | कुञ्जस्य प्रथमापत्यानि बहूनि स्त्रियः कौज्यः इति भवतिः।
कुञादिः- कुञ्ज, ब्रन, बुध, शङ्ख, भस्मन्, गण, लोमन्, शठ, शाक, शुण्डा, शुभ्र, विपाश, स्कन्द (स्कम्भ), नड, चर, बक, मुञ्ज , इतिक, इतिका, उपक्, नमक, शलकु, शलङ्कञ्च, सप्तल, राजन्य, अग्निशर्मन्, वृषगण, प्राणनव, श्यामक, शावक, यावक, दास, दारु, दाश, मिश्रद्वीप, पिङ्गर, पिङ्गल, किङ्कर, किङ्कल, कातर, काश्य, काश्यप, काश्याङ्ग, काव्य, लाव्य, अज, अमुष्य, कृष्णरणौ ब्राह्मणवाशिष्ठे, अमित्र, निलिगुचित्र, कुमार, क्रोष्टु, क्रोष्टञ्च, क्रोष्टपत्, लोह, वर्ग, दुर्ग, स्तम्भ, कुस्तम्ब, दण्ड, शिंशपा, अग्र, तृण, अग्रहन्, शकट, सुमनस्, मिनत, कुशम्ब, मिशत्, युगन्धर, हंसक, दण्डिन्, हस्तिन्, पञ्चाल, चमसिन्, सुकृत्य, स्थिरक, ब्राह्मण, अश्वल, चटक, बदर, खरप, कासुक, कामुक, अध्वर, ब्रह्मदत्त, हरिताद्यण, उदुम्बर, (उडुम्बर), शोण, अलोह, दण्डप ।
गर्गादिभ्य इण् । शरद्वच्छुनकदर्भभार्गववात्स्याश्रयणेषु (वात्स्याग्रयणेषु) । पर्वतजीवन्तौ वा । द्रोणो वा । अश्व, अश्वन्, शङ्खविद्, पटुविद्, पटुरोहिन् । (पटुरोहित), खजूर, खर्जर, खाधव, पिञ्जल, भण्डित, हरित, तणित, प्रकृत, वामोद, क्षत्र, ग्रीवा, आकाश, काश, गोनाङ्क (गोनद्ध), अर्द्ध, श्ववन, वल, (वन), पाद, पद, चक्र,
Page #469
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४२७
कुल, भ्रूण, श्रविष्ठा, पवित्रा, परमविन्दा, लोमिन्, श्याम, धूम, धूम्र, वाग्मिन्, विश्वानर, कूट, जड, जल, नवग्रीष्म, अर्हन्, वीक्ष, विशम्प, विशन, विशाल, गिरि, चपल, नय, शय, वत्सक (वासक), वैण्य, शप, आत्रेयेश पुंसि, जात, अर्जुन, अर्धन्, शूद्रक, सुमनस्, दुर्मनस्, अभिमनस्, आत्रेय भरद्वाजे, भरद्वाज आत्रेये, उत्स (उत्सव), आतप, कितव, शिव, खदिर, भर्ग त्रैगर्ते ।
इणाद्यपवादोऽयम् | शलङ्कु शलङ्कं चेति पठ्यते । शलङ्कुशब्द आयनणमुत्पादयति शलङ्कं चापद्यते । शालङ्कायन इति । कथं शालङ्किरिति ? ' रूढिशब्दा हि तद्धिता:' इति इणपि दृश्यते शलङ्कभावश्चेति । अग्निशर्मन् वृषगणे इति । आग्निशर्मा-यणो वृषगणः, अन्यत्राणेव आग्निशर्मः । गोत्रादिभूतात्तु बाह्वादित्वादिण् आग्निशर्मिः । द्वीपशब्दोऽत्र पठ्यते, स च देशवचनः, साहचर्यादपत्येन युज्यते । अपत्यवद्भ्यां स्त्री-पुंसाभ्यां युक्तो देशोऽप्यपत्यवान् । द्वैपायनो व्यासः [ अन्ये तु द्वीपायनो व्यासः] । अपरे तु द्वीपा इति गन्धकन्या नामाचक्षते । नदीमा नुषीनामभ्योऽणेवाभिधीयते इति । अणि प्राप्ते आयनण् भवति । अनन्तरापत्येऽप्यत्राभिधीयते । पौत्ररूपेणैव वर्तत इति अन्ये। अमुष्य इति पठ्यते । आमुष्यायणः, निपातनाद् विभक्तेरलोप इति अन्ये । कृष्णवणौ ब्राह्मणवाशिष्ठे इति कृष्णवशब्दौ यथाक्रमं ब्राह्मणे वाशिष्ठे चार्थे आयनणमुत्पादयत इति । कार्ष्णायणो ब्राह्मणः, वाणायनो वाशिष्ठः, वशिष्ठगोत्र इत्यर्थः । अन्यत्र कार्ष्णिः, वाणिः । क्रोष्टः, क्रोष्टं चेति । क्रोष्टुशब्द आयनणमुत्पादयति । क्रोष्टं चापद्यते - क्रौष्टायनः ।
हरितादिर्विदाद्यन्तर्गणः ऋषिवचनः, पौत्रादावेवापत्येऽभिधानादणन्तश्च । पौत्रादेरस्त्रियामपत्यमात्रे आयनणमुत्पादयति-हारितायन इति । गर्गादिण्यसहचरित इणपि पित्रादविहित एव ग्रहीतव्यः । पौत्रादेरस्त्रियां गुर्वायत्त इत्यपत्यमात्रे आयनण् स्यात् । गार्ग्यायणः, दाक्षायणः। शरवच्छुनकदर्भभार्गववात्स्याश्रयणेषु (वात्स्याग्रयणेसु) । शारद्वतायनो भवति भार्गवश्चेत् । शारद्वतोऽन्यः बिदादित्वादण् । शौनकायनो भवति वात्स्यश्चेत् । शौनकोऽन्यः, बिदादित्वादण् । दार्भायणो भवति आश्रयण - (आग्रयण - ) श्चेत्, दार्भिरन्यः, इणतः । पौत्रादावित्येव शारद्वतः । पर्वतजीवन्तौ वेति - पार्वतायनः, पार्वतिः, जैवन्तायनः, जैवन्तिः । पौत्रादावित्येव - पार्वतिः, वैजन्तिः । द्रोणो वेति पृथग्वचनादपत्यमात्रे आयनण् - द्रौणायनः, द्रौणिः । पुनर्वावचनमुत्तरत्र वानिवृत्त्यर्थम् ।
Page #470
--------------------------------------------------------------------------
________________
४२८
कातन्वव्याकरणम् वैण्यशब्दोऽत्र पठ्यते । वैणिर्नाम राजर्षिस्तस्यापत्यं वैण्यायनः । गगदिराकृतिगणत्वात् । स्वराणामादावाद् वृद्धिमतो ण्यो भवति । शप आश्रये इति शापायनः, आत्रेयश्चेत्, अन्यत्र शापिः । पुंसि जातेति । जातस्यापत्यं जातायनः । पुंसीति किम् ? जाताया अपत्यं जातेयः । भारद्वाजायन आत्रेयश्चेत् । अन्यत्र भारद्वाजः, ऋषि-वचनत्वादण् । भर्ग त्रैगर्ते इति भार्गायणः । त्रैगर्त इति किम् ? भागिरिति । अन्यथा नडापेक्षया एक एव शब्दो विप्रतिपद्यत इति । इष्टविषयत्वादिति । इष्टः प्रयोगो विषयो यस्य तस्य भावस्तत्त्वं तस्माद् इति शेषः ।गोत्रादिभूतादित्यस्य प्रत्युदाहरणमाह-कुओ नामेति । पौत्रादावित्यस्य तु प्रथमापत्यं कौञ्जिरिति ।।३६९।
[वि० प०]
कुनादेः। तदन्तादिति आयनणन्तादित्यर्थः । प्राङ् नडादिरिति कुाद्यन्तर्गणो नडादिस्ततः प्रागित्यर्थः ।।३६९।
[क० च०]
कुत्रा०। अत्रापि कुञ्जादेरिति गणस्यैकत्वादाह-गणादिति । तदन्तादिति स एवार नण् अन्तो यस्येति तस्मात् कुञाद्यन्तर्गणान्नडादेः प्राक्तनाद् गणात् । 'कुञ्ज, ब्रन, शङ्ख, भस्मन्, गण, लोमन्, शट, शाक, शुण्डा, शुभ्र, विपाश, स्कन्द, स्कम्भ' इत्येतस्मात् त्रयोदशशब्दाद् आयनणन्ताण्ण्य इत्यर्थः । द्वाभ्यां प्रत्ययाभ्यामेकमेवापत्यमुच्यते । नडादिति सिद्धे वृत्तावादिग्रहणं गणपरिग्रहार्थम् । अन्यथा नडापेक्षया एक एव शब्दो विप्रतिपद्यते इति । इष्टविषयत्वादिति । इष्टः प्रयोगो विषयो यस्य तस्य भावस्तत्त्वं तस्मादिति शेषः । गोत्रादिभूतादित्यस्य प्रत्युदाहरणमाह - कुञ्जो नामेति । पौत्रादावित्यस्य तु प्रथमापत्यं कौजिरिति ।
[अन्यपुस्तकपाठान्तरम्] - कुञा० । प्राङ् नडादेरिति प्राङ्नडादित्युक्ते सिध्यति यदादिग्रहणं तद् व्याप्यर्थम् । टीकायामयमर्थः- नडादित्युक्ते नडस्याव्यवहितं यत् तदेव प्राप्यते । आदिग्रहणे सति बहुव्रीहिणा सामान्य उक्तः । अतो नडादेः सामान्यगृहीतत्वात् पूर्वमपि सामान्यं स्यादित्यादिग्रहणम् । स्मृत इत्यादि । सोऽनुभूतः प्राक् स एव स्मर्यते ततोऽत्र प्राप्तं स्यात् ।।३६९।
Page #471
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४२९
[समीक्षा]
कुञ्जादि शब्दों से गोत्रापत्य अर्थ में 'कौञ्जायन्यः, नाडायनः' आदि शब्दों के साधनार्थ पाणिनि ने ‘च्फञ् ' प्रत्यय का विधान किया है - "गोत्रे कुआदिभ्यश्च्फञ् " (अ०४/१/९८), "आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् " ( अ० ७/१/२) से फू को आयन् आदेश होता है । कातन्त्रकार ने साक्षात् ही आयनण् प्रत्यय किया है । कुञ्जदि के आकृतिगण होने से प्रयोगानुसार अनेक शब्दों का समावेश परवर्ती आचार्यों ने किया है । [रूपसिद्धि]
१. कौआयन्यः । कुञ्जस्य गोत्रापत्यं पुमान् । कुञ्ज + ङस् + आयनण् + ण्य + सि । प्रकृत सूत्र से आयंनण् प्रत्यय, नडादि से पूर्ववर्ती होने के कारण ण्यप्रत्यय, आदिवृद्धि, अकारलोप, लिङ्ग संज्ञा, सिप्रत्यय तथा सकार को विसगदिश ।
२. कौञ्जायन्यौ । कुञ्जस्य गोत्रापत्ये पुमांसौ । कुञ्ज + ङस् +आयनण् + ण्य + औ । प्रकृत सूत्र से आयनणू, ण्य, आदिवृद्धि, अकारलोप तथा " ओकारे औ औकारे च" ( १/२/७ ) से अकार को औकार - परवर्ती औ का लोप ।
३ - ४. ब्राध्नायन्यः । ब्रध्नस्य गोत्रापत्यं पुमान् । ब्रध्न + ङस् + आयनण् + ण्य + सि | ब्राघ्नायन्यौ |ब्रध्नस्य गोत्रापत्ये पुमांसौ । ब्रध्न + ङस् + आयनण् + ण्य + औ । आयनण् – ण्य प्रत्यय, आदिवृद्धि तथा विभक्तिकार्य ।
- ७. नाडायनः । नडस्य गोत्रापत्यं पुमान् । नड + ङस् + आयनण् + सि । चारायणः । चरस्य गोत्रापत्यं पुमान् । चर + ङस् + आयनण् + सि । मौञ्जायनः । मुञ्जस्य गोत्रापत्यं पुमान् । मुञ्ज + ङस् + आयनण् + सि । प्रकृत सूत्र से आयनण् प्रत्यय, अनुबन्धलोप, आदिवृद्धि तथा विभक्तिकार्य ॥ ३६९।
३७०. स्त्र्यत्र्यादेरेयण् [२/६/४]
[सूत्रार्थ]
स्त्रीलिङ्गवाले आ - ई - ऊ - तिप्रत्ययान्त तथा अत्र्यादि गणपठित शब्दों से अपत्य अर्थ में एयण् प्रत्यय होता है || ३७०।
Page #472
--------------------------------------------------------------------------
________________
४३०
कातन्त्रव्याकरणम्
[दु० ०]
स्त्रियां विहितत्वात् स्त्री । स्त्रियामादादिभ्योऽत्र्यादेश्चापत्येऽभिधेये एयण् भवति । वैनतेयः, सौपर्णेयः, कामण्डलेयः, यौवतेयः, आत्रेयः, शौचेयः । आदिग्रहणात् शौभ्रेयः, वैष्णपूरेयः । अत्रिरयमप्रत्ययेदन्तद्विस्वरोपलक्षणम्, तेन मरीचेरपत्यं मारीचः, दाक्षेरपत्यं दाक्षायणः । अत्र्यादिराकृतिगणः ।।३७०।
[दु० टी०]
स्त्यत्र्या० । स्त्रीति स्वरूपं न गृह्यते “एयेऽकद्र्वास्तु लुप्यते" (२/६/४७) इति वचनात् । नाप्यर्थोऽत्र्यातौ विमातृशब्दस्य पाठात् । यच्च स्त्रियां क्तिः, तत्रापत्येन योगाभावः क्रियार्थकत्वादित्याह - स्त्रियां विहितत्वादित्यादि । केवलानां स्त्रियामादादीनां प्रयोगाभावात् तदन्तग्रहणम् । विनतायाः, सुपाः , कमण्डल्वाः, युवतेरपत्यमिति विग्रहः । यूनस्तिरिति लोकोपचाराद् इति । तेन दरदोऽपत्यं दारदः, अणेव । अत्रेरपत्वं शुचेरपत्यम् इति विग्रहः । अत्र्यादिः- अत्रि, शुभ्र, विष्णुपुर, ब्रह्मकृत, शतद्वार, शलाखल, शलाका, भ्रूलेखा, क्षुद्रा, विधवा, विकसा (विकास), रोहिणी, रुक्मिणी, वापिनी, दिशशालुक, अजबस्ति, शकन्धि, गोधा, लक्षणश्यामयोर्वाशिष्ठे। ध्रुवो वश्चान्तः। कल्याणी, सुभगा, दुर्भगा, बन्धकी, स्वस, जरतिन्, बलिवर्दिन्, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्रीणामन्तश्चेन । कुलटाया वा । कृकलासा, अनीवी (अणीव), प्रवाहण, भारत, भारम, मृकण्ड (मृकण्डु), कर्पूर, इतर, अन्यतर, देवतर, आलीढ, सुदन्त, सुदक्ष, सुनामन्, कद्रु, शुद, अकषाय, कुमारिका, कुवेरिका, किशोरिका, शारिका, जिक्षाशिन् (जिह्माशिन्), परिधि, वायुदत्त, वासुदत्त, शकल, शबल, खदूर, अम्बिका, (स्वस्तिका), अकोका, गन्धपिप्पल, खातोन्मत्ता, खाडोन्मत्ता (खनोन्मत्ता, खेटोन्मत्ता), कुदत्ता, कुशत्य (कुशम्ब), अस्वप, अनुसृष्टिन् (अनुदृष्टिन्), जरतिन्, शुक, शुक्र, उग्र, बीज, श्वन, अश्व, अजिर, विमातृ । नदीमानुषीनामभ्योऽणेवाभिधानाद् येऽत्र स्त्रीलिङ्गाः पठ्यन्ते तद्बाधनार्थं द्विस्वराभ्यः स्त्रीभ्यः एयणेव, न तु मानुषीनामत्वाद् अणभिधीयते । यथा दत्तायाअपत्यं दात्तेय इति । नद्यास्तु द्विस्वराया अणेवाभिधीयते । सिप्राया अपत्यं सैप्रः, सैध्रः, वैणः, कौल्यः, कैलः, सान्ध्यः । क्षुद्राया एयणपि दृश्यते । विधवाशब्दादेयणेव व्युत्पाद्यते । क्षुद्राङ्गहीना अनियतपुंस्का चोच्यते । तद् यथा - काणाया अपत्यं काणेरः, काणेयः ।
Page #473
--------------------------------------------------------------------------
________________
३१
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः दास्या अपत्यं दासेरः, दासेयः । गोधाशब्दादायणेयणौ दृश्येते, एयणपि व्युत्पाद्यते । तद् यथा-गौधारः, गौधेरः, गौधेयः । लक्षणश्यामयोर्वाशिष्ठ इति लाक्षणेयो वाशिष्ठः, लाक्षणिरन्यः । श्यामेयो वाशिष्ठः, श्यामायनोऽन्यः । ध्रुवो वश्चान्त इति ध्रौवेवः । एवं कल्याणिनेयः, कौलटिनेयः, कौलटेरः, कौलटेयः।।३७०।
[वि० प०]
स्त्यत्र्यादेः। स्त्री च अत्र्यादिश्चेति समाहारद्वन्द्वः। सत्यपि समाहारद्वन्द्वस्य नपुंसकत्वे "नामिनः स्वरे" (२/२/१२) इति नुर्न भवति सूत्रत्वात् । इह सत्यपि "स्वं रूपं शब्दस्याशब्दसंज्ञा" (अ० १/१/६८) इति वचने स्त्रीति स्वरूपस्य न ग्रहणम् । "एयेऽकवास्तु लुप्यते" (२/६/४७) इति वचनात् । नापि स्त्र्यर्थोऽत्र्यादौ विमातृशब्दस्य पाठात् । अन्यथा स्यर्थद्वारेणैव सिद्धं तस्मादुपचारादिह स्त्रियां विहितः प्रत्ययःस्त्रीत्याहस्त्रियामित्यादि । यद्यपि क्तिप्रत्ययोऽपि स्त्रियां विहितस्तथापि न तस्य ग्रहणम् । क्रियार्थकत्वाद् अपत्येन तदन्तस्य योगाभावादित्याह - स्त्रियामादादिभ्य इत्यादि ।विनतायाः, सुपर्णायाः, कमण्डल्वाः, युवतेरपत्यमिति विग्रहः । बह्वन्तकद्रुकमण्डलुभ्यः संज्ञायामिति नदादिदर्शनात् कमण्डलुशब्दाद् ऊप्रत्ययः । यथा लोकोपचाराद् यूनस्तिरिति युवन्शब्दात् स्त्रियां तिप्रत्ययः। अत्रिरित्यादि । न विद्यते प्रत्ययो यस्मादसावप्रत्ययः। अप्रत्ययश्चासाविदन्तश्चेति अप्रत्ययेदन्तः स चासौ द्विस्वरश्चेति पुनः कर्मधारयः। तस्योपलक्षणम् अत्रिशब्दं सादृश्यादित्यर्थः। तेनागणपठितादप्येयण सिद्धः। तथा चोपलक्षणमात्रं दर्शितं शौचेय इति ।। ३७०।
[क० च०]
स्त्यत्र्या० । ननु कथं शौचेयः, अत्र्यादिगणे पाठाभावाद् इत्यत आह-अत्रिरयमित्यादि । तेन बहुस्वरस्य न स्यात्-मारीचः । प्रत्ययान्तस्य न स्याद् दाक्षायण इति । दक्षस्यापत्यं दाक्षिः, तस्यापत्यमित्यर्थः। आकृतिगणत्वमेवात्र बीजम् ।
[पुस्तकान्तरे पाठः]
स्यत्र्या० । स्त्रियामित्यादि । स्त्रियामादादिर्यस्येति विग्रहः । अन्यआह -स्त्रियामित्यादि ।तद्धित एवोच्यते उपचारात् । “एयेऽकद्भवाः" (२/६/४७) इति । अथात्र अत्र्यादिराकृतिगणोऽयमिति वक्ष्यति, तदाऽत्रापि तदेव न्यायादेव सिध्यति ।
Page #474
--------------------------------------------------------------------------
________________
४३२
कातन्वव्याकरणम्
नैवम्, अविरेवाकृतिगणः ।तत्प्रसङ्गेनादिशब्देनोदितः, अतष्टीकायामादिशब्दार्थो गम्यते । अतोऽत्र न प्राप्यत इत्येव,शौचेयमिति सिद्धं स्याद् अन्यथा परलक्षणेन किम् ? विधिरिति नियमार्थःस्यादिति चेत्, विधेर्नियमो ज्यायान् इति कश्चिदाह ।गुरु-रेवाह -अत्रिशब्ददृष्ट्या लक्षणा स्यात् । अथ कल्याणी, सुभगा, दुर्भगा इत्यादि कथं गणे, गत्यर्थत्वादेव सिद्धत्वात् ? 'गणकृतमनित्यम्' (का०परि०२९) इति ज्ञापनार्थम् । अथ नदीमानुषीनामभ्योऽणेव तद्बाधनाय पठिताः ।।३७०।
[समीक्षा]
"विनता - अत्रि' आदि शब्दों से अपत्यार्थ में 'वैनतेयः, आत्रेयः' आदि शब्दों के साधनार्थ पाणिनि ने "स्त्रीभ्यो टक" (अ० ४/१/१२० - १२७) आदि सूत्रों से 'ढक्' प्रत्यय का विधान किया है | "आयनेयीनीयियः फटखछयां प्रत्ययादीनाम" (अ० ७/१/२) से द को एय् आदेश होता है | कातन्त्रकार ने साक्षात् 'एयण' प्रत्यय किया
[रूपसिद्धि]
१. वैनतेयः। विनताया अपत्यम् । विनता + ङस् + एयण् + सि | प्रकृत सूत्र से एयण् प्रत्यय, आदिवृद्धि, आकारलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश ।
२.सोपणेयः ।सुपर्णायाः सुपर्णा वाऽपत्यम् । सुपर्णा (सुपर्णी)+ ङस् + एयण+सि । एयणप्रत्यय, आदिवृद्धि, आकारलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा विसगदिश ।
३. ६, कामण्डलेयः। कमण्डल्वा अपत्यम् । कमण्डलु + ङस् + एयण् + सि । यौवतेयः । युवतेरपत्यम् । युवति + ङस् +एयण + सि | आत्रेयः। अत्रेरपत्यम् । अत्रि + ङस् + एयण् + सि |शौचेयः ।शुचेरपत्यम् । शुचि + ङ्स् + एयण् + सि । पूर्ववत् प्रकृत सूत्र से सर्वत्र एयण् प्रत्यय, "वृद्धिरादौ सणे" (२/६/४९) से आदिवृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च"(२/६/४४) से इकार आदि का लोप, "धातुविभक्तिवर्जपर्यवल्लिगम्" (२/१/१) से 'शौचेय' आदि शब्दों की लिङ्गसंज्ञा, प्रथमाविभक्ति-एकवचन में सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से सकार को विसगदिश।
Page #475
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
७- ८. शौभ्रेयः । शुभ्राया अपत्यम् । शुभ्रा + स + एयण् + सि ।
I
वैष्णपुरेयः । विष्णुपुरस्यापत्यम् । विष्णुपुर + ङस् + एयण् + सि । पूर्ववत् एयण्
आदि कार्य || ३७० ।
३७१. इणतः [२/६/५]
[सूत्रार्थ]
अकारान्त नाम (स्याद्यन्त) पद से अपत्यार्थ में इण् प्रत्यय होता है || ३७१ । [दु० ०]
४३३
अकारान्तान्नाम्नोऽपत्येऽभिधेये इण् भवति । दक्षस्यापत्यम् - दाक्षिः । एवं प्लाक्षिः। अस्यापत्यम् इः। अत इति किम् ? कैलालपः । शतसर्वकाकशुक्लवृद्धराजपुरुषमाथुरकारकेभ्यः संख्यादिभ्यो न भवति, अनभिधानात् । कथं ' प्रदीयतां दाशरथाय मैथिली' ( वा० रा० ६ / ९ / २२ ) इति ? " तस्येदम् " ( २ / ६ / ७) इत्यण् ॥। ३७१ । [दु० टी०]
इणतः । अस्यापत्यमिति । सत्यपि "येन विधिस्तदन्तस्य " (का०परि० ३ ) इति वचने केवलादप्याकाराद् भवति । अयमपि व्यपदेशिवद्भावेनाकारान्त इति भावः । ननु 'अत सातत्यगमने ' (१/३) इत्यस्य क्विबन्तस्य स्वरूपस्य ग्रहणं कथं न स्यात् ? सत्यम् । न ह्येकमुदाहरणं प्रति योगारम्भं प्रयोजयति । शिवादिभ्योऽणेव व्यवस्थितविभाषाश्रयणादित्येके । एभ्य इत्यादि । अनभिधानादिण् न भवतीत्यर्थः । अभिधानं शब्दः, तस्याभावोऽनभिधानम् | शतादिशब्दा हि अपत्याभिधायिनो न सन्तीत्यर्थः । अथवा अपत्यमभिधित्सता इणुत्पद्यते । न च शतादिभ्यः इणुत्पद्यमानोऽपत्यमभिधत्ते इति प्रयोजननिबन्धनस्याप्रयोजनोत्पत्तिरयुक्तेति वाचकस्य वाच्याभावोऽनभिधानम् । कथमित्यादि । दशरथस्यापत्यमिति विवक्षायामिणा भाव्यमिति दाशरथिः । कथं वाशिष्ठः, नाकुलः, वासुदेवः, श्वाफल्कः इति ? सत्यम् | अभिधानाद् ऋषिकुरुवृष्ण्यन्धकवाचिभ्योSणेव । ऋषयः प्रसिद्धा वशिष्ठादयः कुरवो वृष्णयः । अन्धका वंश्याख्याः । यथा ऋष्यर्थो नित्यस्तथा कुरुवृष्ण्यन्धकवंश्या अपि नित्या एवाभिधानादित्वात्, तेषु ये नकुलसहदेवादयस्तत इदमणाभिधानमित्यदोषः ।
Page #476
--------------------------------------------------------------------------
________________
४३४
कातन्त्रव्याकरणम् त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्द्धनम् ।
प्रसीद जीवेम सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली ॥ (वा० रा० ६/९/२२) इति श्लोकसमुदायः । अन्यत्र दशरथस्यापत्यं दाशरथिरिति स्यादेव ।।३७१।
[वि० प०]
इणतः। अकारान्तादिति । अनेन 'अत सातत्यगमने' (१/३) इत्ययमिह क्विबन्तो न गृह्यते इति दर्शयति । न ह्येकमुदाहरणं प्रति योगारम्भं प्रयोजयति । अस्यापत्यमित्यत्र व्यपदेशिवद्भावादकारान्तत्वम् । “इवर्णावर्णयोः" (२/६/४४) इत्यादिना अकारलोपे प्रत्ययमात्रं पदम् । कथमित्यादि ।
त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्धनम् ।
प्रसीद जीवेम सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली॥ (वा० रा०६/९/२२) इति श्लोकसमुदायः । अन्यत्र दशरथस्यापत्यं दाशरथिरिति स्यादेव ।।३७१।
[क० च०]
इणतः। अत इति किमिति | आदित्युक्ते लुप्तपञ्चमीशङ्कायामाकारान्तादेव स्यादिति भावः |शतसर्वेत्यादि ।शतादिकारकेभ्यः संख्यादिभ्यश्च – 'एकपुरुष' इत्यादिभ्योऽपत्यप्रत्ययो न भवति । किन्तु शतस्यापत्यमित्यादि वाक्यमेवेत्यर्थः । वृत्तौ कारक इति अपपाठ एव टीकाकृता एभ्य इत्यादीति दर्शितत्वात् । अतः कारकेभ्य इत्येव पाठः । कारकः शब्द एव गृह्यते न तु संज्ञा, शतादिसाहचर्यात् । अपत्यार्थस्य सम्बन्धिशब्दत्वेन षष्ठयन्तात् कारक संज्ञानुपपत्तेश्च । अनभिधानादिति । अभिधानं हि शब्दस्तस्याभावोऽनभिधानम् । शतादिशब्दानामपत्यार्थाभिधायिनामभावात् शतादिभ्यो विहितेन इणादिनापत्यार्थस्यानभिधानाच्च । सर्वशब्दस्य सर्वनामत्वे काकशब्दस्य च व्यक्तित्वे एव निषेधाभिधानम् । तेन सर्वो नाम कश्चित् तस्यापत्यं सार्विः । एवं काकिः । शुक्लादीनां च जातित्वादेव निषेधः । शुक्लो नाम कश्चित् तस्यापत्यं शौक्लिरिति कुलचन्द्रः । कथमित्यादि । अथ दशरथशब्दस्य सख्यादित्वात् कथमिह
Page #477
--------------------------------------------------------------------------
________________
नामचतुष्टयाभ्याये षष्ठस्तद्धितपादः प्राप्तिर्येन "तस्येदम्" (२/६/७) इत्यणिति परिहार उच्यते ? सत्यम् । दशरथ इति अव्युत्पन्नः संज्ञाशब्दः ।
[पुस्तकान्तरे पाठः]- इणतः। अत इति किमिति, आदित्यास्ताम् । यतस्तत्कालस्य कारशब्दः परश्च तदभावे सवर्णस्य, तदस्माकं न सम्मतम् । परपक्षमवलम्ब्योक्तम् – संख्यादिभ्य इति, संख्यासहितेभ्य इत्यर्थः । श्लोकसमुदाया इति । श्लोकसमुदायोऽनेकश्लोकेनैव स्यात्, कथमिदमुच्यते ? सत्यम् । श्लोकावयवेऽत्र श्लोकशब्दो लक्षणयेति ।।३७१।
[समीक्षा]
'दक्ष, प्लक्ष' आदि अकारान्त शब्दों से अपत्यार्थ में 'इ' प्रत्यय करके 'दाक्षिः, प्लाक्षिः' आदि शब्दरूप दोनों व्याकरणों में सिद्ध किए गए हैं । पाणिनि का सूत्र है - "अत इञ्' (अ० ४/१/९५)। ञ् और ण् अनुबन्ध अपने - अपने व्याकरणों की व्यवस्था के अनुसार किए गए हैं । 'दाशरथाय' शब्द में इण्प्रत्यय का अभाव तथा अण् प्रत्यय का विधान पाणिनि ने शेषविवक्षा मानकर किया है तथा शर्ववर्मा ने लोकाभिधान के अनुसार । वृत्तिकार दुर्गसिंह आदि ने केवल 'अ' से भी इण् प्रत्यय करके 'इ:' रूप सिद्ध किया है - अस्यापत्यम् इः।
[रूपसिद्धि]
१. दाक्षिः । दक्ष + इण् + सि | दक्षस्यापत्यम् । प्रकृत सूत्र से 'इण्' प्रत्यय, अनुबन्धलोप, “वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर को वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से क्षकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१) से 'दाक्षि' शब्द की लिङ्ग संज्ञा प्रथमाविभक्तिएकवचन सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से स् को विसगदिश |
२. प्लाक्षिः । प्लक्ष + इण् + सि । प्लक्षस्यापत्यम् । शेष पूर्ववत् ।।
३. इः । अ + इण् + सि । अस्यापत्यम् । प्रकृत सूत्र से इण्प्रत्यय, अनुबन्धलोप, “इवर्णावर्णयोर्लोपः स्वरे ये च" (२/६/४४) से प्रकृतिरूप 'अ' का लोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।। ३७१ ।
Page #478
--------------------------------------------------------------------------
________________
४३६
कातन्त्रव्याकरणम्
३७२. बाह्रादेश्च विधीयते [ २/६/६ ]
[ सूत्रार्थ ]
बाह्वादिगण - पठित शब्दों से अपत्य अर्थ की विवक्षा में इण् प्रत्यय होता
है ।। ३७२ ।
[दु० वृ० ]
बाह्लादेर्गणादपत्येऽभिधेये इण् विधीयते । बाहविः, उपबाहविः । बैन्दविः, औपबिन्दविः। गोत्रादिभूतादेव - बाहुर्नाम कश्चित् तस्यापत्यं बाहवः । बाह्लादिराकृतिगणः || ३७२ । [दु० टी०]
बाह्वा० । बाहु, उपबाहु, चटक, बिन्दु, उपबिन्दु, विकला, कृकला, चूडा, वलाका, मूषिका, भगमाला, ध्रुवका, शनका, सुमित्रा, दुर्मित्रा, पुष्करसद्, अनुहरत्, अनड्वाह्, देवशर्मन्, अग्निशर्मन्, कुनामन्, सुनामन् पञ्चन्, सप्तन्, अष्टन्, सुधावन्त्, उदन्च्, शीर्ष, माष, कल्प, शराविन्, क्षेम, धन्वन् (क्षमधन्वन्), शङ्खनादिन्, शङ्खभेदिन्, शृङ्खलादिन्, खरनादिन्, नगरमर्दिन्, लोम, अजीगर्त, अष्टागर्त, कृष्ण, युधिष्ठिर, नकुल, अर्जुन, साम्ब, गद, प्रद्युम्न, सम्भूयोऽम्भोऽमितौजसां सलोपश्च । व्यास, सुधावत्, वरट, चाण्डाल, निषाद, बिम्ब (विस्म), कश्चान्तः । अनकारार्थोऽयमारम्भः क्वचिद् बाधकबाधनार्थः। सम्भूयआदीनामुभयार्थः पाठः !
साम्भूयिः, आम्भिः, आमितौजिः । सुधावच्छब्दो वन्त्वन्तः सौधावतिः । उदन्शब्दः क्विबन्तो निपातनादिह नलोपाभावः, औदञ्चिः । शीर्षशब्दः शिरः पर्यायः, तदन्तविधिरत्र केवलस्य नपुंसकस्यापत्येन योगाभावात्, तथा लोमन् - शब्दोऽपि । हास्तिशीर्षिः, और्ध्वलोमिः । हस्तिशिरसोऽपत्यम् इति विग्रहेऽपि दृश्यते । व्यासादीनां गोत्रादिभूतानामिति न संबध्यतेऽनादिपुरुषत्वाद् वैयासकिः । बाह्लादिराकृतिगण इति । जाङ्घिः, वामजाङ्घिः, ऐन्द्रशर्मिः, आजधेनविः ।। ३७२ ।
[क० च०]
बाहुरादिर्यस्य गणस्येति विग्रहः । " इणतो बाह्वादेश्च” इत्येकयोगे कृतेऽतः स्वरूपस्य ग्रहणं स्यादिति पृथगुच्यते । औपबाहविरित्यादि । बाहुबिन्दुपाठेनैव सिद्धे
Page #479
--------------------------------------------------------------------------
________________
नाभवतुष्टयायाये षष्ठस्तद्धितपादः
४३७ उपबाहूपबिन्दुपाठो ज्ञापयति – बाह्वादिगणे 'ग्रहणवता लिङ्गेन तदन्तविधिर्नास्ति' (पु० परि० ७८) इति ।।३७२।
[समीक्षा]
'बाहु, बिन्दु' आदि अकारान्तभिन्न शब्दों से अपत्य अर्थ में 'इ' प्रत्यय करके 'बाहविः, बिन्दविः' आदिशब्दरूप दोनों ही व्याकरणों में सिद्ध किए गए हैं । 'उकारान्त, आकारान्त, व्यञ्जनान्त' आदि अनेक प्रकार के शब्दों को बाह्वादिगण में उभयत्र पढ़ा गया है । पाणिनि ने ञ् अनुबन्ध तथा शर्ववर्मा ने ण् अनुबन्ध की योजना वृद्धिविधानार्थ की है।
[विशेष वचन]
१. बाहुबिन्दुपाठेनैव सिद्ध उपदाइपबिन्दुपाठो ज्ञापयति - बाह्वादिगणे 'ग्रहणवता लिङ्गेन तदन्तविधिर्नास्ति' इति (क० च०)।
[रूपसिद्धि]
१. बाहविः । बाहु + इण् + सि | बाहोरपत्यं पुमान् । प्रकृत सूत्र से इण् प्रत्यय, अनुबन्धलोप, "वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर की वृद्धि, "उवर्णस्त्वोत्वमा पायः” (२/६/४६) से हकारोत्तरवर्ती उकार को ओकार, "कार्यावनालादेशौ" (२/ ६/४८) से ओकार को अव्, 'बाहवि' की लिङ्गसंज्ञा, प्रथमा -- एकवचन में सिप्रत्यय तथा "रेफसोर्विसर्जनीयः' (२/३/६३) से स् को विसगदिश ।
२. उपबाहविः । उपबाहु + इण् + सि । उपबाहोरपत्यम् । अन्य सभी कार्य पूर्ववत् ।
३. बैन्दविः । बिन्दु + इण् + सि | बिन्दोरपत्यं पुमान् । प्रकृत सूत्र से इण् प्रत्यय, अनुबन्धलोप, आदिवृद्धि, उ को ओ, ओ को अव्, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
४. औपबिन्दविः । उपबिन्दु + इण् + सि । उपबिन्दोरपत्यं पुमान् । अन्य सभी कार्य क्रमसं० ३ की तरह || ३७२ ।
Page #480
--------------------------------------------------------------------------
________________
४३८
कातन्त्रव्याकरणम्
३७३. रागान्नक्षत्रयोगात् समूहात् साऽस्य देवता । तद् वेत्त्यधीते वा तस्येदमेवमादेरणिष्यते [२/६/७ ] [ सूत्रार्थ ]
रागयुक्त शब्दों से रक्त अर्थ में, नक्षत्रवाची शब्दों से युक्त अर्थ अधीते वा, तस्येदम्' आदि अनेक
में तथा 'समूह, साऽस्य देवता, तद्वेत्ति अर्थों में अण् प्रत्यय होता है ।। ३७३ ।
[दु० वृ०]
रागयोगाद् रागः । कौसुम्भम्, हारिद्रम् | कुसुम्भेन हरिद्रया वा रक्तमित्यर्थः । कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादाविति ? तद्गुणाध्यारोपात् । नक्षत्रस्य योग इन्दुनैव तत्सम्बन्धात् कालोऽभिधीयते । अविधिस्तु श्रुतादेव नक्षत्रशब्दात् । पौषमहः, पौषी रात्रिः, तैषमहः, तैषी रात्रिः । पुष्येण चन्द्रयुक्तेन युक्ता रात्रिरित्यर्थः । “कृत्तिकासु विशाखासु मघासु भरणीषु च " इति नक्षत्रशब्दैरभेदोपचारात् | यद्यपि कालाभिधानं तथाप्यण् नास्ति विकल्पनात् । धर्मिणो ह्यभिन्नः समूहः । वायसम्, काकम्, भैक्षम्, यौवतम् । शिवो देवता अस्येति शैवः । एवम् ऐन्द्रं हविः, ऐन्द्रो मन्त्रः । छन्दो वेत्ति अधीते वा छान्दसः । एवं वैयाकरणः । मृगस्येदं मार्गं मांसम् । एवं शौकरम् ।
एवमादिर्यस्येति शब्दार्थयोः संबन्धेन गणो गृह्यते । चक्षुषा गृह्यते चाक्षुषं रूपम् । एवं श्रावणः शब्दः । दृशदि पिष्टाः दार्शदाः सक्तवः । उदूखले क्षुण्णा औदूखला मुद्गाः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् | चतुर्दश्यां दृश्यते रक्षः चातुर्दशम् । तत्र भवस्तत्र जातस्ततो वा आगत इत्यादि विग्रहः कार्यः । आकृतिगणोऽयम् || ३७३ ।
[दु० टी०]
रागा० । रज्यतेऽनेनेति रागः । करणसाधनोऽयम् | अर्थस्य चेदं ग्रहणम् अभिधानादिति कषायादिरुच्यते । रजिरयमस्त्येवाऽऽसक्तौ यथा योषिति रक्तः । वर्णविशेषे च यथा रक्तो गौर्लोहित इति । अथ वर्णान्तरापादने च यथा रक्तः पद इति ।
Page #481
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४३९ वर्णान्तरापादनमिह रओरर्थोऽभिधीयते इति भावः । रागयोगाद् राग इति । एतेन किमुक्तम्, अभेदोपचारोऽत्राभिधातव्यः । यथा दण्डयोगाद् दण्डः पुरुषः इति । अण्विधिस्तु श्रुतादेव रागवाचिनः शब्दाद् भवन् स्वार्थिकत्वाद् द्योतकत्वमापद्यते । "तेन रक्तं रागात्" (अ० ४/२/१) इत्यनेन योऽर्थः सोऽभेदोपचाराद् इत्यनेन लब्ध इति वस्त्व-भेदं दर्शयन्नाह - कुसुम्भेनेत्यादि । यदि वर्णान्तरमापद्यते येन स इह राग उच्यते तदा, 'काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादौ' इति न सिध्यति । न ह्यत्र वर्णान्तरमापादितम्, दैवनिर्मितत्वात् तेषामिति मन्यमान आह - काषायावित्यादि । यथा बाहीकेऽर्थान्तरे गोर्गुणेनाध्यारोप्य (गोत्वम्) गोशब्दः प्रयुज्यते – गौर्बाहीक इति । तथा काषायादिशब्दोऽपि गर्दभकर्णादाविति मन्यते । लाक्षारोचनाभ्यामिकणेव क्रीतादेराकृतिगणत्वात् । लाक्षया रक्तं लाक्षिकम्, रोचनया रक्तं रौचनिकम् । तथा शकलकर्दमाभ्यां वा - शाकलिकम्, शाकलम् । कार्दमिकम्, कार्दमम् । नीलीपीतीभ्यामण् - अकणाविति न वक्तव्यम् । नीलगुणयोगान्नीलम्, पीतगुणयोगात् पीतकम् । स्वार्थे को भवति । यदा तु नील्या पीतक्या वा वर्णान्तरमापादितमिति विवक्षा तदाप्यण् नास्ति, अनभिधानात् । नक्षत्रस्य योग इन्दुनैवेत्यादि । योग-शब्दसान्निध्यान्नक्षत्रशब्दोऽर्थवाची नक्षत्रविशेषवाचिना योगादित्यर्थः । इन्दुरयं नक्षत्राधिपतिः । क्रमशो नक्षत्राण्यधितिष्ठति यस्मादत इन्दुनैव योगोऽन्तरङ्ग इति भावः । नक्षत्रयोगयुक्तोऽत्र नक्षत्रयोग उच्यते स पुनः कालएवान्तरङ्गत्वादित्याह - तत्सम्बन्धादित्यादि । तेन नक्षत्रयोगेन सम्बन्धादित्यर्थः । अथवा सूत्रे नक्षत्रसमीपवर्तिनि शशिनि नक्षत्रशब्दः । तत्सामीप्यात् तद्व्यपदेशो लोके दृश्यते । तथापि पुष्येणाधीते, पुष्येण भुञ्जते इति पुष्ययुक्तेन चन्द्रेणेत्यर्थः प्रतीयते, तदा न योजनं योगः इति भावे घञ्, किन्तु कर्मणि । नक्षत्रेण युक्ताऽर्थ-सिद्धिः ।पुष्य इति विवक्षायामपि नैवाण, बहिरङ्गत्वाद् योगस्य । ___ रूटिशब्दा हि तद्धिता इति । कृत्तिकास्वित्यादि । विकल्पनादिति वाशब्दोऽत्र वर्तते, तेन पक्षेऽण् न भवतीत्यर्थः । अत्र 'कृत्तिका' इत्यादिशब्दोऽधिकरणार्थ इति भेदः । श्रवणा रात्रिरिति श्रवणायुक्ते चन्द्रमसि श्रवणाशब्दः श्रवणोऽत्रास्तीति अर्शआदित्वाद् व्युत्पाद्यते । यदा त्वभेदविवक्षा तदा श्रावणी रात्रिरिति विकल्पो
Page #482
--------------------------------------------------------------------------
________________
४४०
कातन्त्रव्याकरणम् वा पूर्ववत् किं श्रवण-पुष्याभ्यामणो लुविधानेन । धर्मिणो ह्यभिन्नः समूह इति । एतेन समूहशब्दश्चार्थपर इति व्याख्यातं भवति । प्रत्ययस्तु स्वार्थिक एव पूर्ववत् । 'तस्येदमेवमादेः' इत्यादिना सिद्धम् । स्वराणामादावाद् वृद्धिमतः शेषेऽर्थे ईयोबाधनार्थं वचनम् । सेति प्रथमान्ताद् अस्येति षष्ठ्यन्तार्थेऽण् भवति तत् प्रथमान्तं देवतावाचि चेत् । इन्द्रो देवता अस्य हविषः, इन्द्रो देवता अस्य मन्त्रस्य इति विग्रहः । यस्य हि शिवे भक्तिस्तस्य शिवो देवतेति किं तत्र भक्तिरिति विशेषवचनेनेति भावः । नायं नियोगो यागसम्प्रदानभूतैव देवतेति अपि तु पूजार्हा । सा च द्विविधा माल्यादिभिः स्तुत्या च । इन्द्रः स्तूयते येन मन्त्रेण स ऐन्द्र उच्यते । तदिति द्वितीयान्ताद् वेत्यधीते वा अणिति । कथमेतत् प्रथमाद्वितीययोः समान रूपम् ? सत्यम् । सेति प्रथमान्तानुवृत्तौ यत् तदिति पुनर्वचनमाह - ततो द्वितीयान्तमिति निश्चीयते लिङ्गस्यातन्त्रत्वात् ।
ननु तच्छब्दोऽयं सामान्यवचनो न विशेषार्थमुपादत्ते, अव्यभिचारात् । यश्चार्थस्तच्छब्देनोपात्तस्तदभिधायिना एवाणा भवितव्यम् । न खलु छन्दआदयः शब्दाः सामान्यमभिदधति ? सत्यम् । न सामान्य कार्योपयोगित्वेनोपादीयते, अपि तु विशेषोपलक्षणार्थम् । कथन्नाम लघुनोपायेन सामान्याश्रया व्यक्ती : प्रतिपद्येरन्निति सामान्यमुपादीयते । यथा गौरनुबन्ध्योऽजोऽग्नीषोमीय इति सामान्यावच्छिन्नव्यक्तिविशेषसम्बन्धालम्बनं प्रतिपाद्यमिति जातिरुपादीयते, न च स्वकार्यप्रतिपत्त्यर्थं जातेरालम्भनादीनामसम्भवात् तथेदमपीति भावः । वाग्रहणं वाक्यभेदार्थम् । तेन यस्तु केवलं वेत्ति नाधीते, अधीते वा केवलं न वेत्ति तत्र प्रत्येकं विधिर्भवति । अथ तच्छब्दस्यैवानुवृत्तिः प्रत्येकं भविष्यति । यथा तेन दीव्यति संसृष्टं चरतीति, नैवं तत्रापिग्रहणं कृतं प्रतिपत्तिगौरवपरिहारावेति स्थितम् । तस्येदमिति । तस्येति विभक्तिनिर्देशः, इदमिति प्रत्ययार्थनिर्देशः । तस्येदमेवम्प्रकार आदिर्यस्येति विग्रहः । लोकोपचाराद् ग्रहणसिद्धौ लुविधाने च तथान्येऽपि दर्शिताः ।। ३७३ ।
[वि० प०]
रागात् । रञ्जिरयमनेकार्थो दृश्यते । तद् यथा आसक्तौ – वेश्यासु रक्तः इति । वर्णविशेषे - रक्ता गौर्लोहितवर्णा इत्यर्थः । वर्णान्तरापादने च – रक्तः पटः इति । इह पुनर्वर्णान्तरापादनमभिधीयते । अतो रज्यतेऽनेनेति रागः कुसुम्भादिर एवोच्यते । तेन
Page #483
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४४१ रागेण कुसुम्भादिना युक्तोऽपि वस्त्रादिरभेदोपचारादिह रागः। यथा दण्डयुक्तः पुरुषो दण्ड इत्याह -रागयोगाद् राग इति । यद्यपि रागादिति रागयुक्तादित्यर्थस्तथापि श्रुतत्वाद् रागवाचिनः शब्दात् प्रत्ययो न वस्त्रादिशब्दात् । कुसुम्भमेव कौसुम्भम् | हरिद्वैव हारिद्रमिति प्रत्ययस्तु स्वार्थिकत्वाद् द्योतको भवन्नादभेदोपचारहेतुकं रागेण योगमेव द्योतयति । अतस्तेन रक्तं रागाद् इत्यस्यार्थी युक्तितः सिद्ध इति । वस्त्वभेदं दर्शयन्नाह - कुसुम्भेनेत्यादि । यदि वर्णान्तरापादनमिह रओरर्थस्तर्हि कथं काषायौ गर्दभस्य कर्णी, हारिद्रौ कुक्कुटस्य पादौ इति । न ह्यत्र वर्णान्तरमापादितं तस्य स्वभावसिद्धत्वादित्याह - तद्गुणाध्यारोपादिति । तस्य काषायादिना रक्तस्य काषायादिशब्दवाच्यस्य पटादेर्यो गुणो वर्णान्तरापादनलक्षणस्तस्य सादृश्याद् गर्दभस्य कर्णादावध्यारोपस्तस्मात् काषायादिशब्दस्तत्रापि वर्तत इत्यर्थः । यथा गौर्वाहीक इति । गोर्गुणाध्यारोपाद् वाहीके पुरुषे गोशब्दो वर्तत इति । नक्षत्रस्येत्यादि । योजनं योगः संबन्धः, स चार्थद्वारक एवेति । इन्दुरयं नक्षत्राधिपतिः, स च क्रमशो नक्षत्राण्यधितिष्ठति । अतस्तेनैव योगोऽन्तरङ्गः इहाप्यभेदोपचारान्नक्षत्रयोगयुक्तोऽपि नक्षत्रयोग उच्यते । स पुनरभिधानात् काल इत्याहतत्सम्बन्धादिति, तेन नक्षत्रयोगेन सम्बन्धादित्यर्थः । पूर्ववदत्रापि स्वार्थिक एव प्रत्ययो द्योतकः । पुष्य एवाहः पौषमिति । तिष्यपुष्ययोर्नक्षत्रेऽणि यस्य विभञ्जनाद् इति वचनाद् यकारलोपः । यदा तु कालो नाभिधीयते पुष्येण चन्द्रयुक्तेन युक्तार्थसिद्धिः पुष्य इति विवक्षा तदा कालस्यानभिधानाद् बहिरङ्गत्वाद् वा तत्सम्बन्धस्याण् न भवति | तस्मान्नक्षत्रैरिन्दुयुक्तैः काल इति न वक्तव्यम् । अस्यार्थः सामर्थ्यलब्ध इति ।
अर्थस्याभेदं दर्शयितुमाह - पुष्येणेत्यादि । विकल्पनादिति “वाऽणपत्ये" (२/ ६.१) इत्यतो वाशब्द इह वर्तते । ततः पक्षेऽण् भवतीत्यर्थः, धर्मिणो ह्यभिन्नः समूह इति । हिशब्दो यस्मादर्थे । यस्माद् धर्मिणः सकाशात् समूहो धर्मो भेदेन नोपलभ्यते, तस्माद् धर्येव समूह इत्यभेदनिर्देशे बीजमिदमुक्तम् । एतेन समूहशब्दोऽप्यर्थपरो न शब्दपर इति दर्शितम् । इहापि स्वार्थे भवन् प्रत्ययो वायसादिशब्दानां समूहवर्तित्वं द्योतयति । वायसा एव वायसम् इति किन्तस्य समूह इत्युक्तेनाभेदनिर्देशादेव तदर्थस्य लब्धत्वाद् वायसानां समूह इत्यर्थः । ननु वायसानामयं समूह इति "तस्येदम्" (२ / ६/७) इत्यादिना सिध्यति । किनभेदेन (परेण) समूहग्रहणेन इत्ययुक्तं स्वराणामादावाद्
Page #484
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम
४४२ वृद्धिमतः शेषेऽर्थे ईयः स्यात् । अत एव वायसं काकमित्यादावाकारवतो दर्शितमुदाहरणमिति । शिवो देवता इत्यादि । यस्य हि शिवे भक्तिस्तस्य शिवो देवता, किन्तत्र भक्तिरिति वचनेनेत्याह-शिवो देवता अस्येति शैव इति ।
ननु देवता हि यागसम्प्रदानभूता, सम्प्रदानं च सम्प्रदेयापेक्षम् । सम्प्रदेयं च पुरोडाशादि, तत्र इन्द्रो देवता अस्येति ऐन्द्रं हविरिति युक्तम् । कथम् ऐन्द्रो मन्त्र इति । न ह्यत्र सम्प्रदेयत्वमस्तीति, तदयुक्तम् । यागसम्प्रदानभूता च देवतेति वार्तमेतत् । किन्तर्हि पूजार्हा हि देवता । पूजा च द्विविधा पुरोडाशादिभिः स्तुत्या च । तत्रेन्द्रः स्तूयते येन मन्त्रेण स तस्य देवतेति सिद्धम् । एवं सति शैव इत्यत्राप्यदोषः । एवमित्यादि । एवमादिर्यस्येति तस्येदमित्येवम्प्रकार आदिर्यस्येति विग्रहः । एवमादेराकृतिगणत्वात् "तत्र जातः" (२/६/७) इत्यादिष्वप्यर्थेष्वण् इत्याह - तत्र जात इति । यथा तिसृकायां जातस्तत्र भवस्ततो वा आगतः तैसृक इति । एवमन्येऽपि बहुलं शिष्टप्रयोगानुसारेण वेदितव्या इति ||३७३।
[क० च०]
पुस्तकान्तरे पाठः-रागा० । वाग्रहणं वाक्यभेदार्थम् । तेन यस्तु केवलं वेत्ति नाधीते, अधीते वा केवलं न वेत्ति तत्र प्रत्येकं विधिः स्यादिति । अथ तच्छब्दानुवृत्ती प्रत्येकं भविष्यति । यथा “तेन दीव्यति संसृष्टं तरति०" (२/६/८) इति चेत्, तर्हि प्रतिपत्तिगौरवं स्यादिति वाग्रहणम् । कौसुम्भम् इत्यादि । लाक्षारोचनाभ्यामिकण् एव क्रीतादेराकृतिगणत्वात् । लाक्षया रक्तं लाक्षिकम्, रोचनया रक्तं रौचनिकमिति टीका | इन्दुनैवेति । अन्तरङ्गसंबन्धादिति भावः । ननु "तस्य समूहः' (२/६/७) इति वचनात् परेण तस्येति षष्ठ्यन्तात् समूहेऽर्थे समूहिनोऽण् विधीयते । भवन्मते तद्वचनाभावात् कथं समूहिनोऽणित्याह - धर्मिणो ह्यभिन्न इति । धर्मिणं स-हिनमन्तरेण समूहाभावात् तस्यावकाशत्वादिति शेषः । शब्दार्थयोः संबन्धेनेति तस्येति षष्ठ्यन्तादिति शब्दस्य इदमिति त्वर्थस्य ।संबन्धेनेत्यर्थः । गण इति । एतेन तृतीयान्ताद् गृह्यते इत्यनेनैव स्यादिति बोद्धव्यम् । एवमादेरुदाहरणमाह -चक्षुषेति । तत्र भव इत्यादि । तत्र ज्ञातभवयोः को भेदश्चेत् ? सत्यम् । जातशब्दस्योत्पन्नार्थत्वेनातीतार्थत्वाद् भवशब्दस्य हि कालविशेषे व्युत्पन्नार्थत्वाभावात् सामान्यकालतेति । यद् वा जात इत्यस्याभूतप्रादुर्भावार्थः, भव इत्यस्य तु सत्त्वार्थकतेति भेदः । ननु तस्येदमेवमादेरण्णित्येतावन्मानं सूत्रमुच्यताम् ।
Page #485
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४४३ राजादीनामर्थानामेवमादौ प्रवेशे साध्यस्य सिद्धत्वाद् अथविशेषा अपि एवमादेराकृतिगणत्वाल्लब्धव्याश्चेत्, नैवम् । कुसुम्भेन रक्तं कौसुम्भम्, तस्येदमित्यर्थे स्वराणामादावाद् वृद्धिमतः इति ईयप्रत्ययबाधनार्थं रागादीनामुपादानम् । कौसुम्भस्येदमित्यर्थे वाक्यमेवेति टीकाकृतोऽपि हृदयम् ।
__ रागात् । करणसाधनोऽयमर्थपरोऽपि रागशब्दो रज्यतेऽनेन रागो वर्णान्तरापादनमुच्यते । रागयोगाद् राग इत्युक्तम्, ततो वस्त्राभ्यन्तरकुसुम्भादिः स्यात् तदापि योगोऽस्तीति कथन्न स्यात्, नैवम् । योगसंबन्धो हि क्रियाद्वारक एव तत्पुनरस्य व्यञ्जकसंबन्धः पूर्व एवात्र ततो वर्णान्तरापादनमेव प्राप्तम् यदुक्तं ‘दण्डः पुरुषः' इति दृष्टान्तं तदपि लक्षणाद्वारेणैव न सर्वथापादनसादृश्यम् । अथ कथं लक्षणा, सा हि मुख्यार्थबाधे स्यात् । न ह्यत्र रागशब्दार्थो न घटते ? सत्यम्, सा हि तात्पर्यानुपपत्तिपूर्विकाऽपि स्यात्, ईषत् प्रणीतं साध्यं तत्प्रयुक्ततात्पर्यं तस्यानुपपत्त्या लक्षणा स्यात् । तथा चोक्तम् -
काकेभ्यो रक्ष्यतामन्नमिति बालोऽपि चोदितः।
उपघातस्य प्राधान्याच्छागेम्यः किन्न रक्षति ॥ (वा० प०२/३१२)। ___ अत्रान्नरक्षणमेव प्रयोक्तृभिः प्रतिपाद्यम् । अथ तथापि घटादेः कथन्न स्यादित्याह - श्रुतत्वादित्यादि । रागशब्दस्य श्रुतत्वात् तद्वाचकस्यापि श्रुतत्वं वर्णान्तरापादनं वर्णान्तरसमवायो न कथं गुणः ? सत्यम् । लक्षणपदेनात्र चिह्नमुच्यते । वर्णान्तरापादनेन लक्ष्यते वर्णान्तरस्यैव तत्स्वरूपश्च गुणः । तद्गुणेत्यादि । अथ कथमन्यस्य गुणोऽन्यस्मिन्नध्यारोप्यते नहि पटस्य शुक्लत्वं घटे आरोपयितुं पार्यते ? सत्यम् । अत्र लक्षणा वर्तते, सा हि द्विविधा - शुद्धा गौणी च । 'गङ्गायां घोषः' इति शुद्धा, गौणी- 'गौर्वाहीकः' ? सत्यम् । अत्र लक्षणया जाड्यमान्द्यादिरुच्यते । देवदत्तस्य गोः सामानाधिकरण्यसत्त्वेऽपि जाड्यमान्द्यद्वारेणैव गुणी स्यात् । पूर्वत्र पुनः संबन्धः समीपगामिपर इति भेदः । अतो गौणी लक्षणा, पटादेर्यो गुणो रक्तादिस्तस्याध्यारोपप्रयोजनम् अतिशयेन रक्तत्वप्रतिपादनम् । तथा चोक्तम् -
स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ (का०प्र०२/१०)।
Page #486
--------------------------------------------------------------------------
________________
४४४
कातन्त्रव्याकरणम्
यथा - कुन्ताः प्रविशन्ति, गङ्गायां घोषः । लक्षणा किन्तु मुख्यार्थ एव । तथा चोक्तम् -
मुख्यसंकेतितं केचित् ख्यातिख्यातस्य चान्यथा।
सर्वत्र लक्षणा नैव परत्वे वस्तुलक्षणा ॥इति । उपचारगौणानां प्रस्तावाद् भेदः कथ्यते । उपचारगौणौ लक्षणाया भेदौ । सर्वत्र मुख्यार्थबाधेनैवान्यार्थप्रतीयमानयोरेकार्थाभिधानमुपचारः । यथा चन्द्रमुखं चन्द्राभिन्नमुखं भिन्नं तयोरेकार्थाभिधानयोरुपचारः प्रवर्तते । 'गङ्गायां घोषः' इत्यत्र लक्षणा पुनः पदद्वयस्य सद्भावो नास्ति किन्त्वेकस्मिन् गङ्गापदे लक्षणेत्युपचारेण भेदः । ननु यद्येवं भेदोऽस्तु कथं गङ्गासमीपो देशो गङ्गेत्युपचारादिति पञ्याम् । न ह्ययमुपचारः पूर्वलक्षणायोगात् ? सत्यम् । स्वार्थबाधेऽन्यार्थसंवादनमुपचारः इति येनोच्यते । गौणो यथाऽन्यार्थप्रतीयमानयोर्द्वयो!च्चारणम्, किन्तु प्रकरणसाचिव्येन बुध्यते गौणः । यथा गौरयमिति प्रस्तावेन पुरुषो बुध्यते ।
ननु द्वयमिति निर्देशाद् द्वयोरपि साक्षान्निर्देशस्तत्कथं घटते पूर्वव्याख्यानेनैवायमित्यनेन साक्षात् पुरुषो नोच्यते किन्तु गोविशेषणमपि घटते, किन्तु प्रस्तावात् पुरुषप्रतीतिः । “तेन रक्तं रागात्" (अ० ४/२/१) इति परः । अस्यार्थः- रागवाचिनः शब्दात् तेन युक्तमित्यर्थे प्रत्ययः स्यादित्यर्थः । नक्षत्रैरिन्दुयुक्तैः कालः इति सहार्थे तृतीयेयम् ।इन्दुयुक्तैर्नक्षत्रैः सह कालेऽभिधेये प्रत्ययः स्यादिति । तदस्मन्मते कथमित्याह - योगः संबन्ध इत्यादि । अत उभयं विना न स्याद् इन्दुनेति प्राप्तं तत्संबन्धादिति । नक्षत्रयोगशब्देन लक्षणया तत्कालवाचकनक्षत्रे नक्षत्रशब्दो वर्तते । कालोऽभिधीयते इति यदुक्तं तद्विशेषणरूपमिति बोद्धव्यम् । यथा वृक्षशब्दोक्तौ वृक्षत्वमप्युच्यने । यदि काल एवाभिधीयते इत्युच्यते तदा पुनर्लक्षणा न स्यात्, मुख्यार्थबाधे तस्याभिधानात् । अथ नक्षत्रयोगशब्देन यदुक्तं तत् पुष्यशब्देन कथमुच्यते ? सत्यम् । अनयाऽपि तात्पर्यानुपपत्त्या लक्षणा स्यात्, ततः पूर्वोक्तार्थे वृत्तिः नीलेन रक्तमिति । अत्र नीलमिति न स्यात् परेणात्र तद्धितलुग् विधीयते । तस्येति अस्मन्मते भेदोपचारेणैव प्रवर्तते । धर्मेणेति | अथ "तस्य समूहः" (अ० ४/२/३७) इति परसूत्रम् । समूहेऽर्थे प्रत्ययः । भवन्मते कथं समूहो धर्मस्तस्माद् भवितुं न पार्यते किन्तु तद्वाचकात्, तदा समूहशब्दात्
Page #487
--------------------------------------------------------------------------
________________
४४५
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः स्यात्, नैवम् । अभेदेन यः शब्दः समूहं वक्ति तेनैव समूहशब्देन स्वार्थाभिधेय उच्यते । सर्वं देश्यं निरस्यति धर्मिण इति । अथ भिन्नत्वं कुतो भेदाभावात्, भेदाभावः कथमिति चेदुच्यते -अत्र अद्वैतवादिनो मते एवं भेदखण्डनम् ।
तथाहि धर्मधर्मिणोभेदः अभेदो वा भेद इति चेत् तर्हि भेदप्रयोजकधर्मो वाच्यः स किमन्ययोभिन्नः अभिन्नो वा भिन्न इति चेत् तदात्रापि भेदप्रयोजकधर्मो वाच्योऽनवच्छेद्यादृतो भेदः । वैयाकरणानान्तु मते धर्मिणो धर्मस्तु पृथक् न स्यात् पृथक्त्वेनानुपलम्भात् । तथा ब्राह्मणसम्बन्धायार्थः प्रदीयतां ब्राह्मणेभ्यश्च न प्रदीयतामिति विधिनिषेधवाक्ये भेदेन गृह्यते । यथा देवत्तयज्ञदत्तयोर्भेदस्ततो यज्ञदत्ताय प्रदीयतामित्युक्ते देवदत्ताय न प्रदीयते, अतो वायसपदेन न वायससमूह उक्त इति पक्षेऽण् । भैक्षं यौवतमिति यदुक्तं तत् स्थिते एतदपि विषयीकरोतीति ।
साऽस्येति । अथ कस्मात् स्यादण्प्रत्ययः श्रुतत्वादेव देवतावाचकात् स्यादेवेति चेत्, नैवम् । अस्येत्यनेन देवताया अपि श्रुतत्वम् ? सत्यम् । 'सा' इत्यनेनोपस्थापिताया देवताया एव मुख्यत्वप्रतिपाद्यत्वाद् अतस्तस्मादण् स्यादिति । यद् वाऽस्येति प्रथमान्तमनुकृत्य लुप्तपञ्चम्येकवचनं पदं देवतात्वेनानुभूतत्वात् प्रत्ययः स्यात्, अस्य देवतेत्यर्थेऽस्मिन् पक्षे प्रकरणबाधो न सर्वत्र पञ्चमी कार्यिपदादिति । तर्हि देवतायामभिधेयायाम् अण् कथं गौरो देवदत्तः' इति । किन्तु 'शैव' इति, शिवो देवताऽस्येत्यर्थः स्यात् ? सत्यम् । अस्य देवतेति गम्यमानार्थोऽयम् । अस्य देवतेति गम्यमानेऽण् स्यात् तदेव गम्यमानत्वमाराध्याराधकसम्बन्धे आराध्याराधकेऽण् स्यादित्यर्थः । ‘माघवतः' इत्यादौ कथं देवतार्थेऽण् इति ? सत्यम् । प्रवृत्तिनिमित्तत्वेन देवतापि स्यात्, नहि प्रवृत्तिनिमित्तत्वं विहायास्ति अण् । वृक्षत्ववद् वृक्षस्येति गम्यमानत्वं देवतार्थस्येति समाम्नायविदः।
कश्चिद् आह - अस्येत्याराध्याराधकसम्बन्धे षष्ठी, सम्बन्धस्य द्विष्ठत्वाद् आराधकेऽपि स्यादिति । यागसम्प्रदानभूतेति एतत्पक्षे 'शैवः' इत्यत्रापि न दूषणम् । आराध्याराधकसंबन्धे स्यात् । वार्तमेतदिति निष्फलमित्यर्थः । यतोऽत्र ग्रहादावतिव्याप्तिः, सोऽपि यागसम्प्रदानभूत इति । भूतेत्यादि । पूजा द्विविधा - द्रव्यादिना, स्तुत्यस्तवनसंबन्धेन च । यद्येवम् एतत्पक्षे ग्रहादावतिव्याप्तिः स्यात् ? सत्यम् । यागेषु मुख्यत्वे
Page #488
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
सति, मुख्यत्वम् । तर्हि तत्राप्युपाधिर्दातव्यः, नैवम् । तथापि 'ऐन्द्रो मन्त्रः' इत्यत्राव्याप्तिः स्यात् । अधीतिरिति ज्ञानविशेषेऽध्ययनविशेष वर्तते न तु सामान्ये | तस्येति षष्ठ्यन्तमनुकृत्य लुप्तपञ्चम्येकवचनम् । एवमादिरित्यादि | एवम्प्रकार आदिर्यस्येति शब्दगणस्य एवम्प्रकार आदिर्यस्यार्थगणस्येत्याह -शब्दार्थयोरित्यादि ।
ननु कथमर्थसङ्गतिः, पञ्चम्या अघटनात् । अर्थगणपक्षे न ह्यर्थगणात् प्रत्ययः किन्तु शब्दगणादेव, अर्थस्तावदणोऽभिधेय एव ? सत्यम् । “ल्यब्लोपे पञ्चम्युपसंख्यानम्" (का० वृ० २/३/२८) इति । तथा ह्येवमादिगणमवलम्ब्याण् प्रत्ययः शब्दगणप्रकृतित्वे नानात्वादर्थगणद्वारा वा उच्यते नापरा गतिरिति । चक्षुषेति तृतीयान्ते एव-म्प्रकाराद् गृह्यते । एवम्प्रकारार्थे स्यात्, एवं सर्वत्र बोध्यम्, तर्हि पूरणे किम् ? सत्यम् । अन्यप्रत्ययश्च कृतः स्यात्, तदा 'तत्र भवः' इत्यनयोरयं भेदो योग्यतयापि भव इति वक्तुं पार्यते । यथा मगध्यपदेनैतद्देशस्थोऽप्युच्यते, विनावनिजात इति न स्यादिति । यद् वा भावः सन् सत्तायोगी जातिर्जननसाधक इति । तथाहि मधुरायां भवो यः सोऽत्र वृक्षायोगी तस्यात्र भव इति वक्तुं युज्यते । अत्र जात इति वक्तुं पार्यत एव ।। ३७३ ।
[समीक्षा]
पाणिनि ने 'राग-नक्षत्र-समूह-देवता' आदि अर्थों में अण्-प्रत्यय का विधान दशाधिक सूत्रों द्वारा किया है, जबकि कातन्त्रकार ने प्रकृत एक ही सूत्र में सात अर्थों को पढ़कर 'आदि'-शब्द के निर्देश से लाघव अपनाया है | पाणिनि के सूत्र हैं - "तेन रक्तं रागात्, नक्षत्रेण युक्तः कालः, साऽस्य देवता, तस्य समूहः, तदधीते तद् वेद, तत्र जातः, तत्र भवः, तत आगतः, तेन प्रोक्तम्, तस्वेदम्' (अ०४/२/ १,३,२४,३७,५९; ३/२५,५३,७४,१०१,१२०)। इस प्रकार सूत्रभेद की दृष्टि से पाणिनीय व्याकरण में गौरव स्पष्ट है ।
[रूपसिद्धि]
१. कौसुम्भम् । कुसुम्भेन रक्तम् | कुसुम्भ + अण् + सु | "वृद्धिरादौ सणे" (२/६/४७) से आदि स्वर उ को वृद्धि औ, "इवर्णावर्णयोर्लोपः स्वरे ये च" (२/६/४४) से भकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१) से 'कौसुम्भ' की लिङ्गसंज्ञा, प्रथमाविभक्ति -एकवचन में सिप्रत्यय तथा "अकारादसंबुद्धौ मुश्च" (२/२/७) से 'मु'-आगम तथा सिलोप |
Page #489
--------------------------------------------------------------------------
________________
४४७
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः २. हारिदम् । हरिद्रया रक्तम् । हरिद्रा +अण् +सि । पूर्ववत् प्रक्रिया ।
३. पौषम् अहः । पुष्येण युक्तम् । पुष्य + अण् + सि । अनुबन्धलोप, आदिवृद्धि, यलोप तथा विभक्तिकार्य।
४. तैषमहः । तिष्येण युक्तम् । तिष्य + अण् +सि । पूर्ववत् ।
५-६. वायसम् । वायसानां समूहः । वायस +अण् +सि । काकम् । काकानां समूहः । काक +अण् +सि । पूर्ववत् प्रक्रिया ।
७-८. भैक्षम् | भिक्षाणां समूहः । भिक्षा +अण् +सि । यौवतम् । युवतीनां समूहः । युवती +अण् +सि । पूर्ववत् प्रक्रिया |
९-११. शैवः । शिवो देवता अस्य । शिव +अण् +सि । ऐन्द्रं हविः । इन्द्रो देवता अस्य । इन्द्र +अण् +सि । ऐन्द्रो मन्त्रः । इन्द्रो देवता अस्य । इन्द्र +अण् +सि | पूर्ववत् प्रक्रिया ।
१२-१३. छान्दसः। छन्दो वेत्त्यधीते वा । छन्दस् +अण्+सि । वैयाकरणः। व्याकरणमधीते वेत्ति वा | व्याकरण +अण् +सि । पूर्ववत् प्रक्रिया |
१४-१५. मार्गम् । मृगस्येदम् । मृग +अण् +सि । शौकरम् । शूकरस्येदम् । शूकर +अण् +सि । पूर्ववत् प्रक्रिया ।
१६ - १७. चाक्षुषम् | चक्षुषा गृह्यते । चक्षुस् +अण् +सि | श्रावणः। श्रवणेन गृह्यते । श्रवण + अण् +सि । पूर्ववत् ।
१८. दार्षदाः सक्तवः । दृषदि पिष्टाः । दृषद् +अण् +जस् । पूर्ववत् । १९. औदूखलाः मुद्गाः । उदूखले क्षुण्णाः । उदूखल +अण् +जस् । पूर्ववत् ।
२० - २१. आश्वो रथः । अश्वैरुह्यते । अश्व +अण् +सि | चातुरं शकटम् | चतुर्भिरुह्यते । चतुर् +अण् +सि | पूर्ववत् ।
२२. चातुर्दशं रक्षः। चतुर्दश्यां दृश्यते । चतुर्दशी + अण् +सि । पूर्ववत् | [विशेष वचन
१. रागयोगाद् राग इति । एतेन किमुक्तम् - अभेदोपचारोऽऽत्राभिधातव्यः । यथा दण्डयोगाद् दण्डः पुरुष इति (दु० टी०)।
२. रूढिशब्दा हि तद्धिता इति (दु० टी०)।
Page #490
--------------------------------------------------------------------------
________________
૪૪૮
कातन्त्रव्याकरणम्
३. लोकोपचाराद् ग्रहणसिद्धौ लुगविधाने च तथाऽन्येऽपि दर्शिताः (दु० टी० ) ।
४. रञ्जिरयमनेकार्थो दृश्यते । तद् यथा
-
आसक्तौ ......, वर्णविशेषे.......
वर्णान्तरापादने च (वि० प० ) ।
५. ‘तत्र जातः, तत्र भवः' आदि अर्थों में अण् प्रत्यय के विधान की चर्चा
व्याख्याकारों ने की है || ३७३ |
=
३७४. तेन दीव्यति संसृष्टं तरतीकणू चरत्यपि । पण्याच्छिल्पान्नियोगाच्च क्रीतादेरायुधादपि ॥ [२/६/८]
[ सूत्रार्थ]
जिससे दीव्यति = द्यूतक्रीडा की जाती है, जिससे संसृष्ट= मिला होता है, जिससे तरति = पार होता है, जिससे चरति = विचरण करता है, उससे तथा पण्य विक्रेय वस्तुञ्ों से, शिल्प = वाद्य आदि व्यवसाय से, नियोग = नियन्त्रण कार्य से, आयुध से व्यवहार अर्थ में एवं क्रीत अर्थ में भी इकण् प्रत्यय होता है || ३७४ |
[दु० वृ०]
तेन दीव्यति, तेन संसृष्टम्, तेन तरति तेन चरत्यपि, अभेदोपचारवृत्तेः पण्याच्छिल्पान्नियोगाच्च यथासंबन्धं क्रीतादेरायुधादपि अभेदोपचारवृत्तेरिकण् भवति । अक्षैर्दीव्यतीति आक्षिकः । दध्ना संसृष्टम् - दाधिकम् । एवं मारीचिकम् । गोपुच्छेन तरति - गौपुच्छिकः । एवं काण्डप्लविको नद्याः । आश्वमेधिको ब्रह्महत्यायाः । शकटेन चरति शाकटिकः । एवं घण्टिकः, प्लविकः । शृङ्गवेरेण चरति शाङ्गवेरिकः । ताम्बूलपण्ययोगात् ताम्बूलिकः । मृदङ्गशिल्पयोगात् - मार्दङ्गिकः । एवं पाणविकः । द्वारनियोगयोगात् - दौवारिकः । एवं शौक्लशालिकः । द्विशूर्पेण क्रीतः द्विशौर्पिकः ! एवं साहस्रिकः । कार्षापणम् अर्हति कार्षापणिकः । तोमरायुधयोगात् तौमरिकः । एवं चाक्रिकः । क्रीतादेरप्यभेदमपेक्ष्य पञ्चमी । क्रियाविर्भावश्च स्पष्टार्थः । कुद्दालेन खनति कौद्दालिकः । ओजः सहोम्भसा वर्तते । औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः इत्यादि || ३७४ | [दु० टी०]
तेनेति । तेनेति तृतीयानिर्देशः । दीव्यतीत्यादयः इकणोऽर्थाः, ततस्तृतीयान्तादिष्वर्थेष्विकण् भवति । दीव्यतीत्यादीनां तु कर्तृवचनत्वात् करणे चेयं तृतीया हेत्वर्थे
Page #491
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४४९ त्वनभिधानात् । सम्पूर्वः सृजिरप्यकर्मक एवेति कर्तरि निष्ठा । एवं मारीचिकमिति, तेन संस्कृतमित्यपि न वक्तव्यमिति भावः । यत्र संस्कारस्तत्र संसर्गोऽस्त्येव । ननु संसर्गो हि मूर्तिमतां सम्भवति, संस्कारश्च सत उत्कर्षाधानम् । यथा विद्यया संस्कृतो वैधिक इति । न खल्वत्र संसर्गःप्रतीयते । तस्मात् “तेन संस्कृतम्" (२/६/७) इति वक्तव्यमेव ? सत्यम् । संसृजिरयं संस्कारेऽपि धातूनामनेकार्थत्वाद् उपचाराद् वेति मन्यते । तथा दना उपसिक्त ओदनः दाधिकः, सौपिकः इति संसृष्टत्वात् । अथ व्यञ्जनैरुपसिक्तमिति वक्तव्यम्, व्यञ्जनशब्दः सूपादावेव रूढः। इह मा भूत् । उदकेनोपसिक्त ओदन इति । नैवम्, यथा सूपेन संसृष्टा (उपसिक्ता) स्थालीत्यत्र न स्यात् । तथेहापीति । रूढिशब्दा हि तद्धिता इति, यथा मुद्गादण विधीयमानः संसृष्टेऽर्थे मुद्गैः संसृष्टा माषा इत्यत्र न भवति । लवणेन संसृष्टा यवागूलवणाल्लुग् न वक्तव्यः । लवणः (लवण्यः) कषायो मधुर इति गुणः सोऽयमित्यभेदात् सिद्धः । यथा शुक्लः पट इति |
अथ लवणशब्दोऽत्र द्रव्यवचनोऽप्यस्ति । यथा लवणः प्रस्थः, पञ्च लवणानीति । इहापि लवणयोगाल्लवणः सूपः इति विवक्षा सर्वदाऽभिधीयते । यथा दण्डयोगाद् दण्डः पुरुष इति । तरतिरयमस्ति प्लवेन | यथा तरति पत्रं न निमज्जति । अस्ति तत्पूर्वक देशान्तरगमने । यथा नदीं तरति अस्त्यभिभवे । यथा तरति ब्रह्महत्याम्, योऽश्वमेधेन यजते इति । तत्र यः प्लवनमात्रवृत्तिस्तस्येदं ग्रहणं तस्याकर्मकत्वात् कर्म नाक्षिप्यते नियताधारत्वात् सामथ्यदिवाधारमपि नाक्षिपति । काण्डप्लविकोऽयमित्युक्ते न किञ्चिदपेक्ष्यम् । इतरत्र तु काण्डप्लवेन नदीं तरति, अश्वमेधेन ब्रह्महत्यां तरतीति नद्याद्यपेक्ष्यं तद्धिते सति सामान्यस्य प्रधानत्वात् सम्बन्ध एवाभिधीयते इत्याह -काण्ड इत्यादि । कथं घण्टिकः, प्लविकः । तत्र क्वचिदधिकाराद् द्विस्वरस्य न वृद्धिः । नाविका स्त्रीति नदादेराकृतिगणत्वादीन भवति । चरतिरयं गतौ भक्षणे च । अत्र गतौ शकटेन चरति शाकटिक इति विशेषणे करणे वा तृतीया । घण्टया चरति पाण्टिक इति विशेषणे हेत्वर्थे वा । विवक्षावशात् सहयोगेऽनभिधानमेव -सह छात्रेण चरति । भक्षणे करण एव तृतीया - शृङ्गवेरेण चरति शाङ्गवेरिक इति । चरतिरिह गतौ रूढः । भक्षणार्थमपि
Page #492
--------------------------------------------------------------------------
________________
४५०
कातन्वव्याकरणम्
केचिदिच्छन्ति । यथा संख्याकालयोरविवक्षा न तथैकप्रकरणस्यापि साधनस्य क्रियाप्रधानत्वादाख्यातस्य क्रियायां विवक्ष्यमाणायां साधनं प्रत्यक्षेणैव क्रियोपकारकं समवैतीति कृते वाक्यार्थे युक्ता साधनविवक्षा । किञ्च तेनेति करणेन सम्बन्धाद् यस्य विवक्षामन्तरेण द्वितीयस्य पदस्य पदैकदेशस्य वा श्रवणमनर्थकं भवति स नियोगतो विवक्षितव्यः । दीव्यतीत्यादिषु तु धात्वर्थमात्रे विवक्ष्यमाणे साधनवाचिनां श्रवणमनर्थकमिति युक्ता विवक्षा।
ननु चाक्षर्देविष्यतीति भविष्यत्यपि प्राप्नोति । देविष्यंश्च देवनस्य कतैव कर्तुरुक्तार्थताभिधानात् । नैतत्, एवं भाविनी कर्तृतामारोप्य उक्तार्थतया यदि भविष्यति कर्तृत्वाध्यारोपत्वान्न भवति तर्हि भूतेऽपि न प्राप्नोति । अझै तवान् आक्षिकः इति भूतपूर्वकत्वात् कर्तृत्वाध्यारोप इति भावः ? सत्यम् । भूतेऽपि संस्कारानुवृत्त्या देवनमाविर्भवदिव भातीति कर्तृत्वम् । यत्र संस्कारावगमो नास्ति, तत्र न भवत्येव । कथमासीद् आक्षिको भविष्यति आक्षिक इति । नैवम्, भूतभविष्यत्कालावगमोऽत्र पदान्तरसान्निध्यात् । अथवा त्रिष्वपि कालेषु । यथा अपचन्नपि योग्यतया पाचक इति व्यपदिश्यते । तथेहापि स्या र्थेऽपीकण भवन् गुणभूतक्रियः कर्तृप्रधान एव स्वभावात् । जयति, जितमिति न वक्तव्यमेव । यो ह्यक्षैर्दीव्यति स कदाचिज्जयति जितो वाऽभिधीयते । रूढिशब्दाश्च तद्धिता इति क्रीतादित्वाद् वा अभेदोपचारवृत्तेः ।
पण्यादिति । पण्यं विक्रेयद्रव्यम्, तत्संबन्धाद् विक्रेतापि पण्यमुच्यते इति भावः प्रत्ययस्तु द्योतकः श्रुतादेव पण्यवाचिनः शब्दाद् भवति किं “तदस्य पण्यम्" इत्युक्तेन । शिल्पं विज्ञानकौशलं क्रियाभ्यासपूर्वकं तत्सम्बन्धाद् विज्ञानवानपि शिल्पमुच्यते श्रुतादेव शिल्पवाचिनः शब्दात् पूर्ववत् प्रत्यय इति किं “तदस्य शिल्पम्" (अ०४/४/५१) इत्युक्तेन | मृदङ्ग-शिल्पयोगान्मार्दङ्गिक इति । कथं मृदङ्गः शिल्पम् ? सत्यम् । मृदङ्गवादने शिल्पे मृदङ्गशब्दस्तद्विषयत्वात् । मृदङ्गो वाद्यते येन शिल्पेन तन्मृदङ्गवादनं तस्मिन् वर्तमानः प्रत्ययहेतुर्न स्वार्थे इत्यर्थः। मृदङ्गवादने वा मृदङ्गशब्द इह वृद्धस्मरणात् कुत इदं चोद्यं क्रियाविषयत्वात् शिल्पस्य क्रियाशब्देभ्य एव इकण् स्यादिति । नृत्यं शिल्पमस्य गीतं शिल्पमस्य वादनं शिल्पमस्येति न द्रव्यवचनेभ्यो मृदङ्गः शिल्पमस्य पणवः शिल्पमस्येति मृदङ्गादिष्वपि वादनादिक्रिया
Page #493
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
विद्यते तद्विषयं शिल्पं विज्ञाप्यते । अथवा मृदङ्गवादनशब्दाद् विधिस्वभावात् तद्धितवृत्त्यैवोक्तार्थः, कुत इह वादनादिक्रियाप्रयोगः । यथा दध्ना संसिक्त ओदनो दध्योदनः इति ? समासेन संसिक्तक्रियोच्यते तथेहापीति भावः ।
४५१
|
एवं सति गौणमुख्यचिन्तापि नावतरतीति । धर्म्युपचारोऽयं धर्मोपचारेण भाष्येऽभिप्रेतः । धर्मो हि शिल्पम्, धर्मिणी क्रिया । सोऽयमित्यभेदसंबन्धेन च धर्मशब्दो धर्मिणि वर्तते । तेन शिल्पे धर्मक्रियैव शिल्पशब्देनाभिप्रेता वादनादिप्रयुक्तत्वाच्च मृदङ्गादीनां हेतुभिः फलस्य युक्तोऽधिगम इति मृदङ्गादयः शिल्पधर्माण एवेति । ननु शिल्पशब्दो न कौशलमात्रमाचष्टे अपि तु कौशलविशेषम् । तथाहि शिल्पिनो रजका - दय एव क्रियानुजीविन उच्यन्ते । नैवम् विज्ञानप्रकर्षमात्रेऽपि शिल्पशब्दः प्रयुज्यते । ‘व्याकरणं शिल्पमस्य, वेदाः शिल्पमस्य, यज्ञः शिल्पमस्य' इतीनन्तेन विशेषाभिधानम् । ‘रूढिशब्दा हि तद्धिताः' इति । यदा तु मृदङ्गकरणं शिल्पमस्येति विग्रहस्तदा मार्दङ्गकरणिकः' इति भवितव्यम् । करणशब्दमन्तरेण तदर्थाप्रतीतेः । द्वारनियोगेत्यादि । नियुज्यतेऽस्मिन्निति नियोगो द्वारादिस्तत्र नियुक्तोऽपि द्वारादिस्तत्र संबन्धाद् दौवारिकः इति । क्वचिदधिकारात् तत्र न वृद्धिः । क्रीताद्यर्थयोगात् क्रीतादिः । क्रीतादेरर्थनिर्देशात् तत्संबद्धैव प्रकृतिरिह प्रतिपत्तव्या । आकृतिगणत्वाच्च यो यत्र दृष्टः स तत्रार्धे इत्याहयथा संबद्धमित्यादि । द्विशौर्पिक इति । तत्र क्वचिदधिकारात् परपदस्यैव वृद्धिः ।
देवदत्तेन क्रीतम्, पाणिनिना क्रीतम्, मूल्येन क्रीतमित्यत्र इकण् न दृश्यते । 'प्रास्थिकम्' इत्युक्ते प्रस्थाभ्यां प्रस्थैर्वा क्रीतमिति संख्याविशेषो न गम्यते । तथा अङ्गुल्या खनतीत्यत्रानभिधानम् | कुद्दालेन खननयोगात् कौद्दालिकः इति । एवं सर्वत्र योज्यम् । ओजसा वर्तते, सहसा वर्तते, अम्भसा वर्तते इत्यर्थदर्शनम् । प्रत्यनुभ्यामीपलोमकूलानि । प्रतीपं वर्तते प्रातीपिकः । एवमानुलोमिकः, आनुकूलिकः । क्रियाविशेषणत्वाद् द्वितीया । परेर्मुखपार्श्वाभ्याम् । परिमुखं वर्तते पारिमुखिकः, पारिपार्श्विकः । तदुञ्छति - बदराण्युञ्छति बादरिकः, उच्चिनोतीत्यर्थः । तद्रक्षति - समाजं रक्षति सामाजिकः । शब्ददर्दुरौ करोति - शाब्दिको वैयाकरण एव रूढः, न काकादिः । दर्दुरशब्दोऽयमातोद्यवाद्यविशेषो दार्दुरिकः । न दर्दुरं घटं करोति यः स उच्यते । मृगपक्षिमत्स्यान् हन्ति - मार्गिकः, पाक्षिकः, मात्सिकः । अर्थप्रधानत्वान्निर्देशस्य पर्यायेभ्यो विशेषेभ्योऽपि । हारिणिकः इति पर्यायस्य शौकरिक इति विशेषस्य ।
1
Page #494
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
४५२
एवम् ऐणिकः, शाफरिकः, शाकुनिकः, मायूरिकः । अजिह्मान् हन्ति । अनिमेयान्
हन्तीति नाभिधानम् |
परिपन्थं तिष्ठति च – पारिपन्थिकश्चौरः । पथ: परिपन्थो निपातनान्नकारस्थितिः । पन्थानं वर्जयित्वा हन्ति तिष्ठति च यः सः एवमुच्यते । उपसर्गसमासे तु सर्वान् पथो व्याप्य तिष्ठति हन्ति वा यः सः पारिपन्थिकः । माथान्तपदव्यनुपदाक्रन्दान् धावति - मथेर्भावे घञ् | दण्डसाधनो माथो दण्डमाथः पथिपर्यायो वा माथशब्दो दण्ड इव माथ ऋजुः पन्था उच्यते, तं धावति दण्डमाथिकः, पदवीं धावति पादविकः । अनुपदं धावति आनुपदिकः । आक्रन्दं धावति आक्रन्दिकः । आक्रन्दशब्द उक्तः । एते विरुदिते संप्रहारे च । पदान्तप्रतिकण्ठार्थललामं गृह्णाति पूर्वपदं गृह्णाति पौर्वपदिकः, प्रातिकण्ठिकः । प्रतिकण्ठमिति वीप्सायां लक्षणे वा अव्ययीभावः । प्रतिगतः कण्ठमिति तत्पुरुषविषये नाभिधानम् । आर्थिकः, लालामिकः । ललामो ध्वजश्चिह्न वा । गर्हिते च – द्विगुणं गृह्णाति द्वैगुणिकः । एवं त्रैगुणिकः । वृधुषीं गृह्णाति वार्धुषिकः । वृद्धिसमानार्थोऽयं वृद्धिं गृह्णातीति वाक्यमेवाभिधानात् ।
धर्माधर्मं चरति धार्मिकः, अधार्मिकः । चरतिरिह सेवायाम् । समूहार्थात् समवैति । समूहं समवैति सामूहिकः, सामाजिकः । ललाटं पश्यति लालाटिकः । ललाटदर्शनेन दुःखस्थानं लक्ष्यते, स्वामिनः कार्ये तु नोपयुज्यते इति भावः । कोपप्रसादचिह्नलक्षणाय ललाटमेव पश्यति वा । कुक्कुटीमाचरति कौक्कुटीकः । कुक्कुटीति दाम्भिकानां चेष्टोच्यते । कुक्कुटीं वा यः पश्यति स कौक्कुटिकः । कुक्कुटीशब्देन कुक्कुटीपादो लक्ष्यते, तेन देशस्याल्पता । यो भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स एव - मुच्यते । परदारादीन् गच्छति पारदारिकः । गौरुतल्पिकः । परानुत्कृष्टान् दारान् गच्छति । गुरु महत्तल्पं गच्छति कर्मधारये नाभिधानम् । सुस्नातादीन् पृच्छति सौस्नातिकः, सौखरात्रिकः, सौखसुप्तिकः, सौखशय्यिकः । शोभनः स्नातो यस्येति बहुव्रीहौ नाभिधानम् | प्रभृत्यादीन् पृच्छति प्राभृतिकः, पार्याप्तिकः । माशब्द इत्याह - माशब्दिकः । एवं नैत्यशब्दिकः । वाक्याद - कण् । इतिना कर्मत्वमुक्तमिति न द्वितीया पदमात्रान्न दृश्यते । माशब्दमाह - वाक्ये शब्दमाहेति । अस्ति नास्ति दिष्टमिति मतिरस्य । अस्तीति मतिरस्य आस्तिकः, परलोककर्मफलमस्तीति यस्य मतिः स एवमुच्यते । तद्विपरीतश्च
Page #495
--------------------------------------------------------------------------
________________
४५३
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः नास्तिकः, दैष्टिकः । दिष्टं दैवं तदस्य शीलं चेति । अपूपाः शीलमस्य तद्विषयत्वादपूपभक्षणं वा अपूपशब्देनोच्यते, शिल्पवदिहापि व्याख्येयम् आपूपिकः। निकटादिषु वसति । निकटे वसति नैकटिकः, वार्भमूलिकः, आवसथिकः । तोमरायुधयोगादिति । आयुध्यतेऽनेनेति आयुधम् प्रहरणम् । ___ ननु यस्य तोमरायुधं स तोमरेण चरति इति सिद्धम् किमभेदोपचारेण, नैवम् । चरतीत्यर्थकथनेन हि क्रियाप्रधान इकण् उच्यते 'अनेन क्रियायामप्रधानादपि । तोमरेण कृतविद्योऽयं तोमरेण जानाति प्रहर्तुं क्रियायोग्यतामात्रमाख्यायते । न पुनर्व्यापारवत्त्वं तोमरेणायुध्यते इति । तर्हि शिल्पमित्येव सिद्धं निषिध्यति तोमरविषये निष्पादनक्रिया शिल्पमस्येति गम्यते । प्रहरणं चास्य विषय इति । कथं शाक्तीको याष्टीक इति, तत्र व्यवस्थितवास्मरणादिवर्णलोपो न दृश्यते । दीव्यतीत्यादिग्रहणं कृतादेराकृतिगणस्य प्रपञ्चार्थम् । ऋवर्णोवर्णेसुस्तान्तदोर्थ्य इकणादिलोपो दृश्यते ।पैतृकः,दौहितृकः,शालाटुकः, आलाबुकः, सार्पिष्कः, धानुष्कः, औदश्वित्कः, दौष्कः । शश्वतस्तु शाश्वतिकः । रूढिशब्दा हि एते तद्धिताः इति ||३७४।
[वि० प०]
तेन । यथासंबन्धमिति क्रीतादेराकृतिगणत्वादित्यर्थः। यत्र संस्कृतत्वं तत्र संसृष्टत्वमस्तीत्याह – एवं मारीचिकमिति । ननु संसर्गो हि मूर्तिमतां भवति, संस्कारश्च सत उत्कर्षाधानम् । यथा विद्यया वैधिकः इति । न खल्वत्र संसर्गः प्रतीयते, तस्मात् "तेन संस्कृतम्" (अ० ४/४/३) इति वक्तव्यमेव ? सत्यम् । अनेकार्थत्वाद् घातूनां सम्पूर्वः सृजिरिह संस्कारेऽपि वर्तत इति । तरतिरयमस्ति प्लवने, यथा तरति पत्रं न निमज्जति । अस्ति प्लवनपूर्वक देशान्तरप्रापणे च, यथा नदी तरति । अस्त्यभिभवे- तरति ब्रह्महत्यां योऽश्वमेधेन यजते इति । तत्र प्लवनमात्रमिह गृह्यते इत्याह - गोपुच्छेनेत्यादि । तथा प्लवनसामान्यस्य विद्यमानत्वाद् देशान्तरप्रापणेऽभिभवने च भवतीत्याह - एवमित्यादि । इह तद्धिते सति तद्वाच्यस्य साधनस्य प्रधानत्वाद् अप्रधानं क्रियेति न तन्निबन्धनं कर्मत्वम्, अपि तु संबन्धविवक्षायां षष्ठ्येव नद्यादेर्भवति । चरतिरिह गतौ रूढः-शकटेन चरति । गच्छतीत्यर्थः । तथा घण्टया चरति घण्टिक इत्याह - एवमिति । तत्र क्वचिदधिकारादिह द्विस्वरस्य न वृद्धिः । शृङ्गवेरेणे
Page #496
--------------------------------------------------------------------------
________________
४५४
कातन्वव्याकरणम्
त्यादिना भक्षणार्थोऽपीह चरतिरिति मतान्तरमावेदितम् । अभेदोपचारवृत्तेः पण्याच्छिल्पान्नियोगाच्चेति यदुक्तं तदाह - ताम्बूलेत्यादि । पण्यं विक्रेयद्रव्यम्, तत्संबन्धाद् विक्रेतापि पण्यमुच्यते । तेन ताम्बूलमेव ताम्बूलिक इति पूर्ववत् स्वार्थे प्रत्ययो द्योतक इति । किं तदस्य पण्यमित्युक्तेन ।
तथा "तदस्य शिल्पम्" (अ० ४/४/५१) इत्यपि न वक्तव्यम् । अभेदोपचारादेव सिद्धेरित्याह - मृदङ्गशिल्पयोगादिति । मृदङ्गश्चासौ शिल्पं चेति मृदङ्गशिल्पम्, कथमिह कर्मधारयो भिन्नाधिकरणत्वात् । मृदङ्गो हि वाद्यभाण्डं शिल्पं च विज्ञानकौशलम्, तच्च क्रियाभ्यासपूर्वकमिति ? सत्यम् । इह मृदङ्गवादने शिल्पे मृदङ्गशब्दः प्रतिपत्तव्यो वृद्धस्मरणात् । ततो मृदङ्गेन शिल्पेन योगात् पुरुषोऽपि तथोच्यते । तेन मृदङ्गशब्दात् स्वार्थे पूर्ववत् प्रत्ययः । अथवा मृदङ्गवादनशब्दात् प्रत्ययः । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पमुच्यते, वादनादिशब्दस्तु तद्धितेनैवोक्तार्थत्वान्न प्रयुज्यते, यथा- दमा उपसिक्त ओदनः दध्योदनः इति समासेन उपसिक्तक्रियोच्यते । द्वार इत्यादि । नियुज्यतेऽस्मिन्निति नियोगो द्वारादिः, ततो द्वारं च तन्नियोगश्चेति, तेन नियोगात् पुरुषोऽपि द्वारादिः । इहापि पूर्ववत् स्वार्थे प्रत्ययः । दौवारिक इति । द्वारादीनां चापदाद्योरिति वचनाद् वृद्धिरागमः।
द्विशौर्पिक इति । तत्र क्वचिदधिकारत् संख्यायाः संवत्सरपरिमाणयोरिति परपदस्यैव वृद्धिः । ननु कृतादियोगाद् द्विशूर्पादिः क्रीतादिशब्देनोच्यत इति । तत्कथं द्विशूर्पण क्रीत इत्यादि वाक्यम्, न हि भेदे प्रत्ययोऽस्ति, तस्मात् क्रीतादेरप्यभेदविवक्षायां पञ्चमीत्याह-क्रीतादेरित्यादि । वस्तुतस्तु पुनर्टिशूर्पण क्रीतो द्विशूर्प उच्यत इति पूर्ववत् स्वार्थे प्रत्ययः । एवं सर्वत्र यथायोगम् अभेदः कर्तव्य इत्यादीति, क्रीतादेराकृतिगणत्वात् । एवमन्येऽपीति यथाभिधानं वेदितव्या इत्यर्थः ।।३७४।
[क० च०] पुस्तकान्तरे पाठः
[तेनेति । तेनेति करणे तृतीया, दीव्यतीत्यादिकर्तृनिर्देशात् । सम्पूर्वः सृजिः स्वभावादकर्मक एवेति कर्तरि निष्ठा । कृत आदिर्यस्येति विग्रहः । आदिग्रहणं गणप्रपञ्चार्थम् । आयुध्यतेऽनेनेति आयुधम्, अत एव ज्ञापकात् कः । यथासम्बन्धमिति । यथासंभवसम्बन्धमित्यर्थः । शृङ्गवेरमार्द्रकम् । शुल्कशाला घट्टादिग्रहणस्थानम् । अथ तेनेत्यनुवर्तमानात् तृतीयान्तात् क्रीत इत्यर्थे प्रत्यये सिद्धे तत् कथं कृतादेरिति
Page #497
--------------------------------------------------------------------------
________________
४५५
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः पञ्चमीत्यत आह -क्रीतादेरपीति । येन क्रीतः स एव क्रीत उच्यते इत्यर्थः । एवमन्यत्रापि बोध्यम् । तर्हि कथं द्विशूर्पण क्रीत इत्यादि, भेदेन वाक्यमित्याह-क्रियाविर्भावश्चेति । एतेन “तेन क्रीतम्" इति परसूत्रं न वाच्यम् । ओज इत्यादि तृतीयान्तेभ्यो वर्तते इत्यर्थे इकण् इत्यर्थः । इत्यादीति प्रत्यनुभ्यामीपलोमकूलेभ्यः- प्रतीपं वर्तते प्रातीपिकम् । एवम् आनुलोमिकम्, आनुकूलिकम् । क्रियाविशेषणत्वाद् द्वितीया । परेर्मुखपाश्र्वाभ्याम् - परिमुखं वर्तते पारिमुखिकः । एवं पारिपार्श्विकः । तदुञ्छति -बदराण्युञ्छति बादरिकः । उच्चिनोतीत्यर्थः । तद् रक्षति-समाज रक्षति सामाजिकः । शब्दद१रौ करोति - शाब्दिको वैयाकरण एव रूढः, न तु काकादिकः । दर्दुरो वाद्यभेदः दा१रिकः । अन्येऽपि टीकात ऊहनीयाः । कथं शाक्तीकः, याष्टीक इति चेत् तत्र व्यवस्थितवानुवृत्तेरिवर्णलोपो न स्यात् । ऋवर्णोवर्णेसुस्तान्तदोर्य इकण आदिलोपो दृश्यते । यथा पैतृकः, दौहितृकः, शालाटुकः, आलाबुकः, सार्पिष्कः, धानुष्कः, औदश्वित्कः, दौष्कः। शश्वतस्तु शाश्वतिकः । तान्तत्वादादिलोपे प्राप्ते तद्बाधकमिदम् । रूटिशब्दा ह्येते तद्विता इति टीका] ।
[क० च०]
तेन । तेनेति तृतीयान्तमनुकृतं लुप्तपञ्चम्यन्तं यतः टीकायामुक्तं तृतीयान्तादिति, अन्यथा तन्न घटते । एवं पूर्वस्मिन् सूत्रे बोध्यम् । यद्यपि सूत्रे लिङ्गं संख्या कालश्चातन्त्राणि तथाप्यक्षविष्यति इति न स्यात् । यतोऽत्र कर्तृनिर्देशात् कर्तुः प्राधान्यम्, अन्यथा तेन देवनमिति निर्दिशेत् । ततो भविष्यति कर्तृत्वाध्यारोपात् प्रत्ययः । तत्तु गौणम् अतो न स्यात् । अथ तर्हि भूतेऽपि तथा, नैवम् । तत्रानुवृत्तिविज्ञानात् वर्तमानताऽध्यवस्यति । संसृष्टमिति कर्तरि क्तः, अकर्मकाद् धातोः । परत्राभेदोपचारात् पाठो नास्तीति लक्ष्यते वृत्तौ । न खलु संसर्ग इति विद्यया सह पुरुषस्य समवायसम्बन्धात्, प्लवनसामान्यस्येति कथमिदम् उच्यते, नहि देशान्तरप्रापणम् अभिभवश्च प्लवनम् । सत्यम् । अत एवोक्तं सामान्यस्य विद्यमानत्वादिति, तच्च सामान्यं सम्बन्ध्यभावरूपं पूर्वदेशाद् ब्रह्महत्याया वा । ततो गोपुच्छेन तरति अधोदेशसम्बन्धाभावं साधयति । काण्डस्य प्लवे भेला (भेरुया) इति यस्य प्रसिद्धिस्तेन तरति पूर्वदेशस्य संबन्धाभावं दर्शयति । एवं ब्रह्महत्यायाः सम्बन्धाभावं साधयति ।
Page #498
--------------------------------------------------------------------------
________________
४५६
कातन्त्रव्याकरणम्
नन्वाश्वमेधिको ब्रह्महत्याया इति कथमत्र षष्ठी, द्वितीयैव स्यात् तचाह - तद्धिते सतीत्यादि, तर्हि 'कृतपूर्वी कटम्' इत्यादौ कथं कटादेर्द्वितीया, कृतपूर्वीत्यादौ कृदन्तसाधनप्राधान्यात् सम्बन्धे षष्ठ्येव स्यात् । अथ धातुयोगोऽस्ति (तत्र नास्तीति न स्यात्) सम्बन्धषष्ठीबाधकः ? सत्यम् । क्रियार्थवाचकतद्धितप्रत्यये जाते क्रियाया अप्राधान्यात् | यद् वा अत्र सम्बन्धाभावमात्रार्थत्वाद् धातुरकर्मकः, 'कृतपूर्वी' इत्यत्र तु सकर्मक इति चेत् कथम् ऋतशब्दस्य वर्तमानत्वाद् ऋते देवदत्तमिति कर्मत्वं कृत इत्यनेन क्रियामुख्यत्वेन प्रतिपाद्यते प्रत्ययेनैव कर्ता प्रतिपाद्यते । ततो विशेषणविशेष्यभावात् प्रकृत्यर्थस्य गौणता अत्र पूर्वीकरणकर्त्रा प्रधानभूतं गुणभूतक्रियोच्यते, ऋते देवदत्तमित्यत्र पुनर्वर्जनक्रियैव प्रधानमिति । अथ द्विगुणाकरोति, त्रिगुणाकरोति क्षेत्रमित्यत्र कथं द्वितीया कर्मणः क्रियाप्रतिपादकस्याभावात् ? सत्यम् । तत्र यद्यपि करोतेः करणमेव कर्म तथापि कर्षणक्रियाव्याप्यत्वाद् द्वितीया । यथा 'नारायणं नमस्कृत्य' इति ।
ताम्बूलेत्यादि । ननु कथमत्र लक्षणा पणवाचकान्न कथं स्यात् । सत्यम् । तात्पर्यानुपपत्त्या यदीश्वरप्रयुक्तमेव पदं साध्यमिति तात्पर्यमस्य न तद्विधानाद् एवं लक्षणा न स्यात् । पष्यं विक्रेयद्रव्यं तत्सम्बन्धो विक्रयविक्रेतृसम्बन्धाद् विक्रेतोच्यते । ततः श्रुतत्वात् पणवाचकादेव शब्दात्, न तु विक्रेयसामान्यवाचकात् । एवं शिल्पादित्यत्र बोध्यम् । शिल्पं शिल्पसंबन्धात् शिल्पिनि वर्तते अभेदोपचारेण यो वर्तते तस्मादेव पूर्ववत् प्रत्ययः । नियोग इत्यधिकरणे घञ् । अत्रापि पूर्ववल्लक्षणा । शुल्कशालादावस्थानं क्रीतादेरिति क्रीत इति भावे क्तः । अन्यधा भेदोपचार इति न भवति, अत एव क्रीतशब्देन पटादेरुक्तत्वात् । अत एव पञ्यामुक्तं क्रीतशब्देन द्विशूर्पादिरुच्यते । ततः क्रयक्रियया सह साध्यसाधकसम्बन्धत्वादन्यदुच्यते । द्विशूर्पादिशब्देन यत् क्रियते तदुच्यते क्रीतशब्देनानन्ययोगाद् एकैव लक्षणानन्वयात् । यावदेवान्चयापत्तिरित्यनेन तावदेव लक्षणा । अथवा क्रीतादिशब्दात् क्तान्तादर्शआदित्वात् । ततो मूल्ययुक्तं क्रीतशब्देनैवोच्यताम् ।
अथ यद्यभेदोपचारस्तदा कथं द्विशूर्पेण क्रीत इत्यादि वाक्यम् । सत्यम् । क्रीतादेरित्यादिसूत्रेऽभेदविवक्षया पञ्चमी, अतः क्रीत इत्युक्तं सुखार्थम् । अथ अभेदोपचारवृत्तेः कर्मणः कर्तुः कथन्न स्याद् यत् क्रयणं मूल्यादि तस्मात् कथं स्यात् ? सत्यम् । एवं वर्तमानात् परो लुग् विधीयते, कृतादेरित्यादिग्रहणं गणप्रपञ्चार्थम् | आयुध्यतेऽनेनेत्यायुधम्,
Page #499
--------------------------------------------------------------------------
________________
४५७
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः अत एव ज्ञापकात् कः । यथासम्बन्धमिति । यथासम्भवसम्बन्धमित्यर्थः । इत्यादीति | प्रत्यनुभ्यामीपलोमकूलानीत्यादयः । एवमन्येऽपि टीकायामूहनीयाः ।। ३७४ |
[समीक्षा]
प्रकृत सूत्र में निर्दिष्ट 'दीव्यति, संसृष्ट' आदि अर्थों में ठक् प्रत्यय का विधान करके आक्षिकः, दाधिकः आदि शब्दरूप पाणिनीय व्याकरण में भी सिद्ध किए गए हैं, परन्तु प्रायः प्रत्येक अर्थ के लिए स्वतन्त्र सूत्र बनाया गया है। जैसे – “तेन दीव्यति, खनति, जयति, जितम्, संस्कृतम्, तरति, चरति, संसृष्टे, तदस्य पण्यम्, शिल्पम्, प्रहरणम्, तत्र नियुक्तः, तेन क्रीतम् , तदर्हति' (अ० ४/४/२,३,५,८, २२,५१,५५,५७,६९;५/१/३६,६३) । इस प्रकार सूत्रसंख्या की दृष्टि से पाणिनीय व्याकरण में गौरव ही कहा जाएगा।
[रूपसिद्धि]
१. आक्षिकः । अक्षैर्दीव्यति । अक्ष + इण् । “वृद्धिरादौ सणे" (२/६/४७) से आदि स्वरकी वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे ये च" (२/६/४४) से क्षकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१ ) से 'आक्षिक' की लिङ्ग संज्ञा, प्रथमाविभक्ति - एकवचन में सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/ ३/६३) से विसगदिश । __२. दाधिकम् । दध्ना संसृष्टम् । दधि + इकण् +सि । आदिवृद्धि, इकारलोप तथा विभक्तिकार्य ।
३. मारीचिकम् | मरीचैः संसृष्टम् । मरीच +इकण् +सि । पूर्ववत् प्रक्रिया । ४. गौपुच्छिकः । गोपुच्छेन तरति । गोपुच्छ+इकण् +सि । पूर्ववत् । ५. काण्डप्लविकः । काण्डप्लवेन तरति । काण्डप्लव +इकण् +सि । पूर्ववत् ।
६. आश्वमेधिको ब्रह्महत्यायाः । अश्वमेधेन तरति । अश्वमेध +इकण् +सि । पूर्ववत् ।
७- १०. शाकटिकः । शकटेन चरति । शकट +इकण् +सि | घण्टिकः । घण्टया चरति । घण्टा +इकण् +सि । प्लविकः । प्लवेन चरति । प्लव +इकण् +सि |शाविरिकः । शृङ्गवेरेण चरति । शृङ्गवेर + इकण् +सि । पूर्ववत् प्रक्रिया ।
Page #500
--------------------------------------------------------------------------
________________
४५८
कातन्वव्याकरणम् ११-१३. ताम्बूलिकः । ताम्बूलयोगेन चरति । ताम्बूल +इकण् +सि | मार्दङ्गिकः। मृदङ्गशिल्पयोगेन चरति । मृदङ्ग +इकण् +सि | पाणविकः । पणवशिल्पयोगेन चरति । पणव +इकण् +सि । पूर्ववत् ।
१४-१५. दौवारिकः । द्वारनियोगयोगेन चरति । द्वार +इकण्+सि |शौल्कशालिकः । शुल्कशालानियोगयोगेन चरति । शुल्कशाला + इकण् +सि | पूर्ववत् ।
१६-१७. द्विशौर्पिकः। द्विशूर्पण क्रीतः । द्विशूर्प + इकण् +सि | साहसिकः । सहस्रेण क्रीतः । सहन +इकण् +सि । पूर्ववत् ।
१८-२०. कार्षापणिकः । कार्षापणमर्हति । कार्षापण +इकण् +सि । तौमरिकः । तोमरायुधमर्हति । तोमर +इकण् +सि । चाक्रिकः । चक्रायुधमर्हति । चक्र +इकण् +सि | पूर्ववत् ।
२१. कौद्दालिकः । कुद्दालेन खनति । कुद्दाल +इकण् +सि ।
२२-२४. औजसिकःशूरः ।ओजसा वर्तते ।ओजस् +इकण् +सि | साहसिकश्चौरः । सहसा वर्तते । सहस्+इकण् +सि | आम्भसिकः । अम्भसा वर्तते । अम्भस् +इकण् +सि । पूर्ववत् ।
विशेष – 'उञ्छति, करोति, हन्ति, तिष्ठति' आदि अर्थों में इकण् प्रत्यय का वर्णन व्याख्याकारों ने प्रस्तुत किया है ।। ३७४ । ३७५. नावस्तार्ये विषाद् वध्ये तुलया संमितेऽपि च ।
तत्र साधौ यः [२/६/९] [सूत्रार्थ]
तृतीयान्त नौशब्द से तार्य अर्थ में, तृतीयान्त विषशब्द से वध्य अर्थ में तृतीयान्त तुलाशब्द से सम्मित अर्थ में तथा सप्तम्यन्त शब्द से साधु अर्थ में यप्रत्यय होता है ||३७५।
[दु० वृ०]
नावस्तृतीयान्तात् तार्येऽर्थे विषात् तृतीयान्ताद् वध्येऽर्थे तुलयेति तृतीयान्तात् सम्मितेऽर्थे अपि च तत्रेति सप्तम्यन्तात् साधावर्थे यप्रत्ययो भवति । नावा तार्यम्नाव्यम् । विषेण वध्यो विष्यः । तुलया सम्मितं तुल्यम् । कर्मणि साधुः कर्मण्यः । अपि चेति वचनाद् गिरिणा तुल्यो हस्तीति गिरितुल्यः । तुल्यः सदृश इत्यन्ये । कुशलो योगो हितश्च साधुरुच्यते ।। ३७५।
Page #501
--------------------------------------------------------------------------
________________
४५९
नामचतुष्टयाध्याये षष्टस्तद्धितपादः [दु० टी०]
नाव० । नौविषशब्दयोस्तार्यवध्यसंबन्धात् तृतीयैव संभवतीत्याह - तृतीयान्तादित्यादि । तुल्यशब्दात् तृतीयानिर्देशाच्चेति भावः । नावा तार्यं नाव्यमिति | नावस्तरणक्रियायां करणत्वं कर्तृत्वं वा विवक्षावशात् । तार्यमिति शक्यार्थे घ्यण् । तेन तीर्यमाणमपि योग्यतापेक्षया नाव्यं जलं यन्नावा तरितुं शक्यते, तथा नाव्या नदीति | विषेण वध्य इति वधमर्हतीत्यर्थे वध्यशब्दो वर्तते स्वभावात् । व्युत्पत्तिवादी त्वाह - दण्डादिभ्य इत्यर्थे यप्रत्यय इति विषेण वधमर्हतीत्यर्थः पूर्ववत् तृतीया । तुलया संमितं तुल्यम्, तुलया परिच्छिन्नमित्यर्थः । पूर्ववत् तृतीया । गिरिणेत्यादि । कश्चिदन्यामपि युक्तिं विलपति गिरिणा तुल्य इति उपमानादुच्यते तुल्य इव तुल्य इति ।
अथवा समं मितं सम्मितं समानं मानं सदृशमित्यर्थः । यथा देवसंमितो राजसंमित इति देवेन राज्ञा वा सम्मित इति गम्यते । तद्वद् इहापि तुलया संमितः सदृशस्तुल्यः परिच्छेदश्च साधारणो धर्मः । यथा तुलया परिच्छिद्यते तथा अनेनापि दृष्टिपरिच्छेदाद् वा । साधुशब्दश्चायमस्त्यपकारके दीनेषु साधुरिति । अस्ति कुशले सामसु साधुरिति । अस्ति योग्यतायां गुडेषु साधुरिक्षुरिति । तत्र कुशलो योग्यश्च दृश्यते न तूपकारकः । स हि तानुपकुर्वाणस्तेभ्यो हितो भवति । तत्र परत्वाद् "ईयस्तु हिते" (२/६/१०) इति प्रवर्तते ।।३७५।
[वि० प०]
नाव० । तार्यवध्यसंबन्धेन नौविषशब्दयोस्तृतीयैव संभवति तुलयेति तृतीयान्तस्य साहचर्यान्नेह नावस्तृतीयान्तादित्याह -नावस्तृतीयान्तादित्यादि । नावः स्त्रीलिङ्गत्वात् तृतीयान्ताया इति वक्तव्ये वृत्तौ कथं तृतीयान्तादित्युक्तम् ? सत्यम् । शब्दप्रधानत्वान्निर्देशस्य नौशब्दादित्यर्थः, पश्चान्नाव इत्यनेन वा संबन्धः । नावा तार्यमिति तरितुं शक्यं तार्यम् । शकि च कृत्या इति शक्येऽर्थे घ्यण्, तेन तीर्यमाणमपि योग्यतामात्रविवक्षायां नाव्यं जलमुच्यते । वध्य इति । वधमर्हतीत्यर्थे दण्डादिभ्यो यप्रत्ययो दृश्यते । सम्मितमिति परिमितमित्यर्थः । तुल्यः सदृशः इत्यन्त इति । ये हि सम्मितशब्दोऽयं सदृशार्थ इति मन्यन्ते तन्मते समं मितं सम्मितं समानं सदृशमित्यर्थः । यथा राजसम्मितो देवसम्मित इति । राज्ञा देवेन च समान इति गम्यते, तद्वदिहापीत्यर्थः। कुशल इत्यादि, कुशले
Page #502
--------------------------------------------------------------------------
________________
४६०
कातन्वव्याकरणम्
सामसु साधुः । योग्ये – गुडे साधुरिक्षुः । हिते-दीने साधुः, इहोपकारकत्वात् तद्धितत्वं गम्यते । स खलु दीनानामुपकुर्वाणस्तेभ्यो हितो भवतीति । तत्र परत्वाद् "ईयस्तु हिते" (२/६/१०) इत्यादिना प्रवर्तितव्यमिति । कुशलो योग्यश्च साधुरिह गम्यते ।।३७५ ।
[क० च०] पुस्तकान्तरे पाठः
[नावः । सम्मितेऽर्थे इति । परिच्छिन्नेऽर्थे इत्यर्थः । अपि चेति वचनादिति । न केवलं तुलयेति तृतीयान्तात् सम्मितेऽर्थे यप्रत्ययः । किं तर्हि तुल्यार्थेऽपि स्यात् । हस्ती गिरीणां तुलनां प्रत्यायातीति शेषः । तुल्यः सदृश इत्यन्य इति । एतन्मते तुलाशब्दाद् यप्रत्ययो भवति सम्मिते सदृशार्थे । यथा -गिरितुल्यः इति । अपि चेति वचनात्तु सम्मिते परिच्छिन्नेऽर्थेऽपि स्यात् तुलया संमितं तुल्यं सुवर्णादीत्याहुः । पञ्यां संभवतीति तरणे वध्ये च नौविषयोः साधकतमत्वेन प्रसिद्धत्वादित्याशयः । अथ नावो हेतोस्तरतीति पञ्चम्यन्तमपि संभवतीत्याह -साहचर्याद् वेति । शब्दप्रधाननिर्देशे किम्प्रमाणमित्याहपश्चाद् वा नाव इति ।
नावः । तार्यः, वध्यः इति । यतोऽनयोः साधकतमत्वात् प्रतीतिरतस्तरणे साधकतमत्वं नावः कर्तर्यपीति टीकायाम् । तत्पुनरिनन्तापेक्षया अतो नावः सकाशात् तार्यम् इत्यपि विवक्षातः स्यात् तत् कथमिदमुच्यते, अत आह - तुलयेति । तुलाशब्दात् तावत् तृतीयाबाधा न स्यात् । तत्साहचर्यान्नौशब्दादिति कथं नोच्यते, नैवम् । पण्यताव्यभिचारो यतस्तार्यसंबन्धे विवक्षावशाद् वृत्त्या पञ्चमी भवति । तुलयेति । तृतीयान्तो निर्देशो व्यर्थः । तुलयेति तृतीयान्तमनुकृतं लुप्तपञ्चम्येकवचनं पदम्, अपि च समुदायस्याव्ययत्वादेकवचनान्तमेवेदम् । तत्रेति । सप्तम्यन्तमनुकृतं लुप्तपञ्चम्येकवचनं पदम् । तुल्येत्यादि । अथ तुल्यसदृश इत्यन्य एव, तदा भवन्मते कथं गिरिणा तुल्य इति ? सत्यम् । अयमर्थोऽस्मन्मते तुल्यशब्देन परिमाणस्वरूपं गृह्यते, ततस्तुलया सम्मितं परिमाणसमं जातं तर्हि सादृश्ये कथं तत्राह -अपि चेत्यादि । अन्यः पुनः सदृशमेव तुल्यशब्दार्थमाह । भवन्मते समानार्थत्वं समानज्ञातम् । अथ तन्मते तुल्यशब्दस्य कोऽर्थः, न हि परिमाणविशेषस्तदा सादृश्यार्थानुपपत्तेः, तथा सादृश्यमेतत् - 'तुल्यं यदारोहति दन्तवाससा' इति । तर्हि यः सम्मितशब्देन सादृश्य उक्तः स्याद् ‘ऋश्येन सदृशः' इत्यनेन किं व्यावृत्तेरयोगात् ? सत्यम् । सादृश्यविशेष उच्यते न त्वल्पमिति ।
Page #503
--------------------------------------------------------------------------
________________
नाचतुष्टयाध्याये षष्ठस्तद्धितपादः
४६१
अथ वृक्ष इत्यादी सादृश्याभावेऽपि सदृश इत्युच्यते, तथाहि बृहस्पतिसमो बुधस्तर्हि तुल्यार्थी गिरिणेति सहार्थतृतीयायाः समासाभावात् कथं समासः ? सत्यम् । यथा ‘पितृसदृशः, पितृसमः' इत्यत्र समासस्तथा नात्र | यद् वा गम्यमानावलम्बने समासः स्यात् । यथा ‘मासपूर्वः' इति कृते तदपेक्षया तृतीया स्यात् । अथ कुशलयोग्यतयोः को भेदः ? उच्यते -कुशलः क्रियानिष्पादकः, योग्यो हि द्रव्यनिष्पत्तिकारक इति गुणो ध्वन्यते, जन्यजनकसम्बन्धस्तत्र नास्तीति भेदः ।। ३७५ ।
[समीक्षा]
कातन्त्रकार ने चार अर्थों में 'य' प्रत्यय का निर्देश किया है, जब कि पाणिनि ने इन चार अर्थों के अतिरिक्त 'तुल्य- प्राप्य - आनाम्य-सम-समित-अनपेत-निर्मित-प्रियबन्धन-करण-जल्प-कर्ष' इन १२ अर्थों को भी सात सूत्रों द्वारा पढ़ा है। उनके सूत्र हैं – “नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु धर्मपथ्यर्थन्यायादनपेते, छन्दसो निर्मिते, उरसोऽण् च, हृदयस्य प्रियः, बन्धने चर्षी, मतजनहलात् करणजल्पकर्षेषु तत्र साधुः " (अ० ४/४/९१-९८ ) । पाणिनि द्वारा किए गए अतिरिक्त अर्थों का निर्देश प्रपञ्चार्थ ही कहा जा सकता है । अतः कातन्त्र में किए गए कुछ ही अर्थों का निर्देश दोषाधायक नहीं है । सूत्रस्थ 'अपि च' पाठ के बल पर 'तुल्य' आदि अर्थों की भी ग्राह्यता का वृत्तिकार ने संकेत किया है “अपि चेति वचनाद् गिरिणा तुल्यो हस्तीति गिरितुल्यः । तुल्यः सदृशः इत्यन्ये” (दु० वृ० ) ।
-
[रूपसिद्धि]
१ . नाव्यम् | नावा तार्य्यम् । नौ +य+ सि । प्रकृत सूत्र द्वारा यप्रत्यय, " कार्याववावावादेशावो कारौकारयोरपि " (२/६/४८) से औ को आव्आदेश, "धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१/ ) से 'नाव्य' की लिङ्गसंज्ञा, प्रथमाविभक्ति - एकवचन में सि प्रत्यय तथा " अकाराट् असंबुद्धौ मुश्च" (२/२/७) से मु आगमसिलोप |
२. विष्यः । विषेण वध्यः । विष + य + सि । प्रकृत सूत्र से यप्रत्यय, " इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च' (२/६/४४) से षकारोत्तरवर्ती अकार का लोप, 'विष्य' की लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश ।
-
Page #504
--------------------------------------------------------------------------
________________
४६२
कातन्वयाकरणम् ३. तुल्यम् । तुलया सम्मितम् । तुला + य + सि । प्रकृत सूत्र से यप्रत्यय, यकारोत्तरवर्ती आकार का लोप, तुल्य की लिङ्गसञ्ज्ञा तथा विभक्तिकार्य ।
४. कर्मण्यः। कर्मणि साधुः । कर्मन् + य + सि । प्रकृत सूत्र से यप्रत्यय, "रवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि" (२/४/४८) से नकार को णकार तथा विभक्तिकार्य ।।३७५ ।
३७६. ईयस्तु हिते [२/६/१०]
[सूत्रार्थ]
हित अर्थ में 'ईय' प्रत्यय होता है ।। ३७६। [दु० वृ०]
हितेऽर्थे ईयप्रत्ययो भवति । वत्सेभ्यो हितो वत्सीयो गोधुक् । एवम् अश्वीयः । योगविभागात् स्वराणामादावाद् वृद्धिमतः शेषेऽर्थे ईयः स्यात् । शालायां भवो जातो वा शालीयः। ऐतिकायनस्येमे छात्रा ऐतिकायनीयाः। एवम् औपगवीयाः । एवम् अन्येऽपि ||३७६।
[दु० टी०]
ईय० । वत्सेभ्यो हित इति । ननु कथमिह तस्मैग्रहणमन्तरेण चतुर्थ्यन्तादवसीयते ? सत्यम् । हितशब्दोऽयमुपकारवचनस्तादर्थ्यमपेक्षते । तर्हि सम्बन्धविवक्षायामपि स्यात् । भवतु का वस्तुक्षतिरिति । अथ 'अवत्सीयः' इति नञा समासेन किं सदृश उच्यते । यथा अन्योऽय गर्दभरथिकाद् अगार्दभरथिकः इति ? नैवम् । वाक्य एव नत्रा प्रत्ययार्थो विशिष्यते 'वत्सेभ्यो न हितः' इति । तर्हि सापेक्षत्वात् कथं वृत्तिरिति ? सत्यम् । प्रधानमत्र प्रत्ययार्थो नत्रमपेक्षते, तथापि वाक्यार्थः प्रतिषिध्यते गमकत्वाद् भविष्यति । राज्ञे हितम्, आचार्याय हितम्, वृष्टये हितम्, वृषेभ्या इतम्, ब्राह्मणाय हितम् इति वाक्यमेवाभिधानात् । तुशब्द इह योगविभागार्थः । योगविभागाच्चेष्टसिद्धिः । स्वराणामादावाद् वृद्धिमतः ईयस्तस्येदमेवमादावर्थे भवति । भानोरिमे भानवीयाः । शालायां भवो जातो वा शालीयः । ऐतिकायनस्येमे छात्रा ऐतिकायनीयाः ।
एवम् औपगवीयाः । एदोदादिस्वरात् प्राग देशात् ।एणीपचने भवाः एणीपचनीयाः । एवं गोनर्दीयाः । प्रागिति किम् ? देवदत्तो नाम बाह्रीकग्रामः, तत्र भवो देवदत्तः ।
Page #505
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
૪૬૨
देशादिति किम् ? गोमया क्रिमयः । नृसंज्ञकाच्च वा । देवदत्तीयाः, दैवदत्ताः । भोगदत्तीयाः, भौगदत्ताः । त्यदादिभ्यश्च । त्यदीयः, तदीयः, किमीयः, भवदीयः इति, दकारश्च वर्णविकारः । वर्गान्ताच्च । कवर्गे भवः कवर्गीयः । एवं पवर्गीयः । किमिह योगविभागेन रूढिशब्दा हि तद्धिता एवमर्थे वर्तन्ते इति || ३७६ ।
[वि० प० ]
ईयस्तु । तुशब्द इह योगविभागार्थ इत्याह- योगविभागादित्यादि । आच्च वृद्धिश्च आवृद्धी ते विद्येते यस्येति स आवृद्धिमान् । स्वराणां मध्ये य आदौ आकारवान् वृद्धिमांश्च शब्दस्तत इत्यर्थः । शेषे उक्तादन्यस्मिन्नर्थे तस्येदमित्यादिलक्षण एवेत्यर्थः ।। ३७६ । [क० च०]
ईय० । वत्सेभ्य इति । तस्मैग्रहणमन्तरेण कथमिह चतुर्थी लभ्यते ? सत्यम् । हितशब्दोऽयमुपकारार्थ इति तादर्थ्यमपेक्षते । सम्बन्धविवक्षायामपि भवत्येव । वत्सस्य हितो वत्सीयः । राज्ञे हितम्, आचार्याय हितम्, ब्राह्मणाय हितमिति वाक्यमेवाभिधानात् । एवम् अन्येऽपीति | त्यदादिभ्यश्च त्यदीयः, तदीयः, किमीयः, भवदीय इति तस्य दकारश्च वर्णविकार इति । तेन न यस्वरे प्रत्यय इति पदत्वनिषेधे प्राप्ते भवतो दश्चेति न वाच्यम् | वर्गान्ताच्च । कवर्गे भवः कवर्गीयः इत्यादि । किमिह योगविभागेन रूढिशब्दा हि तद्धिता इति । युष्मदस्मदोरीनणू युष्माकास्माकौ युष्माकमयं यौष्माकीणः, युष्मदीयः । आस्माकीनः, अस्मदीयः । अण् च - यौष्माकम्, आस्माकम् । तावेकत्वेऽण्-तवकममकौ च । तावीनः, तावकीनः, तावकः । मामीनः, मामकीनः, मामक इति कुलचन्द्रः || ३७६ । [समीक्षा]
कातन्त्र तथा पाणिनीय व्याकरण में एतद्विषयक प्रायः समान निर्देश प्राप्त हैं । पाणिनि का सूत्र है - " तस्मै हितम्" (अ० ५/१/५) | अन्तर केवल यह है कि पाणिनीय व्याकरण में साक्षात् 'छ' प्रत्यय का विधान है, उसको "आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्' (अ० ७/१/२ ) से ईयू आदेश उपपन्न होता है, जबकि कातन्त्रकार ने 'ईय' प्रत्यय का ही साक्षात् निर्देश किया है ।
Page #506
--------------------------------------------------------------------------
________________
૪૬૪
कातन्त्रव्याकरणम्
[विशेष ]
१. वृत्तिकार ने योगविभाग करके 'भव - जात- इदम् ' आदि अर्थों में 'शालीयः, औपगवीयाः' आदि रूप सिद्ध किए हैं ।
२. दुर्गवृत्ति टीकाकार तथा कलापचन्द्रकार 'रूढिशब्दा हि तद्धिता एवमर्थे वर्तन्ते' इस वचन के आधार पर योगविभाग को आवश्यक नहीं मानते - 'किमिह योगविभागेन रूढिशब्दाः' इत्यादि ।
३. एक वर्णरूपी आदेश को विकार माना गया है - ' तस्य दकारश्च वर्णविकार:' (दु० टी०, क० च० ) इति ।
[रूपसिद्धि]
१. वत्सीयः । वत्सेभ्यो हितः । वत्स + ई + सि । प्रकृत सूत्र से ईयप्रत्यय सकारोत्तरवर्ती अकार का " इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च " ( २/६/४४) से लोप, 'वत्सीय' की लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. अश्वीयः । अश्वेभ्यो हितः । अश्व + ई + सि । पूर्ववत् प्रक्रिया ।
३. शालीयः । शालायां भवो जातो वा । शाला +ई +सि । लकारोत्तरवर्ती आकार का लोप तथा अन्य प्रक्रिया पूर्ववत् ।
४. ऐतिकायनीयाः । ऐतिकायनस्येमे छात्राः । ऐतिकायन + ई + जस् । प्रायः पूर्ववत् प्रक्रिया ।
५. औपगवीयाः । औपगवस्येमे छात्राः । औपगव + ई + जस् । पूर्ववत् प्रक्रिया || ३७६
३७७. यदुगवादितः [२/६/११]
[सूत्रार्थ]
उवर्णान्त शब्दों से तथा गवादिगणपठित शब्दों से हित अर्ध में यत् प्रत्यय होता है ।। ३७७ ।
[दु० वृ०]
उवर्णान्ताद् गवादिभ्यश्च हितेऽर्थे यद् भवति । कवाकुभ्यो हितम् पयः कृकवाकव्यम् | वधूभ्यो हितो देशः बधव्यः । गोभ्यो हितं गव्यं वनम् । एवं हविष्यास्तण्डुलाः ।
Page #507
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४६५
सुगव्यम्, अतिगव्यम् इति तदन्तविधिरिष्टः । 'गो-हविस्-अष्टका, बर्हिस्, मेधा, श्रुच' इत्यादयोऽप्यनुसर्तव्याः । विकृतिवाचिनः शब्दात् प्रकृतावभिधेयायां यथोक्तं हितेऽर्थे प्रत्ययो मन्तव्यः । अङ्गारीयाणि काष्ठानि, पिचव्यः कार्पासः || ३७७ |
[दु० टी०]
यदु० । उवर्णश्च गवादिश्च उगवादी । मध्यपदलोपी द्वन्द्वोऽयमित्याह-उवर्णान्तादिति ।‘विचित्रा हि सूत्रस्य कृतिः' इत्याविर्भावनपर एवायं निर्देशः पूर्वस्यापवादोऽयम् । श्रुच इत्यादय इति । नाभेर्नभश्च । ऊधसो नश्च । शुनः सम्प्रसारणं वा दीर्घश्च । अक्षबदर-बिद-स्खद-विष-कम्बलात् परिमाणात् संज्ञायाम् । देहावयवाच्च । खल-यव-माषतिल-वृष-ब्रह्मन्-रथाद् हविर्वचनयूपादिभ्यो वा । यूप-दीप- अपूप- तण्डुल- पृथुक-अभ्यूषअवोष-किन्न-मुषल-कण्टक-कर्ण-वेष्टक- अर्गल-स्थूल | अन्नविकाराच्च । गणसूत्रोदाहरणं क्रमश उच्यते -
नाभेर्नभश्च । नभ्यं काष्ठम् । शुनः सम्प्रसारणं वा दीर्घश्य न्यम्, शून्यम् । ऊधसो नश्च । ऊधन्यः कूपः । कम्बलात् परिमाणात् संज्ञायाम् - कम्बल्यम् ऊर्णापलशतम् । संज्ञायामिति किम् ? . बलीया ऊर्णाः । देहावयवाच्च । दन्त्यम्, राजदन्त्यम्, नाभ्यं तैलम् । नभादेशोऽत्र नास्ति, वचनान्तरत्वात् । रथाय हिता रथ्याः । हविर्वचनयूपादिभ्यो वा । पुरोडाशीयास्तण्डुलाः । हविः शब्दात् पूर्वेण नित्यम् । यूप्यं यूपीयं काष्ठम् । तदन्तविधिना परमयूप्यम्,परमयूपीयम् | अन्नविकाराच्च । ओदन्या ओदनीयास्तण्डुलाः । अपूपादीनां तु हिरण्यविकारे रजतविकारे च स्थितानां पाठो द्रष्टव्यः । विकृतिवाचिन इत्यादि | अङ्गारीयाणि काष्ठानि इति यान्यङ्गारार्थानि काष्ठानि तान्यङ्गारेभ्यो हितानीति भावः ।
एवं पिचव्यः कार्पासः । नाभये हितं नभ्यं चक्रमिति । चक्रार्थमपि काष्ठं चक्रम्, तादर्थ्यात् । विकृतेः प्रकृतावित्यस्मिन्नर्थे या नाभिरवयववति चक्रे तस्याः पृथग्भूतमेव काष्ठं प्रकृतिरिति तन्नभ्यमित्युच्यते । या तु मण्डलचक्रे फलचक्रे वा न तस्याः पृथक्प्रकृतिरस्ति समुदाय एव कुतश्चित् काष्ठान्निष्पन्नो योऽवयवोऽयं धारयति स नाभिरुच्यते, ततश्च नभ्यमिति न स्यादित्याह – समुदायावयवयोस्तालव्यादवश्यं भेद एपितव्यः - ‘वार्क्षी शाखा' इति सिद्धये । ननु सत्यपि भेदे समुदायो नावयवस्य प्रकृतिः ।
Page #508
--------------------------------------------------------------------------
________________
कातन्वव्याकरणम्
अवयवा हि समुदायमारभमाणाः समुदायस्य प्रकृतिभिर्युज्यन्ते । नैवम्, द्विविधा हि समुदायाः- पुरुषनिर्माणा दैवनिर्माणाश्च, तत्र पुरुषनिर्माणेषु पटादिषु तन्त्वादिप्रकृतयः पटादयो भवन्ति । दैवनिर्माणेषु वृक्षादिषु समुदायादेकदेशान् यूपादीनुपलभामहे । तथा च 'खादिरो यूपः' इति विकारविधिः प्रदर्श्यते । किमनेन प्रलापेन – 'रूढिशब्दा हि तद्धिताः' इति । तथा च “पथ्यतिथिवसतिस्वपतिधर्मेभ्योऽनपेते" (४/४/१०४) इति वचनं नाद्रियते । यत् पथोऽनपेतं तत् पथि साध्विति यप्रत्ययेन व्युत्पाद्यते । पथ्यं भेषजमेव रूढम् । पथि साधु पाथेयमिति च दृश्यते । ___एवम् ‘आतिथेयम्, स्वापतेयम्, वासतेयम्' । यथोक्तम् । प्रकृताविति किम् । अयसे कोषी । तस्मा इति किम् ? सक्तूनां धाना इति । यदि वाक्यं न विवक्ष्यते तथा हितेऽर्थे केन वार्यते । तदस्यास्मिन् स्यादित्यर्थे यदीयौ यथोक्तौ । प्रासादोऽस्य स्यात् प्रासाद्यं दारु, प्रासादीयो देशः । यस्य यस्मिन् वा प्रासादः सम्भाव्यते तत् तस्य हितमिति सिद्धम् ।।३७७।
[वि० प०]
यदु० । उवर्णाश्च गवादयश्चेति सूत्रत्वान्मध्यपदलोपी द्वन्द्व इत्याह - उवर्णान्तादित्यादि । उगवादिभ्य उगवादित इति पञ्चम्यन्तात् तस् । कृकवाकव्यम् इति "उवर्णस्त्वोत्वमापायः" (२/६/४६) इत्योकारः । “कार्याववावा०"(२/६/४८) इत्यादिनाऽवादेशः । एवम् अन्यत्रापि । विकृतीत्यादि । एतेन विकृतेः प्रकृताविति न वक्तव्यम् इति दर्शयति । अङ्गारीयाणीत्यादि । अत्रापि हितार्थस्य विद्यमानत्वात् । तथाहि यान्यङ्गारेभ्यः काष्ठानि तानि तेभ्यो हितानि भवन्ति । यश्च पिचुभ्यस्तूलेभ्यः कार्पासः स तेभ्यो हित इति । अत इदमुक्तम्, यथोक्तं हितेऽर्थे प्रत्ययो न्तव्य इति । यथोक्तमिति यो यत्रोक्तः स प्रत्ययस्तस्मादित्यर्थः ।। ३७७।
[क० च०]
यदु० । पूर्वस्यापवादोऽयम् । ननु बाह्वादिगणे उपबाहुपाठेन ज्ञापितम् । गणे ग्रहणवता लिङ्गेन तदन्तविधिर्नास्तीति । तत् कथं सुगव्यमित्यादि सिद्धम् इत्याशयेनाह - इष्ट इति । गवादिसंख्यानमाह -गोहविसिति । यूपादिभ्यो वा : यूप-दीप-अपूप-तण्डुलपृथुक अभ्यूष-अकोष-किन्न-मुषल-कटक-कर्ण - वेष्टक-पुग़ल - स्थूल |अन्नविकाराच्च ।
Page #509
--------------------------------------------------------------------------
________________
नामवतुष्टपाध्याये षष्ठस्तद्धितपादः
४६७ उदाहरणं यथायोग्यम् । नाभेर्नभश्च । नभ्यं काष्ठम् । शुनः संप्रसारण दीर्घश्च वा । शुन्यम्, शून्यम् । ऊधसो नश्च । ऊधन्यः कूपः । कम्बलात् परिमाणात् संज्ञायाम् । कम्बल्यम् ऊर्णापलशतम् . संज्ञायामिति किम् ? कम्बलीया ऊर्णाः । देहावयवाच्च । दन्त्यम्, राजदन्त्यम् । नाभ्यं तैलम् । नभादेशोऽत्र नास्ति वचनान्तरात् । खल्यम्, यव्यम्, माष्यम्, तिल्यम्, ब्रह्मण्यम् । रथाय हिता रथ्याः । हविर्वचनापूपादिभ्यो वा । पुरोडाश्याः पुरोडाशीयास्तण्डुलाः । हविःशब्दात् पूर्वेण नित्यम् - यूप्यम्, यूपीयम् । तदन्तविधिना परमयूप्यम्, परमयूपीयम् । अन्नविकाराच्च - ओदन्या ओदनीयास्तण्डुलाः । अपूपादीनां तु हिरण्यविकारे रजतविकारे वा स्थितानां पाठो द्रष्टव्यः । तथा पथि साधु पथ्यं भेषजमेव । पथि साधु पाथेयमिति च दृश्यते । एवम् आतिथ्यम् । वासतेयम्, स्वापतेयम् । तथा च - पथ्यतिथिवसतिस्वपतिधर्मेभ्योऽनपेत इति वचनं न वाच्यम् । तथा प्रासादोऽस्य स्यात् प्रासाद्यं दारु ।परशव्यमयः ।प्रासादोऽस्मिन् स्यादिति प्रासादीयो देश इति टीका ||३७७।
[समीक्षा]
कातन्त्रकार ने जिस यत् प्रत्यय के लिए प्रकृत एक ही सूत्र बनाया है, उसके लिए पाणिनि ने छह सूत्र बनाए हैं - "उगवादिभ्यो यत्, कम्बलाच्च संज्ञायाम्, विभाषा हविरपूपादिभ्यः, तस्मै हितम्, शरीरावयवाद् यत्, खलयवमाषतिलवृषब्रह्मणश्च" (अ० ५/१/२-७)। इस प्रकार पाणिनीय व्याकरण में गौरव स्पष्ट है ।
[विशिष्ट वचन] १. विकृतिवाचिनः शब्दात् प्रकृतावभिधेयायां यथोक्तं हितेऽर्थे प्रत्ययो मन्तव्यः (दु० वृ०)। २. विचित्रा हि सूत्रस्य कृतिः (दु० टी०)। ३. अवयवा हि समुदायमारभमाणाः समुदायस्य प्रकृतिभिर्युज्यन्ते (दु० टी०)। ४. द्विविधा हि समुदायाः- पुरुषनिर्माणा दैवनिर्माणाश्च (दु० टी०)। ५.बाह्वादिगणे उपबाहुपाठेन ज्ञापितम् – गणे ग्रहणवता लिङ्गेन तदन्तविधिर्नास्तीति (क० च०)।
Page #510
--------------------------------------------------------------------------
________________
४६८
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. कृकवाकव्यम् । कृकवाकुभ्यो हितं पयः । कृकवाकु +यत् +सि | प्रकृत सूत्र से यत् प्रत्यय, अनुबन्धलोप, “उवर्णस्त्वोत्वमापाद्यः' (२/६/४६) से उ को ओ - आदेश "कार्याववावावादेशावोकारौकारयोरपि" (२/६/४८) से ओ को अव् आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य।
२. वधव्यः । वधूभ्यो हितो देशः । वधू+यत् +सि । प्रकृत सूत्र से यत् प्रत्यय, अनुबन्धलोप, ऊ को ओ-आदेश, ओ को अवादेश, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
३. गव्यम् । गोभ्यो हितं वनम् | गो +यत् +सि | प्रकृत सूत्र से यत् प्रत्यय, अनुबन्धलोप, ओ को अवादेश, लिङ्गसज्ञा, प्रथमा विभक्ति- एकवचन में सिप्रत्यय तथा “अकारादसंबुद्धौ मुश्च" (२/२/७) से मु-आगम-सिलोप ।।३७७।
३७८. उपमाने वतिः [२/६/१२] [सूत्रार्थ] सादृश्य अर्थ में उपमानभूत पद के बाद वति प्रत्यय होता है ||३७८ । [दु० वृ०]
उपमितिरुपमानम् । उपमानेऽर्थे वतिर्भवति । राजेव वर्तते-राजवत् । ब्राह्मणस्येव वृत्तिरस्येति ब्राह्मणवत् । मथुरायामिव पाटलिपुत्रे प्रासादः मथुरावत् । राज्ञेव व्यवहृतमनेन - राजवत् । देवमिव भवन्तं पश्यामि - देववत् । पर्वतादिवासनादवरोहति - पर्वतवत् । ब्राह्मणायेव देवदत्ताय ददातीति - ब्राह्मणवत् । अत्रापि तदर्हमिति परैरेष्टव्यमेव । गुणसाम्येऽपि देवदत्त इव स्थूलः- देवदत्तवत् । गुणहीनादा. - अन्धवत्, जडवत् । द्रव्यसाम्येऽपि देवदत्त इव गोमान् - देवदत्तवत् । सद्भावात् क्रियासाम्यमस्तीति सर्वत्र भवितव्यमेव ।। ३७८।
[दु० टी०]
उप० । उपमितिरुपमानमिति । यद्यपि येनोपमीयते यच्चोपमीयते ताभ्यामौपम्यं संभवति, तथाप्यप्रधानादेव वतिरिववत् प्रवर्तते प्रधानस्य क्रियाभिसम्बन्धात् ।
Page #511
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
देवदत्तादिसादृश्यं
यज्ञदत्तादिसंस्थितम् ।
वतिप्रत्ययवाच्यं स्याद् एकाधिकरणं हि तत् ॥
भट्टस्य तु मतम् - गौरिव गवय इति । गौरिव प्रमेयः ।
४६९
तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । सादृश्यं वा तदन्चितम् ॥
प्रमेयमुपमानस्य
तथापि न दोषः । वतिरयमसंख्य इत्यव्ययः । यस्तु करणसाधनमाश्रित्योपमानार्थे वर्तमानान्नाम्नो वतिरित्याह - तदापि औपम्यं द्योत्यते वतिना । न विनोपमेयेन उपमानमिति । एकत्र द्योतनादन्यत्रापि द्योतनं गम्यते । किमेतेन यत्नेन येन यत् प्रतीयते तत् तस्यार्थ इति भावसाधनमेवात्र युक्तमिति । तदर्हमिति । देवमर्हति यद् दर्शनम्, पर्वतमर्हति यदवरोहणम्, ब्राह्मणमर्हति यद् दानमिति । यद्येवम् उपमानार्थोऽप्यस्तीति अनेनैव सिद्धम् । गुणसाम्येऽपीत्यादि । नहि पदार्थः सत्तां जहाति इति सर्वत्र क्रियासाम्यमस्तीति भवितव्यम् | किं " तेन तुल्यं क्रिया चेद् वतिः, तत्र तस्येव" (अ० ५/ १/११५,११६) इति विशिष्टविभक्तिनिर्देशेनेति भावः । ‘इवे वतिः' इति न कृतम् | इवार्थे इवशब्द उपचारात्, तच्चोपमानमिति प्रतिपत्तिगौरवं स्यात् || ३७८।
[वि० प० ]
उपमाने० ० । उपमितिरुपमानमिति । अनेन भावसाधनोऽयम् उपमानशब्दो न करणसाधन इति दर्शितम् । कथमेतत् ? सत्यम् । औपम्यं हि वतिप्रत्ययवाच्यं तदपेक्षया भाव एव युज्यते । उपमाने औपम्ये सादृश्येऽर्थे वतिरिति । तथा च भटूटःदेवदत्तादिसादृश्यं यज्ञदत्तादिसंस्थितम् । वतिप्रत्ययवाच्यं स्याद् एकाधिकरणं ततः ॥
यदि पुनरुपमीयते येन तदुपमानमिति करणसाधनोऽयमुपमानशब्दः । तस्मि। नुपमानेऽर्थे वर्तमानाच्छब्दाद् चतिरुच्यते न तदा साक्षादौपम्यं वत्यर्थ इत्युक्तं स्यात् । केवलमुपमेयमन्तरेण नोपमानमित्युभयगतमौपम्यं द्योत्यते वतिनेति । नैतच्च वृद्धमतमनुबध्नाति । यद्येवं येनोपमीयते यच्चोपमीयते तयोः स्थितमिदमौपम्यम्, वतिप्रत्ययस्तु तस्मिन्नर्थे कस्मात् प्रवर्ततामिति न देश्यम् । उपमेयस्य प्रतिपाद्यतया प्रधानत्वेन क्रियाभिसम्बन्धादप्रधानादेवोपमानाद् वतिः प्रवर्तते । यथा 'गौरिव गवयः' इत्यादाविवशब्द
Page #512
--------------------------------------------------------------------------
________________
४७०
कातन्वयाकरणम् इति भावः ।देवमित्यादि । ननु परेषां विभक्तिविशेषस्य निर्दिष्टत्वान्न द्वितीयादिविभक्त्यन्तेभ्यो वतिस्तत् कथं न विरोध इत्याह - अत्रापीति । अत्र यद्यपि तदिति द्वितीयान्ताद् अर्हमित्यर्थे वतिप्रत्ययः । यथा देवमर्हति यद् दर्शनम्, पर्वतमर्हति यदवरोहणम्, ब्राह्मणमर्हति यद् दानम् इति । तथाप्युपमानार्थोऽस्तीत्यनेनैव सिद्धम् । विशिष्टविभक्तिनिर्देशस्याभावाद् इत्यभिप्रायः । गुणसाम्येऽपीति गुणहीनादपीति । गुणसामान्यमन्तरेण गुणहीनादपीत्यर्थः । सद्भावादिति सतो भावः सद्भावः सत्ता, सा च भवतेरर्थस्तस्येहापि सम्भवात् । अतः क्रियासाम्यमस्तीति सर्वत्र भवितव्यमेवेति । अतः "तेन तुल्यं क्रिया चेद् वतिः, तत्र तस्येव" (अ० ५/१/११५,११६) इति । तेनेति तृतीयान्तात् क्रियासाम्ये तत्र सप्तम्यन्तात् षष्ट्यन्ताच्च इवार्थे वत्यर्थं सूत्रद्वयं न कर्तव्यमिति दर्शितं व्यावृत्तेरभावात् ।। २७८।
[क० च०]
उपमाने० |वतिरितीकार उच्चारणार्थः, तदन्तोऽसंख्यत्वाद् अव्ययः । 'इवे वतिः' इति न कृतम् इवशब्दस्य प्रवृत्तित्वाभावादिति । इवार्थे इवशब्दस्तच्चोपमानमुपचारादिति गौरवमिति टीका | ननु "तदर्हम्" (अ० ५/१/११७) इति सूत्रेण तदिति द्वितीयान्तत्वात् तत्रार्हतीति चेत् क्रिया तदा वतिर्विधीयते, तदिह कथमित्याह - अत्रा-पीति | प्रकृतोदाहरणे देववदित्यादावित्यत एव चान्द्रैरपि देवमिव भवन्तं पश्यामीति कृत्वा तदर्हमिति वचनं प्रत्याख्यातम् । अथ "तेन तुल्यं क्रिया चेत्" (अ० ५/१/११५) इति वचने क्रियेति किं गुणसाम्ये गुणहीनद्रव्यसाम्यादिषु मा भूत् । भवन्मते कधन्न स्यादित्यभ्युपगमादेवाह - 'गुणसाम्येऽपि' इति । विशेषाभावोऽत्र बीजं यदप्युक्तम् । तुल्यक्रियेति किम् अतुल्यक्रियायां मा भूदप्यसङ्गतम्, व्यावृत्तेरभावादित्याह - सद्भावादिति ।सतो भावः सद्भावः सत्ता भवतीत्यस्याध्याहारेण सर्वत्र तुल्या क्रियास्तीति राज्ञे एव व्यवहतं भवति । देवदर्शनमिव दर्शनं भवतीत्यर्थः ।। ३७८ ।
[समीक्षा]
'ब्राह्मणवत्, मथुरावत्' आदि प्रयोगों में 'वति' प्रत्यय का विधान पाणिनि तथा कातन्त्रकार दोनों ही शाब्दिकाचार्यों ने किया है, परन्तु पाणिनि ने इसके ने इसके लिए चार सूत्र बनाए हैं - "तेन तुल्यं क्रिया चेद् वतिः, तत्र तस्येव, तदर्हम्,
Page #513
--------------------------------------------------------------------------
________________
४७१
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः उपसर्गाच्छन्दसि धात्वर्थे' (अ० ५/१/११५-१८), जबकि शर्ववर्मा ने प्रकृत एक ही सूत्र से सर्वत्र निर्वाह किया है । इस लाघव के अतिरिक्त दूसरी विशेषता यह है कि वृत्तिकार दुर्गसिंह ने गुणसाम्य तथा द्रव्यसाम्य में क्रिया का भी साम्य स्वीकार किया है, अतः उनके अनुसार 'देवदत्त इव गोमान्' इस द्रव्यसाम्य में तथा 'देवदत्त इव स्थूलः' इस गुणसाम्य में भी वतिप्रत्यय प्रवृत्त होता है - देवदत्तवत् । उनका वचन है - 'सद्भावात् क्रियासाम्यमस्तीति सर्वत्र भवितव्यमेव' (दु० वृ०) ।काशिकाकार आदि पाणिनीयव्याख्याकार "तेन तुल्यं क्रिया चेद् वतिः' इस सूत्र में 'क्रिया' शब्द के पाठ से गुण - द्रव्य की तुल्यता में वतिप्रत्यय को स्वीकार नहीं करते – “क्रियाग्रहणं किम् ? गुणद्रव्यतुल्ये मा भूत्" (का० वृ०) । वृत्तिकार ने गुणसाम्य के अन्तर्गत गुणहीनता का भी समावेश किया है - 'गुणहीनादपि अन्धवत्, जडवत्' ।
[विशेष वचन] १. सद्भावात् क्रियासाम्यमस्तीति सर्वत्र भवितव्यमेव (दु० वृ०)।
२. यद्यपि येनोपमीयते यच्चोपमीयते ताभ्यामौपम्यं संभवति, तथाप्यप्रधानादेव वतिरिववत् प्रवर्तते प्रधानस्य क्रियाभिसंबन्धात् (दु० टी०)।
३. न हि पदार्थः सत्तां जहाति इति सर्वत्र क्रियासाम्यमस्तीति भवितव्यम् (दु० टी०)।
४. सतो भावः सद्भावः सत्ता सा च भवतेरर्थस्येहापि संभवात् । अतः क्रियासाम्यमस्तीति सर्वत्र भवितव्यमेवेति (वि० प०; क० च०)।
५. तेनेति तृतीयान्तात् क्रियासाम्ये तत्र सप्तम्यन्तात् षष्ठ्यन्ताच्च इवार्थे वत्यर्थं सूत्रद्वयं न कर्तव्यमिति दर्शितम्, व्यावृत्तेरभावात् (वि० प०)।
[रूपसिद्धि]
१. राजवत् । राजेव वर्तते, राज्ञेव व्यवहृतमनेन । राजन् +वति +सि । प्रकृत सूत्र द्वारा सादृश्यार्थ में वति प्रत्यय, इकार के उच्चारणार्थ होने से उसका प्रयोगाभाव, लिङ्गसंज्ञा, प्रथमा - एकवचन में सिप्रत्यय, वतिप्रत्ययान्त शब्द के अव्यय होने से "अव्ययाच्च' (२/४/४) से सिप्रत्यय का लुक् ।
२.ब्राह्मणवत् । ब्राह्मणस्येव वृत्तिरस्य, ब्राह्मणायेव देवदत्ताय ददाति । ब्राह्मण + वति +सि | प्रकृत सूत्र द्वारा वतिप्रत्यय आदि समस्त प्रक्रिया पूर्ववत् ।
Page #514
--------------------------------------------------------------------------
________________
४७२
कातन्त्रव्याकरणम् ३-८. मथुरावत् । मथुरायामिव पाटलिपुत्रे प्रासादः । देववत् । देवमिव भवन्तं पश्यामि । पर्वतवत् । पर्वतादिव आसनादवरोहति । देवदत्तवत् । देवदत्त इव स्थूल; देवदत्त इव गोमान् । अन्धवत् | अन्धेनेव । जडवत् । जडेनेव । सर्वत्र प्रकृत सूत्र द्वारा वतिप्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा सिलोप ||३७८।
३७९. तत्वौ भावे [२/६/१३]
[सूत्रार्थ]
शब्द के प्रवृत्तिनिमित्तरूप भाव के अभिधेय होने पर लिङ्ग से 'त' तथा 'त्व' प्रत्यय होते हैं ।।३७९ ।
[दु० वृ०]
शब्दस्य प्रवृत्तिनिमित्तं भावः । भावेऽभिधेये तत्वौ भवतः । शुक्लस्य पटस्य भावः शुक्लता, शुक्लत्वम् इति शुक्लगुणभावः । शुक्लस्य गुणस्य भावः शुक्लता, शुक्लत्वम् इति शुक्लगुणजातिः । गोता, गोत्वम् इति गोजातिः । पाचकत्वम्, दण्डित्वम्, विपाणित्वम्, राजपुरुषत्वम्, क्रियादिसंबन्धित्वम् । देवदत्तत्वम्,. चन्द्रत्वम्, सूर्यत्वम् इत्यवस्थाभेदात् ।आकाशत्वमिति प्रदेशभेदात् ।अभावत्वमिति संबन्धिभेदात् । नानेत्यस्य भावो नानात्वमिति ।। ३७९।
[दु० टी०]
तत्वौ० : शैषिकेऽणि प्राप्ते वचनम्, भवतेरनेकार्थत्वाद् भावशब्दोऽभिप्रायादिष्वपि वर्तते ततश्च देवदत्तस्याभिप्रायाभिप्रायो यज्ञदत्तस्य स्वभाव इत्यत्रापि प्राप्नोति । किं च भवतीति भाव इति णप्रत्ययान्तोऽप्यस्ति देवदत्ताद् भाव इति ? सत्यम् । भवतो यस्माद् बुद्धिशब्दौ स भाव इह गृह्यते । यस्माद् गोत्वादेविशेषणत्वाद् विशेष्ये गवादौ गौरित्येवमादिकःशब्दो गोत्वाद् गोराकारानुगता च बुद्धिः सोऽर्थो गवादेरित्याह - शब्दस्य प्रवृत्तिनिमित्तं भाव इति । स पुनरनेकप्रकार इह दर्शयन्नाह-शुक्लस्य पटस्येत्यादि । शुक्लादगुणात् पटाख्ये शुक्लज्ञानं शुक्लशब्दश्च प्रवर्तत इति शुक्लो गुणो भावशब्दवाच्यो भवतीति । क्रियादिसंबन्धित्वमिति | क्रियाकारकसंबन्धः क्रियाशब्दानां प्रवृत्तिनिमित्तमिति | आदिशब्देन दण्डपुरुषविषाणसंबन्धित्वम् । एकव्यक्तिनिवेशिनो देवदत्तादिशब्दा जातिशब्दा एवेत्याह -देवदत्तत्वमित्यादि ।
Page #515
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्टस्तद्धितपादः
४७३
ननु चानेकव्यक्त्याधारा हि जातिः न च देवदत्तान्तरमस्ति, तदभावे च सामान्यविशेषभाव इत्याह- अवस्थाभेदादिति । तत्र देवदत्तस्य तावद् बाल्याद्यवस्थाभेदादनेकत्वम् । सूर्यस्य पूर्वह्णापराह्णादिभेदेन चन्द्रस्य प्रतिपदादिभेदेन । आकाशादेस्तर्हि नित्यत्वादसंबन्धाच्च न सामान्यमिति मन्यमान आह - आकाशत्वमित्यादि । प्रदेशभेदादिति प्रदेशभेदेनाकाशस्य भेदः कल्पितः - पटाकाशम्, घटाकाशमिति । तथा अभावोऽपि संबन्धिद्वारेण भेदकल्पनमापतितमिति स्थितम् । अथवा स्वरूपमजात्यात्मकमपि विशेषणम् । भवतोऽस्माद् बुद्धिशब्दाविति भावः । सर्वमेतल्लिङ्गविधाने प्रपञ्चितमेव । भावशब्दस्य संबन्धित्वान्नाम षष्ठ्यर्थे नियुज्यते । यतोऽपि षष्ठी नास्ति ततोऽपि भवत एव । अथ इह तस्य भाव इति नाद्रियते । परस्त्वाह - असत्त्वभूतोऽप्यर्थः शब्दान्तरेण प्रत्यवमृष्टः षष्ठ्यर्थे नियुज्यते । नानेत्यस्य भावः सहेत्यस्य भावः प्रत्यवमृष्टः षष्ठ्यर्थे नियुज्यते । नानेत्यस्य भावः सहेत्यस्य भावः प्रत्यवमर्षार्थं च वृत्तिरेव गमयतीति नानुपपन्ना षष्ठ्यन्तता । देव एव देवतेति रूढित्वात् ।
व्युत्पत्तिवादी पुनराह - " साऽस्य देवता" (२/६/७) इति ज्ञापकात् स्वार्थेऽपीति । लघुपूर्वादसन्ध्यक्षरनामिनः कविवर्जितादणपि दृश्यते । शौचम्, शुचिता, शुचित्वम् | पार्थिवम्, पृथुता, पृथुत्वम् । कवेस्तु काव्यम् । नञादेर्बहुव्रीहौ तत्वावेव । अमृदुत्वम्, अमृदुता । बहुव्रीहौ तु नास्य पटुरस्ति इत्यपटुः, अपटोर्भावः आपटवम् | अचतुरादेस्तु यथाप्राप्तम् - अचतुरता, अचतुरत्वम्, आचतुर्यम् । असङ्गतत्वम्, असङ्गतता, आसङ्गत्यम् । अलवणत्वम्, अलवणता, आलवण्यम् | अबुधत्वम्, अबुधता, आबुध्यम् । अकडत्वम्, अकडता, आकड्यम् । अवशत्वम्, अवशता, आवश्यम् । अलसत्वम्, अलसता, आलस्यम् | स्वभावात् तत्वी स्त्रीनपुंसकलिङ्गौ || ३७९ ।
[वि० प० ]
तत्वौ० । यद्यपि भावशब्दोऽनेकार्थः । यदाह - भावाभिख्याः पश्च स्वभावसत्तात्मयोन्यभिप्राया इति । तथापि भवतो यस्मादभिधानप्रत्ययौ स इह भावः । यस्माद् गोत्वादेर्विशेषणाद् विशेष्ये गवादौ गौरित्यादिकमभिधानं भवति गोत्वाद्याकारानुगतश्च प्रत्ययः स गोत्वादिलक्षणोऽर्थो भावः इत्याह- शब्दस्येत्यादि । एतदुक्तं भवति यस्य विशेषणस्य स्वभावाद् द्रव्यविशेषे शब्दस्य प्रवृत्तिः स तन्निमित्तभूतोऽर्थः सान्निध्याद्
Page #516
--------------------------------------------------------------------------
________________
४७४
कातन्त्रव्याकरणम्
भावशब्देनोक्तः । तदभिधाने च तत्वाविति यथोक्तं यस्य गुणस्य सद्भावाद् द्रव्यविशेषे शब्दनिवेशस्तदभिधाने त्वतलाविति ।स पुनरनेकप्रकार इत्याह - शुक्लस्येत्यादि । शुक्लगुणभाव इति । गुण इह भावः, यतः पटे शुक्लशब्दप्रवृत्तौ गुणो निमित्तम् । एवमन्यत्रापि शब्दस्य प्रवृत्तिनिमित्तं भावप्रत्ययेनोच्यते।
अवस्थाभेदादिति ।एकस्यापि देवदत्तादेरनेकत्वमवस्थाभेदात् । अतोऽनेकव्यक्त्याधारा हि जातिः प्रवृत्तिनिमित्तमुपपद्यत इति भावः । अत्र देवदत्तस्य बाल्यादिभेदात्, चन्द्रस्य प्रतिपदादिभेदात्, सूर्यस्य पूर्वाह्लादिभेदादनेकप्रकारत्वम् । प्रदेशभेदादिति । घटाकाशम्, पटाकाशम् इत्युपचरितप्रदेशभेदान्नित्यस्यैकस्याप्यनेकत्वम्, अतः सामान्यप्रवृत्तिनिमित्तमेव । अतः अभावत्वमिति सम्बन्धिभेदादनेकत्वमित्यर्थः। भावस्य सम्बन्धित्वादर्थात् षष्ठ्यन्तादिह प्रत्ययः । तथा चासत्त्ववाचित्वात् षष्ठ्यन्ततानुपपत्तेरव्ययेभ्यः प्रथमान्तेभ्योऽपि प्रत्ययः । अत एवेह "तस्य भावः" इति नादृतम् । अथवा असत्त्वभूतोऽप्यर्थः शब्दान्तरेण परामृष्टः षष्ठ्यर्थे नियुज्यत एवेत्याह - 'नाना' इत्यस्य भावो नानात्वमिति ।।३७९।
[क० च०]
तत्त्वी०। भवनं भावो घान्तः । “तस्येदमेवमादेः" (२/६/७) ।अणो बाधकमिदम् । अत एव टीकाकृता शैषिकेऽणि प्राप्ते वचनमित्युक्तम् । स्वभावात् तत्वौ स्त्रीनपुंसकौ । देव एव देवतेति रूढिशब्दात् स्वार्थे तप्रत्ययः । व्युत्पत्तिवादी पुनराह - "साऽस्य देवता" (२/६/७) इति ज्ञापकात् स्वार्थेऽपि, तेन देवात् स्वार्थे तलिति सूत्रं न वाच्यम् । शब्दस्य प्रवृत्तीत्यादि । ननु भावशब्दस्यानेकार्थत्वात् शब्दस्यैव प्रवृत्तिनिमित्तमिह कथं लब्धम् । उच्यते "वाऽणपत्ये" (२/६/१) इत्यत आगतस्य नाम्नः श्रुतत्वात् तत् प्रवृत्तिनिमित्तं लभ्यते इति भावः । शुक्लगुणभाव इति । शुक्लाद् गुणात् पटाख्ये द्रव्ये शुक्लगुणज्ञानम् । शुक्लगुणशब्दश्च प्रवर्तते इति । शुक्लो गुणो भाववाच्यो भवतीत्यर्थः । एवं शुक्लगुणजातिरित्यत्रापि भाववाच्या इत्यन्वयःकार्यः । क्रियादिसंबन्धित्वमिति । क्रियाशब्दानां प्रवृत्तिनिमित्तं क्रियाकारकत्वसम्बन्धत्वम्, आदिशब्देन दण्डपुरुषत्वं विशेषणसंबन्धित्वं चोच्यते । लघुपूर्वादसन्ध्यक्षरनामिनः कविवर्जितादणपि दृश्यते - शौचम्, शुचिता । पार्थवम्, पृथुत्वम्, पृथुता | कवेस्तु काव्यम् ।
Page #517
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४७५ नत्रादेरबहुव्रीहौ तत्वावेव । अमृदुता, अमृदुत्वम् । बहुव्रीहौ तु नास्य पटुरस्तीत्यपटुः, अपटोर्भावः अपाटवम् । एवमन्येऽपि टीकात ऊह्याः । पश्यां भावाभिव्याः पति'अभिख्या नामशोभयोः' इति कोषाद् भावनामानः पञ्चेत्यर्थः । सान्निध्याद् भावशब्देनेति नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते इति न्यायादिति शेषः । अथ कथं षष्ठ्यन्ततानुपपत्तेरित्युक्तम् । 'सर्वासु च विभक्तिषु यन्न व्येति तदव्ययम्' (गो० ब्रा० १/१/ २६) इत्यव्ययानां व्युत्पत्तिरित्यस्वरसेनाह – अथवेति ।।३७९ ।
[समीक्षा]
'अश्वत्वम्, गोत्वम्, अश्वता, गोता' इत्यादि शब्दों के साधनार्थ भाव अर्थ में 'त्व-तल्' प्रत्ययों का विधान दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है- "तस्य भावस्त्वतलौ" (अ० ५/१/११९)। अतः उभयत्र साम्य है।
[विशेष वचन] १. शब्दस्य प्रवृत्तिनिमित्तं भावः (दु० वृ०)। २. भवतो यस्माद् बुद्धिशब्दौ स भाव इह गृह्यते (दु० टी०)। ३. स्वभावात् तत्वौ स्त्रीनपुंसकलिङ्गौ (दु० टी०; क० च०)। ४. भावाभिख्याः पञ्च - स्वभावसत्तात्मयोन्यभिप्राया इति (वि० प०)। ५.भवतो यस्मादभिधानप्रत्ययौ स इह भावः (वि० प०)। ६. एकस्यापि देवदत्तादेरनेकत्वम् अवस्थाभेदात् (वि० प०)। ७.अनेकव्यक्त्याधारा हि जातिः प्रवृत्तिनिमित्तमुपपद्यते इति भावः (वि० प०) ८. देव एव देवतेति रूढिशब्दात् स्वार्थे तप्रत्ययः (क० च०)। [रूपसिद्धि]
१-२. शुक्लता | शुक्लस्य पटस्य गुणस्य च भावः । शुक्ल +त +सि । शुक्लत्वम् । शुक्लस्य पटस्य गुणस्य च भावः । शुक्ल +त्व +सि । प्रकृत सूत्र से 'त' तथा 'त्व' प्रत्यय, स्वभावतः 'त' प्रत्यय के स्त्रीलिङ्ग होने के कारण आप्रत्यय, समानलक्षण दीर्घ - आकारलोप, सिलोप । त्व - प्रत्यय होने पर शुक्लत्व - शब्द की लिङ्गसंज्ञा, सिप्रत्यय, मु-आगम तथा सिलोप ।
३-४. गोता | गोर्भावः । गो +त+सि | गोत्वम् । गोर्भावः । गो +त्व +सि । पूर्ववत् 'त-त्व' प्रत्यय तथा विभक्तिकार्य ।
Page #518
--------------------------------------------------------------------------
________________
४७६
कातन्वव्याकरणम् ५-८. पाचकत्वम् । पाचक +त्व +सि । दण्डित्वम् । दण्डत्वम् । दण्डिन् +त्व +सि | विषाणित्वम् । विषाणिन् +त्व +सि | राजपुरुषत्वम् । राजपुरुष +त्व +सि । इन चारों प्रयोगों में क्रिया - कारकसंबन्ध होने से त्वप्रत्यय तथा विभक्तिकार्य, 'दण्डित्वम्' आदि में नलोप भी प्रवृत होता है।
९-११. देवदत्तत्वम् । देवदत्त +त्व +सि | चन्द्रत्वम् । चन्द्र +त्व +सि | सूर्यत्वम् । सूर्य +त्व +सि । इन तीनों प्रयोगों में अवस्थाभेदरूप प्रवृत्तिनिमित्त के कारण त्वप्रत्यय तथा विभक्तिकार्य ।
१२. आकाशत्वम् । आकाश +त्व +सि । यहाँ प्रदेशभेदरूप प्रवृत्तिनिमित्त के कारण त्वप्रत्यय तथा विभक्तिकार्य ।
१३. अभावत्वम् । अभाव +त्व +सि | यहाँ सम्बन्धी के भेद से कल्पित अनेकत्वरूप प्रवृत्तिनिमित्त में त्वप्रत्यय तथा विभक्तिकार्य ।
१४. नानात्वम् | नाना +त्व +सि | असत्त्ववाची अव्यय तथा प्रथमान्त नानाशब्द से त्वप्रत्यय तथा विभक्तिकार्य ।। ३७९ ।
३८०. यण् च प्रकीर्तितः [२/६/१४] [सूत्रा०]
महाकवियों के द्वारा प्रयुक्त होने के कारण विशिष्ट प्रकृतिवाले शब्दों से भाव अर्थ में यण् प्रत्यय होता है । सूत्रपठित चकार से पूर्वसूत्रोक्त 'त-त्व' प्रत्यय भी प्रवृत्त होते हैं ||३८०।
[दु० वृ०]
भावेऽभिधेये यण् प्रकीर्तितः, चकारात् तत्वौ च | जडस्य भावो जाड्यम्, जडता, जडत्वमिति । ब्राह्मणस्य भावो ब्राह्मण्यम्, ब्राह्मणता, ब्राह्मणत्वमिति । एवं मानव्यम्, वाडव्यम् । प्रकीर्तितग्रहणं लक्ष्यानुरोधार्थम् । तेन गुणवचनब्राह्मणादिभ्योऽन्येभ्योऽपि क्रियायामपि दृश्यते । जडस्य कर्म जाड्यम् । ब्राह्मणस्य कर्म ब्राह्मण्यम् ।।३८०।
[दु० टी०]
यण् । प्रकीर्तित इत्यादि । प्रकर्षेण कीर्तनं पुनर्विशिष्टप्रकृत्यवधारणम् । अथवा प्रकृष्टा कीर्तिः प्रकीर्तिर्महाकवीनामुक्तिस्ततो भवतीत्यर्थः । यैरपि "गुणवचनब्राह्मणा
Page #519
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४७७ दिभ्यः" (अ० ५/१/१२४) इत्युक्तं तेऽपि आकृतिगणत्वमेव प्रतिपन्ना इति । अयं च यण् नदादौ वा दृश्यते । सम्यग् भावः कर्म वा सामीची । समग्रस्य भावः सामग्री | उचितस्य भावः औचिती । यथाकामस्य भावः कर्म वा यथाकामी | अर्हतो भावः कर्म वा अर्हन्तीति नकारस्य स्थितिर्दृश्यते ।।३८०।
[वि०प०]
यण् । प्रकीर्तित इत्यादि । गुणमुक्त्वा तद्योगाद् यो गुणिनि वर्तते स गुणवचन इति ।अन्येभ्योऽपीति । ये गुणवचनब्राह्मणादिभ्यः कर्मणि चेत्युक्तवन्तस्तेऽपि ब्राह्मणादिराकृतिगण इत्येवं प्रतिपन्ना इति । क्रियायामपि न केवलं भाव इत्यर्थः ।। ३८०।
[क० च०]
यण । प्रकीर्तित इति । कृत संशब्दने क्तः "कीर्तीषोः क्तिः" (४/५/८६) इति ज्ञापकाद् ईरादेशः । प्रकर्षेण कीर्तनं पुनर्विशिष्टप्रकृत्यवधारणम् । यद् वा प्रकृष्टा कीर्तिः प्रकीर्तिर्महाकवीनामुक्तिस्ततो यण् भवतीति विभक्त्यन्तात् तस् इत्यर्थः । अयञ्च यण् नदादौ दृश्यते । समग्रस्य भावः कर्म वा सामग्री । सम्यग् भावः कर्म वा सामीची । सम्पूर्वस्याञ्चेः क्विप्, अञ्चेरलोपः पूर्वस्य च दीर्घः । उचितस्य भावः औचिती । यथाकामस्य भावः कर्म वा यथाकामी । अर्हतो भावः कर्म वा अर्हन्तीति नकारस्थितिर्दृश्यते इति टीका । सर्वत्र यलोपश्च, तद्धितानामाकृतिप्रधानत्वात् । यस्यापत्यप्रत्ययस्येत्यनेन वा । तथा आकृतिगणत्वाच्चतुर्वर्णादिभ्यःस्वार्थे । चत्वारो वर्णाश्चातुर्वर्ण्यम्, चातुराश्रम्यम्, चातुर्वैद्यम्, त्रैलोक्यम्, सैन्यम्, औपम्यम्, सौख्यम्, सौम्यम् इत्यादीति कुलचन्द्रः ।।३८०।
[समीक्षा]
'जाड्यम्, ब्राह्मण्यम्' आदि शब्दों के साधनार्थ पाणिनि ने 'ष्यञ्' प्रत्यय का तथा कातन्त्रकार ने 'यण' प्रत्यय का विधान किया है । यहाँ अनुबन्धों की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार की गई है । पाणिनि के सूत्र हैं"वर्णदृढादिभ्यः ष्यञ्च, गुणवचनब्राह्मणादिभ्यः कर्मणि च" (अ०५/१/१२३-२४)। पाणिनि ने इन दो सूत्रों में शब्दराशि का संग्रह करके इसका जो विस्तार दिखाया है, उसका संकेत कातन्त्रकार ने 'प्रकीर्तितः' शब्द के पाठ से किया है । प्रकीर्तित = लक्ष्यानुरोध से (लक्ष्य के अनुसार) यण् प्रत्यय का विधान किया गया है -
Page #520
--------------------------------------------------------------------------
________________
कातन्त्र व्याकरणम्
'प्रकीर्तितग्रहणं लक्ष्यानुरोध।र्थ५' (दु० टी०) । पाणिनि के अनुसार 'शौक्ल्यम्, शुक्लत्वम्, शुक्लता' के अतिरिक्त इमनिच्प्रत्ययान्त 'शुक्लिमा' रूप भी बनता है, परन्तु कातन्त्रकार ने उसका निर्देश नहीं किया है।
[विशेष वचन !
१. प्रकर्षेण कीर्तनं पुनर्विशिष्टप्रकृत्यवधारणम् । अथवा प्रकृष्टा कीर्तिः प्रकीर्तिर्महाकवीनामुक्तिः (दु० टी०, क० च० ) ।
२. तद्धितानामाकृतिप्रधानत्वात् (क० च० ) । [रूपसिद्धि]
१-३ . जाड्यम् । जडस्य भावः कर्म वा । जड + +सि । जडता । जड +त+सि । जडत्वम् | जड +त्व +सि । प्रकृत सूत्र से ' यण्' प्रत्यय, 'ण्' अनुबन्ध का अप्रयोग, "वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर की वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से डकारोत्तरवर्ती अकार का लोप, 'धातुविभक्तिवर्जमर्थवल्लिङ्गम्” (२/१/१) से 'जाड्य' की लिङ्गसंज्ञा, सिप्रत्यय, मु- आगम तथा सिलोप । 'जडता’ शब्द में तप्रत्यय तथा ‘जडत्वम्' में त्वप्रत्यय हुआ है । रूपसिद्धि पूर्ववत् ।
४-६. ब्राह्मण्यम् | ब्राह्मणस्य भावः कर्म वा । ब्राह्मण +यण् +सि । ब्राह्मणता | ब्राह्मण +त +सि । ब्राह्मणत्वम् । ब्राह्मण + त्व+सि । पूर्ववत् प्रक्रिया |
७. माणव्यम् | माणवस्य भावः कर्म वा । माणव + ण् + सि ।
४७८
८. बाडव्यम् । वाडवस्य भावः कर्म वा । वाडव + यण् + सि । इन दोनों में शब्दसाधनप्रक्रिया पूर्ववत् है || ३८० |
३८१. तदस्यास्तीति मन्त्वन्त्वीनू २ / ६ / १५
[ सूत्रार्थ ]
प्रथमान्त शब्दों से ‘अस्यास्ति' इस अर्थ में बहुत्व आदि अर्थ की विवक्षा के अनुसार ' मन्तु, वन्तु, इन्, विन्' प्रत्यय होते हैं ।। ३८१ ।
[दु० बृ०] तदिति
प्रथमान्तादस्यास्तीत्यस्मिन्नर्थे 'मन्तु-वन्तु विन्- इन्' इत्येते प्रत्यया भवन्ति । गावो विद्यन्तेऽस्येति गोमान् । एवम् आयुष्मान् वृक्षवान्, मालावान्,
Page #521
--------------------------------------------------------------------------
________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४७९ किंवान्, लक्ष्मीवान्, क्रियावान्, विद्युत्वान्, पयस्वान्, भास्वान्, तेजस्वी, पयस्वी, दण्डी, मायी, मायावी । इतिशब्दोऽत्र विवक्षार्थः
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसङ्गेऽस्तिविवक्षायां मन्त्वादयो भवन्त्यमी ॥१॥ तथा मोपधमान्ताच्च धुडन्तादशिडन्ततः। अवर्णोपधतश्चापि वन्तुरवर्णतस्तथा ॥२॥ मायाशीर्षात् स्वरूपाच्च ब्रीहेरर्थात् स्वरूपतः। यथा व्रीहीति शालीति इन्ननेकस्वरादतः॥३॥ मायामेधामनो विन् स्याद् वाधिकाराद् विभाषया। विहिताः सर्व एवैते शेषेभ्यो मन्तुरिष्यते ॥४॥ द्वन्द्वनिन्दितरोगेभ्यः प्राणिस्थेभ्य इनेव हि। कटकवलयी कुष्ठी स्यात् काकतालुकी यथा ॥५॥ स्यात् स्वाङ्गात् तु यथाप्राप्तं स्तनकेशवती यथा। कः स्वार्थे नित्यमेवैषां वातोऽस्यास्तीति वातकी ॥६॥ अतीसारक्यपीदृक् स्यात् पिशाचकी तथा स्मृतः। कश्मलसोन्मत्तत्वे पिशाचशब्दोऽभिधीयते ॥७॥ वयसि गम्यमाने च पूरणान्तादिनेव हि। पञ्च दिनानि मासा वा पञ्चमी बालको यथा ॥८॥ सुखादिभ्य इनेव स्याद् बाहूरुभ्यां बलादपि । सुखी दुःखी अलीकी च करुणी कृपणी हली॥९॥ तृप्री कृच्छ्री प्रतीची च सोन्यस्यास्तीत्युदाहतम् । बाहुबल्यूएबली च सदिनित्यमिंस्तथा ॥१०॥ विज्ञेयं सर्वबीजीति सर्वकेशीत्युदाहृतम्। स्याद् धर्मशीलवर्णान्तादिन्नेवेति विवक्षया ॥११॥ ब्राह्मधर्मी सुशीली । ब्रह्मवर्णीत्युदाहृतम् ।
Page #522
--------------------------------------------------------------------------
________________
४८०
कातन्वव्याकरणम्
जातौ तु हस्तदन्ताभ्यां कराच्चैव इनेव हि ॥१२॥ हस्ती दन्ती करी नेयो वर्णादिन् ब्रह्मचारिणि । स्युर्ब्रह्मचरणाद्धेतोर्वर्णिनो ब्राह्मणास्त्रयः॥१३॥ ब्रह्मचर्य विनापि स्युः सम्भवाद् ब्राह्मणा इति । पुष्करोत्पलपोभ्यो नडबिसतमालतः॥१४॥ कपित्थकुमुदाभ्यां च मृणालात् कर्दमात् पयः। शालूककरीषेभ्यश्च हिरण्याद् रूढदेशके ॥१५॥ विवक्षायामिनेवेति यथा पुष्करिणीति च। मनन्तमान्तशब्देभ्यः संज्ञायामिन्निहेष्यते ॥१६॥ अप्राप्तिनियमार्थ च दामिनी सोमिनी यथा । इन्विषये इको वाच्यः प्रागुक्तनियमार्थतः॥१७॥ स्वार्थे कः स्यान्न वाच्योऽयं दण्ड्येव दण्डिको यथा। संज्ञा मालेष्टका वीणा मेखला वडवा शिखा ॥१८॥ बलाकाभ्यः पताकाया इन् विभाषा विधीयते। वा कर्मचर्मवर्मभ्यश्चूलोत्साहबलोद्दाम ॥१९॥ मूलदलकुलायामारोहप्रयाम-उपयामव्यायामावरोहाणाम् । इनन्तानां सदैतेषां स्वार्थे को नेष्यते बुधैः॥२०॥
एवमन्येऽपि ।।३८१। [दु० टी०]
तदस्या० । तदिति प्रथमान्तनिर्देशोऽस्तीति प्रथमान्तोपाधिः । मन्तुश्च वन्तुश्च विंश्च इंश्चेति लुप्तप्रथमाबहुवचनं समाहारो वा द्वन्द्वः । मन्तुवन्त्वोरुकारलोपो विचित्रसूत्रनिर्देशप्रतिपत्तये । विनो नलोपः समासेऽस्त्येव वाक्येनाभिधाने प्राप्ते मन्त्वादयोऽभिधीयन्ते । गावो विद्यन्तेऽस्मिन्निति |सप्तम्यर्थे कथमिह मन्त्वादयः ? सत्यम् ।षष्ठीसप्तम्योर) प्रत्यभेदात् । यद् यस्य भवति तस्मिन्नपि तद् भवति । यच्च यस्मिंस्तस्यापि तत् । यथा वृक्षे शाखा, वृक्षस्य शाखा, घटे रूपम्, घटस्य रूपम् । ननु भेदोऽपि दृश्यते । यथा - गङ्गायां गावो न च तास्तस्याः । देशान्तरगतोऽपि पुत्रो देवदत्तस्य भवति न चासौ तत्र | नैवम्, तदाश्रयत्वात् तद्व्यपदेशोऽपि दृश्यते । यथा रथ्यायाः पुरुषानाह्वय,
Page #523
--------------------------------------------------------------------------
________________
४८१
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४८१ शालायाः पुरुषान् पश्येति । तथात्रापीति न सप्तम्याद्रियते ।
ननु किमस्तीति विशेषणेन, नहि प्रथमान्तं सत्तां व्यभिचरति ? सत्यम् । वर्तमानकालार्थम् । तेन भूताभिर्भविष्यन्तीभिर्वा गोभिर्न गोमान् । ननु कथं गोमान् आसीत्, गोमान् भविता इति ? सत्यम् । तदापि वर्तमानाभिरेव गोभिर्गोमान् वर्तमानस्य गोसत्तासम्बन्धस्य मन्तुनाभिधीयमानस्यातिक्रान्तता आसीदित्यनेनोच्यते, न गवां सत्ता एकवचनान्तत्वात् । नापि पुंसस्तस्य विद्यमानत्वात् । संसर्गसंबन्धभेदेनासीदित्युच्यते कथं तविरुद्धार्थेनासीदित्यनेन मन्त्वन्तस्य समानाधिकरणता ? इति न देश्यम्, शब्दशक्तिस्वभावात् । अतिक्रान्तगोसत्तासंबन्धाभिधायी मन्त्वन्त आसीदित्यनेन संबध्यमानः प्रतीयते ।
ननु सन्मात्रे मन्त्वादयश्चेद् व्रीहिरस्य यवोऽस्य इत्यत्रापि प्राप्नुवन्ति इत्याह - इतिशब्दोऽत्र विवक्षार्थ इति । स पुनरभिधाननिबन्धन एव । भूमेत्यादि । बहोर्भावे इमन् बहोर्भूश्च निपात्यते, सद्यआद्यत्वात् । भूम्नि बहुत्वे - गोमान् । निन्दायाम-ककुदावर्ती । ककुदावर्तोऽनिष्टफलविवर्तकत्वान्निन्दितः । प्रशंसायाम्-रूपवान् । नित्ययोगे -क्षीरिणो वृक्षाः । अतिशायने - उदरवती कन्या । संसङ्गे- दण्डी । तथेत्यादि अनुदाहृता उदाह्रियन्ते । अशिडन्तत इति किम्? गोदुहोऽस्य सन्ति लोधुङ्मान् । मायेत्यादि । मायाशीर्षादिति समाहारद्वन्द्वः । स्वरूपादिति । यथा मायी, शीर्षी । चकार उक्तसमुच्चयमात्रे । अनेकस्वरादकारान्तादिति किम् । स्वं विद्यतेऽस्येति स्ववान् । मायास्मेधेति मायावी | असन्तश्च पयस्वी । अन्यत्र भास्वान् । अवर्णोपधत्वाद् वन्तुरेव । सज् - नग्वी । द्वन्द्वेत्यादि । कटकश्च वलयश्च तौ विद्येते अस्येति विग्रहः । निन्दितरोगयोर्व्यस्तोदाहरणं श्लोकत्वात् । क इत्यादि । एषां वातादीनामित्यर्थः । वातातिसारौ रोगाख्यौ । पिशाचशब्दस्य इन्नेव । कः स्वार्थ इति । कश्मलं च सोन्मत्तत्वं चेति समाहारद्वन्द्वः । मुख्या एव पिशाचा अभिधीयन्ते । पिशाचकी वैश्रवणः, यक्षभूतपिशाचाधिपतित्वात् ।
वयसीत्यादि । पञ्चानां पूरणः पञ्चमः सोऽस्यास्तीति । वयसीति किम् ? पञ्चमवान् गानरागः । सुखादिभ्य इति । सोढम् अनम् आनं विद्यतेऽस्येति विग्रहः । सर्वं च तद् वीजं च, सर्वे च ते केशाश्च तेऽस्य सन्ति सर्वकशी नटः । अर्थनमर्थः सोऽस्यास्तीत्यर्थः । अर्थिक इति नित्यं क्रियापदार्थकादन्यत्र वन्तुरेवाभिधीयते । स्याद्धर्मेत्यादि ।
Page #524
--------------------------------------------------------------------------
________________
४८२
कातन्त्रव्याकरणम् अन्तशब्दः प्रत्येकमणि संबायते । ब्राह्मणस्य वो जातिः । जासावित्यादि । जाताविति किम् ? हस्तवान्, दन्तवान् । वर्णादिति विद्याग्रहणार्थमुपनीतेन सेवितव्यो नियमविशेषो ब्रह्म तच्चरति सेवत इत्यावश्यके णिनिः । वर्णशब्दोऽयमिह जातिवचनः । ब्रह्मचर्यवचन इत्यन्ये । ब्राह्मणक्षत्रियवैश्यैर्वर्णास्त्रय इत्यर्थः । ब्रह्मचारिणीति किम् ? वर्णवान् रूपवान् । पुष्करेत्यादि । पयश्च शालूकं च करीषश्चेति द्वन्द्वः । मनन्तेत्यादि । संज्ञायामिति किम् ? दामवान्, सोमवान् । सज्ञेत्यादि । सञी, सञ्ज्ञावान् । 'प्रयामउपयाम' इति सत्यपि समासे उवर्णे ओ न भवति श्लोकत्वात् । एवमन्येऽपीति |
नौयवकुमारीकरणेभ्य इन्नपि कश्चान्तः । नाविकः, नौमान् । यवादिभ्यो मन्तुः । यव - ऊर्मि - भूमि - कृमि - कुञ्चा - वशा - दाक्षा - वृजि - धृजिभ्यो मन्तुरेव । गुणवचनेभ्यो मन्त्वादीनां लुग् वक्तव्यः । गुणमुक्तवन्तो गुःवचनाः, न तु गुण उच्यते यैः, तदा वचनग्रहणमकारणम् इति । ये गुणमभिधाय तद्वति द्रव्ये वर्तन्ते भेदोपचारात् तेभ्य इत्यर्थः, तथा सिद्धम् - 'शुक्लः पटः' इति । यद् वा भेदविवक्षा तदा मन्त्वादिश्रवणं स्यात् ‘शुक्लवान् पटः' इति । गुणवचनग्रहणस्योपलक्षणत्वाच्च भेदे लुग्वचने सति अभिधेयनद् लिङ्गवचनानि भवन्ति । अभेदोपचारवृत्तौ तु कदाचिद् गुणशब्दा उपात्तस्वलिङ्गास्तद्वति वर्तन्ते । यथा 'कुन्तान् स्त्रीः प्रवेशय, यष्टीर्मनुष्यान्' इति ।
नैवम्, सति सम्भवे लुगारभ्यते । नहि गुणवचनेभ्यो मन्त्वादयोऽनभिधानात् लिङ्गमशेष्य लोकाश्यत्वात् तस्येति । यथा जातिशब्देश्यो गौरश्वः इति भावः । तेषां तु गुणशब्दानां तुल्याभिधानसामान्यमस्ति, अतो भवत्येव ! रसवान् इक्षुः, गन्धदती भूः, शब्दवान् आकाशः, स्पर्शवान् वायुः, रूपवान् दारुकः । रसादिभ्यो वन्तुरेवेति । कथं रसी, रसिकः राजा, रूपिण्योऽप्सरसः, स्पर्शिको वायुरितीन् । रसादिनात्र इन्द्रयग्राह्य इति कथं स्पर्शिको वायुर्गन्धिक इति । तस्मादभिधानमेवाश्रय इति । वटकाः प्रायेणाश्यन्तेऽस्यां वटकिनी पौर्णमासी । गम्यमानार्थत्वादनेनैव सिद्धम् । तदन्ताच्च कप्रत्ययो नैव दृश्यते । श्रद्धा यत्र कर्मण्यस्ति तत् श्राद्धम् । श्राद्धभोजनमपि श्राद्धम्, उपचारात् । श्राद्धमस्यास्तीति श्राद्धी, श्राद्धिकः । अनिवृत्तेऽपि भोजने तृप्तिसंबन्धाद् भुक्तमनेनेति लोकेऽभिधानम् । तेनान्येधुर्न भवति किं श्राद्धमनेनाद्य भुक्तमिति वचनेन । तथा पूर्वम्
Page #525
--------------------------------------------------------------------------
________________
नामचनुष्टयामागे षष्ठस्तरितपालः
४८३ अस्यास्तीति पूर्वी, पूर्वशब्दस्य विशेषणत्वात् । पूर्वं भुक्तं पीतं कृतं चेत्यादिक्रियाविशेषो गम्यते वर्तमानकालस्तत्संस्कारावगमाद् विवक्षित इति । पूर्वं भुक्तं पीतं कृतं वाऽनेनेति परिणतिः, तथा विद्यमानपूर्वादपि । कृतं च तत् पूर्वं चेति तदस्यास्तीति कृतपूर्वी कटम् । भूक्तपूर्वी ओदनम् । कृतं पूर्वमनेनेति परिणतिः। रूटिशब्दा हि तद्धिता एवमर्थे वर्तन्ते इति वा । यदा कर्मणि क्तस्तदापि न दोषः। तेन हि सामान्यं कर्मोक्तं न विशेषमोदनादिकमिति भावः। एवमिष्टादिभ्योऽपि सिद्धम् । इष्टी यज्ञे, पूर्ती श्राद्धे । इष्टमनेनेति परिणतिः ।।३८१।
[वि० ५०]
तदस्यास्तीति । मन्तुश्च वन्तुश्च विंश्च इंश्चेति लुप्तप्रथमाबहुवचनम् पदं समाहारत्वादेकवचनं वा । मन्तुवन्त्वोरुकारलोपः सूत्रत्वात् । विनो नकारस्य लोपः "व्यजनान्तस्य यत्सुभोः"(२/५/४) इत्यतिदेशबलात् ।इनो नकारस्य “लिङ्गान्तनकारस्य" (२/३/५६) इति लोपो न भवति, इन्निति स्वरूपनिर्देशात् । इतिशब्द इत्यादि भूमेति बहुत्वमुच्यते । गावो विद्यन्तेऽस्येति गोमान् । निन्दायां ककुदावर्ती । ककुदावर्तोऽनिष्टफलहेतुत्वान्निन्दितः । प्रशंसायां रूपवान् । नित्ययोगे क्षीरिणो वृक्षाः। अतिशायने उदरवती कन्या । संसझे दण्डी । अर्थनिवम उक्तः । इदानीं प्रकृतिनियममाहतथेत्यादि । भोपधश्च मान्तश्च समाहारद्वन्द्वः। तत्र मोपधात् लक्ष्मीवान् । मान्तात् किंवान् ।धुडन्तात् - विद्युत्वान् ।अशिडन्तादिति किम् ? आयुष्मान् ।मन्तुरेव शेषत्वात् ।
___ अवर्णोपधतः-पयस्वान्, भास्वान् ।अवर्णतः-वृक्षवान्, मालावान् ।मायेत्यादि । माया च शीर्षं चेति समाहारः । स्वरूपादिति नार्थादित्यर्थः । यथा मायी, शीर्षी | चकार उक्तसमुच्चयमात्रे । व्रीहीति स्वरूपात् शालीत्यर्थाद् अनेकस्वरादतः इति छत्री । एकस्वरादकारान्तान्न भवति । स्वं विद्यतेऽस्येति स्ववान्, वन्तुरेवावर्णत इति वचनात् । मायास्मेधेत्यादि । माया च अस् च सक् चेति समाहारः। मायावी, असन्तात् पयस्वी । मेधावी, सम्वी । विभाषयेति पक्षान्तरे यथाप्राप्तम् । द्वन्द्व इत्यादि । इनेव हीति । मा भूद् अनुष्टुब्भङ्ग इति नकारस्य द्विर्न भवति ।कुष्ठीत्यन्तपठितस्य रोगस्य मध्ये उदाहरणं श्लोकत्वात् । स्तनकेशवतीति प्राणिस्थद्वन्द्वत्वादिन् प्राप्तः स्वाङ्गत्वान्न भवति । क इत्यादि । एषां वातातीसारपिशाचानामिनन्तानाम् इत्यर्थः । वातातीसारौ रोगौ । पिशाच
Page #526
--------------------------------------------------------------------------
________________
४८४
कातन्वव्याकरणम्
शब्दार्थमाह - कश्मलसोन्मत्तत्वे इति । कश्मलं च सोन्मत्तत्वं चेति समाहारद्वन्द्वः । अथवा मुख्या एव पिशाचा उच्यन्ते । पिशाचकी वैश्रवणः, तस्य यक्षभूतपिशाचाधिपतित्वात् । वयसीत्यादि । पञ्चानां दिनानां मासानां वा पूरणः पञ्चमः, सोऽस्या अस्तीति पञ्चमी । अन्यत्र पञ्चभवान् गानरागः ।सुखादिभ्य इत्यादि । सोढमाग्नमस्यास्तीति विग्रहः ।ब्रह्मवर्णीति । ब्रह्मणो वर्णः, ब्राह्मणजातिरित्यर्थः । जातावित्यादि । जातेरन्यत्र वन्तुरेव | हस्तवान्
इत्यादि।
वर्णादिन् ब्रह्मचारिणीत्यादि । विद्याग्रहणार्थमुपनीतेन सेवितव्यो नियमविशेषो ब्रह्म, तच्चरति सेवत इति । “आवश्यकाधमर्णयोर्णिन्" (४/५/१११) । वर्गशब्दो ब्रह्मचर्यपर्याय इति दर्शयन्नाह - स्युर्ब्रह्मचरणादित्यादि । एतेन ब्रह्मचर्यावस्थामधिकृत्य वर्णिशब्दार्थो दर्शितः । अन्ये तुवर्णिशब्दो ब्राह्मणादिजाातेवचनः इत्याहुः । तत्र ब्रह्मचारिणीत्यनेन शूद्रस्य व्यवच्छेदः क्रियते , ब्रह्मचरणे तस्यानधिकारात् । अतोऽन्तरेणापि ब्रह्मचर्यं त्रयो ब्राह्मणा वर्णिन इति । मतान्तरमाह - ब्रह्मचर्यं विनापीति । कथं पुनर्ब्रह्म चारिग्रहणे सत्येवमिति चेद् आह - सम्भवादिति । ब्रह्मचरणयोग्यत्वादित्यर्थः । तदुक्तम् - त्रैवर्णिको वर्णीत्युच्यते । ब्रह्मचारिणीति किम् ? वर्णवान् रूपवान् इति । रूढदेशक इति स्वार्थे कप्रत्ययः । देशादन्यत्र न भवति । पुष्करवान् हस्ती | मनन्तेत्यादि । मनन्तादप्राप्ते मान्तादनेकस्वरादत इति वचनात् प्राप्तो नियम्यते, संज्ञायामिनेवेति । तेनासंज्ञायां वन्तुरेव - दामवान्, सोमवान् इति ।प्रागुक्तनियमार्थत इति । द्वन्द्वनिन्दितरोगेभ्यः प्राणिस्थेभ्य इनेव हि' इति, अतः पूर्वमित्यर्थः। सज्ञेत्यादि । सञी, सञ्ज्ञावान् इत्युदाहरणम् । वा कर्मेत्यादि । एभ्यो धर्मपर्यन्तेभ्योऽप्राप्त इन् विकल्प्यते । चूलादिभ्य इन्ननेकस्वरादतः इति विकल्पः सिद्ध एव । केवलं को नेष्यते इति प्रतिपाद्यम् । 'प्रयामउपयाम' इति सत्यपि द्वन्द्वसमासे "उवणे ओ" (१/२/३) इति न कृतं स्यात्, श्लोकत्वात् । एवमन्येऽपीति । नौर्विद्यतेऽस्येति इन् कश्चान्तः नाविकः । 'नौमान्' इत्यादयोऽपीतिशब्दस्य विवक्षार्थत्वादनुसतव्या इति भावः ।।३८१।
[क० च०]
तदस्या० । तदिति पञ्चम्यर्धे लुप्तप्रथमान्तमनुकृतम् इत्यत आह - तदिति प्रधमान्तादिति । अथास्तीत्यर्धे विधीयमानः प्रत्ययः कथं प्रधमान्तात् स्याद् अस्येत्युपादानात्
Page #527
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४८५
षष्ठ्यन्तादेव युज्यते ? सत्यम् । इतिशब्दस्य बहुलार्थत्वादस्तीत्यर्थे प्रथमान्तादेव स्यादित्यर्थः । ननु किमर्थमस्तीति विशेषणम्, न हि प्रथमान्तः सत्तां व्यभिचरतीति । उच्यते - वर्तमानकालार्थं तेन भूताभिर्भविष्यन्तीभिर्वा गोभिर्न गोमानिति । तर्हि कथं गोमान् आसीत्, गोमान् भविता चेत्, तदापि वर्तमानाभिरेव गोभिर्गोमान् वर्तमानस्य गोसत्तासम्बन्धस्य मन्तुनाऽभिधीयमानस्यातिक्रान्ततैवासीदित्यनेनोच्यते, न तु गवां सत्ता गोमान् इत्येकवचनान्तत्वात् । अन्यथा गावः आसिन्नित्येव स्यात् । नापि पुंसत्ता । तर्हि पुरुषस्य वर्तमानत्वाद् अस्तीत्येव स्याद् अतो व्याकरणस्य पदसंस्कारत्वाद् मांसं न खादतीति वर्तमानसंज्ञेतिवत् समाधिरिति टीकाहृदयम् ।
अथ 'गोमान् देवदत्तः' इत्यादौ कथं संबन्धे विधीयमानेन मन्त्वादिना सम्बन्धिसामानाधिकरण्यम्, ‘गोमान् देवदत्तस्य' इत्येव युज्यते । नैवम्, संबन्धं विधीयमानेनोक्तार्थत्वात् प्रथमैव स्यात्, अव्यतिरिक्तलिङ्गार्थत्वात् । सत्तामात्रे मन्त्वादयश्चेत्, व्रीहिरस्य यवोऽस्येत्यत्रापि प्राप्नुवन्ति । तस्माद् एतद्व्यावृत्त्यर्थं भूमादयोऽर्धा वाच्या नेत्याह - इतिशब्द इत्यादि । भूमेति । बहोर्भावे इमन् । बहोर्भूरिमन् आदिलोपश्च सद्यआद्यत्वात् । भूम्नि बहुत्वे इत्यर्थः । नित्ययोग उत्पत्तिमारभ्य विनाशं यावत् संबन्धः । संसङ्गस्तु कदाचित् संबन्ध इति भेदः । कश्मलेत्यादि । पिशाचशब्दः कश्मलसोन्मत्तत्वे कश्मलसोन्मत्ताधिकरणेऽभिधीयते पूर्वैरित्यर्थः । तृप्रीत्यादि । तृप्रं प्रीणनम्, कृच्छ्रं दुःखम्, प्रतीपो निकटः, सोढुं सहनम्, अस्रं रुधिरम् । अनमेवानं स्वार्थेऽण्, तदस्यास्तीति वाक्यम् | प्रतीपी चेति चकारात् 'पञ्चप्रदी, पाथेयी, प्रणयी, पक्षी, चक्री, पिनाकी, मुसली' इत्यन्येऽपि दुःखादयः शिष्टप्रयोगादिति कुलचन्द्रः।
सवदिरिति । सर्व आदिः पूर्वोपनिपाती यस्येति विग्रहः । सर्वबीजीत्यादि । सर्वं च तद् बीजं चेति, सर्वे च ते केशाश्चेति तद् विद्यते यस्येत्यर्थः । स्याद् धर्मेति । धर्मश्च शीलं च वर्णश्च ते अन्ता यस्य तस्मादित्यर्थः । कराच्चेति चकारेण कुन्ती कबरी च जातौ । अन्यत्र कुन्तवान् । स्युर्ब्रह्मेत्यादि । ब्रह्मचारीत्यस्यार्थद्वयम् एकं ब्रह्मचरणविशिष्टत्वम्, अपरं ब्रह्मचरणयोग्यत्वम् । ननु ब्रह्मचरणाद्धेतोरित्यत्र कथं पञ्चमी, “षष्ठी हेतुप्रयोगे" (२/४/३७) इत्यस्य विषयत्वात् । तेन शतस्य हेतोर्वर्धते इत्यत्र हेतावृणे प्राप्तापि पञ्चमी बाध्यते चेत्, उच्यते "कर्तृकर्मणोः कृति नित्यम्” ( २/४/४१ ) इत्यत्र नित्यग्रहणं
Page #528
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
षष्ठीप्रकरणस्यानित्यत्वं ज्ञापयति । तथा च मैत्रेयेणापि " षष्ठी हेतुप्रयोगे" (२/४/३७) इत्यत्र विभाषानुवर्तते इत्युक्तम् । अत एव " अकथितं च" (अ० १/४/४१ ) इत्यत्र व्रजेन हेतुना गामन्तः स्थापयतीति न्यासोक्तम् । एवम् अज्ञसंज्ञानहेतुनेत्यादयश्च सिद्धा इति महान्तः । वर्णिन इति त्रयो ब्राह्मणादयो वर्णिन उच्यन्ते इत्यर्थः । पुष्करेत्यादि । पुष्करं च उत्पलं च पद्मं च एभ्यः । यथा पुष्करिणी, उत्पलिनी, पद्मिनी । तथा नडं च बिसं च तमालं च तस्मात् । यथा नडिनी, बिसिनी, तमालिनी । कपित्थं कुमुदं च ताभ्याम् । यथा कपित्थिनी, कुमुदिनी । चकारात् पद्मपर्यायादपि - कमलिनी, राजीविनीत्यादि । पयश्च शालूकं च करीषश्चेति विग्रहः । मृणालात् कर्दमाद् हिरण्यशब्दाच्च परेभ्यः पयःशालूककरीषेभ्य इनेवेत्यर्थः । मृणालपयसिनी, कर्दमपयसिनी, मृणालशालूकिनीत्यादि ।
I
अन्ये तु स्वातन्त्र्येण विधायकमिदम् । तेन मृणालिनी, कर्दमिनी, पयसिनीत्यादि । अत एव कुलचन्द्रेण चकारात् कैरवशिरीषपुटकादिभ्य इत्युक्त्वा कैरविणीति केवलादुदाहृतम् । अन्यथा मृणालकैरविणीत्येव वक्तुमुचितमित्याहुः । रूढदेशक इति । पुष्करिणीप्रभृतयो रूढदेशकविशिष्टसंज्ञायां स्त्रियामेव स्युरितिशब्दस्य बहुलार्थत्वादित्यर्थः । इन्विषय इत्यादि । उक्ताद् नियमात् प्राक् द्वन्द्वनिन्दितरोगेभ्य इत्यतः पूर्वम् इन्विषये इको वक्तव्यः । यथा दण्ड्येव दण्डिकः इति । अथ इनन्तात् स्वार्थे कप्रत्यये सिद्धो दण्डिक इति किमिकविधानेनेत्याह - स्वार्थे कः स्यादिति । अत्र स्वार्थे कोऽयं न वाच्यः स्यात् कप्रत्यस्य बाहुल्यादित्यर्थः । एवमन्येऽपीति । नौयवकुमारीकरणेभ्य इन्नपि कश्चान्तः। यथा नाविकः, नौमान् । तथा यवादिभ्यो मन्तुः । अन्येऽपि टीकात ऊह्याः ।। ३८१ ।
[समीक्षा]
'गोमान्, लक्ष्मीवान्, क्रियावान्, भास्वान्, तेजस्वी, दण्डी' इत्यादि शब्दों के साधनार्थ पाणिनि ने 'मतुप् - विन्- इन्' ये तीन प्रत्यय किए हैं। मतुप् प्रत्ययगत मकार को वकारादेश करके 'क्रियावान् - लक्ष्मीवान्' आदि शब्द सिद्ध किए गए हैं- "मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (अ० ८।२९), नकार के लिए नुम् आगम का विधान है – “उगिदचां सर्वनामस्थानेऽधातो: " (अ० ७।१।७० ) । कातन्त्रकार ने
४८६
-
Page #529
--------------------------------------------------------------------------
________________
नामचतुष्टयायाये षष्ठस्तद्धितपादः
४८७ 'मन्तु-वन्तु-विन - इन्' ये चार प्रत्यय किए हैं। इस प्रकार यहाँ मकार को वकारादेश तथा नुमागम की आवश्यकता नहीं होती है | पाणिनि के तीन प्रत्ययविधायक सूत्र हैं - "तदस्यास्त्यस्मिन्निति मतुप्, रसादिभ्यश्च, तपःसहस्राभ्यां विनीनी, अत इनिठनौ, व्रीह्यादिभ्यश्च" (अ० ५।२।९४, ९५, १०२, ११५, ११६) । वृत्तिकार दुर्गसिंह ने २० श्लोकों में अर्थ -निर्देश करके इन प्रत्ययों का प्रयोगक्षेत्र निश्चित किया है।
[विशेष वचन] १. इतिशब्दोऽत्र विवक्षार्थः (दु० वृ०)। २. मन्तुवन्त्वोरुकारलोपो विचित्रसूत्रनिर्देशप्रतिपत्तये (दु० टी०)। ३. वर्णशब्दोऽयमिह जातिवचनः, ब्रह्मचर्यवचन इत्यन्ये । ब्राह्मणक्षत्रिय___ वैश्यैर्वर्णास्त्रय इत्यर्थः (दु० टी०)।। ४. ककुदावर्तोऽनिष्टफलहेतुत्वान्निन्दितः (वि० प०)। ५. विद्याग्रहणार्थमुपनीतेन सेवितव्यो नियमविशेषो ब्रह्म (वि० प०)। ६. वर्णशब्दो ब्रह्मचर्यपर्यायः (वि० प०)। ७. ब्रह्मचारीत्यस्यार्थद्वयम् - एकं ब्रह्मचरणविशिष्टत्वम्, अपरं ब्रह्मचरण___ योग्यत्वम् (क० च०)। ८. त्रयो ब्राह्मणादयो वर्णिन उच्यन्ते इत्यर्थः (क० च०)। [रूपसिद्धि
१. गोमान् । गावः सन्त्यस्य । गो + मन्तु + सि | प्रकृत सूत्र से मन्तु प्रत्यय, उ-अनुबन्ध का अप्रयोग, “नान्तस्य चोपधायाः" (२।२।१६) से नकार की उपधा को दीर्घ, सिलोप, तलोप।
२. आयुष्मान् । आयुरस्ति अस्य | आयुस् + मन्तु + सि । पूर्ववत् साधनप्रक्रिया ।
३ - १०. वृक्षवान् । वृक्षाः सन्त्यस्य | वृक्ष + वन्तु + सि । मालावान् । मालाः सन्त्यस्य |माला + वन्तु + सि । किंवान् । किम् अस्त्यस्य । किम् + वन्तु + सि । लक्ष्मीवान् । लक्ष्मीरस्यास्ति । लक्ष्मी + वन्तु + सि । क्रियावान् । क्रियाः सन्त्यस्य । क्रिया + वन्तु +सि । विद्युत्वान् । विद्युतः सन्त्यस्य । विद्युत् + वन्तु + सि । पयस्वान् । पयोऽस्त्यस्य । पयस् + वन्तु + सि | भास्वान् । भासः सन्त्यस्य । भास् + वन्तु + सि | प्रकृत सूत्र से वन्तुप्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
Page #530
--------------------------------------------------------------------------
________________
४८८
कातन्त्रव्याकरणम्
११ - १३. तेजस्वी ।तेजोऽस्त्यस्य ।तेजस् + विन् + सि । पयस्वी |पयांसि सन्त्यस्य । पयस् + विन् + सि । मायावी । मायाऽस्त्यस्य । माया + विन् + सि । सर्वत्र प्रकृत सूत्र से विन् प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, न् की उपधा को दीर्घ, नलोप तथा सिलोप |
१४ - १५. दण्डी । दण्डोऽस्त्यस्य । दण्ड + इन् + सि । मायी । मायाऽस्त्यस्य । माया + इन् + सि । उभयत्र प्रकृत सूत्र से इन् प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, न् की उपधा को दीर्घ, नलोप तथा सिलोप ||३८१ ।
३८२. संख्यायाः पूरणे डमौ (२।६।१६) [सूत्रार्थ] संख्यावाची शब्द से पूरण अर्थ में 'ड' तथा 'म' प्रत्यय होते हैं ।। ३८२ । [दु० वृ०]
सङ्ख्यायाः पूरणेऽर्थे डमौ भवतः । व्यवस्थितवाधिकाराद् वाऽसंख्यादेन्तिायाश्च मो भवति, शेषाच्च डः । एकादशानां पूरणः एकादशः, एकादशी । एवं पञ्चमः, पञ्चमी। संख्यायाः पूरण इति किम् ? एकादशानां पञ्चानां वा उष्ट्रिकाणां (मुष्टिकानाम्) पूरणो घटः ।।३८२।
[दु० टी०]
व्यवस्थितवाधिकाराद् वेति । वाशब्देनाभिधानाद् वेति मन्तव्यम् । ऋषिवचनेषु तु संख्यादेरपि नान्ताया मो दृश्यते । प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति' । प्रधानस्य नदादित्वाद् अप्रधानात् स्त्रियामादा - प्रियैकादशा, प्रियपञ्चमा । ननु संख्याशब्दश्च द्विधा - संख्यानप्रधानः, संख्येयप्रधानश्च । यस्तावत् संख्यानप्रधानस्तत्रैवेष्टसिद्धिः ।या तु संख्या संख्येयप्रधाना तत्र संख्यानस्य गुणभूतत्वात् संख्येयपूरणे प्राप्नुतः । यथा पञ्चानां मुष्टिकानां पूरणो घटः, तथा विंशत्योदरपि । विंशतेर्मुष्टिकानां पूरणो घट इति । आदशभ्यः संख्याः संख्येये, ततः परं संख्यानेऽपि वर्तन्ते । संख्येयपूरणोऽपि द्विधा । प्रतिलब्धपञ्चव्यपदेशानां संख्येयविशेषाणां केनचिद् द्रव्येणातिरिक्तीकरणं पूरणं संख्येयवर्गान्तर्भावो वा अप्रतिलब्धपञ्चव्यपदेशानां संख्येयविशेषाणां येन संजातेन पञ्च वाच्या भवन्ति, तत्र यदा संख्येयवर्गान्तर्भावण पूरणं तदेष्टसिद्धिरिति । नैवम्, पूर्यतेऽनेनेति पूरयतीति वा करणे कर्तरि वा युट् । संख्याया इति कर्मणि षष्ठी ।
Page #531
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४८९ एतदुक्तं भवति - संख्यावाचिनः षष्ठ्यन्तात् संख्येयपूरणेऽभिधेये डमाविति । संख्यानां प्रवृत्तिनिमित्तं यस्य संख्याशब्दस्येति भावः । कुतोऽयमसंख्यायमाने (कुतो भ्रियमाणे) घटे व्यवहिते प्रसङ्ग इति । अर्थवशादिह पञ्चमी न भाव्यते । पञ्चमी वा यदि स्यात् षष्ठी भाव्यते इत्याह - संख्यायाः पूरण इत्यादि ।।३८२।
[वि० प०]
संख्यायाः। व्यवस्थितेत्यादि । वाशब्देनाभिधानाद् वेति सूच्यते । संख्या पूर्यते येन तत् पूरणम् |संख्याया इति कर्मणि षष्ठीयम् । अतःसंख्येयपूरणे न भवतीत्याह- संख्याया इत्यादि । इह लब्धैकादशसंख्यानां लब्धपञ्चसंख्यानां वा संख्येयानां मुष्टिकानां द्रव्यान्तरेणातिरिक्तीकरणं पूरणं गम्यते । न तु तस्मिन्नुपजाते सति एकादशसंख्या पञ्चसंख्या वा पूर्यते, तस्याः पूर्वमेव पूर्णत्वात् ।। ३८२।
[क० च०]
संख्या० । पूर्यतेऽनेनेति पूरणम् | "करणाधिकरणयोश्च" (४।५।९५) इति युट् । पूरयतीति "कृत्ययुटोऽन्यत्रापि" (४।५।९२) इति वचनात् कर्तरि वा । ननु संख्याया गुणत्वात् कथं पूरणं संगच्छते चेत्, उच्यते – संख्या पूर्यते परिच्छिद्यते येन स इह पूरणो गृहीत इत्यर्थः । व्यवस्थितेत्यादि । तर्हि कथं 'प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति' इति नान्तायाः संख्यातो मः ? सत्यम् । ऋषिवचनत्वादिति टीका | प्रधानस्य नदादित्वाद् अप्रधानस्य स्त्रियामादा एव-प्रियैकादशा, प्रियपञ्चमेति ।।३८२ ।
[समीक्षा
'एकादशानां पूरणः, त्रयोदशानां पूरणः' इस अर्थ में “एकादशन्-त्रयोदशन्' शब्दों से पाणिनि ‘डट्' प्रत्यय तथा कातन्त्रकार 'ड' प्रत्यय करके 'एकादशः, त्रयोदशः' शब्द सिद्ध करते हैं । उभयत्र इ अनुबन्ध के बल पर टिभाग अन् का लोप हो जाता है । 'पञ्चानां पूरणः, सप्तानां पूरणः' इस अर्थ में 'पञ्चन् – सप्तन्' इन नकारान्त शब्दों से पाणिनि ने डट् प्रत्यय तथा मट का आगम करके, परन्तु कातन्त्रकार ने केवल 'म' प्रत्यय ही करके 'पञ्चमः, सप्तमः' शब्दरूप सिद्ध किए हैं । एतदर्थ पाणिनि के दो सूत्र हैं - "तस्य पूरणे डट्, नान्तादसंख्यादेर्मट्" (अ० ५।२।४८, ४९) । यहाँ सूत्रसंख्या तथा प्रक्रिया की दृष्टि से भी पाणिनीय व्याकरण में गौरव स्पष्ट है और कातन्त्रव्याकरण में लाघव |
Page #532
--------------------------------------------------------------------------
________________
४९०
कातन्त्रव्याकरण
[रूपसिद्धि]
१. एकादशः । एकादशानां पूरणः । एकादशन् + ड+सि । प्रकृत सूत्र से ड प्रत्यय, ड् अनुबन्ध का अप्रयोग, इ अनुबन्ध के बल पर टिभाग = अन् का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा विसगदिश । स्त्रीलिङ्ग में "नदायन्विवाह ०" (२।४।५०) इत्यादि से ई प्रत्यय तथा अ का लोप होने पर 'एकादशी' शब्दरूप सिद्ध होता
है।
२. पञ्चमः | पञ्चानां पूरणः । पञ्चन् + म + सि । प्रकृत सूत्र से म-प्रत्यय, नलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसगदिश । स्त्रीलिङ्ग में ई-प्रत्यय होकर 'पञ्चमी' शब्दरूप सिद्ध होता है ||३८२ |
___३८३. देस्तीयः [२।६।१७] [सूत्रार्थ] पूरण अर्थ विवक्षित होने पर 'द्वि' शब्द से 'तीय' प्रत्यय होता है ।। ३८३ । [दु० वृ०] द्वेः पूरणेऽर्थे तीयो भवति । द्वयोः पूरणः द्वितीयः ||३८३। [दु० टी०] द्वे० । डे प्राप्ते तीयो विधीयते ।।३८३ | [क० च०] डे प्राप्ते तीयो विधीयते ।।३८३ । [समीक्षा
पूरण अर्थ में 'द्वि' शब्द से 'तीय' प्रत्यय दोनों ही व्याकरणों में किया गया है । पाणिनि का भी सूत्र है - "वस्तीयः" (अ० ५।२।५४) । इस प्रकार उभयत्र साम्य है।
[रूपसिद्धि]
१. द्वितीयः । द्वयोः पूरणः। द्वि + तीय + सि । प्रकृत सूत्र से तीय प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसगदिश ।। ३८३ ।
Page #533
--------------------------------------------------------------------------
________________
४९१
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
३८४. त्रेस्तृ च [२।६।१८] [सूत्रार्थ]
'त्रि' शब्द से पूरण अर्थ में 'तीय' प्रत्यय तथा 'त्रि' के स्थान में 'तृ' आदेश होता है ||३८४।
[दु० वृ०] त्रेः पूरणेऽर्थे तीयो भवति त्रादेशश्च । त्रयाणां पूरणस्तृतीयः ।।३८४ । [दु० टी०]
त्रेस्तृ० । 'तृ च' इत्यविभक्तिनिर्देशनाङ्गीकृतेनादेशोऽयं न प्रत्ययः । यथा “हनस्त च, गमस्त च" (४।२।२२; ४।४९) इति ।।३८४/
[क० च०]
त्रेस्तृ० । ४ चेत्यविभक्तिनिर्देशप्रयलादादेशोऽयं न तु प्रत्यय इति सूचितम् ! यथा "हनस्त च" (४।२।२२) इति टीका ।।३८४ ।
[समीक्षा]
पूरण अर्थ में 'त्रि' शब्द से 'तृतीयः' रूप से साधनार्थ पाणिनि तीय प्रत्यय तथा रेफ को सम्प्रसारण करते हैं - "त्रेः सम्प्रसारणं च" (अ०५।२।५५)।कातन्त्रकार ने साक्षात् 'तृ' आदेश का विधान किया है । सम्प्रसारणविधि में पाणिनि को इकार का “सम्प्रसारणाच्च" सूत्र से पूर्वरूप भी करना पड़ता है । अतः पाणिनीय प्रक्रिया में गौरव सन्निहित है।
[रूपसिद्धि]
१. तृतीयः । त्रयाणां पूरणः । त्रि+तीय + सि । प्रकृत सूत्र से तीयप्रत्यय तथा त्रि को 'तृ' आदेश एवं विभक्तिकार्य ।। ३८४ ।
३८५. अन्तस्थो डे !ः [२।६।१९] [सूत्रार्थ]
रकारान्त तथा षकारान्त संख्यावाचक शब्दों के अन्त में 'थ' आगम होता है 'ड' प्रत्यय के पर में रहने पर ।।३८५।
Page #534
--------------------------------------------------------------------------
________________
४९२
कातन्वव्याकरणम् [दु० वृ०]
रषोरन्तस्थो भवति डे परे । चतुर्णां पूरणश्चतुर्थः । एवं षष्ठः । आगमत्वाद् विसर्गो डत्वं च न स्यात् ।।३८५।
[दु० टी०]
अन्त० । 'थ' इति सस्वरोच्चारणमुत्तरार्थम् । इह त्वकारलोपः स्यादेव । अन्तग्रहणमागमार्थमित्याह - आगमत्वादित्यादि । ननु प्रत्ययेऽपि कृते चतुर्थीषष्ठीति निर्देशाद् विसर्गो डत्वं च नास्तीत्यवसीयत एव । अत्यल्पमिदं देश्यम् । त्रयोऽप्येते योगा व्युत्पत्तिपक्षेऽपि ज्ञापकादेव सिद्धाः । यत् क्रियन्ते तत् सुखप्रतिपत्त्यर्थम् । सविकल्पान्यपि ज्ञापकानि भवन्ति ||३८५/
[वि०प०]
अन्तग्रहणमिहागमार्थम् । ततः किमित्याह -आगमत्वादित्यादि । यदि पुनस्तत्र थप्रत्ययः स्वतन्त्रः स्यात् तदा 'चतुर्थः' इत्यत्र विसर्गः, 'षष्ठः' इत्यत्र डत्वं स्यात् । आगमत्वे तु नायं दोषः, तस्य रषग्रहणेनैव ग्रहणात् ।। ३८५।
[क० च०]
अन्त० । 'थ' इत्यकारकरणमुत्तरार्थम् । अन्यथा 'कतिपयथः' इत्यादावदन्तत्वं न स्यात् । इह तु डानुबन्धेऽकारलोपोऽस्त्येवेति । आगमत्वादित्यादि । अथ षष्ठीचतुर्थीत्यादि ज्ञापकाद् भविष्यति । किञ्चोक्तज्ञापकाद् रषोरन्तस्थकारो द्वितीयातृतीयाभ्यां वेति वचनाद् द्वित्रिभ्यां तीयस्त्रादेशश्च लभ्यत एव चेत्, सविकल्पान्यपि ज्ञापकानि भवन्ति इत्यन्तग्रहणं सूत्रत्रयं चेति टीका ।।३८५।
[समीक्षा]
'चतुर्, षष्, कति, कतिपय' शब्दों से पूरण अर्थ में चतुर्थः, षष्ठः, कतिथः, कतिपयथः' शब्दरूपों के साधनार्थ पाणिनि डट् प्रत्यय तथा थुक् आगंम करते हैं - "तस्य पूरणे डट्, षट्कतिकतिपयचतुरां थुक्" (अ० ५।२।४८, ५१)। कातन्त्रकार 'चतुर् - षष्' शब्दों से 'ड' प्रत्यय तथा थ -आगम का विधान, परन्तु 'कतिकतिपय' शब्दों से 'थ' प्रत्यय का निर्देश करते हैं – “संख्यायाः पूरणे डमौ, अन्तस्थो डे !ः, कतिपयात् कतेः" (२।६।१६, १९, २०) । इस प्रकार प्रक्रियागौरव उभयत्र समान है।
Page #535
--------------------------------------------------------------------------
________________
४९३
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [रूपसिद्धि]
१. चतुर्थः । चतुर्णां पूरणः । चत्वार् + 2 + ड + सि | “संख्यायाः पूरणे डमौ' (२।६।१६) से 'ड' प्रत्यय, प्रकृत सूत्र से थ - आगम, इ-अनुबन्ध से थकारोत्तरवर्ती अकार का लोप, “चतुरो वाशब्दस्योत्वम्” (२/२/४१) सूत्र द्वारा वा शब्द को उ आदेश, लिङ्गसंज्ञा, सि - प्रत्यय तथा स् को विसगदिश ।
२. षष्ठः । षण्णां पूरणः । षष् + थ+ड + सि । पूर्ववत् प्रक्रिया तथा “तवर्गस्य षटवर्गाट्टवर्ग:" (३।८।५) से थ् को ठ् आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसईदेश || ३८५।
३८६. कतिपयात् कतेः [२।६।२०] [सूत्रार्थ] कति एवं कतिपय शब्दों से पूरण अर्थ में 'थ' प्रत्यय होता है ।।३८६ । [दु० वृ०] कतिपयात् कतेश्च पूरणेऽर्थे थो भवति । कतिपयथः, कतिथः ।। ३८६ । [दु० टी०]
कति० । आभ्यां डो नास्त्यसंख्यावाचित्वात् । पूरणे 'थ' इह प्रत्ययो विधीयते । अर्थं प्रति प्रकृतिप्रत्यययोः सामर्थ्याद् भिन्नविभक्तिनिर्देशोऽनुष्टुब्भङ्गनिरासार्थ एव स्त्रियां तु कतिथी, कतिपयधी ।।३८६।
[वि० प०]
कति० । आभ्यामसंख्यावाचित्वाड्डप्रत्ययो नास्ति । कतिपयात् कतेरिति पञ्चम्यन्तात् थप्रत्यय एव पूरणे विधीयते । न चात्रागमत्वेऽस्य पूरणार्थोऽभिधेयो युज्यते, आगमान्तानामनन्यार्थत्वात् । स्त्रियां तु कतिथी, कतिपयथी, नदादेराकृतिगणत्वात् ।। ३८६।
[क० च०]
कति० । भिन्नविभक्तिनिर्देशोऽनुष्टुप्पूरणार्थः । न चात्रागमेति प्रमाणमुच्यते । "कतेश्च जस्शसोः' (२।१।७६) इत्यनेन लुग् यथा स्याद् आगमान्तानामनन्यार्थत्वात् । अथ किमनेनैकान्तिकं यतस्तस्य प्रत्ययत्वमपि ? सत्यम् |प्रत्ययबाहुल्यसाहचर्यात् ।। ३८६ ।
[समीक्षा] पूर्ववर्ती सूत्र की समीक्षा द्रष्टव्य ।
Page #536
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. कतिपयथः । कतिपयानां पूरणः । कतिपय + 2 + सि । प्रकृत सूत्र से थ - प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश | २. कतियः । कतीनां पूरणः । कति + 2 + सि । पूर्ववत् प्रक्रिया ।।३८६।
३८७. विंशत्यादेस्तमट् [२।६।२१] [सूत्रार्थ] "विंशति' आदि शब्दों से पूरण अर्थ में विकल्प से 'तमट्' प्रत्यय होता है ||३८७। [दु० वृ०]
विंशत्यादेः पूरणेऽर्थे तमड् भवति । विंशतेः पूरणः विंशतितमः, विंशतितमी, त्रिंशत्तमः, त्रिंशत्तमी । उत्तरत्र नित्यग्रहणाद् विकल्पो लभ्यते । विंशः, त्रिंशः ।।३८७।
[दु० टी०]
विंश० । नित्यं डे प्राप्ते तमड्विधानम् । एवम् एकेनाधिका विंशतिः एकविंशतिः। एकविंशतः पूरणः एकविंशतितमः, एकविंशः । एकत्रिंशत्तमः, एकत्रिंशः । एकचत्वारिंशत्तमः, एकचत्वारिंशः । एकपञ्चाशत्तमः, एकपञ्चाशः । इह टकारानुबन्धो नदादिप्रतिपत्त्यर्थ एव ।।३८७ ।
[क० च०]
विश० | दशानां दशाधिके विंशत्यादयो निपाताः । दश च दश च विंशतिः । सा च दश च त्रिंशत् । एवं चत्वारिंशद् इत्यादीति कुलचन्द्रः। विंशतिरादिर्यस्य संख्यावाचिनः इति बहुव्रीहिः । न पुनर्विंशतेरादिरिति तत्पुरुषः । ऊनविंशतेरित्यकरणात् । षष्टेः प्राग् विंशत्यादिः । टकारः षटेति नदादित्वप्रतिपादनार्थ एव । नित्यं डे प्राप्ते तमड् विधीयते ।।३८७।
[समीक्षा]
'विंशति' आदि शब्दों से पूरण अर्थ में 'विंशतितमः, विंशः' आदि शब्दों के साधनार्थ पाणिनि तधा शर्ववर्मा दोनों ने ही ‘तमट्' का विधान किया है, अन्तर यह है कि पाणिनि के अनुसार यह आगम है और शर्ववर्मा के अनुसार प्रत्यय । अतः पाणिनि 'विंशति' शब्द से डट् प्रत्यय एवं उसको तमट् का आगम करके
Page #537
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्टस्तद्धितपादः
'विंशतितमः ' सिद्ध करते हैं । इस प्रकार वहाँ तमट् में टू के अतिरिक्त मकारोत्तरवर्ती अ को भी अनुबन्ध मानना पड़ता है । पाणिनि का सूत्र है - "विंशत्यादिभ्यस्तमडन्यतरस्याम्” (अ० ५|२| ५६) । अतः उभयत्र साम्य है ।
४९५
[रूपसिद्धि]
१. विंशतितमः । विंशतेः पूरण: । विंशति + तमट् + सि । प्रकृत सूत्र से तमट् प्रत्यय, टू अनुबन्ध का अप्रयोग, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश । तट् प्रत्यय के वैकल्पिक होने से पक्ष में ड - प्रत्यय होने पर 'विंश: ' शब्दरूप सिद्ध होता है ।
२. त्रिंशत्तमः । त्रिंशतः पूरणः । त्रिंशत् + तमट् + सि । पूर्ववत् प्रक्रिया | पक्ष में इप्रत्ययान्त रूप " त्रिंश:' बनता है || ३८७ ।
३८८. नित्यं शत्तादेः [२।६।२२]
[ सूत्रार्थ]
शत आदि शब्दों से पूरण अर्थ में नित्य तमट् प्रत्यय होता है || ३८८ | [दु० वृ० ]
शतादेः पूरणेऽर्थे नित्यं तमड् भवति । एकशततमः । एकशततमी । एकसहस्रतमः, एकसहस्रतमी । एककोटितमः, एककोटितमी । एकलक्षतमः एकलक्षतमी || ३८८ |
[दु० टी०]
नित्यम्० । षष्ट्यादित्वात् शतादेस्तमट् सिद्ध एव । संख्यापरादपि शतादेर्यथा स्यादिति वचनम् । अत एव नित्यग्रहणबलात् पूर्वयोगे विकल्पो गम्यते । अन्यः पुनराह – विंशत्यादित्वात् तमट् सिद्धोऽपि पुनर्वचनं किम् ? स्वविषये पूर्वस्मिन् वा विकल्पमवधारयतीति सन्देहः स्यात् । प्राक् शतात् षष्ट्यादयो विज्ञेयाः । शतादीनां स्वशब्देनैव तमो विधानादिति । व्युत्पत्तिवादी तु मासार्द्धमाससंवत्सरानप्यादत्ते इहादि - शब्दस्य व्यवस्थावचनात् । मासस्य पूरणो दिवसो मासतमः, , अर्धमासतमः, संवत्सरतमो
मासः || ३८८ ।
[क० च०]
नित्यभू० । षष्ट्यादित्वाच्छतादेस्तमट् सिद्ध एव संख्यापरादपि शतादेर्यथा स्यादिति वचनम् । अत एव एकशततमः इत्याद्युदाहृतम् | आदिशब्दस्य व्यवस्थावाचित्वाद् माससंवत्सराभ्यामपि स्यात् । मासस्य पूरणो दिवसः मासतमः, संवत्सरतमो मास इत्यन्य इति टीका || ३८८ |
Page #538
--------------------------------------------------------------------------
________________
४९६
कातन्त्रव्याकरणम्
[समीक्षा]
पूर्ववत् यहाँ भी पाणिनि के अनुसार 'शत' शब्द से "तस्य पूरणे डट्” (अ० ५।२।४८) द्वारा 'डट्' प्रत्यय तथा उसको "नित्यं शतादिमासार्द्धमाससंवत्सराच्च” (अ० ५।२।५७) से तमट् आगम होता है । इस आगम में मकारोत्तरवर्ती अका डित्वसामर्थ्य से लोप अथवा उसे उच्चारणार्थ मानना पड़ता है, तभी 'शततमः, सहस्रतमः' आदि शब्दरूप सिद्ध होते हैं ।
[रूपसिद्धि]
१ . एकशततमः । एकशतस्य पूरणः । एकशत + तमट् + सि । प्रकृत सूत्र से तमट् प्रत्यय, ट् अनुबन्ध का प्रयोगाभाव, लिङ्गसंज्ञा, सि– प्रत्यय तथा सकार को विसगदिश |‘ट्’ अनुबन्ध के कारण स्त्रीलिङ्ग में "नदाद्यन्चिवाह्ह्व्यन्स्यन्तृसखिनान्तेभ्य ई" (२|४|५०) से 'ई' प्रत्यय होने पर 'एकशततमी' रूप बनता है ।
२ - ४ . एकसहस्रतमः । एकसहस्रस्य पूरण: । एकसहस्र + तमट् + सि । एकलक्षतमः । एकलक्षस्य पूरणः । एकलक्ष + तमट् + सि । एककोटितमः । एककोटेः पूरणः । एककोटि + तमट् + सि । सर्वत्र प्रकृत सूत्र से तमट् प्रत्यय | स्त्रीलिङ्ग में 'ई' प्रत्यय प्रवृत्त होगा || ३८८|
३८९. षट्यिाद्यतत्परात् [ २।६।२३]
[सूत्रार्थ]
संख्या से पर में न रहने वाले 'षष्टि' आदि शब्दों से नित्य तमट् प्रत्यय होता है || ३८९ ।
[दु० वृ०]
तस्याः परस्तत्परः, संख्यायाः पर इत्यर्थः । षष्ट्यादेरसंख्यायाः परान्नित्यं तमड् भवति । षष्टितमः, सप्ततितमः, अशीतितमः नवतितमः । अतत्परादिति किम् ? एकषष्टः, एकसप्ततः ।। ३८९ ।
[दु० टी० ]
षष्ट्या० | तच्छब्देन संख्या परामृश्यते । पष्ट्यादिश्चासावतत्परश्चेति विग्रहे परनिपातं प्रति कामचारोऽविभक्तिको वा निर्देश: । विंशत्यादित्वाद् विकल्पे प्राप्ते
Page #539
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्टस्तद्धितपादः
नित्यार्थं वचनम् | संख्यापरात्तु विकल्प एव । ननु कथमस्मात् प्राप्तिः संख्याग्रहणमनुवर्तते । संख्यासमुदायश्चायं न संख्या । नैवम्, संख्यासमुदायोऽपि संख्याग्रहणेन गृह्यते । संख्यायतेऽनेनेति कृत्वा । अन्यः पुनराह - ' ग्रहणवतापि लिङ्गेन तदन्तविधिः ' (व्या० प० पा० ८९)। अतत्परग्रहणादिहेति । परमद्वयोः, परमत्रयाणां पूरणः परमद्वितीयः, परम-तृतीयः इति । कथं परमत्वं संख्याया इति विचार्यम् || ३८९ ।
[वि० प०]
षष्ट्या० । तस्या इत्यादि । न तत्परोऽतत्पर इति पश्चान्नञ्समासे षष्ट्यादिश्चासावतत्परश्चेति विग्रहो गमकत्वाद् विशेष्यस्यापि पूर्वनिपातः । अथवा षष्ट्यादीति लुप्तपञ्चम्येकवचनम् || ३८९ ।
[क० च०]
प्राक् शतादेः षष्ट्यादयो ज्ञेयाः । विंशत्यादित्वाद् विकल्पे प्राप्ते नित्यार्थं वचनम् | गमकत्वाश्रयणं कष्टम् इत्याह - अथवेति || ३८९ ।
४९७
[समीक्षा] ' षष्टितमः, सप्ततितमः' इत्यादि शब्दों के साधनार्थ भी पाणिनि को डट् प्रत्यय तथा उसको “षष्ट्यादेश्चासंख्यादेः” (अ० ५/२/५८ ) से 'तमट्' आगम करना पड़ता है, जबकि कातन्त्रकार 'तमट्' प्रत्यय करके उक्त रूप सिद्ध करते हैं । इस प्रकार मकारोत्तरवर्ती 'अ' का डित्वसामर्थ्य से लोप करने की आवश्यकता नहीं होती है | पाणिनि का तमट् आगम - विधान वस्तुतः रचनावैचित्र्य को सूचित करता है ।
[रूपसिद्धि]
१.
।
षष्टितमः । षष्टेः पूरणः । षष्टि + तमट् + सि । प्रकृत सूत्र से तमट् प्रत्यय, 'ट्' अनुबन्ध का प्रयोगाभाव, लिङ्गसंज्ञा, सि- प्रत्यय, तथा सकार को विसगदिश ।
२ - ४. सप्ततितमः। सप्ततेः पूरणः । सप्तति + तमट् + सि । अशीतितमः । अशीतेः पूरणः । अशीति + तमट् + सि । नवतितमः | नवतेः पूरणः । नवति + तमट् + सि । पूर्ववत् प्रक्रिया || ३८९ ।
Page #540
--------------------------------------------------------------------------
________________
४९८
कातन्त्रव्याकरणम्
३९०.विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतःपरंतु ये। अद्ध्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः॥
[२।६।२४] [सूत्रार्थ]
ट्यादिगणपठित शब्दों से भिन्न सर्वनामसंज्ञक शब्दों से तथा बहु शब्द से पर में होने वाले प्रत्ययों की विभक्तिसंज्ञा होती है, इस सूत्र से प्रारम्भ करके ।।३९०।
[दु० वृ०]
श्रुतत्वात् सर्वनामकार्यं प्रत्येव विभक्तिसंज्ञा । तेन ‘यदा, कदा' इति घोषवति न दीर्घः । बहुशब्दोऽत्र संख्यावचनः, सर्वनामसाहचर्यात् ।। ३९०।
[दु० टी०]
विभक्तिः । विभक्तिः संज्ञा एषामिति बहुव्रीहिः । विज्ञास्यन्ते इति विज्ञेयाः वक्ष्यन्त इति सम्बन्धत्वाद् भविष्यदर्थे यप्रत्ययः । एतस्मादतः परयोगे पञ्चमी । परमिति क्रियाविशेषणं स्वरूपाविर्भावलक्षणम् । न ह्यादिरट्यादिः । एतस्मात् सूत्राद् ये प्रत्ययाः परं वक्ष्यन्ते ते विभक्तिसंज्ञा विज्ञेयाः । ते च सर्वनामसंज्ञकाद् ट्यादिवर्जिताद् बहुशब्दाच्चैव पराः स्मृता इति । एतदपि परग्रहणं सुखार्थं प्रत्ययत्वात् परत्वं सिद्धमेव । 'स्मृतः' इत्यतीतार्थ एव निष्ठा परत्वमनूद्य हि विभक्तिसंज्ञा विधीयते । न ह्यनुत्पन्नस्य संज्ञाऽस्तीति । ननु विभक्तिसंज्ञायां त्यदाद्यत्वं चेत् त्यदादीनाम विभक्तितसादिष्विति कथं न कुर्यात् ? सत्यम् । तत्र सर्वनाम्न एवादसः पदे मकारो भवन्नुभयोः प्रकृतिविभक्त्योरेवेति निश्चितम् । सोऽपि यथा स्यादितीह विभक्तिसंज्ञा विधेया । अमुष्मात्, अमुतः, अमुष्पिन्, अमुत्र, अमुना प्रकारेण अमुथा ।
यद्येवमर्थमेवाधिकारमाश्रित्य "दोऽद्वेर्मः" (२।३।३१) इति भविष्यति, यथा किमः कत्वम् । केन प्रकारेण कथमिति । नैवम्, त्यदाद्यत्वात् प्राक् पदत्वनिरपेक्षं मत्वमन्तरङ्गं स्यात् ततश्चात्वं प्रसज्येत । श्रुतत्वाद् इत्यादि । सर्वनाम्नो विहितास्तसादयः सर्वनाम्न एव विभक्तयो नान्यस्य लिङ्गस्येत्यर्थः । किञ्च न तत्र विभक्त्यधिकार इत्युक्तमेवाभ्युपगमवादोऽयं वृत्तौ दर्शित इति । बहुशब्दोऽत्रेत्यादि । बहुशब्दः संख्यावचनोऽस्ति विपुलवचनश्च । साहचर्यं पुनरत्र सर्वेषां नामेति व्युत्पत्तिमाश्रित्य प्रवर्तते बहुलार्थत्वात् संख्यावचन एव सहचरितो न विपुलवचनः, प्रतिनियतविषयत्वात् । सर्वादिष्वस्य सन्निवेशो न क्रियते अक्प्रत्ययो मा भूदिति, तेन बहोः सूपाद् बहौ सूपे
Page #541
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
घृतं श्रेय इति न तसादयः । यदि बहुभ्यश्चेत्युच्यते, न तदा बहुवचनं संख्यावचनमवधारयितुं शक्नोति । अर्थपरत्वान्निर्देशस्य तत्पर्यायेभ्योऽपि स्युरिति ॥ ३९० ॥
[वि० प०]
विभक्ति० | बहुशब्द इत्यादि । तेन विपुलवचनान्न तसादयः, बहोः सूपे घृतं श्रेय इति || ३९० ।
[क० च०]
४९९
सूपाद्बह
विभक्ति० । विभक्तिः सञ्ज्ञा येषामिति बहुव्रीहिः । विज्ञास्यन्ते इति विज्ञेयाः “आत्खनोरिच्च” (४।२ । १२) इति यः । एतस्मादतः परमिति क्रियाविशेषणम् । न द्वयादिरद्व्यादिस्तस्माद् द्वियुष्मदस्मद्भवन्तुवर्जितात् सर्वनाम्न इत्यर्थः । एतस्मात् सूत्राद् ये प्रत्ययाः परं वक्ष्यन्ते ते विभक्तिसंज्ञा विज्ञेयाः, ते च सर्वनामसंज्ञकाद् द्व्यादिवर्जिताद् बहुशब्दाच्चैव पराः स्मृताः इति शेषः । परग्रहणे तु सुखार्थे प्रत्ययात् परत्वस्य सिद्धत्वात् । अथ विभक्तिसंज्ञायां त्यदाद्यत्वं च त्यदादीनाम विभक्तितसादिष्विति कथन्न कुर्यात् ? नैवम् । तत्र सर्वनाम्नः एव " अदसः पदे" (२।२।४५) मकारो भवन्नुभयोः प्रकृतिविभक्त्योः सत्त्वे निश्चितं सोऽपि यथा स्यादितीह विभक्तिसंज्ञा विधेया । अमुतः, अमुष्मात्, अमुत्र, अमुधा । अन्यथा विभक्तिलोपे कथं स्यात् ? यद्येवं विभक्तितसादिरित्यधिकृत्य “दोऽद्वेर्म” (२।३।३१) इति भविष्यति । यथा किम् कः । केन प्रकारेण कथमिति चेत्, एवं तर्हि त्यदाद्यत्वं बाधित्वाऽदसोऽन्तस्य प्राक् पदत्वनिरपेक्षं मत्वमन्तरङ्गं स्यात् । अत एव उत्वं भवितुं पार्यते इत्येतन्निरासार्थं यदि च "दोऽद्वेर्मः” (२ | ३ | ३१) इत्यत्र पद इति क्रियताम्, “अदसः पदे मः " ( २ | २ | ४५ ) इत्यपि न कार्यम्, तदा सुखार्थमेवेदं वचनम् |
तेनेत्यादि । ननु कथमत्राकारलोपमिति स्याद् विभक्तेरभावात् । न च लुप्तविभक्तेः प्रत्ययलोपलक्षणन्यायेनेत्युच्यते । समासे युवावैनमघवदार्वत्स्वेव प्रत्ययवदिति नियमात् ? सत्यम् | " त्यदादीनाम विभक्तौ” (२/३/२९) इत्यत्र विभक्तिग्रहणान्नियमस्यानित्यत्वज्ञापनात् । अन्यथा एतन्नियमादेव 'त्यदीयः' इत्यादौ प्रत्ययलोपलक्षणन्यायेनापि न भविष्यति । किं तत्र साक्षात् प्रतिपत्त्यर्धविभक्तिग्रहणेनेति भावः ।। ३९० ।
Page #542
--------------------------------------------------------------------------
________________
५००
कातन्त्रव्याकरणम्
[समीक्षा]
ट्यादिभिन्न सर्वनामसंज्ञक शब्दों से तथा संख्यावाची बहुशब्द से होने वाले प्रत्ययों की विभक्तिसंज्ञा दोनों ही व्याकरणों में की गई है । पाणिनि के सूत्र हैं"प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः" (अ० ५/३/१,२) । पाणिनि ने ११ प्रत्यय पढ़े हैं, जबकि शर्ववर्मा ने १० प्रत्यय । जो इस प्रकार हैंपाणिनीय व्याकरण- १. तसिल, २. त्रल, ३.ह, ४. अत्, ५. दा, ६. हिल, ६.
अधुना, ८. दानीम्, ९. थाल्, १०. थमु, ११. था। कातन्त्रव्याकरण- १.तस्, २. त्र, ३. ह, ४. अत्, ५. दा, ६. हि,७. अधुना, ८. दानीम् .
९. था, १०, थमु। पाणिनीय व्याकरण में थाल् के अतिरिक्त था प्रत्यय का विधान वैदिक शब्दों के लिए किया गया है जो कातन्त्र में नहीं है । यह संज्ञा सर्वनामकार्यों के लिए की गई है । अतः 'तदा, कदा' आदि प्रयोगों में "त्यदादीनाम विभक्तौ" (२/३/२९) से अकारादेश तो होता है, परन्तु “अकारो दीर्घ घोषयति' (२/१/१४) से दीर्घ आदेश नहीं होता | 'स्यादि-त्यादि प्रत्ययों की जो विभक्तिसंज्ञा की जाती है तो वहाँ विभक्ति की अन्वर्थता सिद्ध होती है, क्योंकि वहाँ उससे संख्या-कर्म आदि का विभाग किया जाता है, परन्तु 'तस्-त्र' आदि से संख्याकर्मादि का विभाग नहीं होता, अतः इन प्रत्ययों की पृथक् विभक्ति संज्ञा की गई है । पाणिनीय व्यादिगण में 'किम्' शब्द का पाठ है 'अद्व्यादि' इस निषेध से उससे भी निषेध होगा, अतः 'किम्' शब्द को भी सूत्र में पढ़ा गया है। परन्तु कातन्त्रकार ने द्व्यादि से पूर्व में 'किम्' शब्द का पाठ किया है, फलतः 'किम्' शब्द का पृथक् पाठ किए विना 'सर्वनाम' से ही उसका ग्रहण सिद्ध हो जाने के कारण 'किम्' शब्द को उन्हें सूत्र में नहीं पढ़ना पड़ता है।
१."तस्मात् परा विभक्तयः" (२/१/२) इत्यनेन लिङ्गात् (प्रातिपदिकात्) स्यादिप्रत्ययानां विधानात्
तेषां विभक्तित्वमवशिष्यते । २. "नव पराणि० (३/२/१) इत्युक्तिबाधया पूर्वाणि नवैव वचनानि सर्वासां विभक्तीनाम्" (कात०
वृ० ३/१/१) इति वृत्तिकारवचनेन त्यादिप्रत्ययानां विभक्तित्वं विज्ञायते ।
Page #543
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५०१
[विशेष वचन ]
१. बहुशब्दोऽत्र संख्यावचनः सर्वनामसाहचर्यात् (दु० वृ०) ।
२. एतदपि परग्रहणं सुखार्थम्, प्रत्ययत्वात् परकत्वं सिद्धमेव ( दु० टी० ) ।
३. परत्वमनूद्य हि विभक्तिसंज्ञा विधीयते, न ह्यनुत्पन्नस्य सञ्ज्ञास्तीति ।
४. बहुशब्दः संख्यावचनोऽस्ति विपुलवचनश्च (दु० टी० ) || ३९० | ३९१ . तत्रेदमिः [२।६।२५ ]
[सूत्रार्थ]
‘तस्’ आदि विभक्तिसंज्ञक प्रत्ययों के पर में रहने पर 'इदम्' के स्थान में 'इ' आदेश होता है || ३९१ |
[दु० वृ०]
तेषु विभक्तिसंज्ञकेषु इदम् इकारो भवति । इतः, इह, इदानीम् ।। ३९१ । [दु० टी०]
तत्रे० । अभेदनिर्देशाद् इदम्शब्दः केवलोऽप्यग्युक्तोऽ पीकाररूपेण विवर्तत एव । आदेशबादी त्वाह - इदमः प्रसङ्गे य इकारः स इदमित्युपचारान्न ज्ञापकम् “इतो लोपोऽभ्यासस्य " (३/३/३८) इति सवदिशं प्रति अर्थवशाद् विभक्तिविपरिणामोऽपि गरीयान् इति तत्रग्रहणम् । आदेशाद् विभक्तिलोपो निःसन्देहार्थः ।। ३९१ | [क० च०]
तत्रे० | 'अर्थवशाद् विभक्तिविपरिणामो गरीयान्' (का० परि० २५) इति तत्रग्रहणम् । अभेदनिर्देशादिदम्शब्दः केवलोऽगयुक्तोऽपि इकाररूपेण वर्तत एव । 'इ' इति लुप्तप्रथमैकवचनं पदम् । आदेशाद् विभक्तिलोपो निःसन्देहार्थः इति टीकाकृतोक्तम् ।। ३९१ ।
Page #544
--------------------------------------------------------------------------
________________
५०२
कातन्त्रव्याकरणम् [समीक्षा]
'इत, इह, इदानीम्' शब्दरूपों के साधनार्थ दोनों ही शाब्दिकाचार्यों ने 'इदम्' शब्द को 'इ' आदेश किया है । पाणिनि ने सवदिशार्थ शकारानुबन्ध की भी योजना की है - "इदम इश्" (अ० ५/३/३)।
[रूपसिद्धि]
१. इतः । अस्माद् इति । इदम् +ङसि +तस् । ‘इदम्' शब्द से “पञ्चम्यास्तस्" (२/६/२८) सूत्र से 'तस्' प्रत्यय, प्रकृत सूत्र से इदम् को 'इ' आदेश तथा सकार को विसगदिश ।
२. इह । अस्मिन् इति | इदम् +ङि +ह । इदम् शब्द से “इदमो हः” (२/६/ ३०) सूत्र द्वारा सप्तम्यर्थ' में 'ह' प्रत्यय तथा प्रकृत सूत्र से इदम् को इ आदेश ।
३. इदानीम् । अस्मिन् (काले) इति । इदम् +ङि +दानीम् । इदम् शब्द से सप्तम्यर्थ में "इदमो ह्यधुनादानीम्' (२/६/३५) द्वारा 'दानीम्' प्रत्यय तथा प्रकृत सूत्र से इदम् को इ आदेश ||३९१।
३९२ .रथोरेतेत् [२।६।२६] [सूत्रार्थ]
रेफ तथा थकार के परवर्ती होने पर 'इदम्' शब्द के स्थान में ‘एत' तथा 'इत्' आदेश होते हैं ।।३९२।
[दु० वृ०] रथोः परत इदम् ‘एत-इत्' इत्येतौ प्राप्नोति यथासङ्ख्यम् । एतर्हि, इत्थम् ।। ३९२ | [दु० टी०]
रथोः । तेषु विभक्तिसंज्ञकेषु विषयभूतेषु यौ रेफथकारौ तयोः परत इत्यर्थः । एत इत्यकारान्तव्याख्यानाद् अविभक्तिनिर्देश इतोऽस्वरप्रतिपत्त्यर्थ एव | पूर्वस्यापवादोऽयम् ।। ३९२।
[क० च०]
रथो० । एतदित्यादेशद्वयमेव । “अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्च" (४।६।९) इति ज्ञापकात् । एतेताविति सविभक्तिनिर्देशो न कृतः, इ स्वरत्वं सस्वरत्वं वेति सन्देहात् । पूर्वस्यापवादोऽयम् ।। ३९२ ।
Page #545
--------------------------------------------------------------------------
________________
५०३
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [समीक्षा]
'एतर्हि - इत्थम्' प्रयोगों के साधनार्थ पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने इदम् को ‘एत' तथा 'इत्' आदेश किए हैं । पाणिनि का सूत्र है – “एतेतौ रथोः" (अ० ५।३।४) । कातन्त्रकार ने 'एतेत्' पाठ असन्देहार्थ किया है, अन्यथा 'इत्' आदेश अकारान्त है या तकारान्त यह सन्देह हो सकता था ।
[रूपसिद्धि]
१. एतर्हि । अस्मिन् इति । इदम् +ङि +र्हि । “इदमो मुधुनादानीम्” (२/६/ ३५) द्वारा इदम् शब्द से सप्तम्यर्थ में 'हि' प्रत्यय तथा प्रकृत सूत्र द्वारा इदम् को 'एत' आदेश ।
२. इत्थम् । अनेन प्रकारेण । इदम् +थमु +सि | "इदंकिम्भ्यां थमुः कार्यः' (२/ ६/३९) से प्रकार अर्थ में इदम् - शब्द से 'थमु' प्रत्यय, उकार अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र द्वारा इदम् का इत् आदेश, लिङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा "अव्ययाच्च" (२/४/४) सूत्र से सि प्रत्यय का लुक् ।। ३९२।
३९३ . तेषु त्वेतदकारताम् [२।६।२७] [सूत्रार्थ]
विभक्तिसंज्ञक, तकारादि के पर में रहने पर एतद् शब्द के स्थान में अ' आदेश होता है ।।३९३।
[दु० वृ०]
तेषु तकारादिषु विभक्तिसंज्ञकेषु एतदकारतां प्राप्नोति । अतः, अत्र । तकारादिष्विति किम् ? एतथा ।।३९३ ।
[दु० टी०]
तेषु० । अकारतां प्राप्नोतीत्युक्ते कथमेकदेशविकारो न स्यात् । नैवम्, असावकारभावं लभते यदि सर्वथा विक्रियते । अन्यथा भावप्रत्ययनिर्देशोऽनर्थक इति । अकारमन्तरेण च स्वभावो नास्तीत्यकार एव प्रवर्तते । यद्येवम्, "रैः" (२/३/१९) सूत्रे दुष्यति, तत्रापि भावप्रत्ययनिर्देशोऽस्त्येव । न तत्र साक्षाद् भावप्रत्ययो निर्दिष्टः किन्त्वधिकृतः । षष्ठी वा तत्र दर्शिता । अथवा अकारमापद्यत इति सम्बन्धः । भावप्रत्ययस्तु श्लोकपूरणाय । तकारादिष्विति । नायं तच्छब्दः पूर्ववस्तुपरामर्शी
Page #546
--------------------------------------------------------------------------
________________
५०४
कातन्त्रव्याकरणम्
तत्रेत्यनुवर्तनात् । तकारो वर्णश्चेत् कथं बहुवचनम् ? सत्यम्, विभक्तिसंज्ञकेषु यास्तकारव्यक्तय इति विवक्षया वर्णग्रहणे तदादावित्येके । एतथेति । सर्वनामत्वात् प्रकारे था ||३९३।
[वि०प०]
तेषु० । तेष्विति नेदं तच्छब्दस्य रूपम्, अपि तु तकारशब्दस्य सप्तम्या बहुवचनमित्याह - तकारादिष्विति ।।३९३ ।
[क० च०]
तेषु० । तुशब्दश्छन्दोऽर्थः । तेष्विति नायं तच्छब्दः पूर्ववस्तुपरामर्शकः । तत्रेत्यनुवर्तनेनैव तदर्थस्य सिद्धत्वात् । तर्हि किं बहुवचनेन चेद् विभक्तिसंज्ञेषु यस्तकारस्तेष्वित्याशयेनाह - तेषु तकारादिष्विति । अकारतामिति भावप्रत्ययबलात् समुदायस्यायमादेशः । अथैवं ":" (२/३/१९) सूत्रे दोषस्तथापि भावप्रत्ययस्य निर्दिष्टत्वात् । नैवम्, न तत्र साक्षन्निर्दिष्टः किन्त्वधिकारप्राप्तः ।। ३९३।
[समीक्षा]
'अतः, अत्र' इत्यादि शब्दों के साधनार्थ 'एतद्' शब्द को अकारादेश दोनों ही व्याकरणों में किया गया है । पाणिनि ने इस आदेश के साथ शकारानुबन्ध को सवदिशार्थ योजित किया है - "एतदोऽश्" (अ० ५/३/५)।
[रूपसिद्धि]
१. अतः । एतस्माद् इति । एतद् +ङस् +तस् । 'एतद्' शब्द से पञ्चम्यर्थ में "पञ्चम्यास्तस्” (२/६/२८) सूत्र द्वारा 'तस्' प्रत्यय तथा प्रकृतसूत्र द्वारा एतद् शब्द को 'अ' आदेश।
२. अत्र | एतस्मिन् इति । एतद् +ङि +त्र । 'एतद्' शब्द से सप्तम्यर्थ में "त्र सप्तम्याः" (२/६/२९) सूत्र द्वारा 'त्र' प्रत्यय तथा प्रकृत सूत्र द्वारा 'एतद्' शब्द को 'अ' आदेश ।।३९३।
३९४ . पञ्चम्यास्तस् [२।६।२८] [सूत्रार्थ]
'द्वि' - आदि से भिन्न सर्वनामसंज्ञक शब्दों से तथा पञ्चम्यन्त बहु शब्द से 'तस्' प्रत्यय होता है ||३९४।
Page #547
--------------------------------------------------------------------------
________________
५०५
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [दु० वृ०]
अद्यादेः सर्वनाम्नो बहोश्च पञ्चम्यन्तात् तस् प्रत्ययो भवति वा । सर्वस्मात् सर्वतः । यस्माद् यतः । तस्मात् ततः। बहुभ्यो बहुतः । अट्यादेरिति किम् ? द्वाभ्यां भवतः । उगवादितः प्रयोगतश्चेति ज्ञापकादसर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्यःग्रामात्, ग्रामतः ।हाग्रुहोरवधौ न स्यात्-युष्मद्धीयते, सार्थाद्धीनः, पर्वतादवरोहति ।।३९४|
[दु० टी०]
पञ्चम्या०। पञ्चप्याः स्थाने तसिति न देश्यम्, "विभक्तिसंज्ञा विज्ञेयाः" (२/६/२४) इति वचनात् । अन्यथा तदादेशस्तद्वदिति विभक्तित्वं सिद्धम् । अथ षष्ठ्येवास्तां को दोषः । सर्वेभ्यः सर्वतः इति धुट्येत्वं स्यात् । “उगवादितः" (२/६/११) इत्यादि । 'ज्ञापकज्ञापिता विधयो यनित्याः' (का० परि०६०) प्रयोगमनुसरन्तीति अवधावहागृहोरिति स्थितम् । ज्ञापकद्वयेनैतत् सूचितम् -पूर्वाद्यपेक्षया परादयः इत्यवधिरेव । दिगादिपञ्चमी तु प्रपश्चार्थ इत्युक्तमेव । तथा च भट्टवचनम् - 'न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीष्यते' । त्वत्तो मत्तो युष्पत्तोऽस्मत्त इत्यवधिविवक्षया भवत्येव । 'सर्वतो हेतो_यते, सर्वतो हेतोरवरोहति' इति "सर्वनाम्नः सर्वा विभक्तयो हेतौ" इत्यनेन पञ्चमीवचनात् सिद्ध एव तस् । हाग्रुहोरित्यादि । ननु च 'नाकर्तृत्वं कर्म' इति कथं 'हीयते, हीनः' इत्यत्र कर्मत्वम् ? सत्यम् । यो हि सार्थाद्धीयते सोऽसामर्थ्यात् सार्थेन त्यज्यते । यदि सार्थस्तमपेक्षते नासौ ततो हीयते । अवश्यं चैतदभ्युपगन्तव्यम् । अन्यथा कथं सार्थः कारकं स्यात् । यद्येवमपादानसंज्ञाकालेऽपि स्वातन्त्र्यं कर्तृसंज्ञानिबन्धनं साथै स्यात् । तदा "तेषां परमुभयप्राप्तौ" (२/४/१६) इति परत्वात् कतृसंज्ञैव स्यात् ।
नैवम्, हीयते इति जहातेः कर्मकर्तर्यात्मनेपदं सार्थेन त्यज्यमानः कर्म भवति, यदा तु त्यागे स्वयमेव हीयमानः कर्तृत्वेन विवक्ष्यते तदा कर्ताऽयमिति । 'हीनः' इत्यकर्मकत्वात् कर्तरि क्तः । हीनो भ्रष्टः, कुतः ? सार्थादित्यर्थः । एवं सति कर्मविवक्षा निष्फलैव । सूत्रकारोऽयम् ‘अवधावहागृहोः' इति नाद्रियते । येषां हेतौ पञ्चमीति मतं ततोऽपि शिष्टप्रयुक्तो दृश्यते -
"संस्थानेन घटादीनां ब्राह्मणादेस्तु योनितः। आचारतः क्षत्रियादेः" इत्यादयः।
Page #548
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
" मन्त्रो हीनः स्वरतो बर्णतो वा' (पा०शि०, श्लो०५२) इति च दृश्यते । तथा आद्यादेराकृतिगणत्वाद् हीयमानेन पापेन युक्तात् तृतीयान्तात् तस् वा भवति । यथा वृत्ततो हीयते, वृत्तेन हीयते । वृत्ततः पापः, वृत्तेन पापः । नैवम्, पञ्चम्येव युक्ता । हेतौ करणे वा विवक्षया तृतीया गरीयसीति न च वस्तुभेदः । तथा शब्दा ये लोकतो रूढा इत्यपि दृश्यते | ‘रूढिशब्दा हि तद्धिताः' इति भावः । तथा प्रतिना योगे च - प्रद्युम्नो वासुदेवतः प्रति वासुदेवात् प्रति ।। ३९४ ।
"
५०६
[वि० प० ]
पञ्चम्या० । पञ्चम्या इति नेयं षष्ठी । किन्तर्हि पञ्चमीत्याह - पञ्चम्यन्तादिति । यदि पुनः षष्ठी स्यात् तदा " विभक्तिसंज्ञा विज्ञेयाः" इति वचनमनर्थकमेव स्यात् । स्थानिवद्भावेऽनेनैव विभक्तित्वस्य सिद्धत्वात् । यद्येवं सिद्धं तत् साध्यम् ? नैवम् । सर्वेभ्यः सर्वत इति “घुटि बहुत्वे त्वे" (२/१/१९) इत्येत्वं स्यात् । एवं "त्र सप्तम्याः " (२/६/२९) इत्यादिष्वपि पक्षे विभक्तिस्थितिरर्थादित्याह - वेति । युष्मद्धीयते इति “अत् पञ्चम्यद्वित्वे” (२/३/१४) इति भ्यसोऽदादेशः । हीयते इति कर्मवद्भावादात्मनेपदम् | युष्मदर्थेन हीयमानः कर्म भूत्वा यदा त्यागे स्वयमेव कर्तृत्वेन विवक्ष्यते, तदा कर्मकर्तुः कर्मवद्भावादात्मनेपदम्, न तु केवले कर्मणि । न ह्यकर्तृकं कर्म सम्भवति । न चेह युष्मदर्थस्य कर्तृत्वम्, तस्यावधित्वेन विवक्षितत्वात् । तथा सार्थाद्धीनः इति । अकर्मकत्वात् कर्तरि क्तः। हीनो भ्रष्टः कुतः ? सार्थात् || ३९४ |
[क० च०]
पञ्चम्या० । “ङसिः स्मात् " ( २/१/२६) इति वचनबलाद् विकल्पो लभ्येत इत्याह – अथवेति । अद्व्यादेरिति किमिति । तर्हि कथं "सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः” (रघु० २ / ५५ ) इति रघुप्रयोगः । उच्यते - असर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्य इति वचनेऽपिशब्दाद् निषिद्धसर्वनाम्नोऽपि स्यात् । अत एव
१. पस्पशाह्निके महाभाष्ये ( पृ० १९) 'दुष्टः शब्दः' इति पाठस्तस्यौचित्यं नागेशभटूटेन दर्शितम्" मन्त्रो हीनः स्वरतः" इति प्रसिद्धमपि शिक्षापाठं विहाय भाष्ये 'दुष्टः शब्द:' इति पठितं तत्रत्यमन्त्रशब्दस्य शब्दमात्रपरतेति सूचयितुम् ( उद्योत ० ) ।
Page #549
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५०७
वृत्तिकृता ' हाग्रुहोरवधौ ' न स्यादित्यस्य युष्मद्धीयते इति प्रत्युदाहृतं कथमन्यथा युष्मच्छब्दात् तत्प्राप्तिः, येन प्रतिषेधोऽर्थवान् इति । एवं च सति ' त्वत्तो ब्रह्मविदां वर, मत्तस्तत् प्राप्यतां सर्वम्' (दु० स० श० १ / ६२; १३/१५) इत्यपि भवति | टीकाकृता तु 'त्वत्तो मत्तो भवत्तः' इति विवक्षया भवत्येवेत्युक्तं 'वृत्ततो हीयते, वृत्तेन हीयते, वृत्ततः पापः, वृत्तेन पापः' इति तृतीयान्तादपि । तथा प्रतिना योगे च ।'प्रद्युम्नो वासुदेवतः प्रति, वासुदेवात् प्रति' इति टीका || ३९४ |
[समीक्षा]
सर्वस्मात् अर्थ में ‘सर्वतः', यस्मात् अर्थ में 'यतः', तस्मात् अर्थ में 'ततः’ प्रयोग के सिद्ध्यर्थ कातन्त्रकार ने 'तस्' प्रत्यय तथा पाणिनि ने तसिल् प्रत्यय किया है – “पञ्चम्यास्तसिल, तसेच, पर्यभिभ्यां च" (अ० ५ / ३ / ७-९ ) । 'तसिल्' प्रत्यय में 'लू' अनुबन्ध की योजना 'लित् स्वर' के लिए की गई है। सर्वनामभिन्न 'ग्राम' आदि शब्दों से भी तस् प्रत्यय का निर्देश वृत्तिकार ने किया है, जिससे 'ग्रामतः ' आदि प्रयोग सिद्ध होते हैं ।
[विशेष वचन ]
१. उगवादितः प्रयोगतश्चेति ज्ञापकादसर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्यः । ग्रामात्, ग्रामतः (दु० वृ० ) ।
२. रूढिशब्दा हि तद्धिता इति भावः (दु० टी० ) ।
[रूपसिद्धि ]
१ . सर्वतः । सर्वस्माद् इति । सर्व + ङसि + तस् । प्रकृत सूत्र से तस् प्रत्यय,' " तत्स्था लोप्या विभक्तयः” (२/५/२) से विभक्ति का लोप, लिङ्गसंज्ञा, सिप्रत्यय, “अव्ययाच्च” (२/४/४ ) से सि प्रत्यय का लुक् ।
तथा
२-४. यतः । यस्मादिति । यद् + ङसि + तस् | ततः । तस्मादिति । तद् +ङसि + तस् | बहुतः । बहुभ्यः इति । बहु + भ्यस् + तस् । सर्वत्र पूर्ववत् प्रक्रिया प्रवृत्त होती
है ।
५. ग्रामतः । ग्रामादिति । ग्राम + ङसि + तस् । “उगवादितः प्रयोगतश्चेति ज्ञापकादसर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्यः " इस वृत्तिवचन के आधार पर तस् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ॥ ३९४ ।
Page #550
--------------------------------------------------------------------------
________________
५०८
कातन्त्रव्याकरणम्
३९५ .त्र सप्तम्याः [२।६।२९]
[सूत्रार्थ]
द्व्यादिभिन्न सर्वनामसंज्ञक तथा सप्तम्यन्त बहु शब्द से 'त्र' प्रत्यय विकल्प से होता है ।। ३९५ ।
[दु० वृ०]
"
अद्ध्यादेः सर्वनाम्नो बहोश्च सप्तम्यन्तात् त्रप्रत्ययो भवति वा । सर्वस्मिन् सर्वत्र । तस्मिन्, तत्र । यस्मिन्, यत्र । बहुषु, बहुत्र । अद्वयादेरिति किम् ? द्वयोः, त्वयि मयि । आद्यादिभ्यस्तस् वक्तव्यः। आदौ, आदितः । अन्ते, अन्ततः । पृष्ठे, पृष्ठतः । मध्ये, मध्यतः । अग्रे, अग्रतः । पार्श्वे, पार्श्वतः । मुखे, मुखतः । आकृतिगणोऽयम् || ३९५ | [दु० टी० ]
त्र सप्तम्याः। योऽयमाद्यादिः स इहाकृतिगण इति । तेन नानापक्षाश्रये षष्ठ्यन्तात् तस् वा । देवा अर्जुनतोऽभवन्, अर्जुनस्य पक्षेऽभवन् वा । दैत्याः कर्णतोऽभवन्, कर्णस्य पक्षेऽभवन्निति । रोगाच्च प्रतीकारे । प्रवाहिकातः प्रतिकुरु, प्रवाहिकायाः प्रतिकुरु । न वक्तव्यमिदम् - रूढिशब्दा हि तद्धिता इति || ३९५ |
[वि० प० ]
त्र सप्त० । आद्यादिभ्यस्तस् वक्तव्य इति । वक्तव्यो व्याख्येयोऽभिधानाद् अन्यविभक्तयन्तादपि पूर्वेण तस् भवतीत्यर्थः ।। ३९५ ।
[क० च०]
त्र सप्त० | अत्रापि “ङि : स्मिन् ” ( २/१/२७) इति वचनाद् विकल्पो लभ्यते इति । आद्यादिभ्य इति सप्तम्यन्तेभ्य इत्यर्थ । आद्यादिरयमाकृतिगणः, तेन नानापक्षाश्रयात् षष्ठ्यन्तात् तस् वा । देवा अर्जुनतोऽभवन् अर्जुनस्य वा । दैत्याः कर्णतोऽभवन् कर्णस्य वा । अर्जुनस्य कर्णस्य पक्षे इत्यर्थः । रोगाच्च प्रतीकारे । प्रवाहिकातः प्रतिकुरु, प्रवाहिकायाः प्रतिकुरु । रूढिशब्दा हीति टीका, अतः षष्ठ्याः पक्षाश्रयः इति न वाच्यम् ।। ३९५।
Page #551
--------------------------------------------------------------------------
________________
५०९
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [समीक्षा]
सर्वस्मिन् अर्थ में सर्वत्र, तस्मिन् अर्थ में तत्र, यस्मिन् अर्थ में यत्र तथा बहुषु अर्थ में बहुत्र आदि शब्दों के साधनार्थ कातन्त्रकार ने 'त्र' प्रत्यय एवं पाणिनि ने 'वल्' प्रत्यय किया है- “सप्तम्यास्त्रल्" (अ० ५।३।११०) । यहाँ ल् अनुबन्ध लित् स्वर के विधानार्थ किया गया है ।
[रूपसिद्धि
१. सर्वत्र । सर्वस्मिन्निति । सर्व + डि+त्र । प्रकृत सूत्र से 'त्र' प्रत्यय, “तत्स्था लोप्या विभक्तयः” (२।५।२) से विभक्तिलोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२।१।१) से लिङ्गसञ्ज्ञा, सिप्रत्यय तथा “अव्ययाच्च" (२।४।४) से उसका लुक् ।
२-४. तत्र । तस्मिन्निति । तद् + ङि +त्र । यत्र | यस्मिन्निति । यद् + डि+त्र | बहुत्र | बहुष्विति । बहु + सुप् +त्र । पूर्ववत् प्रक्रिया ||३९५।
३९६ . इदमो हः [२।६।३०] [सूत्रार्थ] सप्तम्यन्त इदम् - शब्द से ह - प्रत्यय होता है ।।३९६। [दु० वृ०] इदमः सप्तप्यन्ताद्धो भवति वा । अस्मिन्, इह ।।३९६। [दु० टी०] इदमो हः । त्रापवादोऽयम् ।। ३९६। [समीक्षा]
'अस्मिन्' इस अर्थ में 'इह' शब्द के साधनार्थ दोनों ही व्याकरणों में हप्रत्यय का विधान किया गया है । पाणिनि का भी समान सूत्र है- “इदमो हः" (अ०५/३/११)। अतः उभयत्र साम्य ही कहा जा सकता है।
[रूपसिद्धि]
१. इह | अस्मिन्निति । इदम् +ङि +ह | प्रकृत सूत्र से 'ह' प्रत्यय, "तत्स्था लोप्या विभक्तयः" (२/५/२) से ङिविभक्ति का लोप, “तत्रेदमिः" (२/६/२५) से इदम् को इ आदेश, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१) से लिङ्ग संज्ञा, सि प्रत्यय तथा “अव्ययाच्च" (२/४/४) से उसका लुक् ।।३९६।
Page #552
--------------------------------------------------------------------------
________________
५१०
कातन्त्रव्याकरणम्
३९७. किमः [२/६/३१]
[सूत्रार्थ]
सप्तम्यन्त 'किम्' शब्द से ह प्रत्यय होता है ।।३९७। [दु० वृ०] किमः सप्तम्यन्ताद्धो भवति वा । कस्मिन्, कुह । छन्दस्येवेत्यन्ये || ३९७। [दु० टी०]
किमः । अयमपि त्रापवादः । कुत्रेति कैश्चिदिष्यते । भाष्यकारस्य पुनरसाधुरेव । इह तु कुहशब्दो भाषायामप्याह - वृद्धिप्रयुक्तश्च दृश्यते ।। ३९७।
[वि०प०]
किमः । “तहोः कुः" (२/६/३३) इति कुभावः । छन्दस्येवेति अन्य इति | सर्ववर्मणस्तु वचनाद् भाषायामप्यवसीयते ।। ३९७।
[क० च०] अयमपि त्रापवादः ।कुत्रेति कैश्चिदिष्यते,तद् भाष्यकारस्याप्यसाध्विति टीका ||३९७। [समीक्षा
सप्तम्यन्त किम् शब्द से 'कुह' शब्द के साधनार्थ 'ह' प्रत्यय का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है – “वा ह चच्छन्दसि" (अ०५/ ३/१३)। तदनुसार केवल वेद में ही 'कुह' शब्द का प्रयोग साधु माना जाएगा, परन्तु शर्ववर्मा तो इसे लौकिक प्रयोग मानते हैं । टीकाकार दुर्गसिंह तथा कलापचन्द्रकार सुषेण विद्याभूषण तो इस 'ह' प्रत्यय को 'त्र' का अपवाद मानते हैं । इस प्रकार उनके मत से 'कुत्र' प्रयोग असाधु है । टीकाकार ने अपने वचन के समर्थन में भाष्यकार को प्रमाणरूप में प्रस्तुत किया है - "कुत्रेति कैश्चिदिष्यते, भाष्यकारस्य पुनरसाधुरेव" । काशिकाकार परवर्ती सूत्र “वा ह च च्छन्दसि" (अ०५/३/१३) में पठित 'वा' की पूर्ववर्ती सूत्र “किमोऽत्" (अ० ५/३/१२) में अनुवृत्ति करके 'कुत्र' शब्द का भी साधुत्व प्रदर्शित करते हैं – “त्रलमपि केचिदिच्छन्ति - कुत्र । तत् कथम् - उत्तरसूत्राद् वावचनं पुरस्तादपकृष्यते" (का० वृ० ५/३/१२)।
Page #553
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५११
[विशेष वचन ]
१. कुत्रेति कैश्चिदिष्यते । भाष्यकारस्य पुनरसाधुरेव । इह तु कुहशब्दो भाषाया
1
मप्याह - वृद्धप्रयुक्तश्च दृश्यते ( दु० टी० ) ।
२. छन्दस्येवेत्यन्य इति । सर्ववर्मणस्तु वचनाद् भाषायामप्यवसीयते (वि० प०) । [रूपसिद्धि]
१. कुह । कस्मिन् इति । किम् + ङि + ह । प्रकृत सूत्र से 'ह' प्रत्यय, विभक्तिलोप, तहोः कुः' (२/३/३३) से किम् शब्द को 'कु' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा “अव्ययाच्च” (२/४/४) से उसका लुक् || ३९७। ३९८. अत् क्व च [२/६/३२]
[सूत्रार्थ]
सप्तम्यन्त किम्-शब्द से ‘अत्' प्रत्यय तथा किम् को क्व आदेश होता है ।। ३९८। [दु० वृ०]
किमः : सप्तम्यन्ताद् अद् भवति, क्वादेशश्च । कस्मिन् क्व ॥ ३९८ | [दु० टी०]
अत् क्व च । क्वेत्यकार उच्चारणार्थः । कुरिति कृते उवर्णस्त्वोत्वमापद्यते ।। ३९८। [क० च०]
अत् क्व च । क्वेत्यकार उच्चारणार्थः । आदेशोऽयं न तु प्रत्ययः, “नस्तु क्वचित्” इति ज्ञापकात् । ‘अत्’ पुनः प्रत्यय एव, सप्तम्यन्ताद् विधानात् । कुरिति कृते असवर्णे वत्वे क्वेति सिद्धं स्यात् । " " उवर्णस्त्वोत्वमापाद्यः” इति क्वादेशः ।। ३९८ ।
[समीक्षा]
सप्तम्यन्त ‘किम्' शब्द से अत्-प्रत्ययान्त 'क्व' शब्द का सांधुत्व दोनों ही व्याकरणों में दिखाया गया है । पाणिनि तथा कातन्त्रकार दोनों ने क्व आदेश एवं अत् प्रत्यय किया है । पाणिनि का सूत्र है - " किमोऽत्, क्वाति” (अ०५ / ३ /१२, ७/२/१०५) । यहाँ की प्रक्रिया में साम्य प्रतीत होता है, क्योंकि 'क्व + अ' से 'क्व' शब्दरूप सिद्ध करने के लिए वकारोत्तरवर्ती अ को उभयत्र उच्चारणार्थ स्वीकार
१. वस्तुतः यहाँ " वमुवर्ण: " ( १/२/९) से उ के स्थान में वृ आदेश का पाठ होना चाहिए, ओ आदेश का नहीं ।
Page #554
--------------------------------------------------------------------------
________________
५१२
कातन्त्रम्याकरणम्
करना पड़ता है । व्याख्याकारों ने जो पक्षान्तर दिखाया है - कु आदेश तथा अत् प्रत्यय का, उसके समाधानार्थ कहा गया है कि कु आदेश होने पर उ का गुण (ओ) करना पड़ता । फलतः इष्टरूप की सिद्धि क्व आदेश से करनी पड़ती है । [रुपसिद्धि]
१. क्व । कस्मिन् इति । किम् + ङि (क्व) +अत् । प्रकृत सूत्र द्वारा अत् प्रत्यय, किम् शब्द को ‘क्व’ आदेश, वकारोत्तरवर्ती अ के उच्चारणार्थ होने से उसका अप्रयोग, 'क्व' शब्द की लिङ्ग्ङ्गसंज्ञा, सि-प्रत्यय, 'क्व' शब्द के अव्ययसंज्ञक होने से सिप्रत्यय का "अव्ययाच्च” (२/४/४) सूत्र द्वारा लुक् || ३९८ । ३९९. तहोः कुः [२/६/३३]
[सूत्रार्थ]
तकार और हकार के परवर्ती होने पर 'किम्' शब्द को 'कु' आदेश होता है || ३९९ |
[दु० बृ०]
तकारहकारयोः परयोः किमः कुर्भवति । कुतः, कुह ॥ ३९९। [दु० टी०]
तहोः । किम्-शब्दो हेः प्राक् पठ्यते । रूढिशब्दा हि तद्धिताः इति भवद्दीर्घायुरायुष्मद्देवानां प्रियैर्योगे शेषेभ्योऽपि तसादयः । सभवान्, ततोभवान्, तत्रभवान् । तंभवन्तम्, ततोभवन्तम्, तत्रभवन्तम् । तेनभवता, ततोभवता, तत्रभवता । तस्मैभवते, ततोभवते, तत्रभवते । तस्यभवतः, ततोभवतः, तत्रभवतः । एवं सदीर्घायुः, सआयुष्मान् सदेवानांप्रिय इति सर्वत्र योज्यम् । एवं कोभवान् कुतोभवान्, क्वो भवान् इत्यादि । एवम् अयम्भवान्, इतोभवान्, इहभवान् इत्यादि ।। ३९९ ।
[समीक्षा]
तकारादि तथा हकारादि प्रत्ययों के परवर्ती होने पर किम् को कु आदेश करके 'कुतः, कुत्र, कुह' शब्दों की सिद्धि दोनों ही व्याकरणों में की गई है । पाणिनि का 'कु' आदेशविधायक सूत्र है - "कु तिहो : " ( अ० ७/२/१०४) अतः उभयत्र साम्य है।
Page #555
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५१३
[रूपसिद्धि]
१. कुतः। कस्माद् इति । किम् +ङसि +तस् +सि । पञ्चम्यन्त किम् शब्द से "पञ्चम्यास्तस्" (२/६/२८) सूत्र द्वारा तस् प्रत्यय, प्रकृत सूत्र से किम् को कु आदेश, स् को विसर्ग, 'कुतः' की लिङ्गसंज्ञा, सिप्रत्यय, तथा “अव्ययाच्च" (२/४/४) से सि का लुक् ।
२. कुह । कस्मिन्निति । किम् +ङि +ह +सि | सप्तम्यन्त किम् शब्द से “किमः" (२/६/३१) सूत्र द्वारा ह प्रत्यय, प्रकृत सूत्र से किम् को कु आदेश, 'कुह' की लिङ्गसंज्ञा, सिप्रत्यय तथा “अव्ययाच्च" (२/४/४) से उसका लुक् ।।३९९।
४००. काले किंसर्वयत्तदेकान्येभ्य एव दा [२/६/३४] [सूत्रार्थ]
काल अर्थ की विवक्षा में सप्तम्यन्त 'किम्, सर्व, यद्, तद्, एक, अन्य' शब्दों से दा प्रत्यय होता है ।।४००।
[दु० वृ०]
एभ्यः काले वर्तमानेभ्यः सप्तम्यन्तेभ्यो दाप्रत्ययो भवति । कस्मिन् काले कदा । एवं सर्वदा, यदा, एकदा, अन्यदा | काल इति किम् ? सर्वत्र देशे ।।४००।
[दु० टी०]
काले० । एवशब्दोऽनुष्टुप्पूरणाय अवधारणफलत्वात् सर्ववाक्यानामिति भावः ।।४००।
[वि० प०]
काले० । अवधारणफलत्वात् सर्ववाक्यानां किमेवकारेणेति न देश्यम्, अनुष्टुप्पूरणत्वादस्येति ।। ४००।
[क० च०]
काले० त्रापवादोऽयम् । अत एव काल इति किम् ? सर्वत्र देश इति त्रप्रत्ययेनैव प्रत्युदाहर्तव्यम् || ४००।
Page #556
--------------------------------------------------------------------------
________________
५१४
कातन्त्रव्याकरणम
[समीक्षा]
'कस्मिन् काले, सर्वस्मिन् काले' इत्यादि अर्थों में ‘कदा, सर्वदा' आदि शब्दों की सिद्धि के लिए दोनों ही व्याकरणों में दा-प्रत्यय किया गया है । पाणिनि का सूत्र है - "सर्वैकान्यकिंयत्तदः काले दा" (अ०५/३/१५)। अतः उभयत्र साम्य है।
[रूपसिद्धि]
१. कदा | कस्मिन् काले । किम् +ङि+दा | सप्तम्यन्त किम्-शब्द से प्रकृत सूत्र द्वारा 'दा' प्रत्यय, “किम् कः” (२/३/३०) सूत्र से किम् को 'क' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ।
२-४. सर्वदा | सर्वस्मिन् काले । सर्व +कि+दा +सि । एकदा | एकस्मिन् काले । एक +कि+दा +सि । अन्यदा । अन्यस्मिन् काले । अन्य +ङि +दा +सि | सर्वत्र दा प्रत्यय तथा पूर्ववत् प्रक्रिया ।
५-६. यदा । यस्मिन् काले । यद् +ङि +दा +सि | तदा । तस्मिन् काले । तद् +ङि +दा +सि । प्रकृत सूत्र से दाप्रत्यय, “त्यदादीनाम विभक्तौ” (२/३/२९) से द् को अ, “अकारे लोपम्" (२/१/१७) से पूर्ववर्ती अकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ||४००।
४०१. इदमो ह्यधुनादानीम् [२/६/३५]
[सूत्रार्थ]
काल अर्थ में सप्तम्यन्त इदम्-शब्द से 'र्हि, अधुना, दानीम्' प्रत्यय होते हैं ||४०१।
[दु० वृ०]
काले वर्तमानादिदमः सप्तम्यन्ताद् ‘र्हि, अधुना-दानीम्' इत्येते प्रत्यया भवन्ति । अस्मिन् काले एतर्हि, अधुना, इदानीम् ।। ४०१।
[दु० टी०] इदमो य० । लुप्तप्रथमाबहुवचनं पदं सुखप्रतिपत्त्यर्थमेव ।। ४०१। [वि०प०]
इदमो ई० । ह्यधुनादानीमिति लुप्तप्रथमाबहुवचनो निर्देशः । अधुनेति तत्रेदमीति कृतस्येकारस्य "इवर्णावर्णयोः" (२/६/४४) इत्यादिना लोपे प्रत्ययमात्रं पदम् ।। ४०१ ।
Page #557
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
[क० च०]
इदमो र्ह्य० । लुप्तप्रथमाबहुवचननिर्देशः सुखार्थः || ४०१ ।
1
[समीक्षा]
५१५
सप्तम्यन्त ‘इदम्' शब्द से काल अर्थ में 'एतर्हि, अधुना इदानीम्' शब्दों की सिद्धि दोनों ही व्याकरणों में 'र्हि, अधुना, दानीम् ' प्रत्ययों के विधान से की गई है । अत: उभयत्र साम्य है ।
[रूपसिद्धि]
१. एतर्हि | अस्मिन् काले । इदम् + ङि +र्हि +सि । प्रकृत सूत्र से 'र्हि' प्रत्यय, “रथोरेतेत्” (२/६/२६) से इदम् को 'एत' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप | २. अधुना । अस्मिन् काले । इदम् + ङि+अधुना । प्रकृतं सूत्र से अधुनाप्रत्यय, “अद् व्यञ्जनेऽनक्” (२/३/३५) से इदम् शब्द को अत् आदेश, " अकारे लोपम्” (२/१/१७) से पूर्ववर्ती अकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप । ३. इदानीम् । अस्मिन् काले । इदम् + ङि +दानीम् +सि । प्रकृत सूत्र से 'दानीम्' प्रत्यय, ‘“तत्रेदमिः” (२/६/२५) से इदम् को 'इ' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप || ४०१ ।
४०२. दादानीमौ तदः स्मृतौ [२ / ६ / ३६ ]
[सूत्रार्थ]
काल अर्थ की विवक्षा में सप्तम्यन्त ' तद्' शब्द से 'दा-दानीम् ' प्रत्यय होते हैं । ४०२ ।
[दु० वृ०]
काले वर्तमानात् तदः सप्तम्यन्तात् दादानीमौ प्रत्ययौ स्मृतौ । तस्मिन् काले तदा, तदानीम् ।। ४०२ ।
[दु० टी०]
दादा० । तदो दा चेति कृते पूर्वत्र दानीमिति योगविभागे गौरवं स्यात् । सर्वस्मिन् काले इत्यर्थे सदाशब्दोऽव्यय एव रूढः || ४०२ |
[क० च०]
दादा० | स्मृताविति छन्दोऽर्थम् । सर्वस्मिन् काले इत्यर्थे सदाशब्दोऽव्यय एव रूढ इति टीका || ४०२ ।
Page #558
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[समीक्षा]
काल अर्थ में सप्तम्यन्त तद् शब्द से 'तदा, तदानीम्' शब्दों की सिद्धि के लिए दोनों ही व्याकरणों में दा और दानीम् प्रत्यय किए गए हैं । पाणिनि का सूत्र है - "दानीं च, तदो दा च" (अ०५/३/१८,१९)। अतः उभयत्र साम्य है।
[रूपसिद्धि]
१. तदा । तस्मिन् काले । तद् +ङि +दा +सि । प्रकृत सूत्र से दा प्रत्यय, "त्यदादीनाम विभक्तौ” (२/३/२९) से द् को अ, “अकारे लोपम्” (२/१/१७) से पूर्ववर्ती अकार का लोप, लिङ्ग संज्ञा, सिप्रत्यय तथा उसका लोप ।
२. तदानीम् । तस्मिन् काले । तद् +ङि+दानीम् +सि | प्रकृत सूत्र से दानीम् प्रत्यय, “त्यदादीनाम विभक्तौ” (२/३/२९) से द् को अ, “अकारे लोपम्" (२/ १/१७) से पूर्ववर्ती अकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ।।४०२ |
४०३. सद्यआया निपात्यन्ते [२/६/३७] [सूत्रार्थ] 'सद्यः' आदि शब्द काल अर्थ में निपातन से सिद्ध होते हैं ।। ४०३) [दु० वृ०]
समानेऽहनि सयः। समानस्य सभावो द्यस् च परविधिः । परस्मिन्नहनि परेद्यवि । परादेरेद्यवि । अस्मिन्नहनि अद्य | इदमोऽद्भावो घ च परविधिः । परुत्, परारि । पूर्वपूर्वतरयोः पर उदारी च । अस्मिन् संवत्सरे ऐषमः । इदमः समसिण् । पूर्वस्मिन्नहनि पूर्वेयुः । पूवदिरेद्युस् । एवम् अन्येद्युः, अन्यतरेयुः, इतरेयुः, अपरेयुः, अधरेयुः, उत्तरेयुः, उभयेयुः । उभयद्युः । उभयाद् द्युस् च । किमन्ययत्तद्भ्योऽनद्यतनवृत्तिभ्यो हिर्वा | कस्मिन् काले कर्हि, कदा । एवम् अन्यर्हि, अन्यदा | यर्हि, यदा । तर्हि, तदा । अद्यतनेऽपि एवं पुरस्तादादयश्चानुसर्तव्याः ।।४०३।
[दु० टी०]
सद्य आद्यो येषा त सद्यपि. गिन्ने । निणतनाच्च प्रकतिप्रत्ययादेशकालविशेषा न लभ्यन्त इति निमित्तनिमित्तिनोः साधारण 11 निपातनमतत् । तद् यथा - सद्यः प्राणहरं मर्मणि ताडनं तस्मिन्नेव प्राणहरणमित्यर्थः । पूर्वस्मिन् संवत्सरे, पूर्वतरे
Page #559
--------------------------------------------------------------------------
________________
नामचतुष्टयाभ्याये षष्ठस्तद्धितपादः
५१७ संवत्सरे, अस्मिन् संवत्सरे इति विग्रहः । पूर्वान्यान्यतरेतरापराधरोत्तरेभ्य एघुस् अहनि वाच्य इति । उभयाद् धुश्चेति चकार एद्युसमनुकर्षति । एवमित्यादि । दिक्शब्दाद दिग्देशकालार्थात् सप्तमीपञ्चमीप्रथमान्तादस्तातिः । पूर्वस्यां दिशि वसति पुरस्ताद् वसति । पूर्वस्या दिश आगतः पुरस्तादागतः । पूर्वा दिग् रमणीया पुरस्ताद् रमणीया । पूर्वस्मिन् देशे वसति पुरस्ताद् वसति । पूर्वस्माद् देशादागतः पुरस्तादागतः, पुरस्ताद् रमणीयम् । दिशि प्रसिद्धायामिति किम् ? ऐन्द्रयां दिशि वसति । अन्च्यन्तादस्तातेलृक् । प्राच्यां दिशि वसति प्राग् वसति । प्रागागतः, प्राग् रमणीयम् । निपातनादेव स्त्रीप्रत्ययस्यापि लुक् ।
एवं प्राचि देशे काले वा वसतीति योज्यम् । एवम् उपरि, उपरिष्टात् । ऊर्ध्वस्योपभावो रिरिष्टाती च प्रत्ययौ । ऊर्ध्वायां दिशि वसति, उपरि वसति, उपर्यागतः, उपरि रमणीयम् । उपरिष्टाद् वसति, उपरिष्टादागतः, उपरिष्टाद् रमणीयम् । एवम् ऊर्श्वे देशे काले वा वसतीति योज्यम् । पूर्वाधरयोरसिश्च पुरधौ च । पुरस्ताद् वसति, पुरो वसति । पुरस्तादागतः, पुर आगतः । पुरस्ताद् रमणीयम्, पुरो रमणीयम् । अधस्ताद् वसति, अधो वसति । अधस्तादागतः, अध आगतः। अधस्ताद् रमणीयम्, अधो रमणीयम् । ___अवरस्यार्भावः असिप्रत्ययश्च | अरो वसति, अर आगतः, अरो रमणीयम् । अस्तातिप्रत्ययेऽरादेशपक्षे - अवरस्ताद् वसति, अरस्ताद् वसति । अवरस्तादागतः, अरस्ताद् आगतः। अवरस्ताद् रमणीयम्, अरस्ताद् रमणीयम् । अवरस्य पश्चभावः आतिप्रत्ययश्च । पश्चाद् वसति, पश्चाद् आगतः, पश्चाद् रमणीयम् । कथं दक्षिणपश्चात् ? दक्षिणा च पश्चाच्चेति विग्रहः | पश्चार्धमिति । अवरार्धमित्येतस्मिन्नर्थे निपात्यते । परावराभ्यां तस् वा । परतो वसति, परतो रमणीयम् । परस्ताद् वसति, परस्ताद् रमणीयम् । अवरतो वसति, अवरतो रमणीयम् । अवरस्ताद् वसति, अवरस्ताद् रमणीयम् । परत आगतः, अवरत आगतः इति “पञ्चम्यास्तस्" (२/६/२८) इत्यनेनैव सिद्धम् ।
इतः सप्तमीप्रथमाभ्यां विधिः । दक्षिणोत्तराभ्यामा च । दक्षिणा वसति, दक्षिणतो वसति, दक्षिणा रमणीयम्, दक्षिणतो रमणीयम् । उत्तरा वसति, उत्तरतो वसति, उत्तरा रमणीयम्, उत्तरतो रमणीयम् । आहि च दूरे । दक्षिणाहि वसति, दक्षिणा वसति । दक्षिणाहि रमणीयम्, दक्षिणा रमणीयम् । उत्तराहि वसति, उत्तरा वसति । उत्तराहि रमणीयम्, उत्तरा रमणीयम् । दूरे चोदधिमानित्यर्थः । दूर इति किम् ? दक्षिणतो वसति ।
Page #560
--------------------------------------------------------------------------
________________
५१८
कातन्त्रव्याकरणम् अधरा अधरस्याच्चात् । अधराद् वसति, अधराद् रमणीयम् । दक्षिणाद् वसति, दक्षिणाद् रमणीयम् । उत्तराद् वसति, उत्तराद् रमणीयम् । 'अधरादागतः, दक्षिणादागतः, उत्तरादागतः' इति पञ्चम्या सिद्धम् । अधरस्या दिश आगत इति स्याच्चेत्, नैवम् । अधरस्माद् दिग्विशेषादागत इति विवक्षया निपातनाद् वा लक्ष्यते इति । अदूरे एनो वा । अधरस्यामदूरवर्तिन्यां दिशि वसति, अधरेण वसति । एवम् अधरेण रमणीयम्, दक्षिणेन वसति, दक्षिणेन रमणीयम् । पक्षे - 'अधराद् वसति' इत्यादि । केचिद् दिक्शब्दमात्रादिच्छन्ति । तेषां पूर्वेण वसतीत्यादि । अदूरवर्तिभ्य इति किम् ? उत्तरतो हिमवान् ।।४०३।
[वि० प०]
सय० । ऐषम इति । अत्रापि संवत्सर इति संबध्यते । अस्मिन् संवत्सरे ऐषम इति । 'अयतनेऽपि' इति इप्रत्यय इत्यर्थः । एवमित्यादि । पूर्वादिशब्दाद् दिग्देशकालार्थात् सप्तमीपञ्चमीप्रथमाद् अस्तातिप्रत्ययः । पूर्वस्यां दिशि वसति, पुरस्ताद् वसति । पूर्वस्या दिश आगतः, पुरस्तादागतः । पूर्वा दिग् रमणीया, पुरस्ताद् रमणीया । एवं पूर्वस्मिन् देशे काले वा वसतीत्यादि योज्यम् । निपातनं पूर्वशब्दस्य पुरभावः । एवमन्येऽपि वेदितव्याः, सद्यआद्यादेराकृतिगणत्वात् ।। ४०३ ।
[क० च०]
सय० । आदौ भवः आद्यः । सद्य आद्यो येषां ते सद्यआद्याः । निपात्यन्ते इति । निपातनात् प्रकृतिप्रत्ययादेशकालविशेषो न लभ्यते इति । अद्य इति “अद् व्यानेऽनक्" (२/३/३५) इत्यस्य बाधकस्तत्र "इदमी" (४/६/६६) । अतस्तस्मिन् प्राप्ते निपात्यते, पूवदिरेधुस् इति । पूर्वान्यान्यतरापराधरोत्तरेभ्य एद्युस् अहनि वाच्ये इत्यनेनेत्यर्थः । उभयाद् द्युस् चेति । चकार इह एद्युसमनुकर्षतीति टीका । पञ्याम् एवमन्येऽपि वेदितव्या इति । अन्च्यन्तादस्तातेलृक् । प्राच्यां दिशि वसति प्राग् वसति, प्रागागतः, प्राग् रमणीया । निपातनात् स्त्रीप्रत्ययस्यापि लुक् । ऊर्ध्वस्योपभावो रिरिष्टाती च प्रत्ययौ । उपरि, उपरिष्टात् । ऊर्ध्वायां दिशि वसति उपरि वसति, उपरिष्टाद् वसति । पूर्वापरयोरसिः पुरधौ च ।पुरस्ताद् वसति, पुरो वसति । पुरस्ताद् आगतः, पुर आगतः इत्यादयः ।।४०३।
Page #561
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५१९
[समीक्षा]
‘सद्यः, ऐषमः, परेद्यवि’ आदि शब्दों के साधनार्थ दोनों ही व्याकरणों में निपातनविधि अपनाई गई है । अन्तर यह है कि कातन्त्र में गणनिर्देश है और पाणिनीय व्याकरण में सूत्र में ही १४ शब्दों को पढ़ा गया है - " सद्य:परुत्परार्यैषम: परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः" (अ०५ / ३ / २२) । वृत्तिकार दुर्गसिंह ने 'यर्हि, अन्यर्हि' आदि शब्दों के सिद्ध्यर्थ एक वार्त्तिकवचन प्रस्तुत किया है - “किमन्ययत्तद्भ्योऽनद्यतनवृत्तिभ्यो र्हिर्वा " । परन्तु पाणिनि ने इनका निर्देश सूत्रान्तर्गत किया है- ( अ०५/३/२२) । [रूपसिद्धि]
१. सद्यः । समानेऽहनि । समान + स् + सि । प्रकृत सूत्र द्वारा निपातनबल से द्यस् प्रत्यय तथा ‘समान’ शब्द को 'स' आदेश, लिङ्ग्ङ्गसंज्ञा, सि-प्रत्यय " अव्ययाच्च” (२/४/४) से उसका लुक् तथा "रेफसोर्विसर्जनीयः” (२/३/६३) से स् को विसगदिश | २. परेद्यवि । परस्मिन्नहनि । पर + एद्यवि + सि । प्रकृत सूत्र द्वारा निपातन से एद्यवि-प्रत्यय, तथा रकारोत्तरवर्ती अकार का लोप, एवं विभक्तिकार्य पूर्ववत् ।
३. अद्य । अस्मिन्नहनि । इदम् +द्य+सि । प्रकृत सूत्र द्वारा निपातन से द्यप्रत्यय तथा इदम् को अत् आदेश अवं विभक्तिकार्य पूर्ववत् ।
४. परुत् । पूर्वस्मिन् संवत्सरे । पूर्व + उत् । निपातन से 'उत्' प्रत्यय तथा पूर्व को पर आदेश, अकारलोप तथा विभक्तिकार्य ।
५. परारि । पूर्वतरस्मिन् संवत्सरे । पूर्वतर + आरि + सि । निपातन से आरि प्रत्यय एवं पूर्वतर को पर आदेश, आकारलोप तथा विभक्तिकार्य ।
६. ऐषमः। अस्मिन् संवत्सरे । इदम् + समसिण् + सि । निपातन से समसिण् प्रत्यय, “इदमी” (४।६ / ६६ ) से इदम् को इ आदेश, आदिवृद्धि तथा विभक्तिकार्य । ७. पूर्वेयुः । पूर्वस्मिन्नहनि । पूर्व + एद्युस् + सि । निपातन से एद्युस् प्रत्यय, अकारलोप तथा विभक्तिकार्य ।
८- १४. अन्येयुः । अन्यस्मिन्नहनि । अन्य + एद्युस् + सि । अन्यतरेषुः । अन्यतरस्मिन्नहनि । अन्यतर + एद्युस् +सि । इतरेषुः । इतरस्मिन्नहनि । इतर + एद्युस् + सि ।
Page #562
--------------------------------------------------------------------------
________________
५२०
कातन्त्रव्याकरणम्
अपरेयुः। अपरस्मिन्नहनि । अपर + एद्युस् + सि । अधरेयुः। अधरस्मिन्नहनि । अधर + एद्युस् + सि | उत्तरेयुः ।उत्तरस्मिन्नहनि । उत्तर + एद्युस् + सि । उभयेयुः । उभयस्मिनहनि । उभय + एद्युस् + सि । पूर्ववत् प्रक्रिया |
१५. उभययुः । उभयस्मिन्नहनि । उभय + युस् + सि | निपातन से घुस् प्रत्यय तथा विभक्तिकार्य ।। ४०३।
४०४. प्रकारवचने तु था [२।६।३८] [सूत्रार्थ] ट्यादिभिन्न सर्वनामसंज्ञक शब्दों से प्रकार अर्थ में था' प्रत्यय होता है ।। ४०४ | [दु० वृ०]
सर्वनाम्नोऽव्यादेः प्रकारवचने तु थाप्रत्ययो भवति । सामान्यस्य भेदकः प्रकारः । सर्वेण प्रकारेण सर्वथा । एवं यथा, तथा, अन्यथा । वाक्यार्थवशेन सर्वविभक्तिभ्यो ज्ञेयः । 'था' इति बहुवचनं वा । तेन संख्यायाः प्रकारे धा - द्विधा, त्रिधा, चतुर्धा पञ्चधा, षड्धा । द्वित्रिभ्यां धमुण् एधा च - द्वैधम्, त्रैधम् द्वेधा, त्रेधा । एकाद् ध्यमुण् वा - ऐकध्यम्, एकधा ।। ४०४।
[दु० टी०]
प्रकार० । सप्तम्याः काल इति निरस्तम्, व्यवहितविधानात् । प्रकारशब्दो विशेषार्थः सादृश्यार्थश्च । यथा 'ब्राह्मणः' इति सामान्यम्, तस्य विशेष्या माथुरादयः । रूपमिति सामान्यम्, तस्य विशेषाः शुक्लादयः । प्रकारो यथा देवदत्तप्रकाराः सदृशा इति । इहु तु विशेषार्थ इत्याह - सामान्येत्यादि । प्रकारस्योक्तिः प्रकारवचनम्, तच्च प्रकृतिविशेषणम् । सर्वनाम्नो बहोश्च प्रकारवचने वर्तमानात् थाप्रत्ययो भवति स्वार्थे । वचनग्रहणमन्तरेण प्रत्ययविशेषणमपि स्यात् । नैवम्,यःप्रकृत्यनवस्थितोऽर्थः प्रत्ययेनोच्यते स प्रत्ययार्थः । यथा वशिष्ठस्यापत्यं वाशिष्ठ इति । इह तु सर्वनाम्नो बहोश्चानियतमभिधेयं तौ विशेषमापद्यमानौ नियताभिधेयौ भवतः । तर्हि वचनग्रहणं सुखप्रतिपत्त्यर्थमेव | यद्येवम्, द्योतकेऽपि थाप्रत्यये कथं यथाप्रकारस्तथाप्रकार इति ? सत्यम् । स्वरूपाविर्भावनपर एव प्रकारशब्दो लोके प्रयुज्यते । न कदाचिदिह श्रुता विभक्तिरस्तीत्याह - वाक्यार्थवशेनेत्यादि । तद् यथा-सर्वान् प्रकारान् भुङ्क्ते सर्वथा भुङ्क्ते । सर्वैः
Page #563
--------------------------------------------------------------------------
________________
५२१
नामचतुष्टयाप्याये पष्ठस्तद्धितपादः प्रकारैर्गच्छति सर्वथा गच्छति । सर्वेभ्यः प्रकारेभ्यो बिभेति सर्वथा बिभेति । येन प्रकारेण ददाति यथा ददातीति ।
___ 'था' इति बहुवचनं वेति व्युत्पत्तिवादिपक्षमाश्रित्य उच्यते, वाशब्देनैतत् सूचितम् । रूढिशब्दा हि तद्धिता इत्यर्थः । इत्यादिबहुवचनान्ता गणस्य संसूचका इति थादय इत्यर्थः । तेन संख्यायाः प्रकारे धा इति । द्वाभ्यां प्रकाराभ्यां द्वौ वा प्रकारौ करोतीति द्विधा करोति । एवं बहुधा करोति, बहुशब्दात् थापवादो धा प्रतिपत्तव्यः । प्रकारः पुनरिह क्रियाविषय एव ग्रहीतव्यः । यदि गुणद्रव्यविषयो गृह्यते धाप्रत्ययस्य लिङ्गसंख्याभ्यां योगः स्यात् । कथं नवधा द्रव्यम्, बहुधा गुण इति ? सत्यम्, अत्रापि क्रिया अध्याहर्तव्या उपदिश्यते, तस्मात् तसादिविषयमप्यव्ययो न्यायात् । एकस्यानेकीकरणसंख्यान्तरापादनं तस्मिन् गम्यमाने धा भवत्येव । राशिं पञ्चप्रकारं करोति, पञ्चधा करोति |पञ्चप्रकारेणैकप्रकारं करोति, एकधा करोति । 'षोढा, षड्धा' इति षस्य डत्वं प्रतिपत्तव्यम् । द्वित्रिभ्यां धमुण् एधा चेति - द्वैधं भुङ्क्ते, त्रैधं भुङ्क्ते । एवं द्वेधा, त्रेधा, द्विधा, त्रिधा । एकाद ध्यमुण् वेति । ऐकध्यं करोति, एकधा करोति । बहुशब्दात् थापवादो मन्तव्यः । बहुधा करोति ।।४०४।
[वि०प०]
प्रकारशब्दः सादृश्यार्थो विशेषार्थश्च । यथा देवदत्तप्रकाराः, देवदत्तसदृशा इत्यर्थः । ब्राह्मण इति सामान्यम्, तस्य प्रकारा माथुरा विशेषा इत्यर्थः । अत्र सादृश्ये वतिप्रत्ययस्य विधानाद् विशेष इह प्रकार इत्याह - सामान्यस्येत्यादि । वाक्यार्थेत्यादि । विशेषविभक्तिनिर्देशस्याभावादित्यर्थः । था' इति बहुवचनं वेति | इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्तीति । थादयः प्रत्यया इत्यर्थः । वाशब्दो रूढिवशात् तद्धित एवमर्थे वर्तते इति सूचयति । तेनेत्यादि । चतुर्भिः प्रकारैश्चतुरो वा प्रकारान् करोति, चतुर्धा करोति, पञ्चधा करोति, बहुधा करोति । बहुशब्दात् थापवादो धा इति मन्तव्यः । द्वित्रिभ्यां धमुण् एधा चेति । द्वैधं भुङ्क्ते, एवं द्वेधा त्रेधा भुङ्क्ते । चकाराद् धा च - द्विधा, विधा, । एकाद् ध्यमुण् वेति- ऐकध्यम् । पक्षे एकधा ।। ४०४।
[क० च०]
प्रकार० । प्रकारस्योक्तिः प्रकारवचनम्, तच्च प्रकृतिविशेषणम् । सर्वनाम्नो बहोश्च प्रकारवचने वर्तमानात् थाप्रत्ययो भवति स्वार्थ इत्यर्थः । वचनग्रहणं छन्दोऽर्थम् ।
Page #564
--------------------------------------------------------------------------
________________
५२२
कातन्त्रव्याकरणम्
पञ्ज्यां वतिप्रत्ययस्येति, अपवादस्येति शेषः । विभक्तिनिर्देशस्याभावाद् इति | सप्तम्या इत्यधिकारस्यापि “सयआयाः " (२/६/३७) इत्यनेन व्यवहितत्वान्न प्रवृत्तिः || ४०४ | [समीक्षा]
प्रकार अर्थ में 'सर्व, यद्, तद्, अन्य' आदि शब्दों से 'सर्वथा, यथा, तथा, अन्यथा' आदि शब्दों के सिद्ध्यर्थ उभयत्र समान प्रक्रिया अपनाई गई है । पाणिनि ने लित्स्वरविधानार्थ 'थाल्' प्रत्यय में 'लू' अनुबन्ध की योजना की है। उनका सूत्र है –‘“प्रकारवचने थाल्” (अ०५/३/२३) । उन्होंने थाप्रत्यय हेत्वर्थ में वैदिक प्रयोगों के लिए विहित किया है - "था हेतौ चच्छन्दसि' (अ०५/३/२६) । कथा ग्रामं न पृच्छसि ।
[रूपसिद्धि]
१. सर्वथा | सर्वेण प्रकारेण | सर्व +था+सि । प्रकृत सूत्र से था प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, ‘सर्वथा' की अव्ययसंज्ञा तथा "अव्ययाच्च” (२/४/४) से सि का लुक् ।
२-४. यथा । येन प्रकारेण । यद् +था+सि । तथा । तेन प्रकारेण । तद् +था+सि । अन्यथा | अन्येन प्रकारेण | अन्य +था+सि । प्रकृत सूत्र से था प्रत्यय, " त्यदादीनाम विभक्तौ” (२/३/२९) से 'यद-तद्' में द् को अ, "अकारे लोपम्” (२/१/१७) से पूर्ववर्ती अकार का लोप तथा विभक्तिकार्य || ४०४ |
४०५. इदंकिम्भ्यां थमुः कार्यः [२/६/३९]
[सूत्रार्थ]
प्रकार अर्थ में 'इदम्, किम्' शब्दों से 'थमु' प्रत्यय होता है || ४०५ | [दु० वृ०]
इदंकिम्भ्यां प्रकारवचने तु थमुः कार्यः । अनेन प्रकारेण इत्थम् | केन प्रकारेण कथम् ||४०५ |
[दु० टी० ]
इदम्० | पूर्वस्यापवादोऽयम् । थमुरित्युकार उच्चारणार्थः । " अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्च " (४/६/९) इति ज्ञापकात् सिध्यति इत्यचोद्यम्, न हि शर्ववर्मणो वचनं हि तत् । अत्रापि सर्वविभक्तिभ्यो ज्ञेयः || ४०५ |
[वि० प० ]
इदम् । इत्थमिति । " रथोरेतेत्” (२/६/२६) इति इदादेशः ।
Page #565
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५२३
[क० च०]
इदंकिम्० । धमुरित्युकार उच्चारणार्थः । “अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्च " (४/६/९) इति ज्ञापकादत्रापि सर्वविभक्तिभ्यो ज्ञेयः ।। ४०५ ।
[समीक्षा]
'इदम् - किम्' शब्दों से प्रकार अर्थ में 'इत्थम्, कथम्' शब्दों के साधनार्थ दोनों ही आचार्यों ने थमु प्रत्यय किया है । पाणिनि ने एतदर्थ दो सूत्र बनाए हैं - "इदमस्थमुः, किमश्च” (अ०५/३/२४, २५) । यहाँ योगविभाग उत्तरार्थ है । अतः उभयत्र साम्य ही कहा जा सकता है ।
[रूपसिद्धि]
१ . इत्थम् | अनेन प्रकारेण । इदम् +थमु +सि । प्रकृत सूत्र से थमुप्रत्यय, "रथोरेतेत्” (२/६/२६) से इदम् को इत् आदेश, लिङ्ग्ङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा ‘“अव्ययाच्च” (२/४/४) से सि का लुक् ।
२. कथम् | केन प्रकारेण । किम् +थमु+सि । प्रकृत सूत्र से थमु प्रत्यय, उ अनुबन्ध का प्रयोगाभाव, “किम् कः” (२/३/३०) से किम् को क आदेश तथा विभक्तिकार्य || ४०५ |
४०६. आख्याताच्च तमादयः [ २/६/४० ]
[सूत्रार्थ]
इस
नामसंज्ञक तथा आख्यातसंज्ञक शब्दों से 'तम' आदि प्रत्यय होते हैं, विधि को अधिकार्थविवक्षा के कारण निपातन कहा जाता है || ४०६ |
[દુ॰ go]
नाम्न आख्याताच्च तमादयः प्रत्यया निपात्यन्ते । आख्यातं क्रियाप्रधानम् । आढ्यतरम्, आढ्यतमम् । प्रकृष्ट आढ्य उच्यते, निपातनस्येष्टविषयत्वात् । तथा पचतितराम्, पचतितमाम् । किन्तराम्, किन्तमाम् | पूर्वाह्णेतराम्, पूर्वाह्णेतमाम् । उच्चैस्तराम्, उच्चैस्तमाम् ||४०६ । [दु० टी०]
आख्यात० | आख्यातमिति पूर्वाचार्यसिद्धसंज्ञा क्रियाप्रधानस्येत्याह - आख्यातमित्यादि । पचतीत्यादौ क्रियैव प्रधानम् । 'देवदत्तः पचति' इत्यादौ देवदत्तकर्तृकः पाकः
Page #566
--------------------------------------------------------------------------
________________
५२४
कातन्त्रव्याकरणम्
इत्यन्वयान्निपात्यन्ते इत्यधिकारादिहार्थविशेषः प्रतिपत्तव्यः । तेन बहुशो मध्ये एकस्य द्वयोर्बहूनां वा प्रकर्षे वर्तमानात् तमप्रत्ययः । अयमेषामाढ्यतमः, इमावेषां पाचकतमौ, इमे एषां पाचकतमाः' । द्वयोर्मध्ये एकस्य प्रकर्षे वर्तमानात् तरप्रत्यय इति । अयमनयोराढ्यतरः, अयमनयोः पाचकतरः । कथं माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः । अत्रापि द्वयोरेकस्य प्रकर्ष इति न विरुध्यते | अवयवापेक्षया तु बहुवचनं राशिद्वयापेक्षया पृथग्भाव इति । तथा अस्माकं च देवदत्तस्य च देवदत्तोऽतिरूपतरः । दन्तौष्ठस्य-दन्ताः स्निग्धतरा इति समुदायादेकवचनम् । साङ्काश्यकेभ्यः पाटलिपुत्रेभ्यश्च माथुराः सुकुमारतरा इति द्वयोरेकस्यैव प्रकर्ष इति साङ्काश्यकानां पाटलिपुत्राणां च पाटलिपुत्रकाः सुकुमारतराः इति बह्वर्थापेक्षया तमप्रत्यय एव । एकस्याप्यवस्थाभेदेन नानात्वात् । पटुर्भवान्, पटुरासीत्, पटुतरः । ऐषमः इति । परमतमनुसृत्य दर्शितमिदम् । किमिह विवक्षया प्रकर्षमात्र एव दृश्यते । यथा अस्मिन् ग्रामे आढ्यतरा वणिजः सन्तीत्याह - प्रकृष्ट इत्यादि । प्रकृष्टानामपि पुनः प्रकर्षे तरतमौ भवतः एव । यथा - "युधिष्ठिरः श्रेष्ठतमः कुरूणाम्"। समानजातीयात्तु न भवतः, स्वात्मनि क्रियाविरोधात् ।
'तमादयः' इत्यादिग्रहणेन प्रत्येकं प्रत्यया विधेयाः । इष्ठस्यान्यद् वाक्यं तमस्याप्यन्यद् वाक्यं भिद्यते निपातनबलात् । तथेत्यादि । अत्रापि पूर्ववद् व्याख्यानम् । अयमनयोः पचतितराम्, अयमेषां पचतितमाम्, इमावेषां पचतस्तमाम्, इमे एषां पचन्तितमाम् । इदमनयोः किन्तराम्, इदमेषां किन्तमाम् । अत्र यदा गुणः पृच्छ्यते तदा गुणप्रकर्षे तराम्, तमाम् । यदा तु क्रिया तदा क्रियाप्रकर्ष एव तमाम् – पूर्वाह्नेतराम्, पूर्वाह्नेतमाम् । सप्तम्या अलोपः । ननु पूर्वाह्न ः कालः, कालश्च द्रव्यम्, न च द्रव्यस्य प्रकर्षोऽस्तीति, क्रियागुणयोरेव प्रकर्षात् ? सत्यम् । न ह्यत्र पूर्वाह्ने शब्दः प्रकृष्यते, फेन्तर्हि विवक्ष्योऽर्थः, स च गुण एव न द्रव्यम्, शक्तिरूपत्वात् । 'उच्चस्तराम्, उच्चस्तमाम्' इति उच्चैरित्यधिकरणप्रधानमव्ययम्, अत्राधिकरणशक्तेर्गुणस्य प्रकर्षः । यद्यपि क्रियागुणयोरेव प्रकर्षो न द्रव्यस्य, तथापि क्रियागुणग्रहणमुपचारनिवृत्त्यर्थं मतम् । तेन 'उच्चस्तरः, उच्चस्तमो वृक्षः' इति क्रियागुणस्थः प्रकर्षो यदा द्रव्ये उपचर्यते तदा द्रव्यप्रकर्ष इति भावः । दृश्यते ह्याधेयधर्मस्याधार उपचारः। यथा मञ्चाः क्रोशन्तीति ।।४०६।
Page #567
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५२५
[वि० प० ]
आख्याता० | ‘निपात्यन्ते' इत्यधिकारादिहापि प्रकृतिप्रत्ययार्थविशेषा लभ्यन्ते । तेन बहुषु मध्ये एकस्य द्वयोर्बहूनां वा प्रकर्षे वर्तमानात् तमप्रत्ययः । द्वयोरेकस्य प्रकर्षे वर्तमानात् तरश्च सिद्धः । अयमेषां प्रकृष्ट आढ्यः आढ्यतमः । एवम् इमावेषां प्रकृष्टौ आढ्यौ आढ्यतमौ । इमे एषां प्रकृष्टा आढ्या आढ्यतमाः इति प्रतिपत्तव्यमिति । अयमनयोः प्रकृष्ट आढ्यः आढ्यतर इति परमतमनुसृत्य दर्शितमिदम् | सिद्धान्ते तु प्रकर्षमात्रविवक्षायां दृश्यते । यथा अस्मिन्नगरे आढ्यतरा वणिजः सन्ति । न ह्यत्र द्वयोरेकस्य प्रकर्षो गम्यते इत्याह- प्रकृष्ट इत्यादि । प्रकृष्टो य आढ्यः स आढ्यतरः, आढ्यतमश्चोच्यते इति भावः । एवं तरांतमामोरपि प्रतिपत्तव्यमित्याह - तथेहि । अयमनयोः प्रकृष्टं पचति पचतितराम् । अयमेषां प्रकृष्टं पचति पचतितमाम् । इदमनयोः प्रकृष्टं किं किन्तराम्, इदमेषां प्रकृष्टं किं किन्तमाम् । इह यदा गुणः पृच्छ्यते तदा गुणप्रकर्षे, यदा तु क्रिया पृच्छ्यते तदा क्रियाप्रकर्षे । पूर्वाह्णतमाम् इति । यद्यपि पूर्वाह्णशब्दार्थस्य द्रव्यत्वेन प्रकर्षार्थो न संभवति, क्रियागुणयोरेव प्रकर्षार्थत्वात् । तथापीह विवक्षणीयोऽर्थः । प्रकृष्यते, स च गुण एव शक्तिस्वरूपत्वात् । " तत्स्था लोप्या विभक्तयः” (२/५/२) इति सप्तमीलोपो न भवति, अनभिधानाद् उच्चैस्तराम्, उच्चैस्तमाम् इति । अधिकरणप्रधानमव्ययमिहाधिकरणशक्तेर्गुणभूतायाः प्रकर्षो गम्यते इति || ४०६ |
[क० च०]
आख्याता० । चकारो नाम्नोऽनुकर्षणार्थः इत्यभिप्रायेणाह - नाम्न इति । आख्यातमिति पूर्वाचार्यप्रसिद्धसंज्ञा क्रियाप्रधानस्येत्याह - आख्यातमित्यादि । पचतीत्यादौ क्रियैव प्रधानम्, देवदत्तः पचतीत्यादौ देवदत्तकर्तृकः पाकः इत्यन्वयात् ।।४०६।
[समीक्षा]
‘आढ्यतरः, आढ्यतमः, पचतितराम्, पचतितमाम्, किन्तराम्, किन्तमाम्' आदि प्रयोगों के सिद्ध्यर्थ कातन्त्रकार ने 'तम' आदि प्रत्ययों का निर्देशमात्र किया है, परन्तु पाणिनि ने 'तरपू, तमप्, इतरच्, डतमच्' ये चार प्रत्यय किए हैं, जिनके लिए पाँच सूत्र हैं- " अतिशायने तमबिष्ठनौ, तिङश्च द्विवचनविभज्योपपदे तरबीयसुनौ, किंयत्तदो निर्धारणे द्वयोरेकस्य इतरच्, वा बहूनां जातिपरिप्रश्ने डतमच्’” (अ० ५/३/५५,५६,५७,९२,९३) । इस प्रकार पाणिनीय निर्देश में गौरव स्पष्ट है ।
Page #568
--------------------------------------------------------------------------
________________
५२६
कातन्त्रव्याकरणम्
[विशेष वचन ]
१. निपातनस्येष्टविषयत्वात् ( दु० वृ० ) ।
२. आख्यातमिति पूर्वाचार्यप्रसिद्धसंज्ञा क्रियाप्रधानस्य (दु० वृ०, दु० टी०, क० च० )
३. निपात्यन्ते इत्यधिकारादिहार्थविशेषः प्रतिपत्तव्यः (दु० टी० ) । ४. प्रकृष्टानामपि पुनः प्रकर्षे तरतमौ भवतः एव । यथातमः कुरूणाम्' (दु० टी० ) ।
५. अत्र यदा गुणः पृच्छ्यते तदा गुणप्रकर्षे तराम्, तमाम् । यदा तु क्रिया तदा क्रियाप्रकर्ष एव (दु० टी०, वि० प० ) ।
६. यद्यपि क्रियागुणयोरेव प्रकर्षो न द्रव्यस्य, तथापि क्रियागुणग्रहणम् उपचारनिवृत्त्यर्थं मतम् (दु० टी० ) |
७. निपात्यन्ते इत्यधिकारादिहापि प्रकृतिप्रत्ययार्थविशेषा लभ्यन्ते, तेन बहुषु मध्ये एकस्य द्वयोर्बहूनां वा प्रकर्षे वर्तमानात् तमप्रत्ययः, द्वयोरेकस्य प्रकर्षे वर्तमानात् तरश्च सिद्ध: (वि० प० ) ।
'युधिष्ठिरः श्रेष्ठ
८. अधिकरणप्रधानमव्ययम् इहाधिकरणशक्तेर्गुणभूतायाः प्रकर्षो गम्यते इति (वि० प० ) ।
९. पचतीत्यादौ क्रियैव प्रधानम्, 'देवदत्तः पचति' इत्यादौ देवदत्तकर्तृकः पाक इत्यन्वयात् (क० च० ) । [रूपसिद्धि]
१-४. पचतितराम् । अयमनयोरतिशयेन प्रकृष्टं वा पचति । पचति + तराम् + सि | किन्तराम् | इदमनयोः प्रकृष्टं किम् । किम् +तराम् + सि | पूर्वाह्णेतराम् । इदम् अनयोः प्रकृष्टं पूर्वाह्णे । पूर्वाह्णे +तराम् +सि । उच्चैस्तराम् । इदमनयोः प्रकृष्टमुच्चैः । उच्चैस् +तराम् +सि । आख्यात 'पचति' तथा नाम 'किम्, पूर्वाह्ने, उच्चैः' शब्दों से “आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्य एव तरां तमाम् " ( २/६/४०१) सूत्र द्वारा ‘तराम्' प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा "अव्ययाच्च” (२/४/४) से उसका लुक् ।
५ -८. पचतितमाम् । अयमेषां प्रकृष्टं पचति । पचति + तमाम् +सि | किन्तमाम् | इदमेषां प्रकृष्टं किम् । किम् + तमाम् +सि । पूर्वाह्णेतमाम् । इदमेषां प्रकृष्टं पूर्वाह्णे ।
Page #569
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५२७ पूर्वाह्न +तमाम् +सि । उच्चैस्तमाम् । इदमेषां प्रकृष्टमुच्चैः । उच्चैस् +तमाम् +सि । यहाँ सर्वत्र “आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्य एव तरां तमाम्" (२/ ६/४०-१) सूत्र द्वारा 'तमाम्' प्रत्यय तथा विभक्तिकार्य ।
९-१०.आयतरः ।अयमनयोःप्रकृष्ट आढ्यः |आढ्य +तर +सि |आन्यतमः । अयमेषां प्रकृष्ट आढ्यः । प्रकृत सूत्र द्वारा उभयत्र 'तर-तम' प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः” (२/३/६३) से विसगदिश ।। ४०६ ।
४०७. समासान्तगतानां वा राजादीनामदन्तता [२/६/४१] [सूत्रार्थ]
समास के अन्त में विद्यमान 'राजन्' आदि शब्द निपातन से अदन्त हो जाते हैं या उनके बाद अत् प्रत्यय होता है ।। ४०७।
[दु० वृ०]
समासान्तगतानां राजादीनामदन्तता निपात्यते अप्रत्ययो वा अदन्तो वा येषामिति विग्रहः । अवयवावयवोऽपि समासस्यावयवः । तेन उपराजम्, अध्यात्मम् । अव्ययीभावाद् विभक्तीनाम् अम् । द्विपुरी, त्रिपुरी । द्विगोर्नदादित्वादी । नक्त्वचिनी । द्वन्द्वनिन्दितरोगेभ्यः इतीन् । एवमन्येऽपि ।।४०७।
[दु० टी०]
समासान्त० । अदिति तकार उच्चारणार्थः । ननु विधीयमानोऽदन्तत्वेनागम एव स्यात्, ततश्चाघुट्स्वरादिकार्यमिवर्णावर्णयोर्लोपश्च प्रत्ययत्वाभावादत्र न स्यात् । नैवम्, वाशब्दोऽत्र समुच्चयत्वेन संबध्यते, न तु विकल्पत्वेन । राजादयोऽदन्तो वा अप्रत्ययो येभ्यः एतदुक्तं भवति । समासस्यान्तमवयवभूतं देशं गतानां राजादीनाम् अदन्तो वा अप्रत्ययो वा भवतीत्यर्थः । एवं मनसिकृत्याह-अत्प्रत्ययो वेत्यादि । भावप्रत्ययस्तु श्लोकत्वात् । अथवा अतोऽन्तता अदन्तता । अदन्तता अस्मादेव वचनाद् राजादिभ्योऽद् भवति । स च प्रत्यय एव प्रस्तावात् तदा त्विह वाशब्दोऽनित्यपर एव क्वचिन्न भवतीत्यर्थः । पूर्वपक्षे त्वाकृतिगणत्वादेवानित्यत्वं सिद्धम् । यदि तु समासस्य राजाद्यन्तस्यादन्तता विधीयते तदा प्रतिपत्तिगौरवं स्यात् । समासनिष्पत्तेः प्राक् समासार्थात् पदादतं
Page #570
--------------------------------------------------------------------------
________________
५२८
कातन्त्रव्याकरणम्
कृत्वा पश्चात्तदन्तेन समासे सति समासावयवत्वमुपपद्यते, अन्तशब्दस्यावयववाचित्वात् । अथवा समासस्य पश्चादपि विधीयमानस्य समासावयवत्वं वचनान्मन्यते । तदापि तद् युक्तमेवेति मन्यमान आह - अवयवावयवोऽपीत्यादि । राजादयस्तावदवयवाः समासस्यारम्भकत्वात् तदवयवोऽपि वचनाद् भवन् अयमव्यवधायक एव । यथा लोके देवदत्तस्यावयवान्तर्भूता व्रणकिणादयो देवदत्तग्रहणेन गृह्यन्ते इति भावः ।। ४०७।
[वि० प०]
समासान्त० । अत् अन्तो येषां ते अदन्तास्तेषां भावोऽदन्तता | ननु अद् विधीयमानोऽन्तत्वेनागम एव स्यान्न प्रत्ययः । ततश्च तन्निबन्धनमिवर्णावर्णयोरित्यादिकार्य कथमस्मिन् भवतीति । नैवम्, वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः । तेनादन्तता भवति एवं सम्बन्धनीयम् । अतोऽप्रत्ययो वा अदन्तता वा राजादयो निपात्यन्त इत्याह - अत् प्रत्ययो वेत्यादि । एवं च सति वाक्यान्तर्गतानां वेति वृत्तिपाठोऽशुद्ध एव लक्ष्यते समुच्चयस्यान्यथासमर्थितत्वात् । तथा च टीकायां वाशब्दोऽत्र समुच्चयार्थत्वेन सम्बध्यते, न तु विकल्पार्थत्वेन । राजादयोऽदन्ता वा अत्प्रत्ययो वेति । अधाव्ययानामनेकार्थत्वाद् एवमपि समुच्चिनोति । को निवारयिता केवलं फलमेव नोपलभामहे |
न चैवं शास्त्रान्तरमस्ति । पुस्तकान्तरे च सूत्रार्थविवरणमेव नास्ति तदेवं युक्तमुत्पश्यामः । ननु चास्मिन् पक्षे समासनिप्यत्ते : प्राक् समासार्थात् पदाद् अतं कृत्वा पश्चात् तदन्तेन समासे सत्यारम्भकत्वात् समासादयवोऽयम् अप्रत्ययो युज्यते, यदा तु समासान्तगतानां वा राजादीनामद् विधीयते, तदा राजादिभुक्तत्वादनेन समासो व्यवधीयते एवेति । कथं समासात् परं विधीयमानमन्तावादिकार्यं स्यादित्याह – अवयवेत्यादि । राजादयस्तावदवयवाः समासारम्भकत्वात् तेषां राजादीनामवयवोऽद् भवन् समासस्यापि भवतीति कथं व्यवधायको नाम । यथा देवदत्तस्यावयवेऽन्तर्भूता व्रणकिणादयोऽपि देवदत्तग्रहणेन गृह्यन्ते इति भावः । उपराजम्, अध्यात्मम् इति । राज्ञः समीपम्, आत्मन्यधीति विग्रहे अदन्तेति वचनादत् । द्विपुरी, त्रिपुरीति । द्वयोः पुरोः, तिसृणां पुरां समाहार इति विग्रहे “पन्थ्यप्पुरः" (२/६/४१-१९) इति अत् । सक्त्वचिनीति । स च त्वक् चेति विग्रहे "समाहारद्वन्द्वश्चवर्गदषहान्त" (२/६/४१३६) इत्यत् । ततः मक्त्वचमस्यास्तीति इन्, स्त्रियामीप्रत्ययः ।। ४०७।
Page #571
--------------------------------------------------------------------------
________________
५२९
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५२९ [क० च०]
समासा० । वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः, निपातनस्येष्टविषयत्वादिति केचित् । “वा खारी" (२/६/४१-११) इत्यत्र विकल्पकरणादित्यर्थः । क्रियासम्बन्धात् पश्चात् पठितुं युज्यते इत्यपरः । तन्न । (वाच्या) इत्यादौ व्यभिचाराभावात् । 'व्याप्त्यव्याप्त्योर्व्याप्तिरेव ज्यायसी' (कलाप०,पृ० २२२-७७) इत्येके | समुच्चयसिद्धे तत्प्रतिपादे सति न्यूनतादूषणं स्याद् विकल्पः, यदाऽन्यथा प्राप्यते तदा न दीयत इति मुख्यत्वात् समुच्चयः स्यात् । एतस्मिन् पक्षे विकल्पमार्गो विलयगत इत्युपेक्षितः । वाक्यान्तरगतानां समुच्चयः समासान्तगतानामित्यस्य वैयर्थ्यात् ।
[पुस्तकान्तरे पाठः] समा० | समासस्यान्तः समासान्तस्तं गताःप्राप्ताः | राजन्शब्द आदिर्येषामिति बहुव्रीहिः । समासान्तानामिति सिद्धे गतग्रहणं छन्दोऽर्थम् । अदिति तकार उच्चारणार्थः ।।४०७।
[समीक्षा]
'द्वित्राः, उपराजम्, अध्यात्मम्, महाराजः, पञ्चगवम्, उपशरदम्' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने ६५ सूत्रों द्वारा केवल ‘अत्' प्रत्यय किया है, जबकि पाणिनि ने 'डच्, अ, अच्, टच्, षच्, ष, अप्' ये सात प्रत्यय समासान्त के अधिकार में किए हैं। इसके अतिरिक्त भी पाणिनि ने इस अधिकार में 'असिच्, अनिच्, इच्, इत्, कप्' ये पाँच प्रत्यय, 'जु, अनङ्, निङ्, दत्' ये चार आदेश तथा ‘पाद, ककुद, काकुद' शब्दों में अन्तलोप का विधान किया है। इस प्रकार पाणिनि के समासान्त-अधिकार में ९३ सूत्र, १२ प्रत्यय, ४ आदेश एवं ३ शब्दों में अन्तलोप विद्यमान है – “समासान्ताः- निष्प्रवाणिश्च" (अ०५/४/६८-१६०) । फलतः विस्तृत निर्देश होने पर भी गौरवरूप अपकर्ष तो कहा ही जाएगा ।
[विशेष वचन] १. अवयवावयवोऽपि समासस्यावयवः (दु० वृ०)।
२. राजादयस्तावदवयवाः समासस्यारम्भकत्वात् तदवयवोऽपि वचनाद् भवन् अयमव्यवधायक एव । यथा लोके देवदत्तस्यावयवान्तर्भूता व्रणकिणादयो देवदत्तग्रहणेन गृह्यन्ते इति भावः (दु० टी०, वि० प०)।
Page #572
--------------------------------------------------------------------------
________________
५३०
कातन्वव्याकरणम् ३. वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः (वि० प०)।
४. वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः। निपातनस्येष्टविषयत्वादिति केचित् । 'वा खारी' इत्यत्र विकल्पकरणादित्यर्थः । क्रियासम्बन्धात् पश्चात् पठितुं युज्यते इत्यपरः (क० च०)।
[रूपसिद्धि]
१. उपराजम् । राज्ञः समीपम् । उपराजन् +अत् +सि | समास, अत् समासान्त में त् अनुबन्ध का प्रयोगाभाव, टिलोप तथा सि को अमादेश ।
२. अध्यात्मम् । आत्मनि अधि | अध्यात्मन् +अत् +सि | समास, समासान्त अत् प्रत्यय, त् अनुबन्ध का प्रयोगाभाव, टिलोप तथा सि को अमादेश ||४०७।
४०८. डानुबन्धेऽन्त्यस्वरादेर्लोपः [२/६/४२]
[सूत्रार्थ]
ङ्- अनुबन्ध वाले प्रत्यय के परवर्ती होने पर अन्तिम स्वरादिरूप अवयव का लोप होता है ।।४०८।
[दु० वृ०]
डानुबन्धे प्रत्यये परेऽन्त्यस्वरादेरवयस्य लोपो भवति । चत्वारिंशतः पूरणः चत्वारिंशः । एवं पञ्चाशः । सरसिजम्, जलजम्, सप्तमीपञ्चम्यन्ते जनेर्डः ।। ४०८।
[दु० टी०]
डानु० । 'ड' इत्यकार उच्चारणार्थः । डोऽनुबन्धो यस्येति अनुबन्धग्रहणसामर्थ्याद् अतद्धितेऽपि स्यात् । नहि तद्धितो डः प्रयोगी संभवतीत्याह - सरसिजम्, जलजमिति । एतेन कृप्रत्ययेऽपि लोपः । ननु “योऽनुबन्धोऽप्रयोगी" (३/८/३१) इति कृत्स्वपि डकारकरणसामर्थ्याद् भवति, किमनुबन्धग्रहणेन ? सत्यम्, सुखार्थमिदम् । अन्त्यस्वर
आदिर्यस्यावयवस्येति विग्रहे एकषष्टेः पूरणः एकषष्टः, इतीकारमात्रस्यापि लोपः, व्यपदेशिवद्भावात् ।। ४०८।
[समीक्षा]
पूरण आदि अर्थों में 'चत्वारिंशत्-पञ्चाशत्' शब्दों में 'अत्' का तथा ‘सरसिजम्, जलजम्' आदि में 'अन्' भाग का लोप अर्थात् 'टि' संज्ञक अवयव का लोप उभयत्र
Page #573
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः किया गया है | पाणिनि का सूत्र है- “टे:" (अ० ६/४/१४३)। अतः उभयत्र समानता ही है।
[रूपसिद्धि]
१. चत्वारिंशः । चत्वारिंशतः पूरणः । चत्वारिंशत् +ड +सि । “संख्यायाः पूरणे डमौ' (२/६/१६) से 'ड' प्रत्यय, प्रकृत सूत्र से ‘अत्' भाग का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/३/६३) से स् को विसगदिश ।
२. पञ्चाशः । पञ्चाशतः पूरणः । पञ्चाशत् + ड+सि । पूर्ववत् प्रक्रिया ।
३-४. सरसिजम् । सरसि जातम् । सरसि +जन् +ड+सि । जलजम् । जले जातम् । जल +जन् +ड +सि । “सप्तमीपञ्चम्यन्ते जनेर्ड:" (४/३/९१) से ड-प्रत्यय, “योऽनुबन्धोऽप्रयोगी" (३/८/३१) से ड् अनुबन्ध का अप्रयोग, प्रकृत सूत्र से 'अन्' भाग का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा “अकारादसंबुद्धौ मुश्च" (२/२/७) से सिलोप तथा मु-आगम ।।४०८।
४०९. तेर्विंशतेरपि [२/६/४३] [सूत्रार्थ]
डकारानुबन्ध वाले प्रत्यय के पर में रहने पर 'विंशति' शब्दगत 'ति' का लोप होता है ।।४०९।
[दु० वृ०] डानुबन्धे प्रत्यये परे विंशतेस्तेरपि लोपो भवति । विंशतेः पूरणो विंशः ।। ४०९। [दु० टी०]
तेः। पूर्वेण डानुबन्धेऽन्त्यस्वरादिलोपे सिद्धे तलोपार्थं वचनमिदम् । अपिः उक्तसमुच्चयमात्रे ।। ४०९।
[समीक्षा]
'विंशतेः पूरणः' इस अर्थ में 'विंशः' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ति' का लोप किया गया है। पाणिनि का सूत्र है- “ति विंशतेर्डिति" (अ०६/ ४/१४२)। इस प्रकार उभयत्र साम्य है।
Page #574
--------------------------------------------------------------------------
________________
५३२
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. विंशः। विंशतेः पूरणः । विंशति +ड +सि | "संख्यायाः पूरणे डमौ" (२/६/१६) से पूरणार्थ में 'ड' प्रत्यय, डकारानुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से 'ति' का लोप, शकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१) से 'विंश' की लिङ्गसंज्ञा तथा विभक्तिकार्य ।।४०९।
४१०. इववर्णयोर्लोपः स्वरे प्रत्यये ये च [२/६/४४] [सूत्रार्थ]
स्वरादि तथा यकारादि तद्धित प्रत्यय के पर में रहने पर इवर्ण तथा अवर्ण का लोप होता है ।। ४१०।
[दु० वृ०]
इवर्णावर्णयोर्लोपो भवति तद्धिते स्वरे ये च प्रत्यये परे । आत्रेयः, द्रौणेयः, दाक्षिः, प्लाक्षिः, गाङ्गेयः, गार्यः, तुल्यः । पुनर्लोपग्रहणादव्ययानामन्त्यस्वरादेर्लोपो लक्ष्यतः। सायंप्रातर्भवः सायंप्रातिकः । एवं पौनःपुनिकः, बाह्यम् इत्यादयः ।।४१०।
[दु० टी०]
इवर्णा० । अत्रेरपत्यम्, दक्षस्यापत्यम्, गङ्गाया अपत्यम्, गर्गस्यापत्यम्, तुलया संमित इति विग्रहः। “विरामव्यअनादिषु" (२/३/४४) इत्यत्र प्रत्ययग्रहणस्य समाधिरुक्त एव । अप्यधिकारोऽत्र बहुलत्वेन प्रतिपत्तव्यः । तेन आङ: स्थाने यान्येकारादीनि तेष्ववर्णस्य लोपः । आ इन्द्रात् एन्द्रात्, अद्येन्द्रात्, कदेन्द्रात् । आ इतः एतः, प्रेतः, परेतः । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (का० परि० ४४) इति “इणेधत्योर्न" (कात० परि० सं०१३) इत्यस्यापि बाधा स्यात् । आ ऊढा ओढा, अद्योढा, कदोढा । आ ऊढः ओढः प्रोढः, प्रोढिरित्यपि । आ ऋष्यात्, अर्ध्यात्, अद्यात्, कदात् । आ लृकारात् अल्कारात्, अद्यल्कारात्, कदल्कारादिति ।।४१०।
[समीक्षा]
'अत्रि+एय, दक्ष +इ, गर्ग +य' आदि से 'आत्रे:, दाक्षिः, गार्यः' आदि तद्धितान्त शब्द सिद्ध करने के लिए दोनों ही व्याकरणों में इवर्ण - अवर्ण (पूर्ववर्ती शब्द के अन्त में वर्तमान) का लोप किया गया है । पारि ने का सूत्र है – “यस्येति च" (अ० ६/४/१४८)। अतः उभयत्र प्रायः समानतः ।
Page #575
--------------------------------------------------------------------------
________________
५३३
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [रूपसिद्धि
१. आत्रेयः । अत्रेरपत्यं पुमान् । अत्रि +एयण् +सि । अपत्यार्थ में "स्त्र्यत्र्यादेरेयण' (२/६/४) से एयण् प्रत्यय, “योऽनुबन्धोऽप्रयोगी" (३/८/३१) से ण् अनुबन्ध का प्रयोगाभाव, आदि स्वर की वृद्धि, प्रकृत सूत्र से इकार का लोप, तथा विभक्तिकार्य ।
२. द्रौणेयः । द्रोणस्यापत्यं पुमान् । द्रोण +एयण +सि । “स्त्र्यत्र्यादेरेयण" (२/ ६/४) से एयण् प्रत्यय,आदि स्वर की वृद्धि, प्रकृत सूत्र से अकारलोप तथा विभक्तिकार्य ।
३. गाङ्गेयः । गङ्गाया अपत्यम् । गङ्गा +एयण् +सि । पूर्ववत् प्रक्रिया।
४-५. दाक्षिः । दक्षस्यापत्यं पुमान् । दक्ष +इण् +सि । प्लाक्षिः। प्लक्षस्यापत्यं पुमान् । प्लक्ष +इण् +सि । “इणतः" (२/६/५) से इण् प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, आदि स्वर की वृद्धि, अकारलोप तथा विभक्तिकार्य ।
६. गार्ग्यः । गर्गस्यापत्यम् । गर्ग +ण्य +सि । “ण्य गगदिः” (२/६/२) से ण्य प्रत्यय, णकार अनुबन्ध का प्रयोगाभाव, आदि स्वर की वृद्धि, अकारलोप तथा विभक्तिकार्य।
७. तुल्यः। तुलया संमितः । तुला +यत् +सि । “तुलया संमितेऽपि च” (२/ ६/९) से यत् प्रत्यय, प्रकृत सूत्र से अकारलोप तथा विभक्तिकार्य ।।४१०।
४११. नस्तु क्वचित् [२/६/४५] [सूत्रार्थ] लक्ष्यानुरोधवश कहीं पर नकार का लोप होता है ।।४११ । [दु० वृ०]
नकारस्य लोपो भवति क्वचिल्लक्ष्यानुरोधात् । औ_लोमिः, आग्निशर्मिः । द्वे अहनी समाहृते व्यहः । एवं त्र्यहः ।।४११।
[दु० टी०]
नस्तु० । ऊर्ध्वलोम्नोऽपत्यम्, अग्निशर्मणोऽपत्यमिति विगृह्य बाह्लादित्वादिण् । नलोपे सति पश्चाद् "इवर्णावर्णयोर्लोपः" (२/६/४४) इत्यनेनाकारस्य लोपः । क्वचिन्न स्यात् -अह्रा निवृत्तः आह्निकः । संयोगादिनोऽसमूहेऽणि शङ्खिनो वज्रिणोऽपत्यमिदं
Page #576
--------------------------------------------------------------------------
________________
५३४
कातन्वव्याकरणम् वा शालिनः, वाज्रिणः । समूहे तु भवत्येव । दण्डिनां समूहो दाण्डमिति । गाधिविदधिकेशिगणिपणिनां च । गाधिनोऽपत्यमिदं वा, तत्र भवो जातो वा गाधिनः । एवं वैदधिनः, कैशिनः, गाणिनः, पाणिनः । समूहे त्वणि भवत्येव-गाधिनां समूहो गाधम् इति । अन्यस्येनन्तस्यासमूहेऽनपत्ये चाणिनः । सांराविणम्, सांकोटिनम् । अभिविधौ भावे इनुण, तदन्तात् स्वार्थे नित्यमण् - रथिनः इदं राथिनम् । समूहेऽपत्ये तु नलोपो भवत्येव । मेधाविनोऽपत्यं मैधावो राथः, मेधाविनां समूहो मैधावं राथम् |
अनन्तस्याविशेषेऽणि - साम्नोऽपत्यं समूहो वा, तत्र भवो जातो वा सामनः, एवं वैमनः । षनहनधृतराज्ञामेवाणि । अनोऽकारस्य लोप इत्युक्तमेव | मनन्ताद् वर्मण एवापत्ये - वज्रवर्मणोऽपत्यं वाज्रवर्मणः । अन्यत्र सुषाम्नोऽपत्यं सौषामो भाद्रमासः । हितनाम्नो विभाषा - हितनाम्नोऽपत्यं हैतनामो हैतनामनो वा । ब्रह्मणो जातौ - ब्रह्मणोऽपत्यं ब्रह्मजातिर्ब्राह्मणः । अजातौ ब्रह्मणोऽपत्यं ब्राह्मः, ब्राह्मो मन्त्रः । ब्राह्म वस्त्रम्, ब्राह्मं हविः इत्याद्यनपत्ये च दृश्यते । उक्ष्णश्च । उक्ष्णोऽपत्यम् औक्ष्णः । अपत्य इत्येव - उक्ष्ण इदम् औक्ष्णं पदम् । ये चाभावकर्मणोः । सामसु साधु सामन्यम्, ब्राह्मण्यम् ।अभावकर्मणोरित्येव - राज्ञो भावः कर्म वा राज्यम् ।अश्मनो विकारश्चेल्लोपःआश्मः, आश्मनोऽन्यः । चर्मणः कोषश्चेत् – चार्मः, चार्मणोऽन्यः ।शुनः संकोचश्चेत् - शौवः, शौवनोऽन्यः । तथा सब्रह्मचारिपाठसर्पिकलापिकुथुमितैतिनि (लि) जाजनि(लि) लाङ्गलिशिखण्डिशूकरसम्बसुपर्वणाम् । सब्रह्मचारिण इमे साब्रह्मचाराः । एवं पैठसर्पाः । कलापिना प्रोक्तमधीयते कालापाः, कौथुमाः, कौथुमिनः । तैतिलिजाजलिनावाचार्यों तत्कृतग्रन्थ उपचारात् तैतिली, जाजली, तमधीते तैतिलः, जाजलः । एवं लाङ्गलः, शैखण्डः, शौकरः, साम्बः, सौपर्वः ।।४११ ।
[समीक्षा]
'ऊर्ध्वलोम्नोऽपत्यम्, अग्निशर्मणोऽपत्यम्' इस अर्थ में औ@लोमिः, आग्निशर्मिः' शब्दों के सिध्यर्थ कातन्त्रकार प्रकृत सूत्र से नलोप तथा "इवर्णावर्णयोर्लोपः" (२/६/४४) इत्यादि से अकार का लोप करते हैं, जबकि पाणिनि ने टिलोप का विधान किया है – “अबापत्यबहुत्वाभावादकारप्रत्ययो न, किन्तु बाह्लादित्वादिजि टिलोप इति भावः" (बालमनोरमा ४/१/८५-तद्धितप्रकरण) । अतः प्रायः उभयत्र साम्य ही है |
Page #577
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [रूपसिद्धि]
१. औलोमिः । ऊर्ध्वलोम्नोऽपत्यम् । ऊर्ध्वलोमन् +इण् +सि । “बाह्लादेश्च" (२/६/६) से इण् प्रत्यय "वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर की वृद्धि, प्रकृत सूत्र से नलोप, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से अकारलोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. आग्निशर्मिः। अग्निशर्मणोऽपत्यं पुमान् । अग्निशर्मन् +इण् +सि । पूर्ववत् प्रक्रिया ||४११।
- ४१२. उवर्णस्त्वोत्वमापायः [२/६/४६] [सूत्रार्थ]
तद्धितसंज्ञक यकारादि तथा स्वरादि प्रत्यय के परवर्ती होने पर उवर्ण के स्थान में ओकार आदेश होता है ।।४१२।
[दु० वृ०] उवर्णस्त्वोत्वमापादनीयस्तद्धिते स्वरे ये च प्रत्यये परे औपगवः, बाभ्रव्यः ।।४१२ । [दु० टी०]
उवर्ण० | आपाद्य इति पदेहेत्विनन्तात् स्वराद् यः। सत्यपि द्विकर्मकत्वे प्रधानादुक्तत्वान्न द्वितीया । उपगोरपत्यमित्यण् । बभ्रोः कौशिकेऽपत्ये गर्गादित्वाण्ण्यः । वर्णग्रहणाद् जम्बूनां फलं जाम्बवम्, वधूभ्यो हितो देशो वधव्यः ।।४१२।
[वि० प०].
उवर्ण० |आपाद्य इति । पदेरिनन्तात् स्वराद् य इति कर्मणि यप्रत्ययः, स चेनन्ताद् धातोः सत्यपि द्विकर्मकत्वे प्रधाने प्रत्ययो भूतः इति अप्रधानत्वाद् ओत्वम् इत्यस्मात् कर्मणि द्वितीयैव भवति । बाभ्रव्य इति । बभ्रोरपत्यम्, गगदिराकृतिगणत्वाद् बभ्रोः कौशिकेऽपत्ये ण्यप्रत्ययः ।। ४१२।
[समीक्षा]
'उपगु +अण्, बभ्रु +ण्य' इस स्थिति में 'औपगवः, बाभ्रव्यः' शब्दों के सिध्यर्थ उकार को ओकारादेश दोनों ही व्याकरणों में किया गया है । अन्तर केवल यह है कि कातन्त्रकार साक्षात् ओकारादेश का निर्देश करते हैं, जबकि पाणिनि ने गुण आदेश किया है - “ओर्गुणः'' (अ०६/४/१४६)। अतः उभयत्र साम्य ही है |
Page #578
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. औपगवः । उपगोरपत्यम् पुमान् । उपगु + अण् +सि । अपत्य अर्थ में "वाऽणपत्ये" (२/६/१) सूत्र द्वारा अण् प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, “वृद्धिरादौ सणे" (२/६/४९) से आदि स्वर को वृद्धि, प्रकृत सूत्र से उकार को ओकार, "कार्याववावावादेशा०" (२/६/४८) से ओ को अवादेश, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से विसगदिश ।
२. बाभ्रव्यः । बभ्रोरपत्यं पुमान् । बभ्रु +ण्य +सि । अपत्यार्थ में “ण्य गगदिः" (२/६/२) से ण्य प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, "वृद्धिरादौ सणे'' (२/६/ ४९) से आदि स्वर की वृद्धि, प्रकृत सूत्र से उ को ओ, “कार्याववावावादेशा०" (२/६/४८) से अवादेश तथा विभक्तिकार्य ।। ४१२।
___४१३. एयेऽकवास्तु लुप्यते [२/६/४७] [सूत्रार्थ]
'एय' प्रत्यय के परवर्ती होने पर उवर्ण का लोप होता है, कद्रू शब्द को छोड़कर ||४१३।
[दु० वृ०]
उवर्णस्तु एये प्रत्यये परे लुप्यते न तु कद्रूशब्दस्य । कामण्डलेयः, माद्रवाहेयः, अकवा इति किम् ? काद्रवेया नागाः ।।४१३ ।
[दु० टी०]
एये० । ओत्वस्यापवादोऽयम् । कमण्डल्वा अपत्यम्, मद्रबाहोरपत्यम् इति "स्त्र्यत्र्यादेरेयण' (२/६/४) तुल्यायामपि संहितायाम् ‘अकवाः' इति नसंबन्धोऽत्र व्याख्यानात् ।। ४१३।
[क० च०]
एये० । ओत्वस्यापवादोऽयम् । तुल्यायामपि संहितायाम् अकवा इति नसम्बन्धाद् व्याप्तिपदकार्यस्य निषेधस्तत्साहचर्यात् स्वरेऽप्यलोपपदकार्यं निषिध्यते । एतेन 'युवतयः' इत्यादयो न सिध्येयुरिति सङ्गतम् । पूर्वपक्षस्तु "न यस्वरे" (कात० परि०-नाम०९) इत्यनेन निषेधात् कथमकारलोपः ।।४१३ ।
Page #579
--------------------------------------------------------------------------
________________
नामचतुष्टया याये षष्ठस्तखितपादः [समीक्षा]
'कमण्डल्वा : अपत्यम्, मद्रबाहस्यापत्यम्' इस अर्थ में 'कामण्डलेयः, माद्रबाहेयः' शब्दों के सिध्यर्थ उवर्ण का लोप दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- “ढे लोपोऽकद्र्वाः " (अ०६/४/१४७) । इस प्रकार उभयत्र साम्य ही कहा जा सकाता है।
[रूपसिद्धि]
१. कामण्डलेयः। कमण्डल्वा अपत्यम् पुमान् । कमण्डलु + एयण +सि । "स्त्र्यत्र्यादेरेयण' (२/६/४४) से एयण् प्रत्यय , ण् अनुबन्ध का प्रयोगाभाव, "वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर की वृद्धि, प्रकृत सूत्र से उकार का लोप, लिङ्गसंज्ञा, प्रथमाविभक्ति-एकवचन में सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/३/६३) से विसर्ग आदेश ।
२. माद्रबाहेयः । मद्रबाहोरपत्यम् । मद्रबाहु +एयण् +सि ।पूर्ववत् प्रक्रिया ||४१३| ४१४. कार्याववावावादेशावोकारौकारयोरपि [२/६/४८] [सूत्रार्थ]
तद्धितसंज्ञक यकारादि तथा स्वरादि प्रत्यय के पर में रहने पर पूर्ववर्ती ओकार को अव् तथा औकार को आव् आदेश होता है ।।४१४।
[दु० वृ०]
ओकारौकारयोः स्थानेऽवावादेशौ कार्यों तद्धिते स्वरे ये च प्रत्यये परे । औपगवः, गव्यम्, नाव्यम् ।।४१४।
[दु० टी०]
कार्या० । ननु 'औपगवः' इति किमित्युदाहृतं स्वरे ओ अविति केन निवार्यते, नैवम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञायाम् ओकारादकारलोपः स्यादिति । किञ्च 'बाहोरपत्यं बाहविः, नावा तरति नाविकः' इत्युदाहर्तव्यम् अयादीनां यवलोपःस्यादिति । यद्येवम्, गोषु साधु, नावा तार्यम् इति ये प्रत्यये कृते पक्षे वलोपःप्रसज्येत, नैवम् । अयादीनां श्रुतानां तत्र ग्रहणात् । “ओदौतोरवावौ" इति न कृतम्, लोकरूपतया आचार्यस्य प्रतिज्ञाप्रतीतिलाघवायेति । विशेषातिदिष्टत्वात् "स्वरेयेच" (२/६/४) इत्यत्र वर्तते ।।४१४।
Page #580
--------------------------------------------------------------------------
________________
५३८
कातन्त्रव्याकरणम्
[वि०प०]
कार्या० । अथ औपगवः' इति किमित्युदाहृतम्, “ओ अव्” (१/२/१४) इत्यस्त्येव, नैतदेवम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञायाम् “एदोत्परः" (१/२/ १७) इत्यादिवचनादोकारादकारलोपः स्यात् । तथा बाहोपरत्यं बाहवः , नावा तरति नाविकः इत्यादौ यदि सन्धिलक्षणेनावावौ क्रियेते तदा "अयादीनां यवलोपः” (१/ २/१६) इत्यादिना वलोपः स्यात् । अनेन तु कृते न भवति, प्रकरणान्तरत्वात् । तर्हि ओदौतोरवावाविति कथन्न कृतम् इति न देश्यम्, श्लोकपूरणत्वात् ।।४१४।
[समीक्षा]
'उपगो +अण्, गो+यत्, नौ +य' इस अवस्था ओ को अव् तथा औ को आव् आदेश करके दोनों ही शाब्दिकाचार्यों ने 'औपगवः, गव्यम्, नाव्यम्' रूप सिद्ध किए हैं | पाणिनि का एतद्विषयक सूत्र है - "वान्तो यि प्रत्यये' (अ० ६/१/७९) । इस प्रकार उभयत्र साम्य ही परिलक्षित होता है।
[रूपसिद्धि]
१. औपगवः । उपगोरपत्यं पुमान् । उपगु +अण् +सि | "वाऽणपत्ये' (२/६/ १) से अण् प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, “वृद्धिरादौ सणे" (२/६/४९) से आदि स्वर की वृद्धि, "उवर्णस्त्वोत्वमापाद्यः' (२/६/४६) से उ को ओ, प्रकृत सूत्र से ओ को अवादेश तथा विभक्तिकार्य ।
२. गव्यम् । गोर्विकारः । गो + यत् + सि । “यदुगवादितः' (२/६/११) से यत् प्रत्यय, त् अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से ओ को अव् तथा विभक्तिकार्य ।
३. नाव्यम् । नावा तार्यम् । नौ +य +सि | "नावस्तार्ये' (२/६/९) से यप्रत्यय, प्रकृत सूत्र से औ को आव् आदेश तथा विभक्तिकार्य ।।४१४।
४१५. वृद्धिरादौ सणे [२/६/४९] [सूत्रार्थ]
तद्धितसंज्ञक णकारानुबन्ध वाले प्रत्यय के परे रहने पर पूर्ववर्ती शब्द में आदि स्वर को वृद्धि आदेश एवं आकार आदेश भी होता है || ४१५।
Page #581
--------------------------------------------------------------------------
________________
५३९
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [दु० वृ०]
स्वराणां मध्ये आदौ स्वरस्य वृद्धिर्भवति सणकारानुबन्धे तद्धिते प्रत्यये परे । शैवः, औपगवः, कार्पण्यम् । कथं वाशिष्ठः ? आदावित्याकारप्रश्लेषात् । क्वचिदधिकारादुत्तरपदस्यापि लक्ष्यतः ।अवयवाद् ऋतूनाम् - पूर्ववार्षिकम्, अपरहैमनम् । वर्षेकदेशे हेमन्तैकदेशे- वषहिमन्तौ । सुसर्वार्धेभ्यो जनपदस्य च । सुपाञ्चालकः, सर्वपाञ्चालकः, अर्धपाञ्चालकः । क्वचिदुभयपदस्यापि - सौभाग्यम्, सौहार्दम् ।सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, तंत्र भवः साक्तुसैन्धवः । एवमन्येऽप्यनुसर्तव्याः ।।४१५ ।
[दु० टी०]
वृद्धि० | स्वराणामित्यादि । स्वराणां मध्ये योऽसावादिविषये स्वरे स्वजात्यपेक्षया तस्येत्यर्थः । कथमेतत् ‘स्वरे ये च' इत्यनुवर्तते, स इह कार्यित्वेन प्रतिपत्तव्यः । सण इति वचनात् णकारः स्थितिमान्नास्तीति यावान् णकारानुबन्धस्तावति तद्धिते वृद्धिरिति भावः । सन्ध्यक्षराणाम् इति 'स्थानेऽन्तरतमः' (का० परि० १६) एकारस्यैकारः, ओकारस्यौकारः । एकस्य भावः ऐक्यम्, गोधाया अपत्यं गौधेयः । कथमित्यादि । "आरुत्तरे च वृद्धिः" (३/८/३५) इति वचनाद् अकारस्याकारो न प्राप्नोति । प्रश्लेषः पुनरत्र आ आदाविति आकारोऽयमविभक्तिकः एवेति । आदावित्याकारस्य दीर्घात् परलोपः “अवर्णः कण्ठ्यः सर्वमुखस्थानम्" (कात०शि०-सू०९) इत्येके |मुख्योऽत्रान्तरतमो न त्वेकदेश इति । क्वचिदित्यादि । श्रावणभाद्राख्यौ मासौ प्रावृट् । पूर्वाश्च ता वर्षाश्च । वर्षेकदेशे वर्षा इति । पूर्वशब्दोऽवयववचनो भवति, "तत्र भवः' (२/६/ ८) इतीकण् । एवम् अपरहैमनम् इति हेमन्तस्य तलोपोऽणि दृश्यते ।
ननु क्वचिदधिकारात् पूर्वस्य नाम भवतु, परस्य कथं वृद्धिरित्याह – लक्ष्यत इति । आदौ स्वरस्येत्यनेन सम्बन्ध इत्यर्थः । अप्यधिकाराद् वा । तथा च-गुरु च लघु च गुरुलाघवम्, गौरवलाघवम् । वातपित्तस्य संयोगनिमित्तं वातपैत्तिकम्, वातश्लैष्मिकम् । दिग्वाचकाद् देशे ग्रामनगरयोः । पूर्वकृष्टमृत्तिकायां भवः पूर्वकाष्टमृत्तिकः । एवं पूर्वेषुकामशम इति । यद्यपि समुदायः प्राच्यग्रामस्तथाप्येकदेशद्वारेणावयवे वर्तते । पूर्वकान्यकुब्जे भवः पूर्वकान्यकुब्जः, अपरनौघ्नः । संख्यायाः संवत्सरपरिमाणयोः । द्वौ संवत्सरावधीतौ तौ भूतौ भावी चेतीकण - द्विसांवत्सरिकः, त्रिसांवत्सरिकः । द्वौ कुडवौ
Page #582
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
प्रयोजनमस्येति इकण्-द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतो द्विसौवर्णिकः । कार्षापणसुवर्णसहस्रशतमानानामिकणोऽभिधेये विषयभूते च समास इष्यते । वर्षस्याभाविन्यर्थे - द्वे वर्षे भूतं धान्यं द्विवार्षिकम् । भाविन्यर्थे तु द्वे वर्षे भावि द्वैवार्षिकम् । प्रोष्ठभद्राभ्यां पदस्य जाते - प्रोष्ठो बलीवर्दस्तद्वत् पदानि यासामिति प्रोष्ठपदाः, तासु जातः प्रोष्ठपादः, भाद्रपादः । एवमन्येऽप्यनुसतव्या इति । इह लोके भवः ऐहलौकिकः । एवं पारलौकिकः, सार्वलौकिकः । सर्वपुरुषाणामिदं सार्वपौरुषम् । सर्वभूमेनिमित्तमिदं संयोगभूतो वा सार्वभौमः । प्रयोगे भवः प्रायौगिकः । अभिगममर्हन्ति आभिगामिका गुणाः । चतम्र एव विद्याश्चातुर्वैद्यम् । शतकुम्भे भवः शातकौम्भः, जातरौप्यम्, जातपौरुष्यम् । शुभ्रनभस्यापत्यं शौभ्रनाभिः, अधिदेवे भवम् आधिदैविकम् ।
देवताद्वन्द्वे सूक्तहविषोश्च । अग्नीवरुणौ देवते अस्य सूक्तविशेषस्य हविषश्च पुरोडाशादेर्वा आग्नीवारुणम् । सौर्याचान्द्रमसम् । प्राचां नगरस्य - सुम्भनगरे भवः सौम्भनागरः ।पौण्ड्यनागरः, पौर्वसौम्भनागरः | नगरशब्दमपेक्ष्य सुम्भशब्दःपूर्वपदमिति । जङ्गलधेनुवलजानां वा - कुरुजाङ्गले भवं कौरुजाङ्गलम्, कौरुजङ्गलं वा । विश्वधेनौ भवं वैश्वधेनवम्, वैश्वधनवं वा । सौवर्णबालजं सौवर्णबलजं वा । अर्थात् परिमाणस्य पूर्वस्य तु वा । अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम्, अर्धद्रौणिकं वा । एवम् आर्धकौडविकम्, अर्धकौडविकं वा । अकारस्य न दृश्यते - अर्धप्रस्थेन क्रीतः आर्धप्रस्थिकः, अर्धप्रस्थिकः ।दीर्घस्य भवत्येव - अर्धखार्यां भवा आर्धखारी, अर्धखारी | स्त्रीप्रयोजनम् - अर्धखारी भार्या इति वृद्धिनिमित्तस्य तद्धितान्तस्य न पुंवद्भावः । तथा "नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्" (अ० ७/३/३०) - अशुचेरिदमाशौचम्, आनैश्वरम्, अनैश्वरम् । आक्षेत्रज्ञः, अक्षेत्रज्ञः। आकौशलम्, अकौशलम् । आनैपुणम्,अनैपुणम् । प्रवहणस्यापत्यम् अत्र्यादित्वादेयण – प्रावाहणेयः, प्रवाहणेयः । प्रस्य विभाषा वाहनस्य नित्यं प्रयोजनं पूर्ववत् ।
क्वचिद् इति वचनाद् इन्द्रपरस्य दीर्घाच्च वरुणस्य न स्यात् । अग्नीन्द्रौ देवते अस्य अग्नीन्द्रं मन्त्रं हविः । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (का० परि० ४४) इति प्राप्तः- मित्रावरुणौ देवते अस्य मैत्रावरुणं हविः । देविका-शिंशपा-दीर्घसत्र-श्रेयसाम् आकारः, वृद्ध्यपवादः । रूढित्वादप्यधिकाराद् वेति । देविका नाम नदी तत्र भवा दाविका । देविकाकूले भवश्च दाविकाकूलाः शालयः । शिशपानामिदं शांशपम् ।
Page #583
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५४१ शिंशपास्थाने भवाश्च शांशपस्थानाः । "याकारी स्त्रीकृतौ ह्रस्वौ" (२/५/२७) इति ह्र स्वः । दीर्घसत्रे भवा दीर्घसत्राः। श्रेयसि भवः श्रायसः । तथा केकयमित्रयुप्रलयानां यादेरियः । केकयस्यापत्यमिति रूढित्वादण् कैकेयः । मित्रयोरपत्यम् इत्यण् - मैत्रेयः । प्रलयादागतं प्रालेयम् ।।४१५।
[वि० प०]
वृद्धि० । स्वर इत्यादि इह वर्तते स च कार्यितया प्रतिपत्तव्यः । सण इह निमित्तान्तरस्योपादानादित्याह - स्वराणामित्यादि । स्वराणां मध्ये य आदिविषये स्वरःस्वजात्यपेक्षया तस्येत्यर्थः । सणकारानुबन्ध इति तद्धितो णकारः स्थितिमान् नास्तीत्यनुबन्धो गम्यते इत्यादि । कथमित्यादि ।आकारस्य वृद्धिसंज्ञा नास्तीति "आरुत्तरे च वृद्धिः" (३/८/३५) इत्यस्याविषयादित्यर्थः । प्रश्लेषः पुनरत्र आ आदाविति । आ इति लुप्तप्रथमानिर्देशः आ आदावित्याकारस्य दीर्घात् परलोपस्तेन वृद्धिराकारश्च प्रवर्तते इति । प्रवृत्तिश्च 'स्थानेऽन्तरतमः' (का० परि०१६) इति न्यायात् ।
क्वचिदित्यादि । पूर्वाश्च ता वर्षाश्चेति विग्रहे “तत्र भवः' (२/६/८) इति क्रीतादित्वाद् इकण् । एवम् अपरहेमन्ते भवम् । एवमादित्वादण् । हेमन्तस्यापि तकारलोप इह दृश्यते । वर्षेकदेश इत्यादि । एतेन पूर्वादिशब्दोऽप्यवयववचनः । ततो हि कर्मधारय इति अवयवात् परो वर्षादिः ऋतुर्भवतीति दर्शितम् । सुसर्वेत्यादि । सुपञ्चाले भवः इत्यादि विगृह्य तमादित्वादिकण् । सौहार्दमिति । सुहृदो भावः कर्म वा, एवमादित्वादिकण् । एवमित्यादि । इह लोके भवः ऐहलौकिकः । एवं पारलौकिकः, सार्वलौकिकः इत्यादयो यथालक्ष्यमनुसरणीया इत्यर्थः ।। ४१५।
[क० च०]
वृद्धि० । सह णेन वर्तते इति सणः । ननु सहशब्देनात्र विद्यमानार्थः । विद्यमानत्वस्य सहयोगस्य चाघटनात् । उच्यते-णकारप्रध्वंसेऽपि स्मृतिसंभवादुभयार्थो घटते । देवदत्तेन कृतमित्यादौ कर्तृत्ववत् । अपरहैमनम् इति हेमन्तस्य तलोपो दृश्यते इति टीका । अप्यधिकारात् – गुरु च लघु च, तस्य भावो गौरवलाघवम् इत्यादावुभयत्र स्यात् । अशौचमिति मध्यस्यैव स्यात् । अशुन्यं घण्टिकम् इत्युभयत्र न स्यादिति टीकाकृतोऽन्येऽप्यूह्याः । न तीर्थभूम्योः- तीर्थिकः, भूमिकः ।।४१५ ।
Page #584
--------------------------------------------------------------------------
________________
५४२
कातन्त्रव्याकरणम
[समीक्षा]
'शिव +अण्, उपगु +अण्, गर्ग +ण्य' इस स्थिति में 'शैवः, औपगवः, गार्ग्यः' शब्दरूपों के सिध्यर्थ दोनों ही व्याकरणों मे आदि स्वर की वृद्धि की गई है । पाणिनि का सूत्र है - "तद्धितेष्वचामादेः" (अ०७/२/११७) । 'गार्यः, वाशिष्ठः' आदि शब्दों में ह्रस्व अकार के स्थान में दीर्घ आकार वृद्ध्यादेश से नहीं होना चाहिए , क्योंकि कातन्त्रव्याकरण में “आरुत्तरे च वृद्धिः" (३/८/३५) से 'आर्' की वृद्धिसंज्ञा होती है, केवल आकार की नहीं, इसका उत्तर वृत्तिकार आदि व्याख्याकारों ने दिया है - सूत्रस्थ 'आदौ' पद में 'आ +आदौ' इस प्रकार का पदच्छेद करके उक्त प्रयोगों में दीर्घ आकारादेश उपपन्न होता है। इसी प्रकार वृत्तिकार आदि ने उत्तरपद तथा उभयपदों की वृद्धि का निर्देश किया है |
[विशेष वचन] १. अवर्णः कण्ठ्यः सर्वमुखस्थानमित्येके (दु० टी०)।
२. आ इति लुप्तप्रथमानिर्देशः आ आदावित्याकारस्य दीर्घात् परलोपस्तेन वृद्धिराकारश्च प्रवर्तते इति (वि० प०)।
३. सह णेन वर्तते इति सणः । ननु सहशब्देनात्र विद्यमानार्थः । विद्यमानत्वस्य सहयोगस्य चाघटनात् ।उच्यते - णकारप्रध्वंसेऽपि स्मृतिसम्भवादुभयार्थो घटते (क० च०)।
[रूपसिद्धि
१. शैवः। शिवस्यापत्यमयं वेत्यादि । शिव +अण् +सि | अपत्य अर्थ में "वाऽणपत्ये" (२/६/१) से अण् प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से आदि स्वर को वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च' (२/६/४४) से वकारोत्तरवर्ती अकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/ ३/६३) से स् को विसगदिश ।
२. औपगवः । उपगोरपत्यं पुमान् । उपगु +अण् +सि । पूर्ववत् प्रक्रिया के अतिरिक्त "उवर्णस्त्वोत्वमापाद्यः" (२/६/४६) से गकारोत्तरवर्ती उकार को ओकार तथा “कार्याववावावादेशावोकारौकारयोरपि" (२/६/४८) से ओ को अवादेश ।
Page #585
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५४३
३. कार्पण्यम् । कृपणस्यापत्यमित्यादि । कृपण + ण्य +सि । पूर्ववत् प्रक्रिया । ४. वाशिष्ठः । वशिष्ठस्यापत्यमित्यादि । वशिष्ठ + अणू +सि । पूर्वत् प्रक्रिया के अतिरिक्त 'आदी' पद में 'आ +आदौ' इस पदच्छेद के अनुसार वकारोत्तरवर्ती ह्नस्व अकार के स्थान में दीर्घ आकारादेश || ४१५ ।
४१६. न य्वोः पदाद्योर्वृद्धिरागमः [ २/६/५०]
[सूत्रार्थ]
णकारानुबन्ध वाले तद्धितसंज्ञक प्रत्यय के परवर्ती होने पर पद के आदि समीप में स्थित यकार-वकार से संबद्ध स्वर वर्ण को वृद्ध्यादेश नहीं होता है, परन्तु यकार से पूर्व ऐकार (वृद्धि) तथा वकार से पूर्व औकार (वृद्धि) आगम होता है || ४१६ । [दु० पृ०]
इह प्रतिषेधो विधिश्च गम्यते । आदिशब्दः समीपवचनः । पदस्याद्योर्यकारवकारयोः समीपे वृद्धिर्न भवति, तयोश्चादौ वृद्धिरागमो भवति, स च सणकारानुबन्धे तद्धिते प्रत्यये परे । 'स्थानेऽन्तरतमः ' (का० परि०१६ ) इति न्यायाद् यकारस्यैकारः, वकारस्यौकारः । व्यसने भवो वैयसनः, व्युदयस्यापत्यं वैयुदयः । स्वश्वस्यापत्यम् - सौवश्विः, व्याकरणं वेत्ति अधीते वा वैयाकरणः । य्वोः समीप इति किम् ? दाध्यश्विः, माध्यश्विः । तन्निमित्तो वृद्धिरागमो न स्यात् । पुनर्वृद्धिग्रहणं वर्धनाद् वृद्धिरिति ज्ञापनार्थम् । क्वचिदधिकाराद् द्वारादीनां चापदाद्योरपि वृद्धिप्रतिषेधो वृद्धिरागमश्च स्यात् - दौवारिकः । 'द्वार, द्वारपाल, स्वर, व्यल्कस, स्वस्ति, स्वर, स्वर्गमन, स्फ्यकृत, स्वादुमृदु, श्वन्, स्व'। एवमन्येऽपि ।।४१६।
॥ इति दौर्गसिंह्यां वृत्तौ नामचतुष्टये षष्ठस्तद्धितपादः समाप्तः ॥
[दु० टी०]
न य्वो० | इहेत्यादि । प्राप्तिपूर्वकप्रतिषेधोऽयं न च केनचिद् वृद्धिरागमः प्राप्तः इति विधिश्च भवति | आदिशब्दः समीपवचन इति । यथा ग्रामादौ । पर्वतो नासौ ग्रामस्यावयवः किं तर्हि समीपः । अथवा अवयव इवावयवः इति स इव समीपः इहोच्यते । तथा चापिशलीयश्लोकः
-
=
सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्ष्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥ इति ।
Page #586
--------------------------------------------------------------------------
________________
५४४
कातन्त्रव्याकरणम्
'न य्वोराद्योः' इति सिद्धे नाम्नः संबन्धाद् यत् पदग्रहणं तत् तत्सामीप्यार्थम्, तेन याज्ञिको वाशिष्ठो यौगपद्यं बौद्ध इत्यत्रावयवयोर्यवोर्न स्यात् । अवयववादी त्वाहपदग्रहणमेवैतत् समासापेक्षया अन्तर्वर्तिविभक्तिपदप्रतिपत्त्यर्थं भविष्यतीति युक्तम्, किन्तु प्रतिपत्तिगौरवं स्यात् । विविधप्रकारेणास्यतेऽनेनेति व्यसनम् । विगत उदयोऽस्येति व्युदयः । शोभनश्चासावश्वश्चेति स्वश्वः । विविधप्रकारेणाक्रियतेऽनेनेति व्याकरणम् । दधिप्रियोऽश्वः, मधुप्रियोऽश्व इति विग्रहः, तस्यापत्यमितीण, स एव प्रतिषेधो निमित्तं यस्यागमस्य स तन्निमित्तस्तदपेक्षया विधानात् । अन्यथा कथमेवं योगं गरीयांसं कुर्यात् । स्वोरादौ वृद्धिर्न भवतीति न सम्बन्धो वाच्यः, वचनस्य वैफल्यात् । न भवति तस्माद् यकारवकारयोः समीप इत्यवसीयते यद्यपि उत्तरपदे वृद्धिस्तदापि भवत्येव । पूर्वत्र्यलिन्दे भवः पूर्ववैयलिन्दः ।, त्रयोऽलिन्दा यस्य स त्र्यलिन्दः, पूर्वश्चासौ त्र्यलिन्दश्चेति, प्राच्यदेशे ग्रामोऽयम् ।
वृद्धिः पुनरित्यादि । वृद्धिग्रहणमधिकृतमिह लभ्यते, पुनर्वृद्धिग्रहणं न संज्ञार्थमित्याह - वर्धनादित्यादि । नन्वकाराकारयोरिह भेदः, कथमकारस्य वर्धनं भवति । किञ्च इवर्णोवर्णयोरैकारौकारत्वेन कथं वर्धनम् ऋवर्णस्य कथम् आरिति ? सत्यम् । वर्धनयुक्तमिह वृद्धिरुच्यते वृद्धिमान् भवतीत्यर्थः । एवं सति वैयाकरण इत्यत्राप्याकारो न भवतीति सिद्धम् । तेन तन्निमित्तो वृद्धिरागमो भवति । द्वारेत्यादि । द्वारपालशब्दं न पठन्त्येके | तदादित्वमिति भावः । स्वरमधिकृत्य कृतः सौवरो ग्रन्थः, "तदधिकृत्य कृते ग्रन्थे" (२/६/७) इत्येवमादित्वादण् । विगतोऽर्को व्यर्कस्तं स्यतीति "आतोऽनुपसर्गात् कः" (४/३/४)। कपिलिकादिदर्शनाल्लत्वम् । व्यल्कसे भवो वैयल्कस इति पदादित्वादेव सिद्धम् | पाठः पुनरिहाव्युत्पत्तौ । स्वस्तीत्याह - सौवस्तिकः । स्वर्भवः सौवकः। अव्ययानामन्त्यस्वरादिलोप उक्त एव । स्वर्गमनमाह - सौवर्गमनिकः । स्फ्यकृतस्यापत्यम् - स्फैय्यकृतः, ऋषित्वादण् । स्वादुमृदोरपत्यम् – सौवादुमृदवः । शुन इदं शौवनम् । स्वस्येदं सौवम् । नन्ववर्णस्य लोपो नास्ति वृद्धिप्राप्तिप्रतिषेधाभावात् कथमागमः ? अथ द्वारादिपाठान्नैवम्, तदादौ प्रयोजनात् स्वग्रामे भवः सौवग्रामिकः। किमनया चिन्तया क्वचिदपीत्यस्य बलात् । एवमित्यादि | स्वश्चासावध्यायश्चेति तेन जीवतीति क्रीतादित्वादिकण सौवाध्यायिकः, यदा शोभनोऽध्याय इति स्वध्यायः इति हस्वस्य दीर्घतायाम्, तदा पूर्वेणैव सिद्धम् |
Page #587
--------------------------------------------------------------------------
________________
नामचतुष्टपाध्याये षष्ठस्तद्धितपादः
५४५ ननु द्वारपाल - स्वर्गमन - स्वध्यायशब्दाः किमिति पठ्यन्ते ? सत्यम् । शब्दान्तरादिनिरासार्थम् । स्वः कामयते ।स्वा कामिकः । स्वशब्दस्येदं स्वाशब्दमिति । न्यग्रोधस्य तु केवलस्य । न्यग्रोधस्य विकार इत्यण् - नैयग्रोधश्चमसः । केवलस्येत्येव - न्यग्रोधस्य मूले भवाः न्यग्रोधमूलाः शालयः । तथा न्यञ्चतीति क्विप्, न्यञ्चं रुणद्धीति पचाद्यचि कृते न भवति । न्यग्रोधस्येमे न्यग्रोधा इति । स्वागतादीनां न भवति शोभनमागतं स्वागतम्, स्वागतमाह स्वागतिकः । सुष्ठु अध्वरः स्वध्वरः, तेन चरति स्वाध्वरिकः । शोभनानि विगतानि चाङ्गान्यस्येति "इणतः" (२/६/५) स्वाङ्गिः, व्याङ्गिः । एवं व्यवहारेण चरति व्यावहारिकः । श्वादेरिकारादौ न भवति । श्वेव भस्त्रा अस्येत्यत इण् – श्वाभस्त्रिः, श्वगणेन चरति श्वागणिकः । श्वभस्त्रेरिदं श्वाभस्त्रम् इत्यणि कृतेऽपि न भवति, इकारादावित्येव । श्वदंष्ट्रायां भवः शौवादंष्ट्रो मणिः । ह्रस्वस्य दीर्घता | तथा श्वपदस्य वा शौवापदं श्वापदं वा । "तस्येदम्" (२/६/७) इत्यण् ।
ये तु न पठन्ति न तेषां मतेनाप्राप्ते वृद्ध्याकारे वृद्धिरागम आरभ्यते स तस्य बाधको भविष्यति । स्थानिभेदादसत्यपि उत्सर्गापवादे नित्यत्वाद् वा कृते वृद्ध्यागमेऽनादित्वान्न वृद्धिराकारश्चादेशः इति । आनन्तर्येणैव स्वराणां मध्ये आदौ स्वरस्य स्थाने यौ य्वौ तयोरादौ वृद्धिरागम इति कुतो दध्यग्रादिषु प्रसङ्गः । कथन्तर्हि द्वयाशीतिकः । द्वाभ्यामशीतिभ्यां कृतो द्वे वा अशीती भूतो भावी चेति तद्धितार्थे विषयभूते इकण् । अयं हि यकारः स्वराणाम् आदौ स्वरस्य स्थाने न कृत इति ? सत्यम् । स्वराणामादौ स्वरस्य वृद्धिः प्राप्नोति तत्रायमपवादः । इह च "संख्यायाः संवत्सरपरिमाणयोः" (अ० ७/३/१५) इति वृद्धिरेव । स्वराणामादिग्रहणेन यद्यपि य्वोर्ग्रहणं कृतं तथाप्यावर्तनं वृद्ध्यधिकारबलात् । स्वराणामादौ या वृद्धिस्तस्यां प्राप्तायां स्वराणामादौ स्थाने यौ य्वौ तयोरादावित्यर्थः । उत्तरपदेऽप्येवं विशेषणमिति | प्रतिषेधपक्षे तु व्याशीतिकादौ क्वचिदपीति वचनात् “संख्यायाः संवत्सरपरिमाणयोः" (अ०७/३/१५) वृद्धिरेव । तेन प्रतिषेधनिमित्तो वृद्धिरागमो न स्यात् । सूत्रकारस्य तु मतं विधिमात्रमेवेति लक्ष्यते । वोरादौ वृद्धिरित्यादिग्रहणेनैवागमत्वं लब्धं यदागमग्रहणं तत्सुखप्रतिपत्त्यर्थमिति ।।४१६ ।
॥ इति श्रीदुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां नामचतुष्टये षष्टस्तद्धितपादः समाप्तः॥
Page #588
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
[वि० प०]
न योः। इह नग्रहणात् पूर्वेण प्राप्ता वृद्धिः प्रतिषिध्यते । वृद्धिरागमश्च न केनचित् प्राप्तः इत्यसौ विधीयते इत्याह - इहेत्यादि । आदिशब्द : समीपवचन इति । यथा ग्रामादौ पर्वतो नासौ ग्रामस्यावयवः किन्तर्हि ग्रामस्य समीपस्तद्वद् इहापीत्यर्थः । पदस्येत्यादि |आद्योर्यकारवकारयोः समीपयोरित्यर्थः । समीपे वृद्धिर्न भवतीति कथमेतत्, यावता पूर्वसूत्राद् आदावित्यनुवर्तते, ततो य्योरादौ वृद्धिर्न भवतीति सम्बन्धो युज्यते । नैवम्, प्रतिषेधो हि प्राप्तिपूर्वको भवति, न तु वोरादौ वृद्धिः प्राप्नोति तत्र स्वरस्यैवासम्भवात् । सा हि स्वरस्यैव विधीयते, तथा च स्वरधर्मो वृद्धिरिति स्थिते सति य्वोरिति स्थानलक्षणा षष्ठी न संगच्छत इत्यर्थात् समीप इति गम्यते । अधिकृतं पुनरादिग्रहणमागमेन सह संबध्यते इत्याह - तयोश्चादावित्यादि ।
व्यसन इति विविध-प्रकारेणास्यतेऽनेनेति करणे युडिति कृते विशब्दस्यासनशब्देन समासे षत्वे च कृते सति अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदस्यासनशब्दस्यादिर्यकारो भवति । तथा विगत उदयो यस्म स व्युदयः । शोभनश्चासावश्वश्चेति स्वश्वः । विविधप्रकारेणाधिक्रियते अनेनेति व्याकरणम् इत्यत्रापीति । प्योरित्यादि । मधुप्रियोऽश्वः दधिप्रियोऽश्वः इति शाकपार्थिवादिर्शनान्मध्यपदलोपी समासः । दध्यश्वस्यापत्यमितीण । दकारमकारयोः समीपे वृद्धिरियमिति न निषिध्यते । तन्निमित्त इति स एव वृद्धिप्रतिषेधो निमित्तं यस्यागमस्य स तन्निमित्तः एकत्र विधानत्वात् । अतो वृद्धिप्रतिषेधमपेक्ष्य विधीयमान आगमः कथं तदभावे स्यादिति भावः । वृद्धिग्रहणं न संज्ञार्थम् अधिकृतेनैव सिद्धत्वादित्याह-पुनरित्यादि । य्वोः समीपे स्वरस्य वर्धनं न भवतीत्यर्थः ।
ननु वर्धनं नाम परिमाणोपचयः स चावस्थितस्यैव धर्मिणो लोके संभवति । अत्र तु आदेशादेशिनोरत्यन्तं भेद: एवेति कथं वर्धनं स्यात् ? सत्यम् । वर्ण एवावस्थाभेदेन वर्धते तप्रत्ययादिति न दोषः । ननु तथापि कथमकारस्य वर्धनमाकार इवणदिश्च कधम् ऐकारादिवर्णो विवर्धनं तस्यातद्धर्मत्वादिति ? सत्यम् । वर्धनयुक्तो वर्णो वृद्धिरित्युपचाराद् वृद्धिमान् न भवतीत्यर्थः । ननु वर्धनाद् वृद्धिरिति किमनया व्युत्पत्त्या ? सत्यम् । संज्ञात्वेन वृद्धेरेव प्रतिषेधो नाकारस्येति । वैयाकरण इत्यत्र प्रतिषेधनिमित्तो वृद्धिरागमो न स्यात् ! यद्येवम्, वृद्धिग्रहणेनैवेदं व्यसनमूलमुन्मील्य ताम् अनन्तरवाक्यप्रणीतकार्यप्रतिषेधे सति वैयाकरण इत्यत्रापि प्रश्लेषव्याख्यानप्राप्ताकारप्रतिषेधनिमित्तो वृद्धिरागमो भविष्यति । एवं सति मङ्गलार्थमिति कश्चित् ।
Page #589
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५४७
तदयुक्तम्, तस्यादिमध्यान्तविषयत्वात् । मध्यमिति चेत्, न । वक्ष्यमाणेनाथशब्देनैव मध्यमङ्गलार्थस्य द्योतितत्वात् ।आगमस्य वृद्धित्वप्रतिपादनार्थमिति परः | आकारोऽपि किल वर्धते । तस्यागमत्वं मा भूदिति चेत्, न । वृद्धिग्रहणे तु वर्धनाद् वृद्धिरिति व्युत्पत्त्यर्थे कथमाकारो वृद्धिरागमो न भवति । केवलं 'स्थानेऽन्तरतमः' (का० परि० १६) इति न्यायो वक्तव्यः । स चानुवृत्तेनापि वृद्धिग्रहणेन समान एवेत्याकारो न भविष्यति । तस्मादाचार्येण सुखप्रतिपत्त्यर्थं श्लोकबद्धः प्रतिज्ञातः, स मा भञ्जीति वृद्धिग्रहणम् । द्वारेत्यादि - दौवारिकः । तेन दीव्यतीत्यादिना नियोगादिकण्, द्वारपाले नियुक्त इत्यर्थः । द्वारपालस्यापत्यम् – दौवारपालिः इतीण् । स्वरमधिकृत्य कृतो ग्रन्थः सौवरः इति । एवमादित्वात् “तदधिकृत्य कृते ग्रन्थे" (२/६/८) इत्यण् । व्यल्कसस्यापत्यं वैयल्कसः।
अव्युत्पन्नपक्षे द्वारादौ पाठोऽस्य युक्तः । यदा तु विगतोऽर्को यस्य स व्यर्कस्तं स्यतीति "आतोऽनुपसर्गात् कः" (४/३/४) प्रत्ययः, कपिलिकादिदर्शनाद् रेफस्य लत्वे 'व्यल्कसः' इति व्युत्पाद्यते, तदा पूर्वेणैव सिध्यति, यकारस्य पदादित्वात् । स्वस्तीत्यादि - सौवस्तिकः इति, क्रीतादित्वादिकण् । स्वर् इत्यव्ययम् - स्वर्भव: सौवः । अव्ययानामन्त्यस्वरादिलोपो दर्शितः । स्वर्गमनमाह सौवर्गमनिकः । क्रीतादित्वादिकण् । स्फ्यकृतस्यापत्यम् – स्फैयकृतः । “वाऽणपत्ये" (२/६/१) इत्यण् । एवं स्वादुमृदोरपत्यं सौवादुमृदवः । शुनः इदं शौवनं मांसम् । शुनः सङ्कोचः शौवः, “नस्तु क्वचित्" (२/६/४५) इति नलोपः । स्वस्येदं सौवम् । कथमिदम् "इवर्णावर्णयोः” (२/६/४४) इत्यादिनाऽकारलोपे नास्त्याकारप्राप्तिरिति प्रतिषेधाभावात् तन्निमित्तो वृद्धिरागमो न स्यात् । द्वारादिपदसामर्थ्यादिति चेत्, न । तस्य तदादौ चरितार्थत्वात् । यथा स्वग्रामे भवः सौवग्रामिकः । तर्हि क्वचिदधिकाराद् भविष्यतीत्यदोषः । एवमित्यादि । स्वश्चासावध्यायश्चेति स्वाध्यायः "तेन दीव्यति" (२/६/८) इति इकण् सौवध्यायिकः । इति ।
___ ननु किमर्थमिदमुच्यते द्वारपाल-स्वर्गमनशब्दौ च किमर्थं पश्येते । यावता तदातिसम्प्रदायादेव सिध्यति । यथा श्वन्-इत्यस्य ग्रहणे तदादावपि भवति । श्वदंष्ट्रायां भवः शौवादंष्ट्रो मणिरिति ? सत्यम् । शब्दान्तरादिभूतानामेषां मा भूदिति दर्शनार्थम् । यथा द्वारकाममाह द्वारकामिकः, स्वः काममाह स्वा कामिकः । स्वशब्दस्येदं स्वाशब्दमिति । कथन्तर्हि सौवग्रामिक इति क्वचिद् इत्यस्य बलात् । केवलस्य न्यग्रोधस्य विकारो
Page #590
--------------------------------------------------------------------------
________________
५४८
कातन्त्रव्याकरणम्
नैयग्रोधो दण्डः इति । केवलग्रहणादिह तदादित्वे न भवति - न्यग्रोधमूले भवाः न्यग्रोधमूलाः शालयः । यदा न्यञ्चतीति क्विप् न्यङ् तं रुणद्धीति पचादित्वादच् न्यग्रोध इति व्युत्पाद्यते, तदा यकारस्य पदादित्वात् पूर्वेणैव सिद्धे नियमार्थः पुनः पाठः केवलस्य न्यग्रोधस्य भवति । अव्युत्पत्तिपक्षे तु विध्यर्थमेव । तथा क्वचिदधिकारात् स्वागतादीनां न भवति । शोभनमागतं स्वागतम्, तदाह स्वागतिकः । सुष्ठु अध्वरः स्वध्वर:, तेन चरति स्वाध्वरिकः । शोभनानि विगतानि चाङ्गानि यस्य सः स्वङ्गो व्यङ्गः, तस्यापत्यमिति इण् स्वाङ्गिः, व्याङ्गिः । विगतोऽवहारो विशेषेण वा व्यवहारस्तेन चरति व्यावहारिकः ।
1
श्वादेरिकारादौ तद्धिते न भवति - श्वन्शब्द आदिरवयवो यस्य स श्वादि:, द्वारादित्वात् प्राप्ते प्रतिषिध्यते । श्वेव भस्त्रा अस्येति श्वभस्त्रः, तस्यापत्यम् इतीण् श्वाभस्त्रिः । श्वाभस्त्रेरिदं श्वाभस्त्रम् इत्यणि कृतेऽपि न भवतीति सकृद् बाधितत्वात् । एवं शुनां गणः श्वगणः, तेन चरति श्वागणिकः । एवं श्वायूथिकः । आदिग्रहणात् केवलस्य भवत्येव । श्वभिश्चरति शौविकः । इकारादौ तद्धिते इत्येव । श्वभस्त्रस्येदं शौवाभस्त्रम्, श्वदंष्ट्रायां भवः शौवादंष्ट्रो मणिः इति ह्रस्वस्य दीर्घता । श्वपदस्य वा । शुनः पदं श्वपदम्, “तस्येदम्" (२/६/७) इत्यण् - शौवापदम्, श्वापदम् । कथं द्वाभ्यामशीतिभ्यां भूतो भावी चेति तद्धितार्थे विषयभूते समासे सति क्रीतादित्वादिकणि कृते द्व्याशीतिकः । तिसृभिरशीतिभिः क्रीतः त्र्याशीतिकः । अयं यकारः पदस्यादिरिति वृद्धिप्रतिषेधो वृद्धिरागनश्च स्यादिति ? सत्यम् । इह "संख्यायाः संवत्सरपरिमाणयोः” (अ०७/३/१५) इत्युत्तरपदस्य वृद्धिः । तस्याः क्वचिद् अधिकारबलादिह प्रतिषेधो न वक्तव्यः, अतो न वृद्धिरागम इति || ४१६ |
॥ इति श्रीमत्प्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायां नामचतुष्टये षष्ठस्तद्धितपादः समाप्तः ॥
[क० च०]
न य्वोः । न य्वोराद्येोरिति । नाम्नः सम्बन्धात् सिद्धे पदग्रहणं सामीप्यार्थम् । तेन याज्ञिको वाशिष्ठः यौगपद्यं बौद्ध इत्यत्रावयवयोर्यबोर्न स्यात् । श्वादेरिकारादौ प्रत्यये
Page #591
--------------------------------------------------------------------------
________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५४९ न भवति । श्वेव भस्त्रा अस्येति इण् श्वाभस्त्रिः । श्वगणेन चरति श्वागणिक इत्यादीति टीका ||४१६। ॥ इत्याचार्यकविराजश्रीसुषेणशर्मवियाभूषणविरचिते कलापचन्द्रे नामचतुष्टये षष्ठस्तद्धितपादः समाप्तः॥
[समीक्षा
'व्याकरणं वेत्ति अधीते वा वैयाकरणः, स्वश्वस्यापत्यं सौवश्विः, व्यसने भवो वैयसनः' आदि शब्दों के सिद्धयर्थ दोनों ही व्याकरणों में वृद्धि का निषेध किया गया है तथा ऐ- औ का विधान | कातन्त्रकार ने वृद्धि का आगम किया है और पाणिनि ने ऐच का -"न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच्” (अ० ७/३/३) । कातन्त्रव्याख्याकारों ने यहाँ "नस्तु क्वचित्” (२/६/४५) सूत्रपठित 'क्वचित्' पद का अधिकार मानकर उन सभी शब्दों को ले लिया है, जिन्हें पाणिनि ने "देविकाशिंशपादित्यवादीर्घसत्रश्रेयसामात्' (अ०७/३/१) सूत्र से लेकर "नत्रः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्" (अ०७/३/३०) सूत्र तक ३० सूत्रों में पढ़ा है। इनमें 'पूर्वपद - उत्तरपद - उभयपद' यह तीनों प्रकार की वृद्धि समाविष्ट है । इस् प्रकार सूत्रसंख्या की दृष्टि से पाणिनीय व्याकरण में गौरव ही कहा जा सकता
[विशेष वचन] १. पुनर्वृद्धिग्रहणं वर्धनाद् वृद्धिरिति ज्ञापनार्थम् (दु० वृ०)।
२. आदिशब्दः समीपवचन इति, यथा ग्रामादौ पर्वतः, नासौ ग्रामस्यावयवः किन्तर्हि समीपः। अथवा अवयव इव अवयवः इति स इव समीप इहोच्यते (दु०टी०, वि०प०)।
३. तथा च आपिशलीयश्लोकःसामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ।। (दु० टी०)।
४. सूत्रकारस्य तु मतं विधिमात्रमेयेति लक्ष्यते । 'वो रादी वृद्धिः' इत्यादिग्रहणेनैवागमत्वं लब्धम्, यदागमग्रहणं तत् सुखप्रतिपत्त्यर्थमिति (दु० टी०)।
Page #592
--------------------------------------------------------------------------
________________
५५०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. वैयसनः । व्यसने भवः । व्यसन +अण् +सि । “एवमादेरणिष्यते' (२/६/ ७) से अण् प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से ऐ वृद्धि का आगम तथा विभक्तिकार्य ।
२. वैयुदयः । व्युदयस्यापत्यम् । व्युदय +अण् +सि । “वाणपत्ये" (२/६/१) से अण् प्रत्यय, अनुबन्ध ण् का प्रयोगाभाव, प्रकृत सूत्र से वृद्धि (ऐ) का आगम तथा विभक्तिकार्य ।
३. सौवश्विः । स्वश्वस्यापत्यन् । स्वश्व +इण् +सि | "इणतः' (२/६/५) से इण् प्रत्यय, प्रकृत सूत्र से औ वृद्धि का आगम "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च' (२/६/४४) से अकार का लोप एवं विभक्तिकार्य ।
४. वैयाकरणः। व्याकरणमधीते वेत्ति वा । व्याकरण +अण् +सि । “तद् वेत्त्यधीते" (२/६/७) से अण् प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से ऐ वृद्धि का आगम, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से अकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः' (२/३/६३) से स् को विसगदिश ।
५. दौवारिकः । द्वारेण दीव्यति संसृष्टो वा । द्वार +इकण् +सि | "तेन दीव्यति संसृष्टं तरतीकण चरत्यपि' (२/६/८) से इकण् प्रत्यय, प्रकृत सूत्र से औ वृद्धि का आगम, अकारलोप तथा विभक्तिकार्य ।। ४१६।
॥ इति कातन्त्रव्याकरणे नामचतुष्टयाध्याये समीक्षात्मकः षष्ठस्तद्धितपादः समाप्तः॥
॥समाप्तश्च नामचतुष्टयाख्यो द्वितीयाध्यायः॥
Page #593
--------------------------------------------------------------------------
________________
अथ परिशिष्टानि
Page #594
--------------------------------------------------------------------------
Page #595
--------------------------------------------------------------------------
________________
॥ श्रीः ॥ परिशिष्टम् - १ आचार्यश्री श्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम्
कारकप्रकरणम्
१. अपादानम्
आसंज्ञान्तरं संज्ञात्वेनेदमधिक्रियते || १ |
२. व्याप्यं जेरप्रसहने
अप्रसहनेऽशक्तावर्थे जयतेर्व्याप्यमपादानसंज्ञं भवति । रणात् पराजयते । तत् कर्तुं न क्षमते इत्यर्थः । अप्रसहने इति किम् ? शतं जयति, द्विषं पराजयते । अशक्त्या निवर्तनमिह पराजेरर्थः इति मते प्रत्याख्यातमिदम् । कथं पापाज्जुगुप्सते । गर्हया निवृत्तिरिह जुगुप्सेत्यन्वयनिवृत्तिरूपोऽस्त्येवापायः । गर्हायां तु जुगुप्सते माम् । तथा पापाद् विरमति, सुखाद् भ्रश्यति, पापान्निवर्तते, कर्मणः प्रमाद्यति । प्रमादो हि विहिताद् अर्थान्निवृत्तिः। अनवधानार्थे तु 'प्रामाद्यद् गुणिनां हिते' इति भट्टिः ||२| ३. कारणमुत्पत्तुः
,
उत्पत्तुः कर्तुः कारणमपादानसंज्ञं भवति । धर्मात् सुखमुत्पद्यते चक्राद् घटो भवति, बीजादङ्कुरो जायते तन्तुभ्यः पटः स्यात् । अविवक्षितकर्तृत्वादिभेदस्य कारणस्येयं संज्ञा । भेदे तु यथाऽध्यवसायं प्रयुक्तयः स्युः - बीजमङ्कुरो भवति, बीजेनाङ्कुरो भवति, बीजस्याङ्कुरो भवति, बीजेऽङ्कुरो भवति || ३ |
I
·
४. यत्र प्रकाशनं प्रभुवः
प्रभवतेर्योगे यत्र प्रकाशनं तदपादानसंज्ञम् भवति । हिमवतो गङ्गा प्रभवति । प्रकाशनमिति किम् ? ग्रामे प्रभवति भृत्यः । प्रभुवः इति किम् ? हिमवत्याविर्भवति । अधिकरणापवादोऽयम् ||४ |
Page #596
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
५. सम्प्रदानम् इदमधिक्रियते ।। ५।
६. विप्रश्ने यस्य राधीक्षौ शुभमशुभं वा दैवम् इति निरूपणं विप्रश्नः । यस्य विप्रश्ने राधीक्षौ तत् सम्प्रदानं भवति । नाथाय राध्यन्ति, नाथायेक्षन्ते गणकाः, नाथस्य शुभाशुभं निरूपयन्तीत्यर्थः । विप्रश्न इति किम् ? विप्रस्य राध्यति, पुत्रस्येक्षते । इह च तादर्थ्यमस्त्येव । विप्रश्ने षष्ठी मा भूदित्यारम्भः ।।६।
७. प्रत्याश्रुरभ्युपगमे यस्यार्थिनोऽभ्युपगमेऽङ्गीकारे प्रत्यापूर्वः शृणोतिः सोऽर्थयिता सम्प्रदानं भवति । छात्राय प्रतिशृणोति, छात्राय आशृणोति । प्रार्थयितुश्छात्रस्याभ्युपगच्छतीत्यर्थः । इदमपि पूर्ववत् ।।७।
८. व्याप्यं प्रत्यनुगृणः प्रत्यनुपूर्वस्य गृणातेप्प्यं सम्प्रदानं भवति । होत्रे प्रतिगृणाति, होत्रेऽनुगृणाति । तं शंसन्तं प्रोत्साहयतीत्यर्थः । प्रत्यन्विति किम् ? वाक्यमागृणाति । क्रैयादिकः किम् ? पूपान् प्रतिगिरति । कर्मनिवृत्त्यर्थोऽयम् ।। ८ ।
९. यं प्रति च कोपः 'यं प्रति च कोपो भवति, यच्चास्य व्याप्यम्' ते सम्प्रदाने भवतः । मित्राय कुप्यति, मित्राय क्रुध्यति । कोपार्थस्याकर्मकत्वाद् व्याप्यम् अर्थान्तराभिसंबन्धेन भवति । छात्राय द्रुह्यति, कोपेनापकृतिरिह द्रोहः । शिष्यायेय॑ति । क्रोधेनासहनमिहेा । मित्रायासूयति । क्रोधेन गुणिनोऽपि सदोषत्वाविष्करणमिहासूया । यद्यपि अहिताचरणं द्रोहः, ईर्ष्या अक्षमा | गुणिनोऽपि सदोषत्वाविष्करणमसूयेति कोपादर्थान्तराणि तथापि कोपपूर्वको द्रोहादिरिहार्थात् कोपस्तदभावे तु दस्युं द्रुह्यति । दासीमीय॑ति । पुत्रमसूयति, पुष्पेभ्यः स्पृहयतीति प्राप्तमुपयुक्तं वेति गम्यमानतुमः कर्मणि तादर्थे वा पुष्पाणि स्पृहयतीति चेष्टमेव । तन्त्रान्तरेऽपीप्सितत्वे सम्प्रदानम् ईप्सिततमत्वे कर्मैवेति समर्थितम् । अत एब स्पृहणीयं वपुरिति कर्मणि अनीयः ।। ९ ।
Page #597
--------------------------------------------------------------------------
________________
५५५
परिशिष्टम् -१
१०. करणं कर्म यजेः कर्म च सम्प्रदानम् यजेः कर्म करणं भवति, सम्प्रदानं च कर्म भवति । पशुना रुद्रं यजते । दानार्थे यजतौ पशोः कर्मत्वं रुद्रस्य च सम्प्रदानत्वं मा भूद् इत्यारम्भः । एतदुदाहरणविषयैव स्मृतिरियमिति वृद्धाः। 'स्वरे प्रकृत्या' इति निर्देशात् साधकतमादन्यस्यापि क्वचित् करणत्वम् । प्रकृत्या पटुः । प्रायेण कृपणः । करणत्वात् प्रकृतिरमणीय इति समासः स्यात् ।।१०।
११. उपसर्गे क्रुधगृहोः उपसर्गे सत्यनयोः सम्प्रदानं कर्म भवति । शिष्यमभिक्रुध्यति, शिष्योऽभिक्रुध्यते, शिष्यस्याभिक्रोद्धा | छात्रमभिद्रुह्यति, छात्रोऽभिद्रुह्यते अनेन, छात्रस्याभिद्रोढा । क्रुधद्रुहोरिति किम् ? छात्राय प्रकुप्यति, छात्राय व्यारुष्यति । सम्प्रदानापवादोऽयम् ।।११।।
१२. आधारोऽधिशीडासस्थां ध्रौव्ये अधिपूर्वाणामेषामकर्मकत्वे सत्याधारः कर्म भवति । मञ्चमधिशेते, मञ्चमध्यास्ते, मञ्चमधितिष्ठति । ध्रौव्य इति किम् ? रणेऽधितिष्ठति, राजानमवेक्षते इत्यर्थः । कथं गृहेऽधिशेते शय्याम् | शय्यास्थितेराधारो गृहम्, न त्वधिशीङः । रथमातिष्ठतीत्यारोहणार्थत्वात् सकर्मकः । अनुपूर्वो जनिरपि तत्पूर्वीकरणपूर्वके जन्मनि सकर्मकः । यथा पुत्रम् अनुजाता कन्या । वचनमिदं त्वधिकरणनिवृत्त्यर्थम् ।। १२ ।
१३. अन्वध्याडो वसतेः अन्वध्यापूर्वस्य वसतेराधारः कर्म भवति । तीर्थमनुवसति, तीर्थमधिवसति, तीर्थमावसति । तिनिर्देशाद् गृहेऽनुवस्ते ।। १३ ।
१४. उपान्निवासे उपात् परस्य वसतेराधारः कर्म भवति निवासेऽर्थे । तीर्थमुपवसति, ग्राममुपवसति । निवास इति किम् ? तीर्थे उपवसति, उपवासं करोतीत्यर्थः । भाष्ये तु गम्यमानस्य वसतेरधिकरणं तीर्थादिकं न तूपवसतेरिह कर्मत्वं परिहतम् । तदानशनार्थस्योपवसतेराधारत्वे विवक्षिते तीर्धादे : कर्मत्वं स्यात् । तीर्थादरधिकरणस्य कर्मत्वे उपवसनमुपोषितमिदमस्येत्यधिकरणे युट्क्तौ च न स्यातामिति चिन्त्यम् । वार्तिकेऽप्यनशनार्थस्योपवसतेः प्रतिषेध एव प्रमाणम् ।
Page #598
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
___कथं त्रिरात्रमुपवसति, कालादिलक्षणं कर्म स्यादेव ग्राममभिनिविशते इति व्याप्यत्वात् । ग्रामेऽभिनिविशते इति तु स्यादेव । तथा च या या संज्ञा यस्मिन् यस्मिन्नभिनिविशते इति भाष्यम् । ‘स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत्' (शिशु० १/१५)। दुहादयस्तु ट्यात्मकक्रियत्वादेव द्विकर्मकाः । भाष्येऽपि हि विशेषणलक्षणमिह प्रपञ्चार्थम् । तदुक्तम् – 'तथैकमेव कर्मापि लक्षणेन प्रपञ्च्यते' इति । गां दोग्धि, पयो मोचयतीत्यर्थः । तथा च ‘यः पयो दोग्धि पाषाणम्' इति भट्टिः । शिष्यं धर्मं वदति, प्रतिपादयतीत्यर्थः । एवं शिष्यं धर्मं ब्रूते, शिष्यं धर्ममाचष्टे, शिष्यं धर्मं गदति, शिष्यं धर्ममुपदिशतीत्यादि । शत्रून् शतानि जयति । शतानां ग्रहणेन शत्रून् पराभवतीत्यर्थः । प्रजाः शतानि दण्डयति, शतानां ग्रहणेन शास्तीत्यर्थः । जलधिममृतं मथ्नाति स्म । जलधिम् उन्मथ्यामृतमुत्त्थापितवानित्यर्थः । पान्थं पन्थानं पृच्छति । जिज्ञास्यमभिधातुं प्रेरयतीत्यर्थः । अधीशमर्थं प्रार्थयति, दातुं प्रेरयतीत्यर्थः ।
___ एवं याचते, भिक्षते । वरं वृणीते देवान् । अर्थनम् इहाभ्यर्थनं च । तेन पुत्रमध्ययनं याचते । अजां नयति ग्रामम्, प्रापयतीत्यर्थः । एवं वहति, हरति । शिष्यं धर्ममनुशास्ति । धमदिशनया विनयतीत्यर्थः । शाखां कर्षति ग्रामम्, विकृष्य नयतीत्यर्थः । ग्राममवरुणद्धि व्रजम्, गामन्तः स्थापयन् व्रजमप्यावृणोतीत्यर्थः ।गां ब्रजं प्रवेशयतीत्यन्ये ।वृक्षमवचिनोति फलानि, तत् संघट्टयन् फलानि निकृन्तति आदत्ते वेत्यर्थः
दुहिर्वदत्यर्थ - जिदण्डि - मन्थः प्रच्छादनार्थो नयनार्थशासौ। कृषी रुधिश्चिञ् च तथार्थवृत्तौ द्विकर्मकोऽयं कथितो दुहादिः॥१४॥
१५. तत्प्रत्ययेऽसङ्ग कालादि ध्रौव्यस्य ध्रौव्यस्याकर्मकधात्वर्थस्य प्रयोगेऽपादानादिसंज्ञानामविषयः कालादिकः कर्म भवति, तत्प्रत्यये कर्मप्रत्यये कर्तव्ये नान्यत्र |
Page #599
--------------------------------------------------------------------------
________________
५५७
परिशिष्टम् -१ कालस्य कालभेदानामध्वमानस्य चादिमैः।
क्रियाणामथ देशानां कालादित्वमिहेष्यते ॥ कं कालं स्वपिति, कः कालः सुप्यते, कस्य कालस्य स्वप्ता । एवं ग्रीष्मं स्वपिति, ग्रीष्मः सुप्यते, ग्रीष्मस्य स्वप्ता ।अध्वमानं क्रोशादिक्रोशं स्वपिति, क्रोशः सुप्यते, क्रोशस्य स्वप्ता | गोदोहं स्वपिति, गोदोहः सुप्यते, गोदोहस्य स्वप्ता ।
देशः कुरुमत्स्यादिः । कुरून् स्वपिति, कुरवः सुप्यन्ते, कुरूणां स्वप्ता । त्प्रत्यय इति किम् ? कुरून् सुप्तः । सत्यपि कर्मणि कर्तरि क्ते धातोरकर्मकतैव । असङ्गमिति किम् ? कस्मिन् काले शेते ग्रीष्मे वा । अधिकरणे विभाषया विधिरयमिति पूर्वे । ध्रौव्यस्येति किम् ? रात्रेरोदनं पचति । कैश्चित् सकर्मकयोगेऽपीष्यते । रात्रिमोदनः पच्यते । रात्रिरोदनं पच्यते । तन्मते पर्यायेण कर्माभिधानमिष्टम् । इह कालादेर्गम्यमानक्रियान्तरकर्मत्वे कर्मणि विषयो नाकर्मकधातुभाजः स्युः । नापि व्याप्तावेषां वृत्तिः कालादेरन्यस्यापि कर्मतापत्तेः, अतोऽयमारम्भः ।।१५।
१६. दिवस्तेन करणम् तेन कर्मणा सहैव दिवः करणं भवति । करणविषये युगपदिहानूपसंज्ञे स्यातामित्यर्थः । अक्षान् दीव्यति, अक्षैर्वा । अक्षा दीव्यन्ते । न जातु 'अक्षैर्दीव्यते' इति भावे । अक्षादेः करणत्वेऽपि दिवः सकर्मकत्वात् । तथा अक्षा द्यूतास्तेन न जातु अझैठूतोऽयम्, तथा अक्षैर्देवयते छात्रेणेति न कर्तुः कर्मता, आत्मनेपदं तु स्यात् । अक्षैर्दीव्यन्ति अस्मिन् इत्यधिकरणे क्तोऽपि न स्यात्, अक्षाणां देविता न जातु अक्षर्देवितेति परत्वात् कृद्योगलक्षणाषष्ठी नित्यम् । क्रीडार्थत्वेनाकर्मकत्वे करणावस्थायामेव कर्मत्वसमावेशार्थं वचनं कथमन्यैः प्रत्याख्यातम् । वार्तिकेऽपि युगपद् उभयसंज्ञासमावेशोऽत्र चिन्तितः ।।१६।
१७. द्वितीयाकारकविधावेकाधिकरणधातोः द्वितीयाकारकविधौ च धातोरेकाधिकरणं कर्म भवति । इदमत्र स्थीयते छात्रैः, अथो एनदिह स्थीयतेऽधीयानैः । एतदिह स्थाल्यां पचति माषान्, अथो एनदिह काष्ठैः स्थाल्यां पचति तण्डुलान् । द्वितीयायामेनः स्यात् । धात्वर्थोऽपीदमेतद्भ्यां शीघ्रादिभिरिव विशिष्यते इति मतम् । द्वितीयासमासश्च प्रयोजनं शीघ्रं गतः, शीघ्रगतः । शीघ्रं
Page #600
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
गमी,शीघ्रगमी । कारकविधौ च स्तोकं विध्यति स्तोकावित् । न हि वृतीत्यादिनां क्विब्वृत्तौ कारकस्य दीर्घः । स्तोकन्यः, स्तोकल्वः । कारकोपपदाद् य्वौ स्तः | अत्रेति किम् ? स्तोकं गन्तेति । कृति न षष्ठी । स्तोकं स्वापयति छात्रमिति ध्रौव्यार्थत्वात् कर्तुः कर्मता । तथा स्थितानि सुखमागाराणि छात्रस्येति अधिकरणे क्तः । स्तोकं भीत इति च कर्तरि क्तः स्यात् । कथं स्तोकं पाकः ? कृदन्तविशेषणत्वात् । धात्वेकाधिकरणे हि स्तोकमोदनस्य पाक इति स्यादेव || १७|
५५८
१८. धौव्यगतिबुद्धिशब्दाभ्यवहारार्थानां कर्ता हेत्विनि
एषां कर्ता हेत्विनि कर्म भवति । ध्रौव्यार्थोऽकर्मकः । जीवयति भृत्यान्, स्वापयति स्वामिनम्, मासमासयति छात्रम् इति च । तथा "तेनादुद्यूषयद् रामं मृगेण मृगलोचना' तेनेति न दिवः करणम्, किन्तु दुद्यूषेरित्यकर्मकतैव । गत्यर्थस्य 'ग्रामं गमयति भृत्यान्, आढयति ग्रामं भृत्यान्' | प्रवेशारोहणतरणान्यपि गतयः ।
प्रावेशयन्पन्दिरमध्यमेनं ततोऽङ्कमारोप्य सुतां प्रतस्थे । प्रियामुदन्वन्तमतीतरद्धरेः ॥
गत्यर्थानां ग्रहणे प्राप्त्यर्थानामपि ग्रहणमिति स्मृतिः । धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि । अस्त्रवेदविदयं मरुत्वता शैलवासमनुनीय लम्भितः ॥ 'ननु मां प्रापय पत्युरन्तिकम्' इति ।
-
बुद्ध्यर्थस्य - बोधयति शास्त्रं शिष्यम्, ज्ञापयति शास्त्रं शिष्यम्, श्रावयति नूपुरशिञ्जितानि वोढारम्, ईक्षयति विभ्रमं लोकान्, घ्रापयति च्छात्रमामोदम् । शब्दार्थस्य - पाठयति, अध्यापयति, सम्भाषयति मित्रमिति च । अभ्यवहारार्थस्य भोजयति च्छात्रमोदनम्, पाययति च्छात्रमुदकम् । एषामिति किम् ? पाचयत्योदनं भृत्येन गृही, एषयत्यौषधमातुरेण भिषक् । यन्मतेऽपीच्छा ज्ञानभेदस्तन्मतेऽपि ज्ञानार्थस्य ग्रहणे नेच्छार्थस्य ग्रहणं ञनुबन्धादिसूत्रे द्वयोरुपादानात् ।‘मूलकेनोपदंशं भुङ्क्ते, ब्राह्मणायाहूय ददाति' इत्यादिवन्न भिन्नक्रिययोः कारकयोरिह परत्वम्, किन्त्वेकपदेन क्रिययोरभिधानाद् युगपदुभयक्रियासम्बन्धे प्रधानमित्यर्धमपेक्ष्य सर्वत्र कर्मत्वं सिद्धमिति ।
Page #601
--------------------------------------------------------------------------
________________
परिशिष्टम् -१
५५९ अमीषामेव कर्ता हेत्विनि कर्मेति पातलो नियमः । भर्तृहरिणाप्येवमुक्तम् -
गुणक्रियायां स्वातन्त्र्यात प्रेषणे कर्मतां गतः।
नियमात् कर्मसंज्ञायाः स्वधर्मेणावतिष्ठते ॥(वा०प०३/७/१२७) इति । गुणक्रियानिबन्धनान्यपि हि कारकाणि भवन्ति इत्येकपदोपात्तक्रियाद्वयसम्बन्धे परत्वात् कर्तृत्वे प्राप्ते विधिरयमिति पारायणकारस्यापि मते फलस्याविसंवादः । लब्धकर्तृभावस्यैव प्रयोजको हेतुरित्युक्तम् । हेतुव्यापारे चास्यावसरः । इहापि लब्धकर्तृभावस्यैव कर्मत्वमुपदिश्यते । ततः कर्तृत्वेन सहास्य विप्रतिषेधाभावे निरवकाशतया कर्तृत्वमेवानेनापढूयते इति न्याय्यम् । प्रवृत्तापि हि संज्ञा बलवत्या संज्ञया बाध्यत एव, इह तूभयसंज्ञासमावेशो नास्तीति हेतुश्चेति चकारेण ज्ञापितम् । पूर्ववत् परत्वाभावे सर्वत्रोभयप्राप्तावेषां कर्मैवेति नियमाद् अन्येषां कर्तृकर्मणी स्तः इति चान्ये | तन्मते
मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या। अजीग्रहत् तं जनको धनुस्तद् येनार्दिदद् दैत्यपुरं पिनाकी ॥ त्रिवर्गपारीणमसौ भवन्तमध्यासयन्नासनमेकमिन्द्रः।
प्रीतोऽहं भोजयिष्यामि भवती भुवनत्रयम् ।। इति च प्रयोगाः । तदा हकृञोर्वावचनमकर्मकाभ्यवहारार्थयोर्नित्यं मा भूदिति कथं प्रपञ्चार्थमिति लघुवृत्तिकृतोक्तम् ||१८|
१९. भक्षे जि हिंसायाम् हिंसेह जीवोपघातः । हिंसायामेव भुज्यर्थे वृत्तस्य भक्षेः कर्ता हेत्विनि कर्म भवति । भक्षयति शुनीं वराहान् । भक्षयति श्येनं विहङ्गान् । भुजीति किम् ? भक्षयति प्रजामनुचरैः कुनृपः । हिंसायामिति किम् ? भक्षयत्योदनं पान्थेन । कथं भक्षयति व्रीहीन् वृषभम् । भक्षयत्युद्भिदानि उष्ट्रमिति च ? बीजादीनामपि जीवयोगः श्रुतौ समर्थितः, स्मृतिश्चामुमर्थमनुगृह्णाति ।।१९।
२०. बहेर्नियन्तृहेतावधृनि उपदेशाद् वोढुमक्षमाणां क्रियया वाहयिता नियन्ता तस्मिन्नित्यर्थस्य कर्तरि अधृञर्थे वहे: कर्ता कर्म भवति । वाहयति रथमश्वान् सूतः, वाहयति गोणीं वृषभं
Page #602
--------------------------------------------------------------------------
________________
५६०
कातन्त्रव्याकरणम् दासः । नियन्तृहेताविति किम् ? वाहयति भारं भृत्येन गृही । अधृञीति किम् ? वाहयति कुण्डलं कुमारेण | वहिरिह धारणार्थः । यथा सौरभं वहति, विभ्रमं वहति । 'वसन्तपुष्पाभरणं वहन्ती' ।।२०।
२१. वा कृहजोः अनयोः कर्ता हेत्विनि कर्म भवति वा । कारयति कटं भृत्यम् भृत्येन वा नाथः । विकारयति चित्तं चित्तेन वा वसन्तः । हारयति भारं भृत्यं भृत्येन वा नाथः । अभ्यवहारयत्योदनं छात्रं छात्रेण वा गृही । उभयत्र विभाषेयम् ।।२१।
२२. दृश्यभिवायोरात्मने आत्मनेपदेऽनयोः कर्ता हेत्विनि कर्म भवति वा । दर्शयते भृत्यान् भृत्यैर्वा राजानमयम् । अभिवादयते शिष्यं शिष्येण वा उपाध्यायमसौ । आत्मन इति किम् ? दर्शयति पन्थानं पान्थम्, अभिवादयति पौत्रेण पितामहम् । दृशेः प्राप्तावभिवादयतेरप्राप्तौ विभाषेयम् । येऽपि द्वितीयाधिकारे सूत्राण्यमूनि पठन्ति तैरिहान्येषु कर्मविधिषु प्रतिविधातव्यम् ।।२२।
२३. न खाद्यदिशब्दायक्रन्दह्वाम् एषां कर्ता हेत्विनि कर्म न भवति । खादयत्योदनं माणवकेन, आदयत्योदनं माणवकेन ।शब्दाययति घण्टया गौः । क्रन्दयति दारैः कृपणः ।आह्वाययति मित्रं भृत्येन । भाव्येऽपि नीग्रहणमिह प्रत्याख्यातम् । नाययति भारं ग्रामं भृत्येन | प्रापणार्थवृत्तित्वादेवाप्रसङ्गादिति । निर्णायति, उन्नायतीति ज्ञानार्थत्वात् प्राप्तेः । नियः प्रतिषेध इत्यपि न प्रमाणम्, वार्तिक गत्यर्थे नीवह्योः प्रतिषेध एवेति ज्ञानार्थस्य नियोऽप्रतिषेधात् । चान्द्रे त्वविशेषेण नियः प्रतिषेधः । इह कादिषट्सु कारकम् इति रूढं संज्ञाः प्रक्रम्याथ विभक्तीरुपक्रमेत । तत्र प्रथमाविधौ न किञ्चित् परिशिष्यते इति न तत्रोपक्रमः । तथाहि अवधिमतोऽध्वमानात् प्रथमा सिद्धैव स्वान्तावधिदेशेऽपि क्रोशादिर्वर्तते-नद्या : क्रोशो घोषः । तथा द्रोणो व्रीहिरिति पदाध्यारोपात् । तथा दण्डः पुरुषः, गौर्वाहीक इति ।
Page #603
--------------------------------------------------------------------------
________________
परिशिष्टम् -१
५६१ किञ्च नक्षत्राणां काल इव द्रोणादीनां परिमेयोऽर्थोऽनधिक एवोभयत्राप्यर्थान्तरवृत्तेरविशेषात् । नापि संख्याधिक्ये प्रथमार्थमुपक्रमो वचनरूपायाः प्रथमायास्तन्नान्तरीयकत्वात् । असंख्येभ्योऽव्ययेभ्यस्तु ज्ञापकाद् विभक्तिरिति ।नाप्युक्तासु संख्यास्वेकादिभ्यः प्रथमार्थमुपक्रमो विशेषाणामप्रसङ्गात् । तस्मात् संख्यासूक्तासु प्रयुक्तिरेष्टव्या । यथा "स्यातां यदि पदे वे तु" (२।५।९) इति, नापि लिङ्गेषु लिङ्गार्थत्वात् । अन्यथा द्वितीयादिषु लिङ्गावगमो दुरुपपादः शास्त्रीयो हि विभक्त्यर्थ इति । किञ्च लिङ्गानामलिङ्गार्थत्वे नपुंसकादित्यादि वचनं नोपपद्यते नपुंसकाद्यभिधायितया हि प्रकृतीनां नपुंसकादिव्यपदेशो नान्यथा, किञ्च स्याद्यर्थे पुंस्त्वादौ प्रतिज्ञायमाने विशेषाभावाद् वनादेरप्युपजातोऽसौ प्रत्ययःस्त्रीपुंसावभिदध्यात् लिङ्गं प्रति प्रकृतीनामौदासीन्यात् तस्मादसाधारणीभिः प्रकृतिभिरेव यथायथमभिधेयानि लिङ्गानि व्यवस्थापयितुं शक्यन्ते, न जातु साधारणेन प्रत्ययेन ।
एवं च प्रकृतीनां लिङ्गानुशिष्टिशास्त्राण्युपपद्यन्ते नान्यथेति । नाप्यभिहिते द्वितीयादिनिषेधार्थमुपक्रमः । असिद्धेषु हि साधनानि युज्यन्ते न जातु सिद्धेषु । नहि मिहिरमरीचिनिचयचुम्बिते वस्तुनि दुश्चक्षुषोऽपि भवति प्रदीपापेक्षा, सिद्धास्त्विह विवक्षितार्थाः ।कृत्तद्धितसमासाख्यातनिपातैः सामान्याभिधायिभिर्विशेषाणामनभिधानमिति चेत् सत्यप्यनभिहित इति विशेषणे विशेषाश्रयो द्वितीयादिरिह स्यादेव । सामान्याभिधाने विशेषाश्रयोऽसौ मा भूदिति वचनं चेत् कृतपूर्वी कटमिति कर्मणि ते दुष्यति, नापि कर्मादिकं प्रकृत्यर्थः संख्या स्याद्यर्थ इत्यभ्युपगमे हेतुफले पश्यामः । येनाभिहितकर्मादिगतसंख्याने स मा भूदिति तदाद्रियामहे । तथाहि अन्वयव्यतिरेकाभ्यां प्रतीत्यप्रतीती द्वयोरपि समाने तत् कुतः कर्मादिकं प्रकृत्यर्थः । स्याद्यर्थः संख्येति विवेकः । किं चाभिहितश्च कारकार्थः, प्रातिपदिकार्थः सम्पद्यत इति पातञ्जलाः पठन्ति । अतो हि अभिधेयेऽभिधानोपचारेण नपुंसकादित्यादिनिर्देशादिति भावः । 'कृतः कटः' इति कटात् प्रथमा प्रसजन्त्यन्तरङ्गाणां बाधिष्यते, नैषां प्रसजतीति चेत् कुतोऽन्यस्यामपोहितायामस्याः प्रवृत्तिरिति । 'कटं भीष्ममुदारम्' इत्यत्र तु कटाद् द्वितीयया भीष्मादिगतकर्मशक्तेरस्पर्शात् कुतोऽभिहितत्वमिष्टं चैकाधिकरणानामेका विभक्तिरिति !
Page #604
--------------------------------------------------------------------------
________________
५६२
कातन्त्रव्याकरणम्
वार्त्तिककारस्य तु मते स्याद्यभिहितकर्मादौ द्वितीयादिः स्यादेव । स ह्येवमाह - तिङ्कृत्तद्धितसमासैरभिहिते द्वितीयादयो न भवन्तीति, तदा मनस्विगर्हितः पन्थाः समारोढुमसाम्प्रतमिति चिन्त्यम् | भाष्ये तु 'ओम् प्रणवः' इत्याचक्षते इति प्रयोगान्निपातेनापि कर्मणोऽभिधानमिष्टमिति लक्ष्यते ||२३|
२४. षष्ठ्यर्थे द्वितीया वा प्रतिभः
प्रतिभातेर्योगे षष्ठ्यर्थे द्वितीया वा भवति । प्राज्ञमर्थः प्रतिभाति, प्राज्ञस्य वा । 'अत्र चैष सकलेषु भाति मां प्रत्यशेषगुणबन्धुरर्हति' इति कर्मप्रवचनीयेन प्रतिना अयमारम्भस्तु प्रानं प्रतिभोऽर्थः । प्राज्ञं प्रतिभायेति “ उपसर्गे त्वातो डः " (४/२/५२) "क्त्वो यप् च” (४| ६ | ५५ ) यथा स्यादिति ||२४|
२५. समयानिकषर्तेऽन्तरेणहाधिग्विनान्तराभिः
एभिर्योगे षष्ठ्यर्थे द्वितीया भवति । समया गङ्गाम् । निकषा गङ्गाम् । ऋते विद्यामधनः शोच्यः । 'क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते' । अन्तरेण धनमविद्वान् शोच्यः । हा निःस्वान् | धिक् कृपणान् । 'बिना जायां नरो जाल्मो नारी च रमणं विना ' । अन्तरा च भ्रुवौ कूर्चम् | षष्ठ्यपवादत्वाद् मुदोऽन्तरा वपुषीति । तथा हा तात ! धिग् भ्रातः ! ।। २५ ।
२६. द्विरुपर्यधोऽधिभिः
द्विरुक्तैरुपर्यादिभिर्योगे षष्ठ्यर्थे द्वितीया भवति । उपर्युपरि गिरिं बलाका | अधोऽधो घनं बलाका: । अध्यधि शिखरं घनागमः । उपर्यधोऽधीनां सामीप्य इति नित्यं द्विः । द्विरिति किम् ? उपरि शैलस्य, अधो वृक्षस्य मद्यमम्लानामुपर्युपरि वर्तते ।
I
सर्वेषां अत्राता शरणं यातं यात्यधोऽधश्च दुर्गतेः ॥
प्रतिपदोक्तद्विर्वचनाश्रयणादिहातिशये द्विः ॥ २६ ॥ २७. तसोभयाभिपरिसर्वैः
तसन्तैरुभयादिभिर्योगे षष्ठ्यर्थे द्वितीया भवति । उभयतो ग्रामम् । अभितो ग्रामम् । परितो ग्रामम् । सर्वतो ग्रामम् । सर्वोभयाभ्यां तस् तद्धितः । 'परितः' इति सर्वतोऽर्थे निपातितः । 'अभितः' इत्युभयतोऽर्धे आभिमुख्ये च निपातः । तन्त्रान्तरे
Page #605
--------------------------------------------------------------------------
________________
परिशिष्टम् -१
५६३ त्वभितः इति आभिमुख्यादौ निपातः । 'उभयतः' इत्यर्थे तद्धितान्तं च तत्राप्युभयग्रहणं भाष्यटीकाकृता व्याख्यातम् । एभिरिति किम् ? मध्यतो ग्रामस्य ।।२७।
२८. यावताऽऽङर्थेन इहाङर्थो मर्यादाऽभिविधिश्च । तत्र वृत्तेन योगे षष्ट्यर्थे द्वितीया भवति । नदी यावदरण्यानि, रथ्यां यावद् वृष्टो देवः । आङर्थेनेति किम् ? यावद् राज्ञः । ‘यावदेते हदि प्राणास्तावदाशा प्रवर्धते' इति षष्ठ्यर्थाभावाच्च ।अवध्यर्थेन यावता पञ्चमीमपीच्छन्ति - ‘ग्रामाद् यावदहं वोढा यावच्चैत्राद्धिमं महत्' ।।२८।
२९. अभिविधौ कालाध्वमानात् अभिविधिरभिव्याप्तिः साकल्येनाभिसम्वन्धः । तस्मिन् गम्यमाने कालाध्यमानाभ्यां द्वितीया भवति । मासं सुप्यतेऽनेन, मासौ सुप्येते, मासान् सुप्यते । मासमोदनः पच्यते, मासमधीता विद्या । ‘स सप्तरात्रं मनुजो भुञ्जीत लघुभोजनम्' । मासमासिता, मासं शीतो वायुः, मासं पाटलाः, क्रोशं छन्दोऽधीते । क्रोशं सुप्यतेऽनेन, क्रोशं वक्रः पन्थाः, क्रोशमरण्यानी । सकर्मकेषु द्वितीयार्थम् अकर्मकेषु च कर्मविधिविघातार्थं क्रियात्यन्तसंयोगेऽपि विधिरयमेष्टव्यः । गुणद्रव्यात्यन्तसंयोगे द्वितीयार्थमिति तु भाष्यम् ||२९।
३०. तृतीयाऽपवर्गे फलोदये क्रियासमाप्तिरपवर्गः । तत्र कालाध्वमानाभ्यामभिविधौ तृतीया भवति । मासेन शिक्षा अधीता | क्रोशेन वृत्तम् अधीतम् । कृत्स्नमासाध्ययनेन सुसंगृहीतेत्यर्थः । करणत्वाध्यवसाये सिध्यत्येव । यथा - वर्षेणाधीतमपि नाधिगतं छन्दः । अपवर्गेऽभिविधौ द्वितीया मा भूद् इत्यारम्भः ।।३०।
३१. वा कर्मणि संज्ञः संजानातेः कर्मणि तृतीया भवति वा । सुखेन संजानीते । सुखं संजानीते । स्मृतौ तु प्रियेण संजानाति, प्रियं संजानाति, प्रियस्य संजानाति । कृति तु भाष्यवार्त्तिकयोरपि षष्ट्येवेष्यते - सुखस्य संज्ञाता, प्रियस्य संज्ञाता ||३१|
Page #606
--------------------------------------------------------------------------
________________
५६४
कातन्वव्याकरणम्
३२. चतुर्थ्यर्थे दाणोऽनाचारे धर्मशास्त्रविरोधेन व्यवहारोऽनाचारः । तस्मिन् गम्यमाने दाणः सम्प्रदाने तृतीया भवति वा । दास्या संप्रयच्छते मालां कामुकः, दास्यै संप्रयच्छति । धर्मविरोधेन रिरंसुर्दास्यै मालां संप्रददानो ह्येवमुच्यते ।।३२ ।
३३. लुपि नक्षत्रादधिकरणे लुप्शब्दो लुक्शब्दवत् पुंलिङ्गः । अणो लुपि लोपे सति काले वर्तमानान्नाम्नोऽधिकरणे तृतीया वा भवति । पुष्येण मूलान्युद्धरेत् पुष्ये वा, रोहिण्या शालीन् वपेद् रोहिण्यां वा । पुष्यादिनक्षत्रयोगिनि काल इत्यर्थः । लुपीति किम् ? रोहिण्यामिन्दुः ।। ३३ ।
.३४. प्रसितोत्सुकाभ्याम् आभ्यां योगे चाधिकरणे तृतीया भवति वा | भोगैः प्रसितः, भोगेषु प्रसितः । तत्पर इत्यर्थः । भोगैरुत्सुकः, भोगेषूत्सुकः ।। ३४।
३५. षष्ठ्यर्थे तुल्यार्थः तुल्यार्थोंगे षष्ठ्यर्थे वा तृतीया भवति । चन्द्रेण तुल्यः, चन्द्रस्य तुल्यः । 'तुल्यं पल्यकैर्विगलितहारचारुभिः स्वैः' । पार्थेन सदृशः, पार्थस्य वा । पार्थेन समः, पार्थस्य वा | बहुवचनाद् गुणमात्रे ऽपीष्यते । ‘सादृश्यं गतमपनिद्रच्युतगन्धैः' ।तुलोपमाभ्यामपीह स्यादेव - 'तुलां यदारोहति दन्तवाससा, गिरिणोपमामुपदधे गजता' | चान्द्रेऽपि तुलोपमयोरिहाप्रतिषेध एव ।। ३५।
३६. चतुर्थी हितसुखेन हितसुखाभ्यां योगे षष्ठ्यर्थे वा चतुर्थी भवति । राज्ञो हितम्, राज्ञे हितम् । 'धर्म एव हितो नित्यम् इहामुत्र च भूभुजाम्' । 'प्रामायद् गुणिनां हिते' इति च भट्टिः | वार्तिक तु हितयोगे षष्ठी न प्रमाणम् । चान्द्रे तु षष्ठीचतुर्यो विहिते । शिष्टप्रयोगास्तु तन्मतमनुगृह्णन्ति । राज्ञे सुखम्, राज्ञः सुखम् ।। ३६ ।
३७. आशिष्यर्थकुशलमद्रायुष्यार्थैः अर्थः प्रयोजनम्, कुशलं क्षेमम्, मद्रं मङ्गलम्, आयुष्यं दीर्घजीवितम् । एतदथैर्योगे सति आशिषि गम्यमानायां षष्ट्यर्थे चतुर्थी वा भवति । प्रजाभ्योऽर्थः, प्रजानामर्थो भूयात् । प्रजाभ्यः प्रयोजनम्, प्रजानां प्रयोजनं भूयात् । प्रजाभ्यः कुशलम्,
Page #607
--------------------------------------------------------------------------
________________
परिशिष्टम् -१
५६५ प्रजानां कुशलं भूयात् । प्रजाभ्यः क्षेमम्, प्रजानां क्षेमं भूयात् । प्रजाभ्यो मद्रम्, प्रजानां मद्रं भूयात् । प्रजाभ्यो मङ्गलम्, प्रजानां मङ्गलं भूयात् । प्रजाभ्य आयुष्यम्, प्रजानामायुष्यं भूयात् । प्रजाभ्यो दीर्घजीवितम्, प्रजानां दीर्थजीवितं भूयात् । आशिषीति किम् ? छात्रस्यार्थो भूतः । कथम् 'कुशलं खलु तुभ्यमेव तद् वचनं कृष्ण ! यदभ्यधामहम्' इति ? अस्त्विति विवक्षितमिदमिति स्यात् । षष्ठ्यर्थ इत्येव - ग्रामे कुशलं भूयात् ।।३७।
३८. करणे परिक्रियः परिक्रीणातेः करणे चतुर्थी वा भवति । शताय परिक्रीतो हसति, शतेन वा । कञ्चित् कालं बन्धकीकृत इत्यर्थः । द्रोणायाहः परिक्रीतो वृषलः, द्रोणेन वा । कृत्स्नमहः स्वीकृत इत्यर्थः ।।३८।
३९. नित्यं कर्मणि तुमोऽप्रयोगिणः अप्रयोगिणो गम्यमानस्य तुमन्तस्य कर्मणि नित्यं चतुर्थी भवति । एधेभ्यो व्रजति, रथेभ्यो व्रजति । एधानाहर्तुं रथानारोढुं व्रजतीत्यर्थः । तादर्थ्य सिद्धौ कर्मणि द्वितीया मा भूद् इत्यारम्भः । तथा छात्राय श्लाघते, छात्राय नुते, छात्राय तिष्ठते कुमारी, छात्राय शपते इति बोधयितुम् इति गम्यमानतुमः कर्मत्वात् सिद्धम् । तथा मूत्राय सम्पद्यते मण्डः । मूत्रं जनयितुं प्रभवतीत्यर्थः । 'मूत्रं सम्पद्यते मण्डात्, मूत्रं सम्पद्यते मण्डः' इति च स्यादेव । तथा वाताय कपिलिका विद्युत् । वातं ज्ञापयितुमिति गम्यते । यथा 'रूपाय चक्षुः, पथे प्रदीपः' इति । गत्यर्थकर्मणीत्यत्र षष्ठ्यप्रसङ्ग इति न परिशिष्यते परत्वादेव ग्रामस्य गन्तेति षष्ठ्याः सिद्धत्वात् । अत एव 'ग्राम गमी' इति भविष्यदर्थे इनि षष्ठीनिषेधस्योदाहरणं भाष्ये । ___केचित् कृत्यपि द्वितीयाचतुर्थ्यो मन्यन्ते । वचनमिदं तु तादर्थ्यचतुर्थ्या प्रत्याख्यातुमशक्यम् - ग्रामाय समृच्छति, ग्रामाय समियीत्यकर्मकतया आत्मनेपदप्रसङ्गात् । तत्कथं चन्द्रगोमिना प्रत्याख्यातम्, नापि मन्यकर्मणीत्यत्र किञ्चित् परिशिष्यते । तृणादिकमपेक्ष्य कस्यचिदपकर्षे नज्योगे च विधिरयमिति भाष्यस्थितिः । 'न त्वा तृणाय मन्ये' इति तृणादपि अपकृष्टं मन्ये इत्यर्थः । उपमानादनादरविषयात् तृणादेविधिरिति चापिशलीया स्थितिः । तथा च "मन्यकर्मण्यनादरे, उपमानाद् विभाषाऽप्राणिषु"
Page #608
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
(द्र०, अ० २/३/१७) इत्यापिशलेः सूत्रम् । तथा 'तृणाय मन्ये राज्यम्' इति । तृणमिव मन्ये इत्यर्थः । अर्थद्वयस्य व्यवस्थितविभाषयैव संगृहीतत्वात् 'नौकाकान्नभृगालानां प्राणित वृद्धकीर्तनात्' ।।३९।
४०. पञ्चमी व्यतिरेके हीनाधिकभावो व्यतिरेकः । तत्र पञ्चमी भवति । वृषला राजन्येभ्यः कातराः, माथुराः पाटलिपुत्रेभ्यः आढ्याः ।।४०।
४१. हेतावृणे ऋणे हेतौ वृत्तात् पञ्चमी भवति ।शतादवगृहीतोऽसि |कथं सहस्रेण बन्धितोऽसि ? अविवक्षितविशेषहेतौ पञ्चमीयम् । विशेषे कर्नादौ यथायथं विभक्तयः स्युरेव ।।४१ ।
४२. क्त्यस्त्रीभ्यामसत्त्वे वा असत्त्वे अद्रव्ये हेतौ वृत्तात् क्त्यन्ताद् अस्त्रीलिङ्गाच्च वा पञ्चमी भवति । भीतेः कुण्ठः, भीत्या कुण्ठः।
योग्यानां गृह्यतेऽर्थानामभावोऽनुपलब्धितः।
देहाग्निं पक्तितो वियाद् बलं व्यायामशक्तितः॥ अभिपतितुमना लघुत्वभीतेर्मधुसुरभिमुखाब्जगन्धलुब्धेरित्यादि ।
अस्त्रीलिङ्गाद् बाल्यात् सुभगः, बाल्येन सुभगः । स्त्रीलिङ्गनिषेधः किम् ? मैत्र्या तिष्ठति, इज्यया वसति । इह अस्त्रियामिति पाणिनीया स्मृतिः । असत्त्व इति किम् ? धनेन कुलम् । कथम् इहाग्निधूंगात् । नाग्नेधूमो हेतुः, अपि तु तत्प्रतीतेः । ततो धूमम् उपलभ्याग्निः प्रतीयते इत्यर्थे परेण स्यादेव ।।४२।
४३. यपोऽधिकरणकर्मणोरप्रयोगिणः अप्रयोगिणो गम्यमानस्य यबन्तस्याधिकरणे कर्मणि च पञ्चमी भवति । आसनात् प्रेक्षते, रथादास्ते । आसने प्रविश्य, रथमारुह्येत्यर्थः । तथा पितामहाल्लज्जते । पितामहमभिवीक्ष्य इत्यर्थः । तथा पितामहादन्तर्धत्ते । पितामहमुपलभ्य निलीयते इत्यर्थः । 'हुताशनादन्तर्धत्ते, व्याघ्राद् विलीयते' इति च स्यादेव ।।४३ ।
Page #609
--------------------------------------------------------------------------
________________
परिशिष्टम्-१
४४. प्रभृत्याराबहिषः षष्ठ्यर्षे _ 'प्रभृति-आराद्-बहिष्' इत्येतेषां योगे षष्ट्यर्थे पञ्चमी भवति । बाल्यात् प्रभृति रमणीयः, आरादगारात्, बहिरावसथात् । 'क्वचिदपवादविषयेऽप्पुत्सर्गः' (पु० प० वृ० ११५) इति भाष्यस्मृत्या बहिोंगे षष्ठीमप्याहुः । बहिरम्भोजवनस्य वायसास्ते । करस्य करभो बहिः। फाल्गुन्याश्चैत्रीमासे पाटलिपुत्राद् राजगृहं सप्तसु योजनेष्विति कालाध्वमानावधेर्दिग्लक्षणैव पञ्चमी पौर्वापर्यस्य सत्त्वात् । मासे मासावसाने यथामासे दास्यामि । एवं सप्तसु योजनेष्विति । अद्यायं भोक्ता, व्यहाद् भोक्ता, इहायमिषून स्यन् क्रोधाल्लक्ष्यं विध्यति । कारकमध्ये कालाध्वमानाभ्यामपि तथैव पञ्चमी । यहे भोक्ता, क्रोशे विध्यति । व्यहे अतीते क्रोशे स्थितमिति गम्यते ||४४।
४५. प्रतिनिधिप्रतिदानयोः प्रतिना मुख्यस्य सदृशः प्रतिनिधिः । प्रतिदानं विनिमयः । अनयोर्वर्तमानेन प्रतिना षष्ठ्यर्थे पञ्चमी भवति । अभिमन्युरर्जुनात् प्रति । अर्जुनस्य प्रतिनिधिरित्यर्थः । माषानस्मै तिलेभ्यः प्रतियच्छति । तिलानां विनिमयेनेत्यर्थः । अनयोरिति किम् ? वृक्षं प्रति विद्योतते विद्युत् । प्रतिनेति किम् ? पार्थस्य प्रतिनिधिः, माषाणां विनिमयः ।।४५।
४६. वा दूरान्तिकार्थेन दूरार्थिकनान्तिकार्थेन च योगे षष्ठ्यर्थे पञ्चमी भवति वा । गृहाद् दूरम्, गृहस्य दूरम् ।गृहाद् विप्रकृष्टम्, गृहस्य विप्रकृष्टम् ।गृहादन्तिकम्, गृहस्यान्तिकम् ।गृहादभ्याशम्, गृहस्याभ्याशम् । गुणिवृत्तिनापि - गृहाद् दूरः पन्थाः ॥४६।
४७. करणे कतिपयस्तोकाल्पकृच्छ्रादसत्त्वे अद्रव्ये वर्तमानेभ्यः कतिपयादिभ्यः करणे पञ्चमी भवति वा । कतिपयान्मुक्तः, कतिपयेन मुक्तः। स्तोकाद् गतः, स्तोकेन गतः । अल्पान्नष्टः, अल्पेन नष्टः । कृच्छ्राल्लब्धम्, कृच्छ्रेण लब्धम् । इहासत्त्वार्थत्वादेकवचनमेवेच्छन्ति । असत्त्व इति किम् ? स्तोकेन मधुना मत्तः, कृच्छ्रेण पथा भ्रान्तः ।।४७।
Page #610
--------------------------------------------------------------------------
________________
५६८
कातन्त्रव्याकरणम्
४८. तृतीया पृथग्विनानानाभिः एभिर्योगे तृतीया वा भवति, पक्षेऽन्यार्थत्वात् पञ्चम्येव । पृथग् वृषलेन, पृथग् वृषलाद् ब्राह्मणः । विना सुखेन, विना सुखात् कृपणः । नाना वृषलेन, नाना वृषलाद् ब्राह्मणः ।।४८।
४९. षष्ट्यनाशाजधुभिरतसर्थैः आहि-आच्-अञ्चवर्जितैरतसथैर्योगे षष्ठी भवति । दक्षिणतो हर्म्यस्य, पुरस्ताद् हर्म्यस्य । 'दक्षिणेन हर्म्यस्य' इत्यपि । येषामेनेन द्वितीया वेति मतम् । उपरि सौधस्य, उपरिष्टात् सौधस्य । अधो बिन्ध्यस्य, अधस्ताद् बिन्ध्यस्य । इह वाऽधिकारोऽस्त्येव । तन्वान्तरेऽपि हि पञ्चमीसमावेशमिच्छन्ति, कथमन्यैः प्रत्याख्यातम् अतः सूक्तिरियं बाणस्य
सुभाषितं हारि विशत्ययो गलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव थत्ते हृदयेन सज्जनो हरिर्महारत्नमिवार्णवोद्भवम् ॥
(मङ्गलश्लोकः कादम्बर्याः)। अनाह्याजञ्चभिरिति किम् ? दक्षिणाहि मलयात्, उत्तरा सुवेलात् । दक्षिणोत्तराभ्याम् आच् - आहि च दूरे । प्राङ् मलयात् । इहास्तातेलुक् ।।४९ |
५०. काले कृत्वोऽर्थानामधिकरणे कृत्वोऽर्थप्रत्ययानां प्रयोगेऽधिकरणे काले वा षष्ठी भवति । पञ्चकृत्यो दिवसस्य भुङ्क्ते, दिवसे वा । द्विरह्रो भुङ्क्ते, अह्नि वा । काल इति किम् ? त्रिः पात्र्यां भुङ्क्ते ।।५।।
__ ५१. आयुक्तकुशलाभ्यां तात्पर्ये तात्पर्ये वर्तमानाभ्यामाभ्यां योगे आधारे षष्ठी वा भवति । भोगानाम् आयुक्तः, भोगेष्वायुक्तः । कर्मणः कुशलः, कर्मणि कुशलः । नित्यमासक्त इत्यर्थः । तात्पर्य इति किम् ? रथेष्वायुक्तोऽश्वः, निबद्ध इत्यर्थः । कर्मसु कुशलः, शिक्षित इत्यर्थः ।। ५१ ।
५२. क्रियोपलक्षणभावादनादरे क्रियाया उपलक्षणं भावः क्रिया यस्य सः क्रियोपलक्षणभावः । तस्मादनादरे षष्ठी वा भवति । रुदतः प्राब्राजीत्, रुदति प्राब्राजीत् । रुदन्तमनादृत्य गतः इत्यर्थः । एवं पश्यतो हरति, पश्यति हरति । पश्यन्तमनादृत्य हरति पश्यतोहरः ।। ५२ ।
Page #611
--------------------------------------------------------------------------
________________
परिशिष्टम् -१
५३. कर्मणि दयेशोः दयेशोः कर्मणि षष्ठी वा भवति । निष्कस्य दयते निष्कं वा । व्रीहीणामीष्टे व्रीहीन् वा । तस्य चानुकरोतीति शब्दाः सादृश्यसूचिन इति शेषविवक्षयैव षष्ठी । यथा - 'गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः' इति । ‘सा लक्ष्मीरुपकुरुते यया परेषाम्' इत्यादि । कर्मणि षष्ठीविधिस्तु धातोरकर्मकविधिर्मा भूत् ।। ५३ ।
५४. व्यवहृदिविपणामेकार्थे एकार्थे वर्तमानानामेषां कर्मणि वा षष्ठी भवति । क्रयविक्रयादिलक्षणे व्यवहारे द्यूतक्रियायां चैषामेकार्थता । शतस्य व्यवहरति शतं वा । शतस्य दीव्यति, शतं वा । शतस्य पणायते शतं वा ।पणेः स्तुत्यथदिवाय इत्यनार्षमिति भागवृत्तिकृताप्युक्तम् । एकार्थ इति किम् ? हिरण्यानि व्यवहरति । प्रियं दीव्यति, राजानं पणायते । गणनेच्छास्तुतयोऽत्रार्थाः ।। ५४।
५५. नाथ आशंसने आशंसने वर्तमानस्य नाथतेः कर्मणि षष्ठी वा भवति । श्रियो नाथते श्रियं वा । आशंसते इत्यर्थः । आशंसन इति किम् ? पुत्रमनुनाथति । अनुनयतीत्यर्थः ।। ५५ ।
५६. करणे पूस्तृप्त्यर्थयोः । पूर्यतेस्तृप्त्यर्थस्य च करणे षष्ठी वा भवति । घृतस्य पूर्णो घटः, घृतेन वा । ओदनस्य परिपूर्णाः स्थाल्यः, ओदनेन वा । 'पूर्यते शोणितस्याक्षि' इति । 'असृजः पूर्णकोष्ठस्य' इति च सुश्रुतस्य । ‘मधुन इव तथैवापूर्णमद्यापि भाति' इति च माघस्य | तृप्त्यर्थस्य च - फलानां तृप्तः, फलानां सुहितः, फलानामाशितः, फलैर्वा । आयूर्वाद् अश्नातेस्तृप्त्यर्थत्वेनाकर्मकत्वात् कर्तरिक्तः । यथा 'सदोद्गारसुगन्धीनां फलानामलमाशिता' इति भट्टिः । भाष्ये तु अश्नातेः कर्तरि क्तो दीर्घश्च निपात्यते इति सकर्मकत्वेऽपि 'ओदनमाशितः' इति सिद्ध्यर्थमुक्तः ।। ५६।
५७. ज्ञोऽप्रमितौ सत्यानुभवः प्रमितिः । ततोऽन्यत्र जानातेः करणे षष्ठी भवति । सर्पिषो जानीते, सत्यस्य जानीते । सर्पिषा भ्रान्तो भवति । सत्येन प्रवर्तते इत्यर्थः । अप्रमिताविति किम् ? चक्षुषा संजानाति । निश्चिनोतीत्यर्थः ।। ५७।
Page #612
--------------------------------------------------------------------------
________________
५७०
कातन्त्रव्याकरणम्
५८. वा कर्तरि कृत्ये कृत्यप्रत्ययान्ते प्रयुज्यमाने कर्तरि षष्ठी भवति वा । कर्तव्यः कटोऽस्य, कर्तव्यः कटोऽनेन | करणीयोऽर्थोऽस्य, करणीयोऽर्थोऽनेन । लव्यो व्रीहिरस्य, लव्यो व्रीहिरनेन । अनुशिष्यः शिष्योऽस्य, अनुशिष्यः शिष्योऽनेन । कार्यः कटोऽस्य, कटोऽनेन । कर्तरीति किम् ? गेयो वटुः साम्नाम् । कर्तरि यः ।। ५८ ।
५९. न कर्तृकर्मप्राप्तौ कर्तृकर्मप्राप्तौ कृत्ये तयोः षष्ठी न भवति । दोग्धव्यो गौः पयो गोपालकेन । वोढव्यो भारो ग्रामं भृत्येन । अनुशिष्यः शिष्यो धर्ममुपाध्यायेन, गमनीयः शिष्यो ग्राममनेन । गन्तव्यं ग्राममनेनेत्यपि मतं नः । तथा च कां दिशं गन्तव्यम् इति परतः कर्तृग्रहणादिह कर्मण्यपि निषेधः ।। ५९।
६०. कर्तर्यनङबुनि 'अङ्-अ-बुञ्' इत्येतेभ्योऽन्यस्मिन् कर्तृकर्मप्राप्तौ कृति कर्तरि षष्टी न भवति । ओदनस्य पाकश्छात्रेण, दोहः क्षीरस्य गवामाभीरेण, शब्दानामनुशासनं मुनिभिः, जपो मन्त्रस्य ब्राह्मणेन । गम्यमानेऽपि कर्मणि निषेधमाहुः । पानमनेन, भोजमनेन । कर्तरि तृतीयास्थित्यर्थोऽयमारम्भः । पानमस्य, भोजनमस्येति तु सम्बन्धे षष्ठी स्यादेव । अनङवुजीति किम् ? भिदा तमसामर्द्धस्य । स्पृहा भोगानां यूनः । चिकीर्षा पुण्यस्य सताम् । जागरा निशीथस्य छात्राणाम् । ईहार्थस्य दरिद्राणाम् । मम भोजिका सक्तूनाम् । तव शायिका रात्रेः । इह विभाषापि बाध्यते ।। ६०।
६१. वा भावे स्त्रियाम् स्त्रियां भावे विहिते कर्तृकर्मप्राप्तौ शेषे कृति कर्तरि वा षष्ठी भवति । ग्रामस्य गति त्यस्य भृत्येन वा । परिचर्याचार्यस्य शिष्यस्य शिष्येण वा । उपासना पितुः पुत्रस्य पुत्रेण वा । जागर्या रात्रेश्छात्रस्य छात्रेण वा । अकरणिः पुण्यस्य जाल्मस्य जाल्मेन वा । भृत्या प्रजानां नृपस्य नृपेण वा । हानिः सुखानां कृपणस्य कृपणेन वा । स्त्रियाम् इति किम् ? ओदनस्य पाकश्छात्रेण । केचित् स्त्रियामिति नाद्रियन्ते, तन्मते ओदनस्य पाकश्छात्रस्येत्यपि कर्तृकर्मप्राप्तावित्येव साधो: स्थितिः। अजीवनी: पापस्य, अकरणिर्जाल्मस्य ।।६१।
Page #613
--------------------------------------------------------------------------
________________
परिशिष्टम् - १ ६२. क्ते वोभयोः
भावे विहिते ते कर्तृकर्मणोर्वा षष्ठी भवति । स्थितमस्य, स्थितमनेन । गतं ग्रामम्, गतं ग्रामस्य । इह सकर्मकादपि भावे क्तः, तत्र च कर्तर्यपि वा षष्ठी स्यादेव । गतं तीर्थानां व्रतिनः, गतं तीर्थानि व्रतिना । वेत्युत्तरत्र नित्यार्थम् || ६२ | ६३. वर्तमानाधिकरणयोः सौत्रे
५७१
वर्तमानाधिकरणयोः सूत्रेण विहिते कर्तरि कर्मणि च षष्ठी भवति । इद्धं ज्योतिषाम्, भीतं मृगाणाम् । मतः साधूनाम्, इष्टः प्रजानाम्, ज्ञातश्छात्राणाम् । विदितः प्रजानाम्, अर्चितो मुनीनाम् | अधिकरणे च स्थितम् आसनं राज्ञः, सुप्तमरण्यं पान्थस्य, गतं नभो नक्षत्राणाम्, पीतमगारं क्षीरस्य, भुक्ता पात्री करम्भस्य । इह सकर्मकादपि ते कर्तर्यपि स्यादेव । पीतमगारं वृषलस्य सुरायाः । सौत्र इति किम् ? शीलादिभ्यो वर्तमाने क्तो बाहुलकात् तत्र मा भूत् । शीलितोऽयमनेन, रक्षितोऽयमनेन । यत्र ञ्यनुबन्धादिसूत्रेण बाहुलकेन च क्तस्तत्र षष्ठ्यपि तृतीयापि । कान्तः प्रजानाम् कान्तः प्रजाभिः । एतदर्थं हीच्छार्थत्वे तत्रास्य बहुलसंग्रहणम् । कमेरिह न ग्रहणम् इति न कैश्चिच्चिन्तितम् | ञ्यनुबन्धादिभ्यो वर्तमानक्तेनातीतक्तस्य बाधनात् त्वया मतम् इत्याद्यसाधु इति मन्यन्ते, तदसत् । मतात्त्वेकत्र सहसम्भवे बाधा । क्व चानयोः पृथक्कालविहितयोरेकत्र सहसम्भवः । सहसंभवो हि तत्प्रसक्त्यवसरे प्रसङ्गः, स च नास्त्येव ।
|
प्रयोगाश्च दृश्यन्ते – ‘वसामोऽविदिताः परैः इति भारते । स पुण्यकर्मा भुवि पूजितो नृपै:' इति सुश्रुतस्य । 'पूर्वैः प्रहरणमष्टविधमिष्टम्' इति वात्स्यायनस्य | 'ननु जनविदितैर्भवद्व्यलीकैः' इति माघस्य । 'जनैरविदितविभवो भवानीपतेः' इति भारवेः । 'बोद्धव्यं किमिव हि यत् त्वया न बुद्धम्' इति भट्टेः । 'न भीतं तडितो दृशा' इति रुद्रस्य । 'राज्ञा हिमवतः सारो विज्ञातोऽस्य हिमाद्रिणा' इति कालिदासस्य । 'अनुप्रासधिया गौरैस्तदिष्टं बन्धगौरवात्' । 'ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ' इति दण्डिनः । 'सुप्तमुत्सवकारिणा' इति कीचकवधमहाकाव्यस्य ।। ६३ । ६४. उकञि कमेः
कमेरुकञि कर्मणि षष्ठी भवति । भोगानां कामुकः । यूनां कामुकी । निष्ठादित्वे विधिः । अन्यथा नियमोऽयम् । 'द्विषन्नभिजातस्य खल:' इति सम्बन्ध एव षष्ठी ।
Page #614
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
यथा 'तव सर्वगतस्य सम्प्रति क्षितिपः क्षिप्नुरभीषुमानिव सत्यानुरक्ता नरकस्य जिष्णवः,
धीसत्त्वोद्योगयुक्तानां किं दुरापं महात्मनाम् || ६४ | ६५. न वुणि तुमर्थे
तुमर्थे णि कर्तृकर्मणोः षष्ठी न भवति । दारैः क्रन्दको व्रजति, पणवेन शब्दायको व्रजति, ओदनं पाचको व्रजति, रथम् आरोहको व्रजति । वुणीति किम् ? दाराणां क्रन्दनायै व्रजति, ओदनस्य पाकाय व्रजति । तुमर्थ इति किम् ? ओदनस्य पाचकः । कथम् ओदनं पाचकतरः, ओदनं पाचकतमः ? कर्तृकर्मणोः कृतीति कृदग्रहणात् कृदन्तात् प्रत्ययान्तरे षष्ठ्या न भवितव्यम् इति मतम् । एवं च णजिनुणोर्नित्यं तद्धितान्तत्वात् षष्ठ्या न भवितव्यमेव । अङ्गानि व्यात्युक्षी, धनानि सांग्राहिणम् || ६५ | ६६. इनि भविष्यदधमर्णयोः
भविष्यदर्थेऽधमर्णे च कर्तरि विहिते इनि कर्मणि षष्ठी न भवति । ग्रामं गमी, ग्राममागामी, शतन्दायी | भविष्यच्छ्रुतिविहितस्येनो ग्रहणादिह स्यादेव । श्वोऽर्थानां ग्राही || ६६ |
५७२
1
६७. सप्तम्युपेनाधिक्ये
आधिक्ये वर्तमानेनोपशब्देन योगेऽधिकिनः सप्तमी भवति । उपखार्यां द्रोणः, उपनिष्के मासः । खार्या निष्कस्याधिकः इत्यर्थः । उपनेति किम् ? अधिकः खार्या द्रोणः, अधिको निष्कस्य मासः | सम्बन्धे षष्ठीनिवृत्त्यर्थं सप्तम्यर्थं च वचनम् । ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते इति । यथा रथकारेष्वासीनेषु अयस्काराः शेरते, तथा साधुः पितरि, निपुणो मातरीति । यथा पटुः शास्त्रेषु, दक्षोऽक्षेषु, साधुः पाप्मनि, निपुणः पाप्मनि जाल्मः इति अनर्चायामपि स्यादेव || ६७ |
६८. स्वाम्येऽधिना
स्वाम्ये वर्तमानेनाधिना षष्ठ्यर्थे सप्तमी भवति । अधिपञ्चालेषु ब्रह्मदत्तः । पञ्चालानां स्वामीत्यर्थः। अधिब्रह्मदत्तेषु पञ्चालाः । ब्रह्मदत्तस्य पञ्चालाः स्वामिन इत्यर्थः ।। ६८ ।
Page #615
--------------------------------------------------------------------------
________________
५७३
परिशिष्टम् - १
६९. क्तस्येनः कर्मणि इनन्तस्य क्तस्य कर्मणि सप्तमी भवति ।अधीती छन्दसिं, अधीती शास्त्रे, आम्नाती शास्त्रे | इन इति किम् ? कन्यामाश्लिष्टतमः । कर्मणीति किम् ? रथेन प्रयाति । द्वितीयानिवृत्त्यर्थोऽयमारम्भः ।। ६९।
७०. निमित्तात् कर्मसंयोगे क्रियानिमित्तमात्रात् तत्कर्मसंयोगे सति सप्तमी भवति ।
चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुभरम्।
केशेषु चमरी हन्ति सीम्नि पुष्यलको हतः॥ निमित्तादिति किम् ? असिना हन्ति द्वीपिनम् । कर्मसंयोग इति किम् ? चर्मणा द्वीपी मृतः । हेत्वर्थे तृतीयानिवृत्त्यर्थोऽयम् ।। ७० ।
___७१. दूरान्तिकार्थादसत्त्वे टाङस्यमोऽपि दूरादिन्तिकार्थादसत्त्वे वर्तमानात् टाङस्यमो डिश्च भवति । दूरेण पन्थाः, दूरात् पन्थाः, दूरं पन्थाः, दूरे पन्थाः । एवं विप्रकृष्टादिभ्यः । अन्तिकेन ग्रामः, अन्तिकाद् ग्रामः, अन्तिकं ग्रामः, अन्तिके ग्रामः । एवम् अभ्याशादिभ्यः । असत्त्व इति किम् ? दूरे पथि तडागः । सप्तमीप्रकरणोपक्रमात् सप्तम्यर्थे विधिरयमिति मतम् । नः स्वार्थे एताश्चतम्रो विभक्तय इति नैयासिकाः ।।७१।
७२. सर्वनाम्नो हेत्वादिना प्रथमातृतीयापञ्चमीषष्ठ्यः हेतुकारणनिमित्तैर्योगे सर्वनाम्न एताश्चतस्रो विभक्तयो भवन्ति । को हेतुः कटः क्रियते, केन हेतुना, कस्माद् हेतोः, कस्य हेतोः । एवं किं कारणम्, किं निमित्तम्, केन कारणेन, केन निमित्तेनेत्यादि । भाष्ये त्विह सप्ताप्युदाहृता विभक्तयः । हेत्वादिनेति किम् ? केनोपायेन,केन प्रत्ययेन, केन बीजेन, केन प्रमाणेन ।मतमेतच्च वार्तिकतात्पर्यविदाम् । सर्वैर्हत्वथैर्योगे विधिरयमिति एके । सर्वनाम्नो निमित्तकारणहेतुभिस्तृतीयापञ्चमीषष्ठ्यः इति काश्मीरकादयः ||७२।
७३. गुणवचनादेकवचनं संख्यायाः गुणयोगाद् गुणिनि वृत्तायाः संख्यायाः एकवचनं भवति । विंशतिश्छात्राः, विंशति छात्रान्, विंशत्या छात्रैः । विंशतिः कन्यकाः, विंशतिं कन्यकाः, विंशत्या कन्यकाभिः ।
Page #616
--------------------------------------------------------------------------
________________
५७४
कातन्त्रव्याकरणम्
विंशतिः काण्डानि, विंशतिं काण्डानि, विंशत्या काण्डैः, विंशत्यां काण्डेषु । एवं त्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिंसप्तत्यशीतिनवतिशतसहस्रायुतनियुतलक्षकोट्यर्बुदपद्मप्रभृतयः । गुणवचनादिति किम् ? पञ्च छात्राः, द्वे विंशती रथानाम्, तिम्रो विंशतयः । द्वित्र्यादिवदनेकवस्तुवृत्तित्वादेकवचनं न स्यादिति । सर्वो जन इति जातावेकवचनम् । साकल्ये सर्वशब्दः ।।७३।
७४. ग्रामे द्विवद् गोदस्य गोदशब्दस्य ग्रामे व्यर्थवद् भवति । गोदौ ग्रामः, गोदौ गम्येते, पूर्वगोदौ, अपरगोदौ, अश्विनौ, पुष्पवन्तौ इति व्यर्थत्वात् ।।७४।
७५. बहुत्ववदस्वादेरसंख्यैकाधिकरणस्य एकट्यादिशब्द इह संख्या संख्यैकाधिकरणाद् अन्यस्यासुप्रभृतेर्द्धित्वैकत्वयोर्बहुत्ववद् भवति । असवः प्राणाः इति असुष्वेव । 'निघ्नन् प्रियं प्राणमिवाभिमानम्' इत्यर्थान्तरे । प्राणे हन्मारुते बले । सक्तव इति । केचिदुदकेन सिक्तः सक्तुरिति काशिकादौ । शिरीषा ग्रामः, शाल्मलयो नगरम्, वरणा नगरम्, अम्बुनि गाव एताः । सामान्यपुष्पे सुमनसः, सुमनाः । जलौकसो जलौका : । समाः समा च संवत्सरः । अप्सरसः, अप्सराः । वस्त्रान्ते दशाः, वत्तौ तु दशेति । तदन्तादप्युपसर्जनत्वे बहुवचनमेव स्यात् । भाष्येऽप्येवमुक्तम् । जाम्बवश्च पञ्चालाश्च जाम्बवपञ्चालाः । पूर्वपदत्वे तु पञ्चालजाम्बदौ । वषहिमन्तौ ।
पुंस्यसवोऽपि प्राणा दारा लाजाः सवल्लजाश्च गृहाः। एके पठन्ति सक्तून् ग्रामाख्यायां शिरीषाः स्युः॥ नीवृति कुरवो मत्स्याः सुह्माङ्गविदेहमद्रपञ्चालाः। कालाजमीढत्रिर्गतबाहीकवङ्गान्धाः ॥ चेदिरवन्तिकलिङ्गाखुशीनरप्रभृतयोऽन्येऽपि । शाल्मलयः पुरि वरणाः स्त्रियामुभे वारिणि तु गावः॥ पुष्ये च सुमनसो वा वा च जलौकःसमाप्सरसः। आपो वस्त्रस्य दशाः सिकतावर्षामघा धानाः॥ यत् कृत्तिकाश्च बहुलास्तद् बह्वाभिधायित्वात् ।
Page #617
--------------------------------------------------------------------------
________________
परिशिष्टम् -१
५७५ नीवृतिपुण्ड्रो भूम्नि इत्यपा जनपदे पुण्डमपीह पठन्त्येके । इह त्वविशेषः ‘सुदुर्व्वरः स्वादुरसो बृंहणस्तण्डुलो नवः' इति । असंख्यैकाधिकरणस्येति किम् ? एको बल्वजः, एका सिकता | भाष्यस्थितिरप्येवम् ।।७५।
७६. वाऽस्मदश्च असंख्यैकाधिकरणादन्यस्मादस्मदोऽबहुत्वे वा बहुत्ववद् भवति । वयम् अहम् आवां वा । असंख्यैकाधिकरणस्येति किम् ? एकोऽहम्, द्वावावाम्, अन्यैकाधिकरणस्य स्यादेव - श्यामा वयम्, श्यामाऽहम् । एते वयममी दाराः । 'वयं क्व वर्णाश्रमरक्षणोचिताः' । 'सम्पन्ना व्रीहयः' इति व्यक्तिभेदात् । 'सम्पन्नो व्रीहिः' इति अविवक्षितभेदत्वादैक्यम् । उक्तं हि भाष्ये - ता एव तिरोहितभेदा व्यक्तयो जातिरिति । व्रीहित्वादिजातौ तु बहुवचनं नारभ्यते इति । यदप्युक्तम् – एकस्यामेव जातौ न द्वयोर्तीहियवाविति, अत्रापि व्यक्तिषु तिलमाषाः हंसचक्रवाका इतीष्टम् । युष्मदो गुराविति स्मरन्त्येके | यूयं मे गुरवः, त्वं मे गुरुः । वचनव्यत्ययो बहुलमन्यत्रापि दृश्यते ।।७६।
७७. वा फल्गुन्योः प्रोष्ठपदयोस्तारके । फलेरुनट् गश्चान्तः फल्गुनी ह्रस्वादिः । तारके वृत्तयोः फल्गुन्योः प्रोष्ठपदयोश्च द्वित्वे वा बहुत्ववद् भवति । फल्गुन्यः, फल्गुन्यौ, प्रोष्ठपदाः, प्रोष्ठपदे । पूर्वफल्गुन्यः, उत्तरप्रोष्ठपदा इति चेच्छन्ति | तारक इति किम् ? फल्गुन्यौ कन्यके । संख्यैकाधिकरणयोस्तु द्वे फल्गुन्यौ, द्वे प्रोष्ठपदे । वाग्रहणमुत्तरत्र नित्यार्थम् ।। ७७।
७८. पुष्यार्थपुनर्वसुद्धन्द्ध द्विवद् बहुषु पुष्यार्थश्च पुनर्वसू च तेषां द्वन्द्वे बहुत्वे व्यर्थवद् भवति । पुष्यश्च पुनर्वसू च पुष्यपुनर्वसू । सिध्यपुनर्वसू । तिष्यपुनर्वसू । पुष्यार्थ इति किम् ? अश्विनीपुनर्वसवः । द्वन्द्व इति किम् ? पुष्यः पुनर्वसू येषां ते पुष्यपुनर्वसवः । बहुष्विति किम् ? एतत्तिष्यपुनर्वसुशेषो द्वन्द्वो हि वा समाहारे ||७८।।
७९. द्वन्द्वे लुग गोत्रेण यूनस्तन्मात्रवैषम्ये पौत्राद्यपत्यमिह गोत्रं गुर्वायत्तं गोत्रापत्यं युवेति च पूर्वाचार्यस्मरणात् । गोत्रेण सह द्वन्द्वे गोत्रयुवमात्रे कृते वैषम्ये यूनो लुग् भवति । गार्यश्च गार्यायणश्च गाग्र्यो, दक्षादिण् दाक्षिश्च दाक्षायणश्च दाक्षी । एक एवोभयार्थभाग् भवति । द्वन्द्व इति किम् ?
Page #618
--------------------------------------------------------------------------
________________
५७६
कातन्त्रव्याकरणम् गायेगाायणोऽहम् । गोत्रेणेति किम् ? गायेगाायणौ ।यून इति किम् ? गार्गिगाग्र्यो । तन्मात्रवैषम्य इति किम् ? गार्यवात्स्यायनौ ।मात्रग्रहणं किम् ? भागवित्तिभागवित्तिकौ । कुत्साधिकारे गोत्रादिकण् । सौवीरेष्वपीति कुत्साकृतमपि भागवित्तिशब्दाद् भागवित्तिकस्य वैरूप्यम् ।।७९।
८०. स्त्रिया पुंवच्च स्त्रिया गोत्रेण सह द्वन्द्वे यूनो लुग् भवति, अवशिष्टा स्त्री पुंवच्च प्राति ।। गोत्रयुवस्त्रीत्वमात्रवैषम्ये गार्गी च गाायणश्च गाग्र्यो । दाक्षी च दाक्षायणश्च दाक्षी । तन्मात्रवैषम्य इति किम् ? गार्गीवात्स्यायनौ ।। ८०।
८१. पुंसा स्त्रियाः सारूप्ये च पुंलिङ्गेन सह द्वन्द्वे सारूप्ये स्त्रीत्वमात्रवैरूप्ये च स्त्रीलिङ्गस्य लुग भवति । अश्वश्च अश्वा च अश्वौ | हंसी च हंसश्च हंसौ । रम्भोरुश्च रम्भोरू च रम्भोरू | युवा च युवतिश्च युवानौ । श्वाफल्क्यश्च श्वाफल्क्या च श्वाफल्कौ । इह स्त्रियामणो यङादिश्यते । सारूप्ये च गौर्धेनुः । गौवृषः । इमौ गावौ, करेणू, इमावोतू । इमौ तित्तिरी । व्यवस्थितवास्मरणात् तन्मात्रवैषम्ये समानाकृतावेवेह न स्यात् । कुशश्च कुशा च कुशकुशे | कुशश्च कुशी च कुश्यौ, कुशो दर्भः । कुशा रज्जुः, कुशी लौहफालः | सारूप्ये च नायं विशेषः- इमो दुन्दुभी । अक्षे स्त्री पुमान् भेाँ दुन्दुभिः । स्त्रीपुंसयोर्भिन्नाकृतावपि सारूप्ये द्वन्द्वः । तन्मात्रवैषम्ये सारूप्ये चेति किम् ? वडवातुरङ्गमौ, इन्द्रेन्द्राण्यौ । इह पुंयोगकृतमपि वैरूप्यम् । लिङ्गस्य तन्मात्रवैरूप्याद् - हंसी च हंसौ च हंसाः । एकश्च एका च, द्वौ च द्वे च, त्रयश्च तिम्रश्चेत्यत्र द्वन्द्व एव नाभिधीयते ।। ८१।
८२. बह्वर्थे ग्राम्यानेकशफेष्वतरुणेषु पुंसः ग्राम्यानेकशफेष्वतरुणेषु स्त्रीपुंसेषु द्वन्द्वे बह्वर्थे सारूप्ये स्त्रीत्वमात्रवैरूप्ये च पुंसो लुग् भवति । गावश्च धेनवो गावश्च वृषाः, इमा गावः | गावौ च नीलौ गावौ च नील्यौ, नील्यो गावः । स्त्रीत्ववैरूप्ये च - अजाश्चेमे अजाश्चेमाः अजा इमाः । एवं मेष्य इमाः महिष्य इमाः । बह्वर्थ इति किम् ? गौश्च धेनुः, गौश्च वृषः इमौ गावौ । इमावजौ । ग्राम्येति किम् ? कुरङ्गाश्च कुरङ्ग्यश्चेमे कुरङ्गाः । रुरवश्च मृगाः रुरवश्च मृग्यः इमे रुरवः । अनेकशफेष्विति किम् ? अश्वा इमे, गर्दभा इमे | अतरुणेष्विति किम् ? बर्करा इमे, वत्सा इमे । सारूप्यतन्मात्रवरूप्ययोरित्येव - मेष्युरभ्राः ।। ८२ ।
Page #619
--------------------------------------------------------------------------
________________
परिशिष्टम् - १
८३. भ्रात्रा स्वसुः पुत्रेण दुहितुः
भ्रात्रा सह द्वन्द्वे स्वसुः, पुत्रेण सह द्वन्द्वे दुहितुर्लुग् भवति । भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । पृथङ् निर्देशः स्पष्टार्थः । पितराविति मातरपितरार्थं प्रकृत्यन्तरम् । द्वन्द्वे तु मातापितृभ्याम्, मातरपितृभ्याम्, मातरपितराभ्याम् इति रूपाणि त्रीणि । एवं श्वशुरौ । द्वन्द्वे तु श्वश्रूश्वशुराविति ॥ ८३ ॥ ८४. शेषपूर्वयोस्त्यदादिभिः
५७७
त्यदादिभिः सह द्वन्द्वे शेषस्यात्यदादेः पूर्वस्य च त्यदादेर्लुग् भवति । यश्च मैत्रश्च यौ । स च मैत्रश्च तौ । स च यश्च यौ । स चासौ च अमू । स च त्वं च युवाम् | त्वं च अहं च आवाम् । अहं च भवांश्च भवन्तौ || ८४ | ८५. किमा परस्य च
किमा सह द्वन्द्वे परस्यापि त्यदादेर्लुग् भवति । कश्च त्वं च कौ । कश्च अहं च कौ । कश्च भवांश्च कौ । यैर्दुर्युक्तिकदाशया सूत्राण्यमूनि प्रत्याख्यातानि तैरेषु उभयप्रयोगो दुर्निवारः। सरूपपर्यायाभ्यां द्वन्द्वः प्रायो नेष्येत इति । एकश्च एकश्चोभौ च द्वौ च । वृक्षादेस्तु द्विवचनबहुवचने एकवचनवत् प्रकृत्यनुपात्ते संख्याने स्यातामेव । पञ्चकपक्षेऽपि एकत्ववदनेकत्वमपि प्रकृत्यर्थ इति यथास्वमभिव्यञ्जकानि वचनानि स्युः । वृक्षौ, वृक्षाः । अनेकस्वार्थवशादनेकजातीयस्याभिधानमप्येकेन स्यादेव । यथा - अक्षाः, पादाः, माषाः । न चैकैकस्य वृक्षादेरेकैकस्वार्थवशादनेकसजातीयव्यक्तिनिवेशेऽनेकस्वार्थपरिग्रहे वा अक्षादिराजशासनभीरस्ति । किं च कृतेऽप्येकदेशेऽनेकार्थाभिधानोपपत्तिस्तदवस्थैव । न चार्थानन्त्येन यादानन्त्यात् साकल्याभिधानमेकशेषेण शक्यमिति || ८५ |
८६. प्रकृतिवच्छेषम्
लुकि सति शेषं यत्र या प्रकृतिस्तद्वद् भवति । स च यश्च असौ च अमी । द्वन्द्वस्थत्वान्न विभाषा । सा च या च ये । का च भवती च के । वृत्तौ सर्वनाम्नः पुंवत्त्वेऽपि पुनः स्त्रीत्वम्, कथं स च या च याविति चेन्मण्डूकप्लुत्या वा पुंवदनुवृत्तेः । एतच्च समासाश्रयकार्यनिषेधार्धम् अपदत्वार्थं च ||८६ |
Page #620
--------------------------------------------------------------------------
________________
५७८
कातन्त्रव्याकरणम्
८७. नञ्तत्पुरुषस्योत्तरपदवत् ___ नञ्तत्पुरुषस्योत्तरपदवत् कार्यं भवति । अनेको ब्राह्मणः । करेणुः प्रस्थितानेकः । ‘अनेकस्य चकाराजौ बाणैर्वाणस्य खण्डनम्' । यदा तु विजातीयानामर्थानां प्रत्येकमनेकत्वं विवक्ष्यते तदा वचनान्तरमिच्छन्ति । धवश्च खदिरश्चोभावनेकौ । धवश्च खदिरश्च पलाशश्च प्रत्येक मनेक तया इमे अनेके | ‘धवखदिरपलाशा:' इत्यत्र तु द्वन्द्वार्थबहुत्वेऽनेकशब्दप्रयोग एव नास्त्यनेकत्वस्य द्वन्द्वादेवाधिगतेः । अनेकस्याधिकरणादप्येकवचनमेव प्रमाणम् । अबल्वजाः काशः, अनप्सरसो युवतिः, अवर्षाः हेमन्तः, अस्त्री भ्रुकुंशः । अमित्र इति प्रकृत्यन्तरं नञि अमित्रमिति स्यादेव । उक्तव्यत्यये तु शिष्टोक्त्या साधुत्वमिच्छन्ति । उक्तं हि वृद्धस्तत् - अनुग्रहश्च शिष्टेभ्यः इति । शिष्टास्तु इह मुनयः, न हि अंप्रमाणं ते भाषन्ते ।। ८७।
८८. विशेष्यवदेकाधिकरणस्य प्रायेण भिन्नप्रवृत्तिनिमित्तमेकार्थप्रयुक्तमेकाधिकरणं तस्य प्रायेण विशेष्यवत् कार्यम्भवति । अर्थाद् विशेषणस्य । दूराय ग्रामाय व्रजति, दूरं ग्रामं व्रजति, स्थूलेन वृषलेन कर्तव्यम्, स्थूलस्य वृषलस्य कर्तव्यम् । तुल्यार्थेऽपि न पृथग् विभक्ती । तथा वरणा गोमत्यः, दारा गोमन्तः, गोदौ बहुशस्यौ । प्रायेणेति किम् ? वरणादिवचनं नगरादेर्मा भूत् । वरणा नगरम्, गोदौ ग्रामः, बल्वजास्तृणम्, रेवती दाराः । सामान्ये विशेषस्य विशेषणतेष्यते । यथा मेरुमहीभृदिति । 'गोदौ रमणीयो ग्रामः' इति ग्रामविशेषणत्वात् । एकाधिकरणे विशेषणे नपुंसकैकत्वमपि प्रमाणम् । शक्यमोषधिपतेः कराः । 'शक्यं श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' (म० भा०) इति । उपात्तेऽपि विशेष्ये सामान्याश्रयत्वात् 'वेदाः प्रमाणम्' इति भाष्यस्थितिः । नियतलिङ्गानामसम्भवे व्यत्ययः । शेषो यवागूः, शेषं यवागूः । अझै भाण्डम्, अर्धं शिखा, सम्बाधः शाला, संबाधो वर्त्म, संबाधं बृहदपि तद् बभूव वर्त्म' इति च पठन्ति । प्रकाण्डं युवतिः, आदिः कलत्रम्, गुणः प्रधानम्, उपसर्जनं स्त्री । सम्भवे तु शेषं दधि, शेष ओदनः । 'तयात्मानं च शेषाश्च विद्याः पायान्महीपतिः' इत्यपि प्रयुक्तमेकः । प्रमाणशब्दस्तु साधनव्युत्पन्नो द्विधा । एको नपुंसकं प्रमाणं दृक्, प्रमाणं शब्दः । अन्यश्चान्यलिङ्गः प्रमाणः स्वामी, प्रमाणी स्त्री, प्रधाना हरितां मुद्गाः' इत्यादिदृष्टे: प्रधानशब्दस्यापि द्वयी गतिरिति लक्ष्यते । बहुचपूर्वस्य स्वलिङ्गतैव ।
Page #621
--------------------------------------------------------------------------
________________
परिशिष्टम् -१
५७९ बहुगुडो द्राक्षा, बहुतैलं सुरा , बहुतृणं नरः । औपचारिकेऽपि क्वचित् स्वलिङ्गम् । कुन्तेन स्त्रिया, यष्ट्या पुरुषेण, गौः कलत्रम् । क्वचिदन्यथा - कोष्टुने अरण्याय । 'शिरो मेऽश्रि यशोमुखम्' इति भाष्यम् । अतो हि स्मरन्ति लिङ्गस्य लोकाश्रयत्वादिति ।। ८८ ।
८९. न मनुष्यो लुपि लिङ्गम् मनुष्येऽर्थे कप्रत्ययस्य लुपि सति तत्प्रत्ययान्तस्य यदेकाधिकरणं तस्य तल्लिङ्गं न भवति । चञ्चा गौरः, खरकुटी श्यामः । इवार्थे कः, तस्य मनुष्ये लुप् । लिङ्गमिति किम् ? चञ्चाया गौरस्य रुजति ।। ८९।
९०. नपुंसकानपुंसकयोर्नपुंसकमेकवद् वा नपुंसकानपुंसकयोर्युगपदेकाधिकरणं नपुंसकलिङ्गं भवति, एकवच्च वा भवति । कुड्यं च पन्थाश्च शुक्ले, कुड्यं च पन्थाश्च शुक्लम् । कुड्यं च रथ्या च मृदुनी, कुड्यं च पन्थाश्च मृदु । हृदयं च जङ्घा च पाणिश्च दृढानि, हृदयं च जङ्घा च पाणिश्च दृढम् ।।९०।
९१. नित्यमसंख्यस्य असंख्यो धातुरव्ययं च स्वभावात्, तस्यैकाधिकरणं नपुंसकम् एकवच्च नित्यं भवति । मन्दं पचति शीघ्रमोदनः । पच्यते शीघ्रं भूतः । अव्ययस्य चेदं स्वः कामयते । भद्रं नमस्तस्मै । शुचिनि प्रातः, शुचिनि नक्तम् ।।९१।
९२. कर्मण्यप्रधाने दुहादिभ्यः दुहादिभ्योऽप्रधाने कर्मणि प्रत्ययो भवति । गौः पयो दुह्यते । गौः पयो दुग्धा, शिष्यो धर्ममुच्यते, शिष्यो धर्मं वाच्यः, पान्थः पन्थानं पृच्छ्यते, पान्थः पन्थानं पृष्टः । नाथः कम्बलं प्रार्थ्यते, नाथः कम्बलं प्रार्थितः, छात्रो निष्कं जीयते, छात्रो निष्कं जेतव्यः, ग्रामः शतं दण्ड्यते, ग्रामः शतं दण्डितः । जलधिरमृतं मथ्यते, जलधिरमृतं मथितः । शिष्यो धर्ममनुशिष्यते धर्ममनुशिष्टः । व्रजो गामवरुध्यते, व्रजो गामवरुद्धः । वृक्षः फलानि चीयते, वृक्षः फलानि चितः । इनन्तानामप्येषामियमेव व्यवस्था न चेत् प्रयोज्यं कर्म । दोह्यन्ते गावः पयो भृत्यैर्नाथेन । सति प्रयोज्यकर्मणि तत्रैव वाच्यते शिष्यं धर्म प्रजा आचार्येण । पञ्चमीनिर्देशात् षष्ठी तु द्वितीयावद् उभयोः । दोग्धा क्षीरस्य गवाम्, दोहः क्षीरस्य गवाम् ।।९२।
Page #622
--------------------------------------------------------------------------
________________
५८०
कातन्त्रव्याकरणम्
९३. प्रधाने वह्यर्थकृषः वह्यर्थात् कृषश्च प्रधाने कर्मणि प्रत्ययो भवति । उह्यते ग्रामं भारः, ऊढो ग्रामं भारः, ह्रियते कुम्भो भारम्, नीयते भारो ग्रामम् । अहारि कुम्भो भारम् । कृष्यते शाखा ग्रामम्, कृष्टा शाखा ग्रामम् । इनन्तानामप्येषामियमेव व्यवस्था, न चेत् प्रयोज्यं कर्म । वाह्यते भारो ग्रामं देवदत्तेन, नाव्यते भारो ग्रामम्, हार्यते भारो ग्रामम्, कर्ण्यते शाखा ग्रामम् । सति तु प्रयोज्ये कर्मणि तत्रैव । बाह्यते गोणी ग्रामं वृषभो भृत्येन । हार्यते ग्रामं भारं भृत्य ः स्वामिना । पञ्चमीनिर्देशात् षष्ठी द्वितीयावद् अप्रधानेऽपि । वोढा ग्रामस्य भाराणाम्, नेता कुम्भस्य कूपानाम्, हर्ता भारस्य भाण्डानाम्, कर्ता क्षेत्रस्य कण्टकानाम् । नैयासिकास्तु षष्ठीमपि प्रधाने कर्मण्याहुः ।। ९३ ।
९४. इनः कर्तृकर्मणि इनन्तात् कर्तृकर्मणि कर्मप्रत्ययो भवति । गम्यते भृत्यो ग्रामम्, न प्रसादमुचितं गमिता द्यौः । अध्याप्यते वेदं माणवकः । भोज्यते माणवक ओदनम् । ज्ञाप्यते माणवकः शास्त्रम् । अभिवाद्यते पुत्रो गुरुम् । कार्यते भृत्यः कटम् । कर्मान्तरसम्भवे नियमोऽयमिति कर्तृकर्मणोरभावे कर्मान्तरेऽपि स्यादेव । गौय्यिते, ओदनः पाच्यते ।गुरुरभिवाद्यते शिष्यः प्रजाभिः ।।९४।
९५. प्रकृतिविकृत्योः प्रकृतिवच्च कर्तृभूतयोः कर्मभूतयोश्च प्रकृतिविकृत्योर्युगपत् प्रत्ययो भवति, प्रकृतिवच्च लिङ्गपुरुषवचनानि भवन्ति । त्वमहमभूः । अहं त्वमभूवम् । तृणानि कटः सम्पन्नानि, तन्तवः पटो भवन्ति । एको द्वौ भूतः । कर्मणि च – काशाः कटः क्रियन्ते, मृद् घटः कृता, त्वमहं क्रियसे, अहं त्वं क्रिये, अनहं त्वमकारि, अनहमहं क्रियते ।। ९५ |
९६. भावाख्यातं ध्रौव्यात् ध्रौव्यादकर्मकादेव भावे विहितमाख्यातं भवति । शय्यते त्वया, अवर्द्धि विधुना, जीविष्यते मया । ध्रौव्यादिति किम् ? पच्यन्ते माषाः। त्रिमुनिसंग्रहकारास्तु पूर्वमविवक्षितकर्मत्वान्माषान् पच्यते इत्यपीच्छन्ति । आख्यातग्रहणं किम् ? ग्रामं गन्तुं समयः, माषस्य पाकः । कृत्यक्तखलास्त्विह सकर्मकादपि भावे स्युरेव । कां दिशं मया गन्तव्यम्, भ्रान्तं दिशम्, ईषत्करः कटम् ।। ९६ ।
Page #623
--------------------------------------------------------------------------
________________
५८१
परिशिष्टम् -१ ९७. धातोः कर्तर्यप्रयोज्ये
अप्रयोज्ये कर्तरि धातोः प्रत्ययो भवति । ओदनं पाचयति भृत्येन गृही, ओदनस्य पाचयिता भृत्येन गृही । इन्नर्थोपसर्जनस्यापि क्रियायाः कारके प्रत्ययोऽस्ति । यथा ओदनः पाच्यते, पाचयत्योदनं भृत्येन गृही । तस्मादयमारम्भः ।।९७।
९८. नाव्ययकृदविधिः क्रियान्तरकारके क्रियान्तरस्य कारकेऽव्ययकृदन्तनिबन्धनो विधिन भवति । भोक्तुमोदनस्य पाचकश्छात्रः । पक्त्वौदनस्य भोक्ता | भोक्तुं स्थितिरस्य । भुक्त्वाऽस्य व्रज्या । एष्वव्ययकृदन्तनिबन्धनः षष्ठीनिषेधो न स्यात् । पक्त्वौदनो भुज्यते, पक्त्वौदनो भुक्तः, पक्त्वौदनं भुक्तवानहम्, भोक्तुमोदनः पक्वः, भोक्तुमिष्टाः शालयः । भोक्तुमिच्छत्ययम्, ग्राहं ग्राहमुप्ता व्रीहयः, ग्राहं ग्राहमयं व्रीहीन् वपति । एष्वव्ययकृदन्तापेक्षे कारके न द्वितीयादिः, किन्तु क्रियान्तरापेक्षस्य तस्योक्तत्वात् प्रथमैव । क्वचिन्निपातस्यापि कारकाभिधानशक्तिः । मनस्विगर्हितः पन्थाः समारोढुमसाम्प्रतम्' । क्रियान्तरकारक इति किम् ? छात्रेण भोक्तुं समयः । कटं कृत्वा घटः क्रियते ।।९८ |
९९. कर्मप्रवचनीयः एषोऽधिक्रियते || ९९।
१००. अभिरित्थम्भावलक्षणीप्सासु एष्वर्थेष्वभिः कर्मप्रवचनीयः स्यात् । इत्थंभावः कस्यचित् प्रकारस्यापत्तिः । साधुर्देवदत्तो मातरमभि, वृक्षमभि विद्योतते विद्युत्, वृक्षं वृक्षमभि षिञ्चति ।।१००।
१०१. परिप्रती भागे च इत्थम्भावादिषु त्रिषु भागे च परिप्रती कर्मप्रवचनीयौ भवतः । कुशलोऽसि छात्र ! अक्षान् परि । कुशलोऽसि छात्र ! अक्षान् प्रति । वृक्षं परि, वृक्षं प्रति विद्योतते विद्युत् । वृक्षं वृक्षं परि, वृक्षं वृक्षं प्रति काकाः । यदत्र मां प्रति, यदत्र मां परि तद् देहि ।। १०१ ।
१०२. तेष्वनुः . तेषु चतुर्वर्थेष्वनुः कर्मप्रवचनीयो भवति । साधुवृषलो ब्राह्मणाननु, वृक्षमनु विद्योतते विद्युत्, वृक्षं वृक्षमनु, यदत्र मामनु तद् देहि ।। १०२ ।
Page #624
--------------------------------------------------------------------------
________________
५८२
कातन्त्रव्याकरणम्
१०३.
हेतौ
तावर्थेऽनुः कर्मप्रवचनीयो भवति । कारीमनु वर्षति । हेतौ तृतीया न
स्यात् ।। १०३ ।
१०४. सहार्थे च
कर्मप्रवचनीयो भवति । शूरमनु युध्यन्ते । आढ्यमनु क्रीडन्ति ।
सहार्थे
चानुः
शूरेण आढ्येन सहेत्यर्थः ।। १०४ ।
१०५. उपश्च हीने
हीनेऽर्थे उपोऽनुश्च कर्मप्रवचनीयो भवति । उपशक्रं राजानः, अनुशक्रं
राजानः ।। १०५ ।
१०६. उपसर्गाः प्राक् प्रादयो धातुयोगे
धातुयोगे सति प्रादयो निपाता उपसर्गसंज्ञका भवन्ति, ते च धातोः प्राक् । तेषां द्विधा धातुयोगः, क्वचिदर्थविशेषत्वेन । यथा प्रपचति, सम्पचति । क्वचिदर्थान्तराभिधानसाहाय्येन । यथा प्रतिष्ठते, परिणयते । कमपि विशिषन्नर्थं कमपि च संभूय धातुनाभिदधद् धातुभिरभिसंबन्धं समृच्छति द्वैधमुपसर्गः । 'प्रपरिपरासमुपाधिन्यपनिरभिव्याङ्युदन्वतयः प्रत्यपिदुरमी' विंशतिरुपसर्गा धातुयोगे स्युः । प्रागुपसर्गनिपातः सोऽधिक्रुध्योऽधिशय्यते खट्वा । प्रागुपसर्गविधिभ्यः प्रत्ययविधिरिष्यते लिङ्ङ्गैः, लाक्षणिकस्य गुणोक्तेः संयोगादेरडादितानियमात् । सञ्चस्करुः, समस्कृत | सुट् द्विर्वचनाद् अटश्च प्राक् । धातुयोग इति किम् ? दुष्टो नयो दुर्नयः । कथम् अवदत्तं दुर्नयति । धातुयोगेऽपि निपातगणे द्विः पाठादस्त्युपसर्गप्रतिरूपकाणामनुपसर्गतेति ।। १०६ । १०७. क्यणेष्वन्तर्
किप्रत्ययेऽङि च नस्य णत्वे कर्तव्येऽन्तरुपसर्गो भवति । अन्तर्द्धिः, अन्तर्धा, अन्तर्हण्यते, अन्तर्घाणम् । एष्विति किम् ? अन्तरूहते, अन्तरुह्यते । उपसर्गाश्रयं परस्मैपदं ह्रस्वश्च न स्यात् || १०७ ।
Page #625
--------------------------------------------------------------------------
________________
परिशिष्टम् - १
१०८ श्रत् प्रायो धाञि
1
प्रायो धाञ श्रदुपसर्गो भवति । श्रद्धा, श्रद्धत्ते श्रद्दधानः । प्रायः इति किम् ? श्रद्धाता, श्रद्धायः । उपसर्गे त्वातो डः किश्च न स्यात् ।। १०८ ।
१०९. न प्राकाम्यचार्थसम्भावनगर्हमात्रास्वपिः
५८३
एष्वर्थेष्वपिरुपसर्गे न भवति । प्राकाम्यं यथेष्टानुमतिः । अपि सिञ्च अपि स्तुहि । इह धात्वर्थोऽनुमन्यते । चार्थः समुच्चयः । अपि सिञ्च अपि स्तुहि । सिञ्च च तुहि चेत्यर्थः । इह क्रिया समुच्चीयते । संभावनं योग्यताध्यवसानम् । अपि सिञ्चन्मूलसहस्राणि, अपि स्तुयाद् राजानम् । इह क्रिया सम्भाव्यते । गयाम् - अपि सिञ्चेत् पलाण्डून् ब्राह्मणः । अपि स्तुयाद् वृषलम् । इह धात्वर्थः कुत्स्यते । मात्रा, लेशः, किञ्चिद् इत्यनर्थान्तरम् । अपि सिञ्चति, मनाग् इत्यर्थः । इह धात्वर्थो विशिष्यते । एष्वनुपसर्गत्वात् षो न स्यात् । एष्विति किम् ? अपि षिञ्चति, अपिधाय गतः । षत्वम् उपसर्गसमासश्च स्यात् || १०९ |
११०. सुः पूजायाम्
पूजायामर्थे सुरुपसर्गो न भवति । सुस्तुते, सुसिञ्चति, सुस्थितः, सुस्थितिः । धात्वर्थोऽत्र स्तूयते । पूजायामिति किम् ? सुषेकः ।। ११० । १११. अतिक्रमे चातिः
फलोदये क्रियानिवृत्तिरतिक्रमः तस्मिन् पूजायां चार्थेऽतिरुपसर्गो न भवति । अतिसिञ्चति शालीन्, सिञ्चत्यति शालीन् । अति स्तुये राजन्यम्, स्तुयेऽति राजन्यम् । शोभनं स्तौतीत्यर्थः। अनयोरिति किम् ? अतिषिञ्चति ।।१११ ।
११२. अधिपरी सिद्धार्थों
प्राप्तार्थावधिपरी नोपसर्गौ भवतः । करोत्यधि, अधिकरोति, गच्छत्यधि, अधिगच्छति,
परिकरोति करोति परि । अधिपर्योरुपरिभावः सर्वतोभावश्चार्थः, तौ यदा कुतोऽप्यवगम्येते तदैवोदाहरणम् । प्रयोगास्तु स्वरूपाविर्भावार्था एव । कर्मप्रवचनीयानां तु साक्षाद् धातुयोगो नास्तीत्यनुपसर्गता सिद्धैव ।। ११२ ।
॥ इति महामहोपाध्याय श्री श्रीपतिदत्तविरचितकातन्त्रपरिशिष्टे कारकप्रकरणं समाप्तम् ॥
1
Page #626
--------------------------------------------------------------------------
________________
॥श्रीः॥ परिशिष्टम् - १ श्रीश्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम्
स्त्रीत्वप्रकरणम्
१. स्त्रियामी स्त्रीत्वयोगिन्यर्थे वर्तमानाद् ईप्रत्ययो भवतीत्यधिकर्तव्यम् । स्त्रीत्वमिहार्थानुगतं प्रकृतिविशेषवाच्यं शब्दसंस्कारानुगुणं धर्मान्तरं न तु योन्यादिमत्त्वं स्त्रीत्वम् । 'कलत्रम्' इत्यत्र सत्यपि तद्विरहात् । तटीत्यसत्यपि तल्लक्षणयोगाच्च, यत् पुनः ‘उष्ट्री' इत्यादौ योन्यादिमतीं व्यक्तिः प्रतीयते तत् तत्रैवास्य स्त्रीत्वस्याभ्युपगमात् । यथा 'दुन्दुभ्यः' इति स्त्रीत्वादक्षावगमः, एवं पुनपुंसके च, तानि च स्वभावाद् युगपदेव लिङ्गरभिधीयन्ते इति न तटीप्रभृतिषु सङ्करापत्ति :
शब्दसंस्कारसिद्ध्यर्थमुपायाः परिकल्पिताः। सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः॥१। ये तु योन्यादिसम्बन्धाः प्राणिजातीयगोचराः। न तेऽभ्युपायाः संस्कारे कलत्रादितटादिषु ॥२॥ त्रिलिङ्गत्वेऽपि वस्तूनां शब्दानामीदृशी गतिः। गृह्णन्ति यदमी लिङ्गम् एकं द्वे त्रीणि वा न वा ॥३॥ स्त्रीत्वमश्वाः कुरङ्गीति लौकिकं यत् प्रतीयते। तत् तदन्वयिनि द्रव्ये शास्त्रीयस्त्रीत्वसंभवात् ॥४।१।
२. इतोऽक्त्यर्थादनादेशाद् वाऽकतेः क्तयर्थवर्जितादकतेरनादेशादिकारान्तात् स्त्रियाम् ईप्रत्ययो भवति वा । श्रेणिः, श्रेणी । रजनी, रजनिः । वाणी, वाणिः । पाली, पालिः । हली, हलिः । पुरन्ध्री, पुरन्ध्रः । तुलाकोटी, तुलाकोटिः । रात्रिः, रात्री । शाली, शालिः । शुची, शुचिः । स्त्रीपुंसयोत्तेः'वीची, शृणी, मणी, ऊर्मी, केली, मसी' इत्यपि स्यात् । प्रकृतिविशेषणत्वात् त्यर्थवर्जनाच्च उक्तेऽपि स्त्रीत्वे स्त्रीप्रत्ययः ।
Page #627
--------------------------------------------------------------------------
________________
परिशिष्टम् - १
५८५
,
विषविषमा मधुरा हि युवत्यः । यथा व्यावक्रोशी, पचा, उपासनेति, तथा कश्चित् कृदीकारादीमिच्छन् लक्ष्मीयमिति मन्यते । अत्यर्थादिति किम् ? धृतिः, ज्यानिः, अजीवनिस्ते कां कारिः क्रियते । शास्तिरित्यपि शासेरिनन्ताद् विज्ञप्तिवद् युविषये क्वचित् क्तिः । तथा च पाचयतेः पाक्तिः, याजयतेर्याष्टिरिति भाष्यम् । पद्धती, यष्टी, शक्ती शस्त्रम् इत्यौणादिकाद् ईः । अनादेशादिति किम् ? सुगन्धिः स्रक्, युवजानिः पूः। इह ‘“गन्धस्येत्, जायाया जानिश्च" आदिश्यते । अकतेरिति किम् ? कति कन्यकाः। तदन्तादपि प्रियकतिरियं गणिका, प्रियकतीनि, प्रियकतीन्, प्रियकती: पश्यतीह निश्चितम् ||२|
३. इण् नृजातिभ्याम्
इणन्तान्नृजातेश्च इदन्तान्नित्यम् ईप्रत्ययो भवति । सुतङ्गमेन निर्वृत्ता सौतङ्गमी पूः, एवम् औणचित्ती । सुतङ्गमादेरिग् देशे तेन निर्वृत्ते । इन्द्रस्यापत्यम् ऐन्द्री देवता । नृजातेश्च कुन्ती, अवन्ती, गोत्रत्वाज्जातिः । गोत्रग्रहणं किम् ? तित्तिरिः । नृशब्दोऽत्र मनुष्यपर्याय: । इत इत्येव - अध्वर्युः स्त्री । चरणत्वाज्जातिः ।। ३ ।
४. उतो गुणवचनादखरुसंयोगोपधाद् वा खरुसंयोगोपधवर्जितादुकारान्ताद् गुणवचनाद् ईर्भवति वा । पट्वी, पटुः स्त्री । लघ्वी, लघुः । लघ्वीति मानविशेषे नित्यं रूढित्वात् । बह्वी, बहुः । अखरुसंयोगोपधादिति किम् ? खरुः, पाण्डुः स्त्री । खरुः श्वेतार्थो गुणवचनः || ४ | ५. संख्यादेर्दाम्नः
स्त्रियां संख्यापूर्वाद् दाम्नो नित्यमीर्भवति । द्विदाम्नी, त्रिदाम्नी रज्जुः । संख्यादेरिति किम् ? सुदामा गौः || ५|
६. हायनाद् वयसि
स्त्रियां संख्यादेर्हायनाद् वयसि गम्यमाने ईर्भवति । द्विहायनी, त्रिहायणी गौः । वयसीति किम् ? द्विहायना शाला || ६ |
७. अनो बहुव्रीहेर्वा
स्त्रियामनन्ताद् बहुव्रीहेर्वा ईर्भवति । बहुराज्ञी, बहुराजा पूः । मनन्तादपि बहुव्रीहौ विधिरयं न तु मनन्तलक्षणो निषेधः । ' तनुमवजितलोकसारधाम्नीम्' इति । 'अधिराज्ञी ग्रामः' इति नित्यं संज्ञात्वात् ||७|
Page #628
--------------------------------------------------------------------------
________________
५८६
कातन्त्रव्याकरणम्
८. नालोप्यातः अलोप्योऽत् यस्य तस्मादनो बहुव्रीहेरीन भवति । बहुयुवा पू: । सुमघवा द्यौः । सुपर्वा, सुकर्मा कन्या । बहुव्रीहेरित्येव - अतिपर्वणी यष्टिः । वमसंयोगनिषेधे तु 'बहुयुवा' इत्यत्र कथन्न स्यात् ।।८।
९. स्त्र्याख्यादृतः नित्यस्त्रीलिङ्गाद् ऋकारान्ताद् ईर्न भवति । 'याता, माता, स्वसा, दुहिता, ननान्दा,तिनः, चतनः' इत्यसिद्धत्वाच्च ।स्त्रीप्रत्ययादृतेऽपि स्त्रीत्वावगमान्निषेधोऽयमनर्थक इति वार्तम् । ‘अतिमाता' इत्युपसर्जने तदभावाद् भूम्यादिभ्योऽप्यप्रसक्तेः, तयर्थवर्जनवैयर्थ्याच्च । स्त्र्याख्यादिति किम् ? नप्त्री, कैश्चिद् नप्तेयं कन्येति चेष्यते ।। ९ ।
१०. नः संख्यायाः नान्तायाः संख्याया ईर्न भवति । पञ्च स्त्रियः, नव कन्यकाः । अनर्थकोऽयमारम्भः । उक्तं हे भाष्ये - नान्ताभ्य: संख्याभ्यो निषेधानर्धक्यं लिङ्गाभावादिति । तर्हि उपसर्जनार्थम् अतिपञ्चानः, प्रियपञ्चानो दास्यः । तत्राप्यलिङ्गतेति चेत् ‘प्रियपञ्चानि कुलानि' इति शिभावः । पट्वतिपञ्चेति पुंवच्च न स्यात् । किञ्चालिङ्गत्वे पञ्चादीनां प्रियपञ्चा, कडारपञ्चेति पुंवन्न स्यात्, अतोऽप्ययमारम्भः ।।१०।
११. मनश्च मनन्ताच्च ईर्न भवति । ददातीति दामा स्त्री । सीमा, पामा । मनोऽनर्थकादपि अतिपटिमा स्त्री ।।११।
१२. आत् प्रधानात् अनुपसर्जनमिह प्रधानम्, आदिति प्रधानादिति च द्वयमधिकर्तव्यम् ।। १२ ।
१३. जातेरस्त्याख्यादनजादेः अजादिवर्जितादस्त्र्याख्यात् प्रधानाददन्ताज्जातिशब्दादीर्भवति । ब्राह्मणी, वृषली, किन्नरी, पिशाची, हंसी, कुक्कुरी, सी, कुरङ्गी, कठीति चरणत्वात् । कौञायनीति गोत्रत्वात् । अस्त्र्याख्यादिति किम् ? मक्षिका, बलाका । अनजादेरिति किम् ? अजा, चटका, मूषिका ।
Page #629
--------------------------------------------------------------------------
________________
५८७
परिशिष्टम् -१ अजचटकमूषिकैडकपरभृतपरपुष्टकोकिलावरटाः।
अश्ववराटकवर्तकपिपीलकप्रभृतयोऽन्येऽपि ॥ पिपीलिकोऽपि स्त्रीपुंसयोरिति मतम् । आदित्येव - तित्तिरिः । प्रधानादित्येव अब्राह्मणा भूः ।।१३।
१४. शूद्रान्महतः महत्पूदिव शूद्रादीर्भवति । महाशूद्री आभीरी । नियमः किम् ? शूद्रा कन्यका, शूद्रा द्विजभार्या । पुंयोगे तु शूद्री स्यादेव ।।१४।
१५. हयगवयसुकयमत्यर्षमनुष्याद् योपधात् योपधाज्जातिशब्दाद् हयादेरेव ईर्भवति ।हयी, गवयी, सुकयो मृगभेद:- सुकयी, मत्सी, ऋष्यी, मनुष्यी ।नियमः किम् ? वैश्या, क्षत्रिया । कथं गार्गी, वात्सीति गगदिर्घ्यद् वक्ष्यते ।।१५।
१६. पाक - कर्ण- पर्ण- बालान्तात् पाकाद्यन्ताज्जातिशब्दादीर्भवति ।स्त्र्याख्यार्थोऽयमारभ्यते । ओदनपाकी,शकुकर्णी, शालपर्णी, गोबाली । जातेरित्येव - सुपाका स्त्री ।।१६।।
१७. असंभस्त्राजिनशणपिण्डेभ्यः फलात् समादिभ्योऽन्यपूर्वात् फलादीर्भवति । पूतिफली, रक्तफली। असमादिभ्य इति किम् ? सम्फला, भस्त्राफला, अजिनफला, शणफला, पिण्डफला । जातेरित्येवस्थूलफला शाखा ।।१७।
१८. असत्याकाण्डप्रान्तशतैकेभ्यः पुष्पात् सदादिभ्योऽन्यत्पूर्वात् पुष्पादीर्भवति । शङ्खपुष्पी, चोरपुष्पी । असदादिभ्य इति किम् ? सत्पुष्पा, प्राक्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा |जातेरित्येव - घनपुष्पा सक् ।।१८।
१९. मूलादनञः नञोऽन्यपूर्वान्मूलादीर्भवति । बहुमूली, शतमूली । अनञ इति किम् ? अमूला । जातेरित्येव - दृढमूला वीरुत् ।। १९ ।
Page #630
--------------------------------------------------------------------------
________________
५८८
कातन्त्रव्याकरणम्
२०.अण्-एयण-इकण्-नण्-स्नण-क्वरप्षडनुबन्धात् अणाद्यन्तेभ्यः षडनुबन्धाच्च ईर्भवति । अण्-औपगवी, शाङ्गवेरी, कैकेयी, दैवकी, काण्डलावी | चुरा शीलमस्याश्चौरी, तपः शीलमस्यास्तापसी | आभ्यां शीले अण् । एयण - ऐणेयी त्वक् । एण्या एयण् । नादेयी-शेषे नद्यादेरेयण् । इकण - आक्षिकी, औदश्वित्की, धानुष्की । नण् - स्त्रैणी । स्नण् - पौंस्नी । क्वरप् - जित्वरी, नश्वरी । षानुबन्धात् - नर्तकी, खनकी, जल्पाकी, लुण्टाकी । टानुबन्धात्-कफघ्नी, पित्तघ्नी । ईशेरौणादिको वरट - ईश्वरी । कथम् - 'विन्यस्तमङ्गलमहौषधिरीश्वरायाः' । कसिपिषातिवरप्रत्यये स्यादेव | कुरुचरी, मद्रचरी । अनुचरी, सहचरीति नदादित्वादी | तन्त्रान्तरे चरडिति पचादौ पठ्यते ।
खविधौ धेटष्टकारः धेटः खशोऽनुबन्धायेत्यागमः, तेन मुष्टिन्धयी, स्तनन्धयीति यौगिकत्वेऽपि । एवं च धेड्दृशीत्यत्रापि टकारस्यानन्यार्थकत्वाद् उद्धयीति सम्भाव्यते । धेटष्ट्रणः षानुबन्धत्वं तृरार्थम्, तेन नद्धीति । षटोरुपादानमन्योऽन्यस्यानित्यार्थम्, तेन दन्शेः ष्ट्रणि दंष्ट्रा । किंयत्तबहुषु कृअष्टे किङ्करा, यत्करा, तत्करा, बहुकरा । किङ्करीति जातिश्चेत् । तथा युटि पूर्वापहायणा, परापहायणा, सम्परापहायणा । णत्वं चेष्यते प्रधानादित्येव । बहुकुम्भकारा पूः । कथम् आपिशलीया स्त्री, इह प्रोक्तादणो लुगिति ।।२०।
२१. वयस्यनन्तेऽहोडादेः अनन्ते वयसि अहोडादेरदन्तादीर्भवति । कुमारी, किशोरी, कलभी, बर्करी । वधूटी, चिरण्टी । आभ्यां युवतिरभिधीयते । तरुणी । येषां मते खश्विधौ धेटष्टकारस्य सुखनिर्देशः प्रयोजनं तेषां स्तनन्धयीति प्रथमवयस्येति रूढम् । स्तनपा उत्तानशयेत्यपि तथेति चेत् होडादौ पाठः । वयसीति किम् ? त्रिवर्षा, लोहितपादिका । न ह्येतौ वयसि वर्तेते इति । अनन्त इति किम् ? वृद्धा, स्थविरा । अहोडादेरिति किम् ? होडा, बाला, वत्सा, मत्स्या, मध्या, पाका, डिम्भा, कन्या, नन्दा । आदन्ता ये बालाद्यस्तेिऽपि ख्याता होडादौ नः । प्रधानादित्येव-बहुकुमारा रथ्या ।।२१।
Page #631
--------------------------------------------------------------------------
________________
५८९
परिशिष्टम् -१
२२. पुत्रमातामहपितामहेभ्यः एभ्य ईर्भवति । पुत्री, मा भैषीः पुत्रि ! सीते । 'सुतपुत्री । राजपुत्री, सुतदुहिता, राजदुहिता' इति च स्यादेव । अतो न सुतादिभ्यो दुहितुः पुत्रताऽतिदिश्यते । मातामही, पितामही, अपुंयोगार्थमनयोरारम्भः ।।२२ ।
२३. पूरणे डमथेभ्यः पूरणेऽर्थे डमथेभ्यः प्रधानेभ्य ईर्भवति । एकादशी, पञ्चमी, कतिथी ।।२३।
२४. भाजात् पक्वे भाजात् पक्वेऽर्थे ईर्भवति । भाजी, शाकव्यञ्जनभेदः । अन्यत्र भाजा ||२४|
२५. गोणादावपने गोणादावपनेऽर्थे ईर्भवति । गोणी, व्रीह्यादिवपनार्थपात्रान्तरम् आवपनम् । अन्यत्र गोणा ।।२५।
२६. नागात् स्थूले नागात् स्थूलेऽर्थे ईर्भवति । नागी स्थूला | अन्या नागा । कथं नागी काद्रवेयी, नागी करेणुः ? जातित्वात् ।।२६।।
२७. कुशादायसे कुशादयसो विकारेऽर्थे ईर्भवति ।कुशी फालाख्या ।अन्यत्र आयसी कुशेति ।।२७।
२८. कामुकाद् रिरंसौ रिरंसौ मैथुनेच्छौ कामुकादीर्भवति । यूनां कामुकी । अन्यत्र धनस्य कामुका । कथं सुरतस्य कामुका ? इहापीच्छौ कामुकशब्दो वर्तते न तु सुरतेच्छाविति ।।२८।
२९. नीलात् प्राण्योषध्योः नीलादनयोरीभवति । नीली गौः । नीली नामौषधिः । अनयोरिति किम् ? नीला माला (मणिः) । कथं नीला कगुः ? ओषधौ जात्यभिधाने हि विधिः ।।२९।
३०. वा संज्ञायाम् नीलात् संज्ञायाम् ईर्भवति वा । नीली, नीला ।।३०।
३१. चण्ड-कृपण-पुराणोदर-कल्याण-विशाल-विकटविशकटोपाध्याय-साधारण-सहायावाल-शोणेभ्यश्च
Page #632
--------------------------------------------------------------------------
________________
५९०
कातन्त्रव्याकरणम्
एभ्य ईर्भवति वा । चण्डी, चण्डा । कृपणी, कृपणा । पुराणी, पुराणा । उदारी, उदारा | कल्याणी, कल्याणा । विशाली, विशाला | विकटी, विकटा । विशङ्कटी, विशङ्कटा । उपाध्यायी, उपाध्याया । साधारणी, साधारणा । येषां साधारणात् स्वार्थे अण् तदन्तादीस्तेषां ‘साधारणीभार्यः' इति पुंवत्त्वप्रतिषेधः । सहायी, सहाया | अबाली, अबाला । शोणी, शोणा | चकारात् 'कमली, कमला' इत्यपीच्छन्ति ।। ३१ ।
३२. श्येतैतहरितलोहितानां तो नश्च एषाम् ईर्भवति वा तत्सन्नियोगे च तकारस्य नकारादेशश्च । श्येनी, श्येता | एनी, एता | हरिणी, हरिता । लोहिनी, लोहिता | नक्षत्रे रोहिणीति रूढम् ।।३२ ।
३३. असितपलितयोः क्नश्च अनयोरीभवति वा, तत्सन्नियोगे च तकारस्य क्नादेशश्च । असिक्नी, असिता । पलिक्नी, पलिता | भाषायामप्ययं विधिरिष्यत एव || ३३ ।
___३४. घटकुम्भात् पात्रे घटकुम्भात् पात्रेऽर्थे च नित्यमीर्भवति । घटी, कुम्भी पात्रम् । अन्यत्र घटा, कुम्भा ||३४|
३५. पिण्डादन्नाङ्गयोः पिण्डादन्नेऽङ्गे चार्थे ईर्भवति । पिण्डी सक्तूनाम् । पिण्डी शरीरस्य । अन्यत्र पिण्डा ।।३५।
३६. स्थलादकर्तृक अकर्तृकऽर्थे स्थलादीर्भवति । स्थली मरुर्धन्वा । स्थलं स्थलीति भागुरिः । अन्या स्थली, या अन्नाद्यर्थं क्रियते । न ह्यकर्तृकोऽवयवीत्यर्थात् कर्तेह मनुष्यो निषिध्यते ।।३६ ।
३७. कबरात् कैश्ये केशसमूहविशेषेऽर्थे कबराद् ईर्भवति । कबरी । अन्यत्र कबरा ||३७।
३८. कालात् कृष्णे कृष्णेऽर्थे कालादीभवति । काली । अन्यत्र काला ||३८ ।
Page #633
--------------------------------------------------------------------------
________________
परिशिष्टम् - १
३९. चान्द्रभागादनद्याम्
अनद्यामर्थे चान्द्रभागादीर्भवति । चन्द्रभागे भवा चान्द्रभागी द्युतिः । अनद्यामिति किम् ? चन्द्रभागो नाम गिरिः, ततः प्रभवतीति अणि वृद्धिः, चान्द्रभागा नदी ।। ३९ । मामकाद् रूढौ
५९१
४०.
मामकाद् ईर्भवति रूढौ । मामकी देवताभेदः । रूढाविति किम् ? ममेयं मामिका भूः ।। ४० ।
४१. सुमङ्गलादेश्च
सुमङ्गलादेश्च रूढादीर्भवति । सुमङ्गली, केवली, समानी; अवरी । पातेः पःपापी । एवं प्रवृद्धविलूनी, रेचकी, रजस्वली, देवकी, भिक्षुकी प्रव्रजितायाम् । केकयी, रूढावित्येव । सुमङ्गला, केवला, समाना, अवरा, प्रवृद्धविलूना, पापा, रजस्वला । आकृतिगणोऽयम् || ४१ |
४२. गौर - शबल – शारङ्ग – पिशङ्ग – कल्माषात् एभ्य ईर्भवति । गौरी, शबली, सर्तेरङ्गचि वृद्धिरिति वृद्धाः - सारङ्गी । तालव्यादिकमेके मन्यन्ते - शारङ्गी । पिशङ्गी, कल्माषी ।। ४२ ।
४३. तरुणहरिणाभ्यां च
आभ्यां च स्त्रियामीर्भवति । तरुणी, तलुनी च सुरा । हरिणी ज्योत्स्ना । अवयोऽर्थमजात्यर्थं च || ४३ ।
४४. द्विगोः समाहारे
समाहारे द्विगोरदन्तादीर्भवति । पञ्चपूली, पञ्चमाली, पञ्चतक्षी | समाहार इति किम् ? द्विकपाला श्राणा । कथं त्रिफला, त्रीणि फलान्यत्रेति बहुव्रीहिश्चेद् द्विगौ त्रिफला स्यात्, तर्हि संज्ञापूर्वको विधिरनित्यः || ४४ |
४५. परिमाणादसंख्याकालबिस्ताचितकम्बल्येभ्यस्तद्धितलुकि तद्धितलुकि द्विगोरदन्तात् संख्यादिवर्जितात् परिमाणान्तादीर्भवति । द्वाभ्यामाढकाभ्यां क्रीता याढकी, द्विद्रोणी, इकणो लुक् । परिमाणादिति किम् ? त्रिभिरश्वैः क्रीता त्र्यश्वा । संख्यादिनिषेधः किम् ? द्वाभ्यां शताभ्यां क्रीता द्विशता । द्वे वर्षे प्रमाणमस्याः द्विवर्षा, द्विबिस्ता, द्वयाचिता द्विकम्बल्या ||४५ |
Page #634
--------------------------------------------------------------------------
________________
५९२
कातन्त्रव्याकरणम्
४६. काण्डादक्षेत्रे काण्डान्तात् तद्धितार्थे द्विगोरक्षेत्रविषये ईर्भवति । षोडशहस्तप्रमाणं काण्डम् , त्रीणि काण्डानि प्रमाणमस्याः त्रिकाण्डी रथ्या । अक्षेत्र इति किम् ? त्रिकाण्डा क्षेत्रभूः | मात्रडर्थे द्विगुः ।।४६।
४७. पुरुषाद् वा पुरुषान्तात् तद्धितार्थे द्विगोरीभवति वा । चतुर्हस्तः पुरुषः, द्वौ पुरुषौ प्रमाणमस्याः द्विपुरुषी, द्विपुरुषा भित्तिः । परिमाणादित्येव - द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा अश्वा ||४७।
४८. स्वाङ्गादप्रधानात् अदन्तादप्रधानात् स्वाङ्गादीर्भवति वा । चन्द्रमुखी, चन्द्रमुखा स्त्री । निष्केशी, निष्केशा सक् (पू:) । भूरिकेशी, भूरिकेशा रथ्या ! चारुमुखी, चारुमुखा प्रतिमा | प्राण्यङ्गं तदाकृतिश्च स्वाङ्गमुच्यते ।। ४८।
४९. नासिकोदराद् बहुस्वरात् बहुस्वरात् स्वाङ्गात् नासिकोदराच्च ईर्भवति वा । तुङ्गनासिकी, तुङ्गनासिका । महोदरा । नियमः किम् ? पृथुजघना, मृदुचरणा ।। ४९ ।
५०.जङ्घोष्ठ - कण्ठ-कर्ण-शृङ्गाङ्गगात्रदण्डात् संयोगोपधात्
संयोगोपधाज्जङ्घादे: ईर्भवति वा । दृढजङ्घी, दृढजङ्घा, बिम्बोष्ठी, बिम्बोष्ठा । कृशकण्टी, कृशकण्ठा । चारुकर्णी, चारुकर्णा । दृढशृङ्गी, दृढशृङ्गा । मृद्वङ्गी, मृद्वङ्गा | सुगात्री, सुगात्रा, सितदन्ती, सितदन्ता । प्रोष्ठीति नित्यं सुमङ्गलादिपाठात् । नियमः किम् ? सुनेत्रा, सुगुल्फा । अन्त्रमिह काश्मीरकः पठति-स्थूलान्त्री, स्थूलात्रा | छगलान्त्री नामौषधिरिति सुमङ्गलादित्वात् ।। ५०।
__५१. पुच्छात् पुच्छादप्रधानादीर्भवति वा । सुपुच्छी, सुपुच्छा । निष्पुच्छी, निष्पुच्छा ।। ५१ ।
५२. नित्यं शर - कबर - विष - मणिभ्यः एभ्यः परात् पुच्छान्नित्यमीर्भवति । शरपुच्छी, कबरपुच्छी, विषपुच्छी, मणिपुच्छी ।। ५२।
Page #635
--------------------------------------------------------------------------
________________
परिशिष्टम् - १
५३. पक्षाच्चोपमानादेः
उपमानपूर्वात् पक्षात् पुच्छाच्च ईर्भवति । श्वपुच्छी, सिंहपुच्छी, शुकपक्षी, काकपक्षी । उपमानादेरिति किम् ? सितपक्षा हंसी । इह स्वाङ्गादिति न स्मरन्ति, तेन गिरिपक्षा शाला || ५३।
५९३
५४. न क्रोडादेः
क्रोडादेः स्वाङ्गादीर्न भवति । सुक्रोडा, सुखुरा । क्रोड-खुर-शफ-बाल-भग-गुदगल-प्रोथ-ग्रीवा । एवमन्येऽपि || ५४ |
५५. सह - विद्यमान - नञश्च
सह-विद्यमान-नञ्पूर्वात् स्वाङ्गादीर्न भवति । सहकेशा, सकेशा, विद्यमानकेशा,
अशा || ५५ |
५६. नखमुखान्नाम्नि
नखमुखात् संज्ञायामीर्न भवति । शूर्पणखा, कद्रुमुखा, कालमुखा, वक्रणखा, गौरमुखा । क्वचिन्नत्रा निर्दिष्टस्यानित्यत्वात् शूर्पणखीत्यपि स्यात् । अप्रधानादिति निवृत्तम् ||५६ |
५७. सूर्याद् दैवते
सूर्याद् देवतायामर्थे ईर्न भवति । सूर्या देवी । पुंयोगात् प्राप्तः । दैवते इति किम् ? सूरी मानुषी || ५७ |
५८. यङश्च
अणिणोरादेशाद् यङश्च ईर्न भवति । श्वफल्कस्यापत्यं स्त्री श्वाफल्क्या । वराहस्यापत्यं स्त्री वाराह्या । निवृत्तो निषेधः || ५८ा ५९. क्रीतात करणादेः
करणपूर्वात् क्रीतादीर्भवति । धनकीती । धनेन क्रीतमिति समासे पश्चात् स्त्रीत्वविवक्षा | 'धनेन क्रीता' इत्यत्र धनक्रीतेति स्यादेव । करणादेरिति किम् ? राजक्रीता । कथं धनेन क्रीता ? पदसंस्कारकाले करणादित्वात् ।। ५९।
Page #636
--------------------------------------------------------------------------
________________
५९४
कातन्त्रव्याकरणम्
६०. नित्यं क्तादल्पत्वे करणपूर्वात् क्तान्तात् नित्यम् ईर्भवति अल्पत्वे । सूपलिप्ती पात्री, अभ्रलिप्ती द्यौः, अल्पसूपा | अल्पाभ्रा इत्यर्थः । इह नित्यग्रहणबलात् स्त्र्यादन्तेनापि समासे ह्रस्वः, पश्चादी: । अल्पत्व इति किम् ? ओदनपूर्णा स्थाली ।।६०।
६१. स्वाङ्गादकृतमितजातप्रतिपन्नाद् बहुव्रीहौ स्वाङ्गपूर्वात् क्रीतादिवर्जितात् क्तान्ताद् बहुव्रीहावीर्भवति ।ओष्ठक्षती, केशच्छिन्नी, प्रतिपन्नप्रतिषेधादुपसर्गान्तरायेऽपि - केशविलूनी । जातिकालसुखादीनामिति क्तान्तेन बहुव्रीहिः । स्वाङ्गादिति किम् ? घृतपीता । अकृतादेरिति किम् ? केशकृता, केशमिता, दन्तजाता, स्तनप्रतिपन्ना | बहुव्रीहाविति किम् ? पाणौ धृता पाणिधृता ।।६१।
६२. जातेरनाच्छादनाद् वा आच्छादनवर्जिताज्जातेः परात् क्तान्ताद् बहुव्रीहावीर्भवति वा । वृकदृष्टी, वृकदृष्टा । शुकजग्धी, शुकजग्धा | जातेरिति किम् ? मासभूता । अनाच्छादनादिति किम् ? वस्त्रवसिता । अकृतादेरित्येव - वृक्षकृता । क्तान्तादित्येव-केशप्रिया ||६२ ।
६३. पादः पादो बहुव्रीहावीर्भवति वा । उष्ट्रपदी, उष्ट्रपात्, सुपदी, सुपात् ।। ६३ ।
६४. नाच्च ऋच्यर्थे पाद् ईर्न भवति, आच्च वा भवति । चतुष्पाद् ऋक्, चतुष्पदा च । व्यवस्थया अत्रैव विकल्पो नित्यमन्यत्र । द्विपदा, त्रिपदा ऋक् । इह पदशब्देन सिद्धे दान्तश्रुतिनिवृत्त्यर्थम् आद्विधानम् । समासवाच्यत्वाच्च करणस्य पुनरधिकारत्वादनुवर्तने सति श्रुतत्वम् । स्त्रीत्वमिवाल्पत्वमपि प्रत्ययेन द्योत्यते । ह्रस्व इति आदित्यधिकारान्नित्याधिकारे पुनर्नित्यग्रहणादिति ।। ६४ |
६५. कृञ्चादिभ्यश्च क्रुञ्चादिभ्यश्चाद् वा भवति . व्यवस्थया क्रुङ् देवविशोर्नित्यमिच्छन्ति । क्रुञ्चा, देवविशा, उष्णिहा, उष्णिक्, शरदा, शरत्, विपाशा, विपाट् । दिशा, दिगित्युदाहरन्ति । पुंवद्भावे - देवविड्भार्याः । स्त्रीप्रत्ययलुकि पञ्चक्रुङ् इत्येव इष्यते । कुत एतददन्तत्वे प्रकृतीनामिति ।।६५।
Page #637
--------------------------------------------------------------------------
________________
परिशिष्टम् -१
६६. नित्यमशिश्वी अशिशोर्नित्यमीभवति । न विद्यते शिशुरस्याः अशिश्वी जाया ॥६६।
६७. पतिवन्यन्तर्वन्यौ एतौ निपात्येते । पतिरस्या विद्यते पतिवनी स्त्री, पतिरिहोपयन्ता । अन्यत्र पतिमती सेना । अन्तरस्त्यस्यामिति अन्तर्वली गर्भिण्येव । मन्तुवन्त्वोर्वर्णविकारव्यत्ययौ ।। ६७।
६८. पृथ्यादयोऽपुंवच्च प्रायः एते निपात्यन्ते यथासंभवं पुंवच्च प्रायो निषिध्यते ।पृथ्वी, पृथिवी । पृथोरुकारस्यैव वा । वर्षाभ्वीत्यपि उदाहरन्ति, वर्षाभूवृन्दारिकेति पुंवच्चेच्छन्ति । लघ्वी, रथी । नृनरयो री । भोगवतीत्याख्यायाम् अन्तन्तविहितनदीकार्यनिषेधार्थश्च । गुरुरिनः पतिरस्याः गुर्विणी, गुरुं पतिमिन्वति प्रीणाति वा नामकाण्डेषु च पाठादेतत् प्रमाणम् । सरसी - रोदसीप्रभृतयोऽप्यत्रैव मन्तव्याः ।।६८।
६१. पुंयोगादज्येष्ठादिपालकात् ज्येष्ठादिपालकाभ्यामन्यस्मात् पुंयोगवृत्तादन्ताद् ईर्भवति । पुमानिहार्थादुपयन्ता । महामात्रस्य भार्या महामात्री, प्रष्ठस्य प्रष्ठी, गणकस्य गणकी | पुंयोगादिति किम् ? प्रजाता, प्रसूता । नैतौ जात्वपि भर्तरि वर्तेते । पत्युर्महामात्रादित्वेन तद्भार्यापि तथा व्यपदिश्यते । ज्येष्ठादिनिषेधः किम् ? ज्येष्ठस्य भार्या ज्येष्ठा | मध्यमस्य भार्या मध्यमा । पालकनिषेधः किम् ? गोपालिका, अट्टपालिका ।।६९ ।
७०. पूतक्रतुवृषाकप्यग्निकुसितकुसीदानामै च एषां पुंयोगवृत्तानामीप्रत्ययो भवति ।अन्तस्यैकारश्च ।पूतक्रतोर्भार्या पूतक्रतायी - "पूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित्" इति भट्टिः । एवं वृषाकपायी, अग्नायी, कुसितायी, कुसीदायी । पुंयोगादित्येव - पूतकतुर्ब्राह्मणी ।।७०।
७१. मनोरौच्च या मनोः पुंयोगवृत्तादीर्भवति वा । तत्सन्नियोगेन ऐदौच्चान्त्यस्य । मनायी, मनावी, मनुः स्त्री ।।७१।
Page #638
--------------------------------------------------------------------------
________________
५९६
कातन्त्रव्याकरणम्
७२. इन्द्रवरुणभवशर्वरुद्रमृडाचार्याणामानन्तश्च
एषां पुंयोगवृत्तानामीप्रत्ययो भवति आनन्तश्च । इन्द्राणी, वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानी । आचार्यानी, इह णत्वं नास्ति || ७२ | ७३. मातुलोपाध्यायाभ्यां वा
पुंयोगवृत्ताभ्यामाभ्यामीप्रत्यये आनन्तो वा भवति । मातुलानी, मातुली । उपाध्यायानी, उपाध्यायी ।। ७३ ।
७४. अर्यक्षत्रियाभ्यां जातौ
जातावाभ्यामीप्रत्ययो भवति वा तत्सन्नियोगेनानन्तश्च । अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया | जाताविति किम् ? पुंयोगाद् अर्थी, क्षत्रिय ||७४ | ७५. यवात्तु दुष्टे
यवाद् दुष्टेऽर्थे ईप्रत्ययः आनन्तश्च भवति । दुष्टो यवो यवानी । तुशब्दो वानिवृत्त्यर्थः ।। ७५ ।
७६. यवनाल्लिप्याम्
लिप्यामर्थे यवनादीर्भवति आनन्तश्च । यवनानां लिपिर्यवनानी || ७६ ! ७७. महति हिमारण्यात्
हिमारण्याच्च महत्यर्थे ईरानन्तश्च भवति । महद् हिमं हिमानी, महदरण्यम् अरण्यानी || ७७ |
७८. गर्गादिदषावटयोः
प्रकृतमनुवर्तते । षान्तावटवर्जितस्य गगदियद् ईप्रत्ययो भवति । गार्गी, वात्सी । गगदिरिति किम् ? नैषध्या, कौशल्या । नादिकुर्विति रूढाण्ण्यः । अषावटयोरिति किम् ? गौकक्ष्या, पौतिमाष्या, शार्कराक्ष्या, आवट्या || ७८ |
७९. आयनश्च वा
गगदियदीर्भवति वा आयनश्च । गार्ग्यायणी, वात्स्यायनी, गौकक्षायणी, आवट्यायनी | बाग्रहणं षावटार्थम् । पक्षे गौकक्ष्या, आवट्या ।। ७९ ।
Page #639
--------------------------------------------------------------------------
________________
५९७
परिशिष्टम् -१
८०. लोहितादेः लोहितादेान्नित्यम् ईर्भवति आयनश्चान्तः। लौहित्यायनी, बाभ्रव्यायणी, कात्यायनी, शांसित्यायनी, गर्गादौ लोहितादिसमाप्त्यर्थं शकलशब्दात् परो वृतशब्दः पठ्यते ।। ८०।
८१. कौरव्यासुरिमाण्डूकेभ्यः एभ्यः स्त्रियामीर्भवति आयनश्च । नादिकुर्विति कुरोः क्षत्रियाण्ण्यः । कुर्वादिभ्यः इति ब्राह्मणात् कौरव्यायणी । असुरादिण् - आसुरायणी । तद्धितश्चायमिष्यते इति इकारलोपः स्यादेव ! मण्डूकादण् – माण्डूकायनी || ८१।
८२. पाणिगृहीत्यूढायाम् ऊढा= यज्ञसंयोगेन भार्या कृता, तस्यां पाणिगृहीती भवति । पाणिर्गृहीतो यज्ञसंयोगेनास्याः पाणिगृहीती । ऊढायामिति किम् ? पाणिगृहीता चौरी ।। ८२।
८३. पत्युनश्च ऊढायामर्थे पत्युरीभवति नश्चान्तस्य | पुंवत्साम्यात् पतिरियमिति पत्नी । ऊढायामित्येव-पतिरियं स्त्री ग्रामस्य | पतिः स्त्रियामपि वर्तत एव, तत्रास्य ङवति नदीत्वेन भवितव्यमिति मतम् ।। ८३।
८४. वोत्तरपदस्य उत्तरपदस्य पत्युरीनश्चान्तस्य भवति वा । ग्रामस्य पतिः ग्रामपत्नी, ग्रामपतिः स्त्री ।। ८४।
८५. बहुव्रीहौ च बहुव्रीहौ च पत्युरीनश्चान्तस्य भवति वा । बहुव्रीहावेवोपसर्जनादिति नियमार्थम् । स्थूलः पतिरस्याः स्थूलपत्नी स्थूलपतिः। नियमः किम् ? निष्पतिः स्त्री ।। ८५ ।
८६. नित्यं समानैकवीरपिण्डपुत्रभ्रातृभ्यः समानादिपूर्वात् पत्युर्बहुव्रीहौ नित्यमीर्भवति नश्चान्तस्य । समानः पतिरस्याः सपत्नी, समानस्य सभावो वक्ष्यते । एवम् एकपत्नी, इयमूढा पतिव्रताऽप्युच्यते । वीरपत्नी, पिण्डपत्नी, पुत्रपत्नी, भ्रातृपली ।। ८६।
८७. ऊधसश्च ऊधसो बहुव्रीहावीर्भवति नश्चान्तस्य | घटोनी, कुण्डोध्नी गौः ।बहुव्रीहावित्येव - अत्यूधाः ।। ८७।
Page #640
--------------------------------------------------------------------------
________________
५९८
कातन्त्रव्याकरणम्
८८. णस्वराघोषेभ्यो वनोर च एभ्यो विहिताद् वन ईर्भवति रश्चान्तस्य । वनिप्, ओण-अवावरी । शृ- शर्वरी । क्वनिप् - धीवरी, पीवरी, सहकृत्वरी, बहुदृश्वरी । एभ्यः इति किम् ? राजयुध्वा राज्ञी ।। ८८।
८९. वा बहुव्रीही बहुव्रीहौ पूर्वो विधिर्वा भवति । बहुधीवरी, बहुधीवा । नान्तो डान्तश्च स्यात् । णादिभ्य इत्येव । बहुसहयुध्वा राज्ञी ।। ८९ ।
९०. वा मन्- बहुव्रीह्यनो डा मनन्ताद् बहुव्रीहावनन्ताच्च डाप्रत्ययो भवति वा । सीमे, सीमाः, सीमानौ, सीमानः । सुपर्वे, सुपर्वाः, सुपर्वाणौ, सुपर्वाणः । बहुराजे, बहुराजाः, बहुराजानौ, बहुराजानः । बहुराज्ञीत्यपि स्यात् । वाग्रहणमुत्तरत्र नित्यार्थम् ।। ९०।
९१. यूनस्तिः यूनः प्रधानात् स्त्रियां तिर्भवति । युवतिः। प्रधानादिति किम् ? प्रिययुवा स्त्री ।।९१।
९२. नृजातेरुतोऽनध्वर्योरू अध्वर्युवर्जितादुकारान्तान्मनुष्यजातिवचनात् स्त्रियामूङ् भवति । कुरूः, ब्रह्मबन्धुः । जातिवचनाद् बहुव्रीहावुत्तरपदं बन्धुः पूर्वपदार्थं कुत्सितमाह स्वभावात् । स्त्रीभेदवाचिनो भीरोरप्यूडा भवितव्यमिति मतम् । श्रीकण्ठपुरुषोत्तमयोरपि मतमेतत् । 'विहर मया सह भीरु काननानि' (वा० रा०५/२०/३६) इति शिष्टप्रयोगश्च दृश्यते । नृग्रहणं किम् ? करेणुः स्त्री । जातेरिति किम् ? वृकाद् भीरुः स्त्री । अनध्वोरिति किम् ? अध्वर्युर्ब्राह्मणी | चरणत्वाज्जातिर्मनुष्ये चास्य रूटिः ||९२।।
९३. जातावप्राणिरज्ज्वादिभ्यः जातौ वर्तमानादुकारान्तात् प्राणिरज्ज्वादिवर्जितादू भवति । कर्कन्धूः, अलाबूः । प्राणिनिषेधः किम् ? ओतुः, कृकवाकुः । रज्ज्चादिनिषेधः किम् ? रज्जुः, कङ्गः, हनुः, प्रियगुः । उणादौ बिन्ध्यवासिनो मते, गोवर्द्धनाधिमते च कर्कन्धूरूदन्ता प्रकृत्यैव, तदा
Page #641
--------------------------------------------------------------------------
________________
परिशिष्टम्-१
५९९ निष्कर्कन्धूः । पञ्चभिः कर्कन्धूभिः क्रीतः पञ्चकर्कन्धूरिति न ह्रस्वः स्त्रीप्रत्ययस्य लुग् नास्तीति भेदः । कथंचित् प्राणिवृत्तौ ‘कार्कन्धवः' इति एयण्णपि नास्ति ।। ९३।
९४. बान्तकद्रुकमण्डलुभ्यः संज्ञायाम् एभ्यः संज्ञायां स्त्रियामूङ् भवति । मद्रबाहूः, कद्रूः, कमण्डलूः । सञ्ज्ञायामिति किम् ? सुबाहुः स्त्री, कद्रुर्जटा ||९४|
९५.उपमानसहितसंहितसहशफरामलक्ष्मणपूर्वादूरोः उपमानादिपूर्वपदादूरोरूङ् भवति । करभोरूः, रम्भोरूः, सहितोरूः, संहितोरूः, सहोरूः, शफोरूः । रामोरूः, लक्ष्मणोरूः । एभ्योऽन्यत्र - पीनोरुः स्त्री ।।९५।
९६. श्वशुरस्योदन्तलोपश्च श्वशुरस्य स्त्रियामूङ् भवति, उकारस्यान्तस्य च लोपो भवति । श्वश्रूः ।।९६ ।
९७. पङ्गोः पङ्गोः स्त्रियामूङ् भवति । पङ्गेः ।। ९७।
९८. गोत्रेऽणिणोर्बहुस्वरादनृषेणुरूपान्त्याद् यङ् बहुस्वरादृषिवर्जिताद् गुरूपान्त्यात् परयोः पौत्रादावणिणोः स्त्रियां यङ् भवति । अण् – श्वाफल्कस्यापत्यं श्वाफल्कः, स्त्री चेत् श्वाफल्क्या । इण् - वराहस्यापत्यं वाराहिः, स्त्री चेद् वाराह्या । गोत्र इति किम् ? श्वफल्कस्येयं श्वाफल्की । बहुस्वरादिति किम् ? दाक्षी । अनृषेरिति किम् ? वाशिष्ठी । गुरूपान्त्यादिति किम् ? औपगवी । उपान्त्यत्वमिह स्वरापेक्षयैव ।।९८।
९९. मुखरादेश्च मुखरादेश्च गोत्रेऽर्थेऽणिणोः स्त्रियां यङ् भवति । मुखरस्यापत्यं मौखर्या, पुणिकस्यापत्यं पौणिक्या, गुणिकस्यापत्यं गौणिक्या । लघूपान्त्यार्थम् ।। ९९।
१००. क्रौड्यादिभ्यश्च क्रौड्यादिभ्यश्च स्त्रियां यङ् भवति । क्रौडेः क्रौड्या, नाडेः नाड्या, व्याडे: व्याड्या, आपिशले: आपिशल्या । देवदत्तिप्रभृतयोऽपीह पठ्यन्ते । प्रथमापत्यार्थं दैवदत्त्या, याज्ञदत्त्यादयः ।। १००।
१०१. भोजात् क्षत्रियायाम् भोजात् क्षत्रियायां यङ् भवति । भोज्या । तद्धितत्वादकारलोपः ।।१०१।
Page #642
--------------------------------------------------------------------------
________________
६००
कातन्त्रव्याकरणम्
१०२. काण्ठेविद्ध्यादिभ्यो वा
काण्ठेविद्धिप्रभृतिभ्यः स्त्रियां यङ् भवति वा । पक्षे इनन्तादीप्रत्ययः । काण्ठेविद्ध्या, काण्ठेविद्धी ।दैवयज्ञ्या, दैवयज्ञी । शौचिवृक्ष्या, शौचिवृक्षी । सात्यमुख्या, सात्यमुखी ।। १०२ । १०३. न पुत्रपत्योस्तत्पुरुषे
अनयोस्तत्पुरुषे य न भवति । श्वाफल्कीपुत्रः, श्वाफल्कीपतिः । प्रधानस्यैवोत्तरपदयोरेवायं निषेधः । इह स्यादेव - अभिश्वाफल्क्यापुत्रः, अभिश्वाफल्क्यापतिः, श्वाफल्क्यापुत्रधनम्, श्वाफल्क्यापतिग्रामः ।। १०३ । १०४. बन्धौ बहुव्रीहौ
बहुव्रीहौ बन्धुशब्दे परे यङ् न भवति । श्वाफल्कीबन्धुः, वाराहीबन्धुः ।। १०४ । १०५. वा मात - मातृ - मातृकेषु
बहुव्रीहावेषु यङ् वा भवति । श्वाफल्क्यामात, श्वाफल्कीमात । इह ऋदादेरदादिश्यते - श्वाफल्क्यामातृभिः श्वाफल्कीमातृभिः । द्वयोरुपादानादिह समासान्तविधिरनित्यः। श्वाफल्क्यामातृकः, श्वाफल्कीमातृकः ।। १०५ ।
॥ इति महामहोपाध्याय श्री श्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्तौ स्त्रीत्वप्रकरणं समाप्तम् ॥
Page #643
--------------------------------------------------------------------------
________________
॥ श्रीः ॥ परिशिष्टम् - २ श्रीश्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम्
समासप्रकरणम्
१. नाम्नाम्
स्यायन्तमिह नामेष्टं लिङ्गसंज्ञाऽन्यथा वृथा । तत्तेन सह युक्तार्थं यत् पदं यदपेक्षते ॥ १॥ क्वचित् संसृज्यमानस्य धवादेरेकवस्तुनि । । परस्परव्यपेक्षायामेवं द्वन्द्वोऽपि वक्ष्यते ॥ २ ॥ अनेकस्यैकयोगं च योगमिच्छन्ति वृत्तये ।
द्वन्द्वेनावश्यमिष्यते ।। ३ ।
तदा
षष्ठ्या
अतो
परस्परापेक्षा
समूहसम्बन्धे
।
समूहस्तूपनीयते । नामसमूहस्य युक्तार्थस्य समासता ॥ ४ ॥ प्रतियोगिपदादन्यद् यदन्यत् कारकादपि ।
वृत्तिशब्देकदेशस्य सम्बन्धस्तेन
नेष्यते ॥ ५॥
कारकप्रतियोगिभ्यां यद्
यदन्यदपेक्षते ।
अपेर्बहुलवाचित्वाद् वृत्तिस्तत्र तु नेष्यते ॥ ६ ॥
तरुण्यो वृषली भार्यः प्रवीरं पुत्रकाम्यति । ऋद्धस्य राजमातङ्गा इति न स्युः प्रयुक्तयः ॥ ७॥ चैत्रस्य दासभार्येयं लूनचक्रो रथो मया । शरैः शातितपत्रोऽयं वृक्षादिति सतां मतम् ॥ ८ ॥
या वृत्तिरजहत्स्वार्था
सेयमत्रोपपादिता ।
पदानां प्रत्ययैर्योगाः समासश्चेह वृत्तयः ॥ ९ ॥
Page #644
--------------------------------------------------------------------------
________________
६०२
कातन्त्रव्याकरणम् ऐकार्थं पृथगर्थानां वृत्तिं युक्तार्थतां विदुः। शब्दानां शक्तिवैचित्र्यात् तत् समासादिषु स्मृतम् ॥१०॥ वृत्तिशब्दैकदेशस्य पदस्येह स्वभावतः। स्यादौ स्थितेऽपि तस्यार्थः संख्यानं विनिवर्तते ॥११॥ स्वार्थानजहतां तत्र पूर्ववत पृथगर्थता । कथं च पृथगर्थत्वे सत्येवैकार्थता भवेत् ॥१२। स्वार्थानजहतां किञ्च न किञ्चिदिह विच्युतम् । पदान्तरैरसम्बन्धोऽवयवानां किं निबन्धनः॥१३॥ तस्मात् स्वार्थपरित्यागात् तेषामन्यैरनन्वयः। अर्थद्वारा पदानां हि सम्बन्धः स्यात् परस्परम् ॥१४॥ गुरुदासादयो येऽपि नित्यं सप्रतियोगिकाः। तेषामपि तथा भावे सम्बन्धः केन हेतुना ॥१५॥ यथा प्रजावतीयं मे ममायं देवरो यथा। भ्रातुर्भर्तुरसम्बन्धे विशिष्टेनास्मदोऽन्वय ॥१६॥ तथेयं दासभार्या मे एतद् गुरुकुलं मम । दासभार्यादिनार्थेन विशिष्टेनास्मदोऽन्वयः॥१७॥ साधनोपनिपातस्तु तथा चिन्त्यः क्रियापदे । यथा स्नुषा प्रजावत्यौ पुष्पवन्तौ च रोदसी ॥१८॥ यथेन्दीवरमित्यादि भागाभ्यां नाभिधायकम् । एकार्थीभावमापन्नमेवं नीलोत्पलादिकम् ॥१९॥ प्रत्येकम् अभिधाशक्तिः पदानामवघारिता । ताभिरेवोपपद्यन्ते वृत्तावप्यर्थबुद्धयः॥२०॥ तत् कथं पूर्वशक्तीनां निवृत्तिरिह लक्ष्यते । समूहे चाभिधा शक्तिः कथमन्या प्रतीयते ॥२१॥ द्वन्द्वे खलु जहत्स्वार्थे यथासंख्य विरुध्यते । वाचकक्रममूलो हि तदर्थानामनुक्रमः॥२२। दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः। राज्ञोऽत्रापृथगर्थत्वे किं परामृश्यते तदा ॥२३॥
Page #645
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
६०३
नहि प्रजावतीयं मे तस्मै देहीति कम्बलम् । इति शक्यं परामष्टुं भ्राता धीगोचरोऽपि सन् ॥२४॥ तस्मान्नियोगतोऽर्थानामन्वितानामिहाभिधा। जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी ॥२५॥ पङ्कजं मनसादेवी पद्मनाभो युधिष्ठिरः। संख्या तु व्यअकाभावाद् अव्यक्तः प्रातरादिवत् ॥२६॥ यत्र तु व्याकं किञ्चित् तत्र संख्या प्रकाशते । शलाकापरि हस्त्यश्वं पूर्वकायोऽपिप्पली ॥२७॥ अलुक्यपि च संख्यानमपातालमिष्यते । चयोगविरहो द्वन्द्वे नैकार्थीभावहेतुकः॥२८॥ किन्तूक्तार्थतया यस्माच्चार्थे द्वन्द्वो विधीयते। अन्यथा चार्थधीरत्र नोपपयेत जातुचित् ॥२९। चापरिग्रहे चास्य वृथा तस्यानुशासनम् । वृत्तिस्तु वृत्तिशब्देन लक्षणानुग्रहाद् भवेत् ॥३०॥ यत्र शास्त्रमनुग्राहि तत्र वाक्यैरपीष्यते । समांसमीना चामुष्यकुलिकामुष्यपुत्रिका ॥३१॥ प्रादेरनर्थकस्यापि कृदन्तैरपदैः सह । अपेर्बाहुलकादेव समासो न विरुध्यते ॥३२॥ प्रस्थायाधीत्य संशय्य अवश्वस्य निखज्य च । संविश्यालभ्य निर्गत्य प्रपयेत्येवमादिषु ॥३३॥ कृद्विधावुपसर्गाणां नामत्वे ना परिग्रहः। उपसर्गेऽपि हि लिङ्गं सदादिभ्यः क्विपो विधौ ॥३४॥ युक्तार्थग्रहणाद् वृत्तिरसंबन्धार्थयोद्धयोः।
पश्य कष्टं श्रितो धर्ममित्यादिषु निषिध्यते ॥३५। अप्यधिकारात् क्वचिदसाक्षात् संबन्धेऽपि समासः ।स्र्यं न पश्यति असूर्यम्पश्या । किञ्चिन्न कुर्वाणोऽकिञ्चित्कुर्वाणः ।मांसं न हरमाणोऽमांसंहरमाणः । किञ्चिन्न करोतीति
Page #646
--------------------------------------------------------------------------
________________
६०४
कातन्त्रव्याकरणम्
अकिञ्चित्करः । लवणं न भुङ्क्तेऽलवणभोजीत्यादयः । तथा परिभाषाऽपीयं क्वचिद् विधित्वेनोपादीयते । पुरुष उत्तमः पुरुषोत्तमः, मुनिप्रवरः, अध्वगन्तव्य इत्यादि । तथा पूर्वं भूतः भूतपूर्वः, कृतपूर्वः । तथा पुनः प्रवृद्धादिष्वनेनैव समासः । पुनः प्रवृद्धम्, पुनर्लेनं सहभूतम् । तथा सहभावः, द्विर्भावः, अधोभुवनम्, द्विवचनम् । द्विरुक्तिः अस्तमयः, अस्तमितवान्, बहिष्कृतम्, बहिर्भूतमित्यादि । आकृतिगणोऽयम् ।
__ भाष्येऽप्युक्तम् – पुनः प्रवृद्धादिषु समासवचनं कर्तव्यमिति । तथा मयूरव्यंसकादिपात्रेसमितादि-खलेयवादि-तिष्ठद्गुप्रभृतीनामिति च पुनरसमासः । परमो मयूरव्यंसकः, मयूरव्यंसकस्य धनम्, परमाः पात्रेसमिताः, पात्रे समितानां गावः, परमं खले यवम्, परमं तिष्ठद्गु, परमं दण्डादण्डि, कृतं दण्डादण्डि येनेत्यादि वाक्यमेव । तिष्ठद्गुप्रभृतीनां पुनरव्ययीभावमिच्छन्ति । उपतिष्ठद्गु, अधितिष्ठद्गु ।।१।
२. तत्स्थाः तच्छब्देनेह युक्तार्थोऽनुकृष्यः प्राग् विपर्ययात् । समासस्य च सान्निध्यादिष्यते वृत्तिलक्षणः॥१॥ स च लिङ्गं च धातुश्च द्विधैव परिशिष्यते। धातुलिङ्गकदेशस्य स्यादेरेवं हि लोप्यता ॥२॥ ऐकार्थ पृथगर्थानां तत्र युक्तार्थताऽथवा ।
असम्बन्धव्यपोहार्य योगग्रहणमप्यलम् ॥३॥ 'नीलोत्पलम्, वक्रमुखः, धेनू, कुण्डे प्राप्तः । ऋषिप्राप्तः, धेनुप्राप्तः, कुण्डप्राप्तः, त्वत्कल्पः, मत्कल्पः, युष्पत्पाशाः, अस्मत्पाशाः, त्वत्कपितृको मत्कपितृकः । त्वत्पुत्रः, मत्पुत्रः, गिरिस्थः, मेरुस्थः, अष्टरथः, अष्टभार्यः' इत्यादौ त्वकृतलक्षणेषु कौमाराः कार्यार्थं कृतमपि संस्कारं निवर्तयन्तीति स्यादयः पुनरुत्थाप्य लुप्यन्ते, व्यञ्जनान्तस्य सन्ध्यक्षरान्तस्येत्यादिनिर्देशोऽस्य न्यायस्य लिङ्गम् ।।२।
३. अलोप्योत्तरपदे समासान्तं लिङ्गमुत्तरपदमिति रूढिः । उत्तरपदे परस्मिन् लोप्यो न भवतीत्यधिकर्तव्यम् ||३|
४. तमोऽनःसहोभ्यस्तृतीया एभ्यः परा तृतीया उत्तरपदे लोप्या न भवति । तमसावृतम् । इह तमसः पाठो न्याय्यः। 'तमु काङ्क्षायाम्' (३/४३) इत्यत्र तमसा वृतम् इति चिन्तितत्वाद्
Page #647
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
६०५ अञ्जसाकृतम्, सहसाकृतम् । उत्तरपदे इति किम् ? सह तमसा वर्तते सतमोगृहम् । तमःस्थाने तपः पठन्ति शाक्याः । व्योषकाव्येऽपि अलुकि तदेव प्रयुक्तम् अलुग्विषयेष्वेकवचनान्तरस्यैव समास इति भाष्यम् । तन्मते द्विवचनबहुवचनयोरिह नोदाहरणम् । पूर्वे त्वाचार्या अलुगविषये द्विवचनबहुवचनयोरपि समासमिच्छन्तः सम्भवेऽप्यलुगेकवचनस्यैवेति स्मरन्ति तेषां तमोभिर्वृतं तमोवृतमितीष्टमेव ।।४ ।
५. ओजोऽम्भसश्च ओजसोऽम्भसश्च परा तृतीयोत्तरपदे लोप्या न भवति ।ओजसाकृतम्, अम्भसाधौतम् । उत्तरपदे इति किम् ? सहाम्भो नभः ।।५।.
६. शैषिक्यात्मनः पूरणे पूरणप्रत्ययान्ते उत्तरपदे आत्मनः परा शैषिकी स्वाम्यादिविहिता तृतीया लोप्या न भवति । शेषे तृतीया त्वतो वचनात् तस्याः समासश्च । आत्मना तृतीयः, आत्मना पञ्चमः, आत्मना षष्ठः, आत्मना तुरीयः, आत्मना . विंशतितमः | अबाधकान्यपि निपातनानीति षष्ठ्यपीष्यते । आत्मनो द्वितीयः, आत्मनः पञ्चमः ।।६।
७. आज्ञायिनि मनसः आज्ञायिन्युत्तरपदे मनसः परा तृतीया लोप्या न भवति । मनसाज्ञायी, ताच्छील्ये आभीक्ष्ण्ये वा णिनिः ।।७।
८. संज्ञायां च संज्ञायां च विषये मनसः परा तृतीया उत्तरपदे लोप्या न भवति । मनसा दीव्यतीति करणावस्थायामपि दिवः कर्मसमावेशात् कर्मण्यण् । मनसादेवी, मनसादत्ता, मनसागुप्ता, तपसादेवीत्यपि वृद्धैरुदाहतम् ।। ८ ।
९. पुंसानुजजनुषान्धौ एतौ तृतीयास्थितौ साधू भवतः । पुमांसमनुजायते स्मेति जनेर्डः । अनुपूर्वो जनिस्तत्पूर्वीकरणपूर्वक जन्मनि सकर्मकः । यथा कुमारमनुजाता कन्या । किञ्चानुजायते इति अनुजः कनीयान् । यथा चैत्रस्यानुजो मैत्रः, उभयथापि पुंसानुजः इति निपातनात् तृतीया । जनुर्जन्म, तेनान्धो जनुषान्धः । 'प्रकृत्या अभिरूपः' इतिवत् तृतीया ।।९।
Page #648
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
१०. परस्मैपदादीनि एतानि समासरूपाणि साधूनि भवन्ति । परस्मै पद्यते इति परस्मैपदम् । एवम् आत्मनेपदम् । तादर्थ्य चतुर्थी, त्यादिविशेषाणामिमे संज्ञे । परस्मैपदे भाषोक्तिरस्येति परस्मैभाषः, एवम् आत्मनेभाषः। पदशब्दलोपो निपातनाद् धातुविशेषाणामिमौ व्यपदेशौ ।।१०।
११. स्तोकान्तिकदूरार्थकृच्छ्रेभ्यो उसिः एभ्यो ङसिरुत्तरपदे लोप्यो न भवति ।अर्थशब्दस्त्रिभिः संबध्यते । स्तोकादाहृतम्, अल्पादाहृतम्, अन्तिकान्नीतम्, अभ्यासान्नीतम्, दूराद् दृढम्, विप्रकृष्टाद् दृढम्, कृच्छ्राल्लब्धम् । कृच्छ्राल्लब्धमिति तृतीयासमासश्चेत् स्तोकादिश्रुतिविहितस्य समासस्य ग्रहणात् । कृच्छ्रभयम्, कृच्छ्रभीतिरिति लुगेव । कृच्छ्रादपोढम्, कृच्छ्राद् भीतम्, दूरात् पतितमिति परत्वात् स्तोकादिलक्षण एव समासो भवति । केचिदिह करणादिलक्षणायाः पञ्चम्या ग्रहणमिच्छन्तः कृच्छ्राद् भीतम्, कृच्छभीतम् । दूरात् पतितम्, दूरपतितम् इति मन्यन्ते ।।११।
१२. ब्राह्मणाच्छंसिबलात्कारौ ङसिस्थितावेतौ साधू भवतः । ब्राह्मणं वेदैकदेशः तत उद्धृत्य शंसतीति ब्राह्मणाच्छंसी ऋग्विशेषः । बलादनौचित्यात् कारणं बलात्कारः । बलात्कारासहिष्णवो हि प्रजा भवन्ति ।।१२।
१३. षष्ठ्याक्रोशे आक्रोशेऽधिक्षेपविषये षष्ठ्युत्तरपदे लोप्या न भवति । दास्याः पतिरसि | बन्धक्याः पतिरसि ।।१३।
१४. पुत्रे वा पुत्रे उत्तरपदे आक्रोशविषये षष्ठी लोप्या वा भवति । दास्याः पुत्रोऽसि, दासीपुत्रोऽसि माणवक ! ।।१४।
१५. ऋतो विद्यान्वयनिमित्तात्तेषु विद्यानिमित्तात् सन्ताननिमित्ताच्च ऋदन्तात्तेषु विद्यान्वयनिमित्तेषु उत्तरपदेषु षष्ठी लोप्या न भवति । होतुरन्तेवासी, भ्रातुष्पुत्रः । कस्कादित्वाद् द्वितीयः शिट् । तेष्विति
Page #649
--------------------------------------------------------------------------
________________
परिशिष्टम् - २
६०७ बहुवचनमयथासंख्यार्थम्, तेन पितुरन्तेवासी, होतुः पुत्रः । भ्रातृपुत्र इति, भ्रातॄणां पुत्र इति बहुत्वे स्मरन्त्येके || १५।
१६. पतिस्वस्रोस्तु वा विद्यान्वयनिमित्ताद् ऋदन्तादनयोरुत्तरपदयोः षष्ठी लोप्या वा भवति । होतुः पतिः, होतृपतिः । स्वसुः पतिः, स्वसृपतिः । होतुः स्वसा, होतृष्वसा | पितुः स्वसा, पितृष्वसा । अलोपे वा षत्वं लोपे तु नित्यम् । तुशब्द उत्तरत्र वानिवृत्त्यर्थः । एवमन्येऽपि ।।१६।
१७. वास्तोष्पति-दिवस्पति- वाचस्पतयः एते षष्ठीस्थितौ साधवो भवन्ति । वास्तुनो वास्तोर्वा पतिस्तिोष्पतिः। इह द्वितीयः शिट् निपातनात् । दिवस्पतिः । वाचस्पतिः । द्वयोस्तृतीयः शिट् ।।१७।
१८. दिवोदाश- पश्यतोहर - देवानांप्रियाः एते षष्ठीस्थितौ साधवो भवन्ति । दाश्यतेऽस्मै दाशो दानपात्रम् । दिवोदाशो धन्वन्तरिः। पश्यतोऽग्रे हरति पश्यतोहरः । इहानादरसंबन्धे षष्ट्या निपातनमेतत् । देवानां प्रियो मूर्खश्छागश्च ।।१८।
१९. वाचोयुक्ति- दिशोदण्डौ एतौ षष्ठीस्थितौ साधू भवतः । वाचोयुक्तिः, दिशोदण्डः ।।१९।
२०. आमुष्यपुत्रिकामुष्यकुलिकामुष्यायणाश्च एते षष्ठीस्थितौ साधवो भवन्ति । अमुष्य पुत्रस्य, अमुष्य कुलस्य भावः इति अमुष्येतिसम्बन्धिपूर्वाभ्यां पुत्रकुलाभ्यां मनोज्ञादित्वादिकण, स्त्रीत्वं स्वभावात् । आमुष्यपुत्रिका, आमुष्यकुलिका | प्रख्यातपितृकता प्रख्यातगोत्रता च व्याख्यायते । अमुष्यापत्यमिति अमुष्याद् आयनण् आमुष्यायणः प्रख्यातपितृकोऽभिधीयते ।।२०।
२१. शुनः पुच्छलाङ्गुलशेपेष्याख्यायाम् एकूत्तरपदेषु संज्ञायां शुनः षष्ठी लोप्या न भवति । शुनःपुच्छः, शुनोलाङ्गेलः, शुन शेपः । शीडो नीदापादित्वात् पप्रत्यये सति 'शेप' इति प्रथमोपधम्, शब्दान्तरमित्येकं मतम् । निर्देशबलान्निपातितसलोपस्य प्रथमवतः शेपसो ग्रहणमित्यपरम् । तत्राचीनानां तृतीयवत इति । आख्यायामिति किम् ? श्वपुच्छम्, श्वलाङ्गुलम्, श्वशेपः ।।२१।
Page #650
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
२२. सप्तमी प्रायेण कृति
कृदन्ते उत्तरपदे प्रायेण सप्तमी लोप्या न भवति । खेचरः, स्तम्बेरमः, कर्णेजपः, अग्रेसरः, कालेजम्, जघनेफला, काण्डेरुहा, कुशेशयम्, जलेशयम्, वर्षासुजम्, प्रावृषिजम्, शरदिजम्, दिविजम्, गोषुचरः । गले चुप्यते इति बाहुलकात् कर्मणि वुण् - गलेचोपकः ।। २२ ।
६०८
२३. वा तु वनेचरादौ
वनेचरादौ तु सप्तमी वा लोप्या भवति । वनेचरः, वनचरः । त्वचिसारः, त्वक्सारः। शरेजम्, शरजम् । वर्षेजम्, वर्षजम् । अप्सुजम्, अब्जम् । सरसिजम्, सरोजम् । शिरसिजम्, शिरोजम् । उरसिजम् उरोजम् । सरसिरुहम्, सरोरुहम् । दिविषत्, घुषत् | २३ |
२४. अद् व्यञ्जनाच्छयवासवासिष्वकालात्
शयादिषूत्तरपदेषु अद्व्यञ्जनान्तादकालात् परा सप्तमी लोप्या वा भवति । मञ्चेशयः, मञ्चशयः । दृशदिशयः, दृशच्छयः । ग्रामेवासः, ग्रामवासः । नीवृतिवासः, नीवृद्वासः । ग्रामेवासी, ग्रामवासी । नीवृतिवासी, नीवृद्वासी । अद्व्यञ्जनाद् इति किम् ? भूमिशयः, खट्वाशयः । अकालादिति किम् ? प्रभाशयः, अहः शयः, ग्रीष्मवासः, शरवासी ।। २४ ।
२५. हृदिस्पृग् - दिविस्पृशौ
एतौ निपात्येते । हृदयं दिवं स्पृशतीति हृदिस्पृक् दिविस्पृक् । निपातनात् कर्मणि सप्तमीयमिति वृद्धाः ||२५|
,
२६. यन्मतियोनिष्वपस्तत्पुरुषे
अपो यत्प्रत्यये मतियोन्योश्च उत्तरपदयोस्तत्पुरुषे सप्तमी लोप्या न भवति । अप्सु भवम् अप्सव्यम् | दिगादित्वाद् यत् । अप्सु मतिः, अप्सु योनिः । पक्वादित्वात् सप्तमीसमासः । तत्पुरुष इति किम् ? अप्सुमतिर्योनिश्चास्य अम्मतिः, , अब्योनिः ः ||२६| २७. मध्येगुर्वन्तेगुरु
एतौ सप्तमीतत्पुरुषे साधू भवतः । मध्येगुरुः, अन्तेगुरुः । तत्पुरुष इत्येव । मध्येऽन्ते गुरुरस्य मध्यगुरुः, अन्तगुरुः ॥ २७ ॥
Page #651
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
२८. वा तनादौ कालात् तनादौ परतोऽद्व्यञ्जनान्तात् कालवाचिनः सप्तमी लोप्या वा भवति । पूर्वाह्ने तनम्, अपराह्नेतनम्, पूर्वाह्नतरम्, पूर्वाह्नतमम्, पूर्वाह्नतरे, पूर्वाह्नतमे पठति । इह पूर्वाह्नस्यातिशयः । यदा तु गुणक्रिययोराधेययोः प्रकर्षादाधारस्य प्रकर्षस्तदा तरांतमामौ । यथा पूर्वाह्नतराम् अयमनयोः शुक्लः । पूर्वाह्नतमाम् अयमेषु शुक्लः । पूर्वाह्नेतरामयमनयोरधीते, पूर्वाह्नतमामयमेषु अधीते । यदा तु पुनः पूर्वाह्ने मुहूर्तादिलक्षणः कालः, पूर्वाह्नकालः । विशेषस्य सामान्येन कर्मधारयश्चेत् पूर्वाह्नकालः | पक्षे पूर्वाह्नतरे, पूर्वाह्नतमे । तरतमयोरेवात्र व्यवस्थितविभाषेयमिति मतम् । कैश्चिदविशेषेणेष्यते ।।२८।
२९. हृद्युभ्यामेवेण बद्धबन्ध्यस्थसिद्धेषु एषूत्तरपदेषु परत आभ्यामेव सप्तमी लोप्या न भवति । हदिशायी, दिविशायी, दिविबद्धम्, हृदिबन्ध्यम्, दिविबन्ध्यम्, हृदिस्थम्, दिविष्ठम् । हत्स्थमिति नैकत्वं चेत् - हदिसिद्धम्, दिविसिद्धम् । अवधारणं किम् ? स्थण्डिलशायी, गृहबद्धम्, गृहबन्ध्यम्, ग्रामस्थम्, पात्रसिद्धम्, दृशच्छायी, दृशद्बद्धम्, दृशबन्ध्यम्, दृशत्स्थम्, दृशत्सिद्धम् ।।२९ ।
३०. बहुव्रीहौ बन्धनि तु वा बन्धञिति बनातेर्घजा निर्देशः । बहुव्रीहौ च तत्पुरुषे बन्धञ्युत्तरपदे सप्तमी लोप्या वा भवति । हस्ते बन्धोऽस्येति हस्ते बन्ध इति वा हस्तेबन्धः, हस्तबन्धः । एवं शिरसिबन्धः, शिरोबन्धः । मूर्धनिबन्धः, मूर्धबन्धः। आलानेबन्धः, आलानबन्धः । दृशदिबन्धः, दृशद्बन्धः । घान्तग्रहणं किम् ? बध्नातीति पचाद्यच्, बन्धयतेरल् वा - आलानबन्धः, दृशद्बन्धः । अद्व्यञ्जनादित्येव-पाणिबन्धः, जानुबन्धः । तुशब्द उत्तरत्र वानिवृत्त्यर्थः ।।३०।
३१. स्वाङ्गादकामेऽमूर्धमस्तकात् बहुव्रीही मूर्धमस्तकवर्जिताद् अद्व्यञ्जनान्तात् स्वाङ्गवाचिनः परा सप्तमी कामादन्यस्मिन् लोप्या न भवति । कण्ठेकालः, उरसिलोमा । अकाम इति किम् ? स्तनकामः, उरस्कामः । अद्व्यञ्जनान्तादित्येव - पाणिव्रणः, ग्रीवाव्रणः। अमूर्धमस्तकादिति किम् ? मूर्धमणिः, मस्तकमणि गः ।।३१।
Page #652
--------------------------------------------------------------------------
________________
६१०
कातन्त्रव्याकरणम्
३२. वृत्तौ युवावैनमघवदर्वत्स्वेव प्रत्ययवत् वृत्तौ स्यादिलोपे सति युवादिष्वेव कर्तव्येषु प्रत्ययवत् भवति नान्यत्र । प्रिययुवया, प्रियावया । एतेन पक्वमोदनम्, अथो एनत् शृतं क्षीरम् । इदमश्चेत् - एनं शृतं क्षीरम् । एतयोरुच्चाः प्राकारा अथो एनदागाराणि रम्याणि | इदमश्चेत् - एनागाराणि रम्याणि । एतं श्रितः सहायः, अथो एनत् श्रितानि कुटुम्बानि | इदमश्चेत् - एनाश्रितानि कुटुम्बानि ।
केचिद् उभयोरपि तकारान्तमेव रूपमिच्छन्ति । अपरे त्वाचार्या द्वयोरप्येनद्विधानादुभयत्रापि तान्तमेव रूपमाहुः । भाष्यस्थित्या तु समासे एनादेशस्य विभाषा | मघवत्पुत्रः, अर्वच्छाया । अवधारणं किम् ? राजवत्, राजकल्पः, राजवृन्दारकः, राजकाम्यति, अतिराजनि, अतिवृषलि, अप्पाशः, पुंस्कडारः, सुमनस्तरः, सुमनस्कल्पः, अङ्गिरस्तापसः, नभस्वभाद्रः । एषु दीर्घो न स्यात् । उशनस्कल्पः, पुरुदंस्कल्पः, अनेहस्पाशः । एष्वन्न स्यात् । चतसृणां प्रियः चतुष्प्रियः । एवं चतुर्यति, चतुर्य्यते, चतुःकाम्यति । चतसृभावो न स्यात् । बहुच्यूर्वस्य च-बहुत्वचा, बहुतडिता । बहुचि सति प्रत्ययलोपे पदत्वं न स्यात् ।।२२।
३३. सुभोर्नोत्तरपदस्य सुभोरिति यदतिदिष्टं तदुत्तरपदस्य न भवति ।परमदण्डिना । बहुगोमन्तो विदेहाः, प्रियचत्वाः, प्रियानड्वान्, अतिदिवौ, दृढत्वचौ ।। ३३ ।
३४. षष्ठ्या पूर्वस्यैव समासवाक्येषु षष्ठ्या निर्दिष्टस्य पूर्वस्यैव समासो भवतीति वक्ष्यमाणेषु मन्तव्यम् ||३४|
३५. ऐकाधिकरण्ये कर्मधारयः एतदधिक्रियते । भिन्नार्थयोरेकवस्तुन्यभिनिवेशः ऐकाधिकरण्यम् ||३५|
३६. जातिद्रव्यैर्विशेषणस्य ऐकाधिकरण्ये सति जातिद्रव्यवचनैः सह पूर्वस्यैव विशेषणस्य कर्मधारयो भवति । चित्रगवः, प्राप्तगवः, विषाणिगवः, मज्जन्मैनाकः, चलत्सुवेलः । रूढौ तु नित्यम् - नीलोत्पलम्, कृष्णसर्पः, लोहितशालिः । रूढात् कर्मधारयादपि इहामन्त्वादिः स्यादेव ।
Page #653
--------------------------------------------------------------------------
________________
परिशिष्टम् -२ नीलोत्पलवत् सरः, लोहितशालिमान् ग्रामः । कृष्णसर्पवान् वल्मीकः । अरूढात् कर्मधारयान्मन्त्वादिविषये बहुव्रीहिरेवेति । तत्रेतिग्रहणादेव मन्तव्यम् । चित्रगुश्छात्रो न जातु चित्रगवीमानिति । अथेह कथमियं न संज्ञा, न हि चित्रा गौर्यस्येति संज्ञाया विरोधस्ततश्चित्रगवस्वामीति स्यात् ? सत्यम् । हेतुश्चेति चकारेण ज्ञापितं क्वचित् संज्ञयापि संज्ञा बाध्यते, तच्चापादानादिषु कर्मधारयादिषु आत्मनेपदसंज्ञायां च मन्तव्यम् ।. पूर्वस्यैवेति किम् ? गौश्चित्रा, डित्यो गौरः । अजातिद्रव्यस्तु परस्यापि पटुकृपणः, कृपणपटुः, शुचि (सुरभि)- युवतिः, युवति (सुरभि)- शुचिः । दण्डिरथी, रथिदण्डी । तथा पाण्डुकृष्णः, कृष्णपाण्डुः । अवयवधर्मेणावयविव्यपदेशाद् इहैकाधिकरण्यम् । विशेषणस्येति किम् ? लोहितस्तक्षकः । लौहित्यव्यभिचारिणो हि लोहितविशेषणम् । अयं तु लोहित एव तक्षकः । सर्प इति । गएँ प्रति तक्षको विशेषणम्, सर्पस्य तक्षकत्वव्यभिचारात् । तस्मात् तक्षकसपं इति स्यादेवेति मतम् । तथा बिन्थ्यगिरि-वसन्तसमय-रेवानदीचन्दनद्रुमादयो वृद्धैः प्रयुक्ताः ।।३६ ।
३७. कतरकतमयोर्जात्या अनयोश्च जात्या सह कर्मधारयो भवति । कतरब्राह्मणः, कतरकतमब्राह्मणः, कतरकठः, कतमकठः । जात्येति किम् ? कतरश्चैत्रः, कतमश्चौरः ।।३७।
३८. उपमानस्योपमेयविशेषणैः उपमेयविशेषणैः सहोपमानस्य कर्मधारयो भवति । कुमुदमिव श्वेतं कुमुदश्वेतं शिरः । एवं चम्पगौरी कन्या, मृगरम्या शुनी, वराहपुत्रिणी पामरी, कपोतकामुको युवा, सिंहशूरो भटः । उपमेयविशेषणैरिति किम् ? गौरिव पामरः, सिंह इव माणवकः, शोण इव सिन्धुः, धेनुरिव बष्कयणी ।।३८ ।
३९. तदप्रयोगे प्रायेणोपमेयस्य उपमेयविशेषणस्याप्रयोगे उपमेयवाचिनोऽर्थादुपमानवाचिना व्याप्तादिना सह प्रायेण कर्मधारयो भवति । व्याघ्रवृककुञ्जररुरुवराहबलाहकवृषऋषभसिंहशार्दूलचन्द्रचन्दनहस्तिपल्लवपङ्कजपुण्डरीकादिभिरुदाहरणीयम् । पुरुषो व्याघ्र इव पुरुषव्याघ्रः, नरवृकः, साधुकुञ्जरः, करपल्लवः, भूपालचन्द्रः । तदप्रयोग इति किम् ? पुरुषो व्याघ्र इव भीमः । करः पल्लव इव शोणः । प्रायेणेति किम् ? बिन्ध्यो मलय इव, चैत्रो मैत्र इव, चूतश्चम्पक इव, शोण : सिन्धुरिवेत्यादि ।।३९।
Page #654
--------------------------------------------------------------------------
________________
१२
कातन्त्रव्याकरणम्
४०. पूर्वकालस्य पूर्वकालवृत्तेः परकालवृत्तिना सह कर्मधारयो भवति । पूर्व लूनः पश्चात् प्ररूढः लूनप्ररूढः । एवं बद्धताडितः, स्नपितभोजितः । पौर्वापर्यस्य प्रतीत्यर्थं वचनम् ।। ४०।
४१. भृष्टलुचितादीनि पूर्वकालस्य परत्वेन एतानि कर्मधारयरूपाणि साधूनि भवन्ति । पूर्वं लुचिताः पश्चाद् भृष्टाः भृष्टलुचिता यवाः । एवं नग्नमुषितः पान्थः । अर्पितोढम्, लिप्तवासितम्, सिक्तसंसृष्टम्, क्लिन्नपक्वम् इत्यादयः ।। ४१ ।
४२. जरदेकपुराणादेः जरदेकपुराणादेः पूर्वस्य कर्मधारयो भवति । जरद्धस्ती, जरद्दण्डी, जरत्पटुः । एकस्य संख्यावृत्तेरपि - एकश्छात्रः । क्वचिद् रूढौ एकदेशोऽवयवः इति । अत एव तद्योगादेकदेशीति स्यात् । पुराणोपाध्यायः, नवयाज्ञिकः, केवलसुरभिः, सर्वशुक्लः, सर्वसुरभिः, प्रथमोपाध्यायः, चरमगुरुः, जघन्यशिष्यः, समानपुरुषः, मध्यशिष्यः, मध्यमशिष्यः, वीरभूपतिः, जरत्पुरुषादयश्च पूर्वेणैव सिद्धाः । पूर्वस्यैवेति किम् ? दण्डी जरन्, पाचकः पुराणः । अजातिद्रव्यवाचिभिरनियमे प्राप्ते नियमार्थं वचनम् ।।४२ ।
४३. स्तुतौ सत्प्रभृतेः प्रशंसाविषये पूर्वस्य सत्रभृतेः कर्मधारयो भवति । सच्छ्रोत्रियः, परमयाज्ञिकः, उत्तमच्छात्रः, उत्तमपण्डितः, उत्कृष्टगवः । स्तुताविति किम् ? सन् घटः, उत्कृष्टा रज्जुः कूपात् । अपादानाद्यपेक्षस्यापि हि वृत्तिः स्यादेवेति समर्थितम् । यथा वृक्षात् पतितपत्राणि ।।४३।
४४. वृन्दारकादिभिश्च प्रशंसायामेभिश्च पूर्वस्य कर्मधारयो भवति । गोवृन्दारकः, गोनागः, गोकुञ्जरः, गोसिंहः, गोवृषभः, गोपुङ्गवः, पुरुषर्षभः, पुरुषशार्दूलः, नागादयः पुंस्युत्तरपदविषया एव प्रशंसा इति तैर्नित्यं समासः । स्तुतावित्येव-भृत्या वृन्दारकाः, दास्यो वृन्दारिकाः । प्रधानानीत्यर्थः ।। ४४।
४५. गद्यस्यानणकादिना स्वार्थगर्हणेन गर्हणीयस्य पूर्वस्याणकादिवर्जितेन स्वार्थगर्हणेन सह कर्मधारयो भवति । खं सूचयतीति णिनिः- वैयाकरणखसूचिः, निष्प्रतिभो वैयाकरणः । खं सूचयतीति
। ००
Page #655
--------------------------------------------------------------------------
________________
परिशिष्टम् -२ उणादिरिश्च-तार्किकखसूचिः, तापसस्त्रैणः, ब्राह्मणवार्धषिकः, याज्ञिकमूर्खः, याज्ञिककितवः |लोभादयाज्ययाजकोऽभिधीयते । ब्राह्मणब्रुवः, क्षत्रियचेलः, वृषलापसदः । स्वार्थग्रहणं किम् ? वैयाकरणश्चौरः, नहि चौर्येण व्याकरणज्ञानमध्ययनं वाऽपकृष्यते, किन्त्वनाचारोऽसौ पुरुषः । अनणकादिनेति किम् ? नापितोऽणकः, अणकनापितः, कुविन्दः पापः, पापकुविन्द इति तु स्यादेव ।।४५।
४६. कृत्यतुल्यार्थयोरजात्या __ कृत्यप्रत्ययान्तस्य तुल्यार्थवाचिनश्च पूर्वस्याजातिवाचिना सह कर्मधारयो भवति । भोज्यकटुः प्रेयसुरभिः, भोज्योष्णम्, भोज्यमृदुः, तुल्यश्वेतम्, समश्वेतम् । पूर्वयोरिति किम् ? मधुरं प्रेयः, सुरभिप्रेयः, गौरं तुल्यम् । अजात्येति किम् ? भोज्या माषाः, पचेलिमाः शालयः ।।४६।
४७. पूर्वापरस्यैव दिशः दिग्वाचिनः पूर्वापरस्यैव कर्मधारयो भवति । पूर्वपुरुषः, अपरपुरुषः । रूढौ तु नित्यमेव । नहि वाक्यात् संज्ञा गम्यते । पूर्वेषुकामशमी, अपरेषुकामशमी, पूर्वपाञ्चालाः, अपरपाञ्चालाः । नियमः किम् ? दक्षिणाः शालाः, उत्तरा वृक्षाः ।।४७।
४८. प्रायो रूढौ संख्यायाः प्रायो रूढिविषये संख्यायाः कर्मधारयो भवति । सप्तर्षयः, पञ्चाम्राः । प्रायोग्रहणात् पञ्चपुरुषगामिन्यः इत्यादिष्वेवारूढौ स्यान्न सर्वत्र ।। ४८।
४९. महतः महच्छब्दस्य प्रायो बहुलं कर्मधारयो भवति । महाजनः, महापुरुषः, महाशूरः इति स्तुतौ । महाचौरः, महाश्यामः, महाक्रूरः, महाकृपणः, महाविपद् इत्यतिशायने । महानटः, महेश्वरः, महादेवश्च हरः । महामृगो हस्ती, महाव्रतं नाम चर्या, महाराष्ट्रो जनपदः । महोत्पलमरविन्दम्, महाशूद्रो गोधुक् । महौषधम्, शुण्ठी विषं च । महोदधिः, महार्णवः समुद्रः । महेन्द्रः शक्रो गिरिश्च कश्चित् । एतौ रूढौ । महातरुः, महाकूटम्, महाह्रद इति बृहत्त्वे । महापथो मरणवर्त्म । महावनं श्मशानम् । महाशय्या मरणशय्या, महाज्यौतिषिको महागणकः । महावैद्यो महासाधनिकश्च यमः । महाशङ्खो मनुष्यास्थि, महामांसं नृमांसम् | महातैलं शिरोमज्जा । महानिशा मृत्युकालः । महाब्राह्मणः कापालिकः । महायात्रा, महानिद्रा च मरणमित्यनर्थान्तरे ।। ४९ ।
Page #656
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
५०. पोटादिप्रकाण्डादिभ्यां जातेः जातिवाचिनः पूर्वस्य पोटादिना प्रकाण्डादिना च सह कर्मधारयो भवति । ब्राह्मणपोटा, क्षत्रिययुवतिः, गोस्तोकः, अश्वकतिपयः, गोगृष्टिः, गोधेनुः, गोवेहत्, गोवसा, गोबष्कयणी, वष्कयः । प्रौढो वत्सः सोऽस्या अस्तीति पामादित्वान्नः नदादित्वादीः । कठप्रवक्ता, कठश्रोत्रियः । इङो वुण् - कठाध्यायकः, कठधूर्तः । प्रकाण्डादिना च - गोप्रकाण्डम्, अश्वमतल्लिका, गोमचर्चिका । करेणूद्घः, वडवोद्घः, स्त्रीतनुजः । प्रशस्तार्थो यथोदाहृतलिङ्गः पञ्चकोऽयं प्रकाण्डादिः। वीररक्षःप्रकाण्डकाविति, रक्ष प्रकाण्डं रावणः । सग्रामणीरनयोरिति कप्रत्ययस्तद्धितः ।। ५०।
५१. पशोभिण्या पशुवाचिनः शब्दस्य गर्भिण्या सह कर्मधारयो भवति । गोगर्भिणी, अश्वगर्भिणी । पशोरिति किम् ? वृषलीगर्भिणी । पशुरिह चतुष्पाद् गृह्यते, तेनेह न स्यात् - शरभी गर्भिणी । गोनसी गर्भिणी । जातेरित्येव-शबली गर्भिणी ।।५१।।
५२. च्यर्थे श्रेण्यादेः कृतादिना च्च्यर्थेऽभूततद्भावे वर्तमानस्य श्रेण्यादेः कृतादिना सह कर्मधारयो भवति । अश्रेणयः श्रेणयः कृताः श्रेणीकृताः । श्रेणीभूता बलाकाः । अध्यापयतीति वुण् - अध्यापककृतश्छात्रः।
श्रेणिब्राह्मणनिपुणाः पटुपण्डितकुशलचपलपुण्डाश्च । देवक्षत्रियमूकाः श्रमणो राशीन्द्रकूटनिधनानि ॥ अध्यापको वदान्यो विषयो निचयोऽपि भूतपूर्वगे च । कृतमिति भूतान्युक्तं गतं मतं स्यान्निराकृतं कलितम् ॥ सम्भावितमवधारितमकल्पितमप्युदाहृतं विद्यात् । स्नातख्यातज्ञातान्यपि मिलितात् समाहृतं चेति ॥ परिगणितः श्रेण्यादिः कृतादिरपि शेषमाकृत्या ॥५२।
५३. कुकिमोः अनयोः परेण सह कर्मधारयो भवति । कुयाज्ञिकः, कालवणम्, किंराजा, किंगौः, अव्ययग्रहणादिह न स्यात् । किं धान्यम्, कुः सुरभिः, कुः श्वेता भूरित्यर्थः ।। ५३ |
Page #657
--------------------------------------------------------------------------
________________
६१५
परिशिष्टम् - २
५४. खलतिपलितवलिनैनः एभियुवन्शब्दस्य कर्मधारयो भवति । युवखलतिः, युवखलती । युवपलितः, युवपलिता । युववलिनः, युववलिना | पूर्वस्येत्येव - खलतियुवा, पलितो युवा, वलिनो युवा ।।५४।
५५. जरत्या च जरत्या च सहार्थाद् युवतिशब्दस्य कर्मधारयो भवति । युवजरती ।पूर्वस्येत्येव - जरतीयुवतिः । स्त्रीनिर्देशः किम् ? युवा जरन् । जरयुवा, युवजरन्निति पुंस्यपि जरतापि विधिरयमिति एके । नैतद् भाष्ये चिन्तितम् ।। ५५ ।
५६. श्रमणादिना कुमारस्य श्रमणादिना सह पूर्वस्य कुमारस्य कर्मधारयो भवति । श्राम्यति तपस्यतीति श्रमणः, नन्द्यादित्वाद् युः । कुमारश्रमणा, कुमारप्रव्रजिता, कुमारदासी, कुमारपटुः, कुमारपट्वी, कुमारपण्डितः, कुमारपण्डिता । इनन्तादिङो वुण्-कुमाराध्यापकः, कुमाराध्यापिका ।
श्रमणा प्रव्रजितापि गर्भिण्यपि तापसी कुलटा । दासीबन्धक्यावपि सप्तभिरेतैः स्त्रियामेव च ॥ पटुमूदुपण्डितकुशला अभिरूपाध्यापकौ निपुणचपलौ । अष्टभिरेतैः पुंसि स्त्रियामपि स्यात् कुमारस्य । इत्येवं परिगणितः श्रमणादिगणः पञ्चदशकः॥५६।
५७. क्तस्यैकप्रकृतिना क्तेन नञः तान्तस्य समानप्रकृतिना नञः परेण क्तान्तेन सह कर्मधारयो भवति । कृताकृतम्, घ्राणाघ्रातम्, त्राणात्रातम्, छन्नाच्छादितम्, अशितानशितम् । एकप्रकृतिनेति किम् ? भुक्तमदृष्टम्, स्पृष्टमपीतम् ।। ५७।
५८. कृतापकृतादीनि इमानि कर्मधारयरूपाणि साधूनि भवन्ति । कृतापकृतम्, भुक्तावभुक्तम्, यातानुयातम्, गतप्रत्यागतम्, पीतावपीतम्, भुक्तोपभुक्तम्, पीतविपीतम् । तथा
Page #658
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
क्रयाक्रयिका, फलाफलिका, पुटापुटिका, मानोन्मानिका । ह्रस्वस्य दीर्घता | पूर्वत्वनियमार्थं वचनत्रयम् ।। ५८।
५९. शाकपार्थिवादिश्च अयञ्च मध्यपदलोपी कर्मधारयः साधुर्भवति । शाकः शक्तिः प्रधानमस्येति शाकप्रधानः, पृथोरपत्यमित्यण-पार्थवः, शाकप्रधानः पार्थवः शाकपार्थवः इति पातञ्जलाः । पृथिव्याः स्वामी पृथिव्यां ख्यातो वा पृथिव्याः स्वामिनि तत्राख्याते चेत्यण, तस्येदमित्यपरे-शाकपार्थिवः । एवं घृतपूर्णो वोटि: घृतवोटिः । सक्तुसैन्धवः, ओदनपाणिः, घृतपूर्णो घटः घृतघटः । कुतपोपलक्षितः सौश्रुतः कुतपसौश्रुतः । एवम् अजातौल्वणिः, षष्टिमौद्गल्यः, मुखयुक्ता नासिका मुखनासिका । एवं मर्यादाभिविधिः । वर्णाश्रयो विधिः वर्णविधिः, त्रिरूपा जगती त्रिजगती । एवं त्रिवलीति मतम् । अविशिष्टं श्रितम् अर्धश्रितम् इत्यादिराकृतिगणोऽयम् ।। ५९।
६०. परस्य च कडारादेः कडारादेः पूर्वस्य परस्य च कर्मधारयो भवति । कडारवाडवः, वाडवकडारः । कुन्तक्षत्रियः, क्षत्रियकुन्तः । कुमारक्षत्रियः, क्षत्रियकुमारः । काणवृषलः, वृषलकाणः । तुरगखञः, खञ्जतुरगः । खलतिकठः, कठखलतिरित्यादि ।।६०।
६१. मयूरव्यंसकादीनि एतानि समासरूपाणि साधूनि भवन्ति । मयूर इव व्यंसको धूर्तः मयूरव्यंसकः । एवं छात्रव्यंसकः । कम्बोज इव मुण्डः कम्बोजमुण्डः, यवनमुण्डः । उच्चैश्च नीचैश्च उच्चनीचम्, एवम् उच्चावचम् । न किञ्चनेत्यव्ययेनापि समासे निपातनाद् अभिधेयलिङ्गता-अकिञ्चनः, कापुरुषः । न किञ्चित् पुरुष इत्यर्थः । न किञ्चनास्यास्तीत्यकिञ्चनः । “अकिञ्चनास्ते गुणिनो ये सभायामनादृताः" | नास्य कुतो भयमस्तीति अकुतोभयः । "इहामुत्र च स श्लाघ्यः प्रजा यस्याकुतोभयाः" । स्नात्वाकालकः, पीत्वासुहितः, प्रोष्यपापीयान् । कारिकाकृत्य, क्त्वो यप् च गणपाठात् । विस्पष्टपटुः । एवं परिगाढकृशः, नितान्तक्षामः, नित्यभीरुरित्यादि समासत्वात् । स्नात्वाकालकः, स्नात्वाकालकीयं धनम्, पैत्वासुहितीयं धनम्, प्रेष्यपापीयसः, प्रेष्यपापीयसं धनम्, मयूरव्यंसकादित्वात् । परमोऽकिञ्चनः, परमोऽकुतोभयः इत्यसमास एव, तत्कथमेतौ
Page #659
--------------------------------------------------------------------------
________________
परिशिष्टम् - २
६१७
बहुव्रीहिणा समर्थितौ कथञ्च स्नात्वा कालकादीनि वाक्यान्येवेति मत्वा समासोऽत्र प्रत्याख्यातः । तथा एहीहेत्यत्र एहीहं वर्तते, एहि वाणिजमिति नियोगो यस्यां क्रियायां सा एहिवाणिजा क्रिया । एवम् अपेहिवाणिजा, एहिस्वागता, अपेहिस्वागता, प्रोहकटा, प्रोहकर्दमा, आहरचेला, आहरवसना, आहरवनिता । यथा अश्नीतपिबतेति प्रयोगो यस्यां क्रियायां सा अश्नीतपिबता । एवं खादतमोदता, पचतभृज्जता, हसतजल्पता । अहमेव पुरुषोऽत्रेति सम्भावनायाम् आहोपुरुषिका । इह वृद्धिरपि निपातनात् अहं पूर्वमत्रेत्याविष्क्रिया अहंपूर्विका अहं प्रधानमत्रेति अहङ्कृतिः, अहमहमिका । एवमन्येऽपि || ६१ |
६२. तद्धितोत्तरपदसमाहारेषु द्विगुः
एष्वेव द्विगुर्भवति तद्धिते विषयभूते । पाञ्चनापितिः, पञ्चगर्गरूप्यः । उत्तरपदे परे – पञ्चगवधनम् | समाहतिः समाहारः, स तु समूह एव तद्वितविषयत्वादेव सिद्धे समाहारग्रहणमभिधेयार्थम् । पञ्चग्रामी, पञ्चगवी, पञ्चमाली, पञ्चवाडवी, पञ्चराजी, पञ्चपूली, पञ्चगजी, पञ्चमाणवकी । पञ्चकुमारि, पञ्चयुवतीति स्त्रीप्रत्ययस्य लुग् मा भूत् । तत्र च द्रव्यबहुत्वेऽपि समूहालम्बनमेकत्वं सिद्धम् । यथा शतं यूथम् । समूहस्येव तुभेदे द्वित्वबहुत्वे स्यातामेव । द्वे पञ्चपूल्यौ, दश पञ्चपूल्य:, तथा द्वे यूथे, पञ्च शतानीति भाष्येऽप्युक्तम् एकशेषे प्रतिषेध इति, न त्विह समाहारशब्दः कर्मसाधनस्तदा पञ्च पूल्यः समाहृताःपञ्चपूल्य इति बहूनां प्राधान्याद् बहुत्वमेव स्यात् । पञ्चमाली' इत्यनुपसर्जनत्वाद् ह्रस्वश्च न स्यात् || ६२ |
"
६३. दिक्पूर्वोऽसमाहारे
समाहारवर्जिते तद्धितादौ दिक्शब्दपूर्वको द्विगुर्भवति । पूर्वस्यां शालायां भवः पौर्वशालः । एवम् औत्तरशालः । " दिक्पूर्वाण्णः" इति णः । उत्तरगवप्रियः, उत्तरसखप्रियः। असमाहार इति किम् ? उत्तरासां शालानां समाहारः ।। ६३ ।
६४. नञस्तत्पुरुषः
पूर्वस्य नञो निषेध्येन सह तत्पुरुषो भवति । इदमेतन्न भवतीति प्रतिषेधो ऽस्य विषयः । न ब्राह्मणोऽयमब्राह्मणो राजन्य: । इह सादृश्यकृता तदन्यता नञाख्यायते । अभक्षको गृञ्जकः, अपेया सुरा । इह अव्यवहार्यतानिषेध एव नत्रा -
Page #660
--------------------------------------------------------------------------
________________
६१८
कातन्त्रव्याकरणम्
ख्यायते । अनृतमधर्मः । अनिक्षुरिति । रूढिविषयता तदन्यता पूर्वस्य इत्येव कृतं न पीतं न न तरां ब्राह्मणः, न हि ब्राह्मणः, नो ब्राह्मण इत्यादिवदप्राप्ते वचनम् । अकर्मधारयत्वाद् ‘अपथी, अपथिकः' इतीनिकौ स्यातामेव ।। ६४ ।
६५. प्राप्तापन्नादिभिर्द्धितीयायाः एभिः सह पूर्वस्य द्वितीयान्तस्य तत्पुरुषो भवति । सखिप्राप्तः, सख्यापन्नः, ग्रामगतः, कष्टश्रितः, कूपपतितः, कान्तारातीतः, तरङ्गात्यस्तः, कृच्छ्रात्यस्तः, गत्यर्थात् सर्वत्र कर्तरि क्तः । ग्रामं गमी ग्रामगमी, भविष्यति गमेरिन् । ग्राममागामी ग्रामागामी । आङि गमेणिन् । सुखेप्सुः, पुत्रेप्सुः, ओदनबुभुक्षुरित्यादि । क्वचित् क्रियाविशेषणस्यापि - विस्पष्टपटुः, परिगाढकृशः, नितान्तक्षामः, निकामसुखी, नित्यभीरुरित्यादि । तदुक्तं समासविधिषु लक्षणमुपलक्षणम् इति । एभिरिति किम् ? ओदनं भुक्तवान् । कटं चक्राणः । 'हंसमण्डलद्युतिजिष्णुरधृतोष्णवारणम्' इति शैषिक्याः षष्ठ्याः समास इति । निष्ठादिष्वपि नेष्यते, यथा – ‘सत्यानुरक्ता नरकस्य जिष्णवः, तव सर्वगतस्य सम्प्रति क्षितिपः क्षिप्नुरभीषुमानिव' ।। ६५ ।
६६. कालस्यावन्तुनाभिविधौ अभिविधौ द्वितीयान्तस्य कालस्यावन्त्वन्तेन सह तत्पुरुषो भवति । मासं स्थायी, मासस्थायी । मासं सुखी, माससुखी । अहोरात्रकामुकः । अवन्तुनेति किम् ? मासं स्थितवान् ।।६६।
६७. क्तेन द्वितीयान्तस्य कालस्य क्तान्तेन सह तत्पुरुषो भवति । मासं स्थितः, मासस्थितः । कालादिलक्षणं कर्म । अहरतिसृता, रात्र्यारूढा मुहूर्ताः ।। ६७।
६८. क्षेपे खट्वायाः द्वितीयान्तायाः खट्वायाः क्षेपविषये क्तान्तेन सह तत्पुरुषो भवति । अननुज्ञातो गुरुणा खट्वामारूढः खट्वारुढः, लङ्घिताचारत्वादविनीतोऽभिधीयते । क्षेप इति किम् ? खट्वामारूढो गुरुरध्यापयति ।। ६८।।
६९. तयात्यादेः अतिक्रान्ताद्यर्थे वर्तमानस्यातिप्रभृतेरव्ययस्य तया द्वितीयया सह तत्पुरुषो भवति । अतिक्रान्तो नदीम् अतिनदिः, अतिकमण्डलुः, अतिकर्ता, अतिवधुः । एषु
Page #661
--------------------------------------------------------------------------
________________
परिशिष्टम् -२ बहुव्रीहौ नित्यं कः स्यात् । अतिराजः, अतिसखः, अतिगरः इत्यत्रान्न स्यात् । अतिधर्मः, अतिजायः इत्यत्र धर्मस्य धर्मन्, जायाया जानिश्च स्यात् । अधिरूढं ज्यान् अधिज्यं धनुः, उद्गतो वेलाम् उद्वेलः समुद्रः, वेलाब्धिकूलम् ।।६९ ।
७०. प्राप्तापन्नयोरच्च द्वितीयान्तेन सह प्राप्तापन्नयोस्तत्पुरुषो भवति । स्त्रियामनयोरातोऽच्च भवति । प्राप्तः प्रियां प्राप्तप्रियः । एवं प्राप्तपञ्चमिः, प्राप्तवधुः, प्राप्ततन्त्रीः, प्राप्तराजः, प्राप्तधर्मः, प्राप्तगवः, प्राप्तजायः । नैते बहुव्रीहिणा सिद्धाः । एवम् आपन्नप्रियः, आपन्नपञ्चमिः इत्यादि । प्राप्ता प्रियं प्राप्तप्रिया, आपन्ना प्रियम् आपन्नप्रिया । आभ्यां द्वितीयासमासस्तूदाहृत एव ।।७०।
७१. तृतीयायास्तत्कृतार्थेन गुणवचनेन तेन कृतं तत्कृतं तेनेति तृतीयान्तेनाभिधीयमानं गिर्यादि प्रकृतं वस्तु परामृश्यते । शब्दस्य प्रवृत्तिनिमित्तं स्वार्थः । गियविस्तृतीयान्तस्य गिर्यादिना सम्पादितो यस्य स्वार्थस्तेन गुणवचनेन सह तत्पुरुषो भवति । गिरिनाम क्रीडनकं तेन काणो. गिरिकाणः । एवं लोष्ट्रेण काणः, आतपश्यामः, अक्ष्णा काणः । तत्कृतेति कर्तृकरणयोस्तृतीयायाः समासः । इह तु आभ्यामन्यत्र तृतीया । बहुव्रीहौ तु काणाक्षः इत्युपसर्जनत्वात् । गुणवचनेनेति किम् । दध्ना मांसलः, श्रमेण क्षामः । गुणे वर्तित्वा तन्निमित्तीकृत्य यो गुणिनि वर्तते स गुणवचनः ।।७१ ।
७२. पूर्वावरार्थादिभिः एभिश्च तृतीयान्तस्य तत्पुरुषो भवति । मासेन पूर्वः मासपूर्वः, मासेनावरः मासावरः । द्यूतेनार्थः द्यूतार्थः । एवं मासोनः, मासविकलः, बन्धुविधुरः, रथशून्यः, दण्डकलहः, वानिपुणः, वाक्श्लक्ष्णः, वाक्शूरः, द्रुमसङ्कटः, मदमलीमसः, प्रकृतिकृपणः, शब्दसंकुलः, अर्थपण्डितः । हिरण्याढ्यो वणिक् । विरहदुर्बलः, स्वेदाः, जरामन्थरः, त्रासविह्वलः, वयोज्येष्ठः, पञ्चोत्तरम्, पञ्चाधिकम्, वर्षाधिकम् इत्यादि शिष्टाचारतोऽनुसरणीयम् । भवत्यर्थं कृञर्थं वाऽपेक्ष्य सर्वत्र कर्तृत्वं करणत्वं च । एभिरिति किम् ? मासेन परः, मासेन कनीयान् ।।७२ ।
Page #662
--------------------------------------------------------------------------
________________
१२०
कातन्त्रव्याकरणम्
७३. कर्तृकरणयोरवन्त्वव्ययेन कृता कर्तृकरणयोर्विहितायास्तृतीयाया वन्चव्ययवर्जितेन कृता सह तत्पुरुषो भवति । छात्रकृतम्, छात्रसुकरः, छात्रदुष्करः, छात्रविलूनः, रथव्रज्याऽस्य, हर्षजागरास्य, पुलाकपक्वः, कडङ्गरपाकः । मिश्रयतेरल् – गुडमिश्रः, पादेन ह्रियते पादहारकः । बाहुलकत्वात् कर्मणि वुण नित्यसमासश्च सञ्ज्ञात्वात् । अनयोरिति किम् ? पुत्रेणागतः, कमण्डलुना शिष्यः, पुष्येण मतः, केशैः प्रसितः । अवन्त्वव्ययेनेति किम् ? दात्रेण लूनवान् । दात्रेण कृत्वा । अलं रथेन । गन्तुं समयः । घृतेन भोक्तुं कालः | मूलकेनोपदंशं मूलकोपदंशमिति वक्ष्यते ।।७३।
७४. येन प्रायेण यप्रत्ययेन कृता सह तृतीयायाः प्रायेण बहुलं तत्पुरुषो भवति । बुषोपेन्ध्यम्, घनघात्यम्, काकपेया नदी । श्वलेह्यः कूपः इति पूर्णतायाम् । दन्तच्छेद्यं दधि, पाणिच्छेद्यं पयः, सूचिभेद्यं तम इति सुघनतायाम् । बाष्पच्छेद्यं तृणम् । पाणिविमृज्याः कण्टकाः, ओष्ठावलोप्यं मांसम् इति मृदुत्वे | दात्रच्छेद्यः प्रस्तरः इति निन्दायाम् । कठिनत्वं हि प्रस्तरस्य गुणः ।।७४ |
७५. एकान्नविंशत्यादीनि एतानि तृतीयातत्पुरुषसमासरूपाणि साधूनि भवन्ति । एकेन न विंशतिः एकान्नविंशतिः । एकानविंशतिः । एकान्नत्रिंशत्, एकाद्नत्रिंशत्, एकान्नशतम्, एकाद्नशतम् । एकस्य एकादित्यादेशे पञ्चमो वा । तथा अर्धेन चतस्रोऽर्धचतस्रो मालाः ||७५।
७६. दध्योदनादीनि एतान्यन्तर्भूतक्रियान्तराणि तृतीयातत्पुरुषरूपाणि निपात्यन्ते । दधना मिश्रितमोदनं दध्योदनम् । एवं दधिसक्तवः । रसौदनम्, मांसौदनम्, तक्रौदनम्, सूपौदनम्, शाकौदनम् इत्यादि । इह व्यञ्जनविशेषाणामन्नविशेषैः समासः । गुडेन मिश्रा धानाः गुडधानाः । एवं मधुलाजाः, फलितपृथुकाः, उदकसक्तवः, गुडचूर्णम् इत्यादि । इहापि पिण्डितद्रव्येण पिण्डीकरणयोग्यस्य गुडादेः समासः । अश्वेन युक्तो रथः अश्वरथः, वडवारथः, वाहि (ह्ली) करथः, लुलापशकटम् इत्यादि । इह यानेन रथादिना वाहनस्य समासः । दध्ना पूर्णो घटः दधिघटः । एवं गुडस्थाली, गुडगर्गरी,
Page #663
--------------------------------------------------------------------------
________________
परिशिष्टम् - २
६२१
धान्यकुसूलः, माषपेटकः, शाटकमञ्जूषा इत्यादि । इह भाण्डे तत्पुरुषद्रव्यस्य दध्यादे: समासः । एवमन्येऽप्यनुसर्तव्याः ।।७६।
७७. तयाऽवप्रभृतेः तया तृतीयया सह अवप्रभृतेरव्ययस्य समासो भवति । अवक्रुष्टं कोकिलया अवकोकिलम्, श्रूयतेऽवक्रुष्टं सशब्दीकृतं कोकिलैः अवकोकिलं वनम् । परिणताः संवत्सरेण परिसंवत्सरा व्रीहयः । अधिगतोऽध्यक्षेणाध्यक्षो घटः । प्रतीतोऽक्षेण प्रत्यक्षः पटः, परिणद्धं वीरुधा परिवीरुत्, सुसङ्गतो वेलया सुवेलो नाम गिरिः । वेलेह जलधिसीमोच्यते । क्रुष्टाद्यर्थे वृत्तिरेषां स्वाभाविकी ।।७७।
७८. प्रकृत्या चतुर्थ्या चतुर्थ्यन्तस्य विकारस्य प्रकृतिवाचिना सह तत्पुरुषो भवति । यूपाय दारु यूपदारु, कुण्डलहिरण्यम्, पिठरमृत्तिका, भस्मगोमयम् । प्रकृत्येति किम् ? धर्माय तपः, प्रशमाय विद्या | भर्तृहरिणाऽप्युक्तम् - प्रकृत्या विकृतिर्यस्माच्चतुर्थ्यन्तात् समस्यते इति । यूपादेरुपादानकारणं द्रव्यमिह प्रकृतिरुच्यते । कथम् ‘अश्वघासः, रन्धनगृहम्, नाट्यशालाः, क्रीडातडागः, शयनपर्यङ्कः, परिश्रमस्थली, विश्रामगृहम्' इति प्रतिविहितं भाष्ये | अश्वघासादय इति षष्ठीसमासाः । तथा 'गोहितम्, गोसुखम्' हितसुखाभ्यां षष्ट्यपीह प्रमाणम् | वचनमिदं तु तादर्थ्यविषये प्रकृतिविकारभावे प्रायिकसमासार्थम् । ‘रन्धनार्थं भाण्डम्, रन्धनार्था स्थाली, रन्धनार्थः पिठरः' इति रन्धनमर्थः प्रयोजनमस्येति वहुव्रीहिः । महदर्थ इति महत्यर्थः प्रयोजनमस्येति वाक्यम्, अतुल्याधिकरणत्वान्नाकारः ।।७८ ।
७९. बलिरक्षितदेयादिना च। अनेन चतुर्थ्यास्तत्पुरुषो भवति । 'कुवेरबलिः, गोरक्षितं तृणम्, देवदेयं पुष्पम्, वरप्रदेया कन्या, पितृदानम्' इत्यादि | तादर्थेऽधिकारार्थं सम्प्रदानार्थं च वचनम् । अश्वघासादयोऽपीह वा मन्तव्याः ।।७९ ।
८०. तया पर्यादः तया चतुर्थ्या सह परिप्रभृतेरव्ययस्य तत्पुरुषो भवति । परिग्लानोऽध्ययनाय पर्यध्ययनः, उद्युक्तः संग्रामाय उत्संग्रामः, अलं कुमार्य अलंकुमारिः, अलंसखः,
Page #664
--------------------------------------------------------------------------
________________
६२२
कातन्वव्याकरणम्
मग.
अलंगवः इति नित्यत्वात् । यथा बहुनदीक इति । एषां ग्लानाद्यर्थे वृत्तिः स्वाभाविकी ।। ८०।
८१. भीतादिना पञ्चम्याः भीतादिना सह पञ्चम्यन्तस्य तत्पुरुषो भवति । वृकभीतः, वृकभयम्, वृकभीतिः, वृकभीः, वृकभीरुः, अश्वपतितः, शाखापेतः, गृहनिर्गतः, पापजुगुप्सुः, व्यसनापोढः, क्रोशपरः । आलानमुक्तः, बन्धविरहार्थो मुचिरकर्मकः, वृकापत्रस्तः, शाखाच्युतः, वेदरहितः, पापविरतः, तल्लब्धः, तप्राप्तः, तदन्यः, तदितरः, तदन्तरः । तदनन्तरमित्यादिकं शिष्टाचारतोऽनुसरणीयम् । भीतादिनेति किम् ? गुरोरध्येता । ग्रामादूढम् । प्रायाधिकारात् - प्रासादात् पतितम्, पर्वतात् पतितमिति वाक्यमेव ।। ८१ ।
८२. क्तेन स्तोकादेः क्तान्तेन सह पञ्चम्यन्तस्य स्तोकादेस्तत्पुरुषो भवति । स्तोकान्तिकदूरार्थः कृच्छं च स्तोकादिः । स्तोकान्मुक्तः, अन्तिकादूढम्, दूरात् पतितम्, विप्रकृष्टात् पतितम्, समीपादाहृतम् । परत्वादिहाप्यनेन समासः- कृच्छ्राल्लब्धम् ।। ८२।
८३. तया निरादेः तया पञ्चम्या सह निरादेश्च तत्पुरुषो भवति । निर्गतो ग्रामाद् निग्रामः, अपगतं शाखायाः अपशाखम्, विच्युतो यूथाद् वियूथः, एवं विरथः । एषां गताद्यर्धे वृत्तिः स्वाभाविकी || ८३।
८४. षष्ठ्याः कृच्छेषयोः अपादानादिसंज्ञाभिरनाघ्रातोऽनालिङ्गितो लिङ्गार्थतया अनाख्यातः कारकमकारकं वाऽर्थः शेषः स एव स्वाम्यादिसंबन्ध इति चोच्यते । कृप्रयोगे शेषे च या विहिता षष्ठी तस्यास्तत्पुरुषो भवति । प्रजानन्दथुः, कुमारक्रीडा । जनप्रमदः, युवतिजागरा, ओदनपाकः, तथा मातृस्मरणं तण्डुलोपस्कारः । चौरप्रहरणमिति स्मृत्यादिकर्मण्यपि कृति कृद्योगलक्षणैव षष्ठी-मृणालखादिका सहकारभञ्जिका इति क्रीडायां नित्यं संज्ञात्वात् । शेषे च राजच्छत्रम्, पलाशशाखा, मृद्भाण्डम्, घृतभाण्डम्, मासस्य जातः मासजातः कुमारः । एवं पक्षजाता कन्या । परिमाणं हि कालः, परिमाणिनं प्रति षष्ठ्यन्ततामासादयति । यथा त्र्यहस्य दधीदम्, पञ्चाहस्यायं कुमारः, वर्षशतस्यायं ब्राह्मण इति । जातस्य मास: परिमाणम् इति विग्रहे समासोऽयमिति
Page #665
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
६२३ मतेऽपि परिमाण्येव समासार्थ इति भाष्यादावुररीकृतत्वादिह नार्थो भिद्यते । जातस्य मासः परिमाणमित्यत्र तु परिमाणसम्बन्धे साक्षात् षष्ठीयमिति कुतोऽस्य मासेन समासः । परिमिततात्पर्यविरहे तु जातमासमृतः । एवं 'मातृभूतः, पितृभूतः' इति भूतादेरुत्तरपदविषयैव सदृशार्थतेति नित्यसमासः । पञ्चालस्वामी, विदेहाधिपतिः, अङ्गेश्वरः, गोदायाद इति स्वाम्यादिवाक्येनापि शैषिक्येव षष्ठी । अनयोरिति किम् ? मातुः स्मृतवान्, प्रियस्याधीतवान्, तण्डुलानामुपस्कृतवान्, चौरस्योत्क्रथितवान् ।एषु स्मृत्यादिलक्षणा कर्मणि षष्ठी । सर्पिषो ज्ञातवान्, घृतस्य परिपूरितवान् । एषु करणे षष्ठी | 'ओदनतृप्ताश्छात्राः, पयःपूर्णो घटः' इति तृतीयासमासः ।। ८४ ।
८५. निर्धार्येण गुणिनातिशये अतिशये विवक्षिते निर्धारणीयेन गुणवचनेन सह निर्धारणविहितायाः षष्ठ्यास्तत्पुरुषो भवति । सर्वेषामतिशयेन शुक्लं सर्वशुक्लम् । गवामतिशयेन कृष्णा गोकृष्णा | शुक्लानामतिशयेन शुक्लं शुक्लशुक्लम् । पुरुषाणामतिशयेनोत्तमः पुरुषोत्तमः । एवं मुनिप्रवरः, स्नेहोत्तमं सर्पिः। अतिशयाभिधाने विधिरयमिति तद्धिताभिहितेऽतिशये न स्यात् - वस्त्रयोः श्वेततरम्, वस्त्राणां श्वेततमम् । गुणान्तरेण तरतमयोर्लोपश्चेत्येके | तन्मते श्वेतयोः श्वेततरम्, श्वेतश्वेततरम्, श्वेतश्वेतम्, श्वेतानां श्वेततमं श्वेतश्वेततमम्, श्वेतश्वेतम् ।। ८५।
८६. सर्वपश्चात्प्रभृतिष्वेवाव्ययेन सर्वपश्चात्प्रभृतिष्वेवाव्ययेन सह षष्ट्यास्तत्पुरुषो भवति । सर्वेषां पश्चात् सर्वपश्चात्, सर्वोपरि, यदुपरि, तदुपरि, 'पर्वतोपरि यद् वारि तत्कृते सोन्मनायते' । कृतेऽव्ययं निमित्तभावे वर्तते । तत्कृते, तदनु, प्रारूं इति नित्यं राजदन्तादित्वात् परस्य पूर्वत्वं च । नियमः किम् ? तिनस्तूष्णीम्, प्रजानां दिष्ट्या, ग्रीष्मस्य नक्तम्, ग्रीष्मस्य दिवा, वृक्षस्योपरि, गिरेरुपरिष्टात्, छात्रस्य पुरस्तात्, छात्रस्य पुरः, छात्रोपकुम्भम्, ज्येष्ठानुपदम् इति अव्ययीभावस्यानव्ययत्वात् ।। ८६ ।
८७. न गुणे गुणिवृत्तैरसंख्यया गुणिनि वृत्तैर्गुणमात्रे वर्तमानैः सङ्ख्यावर्जितैः सह षष्ठ्यन्तस्य समासो न भवति । पटस्य शुक्लः, जलस्य शीतः, 'शैत्ये शीतं नपुंसकम्' इति एके ।
Page #666
--------------------------------------------------------------------------
________________
६२४
कातन्त्रव्याकरणम्
काश्यपेन तु शुक्लमधुरशीताः, एवं रूपरसस्पर्शाः इति गुणमात्रेऽपि पुंस्त्वमुक्तम् । घृतस्य सुरभिः, पूगस्य कषायः, मरीचस्य कटुः । इह शुक्लत्वादिषु गुणेष्वेव शुक्लादयो वर्तन्ते । गुणिवृत्तैरिति किम् ? 'हिरण्यरूपम्, फलरसः, चन्दनगन्धः, दुन्दुभिघोषः, वायुस्पर्शः, शाखासंयोगः, हेमगरिमा, आकाशमहिमा' नैते तद्वति जातु वर्तन्ते । असंख्ययेति किम् ? गोविंशतिः, गोशङ्खः, गोशतम्, वृद्धस्य शुक्लं शिरः, आढ्यस्य मांसलं वपुः, कृपणस्य मलिनः कायः, छात्रस्य मेदुराः केशाः, वृषलस्य शतं गावः, बालस्य दन्तुरमास्यम्, तरुणस्य मसृणं मुखम् इति शिरःप्रभृतिना वृद्धादेः साक्षात् सम्बन्धो न तु शुक्लादिनेत्यसमासः । न तु सापेक्षत्वं विशेष्यापेक्षित्वे षष्ठीसमासस्येष्टमेव । यथा राजमन्त्रिणो ब्राह्मणाः, तपस्विश्रेष्ठो राजन्य इति । गौरवादेस्तु गुणिनि वृत्त्यभावाद् उदरगौरवम्, शरीरशैत्यम्, गात्रलाघवम्, गगनमलिनिमा, गण्डपाण्डुता, वदनसौरभम्, अङ्गसौरभम्, शिलाश्यामलता, दन्तच्छदारुणिमा इत्यादि न्याय्यमेव ।
मतमेतत्तन्त्रान्तरेऽपि समर्थितम् । भाष्ये तु भावप्रत्ययान्तेनापि शौक्लादिना प्रतिषेध एव प्रमाणम् । छात्रस्यैकस्य कम्बलः इति कम्बलाभिसंबन्धे छात्रात् षष्ठीयमित्येकेन सह कृतः समासः । एवमन्यत्रापि एकाधिकरणत्वे मन्तव्यम् । गुणा इह रूपरसगन्धस्पर्शप्रकारा एव परिशिष्यन्ते ।। ८७।
८८. कर्तर्यकन अकप्रत्ययान्तेन सह कर्तरि विहितायाः षष्ट्यास्तत्पुरुषो न भवति । भृत्यस्य शायिका, विप्राणां भोजिका | कर्तरीति किम् ? सक्तुपायिका, पायसभोजिका, पूपभक्षका च उत्पत्स्यते । इह बुञव प्रतिषेधः परिशिष्यते ।। ८८ ।
८९. कर्मण्ययाजकादिभिः याजकादिवर्जितैरकप्रत्ययान्तैः सह कर्मणि षष्ट्यास्तत्पुरुषो न भवति । ओदनस्य पाचकः, रात्रेः शायकः, वर्षशतस्य जीवकः । अयाजकादिभिरिति किम् ? ब्राह्मणयाजकः, देवपूजकः । इनन्तादिङो वुण - वेदाध्यापकः, आचार्यपरिचारकः, तत्प्रयोजकः इत्यादि । 'जातिवाचकः, सम्प्रदायावबोधकः, वित्तग्राहकः, प्रेषकः, प्रेरकः' इत्यादौ तु शैषिक्याः समासः, तथा 'दन्तलेखकः, नखलेखकः, तैलपायिका'
Page #667
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
६२५ इति नित्यं रूढित्वात् । वचनं त्विदं कर्मणि षष्ठ्याः समासप्रतिषेधार्थम् । भर्तृहरिणा तु भाषायां प्रत्याख्यातमेवेदम् ।। ८९ ।
९०. तृचा च तृजन्तेन कर्मणि षष्ट्यास्तत्पुरुषो न भवति । ग्रामस्य गन्ता, कटस्य कर्ता । 'तत्कर्ता फलभुग् यतः, भीष्मः कुरूणां भयशोकहर्ता' इति च शैषिक्याः समासः । इदमपि भाषायां भर्तृहरिणा प्रत्याख्यातम् ।। ९०।
९१. कर्तृप्रयोगे नियमार्थायाः उभयप्राप्ती कर्मण्येवेति या विहिता षष्ठी तस्याः कर्तृप्रयोगे तत्पुरुषो न भवति । ओदनस्य पाकश्छात्रेण, भारस्य वहनं भृत्येन, गुरोरुपासना शिष्येण, कटस्य कृतिः पामरेण । कथं सम्बन्धाभिधानं त्वतल्भ्यामिति वार्तिकं शैषिक्याः समासश्चेत् त्वतल्भ्याम् इति कर्तरि षष्ठी स्यात्, उभयप्राप्तेरभावात्, तर्हि क्रियते इत्युपस्करणीयम् । अर्थेहा दरिद्राणाम्, पायसभोजिका विप्राणाम्, क्षीरपिपासा कुमाराणामिति नेयं नियमार्था षष्ठीति समासः स्यादेव । ओदनपाकादिषु शैषिक्याः समासश्चेत् - ओदनपाकश्छात्रस्येत्यनुभयप्राप्तौ कर्तरि षष्ठी स्यादेव । कर्तृप्रयोग इति किम् ? इध्मव्रश्चनम्, पलाशशातनम्, शब्दानुशासनम्, तीर्थगमनम्, गोदोहनी, सक्तुधानी ।।९१।
९२. शत्रानाभ्यां च आभ्यां च सह षष्ठ्यास्तत्पुरुषो न भवति । भाषाणामश्नन्, नटस्य शृण्वन्, मित्रस्योपकुर्वन्, मित्रस्योपकुर्वाण': । इयमपि शैषिक्येव षष्ठी । रजकदातव्यं वस्त्रम्, ब्राह्मणदातव्यम् आसनमिति तव्येन समासः स्यादेव । वर्तमानाधिकरणयोः क्तेन तु योगेन शैषिकी, नापि कृच्छ्रुतिविहिता षष्ठीत्यसमास एव छात्राणामिष्टः, मन्त्रिणां बुद्धम्, राज्ञां पूजितः, छात्रेष्टम्, राजपूजितः इति अतीते तेन तृतीयासमासः । भाष्ये तु अनुबन्धादिभ्योऽतीते क्तो नास्तीति समर्थितम्, तदन्येषामनिष्टम् इति वृद्धैरेभ्योऽतीतक्तस्य प्रयुक्तत्वात् ।। ९२।
९३. निर्धार्यपूरणाभ्याम् आभ्यां च षष्ट्यास्तत्पुरुषो न भवति । पुरुषाणां शूरः, गवां क्षीरा । निर्धारणेऽपि शैषिक्येव षष्ठी, किन्तु सप्तम्या बाधितेति तत्रान्वाख्याता निर्धारणे
Page #668
--------------------------------------------------------------------------
________________
६२६
कातन्त्रव्याकरणम्
पञ्चम्यपवादः षष्ठीति मते निर्धार्यग्रहणम् इहाकरणीयं विधेरप्रसङ्गात् । छात्रस्य द्वितीयः, छात्रस्य षष्ठः, छात्रस्य दशमः । भिक्षूणां सङ्घतिथः इति पूरणे तिट् । प्रायाधिकाराद् आत्मचतुर्थः पूर्वचतुर्थः, तद्वर्गपञ्चम इत्यादि ।। ९३ । ९४. ङसावयविना पूर्वस्यैव पूर्वादि:
ङसा षष्ठ्येकवचनान्तेनावयदिना सह पूर्वस्यैव पूर्वादेरवयवस्य तत्पुरुषो भवति । पूर्वः कायस्य पूर्वकायः । एवम् अनरकायः, उत्तरकायः, अधरकायः । अवध्यवधिमत्सम्बन्धे दिग्लक्षणा पञ्चमी, अवयवसम्बन्धे षष्ठ्येव स्यात् । सायोभागोऽह्नः सायाह्नः । तथा मध्याह्नः, मध्यन्दिनम् इति राजदन्तादित्वात् । पूर्वस्यैवेति किम् ? कायस्य पूर्वम्, कायस्योत्तरम्, कायस्यापरम् का स्याधरम् । ङसेति किम् ? पूर्वाणि कायानाम् । अवयविनेति किम् ? पूर्वं छात्रस्य, अपरमुपाध्यायस्य, स्वस्वामिसम्बन्धे षष्ठीयम्। पूर्वशालमिति नपुंसकम् अकर्मधारयत्वात् । न चाधरोत्तरयोरसंज्ञायां कर्मधारयो भवति || ९४ |
I
९५. परस्य च तुयदिः
तुर्यप्रभृतेः पूर्वस्य परस्य च षष्ठ्येकवचनान्तेनावयविना सह तत्पुरुषो भवति । तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षायास्तुर्यं भिक्षातुर्यम् । एवं भिक्षाचतुर्धम्, चतुर्थभिक्षा, भिक्षाद्वितीयः, द्वितीयभिक्षा, भिक्षातृतीयः, तृतीयभिक्षा । तुरीयम् इहेत्येके पठन्ति । पूर्वस्य परस्य तुरीयस्य षष्ठ्यसमास एवेति वृद्धाः । मध्यकायः, कायमध्यम्, तलपादः, पादतलम्, अग्रपादम् पादाग्रम्, तुर्यशालम् इत्यादि नपुंसकं पूर्ववत् । पूरणे षष्ठीसमासो नास्तीति परस्य चेति वचनम् || ९५ । ९६. नपुंसकस्यार्द्धस्य
समभागार्थोऽर्द्धशब्दो नपुंसकं पूर्वस्य परस्य च षष्ठ्येकवचनान्तेनावयविना सह तत्पुरुषो भवति । अर्धमाषः, माषार्द्धम्, अर्धकर्षः कर्षार्द्धम्, अर्धमाषौ, मासस्यार्द्धे माषार्द्धे । एवम् अर्धमाषाः, माषार्धानि । परस्य नायं समास इति मतम् । पूर्वार्द्धं मया भक्षितम् । निशार्द्धमतीतं चेत्यादि च भाष्यादौ तु प्रयुक्तम् । अर्द्धस्नातोऽर्द्धवृद्धोऽर्द्धजरतीत्यसाकल्यवृत्तेरर्द्धस्य तृतीयासमासः । ध्रुवमनयोरर्द्धेन
"
Page #669
--------------------------------------------------------------------------
________________
परिशिष्टम् - २
६२७ वैषम्यं मिथो भावि सा खल्वर्द्धन पुमानिति वाक्येऽपि तत्प्रयोगो दृश्यते । नपुंसकस्येति किम् ? अझै गृहस्य गृहार्द्ध इति शैषिकीलक्षणः समासः स्यादेव । इसेति किम् ? अर्धं मासानाम् । अर्द्धसेनम्, अर्धशालम् इति नपुंसकम् अकर्मधारयत्वात् ।। ९६।
९७. पक्वादिभिः सप्तम्याः पक्वादिभिः सह सप्तम्यास्तत्पुरुषो भवति । स्थालीपक्वम्, छायाशुष्कम्, काम्पिल्यसिद्धः, आलानबद्धः, वाप्यां नद्याम् अश्वः वाप्यश्वः, नद्यश्व इति भाष्यम् । एवम् अक्षशौण्डः, अक्षधूर्तः, अक्षकितवः, व्यवहारदक्षः, आचारकुशलः, कपटप्रवीणः, व्यवहारचतुरः, संग्रामसाहसिकः, ग्रामान्तर इत्यादिराकृतिगणः। पक्वादिभिरिति किम् ? ग्रामे तिष्ठन्, संग्रामे युध्यमानः, स्थाल्यां पाचयिता, व्याकरणेऽधीती ।।९७।
९८. कृत्येन येनावश्यके अवश्यम्भावे गम्यमाने कृत्यसंज्ञकेन यप्रत्ययेन सह सप्तम्यास्तत्पुरुषो भवति । मासदेयं धनम्, मासान्तेऽवश्यं दातव्यमित्यर्थः । एवं प्राह्णगेयं साम, शैशवप्रदेया कन्या, प्रभातपाठ्यं यजुः । कृत्येनेति किम् ? अश्विन्यां जागर्या, वर्षासु नाव्यः शोणः । येनेति किम् ? पर्वसु स्नातव्यम् । आवश्यक इति किम् ? निशि हार्यं वित्तम्, हर्तुं शक्यम् इत्यर्थः ।। ९८।।
९९. क्तेन रूढौ रूढिविषये क्तेन सह सप्तम्यास्तत्पुरुषो भवति । अवतप्तेनकुलस्थितम् | कृद्ग्रहणे प्रादिकारकपूर्वस्यापि ग्रहणमिति नकुलस्थितशब्देन सह समासः । इह चापल्यं गम्यते । भस्मनिहुतम्, प्रवाहेमूत्रितम्, उदकेविलीनम् । इह निष्फलता । एषु सप्तमी प्रायेण कृतीत्यलुक् ।। ९९ ।
१००. अहोरात्रावयवस्य अहरवयवस्य रात्रावयवस्य च सप्तम्यन्तस्य तेन सह तत्पुरुषो भवति । प्राकृतम्, मध्याह्नकृतम्, सायाह्नकृतम्, अपरालकृतम्, पूर्वरात्रकृतम्, प्रदोषपीतम्, निशीथक्रीडितम् । अवयवस्येति किम् ? दिने शयितः, रात्रौ जागरितः । कथं दिनकृतम्, रात्रिकृतम् ? तृतीयासमासेन सिद्धम् । दिनपक्वम्, रात्रिपक्वम्,
Page #670
--------------------------------------------------------------------------
________________
६२८
कातन्त्रव्याकरणम् दिनशुष्कम्, रात्रिशुष्कम्, दिनसिद्धम्, रात्रिसिद्धम् इति पूर्वेण स्यादेव । क्तेनेत्येव प्रारूं स्नातवान्, प्रदोषे पीतवान् ।। १००।
१०१. वने बल्वजादीनि रूढौ इमान्यलुप्तसप्तमीकानि रूढिविषये सप्तमीतत्पुरुषसमासरूपाणि साधूनि भवन्ति । 'वनेबल्वजाः, वनेकशेरुकाः, अरण्येतिलकाः, कूपेपिशाचिकाः, मुकुटेकार्षापणम्, हलेद्विपदिका, दृषदिमासकः, गविष्ठिरः, युधिष्ठिरः' इत्यादि ।। १०१ ।
१०२. पात्रेसमितादीनि क्षेपे इमानि सप्तमीतत्पुरुषरूपाणि साधूनि भवन्ति क्षेपे । पात्रेसमिताः, पात्रेबहुलाः, गेहेनर्दी, गेहेनी, गेहेमेही, गेहेशूरः, गेहेपटुः, गेहेपण्डितः, गेहेक्षेपी, गेहेप्रगल्भः, गोष्ठेपटुः, गोष्ठेप्रगल्भः, मातरिपुरुषः । एतेऽलुक्सप्तमीकाः अवधारणात् क्षेपावगतिः, उदुम्बरकृमिः, उदुम्बरमशकः, अवटकच्छपः, कूपमण्डूकः, नगरकाकः, नगरवायसः, पिण्डीशूरः, कूपकच्छपः इत्यादिराकृतिगणोऽयम् । ये तु लक्षणान्तरसिद्धास्तेषां पुनः समासनिवृत्त्यर्थमिह पाठः ।। १०२।
१०३. काकार्थेन क्षेपविषये काकार्थेन सप्तम्यास्तत्पुरुषो भवति । तीर्थकाकः, तीर्थवायसः, तीर्थध्वाङ्क्षः । इहोपमानाच्चापल्यं गम्यते । क्षेप इत्येव - वृक्षे काकः ।।१०३ ।
१०४. ईषतो गुणस्वार्थेन गुणः स्वार्थः प्रवृत्तिनिमित्तं यस्य तेन सह ईषद् इत्यव्ययस्य तत्पुरुषो भवति । ईषत्पीतं वासः, ईषल्लवणः सूपः, ईषत्पिङ्गलं चक्षुः। गुणस्वार्थेनेति किम् ? ईषत्सौरभम्, ईषत्कालिमा, ईषत्पाकः, ईषत्पक्वमिति वाक्यमेव ।। १०४ ।
१०५. इवेनालोपश्च स्यादेः इवेन सहोपमानस्य तत्पुरुषो भवति, पूर्वस्य स्यादेर्लोपश्च. न भवति । अग्निरिव, वायुरिव, परमोच्चैरितिवद् अव्ययम् । क्रुङिव, सुगणिव, पचनिव | उत्तरपदे नित्यत्वाद्धिर्न स्यात्, समासे सति तद्धितान्तो वृत्त्यन्तरश्च स्यात् । अग्निरिवपाशम्, वायुरिवपाशम्, अग्निरिवसखः, वायुरिवसखः, अग्निरिवमन्यः, वायुरिवमन्यः, अग्निरिवगुः, वायुरिवगुः, अग्निरिवराजः, वायुरिवराजः | समासान्तोऽत् स्यात्, तत्कथं वाक्यमेवेति मत्वा चान्द्रेण प्रत्याख्यातमिदम् ।। १०५ |
Page #671
--------------------------------------------------------------------------
________________
परिशिष्टम् - २
१०६. तत्र सामि स्वयमां तेन
एषमव्ययानां क्तेन सह तत्पुरुषो भवति । तत्रजातः कुमारः । सामीत्यर्द्धार्थम् - सामिपक्वाः शालयः, स्वयंधौतौ पादौ समासत्वाद् वृत्त्यन्तरं स्यात् ॥ १०६ | १०७. नित्यं प्रादेः प्रायेण
,
प्रादेर्बाहुलकेन नित्यं तत्पुरुषो भवति । प्राचार्यः, प्रवीर इति प्रगतत्वे प्रकृष्टत्वे च । दुःशल्ये च दुःशल्यम्, दुष्कण्टकमिति कृच्छ्रे । सुराजः, सुपन्थाः, अतिराजा, अतिपन्थाः, प्रशंसायाम् | आलवणम्, आरक्तम् इत्यादिकमीषदर्थे । आपिङ्गलमिति समन्ताद् भावे आङ्शब्दः । दुष्पुरुषः, दुर्जनः, दुष्पथम् विमत्स्यः, विजन्तुः, विपथमिति निन्दायाम् । विदेश इति दूरत्वे च विदिगिति रूढौ । अधिराजः, अधिपतिः, अधीश्वर इत्याधिक्ये । उपमात्रा, उपबन्धुः, उपपतिरित्यादि असाक्षाद् भावे । उत्पथम्, विहिमम्, विप्रियम्, निराकुलम्, निरुत्सुकमिति नञर्थे । अभिनवम्, व्याकुलम्, विपाण्डु, विलीनम्, समाकुलम्, समुत्सुकम्, परिकृशम्, परिपाण्डु, परिधूसरम्, पर्याकुलम्, इत्यतिशये । एवमन्यदपि शिष्टाचारतोऽनुसरणीयम् || १०७ | १०८. बहुव्रीहिरेकाधिकरणस्य
एकाधिकरणस्यैव प्रायेण बहुव्रीहिर्मन्तव्यः । क्व मा भूत् - जटाभिर्धनमस्य, भिक्षया धनमस्य, शिष्याय धनमस्य पुत्राय धनमस्य, नर्तनाद् धनमस्य, कर्षणाद् धनमस्य, मृतकस्य धनमस्य, ग्रामे चिरेण धनमस्य, अगारे चिरेण धनमस्य, प्रायाधिकारात् पञ्च गतवन्तोऽस्य, सप्त भुक्तवन्तोऽस्य इत्येकाधिकरणस्यापि असमासः। ‘उभयप्राप्तिः' इत्यादौ व्यधिकरणस्यापि स्यात् । जहाति अपैति स्वार्थोऽस्यां जहत्स्वार्था वृत्तिरित्येकाधिकरणस्यैव । जहातिरकर्मकोऽपीति मतम् । यथा - स्वार्थाद्धीनः । देवे वृष्टे गतो यः इति नेहान्यपदार्थता गतार्थस्यैव प्राधान्यात् । तथाहि देवे वृष्टे गतो यस्तस्मै देहीति वृष्ट्यनन्तरं गतायैव दीयते इति बहुव्रीहिरेव बहूनां नान्यः समास इति नियमार्थं बहुव्रीहिसूत्रे बहुग्रहणम् । तेन महन्नीलोत्पलम्, पट्वी श्यामा कन्यकेति न त्रिपदकर्मधारयः स्याच्चेद् आदिपदस्य आत्वं पुंवच्च न स्यात् समासान्तपदे तयोर्विधानात् । पञ्चानां छात्राणां कम्बलः, दक्षिणस्य वृक्षस्य शाखा, उत्तरस्य सौधस्यालिन्द इति न त्रिपदस्तत्पुरुषः ।
1
६२९
2
Page #672
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
६३०
परिपञ्चभ्यो ग्रामेभ्यः, बहिरुत्तरादगारादिति त्रिपदो नाव्ययीभावः । एवं चेद् बहुग्रहणं
द्वन्द्वे नियमव्युदासार्धमेव मन्तव्यम् ।
अन्यार्थग्रहणेऽमुष्य शक्तिः स्वाभाविकी मता ।
स्थितानामेव शब्दानामन्वाख्यानं हि संस्क्रिया ॥। १०८ । १०९. विशेषणस्य
पूर्वस्यैव विशेषणस्यैकाधिकरणेन सह बहुव्रीहिर्भवति । चित्रा गौरस्य चित्रगुः | एवं दीर्घजङ्घः । चित्रा जरती गौरस्य चित्राजरद्गुः, जरतीचित्रगुः, दीर्घास्थूलजङ्घः, स्थूलादीर्घजङ्घः । वचनं किम् ? गौश्चित्राऽस्य, जङ्घा दीर्घाऽस्य ||१०९ | ११०. गिरिप्रधानादयश्च
एते बहुव्रीहयोऽनुशिष्यन्ते । गिरिप्रधाना अवन्तयः, ब्राह्मणप्रधाना वर्णाः, स्त्रीप्रधाना गृहिणः, इन्द्रियप्रधाना नास्तिकाः, कुलालकर्तृको घटः, कुविन्दकर्तृकं वासः, तुरङ्गद्वितीयो राजन्यः, चूतादयो वृक्षाः, समुद्रान्ता भूः ब्राह्मणपूर्वका वर्णाः, धर्मपराः सन्तः, घृतोत्तरः सूपः कृष्णस्वामिका गोदुहः, वायुसखा वह्निरित्यादि ।। ११० ।
"
१११. अव्ययस्य च
अव्ययस्य च पूर्वस्य बहुव्रीहिर्भवति । गन्तुकामः उपरिपदः, अधोमुखः, उद्बाहुः, अस्तिक्षीरा, नास्तिक्षीरा गौः । निर्वातं गृहम्, अलवणो निर्लवणः सूपः । भिन्नाधिकरणत्वे सति व्यवस्थेयम् । सामानाधिकरण्ये तु यथायोगं वृत्तिः । प्राप्तं स्वर्येन तस्मै प्राप्तस्वरे महादानानि क्रियन्ते ॥ १११ ॥
११२. तृतीया सहस्य प्रायेण
सहशब्दस्याव्ययस्य तृतीयान्तेन सह प्रायेण बाहुलकेन पूर्वस्यान्यपदार्थे बहुव्रीहिर्भवति । सह पुत्रेण सपुत्रोऽधीते, सबन्धुराढ्यः, सशिष्यो गोमान् । त्रिपदोऽपि सह पञ्चभिरमात्यैः सपञ्चामात्यो राजा मन्त्रयते । इह पुत्रादिरध्ययनादिना सह युज्यते इति तुल्ययोगिता सहार्थ: । 'सपूर्वो दिनः सवत्सा गौः प्रसूते सभर्तृका गर्भिणी, सपितृका विधवा, सहर्षाः क्रीडन्ति, सशोकाः सीदन्ति, सभया वेपन्ते, सधनास्तृप्यन्ति । सकर्तृकं जगत् । सकर्मका धातवः' इत्यादौ विद्यमानार्थस्यापि
1
Page #673
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
६३१ तद्वत्तायामेव क्वचिद् विद्यमानार्थस्य तद्वत्ताया विरहे न भवति-सहान्धैः पश्यन्ति, सह मूखैजल्पन्ति, सह पङ्गुभिर्धावन्ति, सह बधिरैः शृण्वन्ति । इहान्धादीनां विद्यमानतैव सहार्थः । वचनं किम् ? 'अमा पुत्रेण, साकं पुत्रेण, सार्धं पुत्रेण, समं पुत्रेण' इत्यादिषु मा भूत् । पूर्वस्येत्येव पुत्रेण सहाधीते ।। ११२।
११३. षष्टीप्रथमयोरिवार्थे । अनयोः पूर्वयोरिवार्थे बहुव्रीहिर्भवति । उष्ट्रमुखः, इन्दुमुखी, पद्ममुखी । उष्ट्रस्येव मुखमस्य, इन्दुरिव मुखमस्या इति इवार्थोऽत्र बहुव्रीह्यभिधेयः ।। ११३ ।
११४. प्रायः सप्तम्या सप्तम्यन्तस्य पूर्वस्य प्रायेण बहुव्रीहिर्भवति । (कण्ठेकालः) कण्ठेमणिः, उरसिलोमा । केचिज्जातिवृत्तयः, केचिद् व्यक्तिवृत्तयः शब्दाः, धर्मवृत्तयः साधवः । प्रत्यये लुग् येषां ते प्रत्ययलुक इत्यादि ।। ११४ ।
११५. तयेन्द्रादेः तया सप्तम्या सह इन्द्वादेर्बहुव्रीहिर्भवति । 'इन्दुचूडः, इन्दुशेखरः, चन्द्रचूडः, चन्द्रशेखरः, चक्रपाणिः, शूलपाणिः, वज्रहस्तः, चक्रकरः, पद्मनाभः' इत्यादिराकृतिगणोऽयम् ।। ११५।
११६. सर्वनाम्नः पूर्वस्यैव सर्वनाम्नः एकाधिकरणेन सह बहुव्रीहिर्भवति । सर्वं शुक्लमस्य सर्वशुक्लः, उभयगौरः, पूर्वपीनः, भवत्सुभगः, तत्प्रथमः, तदन्यकम् इत्यादि ।।११६ ।
११७. तेन च संख्यायाः तेन सर्वनाम्नोऽन्येन च सह पूर्वस्यैव संख्यावाचिना बहुव्रीहिर्भवति । त्रिपूर्वः, पञ्चपरः। अन्येन च – 'पञ्चानुचरः, त्रिदण्डिकः, कतिसुरभिः, कतिकाणः, कतिकृपणः, बहुगौरो ग्रामः, एकशुक्लः, द्विहीनः' इति पूर्वेण च ।। ११७।
११८. प्रियस्योभयथा उभयथापूर्वस्य च प्रियस्यैकाधिकरणेन बहुव्रीहिर्भवति । प्रियगुडः, गुडप्रियः, प्रिययूयम्, युष्मप्रियाः ।। ११८।
Page #674
--------------------------------------------------------------------------
________________
६३२
कातन्त्रव्याकरणम्
११९. प्रहरणस्य क्तेन प्रहरणस्योभयथा तेनैकाधिकरणेन सह बहुव्रीहिर्भवति । अस्युद्यतः, उद्यतासिः, कुन्तोल्लसितः, उल्लसितकुन्तः ।। ११९।।
१२०. जातिकालसुखादीनां च एषां चोभयथा एकाधिकरणेन क्तेन सह बहुव्रीहिर्भवति । 'व्याघ्रहतः, शुकजग्धः, जग्धशुकः, ओष्ठक्षती, क्षतौष्ठी, केशविलूनी, विलूनकेशी, मासक्षपितः, क्षपितमासः, सुखविरूढः, विरूढसुखः, कृच्छ्रजातः, जातकृच्छ्रः, कष्टस्मृतः, स्मृतकष्टः' इत्यादि ।। १२०।
१२१. अग्न्याहितादीनि अग्न्याहितादीनि उभयथा बहुव्रीहिरूपाणि साधूनि भवन्ति । अग्न्याहितः, आहिताग्निः, दन्तजातः, जातदन्तः. पुत्रजातः, जातपुत्रः, श्मश्रुजातः, जातश्मश्रुः, घृतपीतः, पीतघृतः, तैलपीतः, पीततैलः, विषपीतः, पीतविषः, मद्यपीतः, पीतमद्यः, शीर्षच्छिन्नः, छिन्नशीर्षः, भार्योढः, ऊढभार्यः । अग्न्यादीनामेवाहितादिभिराहितादीनामेवाग्न्यादिभिरित्युभयथापि बहुव्रीहिरिति नियमात् । 'हुताग्निः, आहितानलः' इति पूर्वस्यैव क्तस्य बहुव्रीहिरिति मतम् ।। १२१।
१२२. गडुकण्ठादौ सप्तम्याः गडुकण्ठादौ सप्तम्यन्तस्योभयथा बहुव्रीहिर्भवति । गडुः कण्ठेऽस्य गडुकण्ठः, कण्ठेगडुः । एवं गडुशिराः, शिरसिगडुः ।। १२२ ।
१२३. गुणिनि संख्ययाऽस्याः पूर्वस्याः सुजर्थे गुणिवृत्तया संख्यया सह पूर्वस्याः संख्यायाः सुजथे बहुव्रीहिर्भवति । द्विर्दशा गावः । एवं त्रिदशाश्छात्राः । चतुर्दशा भुजगदन्ताः । सुजर्थमिह समासोऽभिधत्ते । गुणिनीति किम् ? द्विर्विंशतिः खगानाम्, त्रिःशतं गवाम् । पूर्वस्या इति किम् ? त्रिौं, चतुस्त्रयः ।। १२३।
१२४. संशये च गुणिनि वृत्तया संख्यया सह संशये चार्थे पूर्वस्याः संख्याया बहुव्रीहिर्भवति । द्वौ वा त्रयो वा द्वित्राः साधवः । एवं त्रिचतुराः, पञ्चषाः । संशयं समासोऽभिधत्ते ।
Page #675
--------------------------------------------------------------------------
________________
परिशिष्टम् -२ गुणिनीत्येव - नवतिर्वा शतं वा वृक्षाणाम् । पूर्वस्या इत्येव - त्रयो वा द्वौ वा, चत्वारो वा त्रयो वा ।। १२४।
१२५. षष्ठ्याऽव्ययस्य षष्ठ्यन्तया गुणिनि. वृत्तया सङ्ख्यया सहाव्ययस्य बहुव्रीहिर्भवति । उपगता दशानाम् उपदशाः पशवः, उपविंशाः शकुनयः । सामीप्यार्थप्राधान्ये तु 'उपदशम्' इत्यव्ययीभावः । गुणिनीत्येव - 'उपगता विंशत्याः, उपगताः शतस्य' इत्यर्थे मा भूत् ।। १२५।
१२६. आसन्नादूराधिकानां च । आसन्नादूराधिकानां षष्ट्यन्तया गुणिनि वृत्तया संख्यया सह एषां बहुव्रीहिभवति । आसन्ना दशानाम् आसन्नदशाः गावः । एवम् अदूरदशाः, अधिकदशाः । एते संख्यया बहुव्रीहयो बह्वर्थविषयाः सङ्ख्याः प्रकाशन्ते । बाहुलकाद् गुणिनीत्येव - आसन्ना विंशत्याः, अधिकाः शतस्य ।। १२६ ।
१२७. केशचूडादिश्च केशचूडप्रभृतिश्च बहुव्रीहौ निपात्यते । केशपुञ्जश्चूडा अस्य केशचूडः, हेमविकारोऽलंकारोऽस्य हेमालंकारः, उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः, प्रपतितानि पर्णान्यस्य प्रपर्णः, न विद्यमानः पुत्रोऽस्य अपुत्रः । 'केशपुअचूडः' इत्यादिनिवृत्त्यर्थं वचनम् । ये चासंगृहीताः शिष्टाचारेषु बहुव्रीहयो दृश्यन्ते त इह मन्तव्याः ।। १२७।
१२८. विदिक् विदिगर्थः समासोऽत्र विदिग् इत्यभिधीयते । स तु पूर्वादिनारभ्यस्तथेति ख्यातिसूचनात् ।
विदिक्ष्यर्थेषु पूदिरेवमेष स्मृतो विधिः। विना वाक्यविशेषेण विशेषावीदृशौ कुतः॥ दक्षिणस्याश्च पूर्वस्या दिशोऽधस्तादुपर्यपि । उदीच्याश्च प्रतीच्याश्च मध्यमत्राप्यसौ भवेत् ॥ कथं चाभ्यां विशेषाभ्यां वर्तते कर्मधारयः। कृते चास्मिन् बहुव्रीही दिशां वेत्यपि सुस्थितम् ।।१२८॥
Page #676
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
१२९. द्वयोर्द्वन्द्वे पूर्वम् अधिकारोऽयम् || १२९।
१३०. लघुमात्रस्वरम् द्वयोर्द्वन्द्वे लघुमात्रस्वरं पूर्वं भवति । तिलमाषम्, कुशवेत्रम्, मलगर्मुत्, करकूर्चम्, करनासम्, मलयपञ्चालाः, कृपणदरिद्रौ, विधुभानू, नलिनमृणालम्, अचलपयोधी, शिखरिसमुद्रौ, कुमुदकलारम्, वृककाकम्, बककङ्कम्, हलहालम्, मुकुटकेयूरम्, जलदपर्वतौ । मात्रग्रहणं किम् ? पालङ्क्यामूलके, काकोलीचन्दनम् । द्वयोरिति किम् ? वृक्षबककाकाः ।। १३०।
१३१. स्वरायदन्तम् द्वयोर्द्वन्द्वे स्वरादि यदकारान्तं तत् पूर्वं भवति । उष्ट्रखरम्, उष्ट्रशशम्, इन्द्रवातौ, अर्कवेधसौ । द्वयोरिति किम् ? चन्द्रार्कवेधसः ।।१३१ ।
१३२. संख्या चाल्पा द्वयोर्द्वन्द्वे याऽल्पा संख्या सा पूर्वं निपतति । एकादश, द्वादश, नवतिशतम्, शतसहस्रम् । अष्टादश, पञ्चशतानि ।। १३२।
१३३. वाऽर्थधर्मादौ अर्थधर्मादौ द्वन्द्वे स्वराद्यदन्तं पूर्वं वा भवति । 'अर्थधर्मो धर्मार्थों, अर्थकामौ, कामार्थो, अर्कचन्द्रौ, चन्द्रार्को, अन्तादी, आद्यन्तौ, अर्थशब्दौ, शब्दार्थो, इन्द्राग्नी, अग्नीन्द्रौ' इत्यादि ।। १३३।
१३४. असखिरग्निः द्वयोर्द्वन्द्वे सखिभिन्नम् अग्निसंज्ञकं पूर्वं भवति । दधिघृतम्, अग्निवातौ, पाणिपादम्, भानुचन्द्रौ, केलियुद्धे, गृष्टिच्छागम्, सूनुभार्ये, वेणुकाण्डम्, रात्रिसन्ध्ये, करेणुकुञ्जरौ, पाटलिचम्पकौ । असखिरिति किम् ? सुतसखायौ, सखिसुतौ ।। १३४ ।
१३५. वा त्वग्निसमीरणादौ अग्निसमीरणादौ द्वन्द्वेऽग्न्यन्तं पूर्वं निपतति वा । 'अग्निसमीरणौ, समीरणाग्नी, वाय्वाकाशौ , आकाशवायू, मधुसर्पिषी, सर्पिर्मधुनी, वृद्धिगुणौ, गुणवृद्धी, वृद्धिक्षयौ,
Page #677
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
६३५ क्षयवृद्धी, लघुदीक़, दीर्घलघू, गतिहिंसे, हिंसागती, शीधुसुरे, सुराशीधुनी, व्रीहिकालौ, कालव्रीही, हेतुलक्षणे, लक्षणहेतू, दीप्तिभर्त्सने, भर्त्सनदीप्ती, गतिनिवासौ, निवासगती, तन्तुबीजे, बीजतन्तू' इत्यादि । द्वयोरिति किम् ? चन्द्रार्कवायवः, तुरुत्तरत्र वानिवृत्त्यर्थः ।। १३५।
१३६. मासर्तुनक्षत्राणि तुल्यस्वराण्यानुपूर्येण चैत्रवसन्ताश्विनीरुपक्रम्य एषामानुपूर्यं द्वयोर्द्वन्द्वे तुल्यस्वराणि मासादीनि अनुक्रमेण पूर्वाणि भवन्ति । पौषमाघौ, चैत्रभाद्रौ, हेमन्तशिशिरौ, वसन्तनिदाघौ, अश्विनीभरण्यौ, अश्विनीरेवत्यौ, चित्रास्वाती, कृत्तिकारोहिण्यः। तुल्यस्वराणीति किम् ? शुक्रमाधवौ, इषभाद्रपदौ, ज्येष्ठवैशाखौ, पौषमार्गशीर्षों, ग्रीष्मवसन्तौ, वर्षाहेमन्तौ, ज्येष्ठाभरण्यौ । द्वयोरिति किम् ? शुचिशुक्रचैत्राः, शरद्ग्रीष्पवर्षाः, श्रवणधनिष्ठाश्विन्यः ।। १३६।
१३७. भ्राता च द्वयोर्द्वन्द्वे भ्राता चानुक्रमेण पूर्वो भवति । भीमसेनार्जुनौ, लक्ष्मणशत्रुघ्नौ, नासत्यदनौ । द्वयोरिति किम् ? नकुलार्जुनभीमाः ।।१३७।
१३८. न तण्डुलकिण्वादौ तण्डुलकिण्वादौ द्वन्द्वेऽल्पस्वरादिकं पूर्वं न निपतति । 'तण्डुलकिण्वे, चित्ररथबाह्लीकौ, स्नातकराजानौ, उशीनरभोजौ, उदूखलमुसले, प्रतिष्ठालिप्से' इत्येवमादिषु अल्पस्वरं न पूर्वम् । 'नरनारायणौ, काकमयूरो, उमामहेश्वरौ, पार्वतीशङ्करौ, मातापितरौ, श्वश्रूश्वशुरौ' इत्यादावर्चितं न पूर्वम् । पाण्डुधृतराष्ट्रादिषु ज्येष्ठो न पूर्वम् । 'जायापती, भार्यापती, पुत्रपशू, केशश्मश्रू, शिरोजानु, तिष्यपुनर्वसू, मर्यादाभिविधी' इत्यादावग्न्यन्तं न पूर्वम्, 'जम्पती' इति जम् - दम्भावश्च निपातनाद् वा । 'विष्वक्सेनार्जुनौ, शूद्रा?, अवन्त्यश्वकौ, वासुदेवार्जुनौ, देवासुरौ, वातातपौ, हस्त्यश्वम्' इत्यादौ स्वराद्यन्तं न पूर्वम् । 'मेधातपसी, दीक्षातपसी' इत्यादौ लघुमात्रस्वरं न पूर्वम् । 'शुचिशुक्लौ' इत्यादौ नानुपूर्व्यात् पूर्वम् ।। १३८ ।
१३९. राजदन्तादीनि परस्य पूर्वत्वे राजदन्तादीनि समासरूपाणि साधूनि भवन्ति । दन्तानां राजा राजदन्तः, रात्रीणां गणः गणरात्रम्, कण्ठे श्रीरस्य श्रीकण्ठः, ऋणे उत्तमः
Page #678
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
६३६
उत्तमर्णः, ऋणेऽधमः अधमर्णः, अप्सु लोलति लुलापः, बाणं वारयति बारबाणम्, अन्तरमन्यद् गृहं गृहान्तरम् । एवं पुरुषान्तरम्, शाखान्तरम् । श्वो भाविदिनात् परः परश्वः । विप्रतिषेधे पूर्वं पूर्वविप्रतिषेध इत्यादिराकृतिगणोऽयम् || १३९ |
१४०. षष्ठ्याऽव्ययीभावः षष्ठ्यन्तेन सहाव्ययीभाव इत्यधिक्रियते || १४०|
१४१. समृद्ध्यादिष्वव्ययस्य
समृद्ध्यादिष्वर्थेषु वर्तमानस्याव्ययस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । नित्यसमासविषयाणामव्ययानां वाक्येऽपि पुरस्तादप्रयोगः । नियतप्रयोगा हि केचिदव्यया इति विकल्पाश्रुतौ नित्यमव्ययीभावः । अधिका ऋद्धिः समृद्धिः, समृद्धिर्मद्राणां सुमद्रम् | समीपे - उपग्रामम् । ऋद्ध्यभावे निःक्षत्रियम्, दुःक्षत्रियं वर्तते । नञर्थे - निर्मक्षिकम् इहेति भोक्ष्यामहे । अतीतत्वे - शीतस्यात्ययः अतिशीतम् । ग्रीष्मे सम्प्रत्यनुपभोगे अतिकम्बलम्, निदाघश्चेत् अतिक्षीमम् । हेमन्तश्चेत् । नामख्यातौ पाणिनेर्नामख्यातिरितिपाणिनि, तत्पाणिनि । पश्चादर्थे - अनुशकटम् । योग्यतायां - यथा अनुरूपं विक्रामति । रूपस्य योग्यतयेत्यर्थः । अनतिक्रमे - यथाधर्मम् । अनुक्रमे - अनुज्येष्ठम्, यथाज्येष्ठम् || १४१ ।
१४२. यावतः संख्याने
संख्यानविषये यावतोऽव्ययस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । यावदासनं विप्रानुपवेशय, आसनानां संख्ययेत्यर्थः । परिमाणेऽपीच्छन्त्ये यावच्छिखरं बलाकाः । संख्यान इति किम् ? यावच्छात्राणां दत्तम्, निःशेषेण दत्तम् इत्यर्थः । कार्त्स्न्येऽत्र यावच्छब्दः ।। १४२ ।
१४३. सहस्य साकल्ये
—
यदर्थं यद् गृहीतं तत्र तस्याशेषत्वमिह साकल्यम् । तत्र वर्तमानस्य सहस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । सधान्यं सतुषम् अश्नाति भक्तम् || १४३।
Page #679
--------------------------------------------------------------------------
________________
६३७
परिशिष्टम् - २
१४४. अन्तत्वे च अन्तत्वे च वर्तमानस्य सहस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । सवार्त्तिकमधीतम्, सूत्रादिकमधीत्य वार्तकम् अधीतम् । वार्त्तिकमधीत्य न किञ्चिदधीतमित्यर्थः । अध्येयग्रन्थेषु वार्त्तिकस्यान्तत्वं विवक्षितमिति कुतोऽत्र साकल्यम् ।। १४४ ।
१४५. स्वभावसम्पद्योगपयसदृशसादृश्येषु एष्वर्थेषु वर्तमानस्य सहस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । स्वस्य भावः स्वभावः, समासविषयस्य ब्रह्मादिशब्दस्य प्रवृत्तिनिमित्तं ब्रह्मत्वक्षत्रियत्वादि, तस्य सम्पत्तिरुत्कृष्टता सब्रह्म दण्डिनाम्, सक्षत्रियं गौरवाणाम् । ब्रह्मत्वं क्षत्रत्वं चोत्कृष्टमित्यर्थः । यौगपद्ये - सघृतं तिलान् जुहोति, सकुमारं कन्यां भोजय । सदृशेसदृशी किख्याः सकिखि मार्जारी । सादृश्ये - सादृश्यं किख्याः सकिखि मार्जारिकायाः । यथा ब्राह्मण इति अषष्ठ्यन्तत्वाच्च । अस्य रूपो यथा ब्राह्मणस्येति षष्ठ्यन्तेन च न स्यात्, सादृश्यसंबन्धेनेयं षष्ठीति ।। १४५।
१४६. संख्यायाः परिणा द्यूतेऽन्यथावृत्तौ द्यूतविषयेऽन्यथावृत्तौ वर्तमानेन परिणा सह षष्ठ्यन्तस्य संख्याशब्दस्याव्ययीभावो भवति । अक्षादीनां क्रीडनकद्रव्याणां पातयितुः पराजयसाधनी पातनादिक्रिया अन्यथावृत्तिः । एकपरि, द्विपरि, त्रिपरि पञ्चिकायाः । एकस्य क्रीडनकद्रव्यस्य द्वयोस्त्रयाणां वा पञ्चिकाख्ये द्यूते अन्यथावृत्तिरिति ।। १४६।
१४७. अक्षशलाकयोरेकत्वे एकत्वे वर्तमानयोः षष्ठ्यन्तयोरक्षशलाकयो तेऽन्यथावृत्तौ वर्तमानेन परिणा सहाव्ययीभावो भवति । एकस्याक्षस्य द्यूतेऽन्यथावृत्तिः। अक्षपरि, शलाकापरि । परिशब्दस्य नित्यवृत्तिविषयत्वादन्यपदेन विग्रहः । केषांचित् संख्याक्षशलाकानां तृतीयान्तानामेवैष विधिः ।। १४७।
१४८. वा त्वग्रे पारे मध्येऽन्तरः अग्रेप्रभृतेः षष्ठ्यन्तेन सहाव्ययीभावो भवति वा । अग्रे द्वीपस्य, अग्रेद्वीपम्, पारे गङ्गायाः, पारेगङ्गम् | मध्ये तडागस्य, मध्येतडागम् । अन्तः पल्ललस्य, अन्तःपल्ललम् | तुशब्द उत्तरत्र वानिवृत्त्यर्थः ।। १४८।
Page #680
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
१४९. सामीप्येऽन्वादेः
समीपे वर्तमानस्यान्वादेः षष्ठ्यन्तेनाव्ययीभावो उपगङ्गम् | अन्वादेरिति किम् ? अमा कुम्भस्य घटी, केचिद् इह परिगणनं नाद्रियन्ते || १४९ ।
१५०. प्रतिनाऽल्पांशे
अल्पांशे वर्तमानेन प्रतिना षष्ठ्यन्तस्याव्ययीभावो भवति । शाकप्रति, सूपप्रति । अनयोरल्पांश इत्यर्थः । अव्ययीभावस्यानव्ययत्वादग् न भवति ।। १५०। १५१. वीप्सायां च
६३८
भवति । अनुगङ्गम्,
आरादोष्ठस्य नासा ।
वीप्सायां चार्थे वर्तमानस्य पूर्वस्याव्ययस्य परेण नाम्ना सहाव्ययीभावो भवति । उपात्तस्य वस्तुनस्तदात्मभिर्युगपदेकक्रियासम्बन्धो बीप्सेति रूढिः । वृक्षं वृक्षं प्रति यथावृक्षम् | कर्मप्रवचनीयानां तु संज्ञाविधानबलाद् विभाषैव - प्रति वृक्षं वृक्षम्, प्रतिवृक्षम् । समासो द्वित्वं बाधते निरवकाशत्वान्नित्यसमासविषयत्वे पुरस्तादव्ययोर्पापातः । चूतं चूतमभि, अभिचूतं कोकिलाः । एवम् अनुवृक्षम् परिवृक्षम्, अभिवृक्षम् || १५१ ।
१५२. अधिकरणे
अधिकरणे वर्तमानस्याव्ययस्य परेण नाम्ना सह अव्ययीभावो भवति । अधिखट्वं शेते, खट्वायां शेते इत्यर्थः । ' अधिरजनि जगाम धाम तस्याः' इति निपाताभिहितेऽपि न द्वितीयादयः, प्रथमैवेति मतम् इति प्रथमान्तेनायं समासः । कृदादिभिरभिहिते प्रथमेति मतं चेत् सप्तम्यन्तेनायं समासः । केचिद् अधिकरणशक्तिप्रधानानामव्ययानां षष्ठ्यन्तेनाव्ययीभावमिच्छन्ति तदा रात्रौ - नक्तं-दिवा- सायम्' प्रभृतीनाम् अपादानादी च शाखाया अपगतोऽपशाखमित्यादिकमिच्छन्ति, न तद्
वृद्धसम्मतम् ।। १५२ ।
१५३. वा पञ्चम्याङपपरिबहिरन्चूनाम्
एषामव्ययानां पञ्चम्यन्तेनाव्ययीभावो भवति वा । अप त्रिगर्तेभ्योऽपत्रिगर्तम्, आपाटलिपुत्रादापाटलिपुत्रम्, परित्रिगर्तेभ्यः परित्रिगर्तम् । बहिर्ग्रामात्, बहिर्ग्रामम् । प्राग् ग्रामात्, प्राग् ग्रामम् । प्रत्यग् ग्रामात् प्रत्यग् ग्रामम् ।।१५३।
Page #681
--------------------------------------------------------------------------
________________
६३९
परिशिष्टम् -२
१५४. प्रत्यभेस्तु लक्षणेनाभिमुख्ये आभिमुख्ये वर्तमानस्य प्रतेरभेश्च लक्षणीभूतेन सहाव्ययीभावो भवति । प्रत्यग्नि शलभाः पतन्ति, अभ्यग्नि शलभाः पतन्ति । अग्नि लक्ष्यीकृत्य तदभिमुखं पतन्तीत्यर्थः ।।१४८।
१५५. अनोयेण दैर्येण धर्मेण लक्षणीभूतं यत् तेन सहानोरव्ययीभावो भवति । अनुगङ्गं वाराणसी, दीर्घया गङ्गया इह दीर्घा वाराणसी लक्ष्यते, गङ्गावद् दीर्घा वाराणसीत्यर्थः । एवम् अनुबिन्ध्यं दण्डकाः, अनुशिप्रं विशाला || १५५।
१५६. वाऽपत्येन द्विप्रभृतेः अपत्यप्रत्ययान्तेन सह द्विप्रभृतेरव्ययीभावो भवति वा । द्वौ गाग्र्यो, द्विगाय॑म् । दश भारद्वाजाः, दशभारद्वाजम् । द्विप्रभृतेरिति किम् ? एकभारद्वाजः । कर्मधारय एव स्यात् ।। १५६।
१५७. आचार्येण आचार्येण सह द्विप्रभृतेः संख्याया अव्ययीभावो भवति । शास्त्रस्य प्रणेता इहाचार्यः । द्वौ मुनी आचार्यावागमस्य द्विमुनि । त्रयो मुनय आचार्या व्याकरणस्य त्रिमुनि । मुनेराचार्यत्वमिह वृत्त्याविर्भाव्यते । द्विप्रभृतेरित्येव - एकमुनिर्भाष्यस्य || १५७।
१५८. वा त्वन्यार्थे आचार्येण सह द्विप्रभृतेः संख्याया अन्यार्थेऽव्ययीभावो भवति वा । द्वौ मुनी आचार्यावस्या इति द्विमुनि शब्दानुशिष्टिः, द्विमुनिर्वा । त्रिमुनि, त्रिमुनिर्वा । द्विप्रभृतेरित्येव - एकमुनिरष्टाध्यायी बहुव्रीहिरेव स्यात् ।। १५८।
१५९. रूढौ दु नया रूढिविषये नद्या सहान्यार्थे नित्यम् अव्ययीभावो भवति । उत्तमगङ्गम्, लोहितगङ्गम्, तूष्णींगङ्गं देशः ।। १५९।
१६०. तस्य समाहारे च तस्य स्मृतस्य द्विप्रभृतेः समाहारे चार्थे नद्या सहाव्ययीभावो भवति । द्विगङ्गम्, त्रियमुनम्, सप्तगोदावरम् ।। १६० ।
Page #682
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
१६१. तत्र व्यतिगृह्य युधि सरूपयोः
तत्र व्यतिगृह्य युद्धेऽर्थे सरूपयोर्नाम्नोरव्ययीभावो भवति । केशेषु व्यतिगृह्य युद्धं वृत्तं केशाकेशि, चूडाचूडि । युधीति किम् ? केशेषु केशेषु व्यतिगृह्य क्रीडन्ति | सरूपयोरिति किम् ? भुजेषु चूडासु वाऽतिगृह्य युद्धम् || १६१ । १६२. तेन व्यतिहत्य च
૬૪૦
तेन व्यतिहत्य युद्धेऽर्थे सरूपयोर्नाम्नोरव्ययीभावो भवति । दण्डेन दण्डेन व्यतिहत्य युद्धं दण्डादण्डि शाखाशाखि । अव्ययीभावस्यानव्ययत्वाद् दण्डादण्डिकम्, दण्डादण्डितराम्, दण्डादण्डितमाम् इति अक्तरांतमां न स्युः ।। १६२ । १६३. द्विदण्ड्यादिश्च
द्विदण्ड्यादिश्चाव्ययीभावो भवति । द्वाभ्यां दण्डाभ्यां प्रहरति द्विदण्डि, द्विमुषलि, त्रिमुषलि धान्यमवघ्नन्ति ।। १६३ । १६४. खलेयवादीनि
खलेयवादीन्यव्ययीभावरूपाणि निपात्यन्ते । खलेयवा अस्मिन् काले खलेयवम्, संस्कृतयवम्, संस्क्रियमाणदुषम्, लूनयवम्, लूयमानयवम् पूर्णयवम्, पूर्यमाणयवम् । तिष्ठन्ति, वहन्ति, आयन्ति गावोऽस्मिन् काले तिष्ठद्गु, वहद्गु, आयतीगवम् । एते कालेऽन्यपदार्थेऽपि प्रथमान्ता एव । समत्वं भूमेः समभूमि, समंपदाति, समत्वे समम् अव्ययम् । नियतविषयमेव द्रष्टव्यमिति । आयतीत्वं समायाः संवत्सरस्य आयतीसमम् । एवम् अपरसमम्, पापसमम् । एषु त्रिषु भावप्रत्ययस्य लुग् निपात्यते । सुषमम्, दुःषमम्, विषमम्, प्रमृगम्, प्ररथं प्रदक्षिणम् । इमानि भावपराण्यव्ययानि | मध्यन्दिशम्, अपदिशम् इति चेच्छन्ति ।। १६४ ।
१६५. द्वन्द्वः प्राण्यङ्गस्य समाहारे
प्राण्यङ्ग्ङ्गस्य समाहारे द्वन्द्वो भवति । पाणिपादम् भुजजानु, कर्णकण्ठम् । कथं शोभनाः खल्वस्य वचनपाणिपादाः प्राण्यङ्गाप्राण्यङ्गद्वन्द्वात् । भाष्येऽपि प्राण्यङ्गमात्रस्य द्वन्द्वे विधिरयं समर्थितः । एवम् उत्तरत्रापि वेदितव्यम् । इह प्रायाधिकाराद् व्यभिचारोऽपि । तथा चैकवद्भावस्यानित्यत्वेन मुखनासिके इति भाष्ये चिन्तितम् । 'छिन्नेषु पाणिपादेषु' इत्यादयस्त्वाचार्यप्रयुक्तयो दृश्यन्ते || १६५ ।
Page #683
--------------------------------------------------------------------------
________________
परिशिष्टम् - २
१६६ . चरणानामनुवादे स्थेणोरद्यतन्याम्
अद्यतन्यां स्थेणोः प्रयोगेऽनुवादविषये चरणानां द्वन्द्व : समाहारे भवति । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम् | अन्यत्र कठकालापाः । चरणानामिति बहुवचनं नातन्त्रम् इति मन्यते । वृद्वैश्च बहुत्वे एवोदाहरणानि दर्शितानि || १६६ | १६७. तौर्य्यिकस्य
६४१
तूर्यं शिल्पं यस्य तस्य द्वन्द्वः समाहारे भवति । मार्दङ्गिकपाणविकम्, झार्झरिकमौरजिकम्, वैणविकशाङ्खिकम् || १६७ ।
१६८. तक्षादेश्च
तक्षप्रभृतेर्द्वन्द्वः समाहारे भवति । तक्षकुलालम्, रजकतन्तुवायम्, तक्षायस्कारम्, नापितसौचिकम्, यस्य भोजनादपूतं कांस्यादिपात्रमग्निविशिष्टेनैव संस्कारेण शुध्यति स इह शूद्रस्तक्षादिः ।। १६८।
१६९. द्रव्यजातावजन्तोः
जातिरिह जातिमन्मात्रम् अनियतव्यक्तिकं वस्तूच्यते । द्रव्यजातौ वर्तमानस्याजन्तोर्द्वन्द्वः समाहारे भवति । काचदृशदम्, हीरकमौक्तिकम्, स्थालीकुम्भम्, घटपिठरम्, पीठच्छत्रोपानहम् । द्रव्येति किम् ? रूपरसगन्धाः, चलनाकुञ्चनप्रसारणानि । जाताविति किम् ? मलयकेकयौ कौस्तुभगाण्डीवौ, अजन्तोरिति किम् ? ब्राह्मणक्षत्रियविशः, जातिशब्दानामपि जातिपरत्वे विधिरयम् । इह न स्यात् - इमाः पीठच्छत्रोपानहः । तन्त्रान्तरे त्वप्राणिनामिति बहुत्वनिर्देशाद् बहुत्व एव विधिरयमिति केनचित् समर्थितम्, तदपरे न मन्यन्ते । अजातित्वान्नन्दकपाञ्चजन्याविति वृद्धैः प्रत्युदाहृतत्वात् ।। १६९ ।
१७०. फलस्य तु वा
जातौ वर्तमानस्य फलस्य द्वन्द्वो वा समाहारे भवति । बदरामलकम्, बदरामलके । द्राक्षाखर्जूर, द्राक्षाखर्जूरम् । जातावित्येव - इमानि बदरामलकानि । इह जातिपरत्वे बहुवचनं नास्तीति एकवचनस्यैव द्वन्द्वः । येषान्तु जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामिति मतम्, तेषामपि बहुवचनान्तत्वे फलजातेर्विधिरन्यत्र निवृत्तिरेकत्वे एव विभाषा सिध्यति । शाक्यानान्तु जातौ बहुवचनं नास्ति, बहुत्वे
1
Page #684
--------------------------------------------------------------------------
________________
६४२
कातन्त्रव्याकरणम् च फलानां विधिरयमित्यर्थाद् व्यक्तिपरत्वे एव सम्भवति । एवञ्च इमानि बदरामलकानीत्यपि स्यात् ।। १७०।
१७१. मखेऽकदिः मखे यज्ञे वर्तमानस्यार्कप्रभृत्तेर्द्वन्द्वः समाहारे भवति । अर्काश्वमेधम् । अदिरिति किम् ? दर्शपौर्णमासौ । राजसूयवाजपेयौ ।। १७१।
१७२. बहुत्वे क्षुद्रजन्तोः 'क्षुद्रजन्तुरनस्थिः स्यात्' इति स्मृतिः। बहुत्वे क्षुद्रजन्तोर्द्वन्द्वः समाहारे भवति । यूकामत्कुणम्, मशकमक्षिकम्, कृमिगण्डूपदम्, जलौकःकिञ्चुलुकम्, लूतापिपीलिकम्, 'क्षुद्रास्त्वानकुलात् सर्वे जन्तवः' इत्यपरा स्मृतिः । तदा आखुवृश्चिकम्, शरटवृश्चिकम् इति भवितव्यम् । चटकलावकाः, चटकलावकम् इति परत्वाच्छकुनिलक्षणा विभाषैव । बहुत्व इति किम् ? यूकामत्कुणौ, कृमिगण्डूपदौ ।। १७२ ।
१७३. सेनाङ्गस्य च बहुत्वे सेनाङ्गस्य द्वन्द्व : समाहारे भवति । अश्वरथम्, रथपादातम्, रथघोटकम्, रथतुरगम् । बहुत्वे इति किम् ? अश्वरथौ, रथवाजिनौ ।। १७३ |
१७४. मृगशकुनिव्रीहिदुमतृणानां वा एषां द्वन्द्वः समाहारे बहुत्वे वा भवति । एणरोहितम्, एणरोहिताः, शशकवराहम्, शशकवराहाः, शुककोकिलम्, शुककोकिलाः, लावककलविङ्कम्, लावककलविङ्काः, शालियवम्, शालियवाः, तिलमुद्गम्, तिलमुद्गाः । प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः, चूतचम्पकम्, चूतचम्पकाः, कुशकाशम्, कुशकाशाः, दर्भवीरणम्, दर्भवीरणानि | बहुत्वे इत्येव - एणरोहितौ, चूतचम्पकौ ।। १७४ |
१७५. पशुव्यानयोः सर्वत्र पशोर्व्यञ्जनस्य च द्वन्द्वः सर्वत्र समाहारे वा भवति । गोगर्दभम्, गोगर्दभौ, गोगर्दभाः । अजोरभ्रम्, अजोरध्रौ, अजोरभ्राः । सेनाङ्गानामपि परत्वाद् विभाषैव । हस्त्यश्वम्, हस्त्यश्वौ, हस्त्यश्वाः । घृतसूपम्, घृतसूपौ, घृतसूपाः । दधिवटकम्, दधिवटकौ, दधिवटकाः ।। १७५ |
Page #685
--------------------------------------------------------------------------
________________
परिशिष्टम् - २
१७६. नित्यं यस्याध्येयमनन्तरम् यस्याध्येतुरध्ययनीयमन्योऽन्यप्रत्यासन्नं तस्य द्वन्द्वो नित्यं समाहारे भवति ।
पदकक्रमकम्, क्रमकवार्त्तिकम् || १७६ ।
६४३
१७७. जात्या च वैरम्
जात्या निमित्तेन यस्य जन्तोर्वैरं तस्य द्वन्द्वः समाहारे भवति । अहिनकुलम्, बर्हिभुजगम् । परत्वात् पशुशकुनिलक्षणा विभाषाऽपि बाध्यते । अश्वमहिषम्, श्वशृगालम्, मूषिकमार्जारम्, काकोलूकम्, कौशिकवायसम् । जात्येति किम् ? निमित्तान्तवर्जे वैरे मा भूत् - देवासुरौ पाण्डवकौरवौ ।। १७७ | १७८. नदीदेशनगराणामसमलिङ्गानाम्
नद्यादेरसमलिङ्गम्य द्वन्द्वः समाहारे भवति । गङ्गाशोणम्, शिप्राघर्घरम् । नदीग्रहणे नदानामपि ग्रहणमिहार्थात्। देशी जनपदे कुरुकाश्मीरकादिः । कुरुश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् | अङ्गाश्च कुरुजाङ्गलं च अङ्गकुरुजाङ्गलम् । मथुरा च पाटलिपुत्रं च मथुरापाटलिपुत्रम् । वरणा च पञ्चनदं च वरणापञ्चनदम् । एवम् उज्जयिनीगाधिपुरम् । एषामिति किम् ? जाम्बवशालूकिनौ ग्रामौ । इहापि न स्यात् सौर्यं च नगरं केतवता च ग्रामः सौर्यकेतवते । न ह्ययं नगरस्यैव द्वन्द्वः, वृद्धैरपीदमेव समर्थितम् । ग्रामनगरद्वन्द्वे विधिरयमिति शाक्याः । असमलिङ्गानामिति किम् ? गङ्गायमुने, विदेहपञ्चालाः मधुराकुशावत्यौ । ग्रामनगरयोर्विवेकस्तु शास्त्रतो लोकतश्च
मन्तव्यः || १७८ ।
१७९. गवाश्वादीनि
गवाश्वादीनि द्वन्द्वसमासरूपाणि समाहारे भवन्ति । गवाश्वम्, गवैडकम्, गवाविकम्, कृतावानि अमूनि त्रीणि पठ्यन्ते । अजाविकम्, दासीमाणवकम्, दासीदासम्, स्त्रीकुमारम्, कुटिकुटम्, भागवतीभागवतम् कुब्जवामनम्, पुत्रपौत्रम्, उष्ट्रशशम्, उष्ट्रखरम्, मांसशोणितम्, मूत्रपुरीषम्, ककुन्मेदः, श्वचाण्डालम्, श्ववृषभम् | विकृतत्वाच्छुनश्चाण्डालादिभिरेवेष्यते, न तु जात्या । तथा च श्वान्तेवासिनौ, श्वपुक्कसाविति, अत्र न स्यात् । चण्डालस्तु छान्दसः, भाषायामपीति मतं चेत् श्वचण्डालाविति स्यात् । यथेोच्चारितं हि गवाश्वादौ पाठमिच्छन्ति । गवाविकौ, गवेडकौ इति पशुत्वाद् विभाषैव ।। १७९ ।
"
Page #686
--------------------------------------------------------------------------
________________
६४४
कातन्त्रव्याकरणम्
१८०. न मधुसर्पिरादीनि मधुसर्पिरादीनि द्वन्द्वरूपाणि समाहारे न भवन्ति । मधुसर्पिषी, सर्पिर्मधुनी । दधिपयसी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, वशिष्ठकौशिकौ, तण्डुलकिण्वे, ऋक्सामे, वाङ्मनसे, शुक्लकृष्णौ, दीक्षातपसी, अध्ययनतपसी, श्रद्धामेधे, आद्यावसाने, उदूखलमुसले, इमाबर्हिषी - ह्रस्वस्य दीर्घता । येषां शैषिका विभाषा नेष्यते त इह द्रष्टव्याः ।। १८०।
१८१. संख्यानेऽनव्ययीभावेन अव्ययीभावादन्येन द्वन्द्वार्थस्य परिगणने समाहारे द्वन्द्वो न भवति । द्वौ पाणिपादौ, दश पाणिपादाः, दश काकोलूकाः, द्वौ पाणविकमौरजिकौ, द्वौ हस्त्यश्वौ, दश हस्त्यश्वाः; एवम् उपदशा हस्त्यश्वाः, अधिकदशा गवाश्वाः, अदूरदशा हस्त्यश्वाः । अनव्ययीभावेनेति किम् ? उपदशम् पाणिपादम्, उपदशं हस्त्यश्वम्, उपदशं गवाश्वम् ।। १८१।
१८२. शेषो द्वयोः विधिप्रतिषेधयोरविषयः शेषः । शेषो द्वन्द्वो द्वयोरितरेतरयोगे समाहारे च भवति । इष्टौ तिष्यपुनर्वसू, इष्टं तिष्यपुनर्वसु, कर्तृकरणम्, कर्तृकरणे , पूर्वापरम्, पूर्वापरे, अधरोत्तरम्, अधरोत्तरे, सुखदुःखे, सुखदुःखम्, शीतोष्णे, शीतोष्णम् इत्यादिकमुन्नेयम् ।। १८२।
॥ इति महामहोपाध्यायश्रीश्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्तौ समासप्रकरणं समाप्तम् ।।
Page #687
--------------------------------------------------------------------------
________________
॥श्रीः॥
परिशिष्टम् -२ श्रीदुर्गसिंहप्रणीतानि राजादिगणसूत्राणि
[समासान्तगतानां वा राजादीनामदन्तता] [दु० वृ०]
समासान्तगतानां राजादीनामदन्तता निपात्यते अप्रत्ययो वा अदन्तो वा येषामिति विग्रहः । अवयवावयवोऽपि समासस्यावयवः, तेन उपराजम्, अध्यात्मम् । अव्ययीभावाद् विभक्तीनाम् अम् । द्विपुरी, त्रिपुरी । द्विगोर्नदादित्वादी । सक्त्वचिनी । द्वन्द्वनिन्दितरोगेभ्यः इतीन् । एवमन्येऽपि ।
१. राजन्नहन्सखि [र० च० टी०]
प्रणम्य रुद्रस्य हरेभवान्या वाण्या गणेशस्य च पादपद्मम् ।
तनोति रत्नेश्वरचक्रवर्ती राजादिवृत्तिं पठतां हिताय ॥ 'राजन्नहन्सखि' एभ्यस्तत्पुरुष समासे अत् प्रत्ययो भवति । महांश्चासौ राजा चेति महाराजः । परमं च तदहश्चेति परमाहः । देवानां राजा देवराजः । राज्ञः सखा राजसखः । एवमन्येऽपि ।।१।
२. गौरतद्धिताभिधेये [र० च० टी०]
अतद्धिताभिधेये गोशब्दादद् भवति । राज्ञो गौः राजगवः, परमगवः ।अतद्धिताभिधेय इति किम् ? पञ्चभिर्गोभिः क्रीतः पञ्चगुः । गोरप्रधानेत्यादिना ह्रस्वः ।।२।
३. उरःप्रधानार्थम् [२० च० टी०]
प्रधानाद् उरःशब्दाद् अत् प्रत्ययो भवति । अश्वानामुरः अश्वोरसम्, हस्त्युरसम् । अश्वादीनां प्रधानमित्यर्थः । प्रधानार्थमिति किम् ? अश्वोरः, अश्वानां वक्ष इत्यर्थः।।३।
Page #688
--------------------------------------------------------------------------
________________
६४६
कातन्त्रव्याकरणम्
४. अनस् अश्मन् अयस् सरस् जातिसंज्ञयोः [२० च० टी०]
एभ्यश्चतुर्यो जातौ संज्ञायां चाद् भवति । उपगतमनः उपानसं जातिः । महच्च तदनश्चेति महानसं संज्ञा । अमृतं च तदश्मा चेति अमृताश्मो जातिः । लोहिताश्म इति संज्ञा | कालायसमिति जातिः । लोहितायसमिति संज्ञा । मण्डूकस्य सरः मण्डूकसरसमिति जातिः । एवं जलसरसम् इति संज्ञा ।।४।
५. ग्रामकोटाभ्यां तक्षन् [२० च० टी०]
ग्रामकौटाभ्यां परात् तक्षशब्दाद् अद् भवति । ग्रामस्य तक्षा ग्रामतक्षः । बहूनां साधारण इत्यर्थः । कुट्यां भवः कौटः, स चासौ तक्षा चेति कौटतक्षः, स्वगृहस्थायी ।।५।
६. अतेः श्वन् [२० च० टी०]
अतेः परात् श्वन्शब्दादद् भवति । श्वानमतिक्रान्तः अतिश्वो वराहः, जवन इत्यर्थः ।।६।
७. उपमानादप्राणिनि [२० च० टी०]
अप्राणिनि विषये उपमानो यः श्वनशब्दस्तस्माद् अद् भवति । आकर्षः श्वेव आकर्षश्व: । अप्राणिनीति किम् ? व्याघ्रः श्वेव व्याघ्रश्वा ||७|
८. मृगपूर्वोत्तरेभ्यश्च सक्थि [२० च० टी०]
एभ्य उपमानेभ्यश्च सक्थिशब्दादद् भवति । मृगस्य सक्थि मृगसक्थम् । पूर्व च तत् सक्थि चेति पूर्वसक्थम्, उत्तरसक्थम् ।। ८ ।
९. अतद्धितार्थे द्विगोनौः [२० च० टी०]
अतद्धितार्थे द्विगुसमासस्य नौशब्दादद् भवति । द्वे नावौ धनमस्य द्विनावधनम् । द्वयो वोः समाहारः द्विनावम् । अतद्धितार्थ इति किम् ? पञ्चभिौभिःक्रीतः पञ्चनौः ।।९।
Page #689
--------------------------------------------------------------------------
________________
६४७
परिशिष्टम् -२
१०. अर्धाच्च [र० च० टी०]
अर्धात् परात् नौशब्दादद् भवति । अर्धं च तद् नौश्चेति अर्धनावम् ।। १०।
११. वा खारी [र० च० टी०]
अर्धात् पराद् अतद्धितार्थे द्विगुसमासस्य खारी शब्दादद् भवति वा । अर्धं च तत् खारी चेति अर्धखारम्, अर्धखारी | द्वयोः खार्योः समाहारः द्विखारम्, द्विखारी । द्विखारधनः, द्विखारीधनः पुत्रः । द्वाभ्यां खारीभ्यां क्रीतः द्विखारो मेषः इति । अभिधानात् तद्धितार्थे द्विगौ स्त्रीप्रत्ययस्य निवृत्तिः यथा पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः । अतद्धितार्थ इत्यस्य व्यावृत्तिरत्र न सम्भवति ।।११।
१२. द्वित्रिभ्यामञ्जलिः [र० च० टी०]
अतद्धितार्थे द्विगुसमासस्य द्वित्रिपूर्वादञ्जलिशब्दादद् भवति । द्वयोरञ्जल्योः समाहारः व्यञ्जलम्, व्यञ्जलि । एवं त्र्यञ्जलम्, त्र्यञ्जलि | द्वावञ्जली प्रियावस्य ट्यञ्जलप्रियः, व्यञ्जलिप्रियः । एवं त्र्यञ्जलप्रियः, व्यञ्जलिप्रियः । केचिदुत्तरपदे द्विगोर्नेच्छन्ति । अतद्धितार्थ इति किम् ? द्वाभ्यामञ्जलिभ्यां क्रीतः व्यञ्जलिः ।।१२।
१३. जनपदाद् ब्रह्मन् [२० च० टी०]
जनपदवाचकात् ब्रह्मन्शब्दादद् भवति । अवन्तिषु ब्रह्मा अवन्तिब्रह्मः । इह वा न वर्तते उत्तरत्र वाविकल्पनात् ।।१३।
१४. कुमहद्भ्यां वा [र० च० टी०]
कुमहन्त्पूर्वब्रह्मन्शब्दादद् भवति वा । कुत्सितो ब्रह्मा कुब्रह्मः, कुब्रह्मा । महाब्रह्मः, महाब्रह्मा ।।१४।
Page #690
--------------------------------------------------------------------------
________________
६४८
कातन्त्रव्याकरणम्
१५. उक्तेषु स्त्रीत्वसम्भवे नदादौ द्रष्टव्याः [२० च० टी०]
एते अत्प्रत्ययान्ताः स्त्रियां वर्तन्ते चेत् तदा एतेभ्यो नदादित्वाद् ईप्रत्ययो भवति । राजानमतिक्रान्ता अतिराजी इत्यादि । सम्भव इति किम् ? अर्धनावम्, अर्धखारम् ।। १५ ।
१६. संख्याऽव्ययायगुलिः [२० च० टी०]
संख्याव्ययपूर्वादगुलिशब्दादद् भवति । द्वयोरगुल्योः समाहारः व्यङ्गुलम् । द्वे अङ्गुली प्रमाणम् व्यगुलं दारु । निर्गतमगुलिभ्यो निरगुलम् । अतिक्रान्तमगुलिम् अत्यगुलम् ।।१६।
१७.अहःसर्वेकदेशसंख्यातपुण्यवर्षादीर्घादिश्च रात्रिः [२० च० टी०]
अहरादिपूर्वाद् रात्रिशब्दादद् भवति संख्याव्ययादेश्च । अहश्च रात्रिश्च अहोरात्रः । वचनादिह द्वन्द्वादपि । सर्वा चासौ रात्रिश्चेति सर्वरात्रः । एवं पूर्वरात्रः, अपररात्रः । एकदेशे वर्तमानस्य पूर्वादिशब्दस्यैकदेशत्वात् कर्मधारयः । अन्यत्र पूर्वरात्रिः, अतिक्रान्ता रात्रिरित्यर्थः । संख्याता चासौ रात्रिश्चेति संख्यातरात्रः । एवं पुण्यरात्रः । वर्षाणां रात्रिः वर्षारात्रः । दीर्घा चासौ रात्रिश्चेति दीर्घरात्रः । संख्याव्ययादि:द्वे रात्री समाहते द्विरात्रम् | अतिक्रान्तो रात्रिम् अतिरात्रः । सर्वादिपूर्वादहन्शब्दादद् भवति, नलोपो न भवह्निः , पूर्वाह्नः, संख्याताद् वा-संख्याताह्नः, संख्याताहः । समाहारद्विगौ नलोप एव-द्व्यहः, त्र्यहः ।।१७।।
१८. प्रागुक्तो विधिस्तसुरुष एव [र० च० टी०]
प्रागुक्तो विधिस्तत्पुरुष समासेऽद् भवति । बहुव्रीह्यादौ न स्यात् । इन्द्रः सखा यस्य इन्द्रसखा । सख्युः समीपम् उपसखि, राजा च अहश्च सखा च राजाहःसखायः ।।१८।
१९. पन्थ्यप्पुरः [र० च० टी०]
एभ्यः समासमात्रेऽद् भवति । स्थूलश्चासौ पन्थाश्चेति स्थूलपथः । देवानां पन्थाः देवपथः । विमला आपो यस्मिन् विमलापं सरः, ललाटं पूरिव ललाटपुरम् ।। १९ ।
Page #691
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
६४९
२०. धुरनक्षस्य [२० च० टी०]
समासमात्रे धुर्शब्दाद् अद् भवति । राज्ञो धूः राजधुरा । महती चासौ धूश्चेति महाधुरा । अनक्षस्येति किम् ? अक्षसम्बन्धिनी या धूस्तस्या न भवति । अक्षस्य धूः अक्षधूः । दृढा धूरस्य दृढधूरक्षः ।।२०।
२१. ऋच् [२० च० टी०]
ऋच्शब्दादद् भवति समासमात्रे । अर्धं च तद् ऋक् चेति अर्धर्चः । सप्त ऋचो यस्यासौ सप्त! मन्त्रः ।।२१।
२२. नबादिश्च माणवकचरणयोः [र० च० टी०]
नबहुपूर्वात् ऋचशब्दाद् अद् भवति । न विद्यते ऋच् यस्यासौ अनृसौ अनृचो माणवकः । बढ्यः ऋचो यस्यासौ बढ़चः चरणः । माणवकचरणयोरिति किम् ? अनृक्कं साम, बढक्कं सूक्तम् । “शेषाद् वा" इति कप्रत्ययः ।।२२ ।
२३. प्रत्यन्ववेभ्यः सामलोमनी [र० च० टी०]
प्रति-अनु-अवपूर्वाभ्यां सामलोमशब्दाभ्याम् अद् भवति । प्रतिसामम्, अनुसामम्, अवसामम् । प्रतिलोमम्, अनुलोमम्, अवलोमम् । प्रतिगतं साम इत्यादि यथायोगं प्रयोगपरिग्रहः ||२३|
२४. अचक्षुरक्षि [२० च० टी०]
अचक्षुर्विषये अक्षिशब्दाद् अद् भवति । लवणमक्षीव लवणाक्षम्, गवामक्षीव गवाक्षः, अचक्षुरिति किम् ? ब्राह्मणाक्षि ।।२४।
२५. ब्रह्महस्तिराजपण्येभ्यो वर्चस [२० च० टी०]
एभ्यः पराद् वर्चस्शब्दाद् अद् भवति । ब्रह्मणो वर्चः ब्रह्मवर्चसम्, हस्तिवर्चसम्, राजवर्चसम्, पण्यवर्चसम् ।।२५ ।
Page #692
--------------------------------------------------------------------------
________________
६५०
कातन्त्रव्याकरणम्
२६. अन्धसमवेभ्यस्तमस्
[२० च० टी०]
एभ्यः परात् तमस्शब्दादद् भवति । अन्धं च तत् तमश्चेति अन्धतमसम्, एवं सन्तमसम्, अवतमसम् ||२६|
२७. श्वसोऽवसीयस्
[२० च० टी०]
श्वस्पूर्वादवसीयस्शब्दादद् भवति । श्वोऽवसीयम् । कल्याणमित्यर्थः ।। २७ । २८. निसश्च श्रेयस्
[२० च० टी०]
चकारः शसोऽनुकर्षणार्थः । आभ्यां परात् श्रेयस् शब्दादद् भवति । निश्चितं श्रेयः निःश्रेयसं निर्वाणम् | शोभनं श्रेयः निःश्रेयसं कल्याणमित्यर्थः ||२८| २९. अन्ववतप्तेभ्यो रहस्
[२० च० टी०]
एभ्यः पराद् रहस्शब्दादद् भवति । अनुरहसम् अवरहसम् | तप्तमिव तप्तम्, तप्तं च तद् रहश्चेति तप्तरहसम् । यदत्यन्तं रहः केनचिन्नावगम्यते तदेवमुच्यते ||२९| ३०. प्रतेरुरस् आधारश्चेत्
[१० च० टी०]
प्रतिपूर्वाद् उरस्शब्दादद् भवति । उरसि प्रवर्तते प्रत्युरसं लोम । कारकार्थेऽव्ययीभावः । आधार इति किम् ? प्रतिगतमुरः प्रत्युरः || ३० |
३१. अनुगवमायामवति
[१० च० टी०]
आयामो दैर्घ्यं तद्वति अनुगवमिति निपात्यते । गवाम् अन्वायातं शकटम् अनुगवम्, यद् गोभिरुह्यते । आयामवतीति किम् ? गवामनु पश्चात् - अनुगु । पश्चादर्थेऽव्ययीभावः ।। ३१ ।
३२. उपसर्गादध्वन्
[२० च० टी०]
उपसर्गपूर्वादध्वन्शब्दादद् भवति । प्रगतोऽध्वानं प्राध्वो रथः । प्रत्यध्वं शकटम् || ३२ ।
Page #693
--------------------------------------------------------------------------
________________
६५१
परिशिष्टम् -२
३३. उदकपाण्डुकृष्टेभ्यो भूमिः [२० च० टी०]
एम्यः पराद् भूमिशब्दादद् भवति समासमात्रे । उदीची भूमिर्यस्मिन् स उदग्भूमः । एवं पाण्डुभूमः, कृष्टभूमो देशः ।। ३३ ।
३४. संख्याया नदीगोदाव? च [२० च० टी०]
संख्यावाचकात् परान्नदीशब्दाद् गोदावरीशब्दाद् भूमिशब्दाच्चाद् भवति । पञ्चानां नदीनां समाहारः पञ्चनदम्, एवं सप्तगोदावरम् । द्वे भूमी यस्य स द्विभूमः प्रासादः । नदीवाचकानां समाहारेऽव्ययीभाव इष्यते, अत एव नपुंसकत्वम् ।। ३४ ।
३५. उक्तेषु स्त्रीत्वसम्भवे स्त्रियामादा [२० च० टी०]
कथितेषु अत्प्रत्ययान्तेषु स्त्रियां वर्तमानेषु स्त्रियामादा इत्यनेनाप्रत्ययो भवति, न तु ईप्रत्ययः । स्थूलपथा नगरीत्यादि ।। ३५।
३६. समाहारद्वन्द्वचवर्गदषहान्त [२० च० टी०]
समाहारद्वन्द्वे चवर्गान्ताद् दान्तात् षान्ताद् हान्ताच्चाद् भवति । चान्तात्वाक्त्वचम्, श्रीम्रजम् । दान्तात् - समिद्देशदम् । षान्तात् - वाक्त्विषम् । हान्तात् - पीठच्छत्रोपानहम् ।।३६।
३७. इतोऽव्ययीभावः [२० च० टी०] अस्मात् पराद् अव्ययीभावसमासेऽद् भवति । उपशरदम् इत्यादि ।।३७।
३८. शरद्-विपाश्-अयस्-चेतस्-मनस्-उपानह्-विदः संज्ञायाम् [२० च० टी०]
एभ्यः शरदादिभ्योऽव्ययीभावसमासेऽद् भवति । शरदः समीपम् उपशरदम् । एवम् उपविपाशम्, उपायसम्, उपचेतसम्, उपमनसम्, उपोपानहम्, उपविदम् ।। ३८।
Page #694
--------------------------------------------------------------------------
________________
६५२
कातन्त्रव्याकरणम्
३९. हिमवन्त द्विधा [र० च० टी०]
हिमवन्त - द्विधाशब्दाभ्याम् अव्ययीभावसमासेऽद् भवति । हिमवतः समीपम् उपहिमवतम्, उपद्विधम् ।।३९।
४०. अनड्वाह-विश्-चत्वार-यद्-तद् [२० च० टी०]
एभ्योऽव्ययीभावसमासेऽद् भवति ।उपानडुहम्, उपविशम्, उपचतुरम्, उपयदम्, उपतदम् ।।४०।
४१. जरा जरस् [२० च० टी०] जराशब्दादव्ययीभावसमासेऽद् भवति जराया जरसादेशश्च । उपजरम् ।।४१ ।
४२. प्रतिसमनुभ्योऽक्षि [२० च० टी०]
एभ्योऽक्षिशब्दादद् भवति अव्ययीभावसमासे | अक्ष्णोराभिमुख्यम् प्रत्यक्षम् । अक्ष्णोः समीपं समक्षम् । एवम् अन्वक्षम् ।।४२ ।
४३. उप श्वन् [र० च० टी०]
अनन्तेति वक्ष्यमाणेन सिद्धे नियमार्थः पाठः । अव्ययीभावसमासे उपादेव श्वन्शब्दादद् भवति, नान्यस्मादिति । शुनः समीपम् उपशुनम् । नियमः किम् ? अधिश्व ।। ४३।
४४. सह रजस् [२० च० टी०]
अव्ययीभावसमासे सहपूर्वाद् रजस्शब्दादद् भवति ।सह रजसा वर्तते सहरजसम्, सरजसमभ्यवहरति । साकल्येऽव्ययीभावः ।।४४ ।
Page #695
--------------------------------------------------------------------------
________________
परिशिष्टम् -२
६५३
४५. अनन्त [२० च० टी०]
अव्ययीभावसमासेऽनन्तादद् भवति । आत्मन्यधि अध्यात्मम्, राज्ञः समीपम् उपराजम् ।।४५।
४६. नपुंसकं वा [२० च० टी०]
अव्ययीभावसमासे नपुंसकलिङ्गादनन्तादद् भवति वा । चर्मणः ममीपम् उपचर्मम्, उपचर्म ।।४६।
४७. धुडन्त [२० च० टी०]
अव्ययीभावसमासे धुडन्तादद् भवति वा । समिधः समीपम् उपसमिधम्, उपसमित् । उपदृशदम्, उपदृशत् ।।४७।
४८. गिरिनदीपौर्णमासी-आग्रहायणी [२० च० टी०]
एभ्योऽव्ययीभावसमासेऽद् भवति वा । गिरेः समीपम् उपगिरम्, उपगिरि । एवम् उपनदम्, उपनदि । उपपौर्णमासम, उपपौर्णमासि, उपाग्रहायणम्, उपाग्रहायणि । पक्षे नपुंसकलक्षणो ह्रस्वः ।।४८।
४९. इतो बहुव्रीहिः [२० च० टी०] अस्मात् सूत्रादारभ्य बहुव्रीहि यः । तत्र वक्ष्यमाणः प्रत्ययो वेदितव्यः ।।४९।
५०. सक्थ्यक्षिणी स्वाङ्गे [र० च० टी०]
बहुव्रीहिसमासे सक्थ्यक्षिशब्दाभ्यामद् भवति स्वाङ्गे गम्यमाने । दीर्घ सक्थि अस्य दीर्घसक्थः । विशाले अक्षिणी अस्य विशालाक्षः । स्वाङ्ग इति किम् ? दीर्घसक्थि, शकटम्, स्थूलाक्षिः इक्षुः ।।५०।
Page #696
--------------------------------------------------------------------------
________________
१५४
कातन्त्रपाकरणम्
५१ दारुण्यङ्गुलिः [र० च० टी०]
बहुव्रीहिसमासेऽङ्गुलिशब्दादद् भवति दारुणि गम्यमाने । द्वे अङ्गुली यस्य ट्यगुलं पञ्चाङ्गुलं दारु ।। ५१।
५२. द्वित्रिभ्यां मूर्धन् [२० च० टी०]
बहुव्रीहिसमासे आभ्यां परान्मूर्धन्शब्दादद् भवति । द्वौ मूर्धानौ यस्य सः द्विमूर्धः । एवं त्रिमूर्धः ।। ५२।
५३.उक्तेषु स्त्रीत्वसम्भवे नदादित्वादी [२० च० टी०]
उक्तेषु अत्प्रत्ययान्तेषु स्त्रीत्वसम्भवे नदादित्वाद् ईप्रत्ययो भवति । दीर्घसक्थी, विशालाक्षी ।।५३।
५४. पूरणीप्रमाण्यौ [र० च० टी०]
बहुव्रीहिसमासे स्त्रीपूरण्यन्तात् प्रमाणीशब्दाच्चाद् भवति । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमाः रात्रयः । मुख्यपूरणीग्रहणात् कल्याणपञ्चमीकः पक्षः । स्त्री प्रमाणी येषां ते स्त्रीप्रमाणाः कुटुम्बिनः ।। ५४ |
५५. अन्तर्बहिां लोमन् । [२० च० टी०]
आभ्यां परात् लोमनशब्दादद् भवति बहुव्रीहौ समासे । अन्तर्गतानि लोमान्यस्य अन्तर्लोमः । बहिर्गतानि लोमान्यस्य बहिर्लोमः ।।५५ ।
५६. नक्षत्रान्नेतृ [२० च० टी०]
नक्षत्रवाचकपूर्वान्नेतृशब्दादद् भवति बहुव्रीही समासे । मृगो नेता यासां मृगनेत्रा रात्रयः । एवं पुष्यनेत्राः । नक्षत्रादिति किम् ? देवदत्तनेतृकः । अत्रापि नेत्रशब्देन सिद्ध पूर्ववत् कबाधनार्थं वचनम् ।। ५६।
Page #697
--------------------------------------------------------------------------
________________
६५५
परिशिष्टम् -२
५७. नसुव्युपत्रिभ्यश्चत्वार [र० च० टी०]
एभ्यश्चत्वार्शब्दादद् भवति बहुव्रीहौ समासे । नास्य चत्वार्यक्षीणि विषयीणि भवन्ति - अचतुरः । शोभनान्यस्य चत्वार्यक्षीणि विषयीणि भवन्ति सुचतुरः ।विविधान्यस्य चत्वार्यक्षीणि विषयीणि भवन्ति । विचतुरः । चत्वारि इन्द्रियाणि समीषे एषाम् उपचतुराः । त्रयो वा चत्वारो वा परिमाणमेषां त्रिचतुराः ।। ५७।
५८. संज्ञायां नाभिः [२० च० टी०]
बहुव्रीहौ समासे नाभिशब्दादद् भवति संज्ञायाम् । पद्मं नाभावस्य पद्मनाभः । एवं वज्रनाभः । संज्ञायामिति किम्? पद्येन नाभिः पद्मनाभिः ।।५८।
५९. नसुदुर्थ्यः सक्थि वा [र० च० टी०]
एभ्यः सक्थिशब्दादद् भवति वा बहुव्रीहौ समासे । न विद्यमानं सक्थ्यस्य असक्थः, असक्थिः । सुसक्थः, सुसक्थिः । दुःसक्थः, दुःसक्थिः । राजादिराकृतिगणोऽयम् ।। ५९।
६०. संख्याया अबहोरन्त्यस्वरादिलोपश्च [र० च० टी०]
बहुशब्दवर्जितायाः संख्याया बहुव्रीहौ वर्तमानाया अद्भवति,अन्त्यस्वरादिलोपश्च । पञ्च षट् परिमाणमेषां पञ्चषाः । उपगता दश एषाम् उपदशाः । अबहोरिति किम् ? उपबहवः । तथा आकृतिगणत्वादेव ।।६०।
६१. न किमः क्षेपे [२० च० टी०]
निन्दायां यः किम् - शब्दस्तत्पराद् राजादेरत्प्रत्ययो न भवति । कुत्सितो राजा किंराजा, यो न रक्षति प्रजाः । क्षेप इति किम् ? केषां राजा किंराजः ।।६१।
J
Page #698
--------------------------------------------------------------------------
________________
६५६
कातन्त्रव्याकरणम्
६२. स्वतिभ्यां पूजायां प्राग् बहुव्रीहेः
[२० च० टी०]
आभ्यां राजादिशब्दादत्प्रत्ययो न भवति पूजायां बहुव्रीहिभिन्नसमासे । शोभनो राजा सुराजा । अतिशयो राजा अतिराजा । सुगौः, अतिगौः । स्वतिभ्यामिति किम् ? परमराजः। पूजायामिति किम् ? अतिक्रान्तो राजानम् अतिराजः । बहुव्रीहेः प्रागिति किम् ? शोभनं सक्थ्यस्य सुसक्थः ।। ६२ । ६३. नञस्तत्पुरुषे
[२० च० टी०]
नञस्तत्पुरुषे राजादिशब्दादप्रत्ययो न भवति । न राजा अराजा । एवम् असखा । तत्पुरुष इति किम् ? अनृचो माणवकः । न विद्यते धूर्यस्य अधुरं शकटम् || ६३ ६४. पथो वा
[२० च० टी०]
नञस्तत्पुरुषे पन्थिशब्दादद् भवति वा । नायं पन्थाः अपथम्, अपन्थाः । तत्पुरुष इति किम् ? न विद्यते पन्था यस्य अपथोऽयं देश ः || ६४ | ६५. धेन्वनडुहादयश्च
:
[२० च० टी०]
धेन्वनडुहांदयो निपात्यन्ते । धेनुश्च अनड्वांश्च धेन्वनडुहौ । ऋक् च यजुश्च ऋग्यजुषम् | अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् इत्यादि ।। ६५ ।
|| इत्याचार्यदुर्गसिंहप्रणीतानां राजादिगणसूत्राणामाचार्यरलेश्वरचक्रवर्तिविरचिता वृत्तिः समाप्ता ॥
Page #699
--------------------------------------------------------------------------
________________
॥श्रीः॥
परिशिष्टम् -३ श्रीदुर्गसिंहप्रणीतानि तमादिगणसूत्राणि
[आख्याताच्च तमादयः २।६।४०] १. आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्यः
एव तरां तमाम् आढ्यतरः, आढ्यतमः ।प्रकृष्ट आन्य उच्यते निपातनस्येष्टविषयत्वात् । तथा पचतितराम्, पचतितमाम्, किन्तराम्, किन्तमाम्, पूर्वाह्नेतराम्, पूर्वाह्नतमाम्, उच्चस्तराम्, उच्चस्तमाम् ।।१।
२. तथा गुणादिष्ठेयन्सू वा गुणाद् गुणवाचकाच्छब्दाद् इष्ठेयन्सू वा भवतः । पटिष्ठः, पटीयान् । पटुतरः, पटुतमः । गरिष्ठः, गरीयान् । गुरुतरः, गुरुतमः । गुणादिति किम् ? प्रकृष्टाग्निः ।।२।
३. प्रकर्षे रूपश्च प्रकृष्टवाचकात् प्रकृते रूपप्रत्ययो भवति । प्रकृष्टं पचति पचतिरूपम् । प्रकृष्टं गच्छति गच्छतिरूपम् । प्रकृष्टो बभूव बभूवरूपम् । प्रकृष्टो भविष्यति भविष्यतिरूपम् । प्रकृष्टो वैयाकरणः वैयाकरणरूपः । एवमन्येऽपि । प्रकृष्ट इति किम् ? ग्रामं गच्छति । नात्र प्रकृष्टार्थता ग्रामगमनमात्रार्थः ।।३।
४. ईषदसमाप्तौ कल्पदेश्यदेशीयाः ईषदसमाप्तौ गम्यमानायां प्रकृतेः कल्पदेश्यदेशीया भवन्ति । पटुकल्पः, पटुदेश्यः, पटुदेशीयः । एवमन्येऽप्यनुसर्तव्याः। ईषदसमाप्ताविति किम् ? प्रकृष्टो भवति भवतितराम् ।।४।
५. कुत्सितवृत्ते म्न एव पाशः नाम्नः कुत्सितवृत्तेः पाशप्रत्ययो भवति । कुत्सितो वैयाकरणः वैयाकरणपाशः । कुत्सितो देवदत्तः देवदत्तपाशः । कुत्सितः शाब्दिकः शाब्दिकपाशः । कुत्सितवृत्तेरिति किम् ? शोभनो वैयाकरण : वैयाकरणतरः ।। ५ ।
Page #700
--------------------------------------------------------------------------
________________
६५८
कातन्त्रव्याकरणम्
६. भूतपूर्ववृत्तेश्चरट् भूतः पूर्वो भूतपूर्वः, तत्र वृत्तिर्यस्यासौ भूतपूर्ववृत्तिः, तस्माद् भूतपूर्ववृत्तेम्निश्चरड् भवति । टकारो नदाद्यर्थः । भूतपूर्व आढ्य आढ्यचरः, आढ्यचरी । भूतपूर्ववृत्तेरिति किम् ? ईषदसमाप्त आढ्यकल्पः ।।६।
७. षष्ठ्यन्ताद् भूतपूर्वाभिधेये रूप्यश्च षष्ठ्यन्तान्नाम्नो भूतपूर्वाभिधेये रूप्यप्रत्ययो भवति । चकाराच्चरडपि । देवदत्तस्य भूतपूर्वो गौः देवदत्तरूप्यः । देवदत्तचरः, देवदत्तचरी | षष्ट्यन्तादिति किम् ? देवदत्ताद् भूतपूर्वा भीतिः । भूतपूर्वाभिधेय इति किम् ? देवदत्तस्य गौः ।।७।।
८. बह्वल्पार्थात् कारकाच्छस् वा मङ्गले गम्यमाने बहुश्च अल्पश्च बह्वल्पौ तयोरों बह्वल्पार्थः, तस्माद् बह्वल्पार्थात् । बह्वर्थाद् अल्पार्थाच्च कारकान्मङ्गले गम्यमाने शस्प्रत्ययो भवति वा । बहु देहि बहुशो देहि | प्रभूतं देहि प्रभूतशो देहि ! अल्पं देहि अल्पशो देहि । स्तोकं देहि स्तोकशो देहि । अन्यत्र न भवति - गां देहि । कारकादित्येव-बहूनां स्वामी, अल्पानामीश्वरः । मङ्गल इति किम् ? बहूनि दुःखानि देहि ।।८।
९. संख्यैकार्थाभ्यां वीप्सायाम एकोऽर्थो यस्येत्येकार्थः । संख्या च एकार्थश्चेति द्वन्द्वः । इहापि कारकादिति वर्तते । संख्यावाचकादेकार्थाच्च वीप्सायां गम्यमानायां शस्प्रत्ययो भवति । पृथग्योगादत्र विकल्पनिवृत्तिः । द्वौ द्वौ देहि द्विशो देहि । कार्षापणं कार्षापणं देहि कार्षापणशो देहि | कुडवं कुडवं देहि कुडवशो देहि । पादं पादं देहि पादशो देहि । संख्यैकार्थाभ्यामिति किम् ? मासौ मासौ देहि । वीप्सायामिति किम् ? द्वौ देहि, कार्षापणं देहि । कारकादिति किम् ? द्वयोर्द्वयोः-स्वामी ।।९।।
१०. कतिगणवन्तूनां संख्यावत् . कतिश्च गणश्च वन्तुश्च कतिगणवन्तवः, तेषां कतिगणवन्तूनाम् । संख्याया इव संख्यावत् । यथा संख्यावाचकाद् वीप्सायां शस् विधीयते , तथा कतिशब्दात्, गणशब्दात्, वन्तुप्रत्ययाच्च शस् भवति वीप्सायाम् । कति कति देहि कतिशो देहि । गणं गणं देहि गणशो देहि । तावन्तं तावन्तं देहि तावच्छो देहि । कतिगणवन्तूनामिति किम् ? पुनः पुनर्देहि । वीप्सायामिति किम् ? कति देहि ।।१०।
Page #701
--------------------------------------------------------------------------
________________
परिशिष्टम् - ३
११. वारस्य संख्यायाः कृत्वस्
स्वस्थानस्थितशब्दस्य पुनरर्थानुसन्धानमावृत्तिः, आवृत्तिलक्षणक्रियायाः प्रवृत्तिलक्षणः कालो वारः । वारस्य सम्बन्धिन्याः संख्यायाः कतिगणवन्तूनां च कृत्वस्प्रत्ययो भवति । पञ्च वारान् भुङ्क्ते पञ्चकृत्वो भुङ्क्ते । शतं वारान् भुङ्क्ते शतकृत्वो भुङ्क्ते वाराणां वा शतं भुङ्क्ते । एवं कति वारान् भुङ्क्ते कतिकृत्वो भुङ्क्ते । एवं गणकृत्वः, तावत्कृत्वः । वारस्य संख्याया इति किम् ? ऋषीणां शतं पश्यति || ११ | १२. बहोरविप्रकर्षे धा च
६५९
अविप्रकर्षः सान्निध्यम् । अविप्रकर्षे वर्तमानाद् बहुशब्दाद् वारस्य संख्याया धाप्रत्ययो भवति, कृत्वस् च । बहून् वारान् भुङ्क्ते दिवसस्य बहुधा, बहुकृत्वः । बहोरिति किम् ? शतं वारान् भुङ्क्ते । अविप्रकर्ष इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते || १२| १३. द्वित्रिचतुर्भ्यः सुच्
द्वित्रिचतुर्भ्यो वारस्य संख्यायाः सुच्-प्रत्ययो भवति । द्वौ द्वौ वारौ भुङ्क्ते द्विर्भुङ्क्ते । त्रीन् वारान् भुङ्क्ते त्रिर्भुङ्क्ते । चतुरो वारान् भङ्क्ते चतुर्भुङ्क्ते । द्वित्रिचतुर्भ्य इति किम् ? पञ्च वारान् भुङ्को चकृत्वः ।।१३। १४. प्रस्तुतवृत्तेर्मयट्
प्रस्तुतवृत्तेः प्रकृतेर्मयट्प्रत्ययो भवति । टकारो नदाद्यर्थः । अन्नं प्रस्तुतम् अन्नमयम्। यवागूः प्रस्तुता यवागूमयी । प्रस्तुतवृत्तेरिति किम् ? प्रकृष्टा यवागूः यवागूतराम् ।। १४ ।
१५. प्रकृतेर्विकारेऽवयवे वा भक्षाच्छादनयोः
I
भक्षश्च आच्छादनं च भक्षाच्छादने, न भक्षाच्छादने अभक्षाच्छादने तयोः । प्रकृतेर्विकारेऽवयवे वा मयट्प्रत्ययो भवति । वाऽत्र समुच्चये, न तु भक्षाच्छादनयोः । अश्मनो विकारोऽवयवो वा अश्ममयम् । भस्ममयम्, सुवर्णमयम्, लौहमयी । अभक्षाच्छादनयोरिति किम् ? मुद्गस्य विकारो मौद्गः सूपः । कार्पासस्य विकारोऽवयवो वा कार्पासमाच्छादनम् | मयटा अण् न बाध्यते, अश्मनो विकारोऽवयवो वा आश्मः । एवं भास्मः । " नस्तु क्वचित्" (२/६/४५) इति नलोपः ।। १५ ।
Page #702
--------------------------------------------------------------------------
________________
६६०
कातन्त्रष्याकरणम्
१६. एकस्वरान्नित्यम् एकस्वरात् शब्दान्नित्यमयड् भवति ।वाङ्मयम्, त्वङ्मयम्, मृन्मयम् । एकस्वरादिति किम् ? पटोर्भावः पटुत्वम् ।।१६।
१७. अभूततद्भावे कृभ्वस्तिषु विकाराच्चिः अभूतस्य अजातस्य तदात्मना भावोऽभूततभावः । अयमर्थः- अवस्थावतोऽवस्थान्तरेणाभूतस्याजातस्य तदात्मना तेनैव स्वरूपेण भावे (विकारस्वभावेन जन्मनि) कृभ्वस्तिभिर्योगे विकारवाचिनः शब्दाच्च्चिप्रत्ययो भवति । अशुक्लं शुक्लं करोति शुक्लीकरोति । अशुक्लः शुक्लो भवति शुक्लीभवति । अशुक्लः शुक्लः स्यात् शुक्लीस्यात् । अवस्त्रं वस्त्रं भवति - वस्त्रीभवति । एवमन्येऽपि । अभूततद्भाव इति किम् ? घटं करोति, घटो भवति, घटः स्यात्, कृभ्वस्तिष्विति किम् ? अशुक्लः शुक्लो जायते । विकारादिति किम् ? प्रकृतेर्मा भूत्-सुवर्णं कुण्डलं करोति ।।१७।
१८. अर्मनश्चक्षुश्चेतोरहोरजोभ्यः कृतसलोपेभ्यः एवायं विधिः
तमादिनिपातनस्येष्टविषयत्वात् कृतसलोपेभ्यः एभ्यः कृभ्वस्तिषु च्चिप्रत्ययो भवति । अनरुः अरुः करोति अरूकरोति, एवम् अरूभवति, अरूस्यात् । उद्गतं मनो यस्य स उन्मनाः। अनुन्मनसम् उन्मनसं करोति उन्मनीकरोति । एवम् उन्मनीभवति, उन्मनीस्यात् । अनुच्चक्षुषम् उच्चक्षुषं करोति उच्चर्करोति । एवम् उच्चर्भवति, उच्च भूस्यात् । अविचेतसं विचेतसं करोति विचेतीकरोति । एवं विचेतीभवति, विचेतीस्यात् । एवं विरहीकरोति, विरजीकरोति । एवमन्येऽपि । एभ्य इति किम् ? अपयः पयः करोति । कृभ्वस्तिष्विति किम् ? अनरुः अरुर्जायते ।। १८।
१९. अभिव्याप्तौ सम्पद्यतौ च सातिर्वा अभिविधिरभिव्याप्तिस्तस्यामेकदेशेन सर्वात्मना वा गम्यमानायां सम्पद्यतौ कृभ्वस्तिषु च प्रकृतेः सातिर्भवति वा । पक्षे च्चिरपि । वर्षासु लवणमुदकं सम्पद्यते उदकसात् सम्पद्यते, वर्षासु लवणमुदकं करोति उदकसात् करोति । वर्षासु लवणमुदकं स्याद् उदकसात् स्यात् । पक्षे उदकीकरोतीत्यादि । एवमन्येऽपि ।। १९ ।
Page #703
--------------------------------------------------------------------------
________________
परिशिष्टम् -३
२०. स्वाम्यर्थादायत्ते स्वामी अर्थो यस्यासौ स्वाम्यर्थः, स्वाम्यर्थात् शब्दादायत्ते गम्यमाने कृभ्वस्तिषु सम्पद्यतौ च सातिर्भवति । राजायत्तं करोति राजसात् करोति । राजायत्तं भवति राजसाद् भवति । राजायत्तं स्याद् राजसात् स्यात् । राजायत्तं सम्पद्यते राजसात् सम्पद्यते ।।२०।
२१. देये त्राच चकारात् सातिरायत्त इति वर्तते । देये आयत्ते चार्थे प्रकृतेः त्रासाती भवतः कृभ्वस्तिषु सम्पद्यतौ च । देवाय देयं करोति देवत्राकरोति, देवसात् करोति । देवाय देयं भवति देवत्रा भवति देवसाद् भवति । देवाय देयं स्याद् देवत्रा स्यात्, देवसात् स्यात्, देवाय देयं सम्पद्यते देवत्रा सम्पद्यते, देवसात् सम्पद्यते । देवादिभ्यो द्वितीयासप्तम्यन्तेभ्यो बहुलम् । कृत्रादिभिरन्यैश्च योगे प्रत्ययो भवति तमादिप्रपञ्चार्थत्वात् । देवान् करोति देवत्रा करोति । देवेषु भवति देवत्रा भवति । देवेषुस्यात् देवत्रा स्यात् । देवान् गच्छति देवत्रा गच्छति देवेषु वसति देवत्रा वसति । मनुष्यान् करोति मनुष्यत्राकरोति । मनुष्येषु वसति मनुष्यत्रावसति । पुरुषान् करोति पुरुषत्राकरोति । पुरुषेषु वसति पुरुषत्रा वसति । मान् करोति मर्त्यत्राकरोति । मत्र्येषु वसति मर्त्यत्रावसति । बहून् करोति बहुबाकरोति । बहुषु वसति बहुवावसति इत्यादि यथादर्शनं वेदितव्यम् ।।२१।
२२. अव्यक्तानुकरणादनेकस्वरादनिती डान् अव्यक्तस्यानुकरणम् अव्यक्तानुकरणम् ।अनेकस्वरादव्यक्तानुकरणादनितौ कृभ्वस्तिषु सम्पद्यतौ च डाच - प्रत्ययो भवति । यत्र ध्वनौ अकारादयो वर्णा विशेषरूपेण न प्रतीयन्ते । न ध्वनिरव्यक्तस्तस्यानुकरणम् अव्यक्तानुकरणम् । अपटत् पटत् स्यात् पटपटास्यात् । अपटत् पटत् सम्पद्यते पटपटासम्पद्यते ।डाच्यव्यक्तानुकरणस्याभीक्ष्ण्ये द्विर्वचनम् । ततो डाचि निपातनादभ्यासान्तलोपः ।अव्यक्तानुकरणादिति किम् ? दृशत्करोति ।अनेकस्वरादिति किम् ? सत्करोति । अनिताविति किम् ? पटदिति करोति ।।२२।
२३. द्वितीयतृतीयसम्बबीजेभ्यः कृषिविषये करोतो एभ्यः कृषिविषये कृधातोर्योगे डान्प्रत्ययो भवति । द्वितीयं कर्षं करोति द्वितीयाकरोति ।तृतीयं कर्षं करोति तृतीयाकरोति ।सम्बाकरोति, पुनस्तिर्यक् कर्षतीत्यर्थः । बीजाकरोति, बीजेन सह कर्षतीत्यर्थः ।।२३।
Page #704
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
२४. संख्यादेर्गुणात्
संख्यादेर्गुपाशब्दात् कृषिविषये कृधातोर्योगे डाच्प्रत्ययो भवति । द्विगुणकर्षं क्षेत्रस्य करोति द्विगुणाकरोति क्षेत्रम् । त्रिगुणकर्षं क्षेत्रस्य करोति त्रिगुणाकरोति क्षेत्रम् || २४ |
६६२
२५. समयाद् यापनायाम्
समयशब्दाद् यापनायां गम्यमानायां कृधातोर्योगे डाच्प्रत्ययो भवति । कर्तव्यस्यावसरप्राप्तिः : समयः समयस्य कालहरणं यापना । समयाकरोति कालहरणं करोतीत्यर्थः । यापनायामिति किम् ? समयं करोति । शपथं करोतीत्यर्थः ||२५| २६. सपत्रनिष्पत्राभ्यामतिव्यथने
सह पत्रेण सपत्रः । निर्गतं पत्रमस्मादिति निष्पत्रम् । अतिव्यथनम् अतिपीडनम् । अतिव्यथनेऽर्थे सपत्रनिष्पत्राभ्यां डाच् प्रत्ययो भवति । सपत्राकरोति मृगम् । सपत्रं शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्राकरोति, शरीराच्छरमपरपार्श्वे निष्क्रामयतीत्यर्थः । अतिव्यथन इति किम् ? वृक्षं सपत्रं करोति प्रावृट् । निष्पत्रं करोति ग्रीष्मः || २६ | २७. निष्कुलान्निष्कोषणे
निष्कुलशब्दान्निष्कोषणेऽर्थे डाच्प्रत्ययो भवति । मध्यस्थितानामवयवानां बहिर्निष्कासनं निष्कोषणम् । निष्कुलाकरोति दाडिमम् । निष्कोषण इति किम् ? निष्कुलं करोति शत्रुम् ||२७|
२८. प्रियसुखाभ्यामानुकूल्ये
अनुकूलस्य भाव आनुकूल्यम् । तस्मिन्नर्थे वर्तमानाभ्यां प्रियसुखाभ्यां डाच्प्रत्ययो भवति । प्रियाकरोति, सुखासुखं करोत्यौषधम् ||२८|
२९. दुःरवात् प्रातिकूल्ये
दुःखशब्दात् प्रातिकूल्येऽर्थे डाच् प्रत्ययो भवति । गुवदिश्चित्तस्य पीडनम् प्रातिकूल्यम् । दुःखाकरोति । प्रातिकूल्य इति किम् ? दुःखं करोति कदन्नम् ।। २९ । ३०. शूलात् पाके
शूलशब्दात् पाकेऽर्थे डाच्प्रत्ययो भवति । शूले पचति मांसम् - शूलाकरोति । पाक इति किम् ? शूलं करोति कदन्नम् ||३०|
Page #705
--------------------------------------------------------------------------
________________
परिशिष्टम् - ३ ३१. सत्यादशपथे
सत्यशब्दादशपथेऽर्थे डाच्प्रत्ययो भवति । सत्याकरोति वणिग् भाण्डम् | अवश्यं मया विक्रेतव्यमिति निश्चयं करोतीत्यर्थः । अशपथ इति किम् ? सत्यं करोति ब्राह्मणः ।। ३१ ।
६६३
३२. मद्रभद्राभ्यां वपने
आभ्यां वपनेऽर्थे डाचप्रत्ययो भवति । मद्रभद्रशब्दौ मङ्गले वर्तेते । मद्राकरोति, मङ्गलपूर्वकं मुण्डनं करोतीत्यर्थः । वपन इति किम् ? मद्रं करोति || ३२ |
॥ इति तमादिवृत्तिः समाप्ता ॥
Page #706
--------------------------------------------------------------------------
________________
M
»
४१
३४३
१३५
॥श्रीः॥ परिशिष्टम् -४ [रूपसिद्धिशब्दाः] पृ० सं० क्रमसं० शब्दरूपम पृ० सं० २२४ २१. अद्य ___ ५१९ ३९६ २२. अधरेयुः २१ २३. अधर्माज्जुगुप्सते ४१ २७ २४. अधर्माद् विरमति २३५ २५. अधिकदशाः २१८ २६. अधित्रि
३६४ २१८ २७. अधीती व्याकरणे ५०४ २८. अधुना २४८ २९. अध्ययनात् पराजयते ३२७ ३०. अध्यात्मम् ३६५ ३१. अनजः २५३ ३२. अनजकः २४७ ३३. अनजम् २४७ ३४. अनुज्येष्ठम् २५३ ३५. अनुरथम् २४७ ३६. अनुरूपम्
३६५ ३६५ ३७. अन्धवत् ५०४ ३८. अन्नस्य हेतोर्वसति १९०
२८ ३९. अन्नेन वसति ३४३ ४०. अन्यतरेयुः
ا
क्रमसं० शब्दरूपम १. अग्निषु २. अघोषाः
अङ्गाः
अङ्गिरसः ५. अजा
अट्टते ७. अड्डति ८. अतः
अतिकी १०. अतिखट्वः
अतितैसूकम् १२. अतिनु कुलम् १३. अतिपचन्ती १४. अतिप्राची १५. अतिरि कुलम् १६. अतिविदुषी १७. अतिशीतम १८. अत्र १९. अत्रयः २०. अदूरदशा:
४१
.::
५३०
३९८
३९८
سه سد سه سه سه سد
३६५
३६५
४७२
१७२
५१९
Page #707
--------------------------------------------------------------------------
________________
परिशिष्टम् -४
६६५
my
२३५
२२
४९७
my
५०.
आ
३२६
४१. अन्यथा ४२. अन्यदा ४३. अन्येयुः ४४. अन्यो देवदत्तात् ४५. अन्वर्जुनं योद्धारः ४६. अप पाटलिपुत्राद्
वृष्टो देवः ४७. अपररात्रकृतम् ४८. अपरसमम् ४९. अपराह्नकृतम्
अपरेयुः ५१. अपां स्रष्टा ५२. अब्राह्मणः
अभावत्वम् अयस्कंसः अयस्कल्पम् अयस्कामः अयस्काम्यति
अयस्कारः ६०. अयस्कुम्भः ६१. अयस्पाशम् ६२. अश्विमेधम् ६३. अर्केण ६४. अर्जुनस्य तुला नास्ति ६५. अर्येण ६६. अhण
५२२ ६७. अलं मल्लो मल्लाय १६१ ५१४ ६८. अवकोकिलं वनम् ३२६ ५१९ ६९. अवमयूरम् ३२७ १४१ ७०. अश्वका १५२ ७१. अश्वकाः
७२. अशीतितमः १३८ ७३. अश्वीयः
४६४ ३२६ ७४. असवर्णः ३६८ ७५. असिकलहः ३२६ ३२६ ७६. अह
१७ ५२० ७७. अहःसंक्रान्ताः ३२६ २०६ ७८. अहरतिसृता मुहूर्ताः । ३९६ ७९. अहिनकुलम् ३७५ ४७६ ८०. अहिभ्य आत्मानं रक्षति ४१३ ८१. अक्षकितवः ४१२ ८२. अक्षधूर्तः
३२६ ४१३ ८३. अक्षशौण्डः ४१२ ८४. अक्ष्णा काणः १७५ ४१३ ८५. आकाशत्वम्
४७६ ४१३ ८६. आग्निशर्मिः ४१२ ८७. आढकः ३७५ ८८. आढ्यतमः ५२७ २३१ ८९. आढ्यतरः
५२७ १७८ ९०. आत्मषष्ठः
३२६ २३१ ९१. आत्रेयः ४३२, ५३४ २३१ ९२. आदित्यं पश्यति १००
५३.
२८
३२६
५३६
१२६
Page #708
--------------------------------------------------------------------------
________________
कातनायाकरणम्
११
९, ३६४
९३. आनन्दभुदाश्रयः २८५ ११८. उच्चैः
१२६ ९४. आपन्नजीविकः ३२७ ११९. उच्चैर्मुखः ९५. आपन्नदशाः ३४३ १२०. उच्चस्तमाम् ९६. आ पाटलिपुत्राद् १२१. उच्चस्तराम् ५२६ वृष्टो देवः
१३९ १२२. उच्छिन्नजनपदो देशः ३४३ ९७. आम्भसिकः ४५८ १२३. उञ्छिता २१४, २१६ ९८. आयुष्मान् ४८७ १२४. उत्तरेण हिमवन्तम् १४५ ९९. आग्नशस्त्रि ३७५ १२५. उत्तरो ग्रामात् । १४१ १००. आरूढवानरो वृक्षः ३४९ १२६. उदगात् कथकौथुमम् ३७५ १०१. आश्वपतः ४२१ १२७. उपकर्तृ १०२. आश्वमेधिको ब्रह्महत्यायाः ४५७ १२८. उपकुम्भम् १०३. आश्वो रथः ४४७ १२९. उपकुम्भे १०४. आसनात् प्रेक्षते ४१ १३०. उपकुम्भेन १०५. आसन्नदशा: ३४३ १३१. उपदशाः
३४३ १०६. आक्षिकाः ४५७ १३२. उपबाहविः
४३७ १०७. इ:
४३५ १३३. उपराजम् १०८. इतः
५०२ १३४. उपवधु १०९. इतरेयुः
५१९ १३५. उपाध्यायादधीते ११०. इतरो देवदत्तात् १४१ १३६. उपाध्यायादन्तर्धत्ते १११. इतिपाणिनि ३६५ १३७. उपाध्यायादागमयति ११२. इत्थम्
५०३,५२३ १३८. उपानत् ११३. इदानीम् ५०२,५१५ १३९. उपार्जुनं योद्धारः १५२ ११४. इयमस्याः पूर्वा दिक् १४१ १४०. उपावृत् ११५. इष्टकचितम् ४०५ १४१. उभयद्युः
५२० ११६. इह ५०२,५०९ १४२. उभयेयुः
५२० ११७. ईषिकतूलम् ४०५ १४३. उर:केण
५३०
११
४१
४१
४१
४०८
४०८
२३२
Page #709
--------------------------------------------------------------------------
________________
३४३
परिशिष्ट-४ १४४. उर x केण २३२ १७०. ओदनबुभुक्षुः ३२६ १४५: उर:पेण
२३२ १७१. औजसिकः ४५८ १४६. उर ० पेण २३२ १७२. औदूखला मुद्गाः ४४७ १४७. उरसिलोमाः ३४३ १७३. औपगवः ४२१,५३७, १४८. उर्वाः २६
५३९,५४३ १४९. ऋतीषट्
४०८ १७४. औपगवीयाः ४६४ १५०. ऋते देवदत्तात् १४१ १७५. औपबिन्दविः ४३७ १५१. एकः
१२७ १७६. औलोमिः ५३६ १५२. एककोटितमः ४९६ १७७. कटं करोति ९९,१३४ १५३. एकदा
५१४ १७८. कटे आस्ते ६६,१३५ १५४. एकलक्षतमः ४९६ १७९. कठभार्या
३९० १५५. एकशततमः ४९६ १८०. कण्ठेकालः १५६. एकसहसतमः ४९६ १८१. कतिथः
४९४ १५७. एकादशः
४९० १८२. कतिपयथः ४९४ १५८. एडका २३५ १८३. कथम्
५२३ १५९. एतर्हि ५०३, ५१५ १८४. कदश्वः १६०. एधोदकस्योपस्कुरुते १९७ १८५. कदा १६१. एषः
२२४ १८६. कदुष्टः १६२. ऐतिकायनीयाः ४६४ १८७. कन्यारूपम् १६३. ऐन्द्रं हविः ४४७ १८८. कीं
२४८ १६४. ऐन्द्रो मन्त्रः ४४७ १८९. कर्मण्यः १६५. ऐषमः
५१९ १९०. कलकूटाः १६६. ओदनं पचति ९९ १९१. कलिङ्गाः १६७. ओदनं पचन् २०९ १९२. कल्पनापोढः १६८. ओदनं पचमानः २०९ १९३. कष्टश्रितः १६९. ओदनं भुक्तवान् २०९ १९४. कांस्यपात्र्यां भुङ्क्ते ११४
३९९
५१४
३९९
३२६
३२६
३२६
Page #710
--------------------------------------------------------------------------
________________
६६८
कातन्त्रव्याकरणम्
३४३
३४३
४४६
३२६
१२६
१९५. काकपेया नदी १९६. काकम् १९७. काण्डप्लविकः १९८. कान्तारातीतः १९९. कापुरुषः २००. कामण्डलेयः २०१. काम्पिल्यसिद्धः २०२. काम्लम् २०३. कार्पण्यम् २०४. कार्षापणिकः २०५. कालवणम् २०६. काष्ठम् २०७. काक्षेण वीक्षते २०८. किंवान् २०९. किन्तमाम् २१०. किन्तराम् २११. क्रियावान् २१२. कुण्डम् २१३. कुतः २१४. कुत्साः २१५. कुपुरुषः २१६. कुबेरबलिः २१७. कुब्राह्मणः २१८. कुमारी २१९. कुम्भीपक्वः २२०. कुरुकुरुक्षेत्रम्
३२६ २२१. कुशकाशम्
३७५ ४४७ २२२. कुह
५११,५१३ ४५७ २२३. कूपादन्धं वारयति ४५ ३२६ २२४. कृकवाकव्यम्
४६८ ४०३ २२५. कृतप्रणामो जनः ४३२,५३८ २२६. केशाकेशि
३२६ २२७. कौञ्जायन्यः ४२९ ४०१ २२८. कौद्दालिकः
४५८ ५४४ २२९. कौसुम्भम् ४५८ २३०. क्व
५१२ ४०१ २३१. खट्वारूढो जाल्मः १२६ २३२. खारी ४०१ २३३. गङ्गाशोणम् ३७५ ४८७ २३४. गच्छतां धावन्तः शीघ्राः १८८ ५२६ २३५. गच्छत्सु धावन्तः शीघ्राः १८८ ५२६ २३६. गर्गाः
२६ ४८७ २३७. गवां कृष्णा सम्पन्नक्षीरा १८८ १२६ २३८. गवां दायाद:
१८५ ५१३ २३९. गवां प्रतिभूः २७ २४०. गवां प्रसूतः
१८५ ४०३ २४१. गवां साक्षी
१८५ ३२६ २४२. गवां स्वामी
१८५ ३२७ २४३. गवामधिपतिः १२६ २४४. गवामीश्वरः १८५ ३२६ २४५. गव्यम् ४६८,५३९ ३७५ २४६. गां दोग्धि पयः
१८५
१८५
११४
Page #711
--------------------------------------------------------------------------
________________
६६१
परिशिष्टम् -४ २४७. गाङ्गेयः
५३४ २७३. गौपुच्छिकः ४५७ २४८. गार्ग्य: ४२५,५३४ २७४. ग्रामं ग्रामाय वा गच्छति १५४ २४९. गिरिकाणः
३२६ २७५. ग्रामं ग्रामाय वा व्रजति १५५ २५०. गीर्षु २२४ २७६. ग्रामगतः
३२६ २५१. गुडधानाः ३२६ २७७. ग्रामगमी
३२६ २५२. गुडमिश्रः ३२६ २७८. ग्रामतः
५०७ २५३. गुप्ताभार्यः ३८८ २७९. ग्रामनिर्गतः
३२६ २५४. गुरवे गां ददाति १३४ २८०. ग्रामागमी
३२६ २५५. गोगतः
२७९ २८१. ग्रामाय दत्वा तीर्थं गतः ११४ २५६. गोतमाः २७ २८२. घण्टिकः .
४५७ २५७. गोता ४७५ २८३. घनघात्यम्
३२६ २५८. गोत्रेण गार्ग्यः ७१ २८४. घृतम्
१२६ २५९. गोत्वम्
४७५ २८५. च २६०. गोमान्
४८७ २८६. चक्रमुक्तः २६१. गोरक्षितः ३२६ २८७. चटका
२३५ २६२. गोषु कृष्णा सम्पन्नक्षीरा १८८ २८८. चतुर्थः
४९३ २६३. गोषु दायादः १८५ २८९. चतुष्पथम्
३७९ २६४. गोषु दुह्यमानास्वागतः १८४ २९०. चत्वारिंशः ५३१,५३२ २६५. गोषु प्रतिभूः १८५ २९१. चन्दनगन्धः
३२६ २६६. गोषु प्रसूतः १८५ २९२. चन्द्रत्वम् २६७. गोषु साक्षी १८५ २९३. चाक्रिकः
४५८ २६८. गोषु स्वामी १८५ २९४. चातुरं शकटम् ४४७ २६९. गोष्वधिपतिः १८५ २९५. चातुर्दशं रक्षः ४४७ २७०. गोष्वीश्वरः १८५ २९६. चारकबन्धः २७१. गोसुखम् ३२६ २९७. चारायणः
४२९ २७२. गोहितम्
३२६ २९८. चाक्षुषम्
१७
३२६
४७६
३२६
४४७
Page #712
--------------------------------------------------------------------------
________________
६७०
कातन्वव्याकरणम्
५१६ ३२६
३२६
११४
३७५
४५८ ३७५
६६
२३१ ३२६
५३४
४६२
२९९. चित्रगुर्देवदत्तः ३४३ ३२५. तदानीम् । ३००. चैत्रेण कृतम् १८० ३२६. तरङ्गात्यस्तः ३०१. चौरस्य निहन्ति २०१ ३२७. तरङ्गापत्रस्तः ३०२. चौरस्य पिनष्टि २०१ ३२८. तरुं त्यजति खगः ३०३. चौरस्य प्रणिहन्ति २०१ ३२९. तक्षायस्कारम् ३०४. चौरस्य रुजति २०१ ३३०. ताम्बूलिकः ३०५. चौरस्य संतापयति २०१ ३३१. तिलमाषम् ३०६. चौरस्योज्जासयति २०१ ३३२. तिलेषु तैलम् ३०७. चौरस्योत्क्लाथयति २०१ ३३३. तिसृणाम् ३०८. चौरस्योन्नाटयति २०१ ३३४. तीर्थकाकः ३०९. चौराद् उद्विजते ४० ३३५. तीर्थध्वाङ्क्षः ३१०. छात्रेण हन्यते १०६ ३३६. तुल्यः ३११. छान्दसः
४४७ ३३७. तुल्यम् ३१२. छायाशुष्कः
३२६ ३३८. तृतीयः ३१३. जटाभिस्तापसमद्राक्षीत् १७८ ३३९. तेजस्वी ३१४. जडता
४७८ ३४०. तैषमहः ३१५. जडत्वम्
४७८ ३४१. त्यजति दण्डं दण्डी ३१६. जडवत्
४७२ ३४२. त्रिंशत्तमः ३१७. जलजम् ५३१,५३२ ३४३. त्रिदशाः ३१८. जाड्यम्
४७८ ३४४. दण्डादण्डि ३१९. जामदग्न्यः
४२५ ३४५. दण्डित्वम् ३२०. ततः
५०७ ३४६. दण्डिनी ३२१. तत्पाणिनि
३६५ ३४७. दण्डी ३२२. तत्र
५०९ ३४८. दत्तभार्या ३२३. तथा
५२२ ३४९. दत्तभोजनोऽतिथिः ३२४. तदा
५१४,५१६ ३५०. दत्ताभार्यः
४९१
४८८
४४७
११४
४९५
३४३ ३४३ ४७६
२४८
४८८
३९०
३४३
३८७
Page #713
--------------------------------------------------------------------------
________________
३५१ . दधिघृतम् ३५२. दर्पेण
३५३. दक्षिणपूर्वा
३५४. दक्षिणेन ग्रामम् ३५५. दात्राकर्णः
३५६. दात्रेण धान्यं लुनाति
३५७. दाधिकम्
३५८. दार्षदाः सक्तवः
३५९. दास्या आमयति
३६०. दाक्षिः
३६१. दाक्षी
३६२. दिग्गतः
३६३. दिवि देवाः
३६४. दिक्षु
३६५. दीर्घजङ्घः
३६६. दीर्घम्
३६७. दुःखापन्नः
३६८. दुःषमम्
३६९. दुर्गवधिकम्
३७०. देवदतत्यम्
परिशिष्टम् - ४
३५८
३७५ ३७७. देवदैत्यौ २३१ ३७८. देववद् भवन्तं पश्यामि ४७२
३५१ ३७९. दौवारिकः
४५८,५५१
१४५ ३८०. द्रोण:
१२६
४०८ ३८१. द्रौणेयः
५३४
७१ ३८२. द्विगुणाकर्णः
४०८
४५७ ३८३. द्वितीयः
४९०
४४७ ३८४. द्वित्रा:
३४३
२०१ ३८५. द्विद्रोणेन धान्यं क्रीणाति
७१
४०८
४५८
१२७
४०८
२२५
१७२
४१
३५४
३५७, ३७५
३२६
४०
१२८
२२४
३२६
१५७
१५७
१५८
४३५,५३४ ३८६. द्विविधाकर्णः
२४७ ३८७. द्विशौर्पिक:
२८५ ३८८. द्वौ
६६ ३८९. द्व्यङ्गुलाकर्णः
२२४
३९०. धनूंषि
३८५
३९१ . धनेन कुलम्
१२६ ३९२. धर्मात् प्रमाद्यति
३२६ ३९३. धवखदिरपलाशाः
३६८ ३९४. धवाश्वकर्णम्
३६४ ३९५. धान्यार्थः
४७६ ३९६. धावतोऽश्वात् पतति
४७२ ३९७. धिक् पुत्रौ
१३५ ३९८. धूर्षु
५७
२०९
१८०
३२६
३७१. देवदत्तवत् स्थूलः
३७२. देवदत्तस्य स्वामी
३७३. देवदत्तायं रोचते मोदक :
३७४. देवदत्तेन कृत्तम्
३७५. देवदत्तेन हन्यते
३७६. देवदेयं पुष्पम्
३९९. नखनिर्भिन्नः
४००. न त्वा तृणं मन्ये
४०१ . न त्वा तृणाय मन्ये
४०२. न त्वा बुषं मन्ये
६७१
Page #714
--------------------------------------------------------------------------
________________
६७२
कातन्त्रव्याकरणम्
o
०
m
०
m
३८८
२१
२४७ १६५
४८७
४८८
१३४
४०३. न त्वा बुषाय मन्ये १५८ ४२९. पञ्चमः ४०४. नदी २४७, २५० ४३०. पञ्चमभार्या ४०५. नदीघोषः
३२६ ४३१. पञ्चमीभार्यः ३८८ ४०६. नन्दिता
२१६ ४३२. पञ्चमीमानिनी ४०७. नमस्कर्तुम् ४१३ ४३३. पञ्चमीयते
३८८ ४०८. नमो देवेभ्यः १६१ ४३४. पञ्चालाः ४०९. नरकपतितः ३२६ ४३५. पञ्चाशः ५३१,५३२ ४१०. नवतितमः
४९९ ४३६. पट्वी ४११. नाडायनः
४२९ ४३७. पत्ये शेते ४१२. नानात्वम्
४७६ ४३८. पदकक्रमकम् ३७५ ४१३. नाव्यम् ___४६१, ५३९ ४३९. पयस्वान् ४१४. निःषमम्
३६८ ४४०. पयस्वी ४१५. निर्मक्षिकम् ३६४ ४४१. परशुना छिनत्ति ४१६. नीचैः १२६ ४४२. परारि
५१९ ४१७. नीरुक्
४०८ ४४३. परि त्रिगर्तेभ्यो वृष्टो देवः १३८ ४१८. नीलोत्पलम् २७४, ३१९ ४४४. परीतत्
४०८ ४१९. पक्तये व्रजति १६७ ४४५. परुत्
५१९ ४२०. पचतितमाम् ५२६ ४४६. परेद्यवि ४२१. पचतितराम् ५२६ ४४७. पर्यध्ययनः ४२२. पचन्ती
२४७ ४४८. पर्वणा ४२३. पञ्चकपाल ओदनः ३२३ ४४९. पर्वतमनु वसिता सेना १५२ ४२४. पञ्चकाः शकुनयः ३४३ ४५०. पर्वतवत् ४२५. पञ्चकेन पशून् क्रीणाति ७१ ४५१. पलम् ४२६. पञ्चगवधनः
३२४ ४५२. पलाशशातनम् ३२६ ४२७. पञ्चगवम्
३७९ ४५३. पशुना रुद्रं यजते ४२८. पञ्चपूली
३२४ ४५४. पाकाय व्रजति १६७
५५९
३२७
२३१
४७२
१२६
७१
Page #715
--------------------------------------------------------------------------
________________
५१९
१७५
४४७
परिशिष्टम् -३
६७३ ४७६ ४८१. पुरुषाणां क्षत्रियाः शूराः १८८ ३९० ४८२. पुरुषेण
२३१ ३८८ ४८३. पूर्वरात्रकृतम् ३२६
४१ ४८४. पूर्वाह्नकृतम् ३२६ ४५८ ४८५. पूर्वाह्नगेयं साम ३२६ ३७५ ४८६. पूर्वाह्नतमाम् ५२६ ४२१ ४८७. पूर्वाह्नेतराम् ५२६ १७५ ४८८. पूर्वेयुः ४२५ ४८९. पूर्वो ग्रामात् १४१ ११० ४९०. पूर्वो ग्रीष्माद् वसन्तः १४१ १९५ ४९१. पृष्ठेन कुब्जः ३२६ ४९२. पौषम् ३२६ ४९३. प्रकृत्याभिरूपः २७९ ४९४. प्रत्यग्रथाः ३५४ ४९५. प्रत्यर्थम्
३६५ २१४ ४९६. प्रत्यष्ठात् कठकालापम् ३७५ २७४ ४९७. प्रष्ठौही
२४७ १६९ ४९८. प्राची १६९ ४९९. प्रातः
१७ १६९ ५००. प्राप्तजीविकः १६९ ५०१. प्रायेण याज्ञिकः १६९ ५०२. प्रावृट् १६९ ५०३. प्रासादात् प्रेक्षते १६९ ५०४. प्रौष्ठः ४१३ ५०५. प्लविकः
४५७ २०६ ५०६. प्लवी
४५५. पाचकत्वम् ४५६. पाचकभार्या ४५७. पाचिकाभार्यः ४५८. पाटलिपुत्रात् ४५९. पाणविकः ४६०. पाणिपादम् ४६१. पाण्डवः ४६२. पादेन खञ्जः ४६३. पाराशर्यः ४६४. पावयति ४६५. पितुरध्येति ४६६. पितृसदृशः ४६७. पितृसमः ४६८. पितृसाधुः ४६९. पीठच्छत्रोपानहम् ४७०. पुंसः ४७१. पुत्रीयति ४७२. पुत्रेण समम् ४७३. पुत्रेण सह गोमान् ४७४. पुत्रेण सह स्थूलः ४७५. पुत्रेण सहागतः ४७६. पुत्रेण साकम् ४७७. पुत्रेण सार्धम् ४७८. पुत्रेणागतः ४७९. पुरस्कर्तुम् ४८०. पुरा भेत्ता
७१
२४७
३२७
७१
४०८
४१
४२१
२४७
Page #716
--------------------------------------------------------------------------
________________
६७४
कातन्त्रव्याकरणम्
२०६
२४७
२४७
४८७
२७
२१८
२४७
५०७. प्लक्षन्यग्रोधम् ३५७,३७५ ५३३. भरणिमित्रः ४०५ ५०८. प्लाक्षिः ४३५, ५३४ ५३४. भवत आसिका ५०९. फलरस:
३२६ ५३५. भवतः शायिका २०६ ५१०. बदरामलकम् ३७५ ५३६. भवती ५११. बहवः
१२७. ५३७. भषी ५१२. बहुतः
५०७ ५३८. भास्वान् ५१३. बहुमातङ्गं वनम् ३४३ ५३९. भिन्नो देवदत्तात् १४१ ५१४. बहूदका नदी ३४३ ५४०. भिक्षाद्वितीयः ३२६ ५१५. बाभ्रव्यः
५३७ ५४१. भृगवः ५१६. बाष्पच्छेद्यानि तृणानि । ३२६ ५४२. भृज्जति ५१७. बाहविः ४३७ ५४३. भैक्षम्
४४७ ५१८. बिदाः २६ ५४४. मगधाः
२१ ५१९. बुषोपेन्ध्यम् ३२६ ५४५. मघवती ५२०. बृंहणम् २३२ ५४६. मज्जति
२१८ ५२१. बैन्दविः
४३७ ५४७. मञ्चपतितः ३२६ ५२२. ब्राह्मणता
४७८ ५४८. मथुरापाटलिपुत्रम् ५२३. ब्राह्मणत्वम् ४७८ ५४९. मथुरावत्
४७२ ५२४. ब्राह्मणदेयं धनम् ३२६ ५५०. मद्रिकाभार्यः
३८८ ५२५. ब्राह्मणवत्
४७१ ५५१. मनसा मेरुं गच्छति ५३६. ब्राह्मणाय गां ददाति __५७ ५५२. मर्मावित् ५२७. ब्राह्मण्यम् ४७८ ५५३. महाकरः
३९३ ५२८. ब्राह्मणार्थं पयः ३२६ ५५४. महाघासः
३९३ ५२९. ब्राह्मणार्थः पूपः ३२६ ५५५. महादेवः
३९३ ५३०. ब्राह्मणार्था प्रपा ३२६ ५५६. महावक्त्रः ५३१. ब्राध्नायन्यः ४२९ ५५७. महाविशिष्टः ५३२. ब्रामायन्यौ ४२९ ५५८. मही २४७, २५०
ه
ه
३७५
ه
ه
७१
४०८
३९३
३९३
Page #717
--------------------------------------------------------------------------
________________
६७५
२१८
१३५
५०७
५२२
५१४
२५३
. परिशिष्टम् -४ ५५९. माणव्यम्
४७८ ५८४. यज्ञः ५६०. मातुः स्मरति १९५ ५८५. यज्ञदत्तस्य स्वम् ५६१. मातृकेण
२३१ ५८६. यज्ञदत्ताय स्वदते मोदकः ५७ ५६२. मातृस्मरणम् ३२६ ५८७. यतः ५६३. माद्रबाहेयः ५३८ ५८८. यत्र
५०९ ५६४. मायायी
४८८ ५८९. यथा ५६५. मायी ४८८ ५९०. यथाशक्ति
३६५ ५६६. मारीचिकम् ४५७ ५९१. यदत्र मां परि स्यात् १५२ ५६७. मार्गम्
४४७ ५९२. यदत्र मां प्रति स्यात् । १५२ ५६८. मार्दङ्गिकः ४५८ ५९३. यदा ५६९. मार्दङ्गिकपाणविकम् ३७५ ५९४. यवलु ५७०. मालभारिणी कन्या ४०५ ५९५. यवेभ्यो गां निषेधति ५७१. मालावान्
४८७ ५९६. यवेभ्यो गां रक्षति ५७२. मासदेयमृणम् ३२६ ५९७. यस्काः
२६ ५७३. मासपूर्वः ३२६ ५९८. याच्या
२१८ ५७४. मासप्रमितश्चन्द्रमाः ३२६ ५९९. युऔ २१४, २१६ ५७५. मासविकलः ३२६ ६००. युद्धाय संनह्यते १६५ ५७६. मासोनः ३२६ ६०१. यूकालिख्यम् ३७५ ५७७. मूत्राय संकल्पते यवागूः १६५ ६०२. यूपदारु
३२६ ५७८. मूत्राय संपद्यते यवागूः १६५ ६०३. यूपाय दारु
१६४ ५७९. मूर्खेण
२३१ ६०४. यौवतम् । ५८०. मूषिका २३५ ६०५. यौवतेयः
४३२ ५८१. मुहूर्तसुखम् ३२६ ६०६. रन्धनाय स्थाली ५८२. मृदुना धनुषा
६०७. राजता
२७२ शरान् क्षिपति ११४ ६०८. राजदन्तः
३२७ ५८३. मौञ्जायनः
४२९ ६०९. राजपुरुषः २७४,३२६
४४७
१६५
Page #718
--------------------------------------------------------------------------
________________
कातनयाकरणम्
३५४
५४४
३५८
५३३
१२६
६१०. राजपुरुषत्वम् ६११. राजपूजितः ६१२. राजवत् ६१३. राजहतः ६१४. राज्ञः ६१५. रात्र्यारूढाः ६१६. रावणस्येव रोक्ष्यन्ति ६१७. रुजन्ति चेतः ६१८. रुरुषतम् ६१९. रेफेण ६२०. रेवतिमित्रः ६२१. रोहिणिमित्रः ६२२. लज्जते ६२३. लज्जाः ६२४. लक्ष्मीवान् ६२५. वङ्गाः ६२६. वण्टिता ६२७. वत्साः ६२८. वत्सीयः ६२९. वधव्यः ६३०. वनान्तर्वसतिः ६३१. वरप्रदेया कन्या ६३२. वर्तमानसामीप्यम् ६३३. वशिष्ठाः ६३४. वषडिन्द्राय ६३५. वा
४७६ ६३६. वाक्श्लक्ष्णः
३२६ ३२६ ६३७. वाग्दृषदम् ४७१ ६३८. वानिपुणः
३२६ ३२६ ६३९. वाडव्यम्
४७८ २१८ ६४०. वाताय कपिला विद्युत् १६५ ३२६ ६४१. वात्स्यः
४२५ १९९ ६४२. वायसम्
४४७ २०० ६४३. वायुषु
२२४ ३७५ ६४४. वाशिष्ठः २३१ ६४५. वासुदेवार्जुनौ ४०५ ६४६. विंशः ४०५ ६४७. विंशतितमः ४९५ २१८ ६४८. वितस्तिः २६ ६४९. विदुषी
२४७ ४८७ ६५०. विदेहाः
२१ २१ ६५१. विद्युत्वान् २१६ ६५२. विद्वद्गमनम् २८५ २६ ६५३. विषमम्
३६७ ४६४ ६५४. विषमेण धावति ४६८ ६५५. विषाणित्वम् ३२६ ६५६. विष्णुमित्रस्य संबन्धः १३५ ३२६ ६५७. विष्णुमित्राय गां धारयते ५७ ३२६ ६५८. विष्यः
४६१ २७ ६५९. वृकभयम्
३२६ १६१ ६६०. वृकभीः
३२६ १७ ६६१. वृकभीतः
४८७
७१
४७६
३२६
Page #719
--------------------------------------------------------------------------
________________
६६२. वृकभीतिः
६६३. वृकाद् भयम् ६६४. वृक्षं वृक्षमभितिष्ठति
६६५. वृक्षः
६६६. वृक्षमनु विद्योतते विद्युत् ६६७. वृक्षमभि विद्योतते विद्युत्
६६८. वृक्षवान्
६६९. वृक्षात् पर्णं पतति
६७०. वैनतेयः
परिशिष्टम् - ४
३२६ ६८८. शृङ्गच्छरो जायते
१३४ ६८९. शैवः
१५२ ६९०. शोभनभार्यः
१२६ ६९१. शौकरम्
१५२
६९२. शौचेयः
१५१
६९३. शौभ्रेयः
६९४ . शौल्कशालिकः
६९५ . श्राद्धाय निगल्हते
४८७
४०
६८६. शुक्लत्वम् ६८७. शुक्लता
४३२
६९६. श्रावणः
५५१ ६९७. षडाकृतिः
६७१. वैयसनः
६७२. वैयाकरणः
६७३. वैयुदयः
६७४. वैष्णपुरेयः
६७५. व्याघ्राद् बिभेति
६७६. शङ्किता
६७७. शतेन परिक्रीतः
६७८ . शरदि पुष्यन्ति सप्तच्छदाः १८४
६७९. शाकटिक :
४४७, ५५१
६९८. षण्णाम्
५५१ ६९९. षष्टितमः
४३३ ७००. षष्ठः
४० ७०१. सकण्टकः
२१६ ७०२. सकिखि
७१ ७०३. सखिप्राप्तः
७०४. सखिप्रियः
६७७
४५७ ७०५. सखी
६८०. शान्तिः
२१४ ७०६. सतृणम्
६८१. शार्ङ्गवेरिकः
४५७ ७०७. सद्य:
६८२. शालिभ्यः शुकान् वारयति ४५ ७०८. सपक्षकः ६८३. शालीयः ४६४ ७०९. सपुत्रकः ६८४. शिखया परिव्राजकमपश्यत् १७८ ७१०. सप्ततितमः ६८५. शीर्णम् २३१ ७११. समंपदाति
४७५ ७१२. समंभूमि
४७५ ७१३. समर्थो मल्लो मल्लाय
४१
४२१,४४७,५४३
३८५
४४७
४३२
४३३
४५८
१६५
४४७
२८५
२११,२१८
४९७, ४९९
४९३
३४३
३६५
२७९
२७९
२४८
३६५
५१९
३४३
३४३
४९७, ४९९
३६७
३६७
१६१
Page #720
--------------------------------------------------------------------------
________________
६७८
कातन्वयाकरणम्
२१
३२६
१७
१६१
७१४. समेन धावति ७१ ७३६. सूरमसाः ७१५. सलोमकः ३४३ ७३७. सूर्यत्वम्
४७६ ७१६. सरसिजम् ५३१, ५३२ ७३८. सेनानि
२५३ ७१७. सपीषि २२५ ७३९. सोमपम्
२५३ ७१८. सर्वतः
५०७ ७४०. सौपर्णेयः ४३२ ७१९. सर्वत्र ५०९ ७४१. सौवश्विः
५५१ ७२०. सर्वथा
५२२ ७४२. स्तनस्पर्शः ७२१. सर्वदा
५१४ ७४३. स्वः ७२२. सर्वरात्रकल्याणी ३२६ ७४४. स्वधा पितृभ्यः १६१ ७२३. सर्वेषाम्
२२४ ७४५. स्वस्ति प्रजाभ्यः ७२४. साग्न्यधीते
३६५ ७४६. स्वाम्पि २१५, २१६ ७२५. साधुर्देवदत्तो मातरमभि १५२ ७४७. स्वाहा अग्नये ७२६. साहसिकश्चौरः ४५८ ७४८. हंसचक्रवाकम् ७२७. साहसिकः
४५८ ७४९. हरणम् ७२८. सुखदुःखम्
३७५ ७५०. हस्तः ७२९. सुखप्राप्तः ३२६ ७५१. हस्त्यश्वम्
३७५ ७३०. सुखापेतः
३२६ ७५२. हा पुत्र ! ७३१. सुक्षु २२५ ७५३. हारयति
११० ७३२. सुपीःषु २२५ ७५४. हारिद्रम्
४४७ ७३३. सुमद्रम्
३६४ ७५५. हिमवतो गङ्गा प्रभवति ७३४. सुरेश्वरः ३२६ ७५६. हे पुत्र !
१२८ ७३५. सुषमम्
३६७ ७५७. है पुत्राः!
१६१
३७५
२३१
१२६
१२८
४१
१२८
Page #721
--------------------------------------------------------------------------
________________
२०२
४७९
२७२
॥श्रीः॥ परिशिष्टम् -५
उद्धृतश्लोकसूची क्रमसं० श्लोकः १. अकर्मकत्वे सत्येव क्तान्तं भावाभिधायिवत् ।
अतः क्रियावता क; योगो भवति कर्मणाम् ॥ अकर्मकेभ्यो धातुभ्यो भावे कर्मणि यङ् स्मृतः॥ अतीसारक्यपीदृक् स्यात् पिशाचकी तथा स्मृतः। कश्मलसोन्मत्तत्वे पिशाचशब्दोऽभिधीयते ॥ अतो नीलोत्पले लोपः संश्रितो यो मुरागमः। निवृत्तिः सुतरां तस्य ततो लिङ्गं स्वरूपभाक् ॥ अतो लोप्यपदस्यात्र पूर्वपाठोऽपि युज्यते। वयमेव यतः कार्यम् आचार्येण प्रदर्शितम् ॥ अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः। रहस्तदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ अदन्ताच्च स्त्रियां नैव प्राच्यभर्गादिवर्जिताः। शूरसेनी यथा मद्री राज्ञी भार्गी भवेदिति ॥ अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत् तत् तथायुतम् ॥ अधिपरी गतार्थों च सुः पूजायां यदा भवेत् । अतिरतिक्रमे चार्थे नोपसर्गा इमे तदा । अधिस्त्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् । अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्तेनाप्तं ददातेस्तु सम्प्रदानं प्रकीर्तितम् ॥
२७२
११२
१९
२४०
१३
२६५
४६,४९,५०
Page #722
--------------------------------------------------------------------------
________________
६८०
१२
१३
१४.
अनन्तश्च
१५.
१६.
१७.
१८.
कातन्त्रव्याकरणम् अनेकधर्मवचनैः शब्दैः संघाभिधायिभिः। एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः॥ २९५ अपहृवानस्य जनाय यन्निजामधीरतामस्य कृतां मनोभुवा । अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाकोमला ॥ ५५ अपात्रादिरदन्तोऽयं स्त्यादन्तो वा द्विगुस्तथा।
समाहारो नदादिषु निगयते॥ ३७६ अपादानं यतोऽपैति आदत्ते च भयं तथा। अपादाने पञ्चमी
स्यात् ॥ ४० अपादान - सम्प्रदान - करणाधार - कर्मणाम् कर्तुश्चान्योऽन्यसंदेहे
परमेकं प्रवर्तते ॥ ११३ अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्
तदपादानमिष्यते॥ अप्राप्तिनियमार्थ च दामिनी सोमिनी यथा। इन्विषये इको वाच्यः प्रागुक्तनियमार्थतः॥ ४८० अबुधं प्रत्युपायाश्च विचित्राः प्रतिपत्तये । शब्दान्तरत्वादत्यन्तं भेदो वाक्यसमासयोः॥२५४,२६३ अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् । आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥ २५६ अभिज्ञातिपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु वक्तव्यः शब्देषु न तदुक्तिषु ॥
४२२ अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते । संसर्गरूपसंख्यानामविभक्तं
तदुच्यते॥ २५५ अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ॥ ७५ अरूढाच्च प्रवक्ष्यामि वतण्डी स्त्रीति पूर्ववत् । आङ्गिरस्यां स्त्रियां ण्यस्य वातण्ड्यायाश्च किं लुका ॥
१९ अर्थान्तरैरसंश्लिष्टो लिङ्गस्यार्थो भवेद् यदि । प्रथमा स्यात् तदा तत्र तावन्मात्रविवक्षया ॥ १२३
१९.
२
२५
Page #723
--------------------------------------------------------------------------
________________
६८१
३९१
२०५
१०३
Willinkillar
परिशिष्टम् -५ अवस्थामजहत् पूर्वा संस्पृशन् धर्ममुत्तरम् । संमूर्छित इवार्थात्मा जायमानोऽभिधीयते ॥ अवाप्तवियं विधिवद् गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् । श्रीः साभिलाषापि रघोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ अविनाशो गुरुत्वस्य प्रतिबन्ये स्वतन्त्रता। दिगविशेषादवच्छेद इत्याया भेदहेतवः॥ अश्मानं दृशदं मन्ये मन्ये काष्ठमुदूखलम् । अन्यायास्तं सुतं मन्ये यस्य माता न पश्यति॥ १५६,१५७ अहं च भाष्यकारश्च कुशाग्रेकषियावुभो। नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः॥ १५ आत्मजन्या भवेदिच्छा इच्छाजन्या कृतिर्भवेत् । कृतिजन्या भवेच्चेष्टा क्रिया सैव निगयते ॥ आधारस्त्रिविषो ज्ञेयः कटाकाशतिलादिषु॥ आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः। विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः॥ इणो बहुस्वरात् प्राच्या बहुत्वत्वस्त्रियां तथा। पन्नगारा इति ज्ञेयमप्राच्याहास्तिदासयः॥ इदन्तकोशलाजादात् स्त्रियामापत्यमात्रता। पाण्डोश्च ण्योऽप्युलोपेऽस्मिन् संज्ञाशब्दा हि तद्धिताः॥ इयन्त इति संख्यानं निपातानां न वियते । प्रयोजनवशादेते निपात्यन्ते पदे पदे॥ ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम् ॥ उदुम्बरास्तिलखला मद्रका वा युगन्धरा । भूलिङ्गाः शरदण्डाश्च शाल्लावयवसंज्ञिताः॥ उपमानोत्तरपदः पुरुषव्याघ्र इत्यपि। संभावनापूर्वपदो
गुणवृद्धिरितीदृशम् ॥ उपश्लेषस्य
चाभेदस्तिलाकाशकटादिषु। उपकारास्तु भियन्ते संयोगसमवायिनाम् ॥
७४
१८
१४,१७
४७
३१९
Page #724
--------------------------------------------------------------------------
________________
ક્TM
४०
४२
४३.
४४.
४५.
४६.
४७.
४८.
४९.
५०.
५१.
५२.
५३.
५४.
कातन्त्रव्याकरणम्
उपायमात्रं
नानात्वं समूहस्त्वेक एव सः । संबोधनोपायाः
भिन्नाः
पुरुषेष्वनवस्थिताः॥
उल्मुकानीव मे स्वा हि ज्ञातयो भरतर्षभ ! ।
ऊस्यद्भिश्च ऋत्विगग्निहोत्रं
गुणकालसमाविष्टं
द्वयमेव
एकदा तूभयप्राप्तौ कर्मण्येव
स्यादिस्वरूपस्य विधिना
अकाकारप्रयोगे तु षष्ठी
एवं विभक्तिसत्त्वेऽत्र लोपस्यैव
तदभावे विभक्तिश्च
तल्लोपश्च
एवं
मासमिति श्रुतौ ।
विधीयते !
कर्तरि ।
स्यादुभयोरपि ॥
विधेयता ।
न
ऐकार्थ्यं
शब्दानां
ओषध्यः फलपाकान्ता वृक्षाः
औदासीन्येन यत् प्राप्तं यच्च
पुनरागमः ।
उपजातोऽस्य
निवर्तते ॥
एवमन्येऽनुसर्तव्याः संज्ञाशब्दा
तद्धिताः ।
न व्युत्पाद्या लोकसिद्धाः कस्तान् कार्त्स्न्येन वक्ष्यति ॥
पृथगर्थानां वृत्तिं युक्तार्थतां विदुः ।
शक्तिवैचित्र्यात् तत् समासादिषु
लोपश्च विकारश्च
हि
संज्ञान्तरैरनाख्यातं
औपश्लेषिको
आधारस्त्रिविधो
ज्ञेयः
कटे शेते कुमारोऽसौ वटे
तिलेषु विद्यते तैलं
युद्धे
विधीयते ॥
पुष्पफलान्विताः ॥
कर्तुरनीप्सितम् ।
यच्चान्यपूर्वकम् ॥
कर्म वैषयिकश्चाभिव्यापक एव च।
कटाकाशतिलादिषु ॥
गावः
सुशेरते ।
हृदि ब्रह्मामृतं
परम् ।
संनह्यते धीरोऽङ्गुल्यग्रे करिणां
शतम् ॥
कथं न्वमी सन्ततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥
कदाचित् कः प्रयोगोऽस्ति गोः शुक्लो गुण इत्ययम् । तेनैवमादिशब्देषु
समासोऽपि निषिध्यते ॥
२५५
३०५
३७२
२०४
२७२
२७२
स्मृतम् ॥ २७०,२७३
२२७
१९,२१
७२
६२
६४
२९६
३३६
Page #725
--------------------------------------------------------------------------
________________
५५.
४८०
५८,५९
११३
६१.
परिशिष्टम् -५ कपित्थकुमुदाभ्यां च मृणालात् कर्दमात् पयः। शालूककरीपेभ्यश्च हिरण्याद् रूढदेशके ॥ करणं खलु सर्वत्र कर्तृव्यापारगोचरः। तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम् ॥ कर्ता यश्च करोति सः॥ कर्तृकर्मव्यवहितामसाक्षाद् धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ कर्तृकर्माधिकरणं करणं सम्प्रदग्नकम् । अपादानं च सन्देहे परं पूर्वेण बाध्यते॥ कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया। अस्यासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया॥ काकेभ्यो रक्ष्यतामन्नमिति बालोऽपि चोदितः। उपघातस्य प्राधान्याच्छागेभ्यः किन्न रक्षति ॥ कारकाव्यवधानेन क्रियानिष्पत्तिकारणम् । यद् वै विवक्षितं तेषु करणं तत् प्रकीर्तितम् ॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहमभृत् ॥
हन्यते कार्यो॥ कालाध्वभावदेशानामन्तभूतक्रियान्तरैः । सर्वैरकर्मकोंगे कर्मत्वमुपजायते ॥ कालावभावा मन्तव्याः कर्मसंज्ञा झकर्मणाम् । देशश्चाकर्मणां योगे कर्मसंज्ञो भवेदिति ॥ कुन्त्यवन्तिकुरुपाण्डु अभेदाच्च स्त्रियां सदा। नापत्यप्रत्ययो दृष्टः कुन्त्यवन्ती कुरूरिति । कृञाकामिकंसकुम्भेषु समासेऽयमतः परः। अनुत्तरे कुहाको स्करादिषु लक्ष्यतः॥ कृत्तिकासु विशाखासु मघासु भरणीषु च॥
४४३
६२.
६३.
३०३
६४.
कायिणा
१७९
७५, ७९
६७.
६८.
४०९
६९.
४३८
Page #726
--------------------------------------------------------------------------
________________
૩૮૪
७०.
७१.
७२.
७३.
७४.
७५.
७६.
७७.
७८.
७९.
८०.
८१.
८२.
८३.
८४.
कातन्त्रव्याकरणम्
क्रमिकं
यन्नामयुगमेकार्थेऽन्यार्थबोधकम् ।
तादात्म्येन भवेदेष समासः कर्मधारयः ॥
गम्यते ।
क्रियाकृतविशेषाणां सिद्धिर्यत्र न दर्शनादनुमानाद् वा तत् प्राप्यमिति
कथ्यते ॥
क्रियाया द्योतका नेमे संबन्धस्य न
वाचकाः ।
नापि क्रियान्तरापेक्षाः संबन्धस्य तु
भेदकाः ॥
क्रियावच्छेदकं यस्य फलं कर्त्रा
विवक्षितम् ।
तदेव
कर्मधातुस्तु फलानुक्तावकर्मकः ॥ क्रियाश्रयो हि कर्ता वा कर्म चेति व्यवस्थितम् । तयोरन्यतरद्वारा क्रियाधारस्य संज्ञिता ॥
क्वचिज्जातिः क्वचिद् व्यक्तिः पाणिनेस्तूभयं मतम् ॥ गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदयः । समस्यते गतिस्तत्र आ गमिष्ठा इति निदर्शनम् ॥ गुण इति वृद्धिर्वाच्या सुहृदेव सुबन्धुकः । अवधारणपूर्वपदः
11
गृणद्भ्योऽनुगृणन्त्यन्ये कृतार्था नैव गौणमुख्यार्थवाचित्वाच्छब्दो वा स स तत्र नाश्रितो यस्मात् पुंवद्भावः प्रवर्तते ॥ ग्रामान्त उपशल्यं स्यात् सीमसीमे स्त्रियामुभे ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुअरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ टाभ्यांभितस्तृतीया स्यात् करणे कर्तरीरिता । स्वौजसः
ः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥ तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षडूविधः सोऽपि ॥ तत् प्राहुः सप्तविधं पदकारकसंयुतं प्रथितसाध्यम् । निर्देश: सम्प्रदानापादानप्रभृतिसंज्ञाभिः ॥
मद्विधाः ॥
तथोच्यते ।
३१८
७३, ७७
१४६
८१
६१
१२४
२६५
३१९
४८
३९१
१३४
१२९, १३५
१०६
३१८,३२४
३९
Page #727
--------------------------------------------------------------------------
________________
६८५
१६०
१४४
४७९
२७२
२९५
परिशिष्टम्-५ ततस्तेषां विवेकार्थ नमस्कृत्य मुनित्रयम् । दर्शितं वाभटेनेदं बालानां बुद्धिवर्धनम् ॥ तत्रागारं
धनपतिगृहादुत्तरेणास्मदीयम् ॥ तन्त्रान्तरप्रणीतानां सूत्राणां परमाग्रहात्। प्रत्याख्यानेन यत्नस्य द्वैगुण्यमुपजायते ॥ तथा मोपधमान्ताच्च धुडन्तादशिडन्ततः। अवर्णोपधतश्चापि
वन्तुरवर्णतस्तथा ॥ तथाहि लोहितोष्णीषा ऋत्विजः प्रचरन्त्विति । ऋत्विक्प्रचरणे सिद्धे रक्तोष्णीषविधिर्मतः॥ तपः श्रुतं च योनिश्च एतद् ब्राह्मणकारणम् । तपःश्रुताभ्यां यो हीनो जात्या ब्राह्मण एव सः॥ तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ तावेव सन्निपतितौ भेदेन प्रतिपादने । अवच्छेदमिवाधाय संशयं व्यपकर्षतः॥ तिडा विकरणाक्तस्य धातोरर्थस्तु यादृशः। स्वार्थे यादृशि बोध्यस्तत् कर्तृत्वं तदिहोच्यते ॥ तृप्री कृच्छ्री प्रतीची च सोन्यस्यास्तीत्युदाहृतम् । बाहुबल्यूरूबली च सवदिनित्यमिंस्तथा ॥ त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्धनम् । प्रसीद जीवेम सबान्यवा वयं प्रदीयतां दाशरथाय मैथिली ॥ त्रिलिङ्गत्वेऽपि वस्तूनां शब्दानामीदृशी गतिः। गृहन्ति यदमी लिङ्गमेकं वे त्रीणि वा न वा॥ त्वत्तो ब्रह्मविदां वर!- ..............॥ दरोऽस्त्रियां भये श्वभ्रे ..............॥ दुहियाचिरुधिप्रछिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना ॥
१०६
४७९
४३४
२३४
५०७
९६. ९७.
५४
९८.
७८
Page #728
--------------------------------------------------------------------------
________________
६८६
कातन्त्रव्याकरणम्
१४३
१०२. द्रव्यमस्वाम
२८८
१०४.
२८९
२८७
९९. दूरादावसयान्मूत्रं दूरात् पादावनेजनम् ।
दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः॥ १००. देवदत्तादिसादृश्यं यज्ञदत्तादि - संस्थितम् ।
बतिप्रत्ययवाच्यं स्याद् एकाधिकरणं हि तत् ॥ १०१. देवासुरैरमृतमम्बुनिधिर्ममन्ये - - - - - - ... ॥
द्रव्यमस्वामिविक्रीतं पूर्वस्वामी समाप्नुयात् ॥ १०३. द्रव्यात्मा गुणसंसर्गभेदादाश्रीयते पृथक् ।
जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते ॥ द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरवस्थयोर्मेदादाश्रयत्वेन युज्यते॥ १०५. द्रव्येऽविज्ञातजातीये नीलशब्दः प्रवर्तते ।
अविज्ञातगुणे चैवोत्पलशब्दः प्रवर्तते ॥ १०६. द्वन्द्वनिन्दितरोगेभ्यः प्राणिस्थेभ्य इनेव हि।
कटकवलयी कुष्ठी स्यात् काकतालुकी यथा ॥ १०७. द्वन्द्वादी वा विशेष्ये वा यल्लिङ्गं तद् विशेषणे।
प्रयोक्तव्यं पुनस्तत्र त्यदादिषु यदृच्छया॥ १०८. द्वन्दो द्विगुरपि चाहं गेहे मे नित्यमव्ययीभावः।
तसुरुष कर्मधारय येनाहं स्यां बहुव्रीहिः॥ १०९. द्विगुराभाषितो द्विधा - . . . . . . - ॥
द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च ॥ १११. द्वितीया कर्मणि प्रोक्ताऽन्तराऽन्तरेणसंयुते ॥ ११२. द्विष्ठो ययापे संबन्यः षष्ठ्युत्पत्तिस्तु भेदकात् ॥ ११३. द्वेष्टि प्रायो गुणिभ्योऽपि न च स्नियति कस्यचित् ॥ ११४. व्यादीनां च द्विपुत्रादौ संख्याभेदो निवर्तते ।
विभक्तिवाच्यस्वार्थत्वान्निमित्तं त्ववतिष्ठते ॥ ११५. धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।
व्यापारे च प्रधानत्वात् स्वतन्त्र इति चोच्यते ॥
४७९
३७८
२६४
३२४ ३१८, ३२४
११०.
९९
१२१
२६७
१०४
Page #729
--------------------------------------------------------------------------
________________
६८७
२०५
११८.
३५
३३५
२७२
१२१.
१६०
परिशिष्टम् -५ ११६. धातौ साधने दिशि पुरुषे चिति तदाख्यातम् ।
लिङ्गे किमि चिति विभक्तावेतन्नाम ॥ ११७. धायरामोदमुत्तमम् - . . . . . . . . . ... ।
बुद्धिपूर्व ध्रुवं मत्ता राजकृत्वा पिता खलम्॥ ध्रुवं न कारकं मन्ये नोपकारी भवेद् यतः।
अपायाधारभूतोऽसौ क्रियते न च कथ्यते ॥ ११९. न कदाचित् प्रयोगोऽस्ति चन्दनं गन्ध इत्ययम् ।
चन्दनस्यैव गन्यो हि स्वप्रधानं प्रतीयते॥ १२०. न चानेनापि सूत्रेण लोपे जाते मुरागमः।
चकारकरणात् तत्र लुकि तेनैव युज्यते ॥ नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च।
रावणाय नमस्कुर्याः स्यात् सीते स्वस्ति ते ध्रुवम् ॥ १२२. न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीष्यते ॥ १२३. नामाख्यातनिपातैरुपसर्गसमासतद्धितैर्युक्तः ।
सन्धिविभक्तिषु युक्तो विज्ञेयो वाचकाभिनयः॥ नारायणं नमस्कृत्य . . . . . . . . . . . . -॥ निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः।
योतकत्वात् क्रियायोगे लोकादवगता इमे॥ १२६. निमित्तैरभिसंबन्धाद् या निमित्तस्वरूपता।
तयैकस्यापि नानात्वं रूपभेदात् प्रकल्प्यते ॥ १२७. निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः॥
निर्वयं च विकार्य च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम् ॥ १२९. नीलं घटं पिधेहीति लोकेऽपि द्वयमीक्ष्यते ।
क्वचिन्नीलगुणस्यैव विशिष्टस्य विधिः क्वचित् ॥ १३०. नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च।
द्विकर्मकेषु ग्रहणं ण्यन्ते कर्तुश्च कर्मणः॥
५०५
२६५ ४५६
१२४.
१२५.
१३, १४
१२८.
२७२
७८
Page #730
--------------------------------------------------------------------------
________________
६८८
१३१.
१३२.
१३३.
१३४.
१३५.
१३६.
१३७.
१३८ .
१३९.
१४०.
१४१.
१४२ .
१४३.
१४४.
१४५.
१४६.
१४७.
कातन्त्रव्याकरणम्
पचतो धनमित्येवं तिङोऽपि स्याद् धनान्वयः । क्रियायास्तु विशेष्यत्वे सर्वमेतददूषणम् ॥ पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः ॥ पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः पण्डितैको विशिष्यते ॥ पतिरेको गुरुः स्त्रीणां वर्णानां ब्राह्मणो गुरुः ॥ पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता मता ।
बाताय कपिला विद्युद् आतपाय च रोहिणी ॥
शेषः ॥
समासमिङ्गयेत् ॥
पुंनपुंसकयोः
पुनर्बुवंस्तत्र पूर्वमध्यान्तसर्वान्यपदप्राधान्यतः
पुनः ।
प्राच्यैः पञ्चविधः प्रोक्तः समासो वाभटादिभिः ॥ पौत्रदौहित्रयोर्लोकि विशेषो नास्ति कश्चन ॥ प्रकृतेर्विकृतेर्वाऽपि यत्रोक्तत्वं द्वयोरपि । गृह्णाति बाचकः संख्यां प्रकृतेर्विकृतेर्नहि ॥ प्रकृत्युच्छेदसंभूतं किञ्चित् काष्ठादि भस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ प्रत्यग्रथादिणु शाल्लांशात् कलकूटाश्वकादपि । काम्बोजादेः सदा भेदात् प्रयोगो नैव दृश्यते ॥ प्रत्याख्यातुमिहाख्यातमिति तन्त्रान्तरोदितम् । स्वीकर्तुमथवाऽस्माकं पक्षपातो न विद्यते ॥ प्रदीयतां दाशरथाय मैथिली
॥
प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः ।
उप आङिति विंशतिरेव सखे उपसर्गविधिः कथितः कविना !!
क्विबादयः ॥
प्रयोजके गुणे योग्ये धातुभ्यः स्युः प्राक् समासात् पदार्थानां निवृत्तिर्योत्यते नत्रा । स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ।
३६
३२४
३०८
४१५, ४१७
१६४
१३१
२६४
३३
२१
८६
७३, ७७
१८
३९
५३, ४३३
११,१४
१०९
२९५
Page #731
--------------------------------------------------------------------------
________________
Milli.
४८८,४८९
१०७, १०९
४८०
२६३ २०५
परिशिष्टम् -५ १४८. प्रादेरनर्थकस्यापि कृदन्तैरपदैः सह।
अपेहुलवाचित्वात् समासो न विरुष्यते ॥ १४९. प्राधान्येनाश्रिता पूर्व श्रुतेः सामान्यवृत्तयः।
विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रियादयः॥ १५०. प्राप्ते बादशमे वर्षे यः कन्यां न प्रयच्छति ॥ १५१. प्रेषणाध्येषणे कुर्वस्तत्समर्थानि वाचरन् ।
कतैव विहितः शास्त्रे हेतुसंज्ञां प्रपयते। १५२. बलाकाभ्यः पताकाया इन विभाषा विधीयते ।
वा कर्मचर्मवर्मभ्यश्चूलोत्साहबलोहाम॥ १५३. बहूनां वृत्तिधर्माणां वचनैरेव साधने।
स्यान्महद् गौरवं तस्मादेकार्थीभाव आस्थितः॥ १५४. बुद्धिपूर्व ध्रुवं मत्ता राजकृत्वा पिता खलम् ॥ १५५. बुद्ध्यैक्यं भियते भिन्नमेकत्वं चोपगच्छति।
बुद्ध्यावस्था विभज्येत सा अर्थस्य विधायिका ॥ १५६. ब्रह्मचर्य विनापि स्युः सम्भवाद् ब्राह्मणा इति ।
पुष्करोत्पलपोभ्यो नडबिसतमालतः॥ १५७. ब्रह्मधर्मी सुशीली च ब्रह्मवर्णीत्युदाहृतम् ।
जाती तु हस्तदन्ताभ्यां कराच्चैव इनेव हि ॥ १५८. ब्राह्मणो न च हन्तव्यः सुरा पेया न च द्विजैः॥ १५९. भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि।
प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः॥ १६०.
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसङ्गेऽस्तिविवक्षायां मन्त्वादयो भवन्त्यमी॥ १६१. भेदाभेदाद् विभाषेयम् उपकादेश्च नोच्यते ।
प्रत्ययस्यानुसारेण उपका औपकायनाः॥ १६२. भेयभेदकयोः श्लिष्टः सम्बन्धोऽन्योऽन्यमिष्यते ।
विष्ठो ययपि संबन्धः षष्फ्युत्पत्तिस्तु भेदकात् ॥
२८९
४८०
४७९-८०
१००
९८-१०५
४७९
१२९
Page #732
--------------------------------------------------------------------------
________________
६९०
१६६.
१६३. मत्तस्तत्
१६४.
१६५.
१६७.
१६८.
१६९.
१७०.
१७१.
१७२.
१७३.
१७४.
१७५.
१७६.
कातन्त्रव्याकरणम्
सर्वम् ॥
वा ॥
मायामेधास्रजो विन् स्याद् वाऽधिकाराद् विभाषया ।
विहिताः सर्व एवैते शेषेभ्यो मन्तुरिष्यते ॥ मायाशीर्षात् स्वरूपाच्च व्रीहेरर्थात् स्वरूपतः । यथा व्रीहीति शालीति इन्ननेकस्वरादतः ॥
प्राप्यतां
मन्त्रो हीन: स्वरतो वर्णतो
५०७
५०६
शक्तिस्तत्रावसीयते ॥
यथा कृदन्तवाच्यस्य साधनस्य क्रियान्तरैः । संबन्धः स्यात् तथेहापि नाख्याते स कथं भवेत् ॥ गौरादिभिस्तेषामवच्छेदो विधीयते ।
यथा
असताप्यनभिव्यक्तं तादर्थं व्यज्यते नञा ॥
यथाभ्यासं हि वागर्थे प्रतिपत्तिः समीहते । स्वभाव इव बालादेर्मिथ्याभ्यासो व्यवस्थितः ॥
४७९
४७९
मुक्ताफलाय करिणं हरिणं पलाय सिंहं निहन्ति भुजविक्रमसूचनाय । का नीतिरीतिरिह ते रघुवंशवीर ! शाखामृगे जयति यस्तव बाणमोक्षः ॥१३३ मुख्यसंकेतितं केचित् ख्यातिख्यातस्य चान्यथा ।
सर्वत्र लक्षणा नैव परत्वे वस्तुलक्षणा ॥ मूलदलकुलायामारोहप्रयाम उपयामव्यायामावरोहाणाम् । इनन्तानां सदैतेषां स्वार्थे को नेष्यते बुधैः ॥ यः क्रियां कर्मकर्तृस्थां कुरुते मुख्यभावतः । अप्रयुक्तः प्रयुक्तो वा स कर्ता नाम कारकम् ॥ यङन्तधातोरथ यस्तिङा स्वार्थेऽनुभाव्यते । यश्चासौ कर्मता नाम कारकं यत्क्रियायां यादृशार्थः सप्तम्या बोध्यस्तस्यां तदेवाधिकरणं नाम यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ ।
कर्तृतेतरः ॥
विग्रहस्थया ।
कारकम् ॥
अन्वयव्यतिरेकाभ्यां
४४४
४८०
१०७
९९
६६
१२१,१२३
३६
२९५
१०२, १०६
Page #733
--------------------------------------------------------------------------
________________
१७७.
१७८.
१७९.
१८०.
१८१.
१८२.
१८३.
१८४.
१८५.
१८६.
१८७.
१८८.
१८९.
१९०.
परिशिष्टम् - ५
यथौषधिरसाः सर्वे
मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते संख्यां तां तादृशीं विदुः ॥ यदसज्जायते पूर्व जन्मना यत् प्रकाशते । तन्निर्वर्त्य विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ यदा गन्धादिभिस्तुल्या तेषामपि गुणस्थता । भट्टशौक्ल्यादिवत् तेन समासोऽपि तदेष्यते ॥ यदीयेन सुबर्थेन युतयद् बोधनक्षमः । यः समासस्तस्य तत्र स तत्पुरुष उच्यते ॥ यादृशस्य महावाक्यान्तस्त्वादिर्निजार्थके । यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ॥ युधिष्ठिरः श्रेष्ठतमः कुरूणाम् ॥
ये तु योन्यादिसंबन्धाः प्राणिजातीयगोचराः । न ते ह्युपायाः संस्कारे कलत्रादितटादिषु ॥ रामाश्रितस्तत्पुरुषे धान्यार्थी यूपदारु च । व्याघ्रभीराजपुरुषोऽक्षशौण्डः
11
रुचिः स्वादे मयूखे च रुचिः शोभाभिलाषयोः ॥ रूढादण् ण्यश्च रूढात् स्यादादैदोदादिकस्वरात् । न तु गान्धारिशाल्लेयाद् नकारादेः कुरोरपि ॥ लक्षणवीप्सेत्थम्भूतेष्वभिर्भागे
परिप्रती ।
अनुरेषु सहार्थे च हीने उपश्च कथ्यते ॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । कर्ता ययुपमानं स्यान्यग्भूतोऽसौ क्रियापदे । स्वक्रिया साधनव्यग्रो नालमन्यदपेक्षितुम् ॥ लुग्विधानमिदं यच्च दिङ्मात्रमिह दर्शितम् । तन्मन्दमतिबोधाय साधुदृष्ट्या तु निष्फलम् ॥ लोपमात्रस्य साध्यत्वे लोपमित्येव निर्दिशेत् । अतो लोपविशिष्टस्य साध्यत्वमवगम्यते ॥
६९१
२५५
७२-७७
३३६
३४३
२६५
५२४
२३४
३४३
५४
१८
१४६
३६
१९
२७२
Page #734
--------------------------------------------------------------------------
________________
६९२
कातन्त्रण्याकरणम्
४७९
१९२.
१५०
६७,६९
१९५.
२६४
१९१. वयसि गम्यमाने च पूरणान्तादिनेव हि।
पञ्च दिनानि मासा वा पञ्चमी बालको यथा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।
टापं चापि हलन्तानां क्षुधा बाचा निशा गिरा ॥ १९३. वसतावप्रयुक्तेऽपि देशोऽधिकरणं मतम् ।
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसेः स्मृतम् ॥ १९४. वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः॥ वाचिका योतिका वापि संख्यानां या विभक्तयः।
तद्रूपेऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥ १९६. विग्रहान्निर्वचः कार्य समासेष्वपि तद्धिते ।
द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च। पञ्चमस्तु बहुव्रीहिः षष्ठस्तसुरुषः स्मृतः॥ विज्ञेयं सर्वबीजीति सर्वकेशीत्युदाहृतम् ।
स्याद् धर्मशीलवर्णान्तादिन्नेवेति विवक्षया॥ १९८. विवक्षायामिनेवेति यथा पुष्करिणीति च।
मनन्तमान्तशब्देभ्यः संज्ञायामिन्निहेष्यते ॥ विशिष्टस्य हि साध्यत्वे शास्त्रयुक्त्यनुसारतः।
विशेषणं विशेष्यं वा तद् द्वयं वाऽभिधीयते ॥ २००. विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते ।
समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव च ॥ २०१. विशेष्यस्य हि यल्लिङ्गं विभक्तिर्वचनं च यत् ।
तानि सर्वाणि योयानि विशेषणपदेऽपि च ॥ २०२. विस्तीर्य हि महज्जानमृषिः संक्षेपतोऽब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ २०३. वृत्तौ विशेषवाचित्वं भेदे सामान्यवाचिता।
उपमानसमासादौ श्यामादीनामुदाहृता ॥
१९७.
४७९
millllllimiid
४८०
१९९.
२७२
२५४,२५७
२६३
२९१
Page #735
--------------------------------------------------------------------------
________________
६९३
२०४.
३१९
२०५.
१०२
२०६.
२३४-३५
२०७.
२९६ ४७
२६५
२०८. २०९. २१०. २११.
४७
परिशिष्टम् -५ वैयाकरणखसूचिः शीतोष्णं द्विपदं शुभम्। उपमानपूर्वपदः शङ्खपाण्डुर इत्यपि॥ व्यापारमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसंभवः॥ शब्दसंस्कारसिद्ध्यर्थमुपायाः परिकल्पिताः। सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः॥ शब्दान्तरेऽपि चैकत्वमुपाश्रित्य विचारिणा। अब्राह्मणादिषु नत्रः प्रयोगो न विहन्यते ॥ श्लाघमानः परस्त्रीभ्यस्तत्रागाद् राक्षसाधिपः॥ षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः॥ संकुध्यसि मृषा किं त्वं दिदृशुं मां मृगेक्षणे !॥ संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् । अभेदेनैव यत् स्वार्थे स द्विगुस्त्रिविधो मतः॥ संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां वा क्रियायां स प्रतीयते ॥ संबोधने च प्रथमा उक्त कर्तरि कर्मणि। कर्म यत् क्रियते तत् स्याद् द्वितीया कर्मणि स्मृता॥ संबोधने च लिङ्गादावुक्ते कर्मणि कतरि॥ संस्तु रूपरसादीनामाश्रयो नाभिधीयते । द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः॥ संस्थानेन घटादीनां ब्राह्मणादेस्तु योनितः। आचारतः क्षत्रियादेः -..-.-. .....॥ संयुक्तस्य हि विश्लिष्टिक्रियारम्भो भवेद् यतः। तदेवावधिभावेन अपादानमिति स्मृतम् ॥ स कर्ता स्यात् करोति यः॥ सतां न च निषेधोऽस्ति सोऽसत्सु च न विद्यते। जगत्यनेन न्यायेन नत्रर्थः प्रलयं गतः॥
३२४
२१२.
१२९
२१३.
९९,१०६
२१४.
१०६
२१५.
२८८
२१६.
२१७.
३०
२१८.
१०६
२१९.
.२९४-३०१
Page #736
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
८४
१२,१७
२२२.
४६,४९,५१
२२४.
१११,११३
३९०
२२५.
४७५
२२०. सती वा वियमाना वा प्रकृतिः परिणामिनी।
यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ २२१. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ समासस्यानुवृत्तौ तु महद्वदिति दुष्यति ।
युक्तार्थमात्रानुवृत्तिरत्र बुधैर्मता ॥ २२३.
सम्प्रदानं तदैव स्यात् पूनानुग्रहकाम्यया । दीयमानेन संयोगात् स्वामित्वं लभते यदि॥ सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः। लोकोपचारतः सिद्धाः सुखबोधाय दर्शिताः॥
सर्वाबाधाप्रशमनम् - - - - - - - - . . . ॥ २२६. सर्वासु च विभक्तिषु - - - - . . . . . . . ।
- ....... . . . यन्न व्येति तदव्ययम्॥ २२७. सहेतिकाराणि समासमन्तभाक् ॥
सहैव दशभिः पुत्रैर्भार वहति गर्दभी॥ २२९. सामान्यानामसंबन्धात् तौ विशेष व्यवस्थितौ ।
रूपाभेदाद् विशेषं तमभिव्यक्तुं न शक्नुतः॥ २३०. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा।
चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥ २३१. सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी।
आदन्तेन समासोऽयम् आदिति हि प्रवर्तते ॥ २३२. सिद्धस्याभिमुखीभावमात्रमामन्त्रणम् . . . . . . २३३. सुखादिभ्य इनेव स्याद् बाहूरुभ्यां बलादपि ।
सुखी दुःखी अलीकी च करुणी कृपणी हली॥ २३४.
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा। सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः॥
२६४
२२८.
३४३
२८७
५४४
२४०
१२८
४७९
२६४
Page #737
--------------------------------------------------------------------------
________________
६९५
५०६
२३२
२३२
२३५
५३,५४
४७९
परिशिष्टम् -५ २३५. सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः॥ २३६. स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ २३७. स्तनकेशादिसंबन्यो विशिष्टा वा स्तनादयः। तदुपव्यञ्जना
जातिर्लिङ्गमेतन्निरुच्यते॥ २३८. स्त्रीत्वमश्वा कुरङ्गीति लौकिकं यत् प्रतीयते ।
तत्तदन्वयिनि द्रव्ये शास्त्रीयस्त्रीत्वसंभवात् ॥ २३९. स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयति लोचनचकोरम् ॥ २४०. स्यात् स्वाङ्गात् तु यथा प्राप्तं स्तनकेशवती यथा।
कः स्वार्थे नित्यमेवैषां वातोऽस्यास्तीति वातकी ॥ २४१.
स्वकक्षासु प्रकर्षश्च करणानां न वियते ।
आश्रितातिशयत्वस्य परत्वस्य च लक्षणम् ॥ २४२. स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ २४३. स्वस्वत्वे विद्यमाने तु परस्वत्वं न विद्यते ।
परित्यज्य च स्वस्वत्वमौदासीन्यान्न सिध्यति ॥ २४४. स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत् ॥
स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् ।
समवेतस्य च लिङ्ग सङ्ख्या कर्मादिकं चेति॥ २४६. स्वार्थे कः स्यान्न बाच्योऽयं दण्ज्येव दण्डिको यथा।
संज्ञा मालेष्टा वीणा मेखला बडवा शिखा ॥ २४७. हन्तेः कर्मण्युपष्टम्भात् प्राप्तुमर्थे तु सप्तमीम् ।
चतुर्थीबाधिकामाहुश्चूर्णिभागुरिवाभटाः ॥
६७
४४३
२४५.
११६
४८०
१३३
Page #738
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
४८०
२४९.
२४८. हस्ती दन्ती करी जेो वर्णादिन् ब्रह्मचारिणि ।
स्युर्ब्रह्मचरणादेतोर्वर्णिनो ब्राह्मणास्त्रयः॥ हेत्वर्षे कर्मसंज्ञायां शेषत्वे चाप्यकारकम् ।
रुच्यादिषु शास्त्रेषु सम्प्रदानाख्यमुच्यते ॥ २५०. क्षुव्रजन्तुरनस्थिः स्याद् अथवा क्षुद्र एव यः।
शतं वा प्रसृतौ येषां केचिदानकुलादपि॥
३७०,३७२
Page #739
--------------------------------------------------------------------------
________________
॥श्रीः॥ परिशिष्टम् -६ व्युत्पत्तिपरकशब्दसूची
سه نه
| २२.
५१६
سه
४९८
sin x ; w i j coa
२६.
३४६
३४४
क्रमसं० शब्दाः
पृ० सं० | क्रमसं० शब्दाः पृ० सं० १. अकिञ्चनम्
| २०. अत्युपकुम्भौ २ अगा: |२१. अदन्तता
५२८ अग्निष्टुत्
अदन्ताः
५२८ अग्नीषोमौ २२२ २३. अद्य अग्रेवणम्
अट्यादिः ६.
अघोषाः अघोषाः
३९४ २५. अधार्मिकः ४५२ अङ्गुलीषङ्गः २२०, २२२ अधिकदशाः अच्छोदः
|२७. अधिकरणम् २८७, २९६ अजगर्भिणी
२८. अधिकविंशाः १०. अजादाः
| २९. अधिस्त्रि
३५८ ११. अञ्जनागिरिः
|३०. अधीति १२९, १३० १२. अतत्परः
|३१. अध्वस्तक्षणयोगः ८३ अतिकरभोरुः
३२. अनजः ३९६, ३९७ अतिखट्वः
अनुज्येष्ठम् ३५८ १५. अतितैसृकम् ३५८, ३६२ | ३४. अनुरूपम् ३५८ अतिनु
२५२ ३५. अनूशब्दः ३८२ १७. अतिपतिः
३६. अन्तर्हननः २२८ अतिरि
|३७. अपत्यम् __ २०, ४१४ १९. अतिशीतम् ३५८ |३८. अपादानम्
१३.
१४.
३३.
१६.
Page #740
--------------------------------------------------------------------------
________________
२६९
६५.
२९३
असंख्यम्
१२
३९७
६९.
३९४
४११
२९३
४११
६९८
कातन्त्रण्याकरणम् ३९. अपुत्रः
अश्नीतपिबता अगमनम् २८१ ६६. अश्वघास :
३२९ अब्राह्मणम् अब्बनः
२८० | ६८. असत्याः अभिव्यापकः ५८, ५९, ६२ असवर्णः ४४. अभ्रविलिप्ती द्यौः २४० ७०. अक्षशौण्डः
३२७ अयस्कंसः
४११ |
|७१. अक्षिकाणः ३३३ अयस्कर्णिः
४११ । आक्रन्दिकः ४५२ ४७. अयस्कल्पम्
४११ आखुकर्णी २४१ ४८. अयस्काम्यति
आग्निशर्मिः ५३४ अयस्कारः
४११ आचपराचम् अयस्कुशा
आचोपचम् २९३ अयस्पाशम्
४११ आत्मचतुर्थः २६७ ५२. अरण्यानी
आत्रेयीयाः ५३. अरो रमणीयम् ५१७ |७९. आद्याः
३२७ ५४. अर्थः
४८१ |८०. आधारः ५८, ५९, ६० ५५. अर्धजरती २९४, ३०१ आधिदैविकम् ५४१
अर्धपिप्पली २८६ ८२. आध्यात्मिकाः १२४ ५७. अर्हन्ती
आनुपदिकः ४५२ अल्पशो देहि
आपटवम् ४७३ अवकोकिलं वनम्
आपन्नजीविका ३३२ ६०. अविद्यमानपुत्रः
आपूपिकः ६१. अव्यतिरिक्तः ११८ आभिगामिका गुणाः ५४१ ६२. अव्यतिरिक्तलिङ्गार्थः ११८ आमः
१९८ ६३. अव्ययम् १२,१४ | ८९. आमुष्यकुलिका २६८ ६४. अव्ययीभावः ३६२ ९०. आमुष्यपुत्रिका
५१.
२७
४७७
। ८३.
*
५८.
२६
४५३
***
२६८
Page #741
--------------------------------------------------------------------------
________________
०
९२.
०
ñ
9
१०
९५.
w
my
७८
परिशिष्टम् - ९१. आमुष्याः १८ |११७. उदमेघः ४१०,४१२
आमुष्यायणः २६८ /११८. उदवाहः आम्भसिको मत्स्यः ४४८ /११९. उद्देश्यम् आयतीगवम् ३६१ /१२०. उपकर्तृ आयुधम् ४५३, ४५४, ४५७ /१२१. उपकुम्भकम्
आरूढवानरो वृक्षः ३०३ /१२२. उपकुम्भता ९७. आईखारी ५४१ /१२३. उपकुम्भम् २, ३, ३५९ ९८. आर्धद्रौणिकम् ५४१ /१२४. उपदशाः ३४३, ३४५, ३४८ ९९.
आर्धप्रस्थिकः ५४१ /१२५. उपमानम् । ४६८ १००. आवपनम्
५४१ /१२६. उपयोगः १०१. आशौचम् ५४१ /१२७. उपरि वसति ५१७ १०२. आश्वो रथः ४३८ /१२८. उपवधु १०३. आस्तिकः ४५२ | १२९. उपवसनम् ९३ १०४. आह्निकः ५३४ १३०. उलूकपक्षी २४० १०५. आक्षिकः ४४८ १३१. उलूकपुच्छी २४० १०६. इ:
४३३ १३२. उषसानक्तम् ३९२ १०७. इत्यम्
५२२ /१३३. उष्ट्रमुखः २६९ १०८. इन्द्राणी २३९ १३४. ऋगयनम्
२२६ १०९. इभ्यपोटा __ २९२, २९९ /१३५. एकपत्नी
२४२ ११०. इह ५०९ १३६. एकमाता
२० १११. इक्ष्वाकवः
१८/१३७. एकवचनम् ११६, १२० ११२. ईप्सितम् ४१, ४२, ४५ /१३८. एकविंशः
४९४ ११३. उगवादी ४६५ १३९. एकविंशतिः ४९४ ११४. उच्चावचम् २८६/१४०. एकविंशतितमः ४९४ ११५. उत्तानशया
२४१ १४१. एकादशः ११६. उदपानम् ४१०, ४१२ | १४२. एकादशी
४८८
४८८
Page #742
--------------------------------------------------------------------------
________________
७००
१४३. एकान्नविंशतिः
१४४. एणीपचनीयाः १४५. एहिवाणिजा क्रिया
१४६. ऐतिकायनीयाः
१४७. ऐन्द्रं हविः
१४८. ऐषमः
१४९. ऐहलौकिकः
१५०. ओदनपाकी
१५१. औचिती
१५२. औजसिकः शूरः
१५३. औदूखला मुद्गाः
१५४. औपगवः
१५५. औपगवम् १५६. औपश्लेषिकः
१५७. और्ध्वलोमिः
१५८. औक्ष्णं पदम्
१५९. कठकालापम्
१६०. कठभार्यः
१६१. कण्ठगडुः
१६२.
कण्ठेकालः
१६३. कत्तृणम्
१६४. कत्त्रयः
१६५. कथम्
१६६. कदश्वः
१६७. कदा
१६८. कदुष्णम्
कातन्त्रव्याकरणम्
३९७ १६९. कद्रथः
४६२ १७०. कवदः
२९३ | १७१ . कम्बोजमुण्डः
३९९
३९९
२८६
६६
२४३, २५२
१०२
४५८
२४१ | १७६. कर्मप्रवचनीयाः १४७, १४९ १७७. कर्हि
४७७
५१६
४४८ १७८. कलिङ्ग्यः
२०
४३८ | १७९. कल्याणीपञ्चमा रात्रयः ३८३
३९९
४०२
४६२ १७२. करणम्
४४२ | १७३. करभोरू:
५१६ १७४. कर्ता
५४१, ५४२ १७५. कर्मण्यः
४१४,५३६ १८०. कवत्रयः
४१६ | १८१. कवोष्णम्
५९ १८२. कष्टश्रितः
५३४ १८३. कावथः
५३५ | १८४.
३७१
१८५. काम्बोजः
३८९ १८६. काम्लम्
३५६ १८७. कारकम्
२६८ १८८. कारणम्
३९९ |१८९. कार्षापणिकः
३९९ १९०. कालवणम्
५२२ १९१. कालापः
३९८ १९२. कालापाः
५१३, ५१६ | १९३. कालिङ्गीयाः
४०२ |१९४. काषायबृहतिकः
कामण्डलेयः
३२६
४००
५३७
१९
४००
१०८
१०८
४४८
४००
३७१
५३५
२९
३८७
Page #743
--------------------------------------------------------------------------
________________
७०१
४२६
२२
३७१
४४८
२४३
५४१
४४१
८९
२२७
२४
२२७ २२७
परिशिष्टम् -६ १९५. काक्षः
४०० २२१. कौठ्यः १९६. काक्षम्
४०० २२२. कौत्सीयाः १९७. किंराजा २९२ २२३. कौथुमः १९८. कुञ्जरः
४११ २२४. कौद्दालिकः १९९. कुण्डेहा २४९ २२५. कौरव्यायणी २००. कुण्डोनी २४२ २२६. कौरुजाङ्गलम् २०१. कुत्रयः ३९९ २२७. कौसुम्भम् २०२. कुत्सनानि २९०/२२८. क्रियाजनकत्वम् २०३. कुत्सितम् १७३ /२२९. खारपायणः २०४. कुपथः
४०० २३०. गर्गकुलम् २०५. कुब्राह्मणः ३३७ २३१. गर्गभगः २०६. कुमारश्रमणा २८६ २३२. गर्गभगिणी २०७. कुरवः
१८ २३३. गर्गभगिनी .२०८. कूदयः
३९८ २३४. गर्गयस्कबिदादीनाम् २०९. कृकवाकव्यम् ४६४ २३५. गर्गवृन्दारिका २१०. कृतप्रणामः ३४३ २३६. गवयः २११. कृतपूर्वी २०२, २०३ २३७. गव्यं वनम् २१२. कृताकृतम्
२९१ /२३८. गान्धारयः २१३. कृष्टमदीकृतः
२३९. गान्धारिः २१४. केशचूडः २६९ २४०. गार्गी २१५. केशाकेशि ३४३ २४१. गार्गीयाः २१६. कैकेयः ५४२ २४२. गार्यः २१७. कोशलाः
|२४३. गार्यकुलम् २१८. कोष्णम् ३३२, ३३८, ४०२ /२४४. गाायणः २१९. कौक्कुटीकः ४५२ २४५. गिरिकाणः २२०. कौञ्जिः
४२६ २४६. गिरितुल्यः
२२७
२३
३८०
४६९
४६४
१८
१८
२४३
२९
४२१
२४
४१५
३२६
४५८
Page #744
--------------------------------------------------------------------------
________________
७०२
कातायाकरणम्
५३५
२३९
५३६
२४७. गुडधानाः २४८. गुरुलाघवम् २४९. गोगतः २५०. गोबाली २५१. गोमतीभूता २५२. गोमान् २५३. गोहितम् २५४. गौधेयः २५५. गौपुच्छिकः २५६. गौरवलाघवम् २५७. गौरिषस्थम् २५८. ग्रामगतः २५९. ग्रामगमी २६०. ग्रामपतिः २६१. ग्रामपत्नी २६२.. घण्टिकः २६३. घाण्टिकः २६४. चतुरङ्गः २६५. चतुरङ्गयोगेण २६६. चतुर्थः २६७. चतुर्धा करोति २६८. चतुष्पथम् २६९. चत्वारिंशः २७०. चातुरं शकटम् २७१. चातुर्दशं रक्षः २७२. चातुर्वर्ण्यम्
३२६ २७३. धातुधम्
५४१ ५४० २७४. चाक्षुषं रूपम् २७५ /२७५. छान्दसः
४३८ २४१, २४६ /२७६. जडता
४७६ ३९१ २७७. जडत्वम्
४७६ ४७८, ४८३ /२७८. जाजल: ३२६ /२७९. जाड्यम्
४७६ ५४० २८०. जानुदनी २३९
४४८ २८१. जानुद्वयसी ५४०, ५४२ २८२. जानुमात्री २३९
२२१ /२८३. जाम्बवम् ___ ३२९ २८४. ज्योतिष्टोमः २२२ ३३३ २८५. ततः
५०५ २४२ /२८६. तत्स्थाः २६६, २६९ २४२ /२८७. तदन्तः
२५० |२८८. तदर्थः
१६३ ४४९ /२८९. तदर्थम्
१६१ २२९ २९०. तदीयम्
२९१. तन्तुवाय्या नापित्या ४९२ |२९२. तन्मुखम् ५२१ /२९३. तादर्थ्यम्
१६१ ३७८ २९४. ताम्बूलिकः ४४८, ४५४ ५३० २९५. तिष्ठद्गु ४३८ २९६. तीर्थध्वाङ्क्षः ४३८ | २९७. तुल्यम्
४५८ ४७७ २९८. तुमर्थात्
Bonnier
# ཚེ ལ – རྗེ # % ི ཚེ རྩྭ ལོ @ # # # # ཚོཎི # # ༈ ཚོ
४५३
३८१
२२९
२४३
३८१
३६१
१६५
Page #745
--------------------------------------------------------------------------
________________
२६८
४३१
४६
३९२
२९९. तृतीयः ३००. तैतिलः ३०१. तैसृकः ३०२. त्रिंशत् ३०३. त्रिफला ३०४. त्रिभुवनम् ३०५. त्रियमुनम् ३०६. त्रेधा भुङ्क्ते ३०७. व्यन्यः ३०८. त्र्याशीतिकः ३०९. यूनी ३१०. दण्डमाथः ३११. दण्डमाथिकः ३१२. दण्डादण्डि ३१३. दधिघटः ३१४. दध्योदनः ३१५. दर्भमूली ३१६. दक्षिणतारम् ३१७. दक्षिणतीरम् ३१८. दक्षिणपूर्वा दिक् ३१९. दाडिमफली ३२०. दात्राकर्णः ३२१. दाधिकः ३२२. दाधिकम् ३२३. दारदः ३२.४. दा१रिकः
परिशिष्टम् -६ ४५१,४९३ |३२५. दार्शदाः सक्तवः ४३८ ५३५ ३२६. दाविका
५४१ ३२७. दाविकाकूलाः शालयः ५४१ ३२८. दाशरथिः
४३४ ३२९. दासीपुत्रः
३३०. दासेयः ३६२ ३३१. दासेरः
४३१ ५२३ |३३२. दाक्षायणः ४१५,४१६,४३० ३५६ |३३३. दाक्षिः ४३१,४३३ ५४९ ३३४. दित्सा २४२ ३३५. दिवस्पृथिव्यौ ४५२ ३३६. दीर्घसत्राः ५४२ ४५२ ३३७. दुःषेधः ३४३ |३३८. दुःसन्धिः
२२१ २६९ ३३९. दुर्गवधिकम् ३५८ ४५१,४५४ | ३४०. दृढपतिः
२४२ २४१ ३४१. दृढपली
२४२ ४११ ३४२. देवदत्तत्वम् ४११ ३४३. देवदत्तयज्ञदत्तौ ३५१ ३५० ३४४. देवदत्तवत् २४१ |३४५. देववत् ४०६ ३४६. देवसंमितः
|३४७. दैवदत्तः ४४८ ३४८. दैष्टिकः
४३० ३४९. दौवारपालिः ४५१,४५५ ३५०. द्यावाक्षमे
२२१
४१९
૪૬૮
४६८
४५९
x41
४५३
५४८
३९२
Page #746
--------------------------------------------------------------------------
________________
७०४
कातन्त्रव्याकरणम्
२४१
४५२
५२१
३६२
३५१. द्विकम्बल्या ३५२. द्विकाण्डा ३५३. द्विकाण्डी रज्जुः ३५४. द्विकुडवी ३५५. द्विकौडविकः ३५६. द्विखारधनः ३५७. द्वितीयाद्याः ३५८. द्वित्राः ३५९. द्विधा करोति ३६०. द्विपुरी ३६१. द्विपुरुषा यष्टिः ३६२. द्विबिस्ता ३६३. द्विमुनि ३६४. द्वियमुनम् ३६५. द्विवचनम् ३६६. द्विवर्षा ३६७. द्विवार्षिकम् ३६८. द्विवेदः ३६९. द्विशता ३७०. द्विसांवत्सरिकः ३७१. द्विसौवर्णिकः ३७२. द्विहायनी ३७३. द्वेधा भुङ्क्ते ३७४. द्वैगुणिकः ३७५. द्वैधं भुङ्क्ते ३७६. द्वैनाविकम्
२४१ ३७७. ह्यन्यः
३५६ २४१ |३७८. व्यहः ३७९. व्याचिता
२४१ २४१ ३८०. व्याशीतिकः ५४९ ५४१ |३८१. ट्यूनी
२४२ ३२१ |३८२. धार्मिकः ३२७ ३८३. नकुलः
३९६ ३४३,३५६ ३८४. नक्रः
३९७ ३८५. नखः ३९६,३९७ ___३७६ ३८६. नगाः
३९७ |३८७. नदादिः २३६,२४३ | ३८८. नद्याद्यन्विवाह्वयन्स्यन्त
सखिनान्तेभ्यः २४३ ३८९. नपुंसकम् २३२,३९६,३९७ ३९०. नभ्यम्
४६५ ३९१. नभ्राट
३९६ ५४१ ३९२. नमुचिः ३९६,३९७ ३९३. नवेदाः
३९७ |३९४. नक्षत्रम् ३९६,३९७ ५४०३९५. नाकः
३९७ ५४१ |३९६. नादेयीभार्यः ३८६ २४२ |३९७. नानात्वम् । 3७२,४७४
|३९८. नामिकरपरः २१९ ४५२ ३९९. नाविकः ४८४,५३९ ५२३ | ४००. नाव्यम्
४५८ ३२०/४०१. नासत्याः
m
-
r
२४१
३९७
Page #747
--------------------------------------------------------------------------
________________
४०२. नास्तिकः ४०३. निकटपाठानाम्
४०४. नियमार्थम्
४०५. नियोगः
४०६ .
निरह्नम्
४०७. निर्धारणम्
४०८. निर्मक्षिकम्
४०९. निर्वर्त्यम्
४१०. निश्चप्रचम्
४११. निःषामा
४१२. निःषेधः
४१३. निषधाः
४१४. निष्ठादिषु
४१५. नीलोत्पलम्
४१६. नैकटिकः
४१७. नैयग्रोधः
४१८. न्यूनतादोषः
४१९. पञ्चकः
४२०. पञ्चकपाल
ओदनः
परिशिष्टम् - ६
४५३ ४२७ पञ्चधा करोति
३७१ ४२८. पञ्चनावधनः
३३२ |४२९. पञ्चपटुः
४५१,४५४ ४३०. पञ्चपुरुषाः
२२७ | ४३१.
पञ्चपूली
१८६, १८७ ४३२. पञ्चब्राह्मण्यः
पट्वीमृदुभार्यः
पतिवली भार्या
परमतृतीय :
परमद्वितीयः
परिक्रीतः
३४३ | ४४७.
परिमाणम्
४२१. पञ्चकाः शकुनयः ४२२. पञ्चगर्गरूप्यः ३२०,३२१ ४४८. परेद्यवि
३५९ ४३३. पञ्चमः
९७ ४३४. पञ्चमी
२९३ ४३५. पञ्चशराव ओदनः
२२१ ४३६. पञ्चषाः
२२१ ४३७. पञ्चालाः
१८ ४३८. पञ्चाश्वा
२०६ ४३९ पञ्चेन्द्रः
२८५ |४४०. पटुता
४५३ ४४१. पटुत्वम्
५४६ | ४४२.
२४३ |४४३.
६८ | ४४४.
४४५.
३२०,३७६,३७७ |४४६.
४२४. पञ्चगवम्
४२५. पञ्चगोणिः
४२६. पञ्चतक्षी
४२३. पञ्चगवधनः ३२०, ३२१,३४४४४९. पर्यध्ययनः
३७७ ४५०. पर्वतवत्
२५१ |४५१. ३७७ | ४५२.
पलाण्डुभक्षिता
पलाण्डुभक्षिती
७०५
५२३
३२१
२५१
२४२
३२०, ३७६
३२१
४८१
४.८४
३२०
३४६
१८
२४१
२५१
३८१
३८१
३८३
२४२
४९७
४९७
६८
३४८
५१६
३२७
४६८
२४०
२४०
Page #748
--------------------------------------------------------------------------
________________
कातन्वयाकरणम्
४६६
४५२
२६९
४५२ |४
१६
४५१
२७५
७०६ ४५३. पाचकतरः ४१९ | ४७९. प्रणायकः
३३२ ४५४. पाञ्चनापितिः ३२०,३२१ |४८०. प्रतिज्ञाप्रतीतिलाघवाय ५३८ ४५५. पाण्डवः
|४८१. प्रतियत्नः १९६ ४५६. पाथेयम्
|४८२. प्रत्ययविकारागमस्थः २१९ ४५७. पादविकः
|४८३. प्रत्यर्थम् ३५८ ४५८. पादहारकः
| ४८४. प्रपतितपर्णः ४५९. पारिपन्थिकश्चौरः |४८५. प्रपर्णः
२६९ ४६०. पारिमुखिकः
४८६. प्रभवः ४६१. पारेगङ्गम्
३६१ |४८७. प्रवासी ३३२, ३३८ ४६२. पार्याप्तिकः
| ४८८. प्रशस्यः
४१५ ४६३. पाक्षिकः
|४८९. प्रशान्
२१२ ४६४. पितृसाधुः
|४९०. प्रष्ठौही
२४३ ४६५. पुंवत् ३८२,३८३ |४९१. प्राग् वसति ४६६. पुरस्ताद् वसति ५१७,५१८ |४९२. प्राचार्यः
२६९ ४६७. पुरुषव्याघ्रः २८६ ४९३. प्रातिकण्ठिकः ४५२ ४६८. पूतक्रतुः २३९ ४९४. प्रातीपिकः
४५१ ४६९. पूरणम् ४८८,४८९ |४९५. प्राप्तजीविका ४७०. पूर्वकायः
|४९६. प्राभृतिकः ४७१. पूर्वगवप्रियः
|४९७. प्रायोगिकः ४७२. पूर्वेयुः
४९८. प्रालेयम् ४७३. पूर्वेषुकामशमी
|४९९. प्रावाहणेयः ४७४. पौर्णमासः ३६९ ५००. प्रासादीयो देशः ४६६,४६७ ४७५. पौर्वपदिकः ४५२ | ५०१. प्रासाद्यं दारु ४६६,४६७ ४७६. प्रकारवचनम्५२०.५२१,५२३ ५०२. प्रियगर्गः ४७७. प्रकीर्तिः
४७६ ५०३. प्रियगार्याः ४७८. प्रकीर्तितः
४७६ | ५०४. प्रियवाङ्गाः
५१७
३३२
३
४५२
५४१
FM
www
५४२
५४१
Page #749
--------------------------------------------------------------------------
________________
७०७
२७
२७
२९८
परिशिष्टम्-६ ५०५. प्रोष्ठपदाः ५४१ ५३१. भार्गवः ५०६. प्रोष्ठपादः ५४१ ५३२. भार्गव्यः ५०७. प्लक्षन्यग्रोधौ ३७३ |५३३. भावः ४७२, ४७४ ५०८. फलतृप्तः
३३० | ५३४. भाषितपुंस्कः ३८०, ३८२ ५०९. फलभागित्वम् ७९ ५३५. भाषितपुंस्कानूङ् ३७९ ५१०. फलभागी ७९ | ५३६. भास्करः
४११ ५११. बलाकाशौक्ल्यम् ३३५ ५३७. भुक्तापभुक्तम् ५१२. बहुवचनम् १२० | ५३८. मत्तबहुमातङ्गः ३४४ ५१३. बहुशो देहि ३८१ ५३९. मथुरावत् ४६८ ५१४. बहूपकुम्भौ
२५४०. मदनपुत्रः ३९४ ५१५. बादरिकः ४५१ ५४१. मद्रबाहुः
२४३ ५१६. बाभ्रव्यः
५३६ ५४२. मध्येगङ्गम् ३६१ ५१७. बाहवः
५३९ ५४३. मनसाज्ञायी ५१८. बाहविः
४३६ | ५४४. मनायी २३९,४२३ ५१९. बिदकुलम् २४ ५४५. मनुः
२३९ ५२०. बैदकुलम् २४ / ५४६. मयूरः
४११ ५२१. ब्रह्मबन्धूः २४२ /५४७. मयूरव्यंसकः २८६ ५२२. ब्राह्मणता
४७६ ५४८. महद्घटरूपः ३९२ ५२३. ब्राह्मणत्वम्
४७६ |५४९. महद्भूतश्चन्द्रमाः ३९१ ५२४. ब्राह्मणवत् ४६८ ५५०. महद्भूता स्त्री ३९१ ५२५. ब्राह्मण्यम् ४७६ | ५५१. महाघासः ३९० ५२६. भक्तिः
३८४ |५५२. मातृभोगीणः २२७ ५२७. भवदीयाः ३८२ ५५३. मात्सिकः
४५१ ५२८. भाजी
२३८ ५५४. माद्रबाहेयः ५३७ ५२९. भानवः ४१६, ४१७ ५५५. मानय्यः
४२३ ५३०. भानवीयाः ४६२ |५५६. मानवी
२३९
२६७
Page #750
--------------------------------------------------------------------------
________________
७०८
५५७. मारीचः
५५८. मार्गं मांसम् ५५९. मार्गिकः
५६०. मार्दङ्गिकपाणविकम् ३७२ ५८६. रथ्याः
४५२ ५८७. रक्षा
२२९ |५८८. रागः
३०१ ५८९. राजः
४९५ ५९०. राजगतः
३३३ ५९१. राजदन्तः
२६८ ५९२. राजपुरुष:
२४१ |५९३ राजवत्
२६८ | ५९४. राजसंमितः
५६१. माशब्दिकः
५६२. माषकुम्भवापेन
५६३. मासजातः
५६४. मासतमः
५६५. मासप्रमितः
५६६. मुखकामः
मुद्गपर्णी
५६७. ५६८. मूर्धशिखः
५६९. मृदङ्गशिल्पम्
५७०. मैत्रेयः
५७१ यतः
५७२. यत्र
५७३.
यथाकामी
५७४. यथाददाति
५७५. यथाशक्ति
५७६. यवनानी
५७७. यवानी
५७८. याज्ञिककितवः
कातन्त्रव्याकरणम्
५७९. यावनी
५८०. युक्तार्थः
५८१. युक्तार्थानि ५८२. युञ्ज
४३० ५८३. यूकालिख्ये
४३८ ५८४. योगः
४५१ ५८५. रक्तविकारः
५०५ ५९७. रूपम्
५०८ ५९८. रौचनिकम्
४५४ ५९५. राजहत :
५४२ ५९६. रिपुस्कन्धघृष्टचक्राय
४७७ |५९९. लब्धसत्ताकम्
५२३ ६०० लालाटिक:
३५८ | ६०१.
२३९ | ६०२.
लाक्षिकम्
लिङ्गम्
२३९ | ६०३. लूनयवम्
२९० ६०४. लौहित्यायनी
२३९ | ६०५. लौहेश:
३७२
४४१
२००
४६५, ४६७
४१
२५४ ६०६. वचनः
२५५ | ६०७. वत्सीयो गोधुक्
२१२ ६०८. वधव्यः
४३८
४२३
२८०
३२७, ३५६
३२६
४६८
४५९
३२८
३५६
५४
४३९, ४४२
८३
४५२
४३९, ४४२
२३७
३६१
२४३
३८६, ३८७
१९९
४६२
४६४, ५३६
Page #751
--------------------------------------------------------------------------
________________
l
३८६
२४१
२९२
२४०
५४४
३८७
३३९
२८०
परिशिष्टम् -
७०९ ६०९. वध्यः
४५९ ६३५. वृद्धिनिमित्तम् ६१०. वर्णविधिः २६९ ६३६. वृद्धकुमारी ६११. वस्त्रक्रीती २४० ६३७. वृन्दारकः ६१२. वाजवर्मणः ५३५ / ६३८. वृक्षप्रतिपन्ना ६१३. वाज्रिणः ५३५ / ६३९. वैयसनः ६१४. वातपैत्तिकम् ५४०६४०. वैयाकरणः
५४४ ६१५. वायसम्
४४१ ६४१. वैयाकरणभार्यः ६१६. वार्धषिकः ४५२ ६४२. वैयुदयः
५४४ ६१७. वाहनम्
| ६४३. वैश्वधेनवम् ५४१ ६१८. विंशः
५३१ ६४४. वैषयिकः ६१९. विंशतिः
४९४ | ६४५. व्यञ्जनम् ६२०. विंशतितमः ४९४ | ६४६. व्यञ्जनान्तम् ६२१. विंशतितमी ४९४ | ६४७. व्यसनम्
५४५ ६२२. विकार्यम् ९८ ६४८. व्याकरणम् ।
५४५, ५४७ ६२३. विज्ञेयाः
४९८ / ६४९. व्यावहारिकः ५४६, ५४९ ६२४. विभक्तिसंज्ञाः ४९८ | ६५०. शङ्खपुष्पी २४१ ६२५. विशेषणम् ७, १७७, १७८ | ६५१. शङ्खभिन्नी २४० ६२६. विशेष्यम् ७, ३७८ | ६५२. शस्त्रीश्यामा २८६ ६२७. विश्वानरः ४०६ / ६५३. शांशपम् ५४१, ५४२ ६२८. विश्वामित्रः ४०६ / ६५४. शाकटिकः ४४८, ४४९ ६२९. विश्वाराट् ४०६ | ६५५. शाकपार्थिवः ६३०. विश्वावसुः ४०६ / ६५६. शालिनः ६३१. विष्यः
| ६५७. शातकौम्भः ५४१ ६३२. वीप्सा १४८ ६५८. शाब्दिकः
४५५ ६३३. वृकभयम्
३२६ / ६५९. शाब्दिको वैयाकरणः ४५१ ६३४. वृद्धि:
३८५ | ६६०. शाविरिकः
२६९
५३५
४५८
४४९
Page #752
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
५१६
5 sx or mor
४८१
६६१. शालीयः
४६२/६८७. सचक्रम् ३६०, ३६३ ६६२. शिंशपस्थलम् ४०३ ६८८. सणः
५४२ ६६३. शुक्लकृष्णः २९९ ६८९. सद्यः ६६४. शुक्लता
४७२ ६९०. सद्यआद्याः ५१६, ५१८ ६६५. शुक्लत्वम्
४७२ |६९१. सद्रोणा ६६६. शुन्यम् ४६५ / ६९२. सपत्नी
२४२ ६६७. शुभ्रनाभिः
६९३. सपुत्रकः
३४३ ६६८. शून्यम्
। ६९४. सपूर्वः ६६९. शेषाः
६९५. सब्रह्म
४१० ६७०. शैवः
६९६. समासः २६२, २६५, ३०२ ६७१. शौक्लिः
४३४ | ६९७. सर्वथा गच्छति ५२३ ६७२. शौवः
५३५ / ६९८. सर्वथा बिभेति ५२३ ६७३. शौवादंष्ट्रो मणिः ५४९ ६९९. सर्वकशी नटः ६७४. शौवापदम् ५४९ |७००. सर्वतः
५०५ ६७५. श्यामगवः ४१६, ४१८ ७०१. सर्वत्र
५०८ ६७६. श्राद्धम्
४८२ |७०२. सर्वश्वेतः ३५६ ६७७. श्रायसः ५४२ / ७०३. सलोमकः ६७८. श्रेणिकृताः
७०४. साक्तुसैन्धवः ५४० ६७९. श्वागणिकः
|७०५. साग्निः कपोतः ६८०. श्वापदम्
| ७०६. सापत्नः
२४२ ६८१. श्वाभस्त्रिः
७०७. सामग्री ६८२. षोडश
४११ |७०८. सामाजिकः ४५१, ४५५ ६८३. संख्या ४९७, ४९९ ७०९. सामीची
४७७ ६८४. सकिखि ३५८, ३६० |७१०. सामूहिकः ६८५. सखिप्राप्तः २७५ ७११. सायंप्रातिकः ६८६. सखिप्रियः २७५ /७१२. सार्वपौरुषम्
२८६
४१०
४७७
४५२
५३३
५४१
Page #753
--------------------------------------------------------------------------
________________
७११
१९२
५२८
४४८
५४५
४८१
७१३. सार्वभौमः ७१४. साश्वत्थम् ७१५. साहसिकश्चौरः ७१६. साक्षी ७१७. सुतूःषु ७१८. सुपी षु ७१९. सुमद्रम् ७२०. सुवर्णालंकारः ७२१. सुषामा ७२२. सुसन्धिः ७२३. सेनानीः ७२४. सोमपम् ७२५. सौम्भनागरः ७२६. सौवरः ७२७. सौवश्विः ७२८. सौवस्तिकः ७२९. सौस्नातिकः ७३०. स्तुतिनिन्दा ७३१. स्तोकान्मुक्तप्रियः
परिशिष्टम्-६ ५४१ |७३२. स्मृत्यर्थः ४१० |७३३. वक्त्वचिनी
| ७३४. स्रौनीभार्यः ७३५. स्वध्यायः ७३६. स्ववान् ७३७. स्वागतिकः ७३८. स्वाध्वरिकः ७३९. स्वामी ७४०. स्वाम्पि ७४१. हस्तपतिनी ७४२. हस्तेबन्धः ७४३. हारिद्रम् ७४४. हास्तिकम् ७४५. हास्तिशीर्षिः
| ७४६. हिमानी ४५२ |७४७. क्षीरपाणाः ३३९ |७४८. क्षीरोदः २६८ |७४९. क्षुद्रजन्तुकाः
५४९
५४९ १३१,१८४
२१२ २४० २६८ ४४१
२५२
५४१
M
३८२
५४८
४३६
५४४
o
५४५
9
४१०
३७२
Page #754
--------------------------------------------------------------------------
________________
॥श्रीः॥ परिशिष्टम् -७ पारिभाषिकशब्दावली
८०
|२५.
१०७
क्रमसं० शब्दाः
पृ० सं० | क्रमसं० शब्दाः पृ० सं० १. अकथितम्
|२१. अभिनिष्टानः ___ २२० अकर्मकत्वम्
| २२. अभिव्यापकः ५८, ६३ अकीर्तितम्
अभिहितकर्ता १०५ अङ्कः
२४. अवच्छेदकम् अजहत्स्वार्था वृत्तिः २५६ अव्ययम् १३,१६,४७५ अधिकरणत्वम् ६४ अव्ययीभावः १,३५८ अधिकरणम् ५७, ५८, ६५ आख्यातम् ७२,२५०,५२३ अध्येषणकारकम् १०९ आत्मनेभाषः २६८ अध्येषणम्
आमन्त्रणम् १२७ अनभिहितकर्ता
इतरेतरयोगः ३५२,३५३ अनिराकरणम्
ईप्सिततमम् ७२ अनुमतिः
उत्पत्त्यनुकूलकृतिः अनुयोगित्वम् ७९ उद्देश्यत्वम् १४. अनुवादः ३६८, ३७१ ३४. उपचारः १५. अनुस्वारः
२१२ ३५. उपपदविभक्तिः १५८ अन्यपूर्वकम् ७२ |३६. उपसर्गाः १४,२६० अन्वाचयः ३५२ |३७. एकार्थीभावः २५५,२६३ अपत्यम्
४२३ |३८. औदासीन्येन यत् प्राप्यम् ७२ अपादानम् २८, ३८, ३९ |३९. औपचारिकः २०. अपायः
३०/४०. औपश्लेषिकः ५८, ६३
१०५
८२
१३.
| ३३.
४४४
१६.
१७.
Page #755
--------------------------------------------------------------------------
________________
४१.
करणता.
४२. करणत्वम्
४३.
करणम्
४४.
करणविवक्षा
कर्ता
४५.
४६.
४७. कर्तृत्वम्
४८.
४९.
५०.
५१.
५२. कर्मत्वम्
५३.
५४.
५५. कर्मलक्षणम्
५६.
कारकम्
५७.
कारकविभक्तिः
५८.
५९.
६०.
६१.
६२. गौणमुख्ययोर्मुख्ये
कार्यसंप्रत्ययः
जहत्स्वार्था वृत्तिः
जातिः
कर्तुरनीप्सितम्
कर्त्रधीनं करणम्
कर्म
कर्मकर्ता
कर्म त्रिविधम्
कर्मधारयः
कर्मप्रवचनीयाः
काल:
केवलकर्ता
गोत्रम्
गौणकर्म
६३.
६४.
६५. झल्प्रत्याहार
६६. तद्धितवृत्तौ
परिशिष्टम् - ७
१७१ | ६७.
१०९ | ६८.
६६, ७० ६९.
७८ ७०.
१०२ ७१.
७२ ७२.
१०२, १०५ ७३.
१७२ ७४.
७६
१०५ ७५.
७७ ७६.
७५, ७७, ८० ७७.
२८५ ७८.
१४७ ७९.
७९ (0.
१२, १६ ८१.
१५८ ८२.
१०४ ८३.
१०५ | ८४.
४२३ ८५.
९१ ८६.
८७.
१,२ ८८.
२५६ ८९.
४७३ ९०.
२११ | ९१.
२०३
९२.
तद्धिताः
तत्पुरुषः
दर्शः
द्रव्यम्
द्वन्द्वः
द्विगुः
द्वितीया
धातोस्तदर्थातिशयेन
योगः
धुट्
नदादिराकृतिगणः
निर्वर्त्यत्वम्
निर्वर्त्यम्
नैमित्तिकः
पदम्
परस्मैपदम्
परस्मैभाषः
१८. ३६९, ४१६
३२६, ३४३
३६९
१६८
२६०, ३५१
४, ३७६
९९
प्रथमा
प्राप्यत्वम्
प्राप्यम्
प्रेरणा
७१३
प्रेषणकारकम्
प्रेषणम्
बहुव्रीहिः
४११
२११
२३६
८४
७२,७७, ८८
६६
१२
२६८
पुरुष :
२३२
प्रकृत्युच्छेदसंभूतम् ७३, ७७
प्रतियोगित्वम्
७९
९९, ११४
९८
७७
५६
१०९
१०७
१९९, ३४३
७२, ७३,
१६
Page #756
--------------------------------------------------------------------------
________________
७१४
४१५
९७.
११
२४२
२१८
२१५
४११
कातन्वव्याकरणम् ९३. भावः ४७२, ४७३ | १२०. वैषयिकः
५८,६३ ९४. मध्यमपदलोपी समासः १६६ | १२१. व्यधिकरणत्वम् १७८ ९५. युक्तम्
२५४ | १२२. व्यपदेशान्तरनिमित्तम् ७७ ९६. येन विधिस्तदन्तस्य | १२३. व्याकरणम् लिङ्गम्
१२४. व्याप्तिः ९८. लिङ्गार्थवचने
१२५. व्याप्तिरेव श्रेयसी १७९ ९९. लुक्
१२६. व्याप्यत्वम्
८१ १००. लोपः ५३३ /१२७. संख्या
१०४ १०१. वंशः
35२ | १२८. संज्ञान्तरैरनाख्यातम् ७२ १०२. वयः
१२९. संप्रदानम् ४५,५३,५६ १०३. वर्ग:
१३०. संप्रदानादयः संज्ञाः ५६ १०४. वर्गान्तः
१३१. संप्रसारणम्
४०५ १०५. वर्णनाशः
१३२. संबन्धमात्रविवक्षायाम् १६६
१०९ १०६. वर्णविकारः
१३३. समर्थाचरणकारकम् ४११
१३४. समानलिङ्गत्वम् १७८ १०७. वर्णविपर्ययः
१३५. समानविभक्तित्वम् १०८. वर्णागमः
१७८
१३६. समानाधिकरणत्वम् १७८ १०९. वाक्यम् २५४,२५५,३०१
१३७. समासः
२५४ ११०. वाक्यसंज्ञा
१३८. समाहारः ३५२, ३५३, ३७६ १११. विकरणः
१३९. समुच्चयः ३५२, ३५३ ११२. विकार्यम् ७२, ७७, ८५, ८६
१४०. सामीपिकः
५८, ६४ ११३. विभक्तयः १९०, २५६
१४१. स्त्री
२३२ ११४. विभक्तिः १, १२,६५ | १४२. स्वं रूपं शब्दस्याशब्दसंज्ञा ३ ११५. विभाषा
१४३. स्वतन्त्रत्वम् १०४ ११६. विशेषणत्वम्
१४४. हेतुः
१७१ ११७. विशेष्यत्वम्
१४५. हेतुकर्ता
१०५ ११८. विसर्जनीयस्य २२० | १४६. हेतुत्वम्
१०९ ११९. वृत्तिः १९६, २५६ | १४७. हेत्वधीनः कर्ता १७२
४११
४११
१७६
Page #757
--------------------------------------------------------------------------
________________
॥श्रीः॥ परिशिष्टम् -८ विशिष्टशब्द-वचनसूची
पृ० सं०
४७९
२.
३२७
»
3
५२७
;
३१
क्रमसं० शब्दाः पृ० सं० क्रमसं० शब्दाः १. अकर्मकः
| २०. अतिशायने अकर्मकता
| २१. अत्यन्तसंयोगः ३. अकर्मकत्वप्रतिपत्त्यर्थम् ९६ / २२. अत्युपवधूः
अकर्मकत्वम् ८८ | २३. अत्रयः अग्निवेशः
अत्र्यादिराकृतिगणः ४३०-३२ अङ्गिरसः
अदन्तता अगुल्यग्रे करिणां
अदर्शनम् शतम्
५८, ६४ | २७. अद्वैतवादिनो मते ४४५ अज्ञसंज्ञानहेतुना १८९, ४८६ / २८. अधर्मः
२९ ९. अज्ञानम्
१९२ | २९. अधिकरणम् अज्ञानविजृम्भितमेव २८३ ३०. अधिकारस्येष्टत्वात् ११ ११. अतिक्रमणम्
|३१. अधिकार्थवचनम् ३२८ १२. अतिदेशाः २८१ ३२. अधिश्रयणादिः ६० १३. अतिदेशावकाशः २८४ | ३३. अधीती व्याकरणे १२९, १३०
अतिदेशोऽयम् २८० ३४. अध्ययनम् ३१ १५. अतिप्रसङ्गः
३५. अध्यापयति माणवकं वेदम्७५ अतिरिक्तपदार्थः | ३६. अध्यारोपितार्थः ३२८ १७. अतिविदुषी २३५ | ३७. अनर्थकम् १९२ १८. अतिव्याप्तिः १५,३४,४४५ ३८. अनिराकर्तृ १९. अतिशयः १०२ | ३९. अनिर्दिष्टार्थाः प्रत्ययाः १०५
* °
१४.
१६.
आता
Page #758
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
४०.
११३
१७९
६७.
२८१
३२१
२१५ ।
अनुकर्षणार्थः ५२५ / ६३. अन्तर्वर्तिविभक्त्याश्रयणेन २११ ४१. अनुगङ्गं वाराणसी ३६१ ६४. अन्येऽपि कृतादयः अनुग्रहः
५१ प्रयोगगम्याः । २९१ अनुज्ञाम्
२०५ / ६५. अन्योऽन्यसन्देहे ४४. अनुमन्त
| ६६.
अन्वर्थबलम् ५२ ४५. अनुवर्तनार्थम्
अन्वर्थसंज्ञा ९, १४६ ४६. अनुवृत्तिः ८,११,१७९ | ६८. अन्वर्थसंज्ञाबलात् ३६८ ४७. अनुवृत्तिफलम् ३९९ ६९. अन्वयव्यतिरेकाभ्याम् ४८. अनुषङ्गलोपः
११९,१२१, १२३, १७१ ४९. अनुषङ्गलोपात् २३७ ७०. अन्वाचयः
३५१ ५०. अनुष्टुब्बन्धेन
७१. अन्वाचयशिष्टः ३९१ अनुस्वारः __ २१५ / ७२. अपत्यम्
४१४ ५२. अनेकव्यक्त्याधारा
अपपाठः
३०३ हि जातिः ४७४ ७४. अपप्रयोगः ९४, १२१, ५३. अनेकार्थत्वाद्
___ २०२, २०३, ३४७ धातूनाम् १७७, ४५३ /७५. अपरं दर्शनम् ११७ ५४. अनेकार्थवाचकः ११७ |७६. अपवादः २०२, ५४६ ५५. अनेकार्थस्याभिधायकः ११७ ७७. अपव्याख्यानम् २४
अनेकार्थाभिधानम् ११७ |७८. अपश्चिमे वयसि अन्तरङ्गम् ६६,६७,६९,१६१ |७९. अपाय: अन्तरेण पुरुषकारम् १४२ / ८०. अपायसिद्धिः अन्तर्द्धिः ३१, ३८ ८१. अपूर्वोत्पत्तिः अन्धका वंश्याख्याः ४३३ | ८२. अपेक्षितक्रियापादानम्
४४३ ८३. अपौराणिकः ६२. अन्तर्वर्तिनीं विभक्ति
अप्रधानम् माश्रित्य २२८,५३८ | ८५. अप्रधानविवक्षा १६७
७३.
६१.
अन्नम्
१५३
Page #759
--------------------------------------------------------------------------
________________
८९.
९०
३४१
परिशिष्टम्-८ ८६. अप्राप्यकारीणि इन्द्रियाणि ३० | १०९. अभेदोपचारवृत्तेः ४४८ ८७. अबुधबोधनाय २५४ | ११०. अभेदोपचारवृत्तौ ४८२ ८८. अभावो बहुविधः ३५९ / १११. अभेदोपचाग्म्य २३६
अभिख्या नामशोभयोः ४७५ | ११२. अभेदोपचारात् ११५,२४५, १०. अभिधानमेवाश्रयः २९८,
३०४,४०४,४४१ ३२८, ४८२ | ११३. अभ्यर्थनम् ९१. अभिधानम् १९, २४, ४३४ | ११४. अभ्यर्हितम् ३४१ ९२. अभिधानलक्षणा हि ११५. अभ्युपगमवादेन कृत्तद्धितसमासाः २५८, ४२३ | ११६. अमृतम्
३६९ ९३. अभिधानव्यवस्था ३७१,३७४ | ११७. अयमभिप्रायः ३०६, ३४० ९४. अभिधानसंबन्धः १६३ ११८. अयमर्थः ४३, ५१, ५२, ९५. अभिधानसामर्थ्यम् २९३ ५३, ५४, ५५, ९२, ९६,
अभिधेयवादी २३३ १२३,१७३,१९५,३१४,४२८ अभिविधिरपि
|११९. अयमाशयः ५४, १२३, मर्यादाविशेषः
२६१,३२१,३८४,३८९ ९८. अभिव्यक्तिः
| १२०. अयमेवार्थः २७२ ९९. अभिव्याप्तिः ५९,१०३ | १२१. अरण्याद् बिभेति ३० १००. अभिसंबन्धः २३ | १२२. अर्चितम् १०१. अभूतप्रादुर्भावलक्षणा ___ ७२ | १२३. अर्जुनः कार्तवीर्यः ३०३ १०२. अभेदविवक्षया ११७ | १२४. अर्जुनस्य तुला नास्ति १७८ १०३. अभेदविवक्षा ४३९ १२५. अर्थः १०४. अभेदविवक्षापि १२५ /१२६. अर्थगतिः ३०२,३१७ १०५. अभेदविवक्षायाम् ११५,२०० | १२७. अर्थपरो निर्देशः १४०,१६४ १०६. अभेदैकत्वम् २५५ /१२८. अर्थप्रतिपत्तिलाघवस्य ३०२ १०७. अभेदैकत्वसंख्या २५५ | १२९. अर्थप्रधानत्वान्निर्देशस्य ४५१ १०८. अभेदोपचारः १९,४५६ | १३०. अर्थलाघवम्
९६.
२७
१३७
३५७
१२८
Page #760
--------------------------------------------------------------------------
________________
७१८
३९१ ।
३५४
५८
५४९
कातन्त्रप्याकरणम् १३१. अर्थसङ्गतिः ४४६ | १५३. अवर्णः कण्ठ्यः १३२. अर्थात्मा
| सर्वमुखस्थानम् १३३. अर्थाश्चानन्ताः ११७ | १५४. अवस्थान्तरपदेन १३४. अर्पणम्
१५५. अवस्थान्तरप्राप्तिः १३५. अलम्
१५८ /१५६. अविनाशः १३६. अलुक्समासाः
१५७. अविनीतपौरवं गां याचते ९० १३७. अल्पविवक्षा
१५८. अविभक्तिनिर्देशः ५०२
१५९. अव्ययसंज्ञा ११ १३८. अल्पस्वरतरम्
१६०. अव्ययानामनेकार्थत्वात् ५२८ १३९. अवच्छेदः
१६१. अव्याप्तिः
८४ १४०. अवधिः
१६२. अव्युत्पत्तिपक्षे १४१. अवधित्वम्
१६३. अव्युत्पन्नपक्षे ५४८ १४२. अवधिभावाशङ्का
१६४. असंख्यम् १२, १५ १४३. अवधिमत्ताप्रतीतिः
१४०
| १६५. असूया ४७, ५५ १४४. अवधिविवक्षा
९१ | १६६. असोढः १४५. अवयवः १७३,५४४ | १६७. अस्मन्मतम् १४६. अवयवधर्मेण समुदायो
१६८. अस्माकं मते व्यपदिश्यते २९९ | १६९. अस्यायमर्थः ४९, ६३, ८४, १४७. अवयवयोः
१५४ १४८. अवयववादी त्वाह ५४५ | १७०. अस्यार्थः १३३, १६६,१७६, १४९. अवयवावयवोऽपि
१८२, १९३,१९४, समासस्यावयवः ५२७
२६२, ३०७, ३०८, १५०. अवयवी
३१०, ३११,३१३, १५१. अवयवेऽपि अवयवी
३१७, ३१९,३३८, विद्यते
३४५, ३४८, ३७२, १५२. अवरोहणम्
४१६,४४४
५४५
Page #761
--------------------------------------------------------------------------
________________
४९५
८३
परिशिष्टम् -८
७१९ १७१. अस्युद्यतः २५६ | १९६. आदिशब्दः समीपवचनः ५४४ १७२. अहिं लङ्घयति ७१ | १९७. आदिशब्दं तु ५४४ १७३. अक्षरम्
३९६ | १९८. आदिशब्दस्य १७४. अक्षरविपर्ययः ३९६ व्यवस्थावाचित्वात् १७५. अक्षान् दीव्यति. ७१ | १९९. आदेशवादी
५०१ १७६. अक्षैर्दीव्यति ७१, ७८ / २००. आद्यक्षणत्वम् १७७. आकाङ्क्षा १४४ २०१. आद्यक्षणसंबन्धः १७८. आकाङ्क्षायां ग्रामः १४४ | २०२. आपिशलीयश्लोकः ५४४ १७९. आकाङ्क्षायाः फलवत् ० १६८ २०३. आधारः ५७, १८६ १८०. आकृतिगणः १८/२०४. आधाराधेयभावः २१९, ३०२ १८१. आकृतिगणत्वात् २३३ / २०५. आनुपूर्व्यम् ३१९ १८२. आकृतिगणश्चायम् ___२९७ | २०६. आनुपूर्येण ३५५ १८३. आकृतिगणोऽयम् ४३८ | २०७. आभ्यन्तरम् ६८ १८४. आकृतिग्रहणा जातिः ३८७ | २०८. आमन्त्रणार्थे १८५. आकृतिप्रधानत्वम् २० २०९. आम्नायः
२० १८६. आक्रान्तपथप्रतिषेधः १५४ २१०. आलापयति मित्रं छात्रः ७५ १८७. आख्यातं क्रियाप्रधानम् २८, २११. आशङ्का २१७
३०,३५,३७,७२ | २१२. आशयति माणवकमोदनम् ७५ १८८. आङ्गिरसी १९ २१३. आशीविवक्षा १८९. आचारतः ५०५ /२१४. आश्रयः १९०. आचार्यपारम्पर्यात् २४४ | २१५. आश्रयज्ञानम् ३०७ १९१. आचार्याः ४१५ / २१६. आहरणक्रियाभिसंबन्धात् १६५ १९२. आत्मभावसंपत्तिः ३६२ /२१७. इच्छा
१०३ १९३. आदित्यं पश्यति ७१, ७३ | २१८. इतरेतरयोगः ३५१, ३६८ १९४. आदित्यायाय॑ ददाति ५१ /२१९. इतरेतराश्रयदोषः २८, १०५ १९५. आदिपुरुषाः ४२२ २२०. इत्थम्भूतः १७६
१२०
१५८
२८८
Page #762
--------------------------------------------------------------------------
________________
७२०
कातन्त्रव्याकरणम्
२२१. इन्द्रियाणि प्राप्यकारीणि च ३० २४५. उन्मत्तगङ्गम् २२२. ईप्सितः ४४, ५६ २४६. उपकर्तृ २२३. ईप्सिततमः ११४ |२४७. उपकारः २२४. ईप्सितम्
४१ २४८. उपकाराः २२५. ईर्ष्या
५५ /२४९. उपकारिका क्रिया २२६. ईश्वरः
१८४ २५०. उपकार्यं फलम् २२७. ईश्वरशब्दो धर्मवचनः १५१ |२५१. उपकुम्भीभवति २२८. ईषदर्थे ४०० २५२. उपखार्यां द्रोणः ८७, १४६ २२९. उक्तार्थानामपि प्रयोगो २५३. उपगङ्गम् दृष्टः
११६ |२५४. उपघातनिवृत्तिः २९, ३२ २३०. उक्तार्थानामप्रयोगः ७४ /२५५. उपचरितः ३५८ २३१. उच्चारणार्थः ५११, ५२२, २५६. उपचारः २३०, ५२४
___ ५२३, ५२७, ५३० २५७. उपचारनिवृत्त्यर्थम् ५२४ २३२. उच्चैहाः १५ २५८. उपचारात् ५८, ६८, ४१४ २३३. उत्कर्षाधानम् ४४९ /२५९. उपमानोपमेयभावः ३८२ २३४. उत्तमर्णः ५५, ५६ /२६०. उपयोगः । २३५. उत्तरदेशावष्टम्भः २९ २६१. उपलक्षणमात्रम् २३६. उत्तरार्थम् ४९२ /२६२. उपलक्षणम् २३७. उत्तरेण हिमवन्तम् १४५ / २६३. उपवधु २३८. उत्पत्तिः
८३ | २६४. उपवधुम्मन्यः २३९. उत्पादना क्रिया |२६५. उपश्लेषः २४०. उत्सर्गविधिः १७० | २६६. उपसंख्यानम् २४१. उदाहरणप्रपञ्चः
२६७. उपाग्निकम् २४२. उदाहरणभूयस्त्वम् २९६ / २६८. उपात्तविषयः २४३. उद्देश्यविधेयभावः ७/२६९. उपाध्यायवंशः २४४. उद्यतासिः
३५६ |२७०. उपायस्कारः
२२१
३८
Page #763
--------------------------------------------------------------------------
________________
७२१
११७
२६१
४६९
९४ ९५
परिशिष्टम् -८ २७१. उपायाः २३४, २५४, २६३ | २९५. एकवच्चान्यतरस्याम् ११८ २७२. उभयगतसहभावः १६७ | २९६. एकवाक्यता १६, १२० २७३. उभयथा प्रयोगः १५९ २९७. एकवाक्यतापक्षः १५, १६ २७४. उभयप्राप्तिः ३४, ४२, ४४ | २९८. एकवाक्यताव्यवहारः १२० २७५. उभयप्राप्तौ २०४, ५०५ /२९९. एकशब्दसान्निध्यात् ११७ २७६. उभयप्रामाण्यात् १५१ | ३००. एकशेषः २७७. उभयप्रामाण्याद् विकल्पः ३०१. एकादशेऽह्नि पिता सिद्धः
१५० नाम कुर्यात् २७८. उभयसंज्ञाफलम् | ३०२. एकाधिकरणम् २७९. उभयसंज्ञासमावेशः | ३०३. एतदनुसंधानेनैव १७४ २८०. उर्वाः
|३०४. एतदर्थानुसंधानेनैव १७६ २८१. ऋद्धिश्च द्विधा ३६२ ३०५. एते गर्गादयः प्रसिद्धाः ४२२ २८२. ऋद्ध्यर्थः
३०६. ओदनं पचति ७१ २८३. ऋषिः
२६३ |३०७. ओषधिरसाः २५५ २८४. ऋषिनामानि
३०८. ओषध्यः फलपाकान्ताः २२९ २८५. ऋषिवचनः ४२७ | ३०९. औत्सर्गिकम् २८६. ऋषिवचनेषु ४८८, ४८९ | ३१०. औदासीन्यम् ___३५ २८७. एककुलत्वहेतुः २४ ३११. औदुम्बरः २८८. एकक्रियान्वयित्वम् ३५३ | ३१२. औदुम्बरिः २८९. एकता
७४
३१३. औपम्यम् २९०. एकदेशविकृतन्यायः ३ |३१४. कटं करोति ७१ २९१. एकदेशविकृतस्यानन्य- ३१५. कट आस्ते ५८, ५९ वद्भावात्
|३१६. कटादिसंबन्धः २०३ २९२. एकपदप्रस्तावात् २१३, २१४ | ३१७. कटे शेते कुमारोऽसौ ६४ २९३. एकरूपतापत्तिः १०१ ३१८. कडारजैमिनिः २९४. एकवचनम्
१२ | ३१९. कन्यामलंकरिष्णुः १५८
१९
१७८
३५६
Page #764
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
३२०. कन्याम्
४८८ | ३४६. कलिङ्गाः
३२१. करणत्वादिसंभव:
१०२ | ३४७. कल्कांश:
३२२. करणविवक्षा ७१,१५३,१८१ ३४८. कांस्यपात्री
५६ | ३४९. कातन्त्रसम्प्रदायः
१०६ ३५०.
१०६ ३५१. कायकृतव्यापारः १०४ | ३५२.
७२२
३२३. कर्ता
३२४. कर्ता पञ्चविधः प्रोक्तः
३२५. कर्ता यश्च करोति सः
३२६. कर्तृता ३२७. कर्तृनिबन्धनम् ३२८. कर्तृव्यापारविषयम्
३२९. कर्तृसाधनः
३३०. कर्मता
३३१. कर्म त्रिविधम्
३३२. कर्म द्विविधम्
३३३. कर्म द्वेधा
३३४. कर्म धातुः
३३५. कर्मधारयः सप्तधा
३३६. कर्मप्रवचनीयः
३३७. कर्मप्रवचनीयता
३३८. कर्मप्रवचनीयत्वम्
३३९. कर्मप्रवचनीयत्वात्
३४०. कर्मप्रवचनीयसंज्ञा
३४१. कर्मविवक्षा
३४२.
कर्मसंयोगे
३४३. कर्मसाधनः
३४४. कर्मादिकम्
३४५. कर्मादिशक्तयः
१८
६५
११४
१०३
५१
१५३
कारकं हि क्रियानिमित्तम् ३२
काम्या
६९ | ३५३. कारकत्वम् ६९ | ३५४.
१४८ ३५५. कारकपादः
६
कारकत्वविवक्षायामपि १५९
१
७४ ३५६. कारकम्
२
७२ | ३५७. कारकविभक्तिः
२०२
४२ ३५८. कारकविभक्तेर्बलीयस्त्वात् १५९
८५ | ३५९.
५८
८१ ३६०. कारणम्
३७७
३१८
३५९
१४२
१३६
१४३
१४७
४८
१३५
१४८
११६
११५
कारकाणि क्रियापेक्षाणि
३६१. कारवः शिल्पिनो
रजकादयः
३७२
३६२. कारशब्दः
२४८, २४९
३६३. कार्यिणा हन्यते कार्यौ१०, १७९
३६४. कार्योत्पादकत्वम्
६९
३६५. कालः
१८३, ४३८
३६६. कालाध्वभावाः
७८
३६७. काशाः कटः क्रियन्ते
८७
३६८. काष्ठं भस्म करोति ७२,८४
३६९. किंव्याख्यानमेतत्
१७०
३७०. कुक्कुटीति दाम्भिकानां
चेष्टोच्यते
४५२
Page #765
--------------------------------------------------------------------------
________________
परिशिष्टम् - ८
४२६ | ३९७. क्रियाधारः १७४,२४३,४१५ | ३९८. क्रियाधारभूतत्वम् क्रियानिमित्तं कारकम्
२६ | ३९९.
१४२ | ४००
क्रियानिमित्तत्वम्
१३१ | ४०१.
क्रियानिष्पत्तिकारणम्
२४ ४०२. क्रियाप्रधाना अव्ययाः
३७१. कुञ्चादिराकृतिगणः
३७२. कुत्सा
३७३. कुत्साः
३७४. कुत्सावचनः
३७५. कुलचन्द्रसम्मतम्
३७६. कुलसम्बन्धः
३७७. कुशलः क्रियानिष्पादक: ४६१ ४०३. क्रियाफलम्
३७८. कुह
५१० ४०४.
क्रियावचनः
३७९. कृतपूर्वी कटम्
३६, २०१ | ४०५.
३८०. कृतिः
१०३ | ४०६.
३८१. कृतो योग्यतायां शक्तिः १०६ | ४०७. क्रियाव्यापारः
३८२. कृद्ग्रहणम्
३८३. कृल्लक्षणषष्ठी
३८४. केचित्
३८५. केशवस्योपमा न च
केशवेशः
३८६.
३८७. कोप:
३८८. कोपम्
३८९. कोपसामान्यम्
३९०. कौक्कुटिकः
३९१. कौमाराः
३९२. कौशलमात्रम्
क्रियाविशेषणम्
क्रियाव्यतीहारः
२०५ ४०८. क्रियाव्याप्यस्यैव कर्मत्व
१५४
निश्चयात्
२४ | ४०९. क्रियासंबन्धः
१७८ ४१०. क्रियासंबन्धमात्रम्
२३७ | ४११. क्रियासामान्यवचनः क्रियासाम्यम्
४९, ५५, ५६ | ४१२.
४३४ ४१३. क्रीतादेराकृतिगणत्वात्
४९ |४१४. क्रोधः
४५२ | ४१५.
२७४ | ४१६. क्वचिज्जातिः
क्रोशं कुटिला नदी
४५१ ४१७. क्वचिदनियमः
३९३. क्रमः
३९७ ४१८.
३९४. क्रिया
५९, १०३ | ४१९.
८९ ४२० .
३९५. क्रियाजनकं कारकम् ३९६. क्रियाजन्यफलभागित्वम् ७९ | ४२१.
क्वचिदुपमयाक्षेपः
६१
६४
१०७
२,६
६६
१४३
८३, ८४
१४७
७, ८१
१०
७२
क्वचिद् वाक्यमेव
क्वचिद् विपर्ययः
क्वचिद् व्यक्तिः .
७२३
१५०
१६८
२८
८२
४६८
४५४
५५
७१
१२४
३५५
३३२
३२६
३५५
१२४
Page #766
--------------------------------------------------------------------------
________________
७२४
कातन्त्रव्याकरणम्
२५
१५
१११
३६
४१५
४२२. खण्डनपक्षः
४|४४७. गार्यभार्या ४२३. खारीमधिरूढो द्रोणः ८७ | ४४८. गुणकर्मणि लादिविधिः ७६ ४२४. गङ्गायां घोषः
४४९. गुणवचनाः १७४ ४२५. गङ्गासमीपो देशो गङ्गा ६०/४५०. गुणवृत्तिः ४२६. गणकृतमनित्यम् २०६ |४५१. गुणशक्तिः २०४ ४२७. गणपरिग्रहार्थम् ४२८४५२. गुणशक्तिरभिहितवत् ४२८. गणप्रपञ्चार्थम् ४५४, ४५६ | प्रकाशते ४२९. गणसंज्ञायाम् १६० ४५३. गुणाः
३०८ ४३०. गणसूत्राणि २४२ | ४५४. गुणान्तराधानम् १९७ ४३१. गन्धमनुभवति ७३ / ४५५. गुणीभूतादिक्रिया ४३२. गमयति ग्रामं माणवकम् ७५ | ४५६. गुरवे गां ददाति ४३३. गम्यमानक्रियायोगात् १६५ ४५७. गुरुः ४३४. गरीयसी २४०, २४९ | ४५८. गुरुकारणम् १७८ ४३५. गर्गकुलम्
२२ ४५९. गुरुवद् गुरुपुत्रेऽप्युपचारः२२६ ४३६. गर्गकुलसंबन्धः २५ ४६०. गुरुसंज्ञा ४३७. गर्गभार्या
|४६१. गोतमाः ४३८. गर्गाः
२२ ४६२. गोत्रम् ४३९. गर्गादयः
१८ |४६३. गोत्रेण गार्यः ४४०. गर्गादिः
२२ ४६४. गोपवनादिः ४४१. गर्गादिराकृतिगणोऽयम् ४२१- ४६५. गोप्रकाण्डम् २९२
२३ / ४६६. गौणमुख्यन्यायः । ४४२. गदिराकृतिगणत्वात् ५३६ ४६७. गौणत्वम् ४३.१११ ४४३. गर्दभी
३४३ | ४६८. गौणमुख्यव्यवहारः ५, ६१ ४४४. गले बद्ध्वा गौर्नीयते ६२ ४६९. गौरवम् ४,५१,२६३,५१५ ४४५. गां दोग्धि पयः ७१, ९१ |४७०. गौरुतल्पिकः ४४६. गार्यकुलम् २२ ४७१. गौर्वाहिकः
११२
४५२
२५
Page #767
--------------------------------------------------------------------------
________________
पचनः
२३८
११७
२८८
परिशिष्टम् -८ ४७२. ग्रन्थगौरवभयात् ३१५ | ४९७. जातिः २३२, ३८०, ४७४ ४७३. ग्रन्थाधिक्येऽर्थाधिक्यम् १६३ | ४९८. जातिवचनः ४७४. घटम् उपलभते ७३ | ४९९. जातिवचनत्वम् ४७५. चकारकरणम् १७९ | ५००. जातिसंबन्धभेदात् ४७६. चकारानुवर्तनात् १५९ | ५०१. जातेरेकत्वात् ११६ ४७७. चर्मणि द्वीपिनं हन्ति १३५ | ५०२. जायमानः ३९१ ४७८. चक्षुःप्रेरणम्
| ५०३. जुगुप्सा ४७९. चक्षूरश्मयः ७३ | ५०४. जैमिनिकडारः ३५६ ४८०. चादयः
१२ | ५०५. ज्ञानं हि द्विविधम् ३०१ ४८१. चिकीर्षा १०३, २०२ | ५०६. ज्ञापकानि ३९४, ४९२ ४८२. चिन्त्यमन्यत् सुधीभिः १२४ | ५०७. ज्ञापनम् ४८३. चिरन्तनः
९३ | ५०८. ज्ञीप्यमानः ४८, ५५ ४८४. चेष्टा १०३, १५३ | ५०९. टीकापङ्क्तिः ४८५. चेष्टाग्रहणम् १५३ | ५१०. टीकाहृदयम् १८६. चेतनावन्तः सर्वे भावाः ७६ | ५११. तत्र ४८७. चेद्यधु दक्षिणं मेरोः २८६ | ५१२. . तदन्तप्रतिपत्त्यर्थम् २५१ ४८८. चैत्रेण कृतम् १०० | ५१३. तदन्तविधिः १,२,५,२१२, ४८९. छन्दस्येव ५१०
४०३ ४९०. छन्दोऽर्थम् ५१५, ५२१, ५१४. तद्धितप्रयोगे मा भूत् २०१
५२३, ५२९ | ५१५. तद्धितवृत्त्या समासवृत्ति४९१. छात्राय क्रुध्यति ५७ बर्बाध्यते ४१५, ४१७ ४९२. छात्राय तिष्ठते कुमारी ५७ | ५१६. तद्वितानामाकृति४९३. छात्राय श्लाघते ५७/ प्रधानत्वात्
४७७ ४९४, छात्रेण हन्यते १०० | ५१७. तद्धितोत्पत्तिः ४९५. जनपदः
१८ | ५१८. तद्धितोत्पत्तिपक्षः ६ ४९६. जनपदो हि देशः ३७२ | ५१९. तर्काचार्यस्यापि मतमेतत् १६०
४३
४८५
५०८
२६२
Page #768
--------------------------------------------------------------------------
________________
७२६
कातन्त्रव्याकरणम्
५२०. ताच्छील्ये
२५७ ५४५. त्रैलोक्यराज्यमपि
१५६
१२१ ५४६ . त्वं मासं कर्म करिष्यसि ६६
५२१. तात्पर्यम् ५२२. तादर्ध्यचतुर्थी
४५, ४७५४७. ददातिः
५१
५२३. तादर्ध्यचतुर्थ्या सिद्धम्
१६५ ५४८. दर्शनम्
२५७
२९५ | ५४९.
दक्षिणेन ग्रामम्
१४५
५२४. तादर्थ्यम् ४९, ५६, ५२५. तादर्ध्यविवक्षयैव १६० | ५५०. ५२६. तादर्थ्यविवक्षा ४७, ४८, १५३, ५५१.
दात्रेण धान्यं लुनाति ६६,७१
दानम्
५२
१६४, १६६ ५५२. दायादः
१८४
दिक्
_३७,२८३,३०३
१७९ | ५५३. १६४ ५५४. दिङ्मात्रमिह दर्शितम् ४१६
१६६ ५५५. दित्सा
५६, ५७
११७ ५५६. दिवि देवाः
५८, ५९
१२३ | ५५७. दुःखहेतु:
२९
३२७ ५५८. दूषणम्
५२
१५५ ५५९. दूषणान्तरम्
११२
५८,५९,६४ / ५६०. दृष्टपरिकल्पनावशात् १७७
६३
४७३
५१
४१८
८०
५२७. तादर्ध्यविवक्षायाम्
५२८. तादर्थ्ये
५२९. तादर्थ्ये चतुर्थी ५३०. तारकाणां भेदविवक्षा
५३१. तावन्मात्रविवक्षया
५३२. तिरस्कारार्थम्
५३३. तिरस्कारावगमः
५३४. तिलेषु तैलम् ५३५. तुल्याधिकरणता
५३६. तुल्याधिकरणत्वम् २८८,२९३ ५६२. ५३७. तुष्यत्तु वा दुर्जनः ५३८. तेनायमर्थः
५३९. त्यागः
५४०. त्यागकारणम् ५४१. त्याद्यन्तप्रयोगेष्वेव
५४२. त्रिफला
५४३. त्रिमुनि
५४४. त्रिविधमेतत् कर्म
२८७ ५६१. दृष्टादृष्टपरमाणवः
देवता
३७ | ५६३. देवतायै पुष्पं ददाति ६९ ५६४. देवदत्तस्य गुरुकुलम् ५३ ५६५.
देवदत्तो ग्रामं गच्छति
५१, १६६ | ५६६.
१९१
३२४ | ५६७.
देश इह जनपदाध्यासितो
गृह्यते
देशान्तरप्रापणम्
३६९
४५५
४८
९ ५६८. दैवज्ञः
७४ | ५६९. दैवपर्यालोचनम् ४७,४८,५५
Page #769
--------------------------------------------------------------------------
________________
५७०. दोषाः
५७१ . दोषाशङ्का
५७२. द्यावापृथिव्यौ
५७३. द्यूतम् ५७४. द्योतकाः
५७५. द्रव्यम् ५७६. द्रव्यवचनानाम्ं
५७७. द्रव्यात्मा ५७८. द्रव्यादिस्वरूपोऽर्थः ५७९. द्रोह :
५८०. द्विगुराभाषितो द्विधा
५८१. द्विगुस्त्रिविधो मतः
५८२. द्वितीयं वयः
५८३. द्वितीयपक्षे
५८४. द्विद्रोणेन धान्यं
क्रीणाति
५९०. द्व्यङ्गविकलता
५९१. द्व्यङ्ग्ङ्गवैकल्यम्
५९२. धनक्रीता
५९३. धनपतिगृहात् ५९४. धर्मम्
परिशिष्टम् - ८
३०८ ५९५. धर्माः
३७ ५९६.
३९२ | ५९७.
३६० | ५९८.
२३४
१९६
४५१
४५१
१२,१७ ५९९. धातुवाच्यव्यापारः
१००
११६, १६८ ६००. धातूनामनेकार्थत्वम् ५०,५३
१९८ | ६०१. धातूनामनेकार्थत्वात्
८८
२८८ ६०२. धात्वर्थः
६२
३७
३५
८८
५८५. द्विपदनियमार्थता
५८६. द्विमुनि
५८७. द्वियमुनम्
५८८. द्विवचनम्
५८९. द्विविधा हि समुदायाः
धर्मान्तरम्
धर्मिणी क्रिया
धर्मो हि शिल्पम्
१२४ | ६०३. ध्रुवः
५५ | ६०४. ध्रुवम्
३२४ | ६०५.
३२४ | ६०६.
२४१ | ६०७.
८६ ६०८.
६०९.
ध्रौव्यलक्षणः
ध्वनिकृतो विशेषः
नञर्थः
नञर्थः प्रलयं गतः
नञा निर्दिष्ट
६६, ६८
मनित्यम्
४०९,४१२
३५७ ६१०. नत्रा निर्दिष्टस्यानित्यत्वात् २०९
९ | ६११. नञ् द्विविधः
३०२
८ ६१२. नदादिः
२०, २७
४९४
२४४
१२ ६१३. नदादिप्रतिपत्त्यर्थ एव ४६६ | ६१४.
नदादिराकृतिगणः
१८६ ६१५. नदादेराकृति
५
२४० | ६१६.
१४४ | ६१७.
४३४ | ६१८.
७२७
गणत्वात्
नदीतीरे प्लवो वर्धते
नपुंसकता
नपुंसकलिङ्गम्
२३१
३०१
२९४
४४९, ४९३
८०
७४
३६५
Page #770
--------------------------------------------------------------------------
________________
७२८
कातन्वयाकरणम्
२८६
४११
२८२
४८
६१९. नमस्कारः १६१ ६४१. निपातनलक्षणम् १४७ ६२०. न लोभो नाशुभा मतिः ३१० ६४२. निपाताः १४,१७ ६२१. न साध्यक्षतिः ३३७ | ६४३. निपातनस्येष्टविषयत्वात् ५२३ ६२२. न हि पदार्थः सत्तां ६४४. निमित्तनिमित्तिसंबन्धः १६१
जहाति ११५,१२५,४६९ /६४५. नियतप्रयोगा हि ६२३. न हि वाक्यं संज्ञा ३६२ केचिदव्ययाः ६२४. न हि वाक्येन संज्ञा ६४६. नियमव्याख्यानार्थम् २७७ गम्यते
३१९ ६४७. नियमार्थम् २७६ ६२५. न हीदमर्धजरतीयम् ६४८. निरन्वया संज्ञा ६२६. न ह्येकमुदाहरणम्० ४३४ | ६४९. निरिन्द्रियमधिष्ठानम् २९,३२ ६२७. नक्षत्रमालोक्य वाचो | ६५०. निरुक्तम् विसृजेत्
२२६ ६५१. निर्गलितार्थः ६२८. नक्षत्रयोगः ४४१ / ६५२. निर्णयः ६२९. नागृहीतविशेषणा बुद्धिः २८९, ६५३. निर्दिश्यमानप्रतियोगी १४०
__ २९७, ३०६, ३५५ | ६५४. निर्दिष्टविषयः ३९ ६३०. नानात्वम्
|६५५. निर्देशः ६३१. नामलिङ्गानुशासनम् २६१ | ६५६. निर्धारणे ६३२. नारायणं नमस्कृत्य१५९, ४५६ | ६५७. निर्वर्तना
१०२ ६३३. नाव्ययकृविधिः ११२ | ६५८. निष्ठाश्रयः २०२ ६३४. नास्तिकः
३१/६५९. नीलोत्पलम् ६३५. निःसन्देहार्थः
| ६६०. नैयायिकमतम् ८४ ६३६. निःसन्देहार्थम् २५, २४४ | ६६१. न्याय्यः ६३७. नित्ययोगे ४७९ ६६२. न्यूनतादूषणम् ५२९ ६३८. नित्यसमासः २९७ | ६६३. पञ्चकपक्षे ६३९. निन्दाविवक्षा ३२९/६६४. पञ्चकेन पशून् ६४०. निपातनम् ३९६, ५१६ | क्रीणाति
६६,६८
१८६
२७०
५२९
११६,१२४
Page #771
--------------------------------------------------------------------------
________________
६६५. पञ्चपूलीमानय ६६६. पञ्चवक्त्रः
६६७. पञ्चविधं निरुक्तम् ६६८: पञ्चाधिष्ठाना
वाकू
६६९. पञ्चालानामीश्वरः
६७०. पञ्जीकृतो हृदयम्
६७१. पञ्जीपङ्क्तिः
६७२. पण्डितैकः
६७३. पण्यं विक्रेयद्रव्यम्
६७४. पदमात्रे क्रियायाः
प्राधान्यम्
६७५. पदविकारः
६७६. पदसंज्ञार्थम्
६७७. पदसंस्कारकं हि
पूर्वस्मिन स एव
६८६. परमतदूषणार्थम्
परिशिष्टम् - ८
व्याकरणम्
६७८. पदसंस्कारकाले
६७९. पदार्थः पदार्थेनान्वीयते
६८०. पदार्थानतिवृत्तिः
६८१. पयः पयो जरयति ६८२. परं पूर्वेणं बाध्यते
६८३. परनिपातः
- ६८४. परनिमित्तादेशः
६८५. परनिमित्तादेशः
३ ६८७. परमतमनुसृत्य
३५६ | ६८८.
परमार्थतः
४११ | ६८९. परमार्थतः पुनरखण्डमेवैतत्
३४५,३४८ | ६९०. परमार्थतस्तु
१५१ | ६९१. परमोपकुम्भम्
१२१ ६९२. परभावना
४४ ६९३. परविधिर्बलवान् ११०,१११
४११
६९८. पराक्षेपः
१५ | ६९९. परिस्पन्दः
३०८ | ६९४. परसूत्रम् ८,३७,४९,५२, १२२
परसूत्रं न वाच्यम्
४५५
४५६ | ६९५. ६९६.
परशुश्छिनत्ति
६७
७२ | ६९७.
६७.
४४३
१५३
७००. परिस्पन्दक्रियावाचिनाम् १५२
१५३
१८३
१६०
१५८
२०२
२९४,३०२
परशौ छिनत्ति
४१५,४२१ | ७०१. परिस्पन्दवचनः
२४१ | ७०२. परिस्पन्दोपचरितः
३६ | ७०३.
३५९ |७०४.
११६ | ७०५.
११३ ७०६
पर्णतल्पम्
पर्याप्तिः
पर्यायः
७२९
पर्युदासवृत्तिः
पर्वतादवरोहति
५२५
६
३५६ | ७०७.
५३३ | ७०८.
७०९.
५४१ ७१०. पशुना रुद्रं यजते
१३३ ७११. पक्षद्वयम्
२८७
१९४
१,२,५
२७
८०
पशुं रुद्राय ददाति
६७
पशुना देयेन रुद्रं पूजयति ६७
६६,७१
२९२
Page #772
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
३२१
४८
७१२. पक्षान्तरम् ५,२०४,२२०-२१ |७३८. पूर्वपक्षः ९४,१०४,५३७ ७१३. पक्षाश्रयः
५०८ ७३९. पूर्वपक्षनिरासार्थमेव १५९ ७१४. पाचकः
१०२ ७४०. पूर्वपक्षसिद्धान्तम् १२४ ७१५. पाठान्तरम्
२०७४१. पूर्वपक्षावसरः ७१६. पाणिनेस्तूभयं मतम् ।। १२४ ७४२. पूर्वाचार्यप्रसिद्धाः ३२२ ७१७. पाण्ड्यः
१८ |७४३. पूर्वाचार्यव्यवहारः ११३ ७१८. पाण्ड्यौ
१८ ७४४. पूर्वाचार्यसिद्धसंज्ञा ५२३ ७१९. पादपूरणार्थम् ४०० ७४५. पृथग्योगश्च स्पष्टार्थः १२७ ७२०. पादविहरणम् ६१ ७४६. पृथग्योगसामर्थ्यात् १४० ७२१. पादविहरणात्मिका १५३ ७४७. पौरवं गां याचते ७१ ७२२. पादश्चतुर्थो भागः ११७ ७४८. प्रकर्षः
७ ७२३. पादावनेजनम् १४३ ७४९. प्रकारशब्दः ५२१,५२३ ७२४. पारदारिकः ४५२ ७५०. प्रकाशनम् ७२५. पाक्षिकविधानम् ९४ ७५१. प्रकृतिः ३४,८४,२७४ ७२६. पाक्षिकवृत्तिः ९४ |७५२. प्रकृतिप्रत्ययौ प्रत्ययार्थं ७२७. पितरौ ११८ सह ब्रूतः
३६ ७२८. पुंवद्भावः २८६,३८८,३९१ ७५३. प्रकृतिप्रत्ययौ संबद्धौ ७२९. पुत्रेण सहागतः
भवतः
१०१ ७३०. पुत्रौ
११८ |७५४. प्रकृत्याऽभिरूपः ६६,६८,७१ ७३१. पुरुषापराधात् ३५५ ७५५. प्रकृष्टोपकारकम् ६९ ७३२. पुरुषोत्तमः २८६ |७५६. प्रक्रिया ७३३. पुष्पेभ्यः स्पृहयति ५७ ७५७. प्रक्रियावादः ३५९ ७३४. पुष्यलको गन्धमृगः १३४ |७५८. प्रक्रियावादे २५६ ७३५. पूजा
|७५९. प्रकीर्तितग्रहणं ७३६. पूजा द्विविधा ४४२,४४५ | लक्ष्यानुरोधार्थम् ७३७. पूर्वनिपातः २९४,३५६, ७६०. प्रतिज्ञा
४८ ३५७,४९० |७६१. प्रतिपत्तिः १०२,३६६
१६६
४७८
Page #773
--------------------------------------------------------------------------
________________
२७६
१८
परिशिष्टम् -८ ७६२. प्रतिपत्तिगौरव
७८४. प्रधानत्वम् १५७,१७३ निरासार्थम् १३७,३९५ |७८५. प्रधानम् १५३ ७६३. प्रतिपत्तिगौरवपरिहाराय ४४०७८६. प्रधानापेक्षः ७६४. प्रतिपत्तिगौरवम् ३९४,४६९, ७८७. प्रधानोपसर्जने २५६ ५२७,५४५ |७८८. प्रपञ्चार्थः
५०५ ७६५. प्रतिपत्तिरियं गरीयसी ५९ ७८९. प्रपञ्चार्थम् १३९,१४०,१६०, ७६६. प्रतिपदोक्तार्थम्
१६१,२९६,३९६,४५३ ७६७. प्रतिबन्धः | ७९०. प्रमादः
२९ ७६८. प्रतिभूः
७९१. प्रमादपाठः २९६ ७६९. प्रतिषेधापवादः
| ७९२. प्रयोक्त्रपेक्ष्यम् १७६ ७७०. प्रत्ययलोपलक्षण
७९३. प्रयोगगम्या हि तद्धिताः २७ न्यायेन २७१,४९९
७९४. प्रयोगदर्शनम् १८९ ७७१. प्रत्ययलोपलक्षणम् २७५
७९५. प्रयोगसाधुता ७७२. प्रत्ययवाच्यम् १८१
७९६. प्रविश तर्पणम् ७७३. प्रत्यर्थं शब्दनिवेशात्११७,१२६
७९७. प्रविश पिण्डीम् ७५ ७७४. प्रत्यवसानार्थः
८८|
| ७९८. प्रवृत्तिनिमित्तम् १४०,१६८, ७७५. प्रत्यक्षम्
३८०, ४७२ ७७६. प्रत्याख्यातम् १७३,४७०
| ७९९. प्रश्लेषः
५४२ ७७७. प्रत्यासत्तिन्यायात् ११२
८००. प्रसज्यप्रतिषेधवृत्तिः २९४ ७७८. प्रत्युदाहरणम् ४,५,१९७,
८०१. प्रसज्यवृत्तिः ३०२ १९९,२१३,२१४
८०२. प्रसिद्धा क्रियैव विशेषणम्१८० ७७९. प्रथमं वयः
८०३. प्रातिपदिकार्थः ११९ ७८०. प्रथमाकाङ्क्षा ६८ ७८१. प्रथमोत्पत्तिस्थानम्
८०४. प्राधान्यम् ६९, १२१ ७८२. प्रदीपार्था मल्लिका
८०५. प्राधान्यं पुनः शब्दकृतम् ४२ प्रदीपः
६७,६८ | ८०६. प्राप्त
| ८०६. प्राप्तिस्तु बहुप्रकारा ७२ ७८३. प्रधानक्रियापेक्षं तादर्थ्यम् ६६ | ८०७. प्राप्तोदको ग्रामः .
१२४
५०५
३८
Page #774
--------------------------------------------------------------------------
________________
७३२
कातन्वव्याकरणम्
४२
२८९
१६०
३२७
"
३१
३२३
३९
५०८
८०८. प्रामोदः
२९ ८३४. बुद्धिकृतापायः । ३७,४३ ८०९. प्रायेण याज्ञिकः ६६, ८३५. बुद्धिकृतोऽपायः १३६ ८१०. प्रियगर्गः
८३६. बुद्धिनिबन्धनम् ८११. प्रियबिदः
८३७. बुद्धिभेदः ८१२. प्रिययस्कः
८३८. बुद्धिवर्धनम् ८१३. प्रीतिः
८३९. बुद्धिविवक्षायाम् ८१४. प्रीयमाणः
८४०. बुद्धिसंसर्गः ८१५. प्रेरकम्
८४१. बुद्ध्यैक्यम् २८९ ८१६. प्रेक्षापूर्वकारी
८४२. बुभुक्षितं न प्रतिभाति ८१७. फक्किका
किञ्चित्
१४२ ४१९ ८१८. बहिरङ्गः
८४३. बोधयति धर्मं माणवकम् ७५ ८१९. बहुत्र
८४४. बौद्धमपादानम् ८२०. बहुवचनम्
१२
८४५. ब्रह्मविदां वरः ५०७ ८२१. बहुव्रीहिगर्भो द्वन्द्वः
८४६. ब्रह्मशरीरम्
३६३ ८२२. बहूनां चानियमः 3५५ | ८४७. ब्राह्मणकारणम् २९५ ८२३. बहूनां व्यभिचारः
८४८. ब्राह्मणादिराकृतिगणः ४७७ ८२४. बहूपवधूः
८४९. ब्राह्मणाय वस्त्रं ददाति ५१ ८२५. बाणमोक्षः
१३३
८५०. ब्राह्मणो न हन्तव्यः१००,४१५ ८२६. बाधकबाधनार्थः | ८५१. भयहेतुः २९, ३९, ४४ ८२७. बालावबोधार्थः ३२१ / ८५२. भवन्मतम् ८२८. बाहुल्यश्रयणमेव शरणम् २२२ ८५३. भागुरिमतम् ८२९. बाह्यमपादानम् ३९ / ८५४. भार्गव्यः ८३०. बाह्नादिराकृतिगणः ४३६ / ८५५. भावः
१८४ ८३१. बिदादिः
२२ / ८५६. भाववचनानाम् १९८, २०० ८३२. बीजादङ्कुरो जायते २९ ८५७. भावसाधनम् ८३३. बुद्धिकृतसंश्लेषापायः ४२ / ८५८. भावाख्यातम्
२४३
३५५
४३६
४६९
१९३
Page #775
--------------------------------------------------------------------------
________________
२००
३४०
४०७
परिशिष्टम् -८
७३३ ८५९. भावाभिख्याः पञ्च ४७३ |८८४. मन्दधियः २०७ ८६०. भाविनी कर्तृतामारोप्य ४५० / ८८५. मन्दधियां सुखार्थम्१९१, १९२ ८६१. भाषायामपि ५१० ८८६. मन्दधीः
४२ ८६२. भाषायामप्रतिषेधः २०८ | ८८७. मन्दमतिबोधः १९ ८६३. भाषाव्युत्पादकचन्द्रगोमी ९५ / ८८८. मन्दमतिबोधनार्थम् १०८, ८६४. भिन्नवाक्यतापक्षः १५,१६
१७५,३७८ ८६५. भिन्नविभक्तिनिर्देशः ४९३ | ८८९. ममाधयः ८६६. भिक्षिर्विनीतार्थः ९०८९०. महाकविनिबन्धाः ३२८ ८६७. भीतिः
२९ / ८९१. महाकविनिबन्धात् । ३३३ ८६८. भुजविक्रमसूचनाय १३३ | ८९२. महाकवीनामुक्तिः ४७६ ८६९. भूमौ पर्णं पतति ८० |८९३. महाजनसूत्रे ८७०. भृगवः
|८९४. माघयमके ८७१. भेदलक्षणा षष्ठी १२७ / ८९५. मातापितरौ ८७२. भेदापेक्षया ११७ / ८९६. मानमेयसंबन्धे ११५ ८७३. भेद्यभेदकभावम् २८७ | ८९७. मिथ्याभ्यासः १०२, १०६ ८७४. भ्रातरौ
|८९८. मुख्यं संप्रदानम् ५३ ८७५. मङ्गलार्थम्
८९९. मुख्यस्य सदृशः ८७६. मण्डूकप्लुतिः
प्रतिनिधिः १३८ ८७७. मण्डूकप्लुत्यधिकारः २७ /९००. मुनिः ८७८. मतानुसरणमेव रमणीयम् ९८ |९०१. मेधावी ८७९. मतान्तरम् ८५, १३९, १६२, ९०२. मैथिली ४३३, ४३४
३८७, ३९५, ४८४ | ९०३. यथाभिधानम् १६१ ८८०. मनसादेवी
९४ |९०४. यथासंख्यम्२१६, २३८, ५०२ ८८१. मनसा मेरुं गच्छति ६६, ७१ |९०५. यवत्वादिजातिः १२० ८८२. मनुष्यजातिवचनः २४५ ९०६. यस्काः ८८३. मन्त्रः
५०६ / ९०७. यस्कादिः
११८
२३
५४४
Page #776
--------------------------------------------------------------------------
________________
७३४
कातन्वयाकरणम्
२८०
२७२
५०६
१०३
३५५
३२५
१२१
९०८. यादृग्जातीयन्यायः ४ | ९३०. योगपद्यार्थम् ९०९. युक्तार्थता ६,२७० / ९३१. रक्तोष्णीषविधिः ९१०. युद्धे संनह्यते धीरः ६४ ९३२. रघुप्रयोगः ९११. युधिष्ठिरः श्रेष्ठतमः | ९३३. रचनाशैली कुरूणाम्
९३४. रजकस्य वस्त्रं ददाति ५० ९१२. योगः
| ९३५. रथो गच्छति ९१३. योगः संबन्धः | ९३६. राजदन्तादिषु परम् ९१४. योगग्रहणबलात् १५८ / ९३७. राजस्वामिकः पुरुषः १६३ ९१५. योगग्रहणम् २१६ | ९३८. राजादिराकृतिगणः ९१६. योगभावनायाम् ३२८ | ९३९. राज्ञः पुरुषः ९१७. योगविभागः १४२, ३९२ ९४०. रिंसुः
२३७ ९१८. योगविभागात् ४६२ | ९४१. रुचिः ९१९. योगविभागार्थम् २५२, ९४२. रुजार्थानाम् २००
२५३, २६८ ९४३. स्वढसंज्ञा ९२०. योगाः
३४ ९४४. रूढिः ९२१. योग्यता
३५९ / ९४५. रूढिशब्दाः ९२२. योग्यतामात्रविवक्षया १६९ | ९४६. रूढिशब्दाश्च तद्धिताः ४५० ९२३. योग्यतामात्रविवक्षा ३८ | ९४७. रूढिशब्दा ह्येते तद्धिताः ४२६ ९२४. योग्यतामात्रविवक्षायाम् १८८,
४३९, ४५१,४५३, १९०, ४५९
४५५, ४६३, ४६६, ९२५. योग्यतायां शक्तिः १०५
४८३,५०६,५०८, ९२६. योग्यो हि द्रव्यनिष्पत्ति
___ ५१२, ५२१ कारकः
४६१ / ९४८. रूपं परिच्छिनत्ति ७३ ९२७. योनितः ५०५ ९४९. रूपातिदेशः
३८३ ९२८. योन्यादिसंबन्धाः २३४ / ९५०. रूपादयो हि विषयाः ९२९. यौगपद्यम्
५४९ / ९५१. लघ्वक्षरं पूर्वम् ३५५
.
.
३८
३९७
५९
Page #777
--------------------------------------------------------------------------
________________
१३२
३३१
संज्ञा
परिशिष्टम् -८
७३५ ९५२. लज्जाः
२२ / ९७५. लोकप्रसिद्धत्वात् ९५३. लक्षणतात्पर्यम् ३४ | ९७६. लोकसिद्धत्वात् ९५४. लक्षणविवक्षायाम् १८३ |९७७. लोके द्रव्यमेव प्रधानम् २८९ ९५५. लक्षणा ७०, १५४, ९७८. लोकेऽभिधानम् ४८२
१८३,४४३ | ९७९. लोकोपचारः ९, १४, ९५६. लक्षणा द्विविधा ४४३
१८,२०,३८० ९५७. लक्षणानुरोधात् १६३ | ९८०. लोकोपचारतः सिद्धाः १११ ९५८. लक्षणापत्तिः
३ |९८१. लोकोपचारात् १४६,१८४, ९५९. लक्षणापत्तेः १९९ | २१०,२४६,२४८,२५१,३६१, ९६०. लक्ष्यलक्षणभावः १४६ ४०२,४१०,४११,४३०,४३१ ९६१. लक्ष्यानुरोधार्थम् ४७६ | ९८२. लोकोपचारात् सिद्धेयं ९६२. लिङ्गसंज्ञा २५९
१५१ ९६३. लिङ्गं हि वस्तुमात्रस्या- ९८३. लोकोपचारादेव सिद्धाः ३९७
भिधायकम् १२५ ९८४. लोकोपचारादेवावसेयाः ३६९ ९६४. लिङ्गमशेष्यं लोकाश्रयत्वात् ९८५. लोकोपचाराद् ग्रहणसिद्धौ ४४० तस्य
४८२ / ९८६. लोकोपचारेण ९६५. लिङ्गम्
११९ / ९८७. लौकिकः ९६६. लिङ्गसन्देहः १२२ ९८८. लौकिकम्
२३५ ९६७. लिङ्गस्यातन्त्रत्वात् ४४० ९८९. लौकिकी विवक्षा ९६८. लिङ्गार्थः १२, ११९ / ९९०. वंशमर्यादा १७२ ९६९. लिङ्गार्थः सत्ता ११६ / ९९१. वङ्गाः ९७०. लिङ्गार्थमात्रे प्रथमैव १७५ / ९९२. वचनसामर्थ्यम् । ९७१. लिङ्गार्थवचने ११९ / ९९३. वटे गावः सुशेरते ९७२. लिङ्गार्थाः ११५ ९९४. वत्साः ९७३. लोकः
१८/९९५. वदनचन्द्रमाः ९७४. लोकतः प्रतिपत्तव्याः १४९ / ९९६. वयं तु ब्रूमः
१४०
१७१
५४
४२४
Page #778
--------------------------------------------------------------------------
________________
कातन्त्रव्याकरणम्
४४५
३१५
९८
१००
९९७. वररुचिमतम् ६४ १०१६. वाचकाभिनयः २६५ ९९८. वर्णविमोहः २५४ | १०१७. वाच्यलिङ्गः १०८ ९९९. वर्णसमाम्नायः ४ | १०१८. वाच्यवाचकभावेन १४१ १०००. वर्णागमः २८१ | १०१९. वार्तमेतत् ४४५ १००१. वर्णान्तरापादनम् ४३९ | १०२०. वास्तविकम् १००२. वशिष्ठाः
२६ | १०२१. विकार्यत्वम् १००३. वस्तु अभिधेयम् २५८ | १०२२. विकार्यव्याप्त्यर्थम् १००४. वस्तुतः ६, १६, ४९, ५३, | १०२३. विक्लित्तिः ६०, ८९
६३,७२,१६७,१७५ १०२४. विक्लित्तिरूपक्रियाफल१००५. वस्तुतस्तु ५,९०,१०१,१०४, भागित्वम्
७९ ११२,१४९,१५९, १०२५. विक्लित्तिवचनः पचिः १०१ १६१,१६८,१८९, | १०२६. विक्लेदः १९९,२१३,२१४, | १०२७. विचारणा २९६ २४४,२५९,३०२, १०२८. विचित्रसूत्रनिर्देशप्रतिपत्तये४८०
४२३,४५४ | १०२९. विचित्रा हि कृतिः १००६. वस्तुलक्षणा ४४४ सूत्रस्य
४६५ १००७. वस्तुक्षतिः १८१,१८२,३२८, | १०३०. वित्तसमर्पणम्
३३३, ४६२ | १०३१. विदेहाः १००८. वस्त्वपेक्षः
२ | १०३२. विद्युत् १००९. वस्त्वपेक्ष्यम् १७६ | १०३३. विधयः १०१०. वाक्यभेदप्रसङ्गात् १५७ | १०३४. विधिनिषेधौ १०, ११, १०८ १०११. वाक्यभेदार्थम् ४४०, ४४२ / १०३५. विनिगमनाभावः १६३ १०१२. वाक्यव्यवहारः २०५ | १०३६. विप्रतिषेधः ३८१ १०१३. वाक्यार्थः १६२ | १०३७. विप्रतिषेधे परं कार्यम् ११३ १०१४. वाक्यार्थसङ्गतिः १६६ / १०३८. विप्रश्नः ५५, ५६ १०१५. वाक्यैकदेशः १३६ / १०३९. विभक्तयः
१५६
१८
१६४
५०५
१
Page #779
--------------------------------------------------------------------------
________________
७३७
३४
योगः
३०५
२००
परिशिष्टम् -८ १०४०. विभक्तिः
२ | १०६३. विवक्षैव श्रेयसी ७६ १०४१. विभक्तिकार्यम् २७८ | १०६४. विशिष्टजातिवचनाः २९० १०४२. विभक्तित्वम् ६, ५०० | १०६५. विशिष्टवृत्तिः ९६ १०४३. विभक्तिविपरिणामः ५०१ | १०६६. विशिष्टार्थप्रतिपत्त्यर्थम् १७७ १०४४. विभक्तिविपरिणामेन २११ | १०६७. विशिष्टार्थप्रतीतिः ३०३ १०४५. विभक्तिविषये २१० | १०६८. विशेषकाः ३७३ १०४६. विभक्तिसंज्ञाः ४९८ | १०६९. विशेषणं हि द्विविधम् १७६ १०४७. विभक्त्यर्थानुसंधानम् १२१ | १०७०. विशेषणम् ८७,१७५,१८२, १०४८. विभागः
३०५,३७७ १०४९. विघागाश्रयत्वम् ३४ १०७१. विशेषप्रयोगः १७३ १०५०. विभाषा ३७० | १०७२. विशेष्यम् १०५१. विभाषानुवर्तनात् १८९ | १०७३. विशेष्यविवक्षया १०५२. विरामः
२९ १०७४. विशेष्यविवक्षा ११ १०५३. विवर्तनम् ३६६ | १०७५. विशेष्यविशेषणभावस्य १०५४. विवक्षया ५०७, ५२४ । प्रयोक्तुरायत्तत्वम् १०५५. विवक्षया नार्थो भिद्यते ३२९ | १०७६. विश्लेषः
३० १०५६. विवक्षया सिद्धम् ७५ १०७७. विषमेण धावति ६६ १०५७. विवक्षा २८, ४७, ५४, ६९, १०७८. विषयविषयिभावः १४९
१४७, ३६१, ४३९, १०७९. विषयविषयिलक्षणः १४६
४४९, ४५० | १०८०. विषयसप्तमी १६, ३८९ १०५८. विवक्षा गरीयसी ३०/१०८१. विषयः
५८ १०५९. विवक्षातः कारकाणि ११० १०८२. विषयसप्तमीपक्षे २७७ १०६०. विवक्षादर्शनात् १७९ १०८३. विषयो ह्यनन्यभावः ६३ १०६१. विवक्षावशात् ४६० १०८४. विष्णुं यजते १०६२. विवक्षातो हि कारकाणि १०८५. विसंवादः भवन्ति
३२ | १०८६. विस्पष्टार्थम् २१५
४१९
Page #780
--------------------------------------------------------------------------
________________
७३८
कातन्त्रव्याकरणम्
२९६
१०८७. वीप्सा
३५९ | १११३. व्यपदेशिवद्भावात्२०७, २१९ १०८८. वृत्तयः
२७३ | १११४. व्यभिचारः ३०९, ३११ १०८९. वृत्तिद्वयम् २४ | १११५. व्यभिचारोऽपि विवक्षायाः ७५ १०९०. वृत्तिरपीष्यते ३२६ /१११६. व्यवच्छेद्यव्यवच्छेदक - १०९१ . वृत्तिसिद्धान्तः १७७, १७८ भावेन १०९२. वृद्धप्रयुक्ताः १५४ | १११७. व्यवधानम् १०९३. वृद्धमतम् ६२, ४६९ / १११८. व्यवस्थावचनः २०६ १०९४. वृद्धस्मरणात् ४५०, ४५४ | १११९. व्यवस्थितवाधिकारात् ४८८ १०९५. वृक्षमध्यास्ते ७१ ११२०. व्यवस्थितवास्मरणात् २१७ १०९६. वृक्षाः पुष्पफलान्विताः २२७ | ११२१. व्यवस्थितविभाषया २४२ १०९७. वेदे सहश्रुतानां देवतानाम्३९१ | ११२२. व्यवस्थितविभाषा ८, २३ १०९८. वैचित्र्यार्थः १७९ / ११२३. व्यवस्थितविभाषाश्रयणात्४३३ १०९९. वैचित्र्यार्थमेव ४१२ | ११२४. व्याकरणस्य ११००. वैदिकं मतम् ३७४ पदसंस्कारत्वात् ४८५ ११०१. वैयाकरणवंशः ३६२ | ११२५. व्याकरणस्य ११०२. वैयाकरणानां तु मते ४४५ | सर्वपारिषदत्वात् १२३ ११०३. वैयर्थ्यापत्तिः ८११२६. व्याख्या कपोलकल्पितैव ३४१ ११०४. वैयाकरणपरिभाषावशात् १६८ | ११२७. व्याख्यानात् ११०५. वैयासकिः ४३६ / ११२८. व्याख्यालाघवम् ११०६. वैशेषिकशास्त्रप्रसिद्धः १३१ | ११२९. व्यापारः ११०७. वैशेषिकशास्त्रसिद्धाः ३४० ११३०. व्यापारणा
१०८ ११०८. वैशेषिकाणां दर्शने ३३१ | ११३१. व्याप्तिः ११०९. व्यक्तिः | ११३२. व्याप्तिन्यायः
३,६ १११०. व्यतिरेकः
१२१ | ११३३. व्याप्तिन्यायात् ११११. व्यधिकरणम् १७७ / ११३४. व्याप्तिरेव ज्यायसी ५२९ १११२. व्यधिकरणान्वयः १२२ | ११३५. व्याप्तिविवक्षा
४८५
२११
७२
७४
१३१
Page #781
--------------------------------------------------------------------------
________________
८५
१९
३७४
४२२
४५४
परिशिष्टम् -८
७३१ ११३६. व्याप्यम्
८१ | ११५९. शब्दानां नित्यत्वम् २८,६८ ११३७. व्याप्यविवक्षा ४७, १९५ ११६०. शब्दाश्चानन्ताः ११७ ११३८. व्याप्यविवक्षायाम् १९२, १९३ | ११६१. शरलावः ११३९. व्यावृत्तिः ५४,२०४ ११६२. शरीरवृत्तिः १७४ ११४०. व्युत्पत्तिः १४८,२४१,२६८
|११६३. शर्ववर्मकृतसूत्रमस्तीति १६२ ११४१. व्यत्पत्तिपक्षेऽपि ४९२ | ११६४. शर्ववर्मणः सूत्रकारस्य ३३० ११४२. व्युत्पत्तिवादिपक्षमाश्रित्य ५२१
११६५. शशशृङ्गम् ११४३. व्युत्पत्तिवादी
११६६. शाल्लो जनपदः ११४४. शक्तिरूपो वैषयिकः ।
११६७. शाश्वतिकवैरम् ११४५. शक्तिविशेषः
११६८. शास्त्रार्थः ११४६. शतयूथम्
३५२
११६९. शिल्पं विज्ञानकौशलम् ४५०, ११४७. शताय परिक्रीतः ११४८. शताय परिक्रीतो हसति ६९
१५३
| ११७०. शिष्टप्रयोगः ११४९. शतिकः पटः ११५०. शतेन परिक्रीतः
११७१. शिष्टप्रयोगात् | ११७२. शिष्टप्रयोग्रानुसारेण
७४ | ११५१. शत्यः पटः
७६,
२२२, २३०, २६९, ११५२. शब्दमात्रपरता ५०६
३००, ३३७, ३६३, ११५३. शब्दप्रमाणकाश्च
४०४,४४२ वैयाकरणाः
|११७३. शिष्यं धर्मं ब्रूते ७१ ११५४. शब्दप्रमाणका हि
|११७४. शिष्यव्युत्पत्त्यर्थमेव १२० वैयाकरणाः ४३, ४५,
११७५. शूर्पणखा २२५
२८८,३१९ ११५५. शब्दप्रवृत्तिनिमित्तम् २९०
११७६. शृङ्गाच्छरो जायते ३२ ११५६. शब्दलाघवम्३०२,३२१,३३०
११७७. शोभना शर्ववर्मणः कृतिः२०२ ११५७. शब्दशक्तिस्वभावात् ४८१ |
११७८. श्रीपतिवचनम् ४०५ ११५८. शब्दस्य प्रवृत्तिमित्तं ११७९. श्रीपतिसूत्रम्
भाव० ४७२,४७४ |११८०. श्रुतसम्भवेऽश्रुत० १६३
४८५
४०५
Page #782
--------------------------------------------------------------------------
________________
७४०
कातन्त्रव्याकरणम्
०
०
११८१. श्लोकः
१२ | १२०४. संबन्धविवक्षापि १८० ११८२. श्लोकपूरणत्वात् ५३९ | १२०५. संबन्धविवक्षायाम् १३९, १७९ ११८३. श्लोकपूरणार्थम् २७७ | १२०६. संबन्धानुकूलव्यापारः ५० ११८४. श्लोकरूपतया ५३८ | १२०७. संबन्धाभिधानम् १८७ ११८५. श्लोकसमुदायाः ४३५ | १२०८. संबन्धिशब्दः
२५६ ११८६. षडनुबन्धः
| १२०९. संबन्धोऽन्योऽन्यमिष्यते १२९ ११८७. षष्ठीप्रतिपत्त्यर्थम् २०५ | १२१०. संबोधने च प्रथमा १०६ ११८८. संकल्पः
५२ | १२११. संबोधनोपायाः २५५ ११८९. संकोचदर्शनात् | १२१२. संभाषते छात्रो भार्याम् ७५ ११९०. संख्या २५५, ४९६ | १२१३. संभ्रान्तिज्ञानम् १९१, ११९१. संख्याकर्मादयः
१९२,१९४ ११९२. संख्याभेदः २५६ | १२१४. संयोगः ५९, ६३, ८४ ११९३. संख्याम् ११६ | १२१५. संयोगनिवृत्तिः ३० ११९४. संज्ञाप्रतिपादनार्थम् ११९ | १२१६. संयोगसंबन्धः ५० ११९५. संज्ञार्थम्
५४५ | १२१७. संशये तु सदा बहुवचनं ११९६. संज्ञाशब्दः
२० | प्रयुज्यते ११९७. संज्ञासाधनान्येव २५७ १२१८. संस्कारः
४५३ ११९८. संज्ञास्तु लोकत एव १२१९. संस्थानेन
५०५ प्रतिपत्तव्याः १४८, १५१ / १२२०. संक्षेपः ५३, ८१, ९४, १०९, ११९९. संप्रदानलक्षणम् ५३
२५६,२६८, २७७, १२००. संबन्धः ३६, ४९, १२१,
___ १८५, २६५ १२२१. संक्षेपार्थः ५२, ३३१ १२०१ संबन्धः कारकेभ्योऽन्यः १२९ | १२२२. सकर्मकता १२०२. संबन्धविवक्षया १९१ | १२२३. सकर्मकत्वम् १२०३. संबन्धविवक्षा ३१,१९४, १२२४. सकर्मका एव भवन्ति ७९
१९८,२०७, ३३६ | १२२५. सकृदुच्चरितः शब्दः ८६
३४६
Page #783
--------------------------------------------------------------------------
________________
२
१७
१७३
परिशिष्टम् -८
७४१ १२२६. सखी
२३६ | १२५०. समासाभिधानमेव ३५२ १२२७. सतोऽपि चाविवक्षा १३७ | १२५१. समासार्थः ३८३ १२२८. सत्ता
४७० | १२५२. समाहारः ३५१, ३६८ १२२९. सत्तारूपव्यापारः १०३ |१२५३. समाहारद्वन्द्वः १२३०. सद्भावः सत्ता ४७० | १२५४. समाहारप्राधान्यम् १२३१. सद्यआद्यादेराकृति
| १२५५. समुच्चयः गणत्वात्
५१८ | १२५६. समुच्चयादिः १२३२. सन्देहव्युदासाय ३०६ / १२५७. समुदायः १२३३. सन्धिः
२७५ १२५८. समुदायव्यपदेशः २९८ १२३४. सन्धिलक्षणं विभक्तिकार्यम् २७५ | १२५९. समुदायसिद्धीः ३२२ १२३५. सप्तच्छदाः १८० | १२६०. समुदायार्थः १७४ १२३६. सप्तपर्णः १८४ | १२६१. समुदाये प्रवृत्ताः शब्दाः १२३७. सप्रयोजनम् २०२ अवयवेऽपि वर्तन्ते २९३ १२३८. समवायः ६३ | १२६२. समृद्धिः
३६२ १२३९. समानलक्षणदीर्घः २२, २७, १२६३. समेन धावति
१३८ | १२६४. सम्पन्नो यवः ११५ १२४०. समानाधिकरणम् १७७ १२६५. सम्प्रदानत्वम् ४९,५०,५२ १२४१. समाम्नायविदः ४४५ १२६६. सर्वकारकग्रामः १२४२. समासः षड्विधः २६४ / १२६७. सर्वतान्त्रिकत्वम् ६४ १२४३. समासराशेर्नित्यत्वात् २२७ १२६८. सर्वदा
५१३ १२४४. समासलाभार्थ्यम् ४ | १२६९. सर्वनामस्थाने १२४५. समासवचनम् २६१ / १२७०. सर्वनाम्नो बुद्धिस्थ१२४६. समासवृत्तिः
| वाचित्वात् १२१, १२६ १२४७. समासव्यासधारणम् __ २६३ | १२७१. सर्वपारिषदत्वाद् १२४८. समासानुवृत्तिः २६९ व्याकरणस्य ३२ १२४९. समासान्तविधेरनित्यत्वात् २९९ | १२७२. सर्ववादिसम्मतम् २२९
१०१
४८६
४१५
Page #784
--------------------------------------------------------------------------
________________
७४२
कातन्त्रव्याकरणम्
१७९
३५३
१८४
Hor
१२७३. सर्वसमासोपलक्षणम् ५ /१२९५. सामान्यवाचिता २९१ १२७४. सर्वसादृश्यार्थम् २८० १२९६. सामीप्यार्थम् ५४९ १२७५. सर्वो हि धात्वर्थः ७७,८८ १२९७. सावकाशता ६०, ६१ १२७६. ससोमको हि यागः क्रतुः ३६९ | १२९८. सावकाशत्वम् ६१ १२७७. सहकारित्वम् १०३ | १२९९. साहचर्यम्
४९८ १२७८. सहभावनायाम् | १३००. साहचर्यात् २९२ १२७९. सहभावमात्रम् १६८ १३०१. साहित्यम् १२८०. सहार्थयोगः १६७ १३०२. साक्षी १२८१. साकल्यम् ३६० | १३०३. सिंहावलोकिता१२८२. साकल्यस्य संहिता १४८ धिकारम् १२८३. साङ्ख्यमतम् ८३, ८४ | १३०४. सिद्धं हि कारक १२८४. सादृश्यम् १६, ३५९, ४६९ | भवति १२८५. साध्यता
८९ १३०५. सिद्धता १२८६. साध्यत्वम् २७२ | १३०६. सिद्धान्तः ३०३, ३१० १२८७. साध्यभेदः १९७ १३०७. सिद्धान्तान्तरम् ८९ १२८८. साध्यसाधनप्रतीतिवत् १३२ १३०८. सिद्धान्तितम् ११, ९७ १२८९. साध्यसाधनभावस्या- |१३०९. सिद्धान्तो रमणीयः ४४
विरुद्धत्वात् १७० १३१०. सिद्धे सत्यारम्भो १२९०. साध्यसाधनलक्षण : ___ १४६, नियमार्थः
१४८ १३११. सीमा १२९१. साध्यसाधनसंबन्धः १५० | १३१२. सीमा अण्डकोषः १३४ १२९२. सामर्थ्यम् १५८ १३१३. सुखं स्थितान्यागाराणि ८९ १२९३. सामानाधिकरण्यम् २४२, | १३१४. सुखप्रतिपत्त्यर्थः १९६
३०४,३९२ | १३१५. सुखप्रतिपत्त्यर्थ एव १७० १२९४. सामान्यवाचका हि |१३१६. सुखप्रतिपत्त्यर्थमेव २२०, १२९,१३२
५१४,५२०
२४०
२९
शब्दाः
Page #785
--------------------------------------------------------------------------
________________
७४३
परिशिष्टम् -८ १३१७. सुखप्रतिपत्त्यर्थम् ११६, १३६, | १३३२. स्तोकं पाकः
१८५, १८८, १३३३. स्तोकं स्वापयति छात्रम् ८८ १९०, २६८, १३३४. स्त्रीत्वम्
२३४ ३०२, ३१९, १३३५. स्त्रीत्वविवक्षा २४०, २४६. ५४६, ५४८
३८२, ३८६ १३१८: सुखबोधाय दर्शिताः १११
|१३३६. स्त्रीत्वादयः २३४ १३१९. सुखार्थः
५१५
| १३३७. स्त्रीपुंनपुंसकानि १३२०. सुखार्थ एव २७८
लोक० २३२,२३४ १३२१. सुखार्थमेव१२४, १९८, २०२,
|१३३८. स्थविरतरः ४१६ २०४, २०५, २०७,
| १३३९. स्थाणुर्वा पुरुषो वा ११५ २१९, २२१, २२६. १३४०. स्थानिवद्भावप्रतिषेधात २१२ २५५,२५७. २७५ /१३४१. स्थाल्या पच्यते ६७, ६९ १३४२. स्पन्दनमात्रम्
८१ १३२२. सुखार्थम् ३, ५, १८५, १९५,
१३४३. स्पन्दनम् २००, २३९, २६९, | १३४४. स्फोटवत्
२८८ २७६, ३२५, ४००./१३४५. स्मृतिः ३७०, ३७२ ४१९,४५६,४९८,४९९,५३० | १३४६. स्मृत्यर्थः
१९२ १३२३. सुप्सुपा समासः
| १३४७. स्मृत्यर्थकर्मणि सुपा समासः २५९ १३२४. सुमगधम्
८
१३४८. स्याद्यन्तम् १३२५. सुरा न पेया १००,४१५ /१३४९. स्वकपोलकल्पितप्रयोगः २६० १३२६. सुवर्णं कुण्डलं करोति ७२
१३५०. स्वकपोलकल्पितम् ११२ १३२७. सूत्रकारमतम् १४५,५४६
१३५१. स्वतन्त्रः १३२८. सूत्रे लिङ्गं संख्या० २८
१३५२. स्वतन्त्रता १३२९. सूपकारः १०२, १०६ | १३५३. स्वतन्त्रत्वम् १३३०. स्तोकं गन्ता ८८, ८९ | १३५४. स्वदेहार्पणनिष्क्रयेण ५०६ १३३१. स्तोकं पचति ७१ | १३५५. स्वभावसिद्धत्वात् ३२८
३३२
१९०
२५८
१०४
५८
१०६
Page #786
--------------------------------------------------------------------------
________________
७४४
१३५८. स्वभावाद् द्विकर्मकाः १३५९. स्वरमात्रप्रतिपत्त्यर्थम्
१३६०. स्वरविधेरनादरात्
१३६१. स्वरादयः
१३६२. स्वरान्तम्
१३६३. स्वरूपप्रतिलम्भ:
१३६४. स्वसमर्पणम्
१३६५. स्वस्ति
१३६६. स्वस्वामिसंबन्धः
कातन्त्रव्याकरणम्
१३५६. स्वभावात् तत्वौ स्त्रीनपुंसकलिङ्गौ
१३५७. स्वभावादादरविषयः १५५,१५६ | १३७३ . हिरण्यम्
१३७१.
हिमवतो गङ्गा
४७३ | १३७२. हिमवन्तं शृणोति
१३२,
३३२
१४, १७
२८०
८३
४४३
१६०
११९,
१४८
१३६७. स्वाङ्गम्
२४० | १३८३. क्षत्रियाः
१३६८. स्वात्मनि क्रियाविरोधात् ५२४ १३८४. क्षुद्रजन्तुः
१३६९. स्वार्थम्
१३७०. हिंसा
प्रभवति
६७
९१ | १३७४. हीनोत्कृष्टलक्षणसंबन्धः १४८
४०७
१३७५. हृदयम्
३१६
१३७६. हृदि ब्रह्मामृतं परम्
६४
१३७७. हेतुप्रयोगः
१८८
१३७८. हेतुर्द्विविधः
१७१
१३७९. हेतुविवक्षा
३२८
१३८०. हेतुसंज्ञा
१०७
१३८१. हेतुहेतुमद्भावविवक्षा
१६५
१३८२. हेत्वर्थः
१८८
२८
७३
१८,२०
३७०,३७२
११६ | १३८५. क्षुद्रा:
१९८, २०१ | १३८६. क्षेमवृत्तयः क्षत्रियाः
३६९
३८
Page #787
--------------------------------------------------------------------------
________________
॥श्रीः॥ परिशिष्टम् -९ उद्धृता ग्रन्थाः
पृ० सं०
___&
२४
कोशः
४७५
»
३७४
५०६ | २४.
जनन्द्र
;
क्रमसं० ग्रन्था
पृ० सं० क्रमसं० ग्रन्या १. अग्निपुराणम् ४०, ५६, ६५, १६. काशकृत्स्नव्याकरणम् १०५
७०, ९९ | १७. काशिका १७४, १९५ अर्थवेवेदप्रातिशाख्यम् २६५ | १८. कुमारसंभवम् ७५ अपरं दर्शनम्
११७ /१९. गणपुस्तकम् अमरकोशः
गोपथब्राह्मणम् आपिशलीयव्याकरणम् १४३,
चान्द्रपरिभाषापाठः १८५
चान्द्रव्याकरणम् ३९,४०,९९, ५४४
छन्दः ५१०,५२१ उद्द्योतः
जैनेन्द्रव्याकरणम्४०, ५६,६५, ऋक्तन्त्रम् २६५
७०,९९ ऋप्रातिशाख्यम् २६४ | २५. टीका ६,१४,१५,५४,६९,
कलापव्याकरणम् ९,१०,२२ ८३,८५,१०४,११९,२४५, १०. कातन्त्रपरिशिष्टम् ५६,
४७५,५०८,५२८,५४२ ८८,२७३ /२६. टीकापङ्क्तिः ४३ ११. कातन्त्रशिक्षासूत्रम् ५४०
तन्त्रम्
२६०
दर्शनम् । २५७, ३४६ १२. कारकचक्रम्
दुर्गादासीयटीका ११३ कालापपरिभाषापाठः १,२,३,२८
दुर्गासप्तशती ५०७ काव्यप्रकाश:
|३१. नाट्यशास्त्रम् ३९,५६,६५,९८ काशकृत्स्नधातु
नारदपुराणम् ४०,५७,६५, व्याख्यानम् ९८,१०९ |
७०,९९
४४३
Page #788
--------------------------------------------------------------------------
________________
७४६
कातन्त्रव्याकरणम्
४०.
४१.
४२.
२५६
३३. निरुक्तम् २६४,३४२ ५२. महाभारतम् २९५ ३४. नैषधम्
५३. महाभाष्यम् ७८,२६३,५०६ ३५. न्यासः ३१,८९,९६,१६३, ५४. माघकाव्यम् ९३,३०८,३१३
३०५,३१०,४८६ ५५. मुग्धबोधव्याकरणम् ४०,५६, ३६. पञ्जिका ५५,६२,२१३
६५,७०,९९ ३७. पक्षी ५,६०,६१,६९, ५६. मेघदूतम्
१४४ ९०,१०५,१४०, ५७.
मेदिनीकोषः
४७५ ५८. रघुवंशमहाकाव्यम् ११२, ३८. परसूत्रम् ५२,१२७
२०५,५०६ ३९. पाणिनीयसूत्रम् १५०,३५३
५९. लोकोपचारसूत्रम् १४ पाणिनीयशिक्षा
६०. वाक्यपदीयम् ५८,६७,७२, ५०६
७४,७५,७९, पाणिनीयाष्टाध्यायी ८,११
८४, ९३, १०७, प्रक्रियावादः
१२९, १४६, २५५, फक्किका ४१९
२५६, २६७, २८७, बृहद्देवता २६४,३१८,३४२
२८८,२८९, २९१, ४५. भट्टिकाव्यम् ५५,१५९
२९५,४४३ ४६. भागवृत्तिसंकलनम् २५४ |६१. वाजसनेयिप्रातिशाख्यम् २६४ ४७. भाषावृत्तिः ५५,८७,९३, ६२. वार्तिकम् ९५,१८७,४००,
४०१ १४४,३०७,३५२,३१३ | ४८. भाष्यम् ९२,१००, १५४,
६३. वाल्मीकिरामायणम्४३३, ४३४ १९३, २९३, ३१४. ६४. वृत्तिः ४, १५, २४, ७२,
१६५, १९६, २१३, ३४६, ३७१, ३७४,
२४५, २७८, २८१, ४००, ४०१
२८२, ५२८ ४९. मञ्जूषा पत्रिका ३९ (५. वैयाकरणपरिभाषा १६८ ५०. मनुस्मृतिः १४३, २२७६६. वैयाकरणभूषणसारः १०४, ५१. महाजनसूत्रम् ३४०
२६३,२६४
Page #789
--------------------------------------------------------------------------
________________
७४७
परिशिष्टम् -१ ६७. वैशेषिकशास्त्रम् १३१, ३४० | ७२. सांख्यम् ७२, ८३, ८४ ६८. व्याकरण दर्शनेर ७३. सिद्धान्तचन्द्रिका ६४ इतिहास
२६४ | ७४. सीरदेवपरिभाषावृत्तिः १६२ ६९. शब्दशक्तिप्रकाशिका ४०,५७, ७५. स्मृतिः ३७०, ३७२
६६,७०,९९,३१८/७६. हैमव्याकरणम् ४०, ५६ ७०. शाकटायनव्याकरणम् ५६ ७७. हैमशब्दानुशासनम् ६५, ७०, ७१. सकलपाणिनितन्त्रम् ९५
Page #790
--------------------------------------------------------------------------
________________
॥श्रीः॥ परिशिष्टम् -१० उद्धृता आचार्याः
४१५
१५.
१२
क्रमसं० आचार्याः पृ० सं० | क्रमसं० आचार्याः पृ० सं० १. अद्वैतवादिनः ४४५ | १२. आचार्याः २. अन्यः ४२, ४६, ५८, ६७, | १३. आदेशवादी
५०१ ७२, ७३, ७४, १४२, | १४. उदयनाचार्यः ३०७ २५५, ३९१, ४०३, उमापतिः
१६ ४०५,४३१ | १६. एकवाक्यतावादी ३. अन्ये ६, ३८, ६१, ६३, | १७. एके २०७, २५६, ३३१, ८७, १८४, २१७,
३७०, ३९१, ४३३, २६९, २८४, २८८,
५०४, ५२९, ५४५ ३२२, ३७०,३७८, १८. कविराजः ८४, ८७ ४००, ४२७, ४८२, | १९. कश्चित् २०, ४६, ७५, ४८४,४८६, ५१०
११६, २०७,२६७, ४. अपर: २४, ३५, ७६, १५६,
२८०, ३६०, ३७४,
३७६, ४१८, ५४७ ३२९, ५२९
२०. कातन्त्रविस्तरकारः ३९ अपरे १५४,३७०,३८४,
| २१. कात्यायनः ९०,३१४,३३५ ४००,४२७ | कालिदासः
२०५ ६. अभिधेयतावादी २३३ | १
काव्यप्रकाशकृत् ३११ अमरः १३१,१३४,२६२
२४. कुलचन्द्रः ५,१६,६९,८५, अमरसिंहः
८७,९०,९१,९३, अस्माकम् ३४, ३८, ६८,
१२६,१३१,१४०,१५९, ८७, ९४, ९७
१८७,१८९, ३३२, ३४७, १०. अस्माभिः
४४
४०७,४२४,४३४,४६३, ११. आचार्यः
५३८ ।
४८५, ४८६, ४९४
3
;
१२४
Page #791
--------------------------------------------------------------------------
________________
१५
456
३१
२८.
२९.
३१.
परिशिष्टम्-१०
७४९ २५. कृष्णद्वैपायनव्यासः २६२ ४६. दुर्गः ३३,२७०,३०३ २६. केचित् ४, १०, २०, ८२, | ४७. दुर्गसिंहः
८४, १४१, १५८, ४८. दौर्गाः १७९, २०९, २१३, नवीनाः २२८, ४५०, ५२९
नागेशभट्टः ५०६ २७. केनचित् १४, ८५
नास्तिकः
नैयायिकाः कैश्चित् . ६०, ३४५
८३,८४,३०३ कौमाराः
नैयासिकाः ५३,१६६,३४६
न्यासकृत् ५५, ६१ गुरुः
पञ्जिकाकारः ३१६ गोपीनाथः
५६. पञ्जीकारः ८४, ९४ ३२. चन्द्रगोमी ७८,९५,१६२, ५७. पञ्जीकत ४३, ४४, ६१,
२०१
८५,१२१,३०४ ३३. चान्द्राः
४७०
|५८. परः ३४,७६, ९७, १८२, ३४. चिन्तामणिकृत् ३१७
१८७, ३११,३२९, ३५. चूर्णिः
१३३
३३६, ४१७, ४१८, ३६. जयादित्यः ६८, ९१, १४०,
४५५,४७३, ५२५ १५४, १९२, २९७, | ५९. पाणिनिः १६, १७, ४४, ३००, ३१२, ३३६
५३,६८,८७, ३७. जिनेन्द्रबुद्धिः ३१, ३२, ११९
९१,९३,९४, ३८. टीकाकारः ३३, १६०
९५, ९७, १५७, ३९. टीकाकृत ४३, ३७८, ४१२,
१७४,१७६, १८२,
२६१, ३०७ ५०१, ५४२ ४०. तर्काचार्यः ८९, १६०
पाणिनिमतानुसारिणः १६३
पाणिनीयमतानुसारिणः १५९ ४१.
३४१ ४२. त्रिमनिसंग्रहकारः ९६.१९३ | ६२. पाणिन्यनुसारिणः ४३. त्रिलोचनः
पुरुषोत्तमः त्रिलोचनदासः
६४. पूर्वाचार्याः ९, ३९, २५९, ४५. दण्डी
३६ | ३२१,३२२,३३८,५२३,५२५
६०. ६१.
तैः
४४.
Page #792
--------------------------------------------------------------------------
________________
२५७
७५०
कातन्त्रव्याकरणम् ६५. प्राञ्चः १६,५०,२०२ / ८४. ये ६६. भट्टः १५४,३३१,३३५, ८५. येषाम् ४६९, ५०५ ८६. यैः
४७६ ६७. भट्टचरणाः ८१
९५,१५१,३०५, भट्टनारायणः १४०
३१४,३३९ भट्टिः १६०, २०५ | ८८. वयम्
४२४ भट्टिटीकाकृत् १९९ ८९. वररुचिः ३७,६४,१३१, ७१. भर्तृहरिः २५४
२२२,३३८ ७२. भवन्तः
९०. वाभट:
३३,१३३ ७३. भागुरिः ६५, १३३, १५० | ९१. विद्यानन्दः २५ ७४. भाषावृत्तिकृत् १८३ | | ९२. विमलमतिः ७५. भाष्यकारः ११६, १९३, | ९३. वृत्तिकारः ९३,२६१
३२९, ५१० / ९४. वृत्तिकृत् ३३, ४४,३९० ७६. मन्दधियः २०७ | ९५. वृद्धाः ६२,१२४,१४३, ७७. मन्दधीः
३३७,४५०, ७८. मयूरभट्टः
४५४,४६९ ७९. महाकवयः ३२८, ३३३, ९६. वैद्यः १६०,२८१,३०८
४७६, | ९७. वैयाकरणाः ८२,४४५ ८०. महान्तः ५, १६, ३७, ४४, ९८. वैशेषिकाः ३३१,३४०
___९४, ९७, १८७, ९९. व्युत्पत्तिवादी ४५९, ४७३, १८९, २२२,२७१, ३०९,
४७४,४९५,५२१,५२३ ३१६,३४७,४८६ / १००. शरणदेवः ५५,३०४,३०९ ८१. मीमांसकाः ३५३ | १०१. शर्ववर्मा ४४,१६२,१७६, ८२. मूर्खाः
३३०,३४०,३९५,५२२ मैत्रेयः २००,३१४,४८६ | १०२. शाकटायन
३४६
३३५
८३.
Page #793
--------------------------------------------------------------------------
________________
.
परिशिष्टम्-१०
७५१ १०३. श्रीपतिः ८७,८८,९०, १०७. सागरः
९३,९४,९६,९७,१२१,१४१, १०८. साम्प्रदायिकाः १९४,३१६ १६६,२१७,२३४,२५९,२६१ | १०९. सुधियः १२४ २७०,२८४,३०३,३०६,४०५ /११०. सुषेणविद्याभूषणः २४६
४०८ | १११. सूत्रकार १४२,५०५,५४६ १०४. समाम्नायविदः ४४५ | ११२. हेमकरः ४३, ४४, १२४, १०५. समासराशिवादिनः २५६ १३२,१४०,१४९,१५०,१८७, १०६. सर्ववर्मा
५१०।
१९४,२१७,२४५,२७०,३०९
Page #794
--------------------------------------------------------------------------
________________
॥श्रीः॥
परिशिष्टम् -११ कातन्त्रव्याकरणस्य मुद्रितग्रन्थानां परिचयः
समयः
क्रम सं० ग्रन्थाः
प्रकाशनस्थानम् १. आख्यातमञ्जरी वं० अ० १३१७, गोवर्धनयन्त्रम्, कलिकाता । २. कलापचन्द्रः वं० अ० १३१७, गोवर्धनयन्त्रादि कलिकाता । ३. कलापतत्त्वार्णवः वं० अ० १३३२, संस्कृतविद्यालयः, कलिकाता | ४. कलापतन्त्रतत्त्वबोधिनी वं० अ० १३३२, संस्कृतविद्यालयः, कलिकाता । ५. कलापव्याकरणम् १९८८ ई०, के० उ० ति०शि० सं०, सारनाथ । ६. कातन्त्रगणमाला वङ्गाक्षरेषु मुद्रिता,
कलिकाता। ७. कातन्त्रच्छन्द प्रक्रिया १८९६ ई० पीपुल्स प्रेस , कलिकाता | ८. कातन्त्रदुर्गपरिभाषावृत्तिः १९६७ ई०, भ० ओ० रि० इ०, पूना । ९. कातन्त्रधातुपाठः १८३५ ई०, वङ्गाक्षरेषु मुद्रितः । १०. कातन्त्रपरिभाषासूत्रम् १९६७ ई०, भ० ओ० रि० इ०, पूना | ११. कातन्त्रपरिशिष्टप्रबोधः शकाब्दः १८३३, संस्कृतविद्यालयः, कलिकाता । १२. कातन्त्रपरिशिष्टम् शकाब्दः १८३३, संस्कृतविद्यालयः, कलिकाता । १३. कातन्त्रप्रदीपः
वङ्गाक्षरेषु कारकीयांशः कश्चिन्मुद्रितः । १४. कातन्त्ररूपमाला १९५२ वि० अ० निर्णयसागरयन्त्रालयः, बम्बई । कातन्त्ररूपमाला वीरनिर्वाणसं० २४८१, वीर प्रेस, मनिहारों
का रास्ता,जयपुर। कातन्त्ररूपमाला दिसम्बर १९८१ ई०, सदर बाजार, दिल्ली-६ । कातन्त्ररूपमाला १९८७ ई०,
हस्तिनापुर, मेरठ । १५. कातन्त्रलिङ्गानुशासनम् १९५२ ई०, डक्कन कालेज, पूना ।
Page #795
--------------------------------------------------------------------------
________________
१६. कातन्त्रविभ्रमः
१७. कातन्त्रविभ्रमावचूर्णि :
१८. कातन्त्रवृत्तिः
१९. कातन्त्रवृत्तिटीका
२०. कातन्त्रवृत्तिपञ्जिका
२१. कातन्त्रव्याकरणम्
परिशिष्टम् - ११
१९८४ वि० अ०,
१९८४ वि० अ०,
वङ्गाक्षरेषु मुद्रिता, कलिकाता ।
वङ्गाक्षरेषु मुद्रिता, कलिकाता । गोवर्धनयन्त्रम्, कलिकाता ।
एशियाटिक सोसाइटी ऑफ बङ्गाल, कलकत्ता ।
२२. कातन्त्रव्याकरणम् (प्रथमभागः ) १९९७ ई० सं० सं० वि० वि०, वाराणसी । २३. कातन्त्रव्याकरणम् (द्वि० भा० प्र० खं) १९९८ ई०, सं० सं० वि० वि०, वाराणसी । २४. कातन्त्रव्याकरणम् (द्वि० भा०-द्वि० खं०) १९९९ ई०सं०सं०वि०वि०, वाराणसी । २५. कातन्त्रव्याकरणविमर्शः १९७५ ई०, सं० सं० वि० वि०, वाराणसी । २६. कातन्त्रशिक्षासूत्राणि वङ्गाक्षरेषु मुद्रितानि । विश्वविद्यालय, मद्रास |
२७. कातन्त्रोणादिवृत्तिः २८. कातन्त्रोणादिसूत्रवृत्तिः
३७. पत्रिका
३८. पादप्रकरणसङ्गतिः
१३१७ वं० अ०,
१८७६ ई०,
७५३
जैनबन्धुयन्त्रालयः, इन्दौर |
जैनबन्धुयन्त्रालयः, इन्दौर |
१८४४ श० अ०, १९३४ वि० अ०, मद्रास १९९२ ई०,
१८४४ श० अ०,
१३३२ वं० अ०,
१३१९ वं० अ०,
२९. कातन्त्रोणादिसूत्राणि
३०. कृन्मञ्जरी
३१. कौमुदी
३२. गणप्रदीपः
१८३५ श० अ०,
वङ्गाक्षरेषु मुद्रितः ।
३३. चर्करीतरहस्यकम् (सवृत्तिकम्) १३३२ वं अ०, संस्कृतविद्यालयः, कलिकाता । ३४. दुर्गपरिभाषावृत्तिः १९६७ ई० ३५. दुर्गवाक्त्रप्रबोधः वङ्गाक्षरेषु
भ० ओ० रि० इ०, पूना । कश्चिदंशो मुद्रितः ।
३६. पञ्जी (कातन्त्रविवरणपञ्जिका)
वङ्गाक्षरेषु मुद्रिता, कलिकाता ।
वङ्गाक्षरेषु मुद्रिता, कलिकाता ।
तिब्बतीसंस्थानम्,
सारनाथ -वाराणसी ।
वङ्गाक्षरेषु मुद्रितानि | संस्कृतविद्यालयः, कलिकाता ।
रामेन्द्रयन्त्रम्, नोयाखाली ।
१९१४ ई०
Systems of Sanskrit
grammar (पृ० ११८-२० ) ग्रन्थे प्रकाशिता ।
Page #796
--------------------------------------------------------------------------
________________
७५४
३९. बिल्वेश्वरटीका
४०. मङ्गला
मनोरमा
४१.
४२. राजादिवृत्तिः
४३. व्याख्यासार:
४४.
शिष्यहितान्यासः
४५. शिष्यहितावृत्तिः ४६. संजीवनी टीका
४७. सन्धिचन्द्रिका
कातन्त्रव्याकरणम्
१३१७ वं० अ०
१८३२ श० अ०
गोवर्धनयन्त्रम्, कलिकाता । गोवर्धनयन्त्रम्, कलिकाता ।
१९९१ ई०
१९९७ ई०
१९१२
वङ्गाक्षरेषु मुद्रिता कातन्त्रधातुटीका । नागराक्षरेषु वङ्गाक्षरेषु च मुद्रिता । वङ्गाक्षरेषु मुद्रितः । विजयपार्क मौजपुर - दिल्ली ।
विजयपार्क मौजपुर - दिल्ली । आर्यविद्यालय, कलिकाता । वङ्गाक्षरेषु मुद्रिता ।
१८३२ श० अ० आदि,
-
[ इनके अतिरिक्त संपूर्णानन्द संस्कृतविश्वविद्यालयीय सम्पादन - प्रकाशनयोजना के अन्तर्गत ३-४ ग्रन्थ प्रकाशनार्थ स्वीकृत हैं। डॉ० रामसागर मिश्र भी कातन्त्रव्याकरण-ग्रन्थों के प्रकाशनार्थ सक्रिय हैं ] ।
Page #797
--------------------------------------------------------------------------
________________
७५५
संख्या
०
०
०
वड़ वड़
०
उत्कल
०
वङ्ग वङ्ग
०
०
०
परिशिष्टम् -११
हस्तलेखानां परिचयः हस्तलेखः
प्राप्तिस्थानम् लिपिः १. आख्यातटिप्पनम् अहमदाबाद देवनागरी आख्यातविवेकः जयपुर
देवनागरी ३. उद्योतः
पाटन-राजस्थान देवनागरी कलापचन्द्रः
वाराणसी कलापटीका
वाराणसी कलापव्याकरणम् भुवनेश्वर-उड़ीसा ७. कलापसूत्रपाठः वाराणसी ८. कलापसूत्रपाठव्याख्या वाराणसी ९. कातन्त्रकारकटिप्पणी
जोधपुर
देवनागरी १०. कातन्त्रकौमुदी श्रीनगर-कश्मीर, शारदा
उज्जैन-मध्यप्रदेश, शारदा
वाराणसी ११. कातन्त्रक्रोडपत्रसंग्रहः
वाराणसी १२. कातन्त्रटिप्पणकम् अहमदाबाद देवनागरी १३. कातन्त्रदुर्गवृत्तिः जोधपुर
देवनागरी उज्जैन
शारदा
देवनागरी अलवर
देवनागरी बीकानेर
देवनागरी अहमदाबाद
देवनागरी भुवनेश्वर
उत्कल १४. कातन्त्रधातुपाठः वाराणसी
जोधपुर
देवनागरी जयपुर
देवनागरी भुवनेश्वर
उत्कल
०
०
०
III.-.-I--IIIII-II.
.
.
५
जयपुर
W
वङ्ग
WW
.
.
Page #798
--------------------------------------------------------------------------
________________
७५६
१५. कातन्त्रधातुवृत्तिः
१६. कातन्त्रमन्त्रप्रकाशः
१७. कातन्त्रम्
१८. कातन्त्ररूपमाला
१९. कातन्त्रलघुवृत्तिः
२०. कातन्त्रलिङ्गानुशासनम्
कातन्त्रवाक्यविस्तरः
२१. २२. कातन्त्रविभ्रमः
२३. कातन्त्रविभ्रमावचूर्णिः
२४. कातन्त्रविवरणटीका
२५. कातन्त्रविवरणपञ्जिका
२६. कातन्त्रविवरणम्
२७. कातन्त्रविस्तरः
कातन्त्रव्याकरणम्
जम्मू
अलवर
वाराणसी
वाराणसी
होशियारपुर
श्रीनगर-काश्मीर
जम्मू
जोधपुर
दिल्ली
बीकानेर
अहमदाबाद
उज्जैन
अहमदाबाद
जोधपुर
अहमदाबाद
जयपुर
बीकानेर
जोधपुर
जयपुर
बीकानेर
वाराणसी
वाराणसी
वाराणसी
भुवनेश्वर
वाराणसी
वाराणसी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
शारदा
शारदा
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
देवनागरी
उत्कल
देवनागरी
वङ्ग
१
४
३
१
१
१
४
१
२
१
१
9
४
१
१
१
८
२
१
Page #799
--------------------------------------------------------------------------
________________
०
___ वङ्ग
उत्कल
०
०
०
देवनागरी देवनागरी
०
०
देवनागरी देवनागरी देवनागरी
०
०
उत्कल
०
वङ्ग
०
परिशिष्टम्-११ २८. कातन्त्रविस्तरनिगूढार्थप्रकाशिका
भुवनेश्वर २९. कातन्त्रविस्तरपरिभाषाटीका भुवनेश्वर ३०. कातन्त्रवृत्तिः वाराणसी
वाराणसी ३१. कातन्त्रवृत्तिटीका
बीकानेर
वाराणसी ३२. कातन्त्रवृत्तिपञ्जिका अलवर
अहमदाबाद उज्जैन भुवनेश्वर वाराणसी
वाराणसी ३३. कातन्त्रवृत्तिपञ्जिकाव्याख्या
वाराणसी ३४. कातन्त्रवृत्ति
पञिकाप्रदीपः ३५. कातन्त्रवृत्ति
परिभाषाभाष्यम् ३६. कातन्त्रवृत्तिविवरणपञ्जिका जोधपुर
वाराणसी ३७. कातन्त्रवृत्तिविवरणम् वाराणसी ३८. कातन्त्रवृत्तिव्याख्यानम् अलवर ३९. कातन्त्रव्याकरणम् जोधपुर
बीकानेर
देवनागरी
वङ्ग
०
०
जोधपुर
देवनागरी
०
अहमदाबाद
देवनागरी
०
0
देवनागरी वङ्ग वङ्ग देवनागरी देवनागरी देवनागरी
<
am
Page #800
--------------------------------------------------------------------------
________________
७५८
कातन्त्रव्याकरणम्
देवनागरी
०
०
देवनागरी
०
वङ्ग
०
देवनागरी
०
०
४०. कातन्त्रव्याकरणफुटपत्राणि जोधपुर ४१. कातन्त्रं सवृत्तिकम् वाराणसी
वाराणसी ४२. कातन्त्रसूत्रपाठः अहमदाबाद ४३. कातन्त्रसूत्रम्
वाराणसी
वाराणसी ४४. कातन्त्रसूत्रवृत्तिः वाराणसी ४५. कातन्त्रसूत्रवृत्तिविवरणपञ्जिका
वाराणसी ४६. कातन्त्रोत्तरवृत्तिटीका भुवनेश्वर ४७. कातन्त्रोत्तरवियानन्दिवृत्तिः जोधपुर ४८. कालापप्रक्रिया ४९. कृदन्तवृत्तिः बीकानेर
अहमदाबाद ५०. गोल्हणटीका ५१. चतुष्कवृत्तिटिप्पनकम् अहमदाबाद ५२. त्रिलोचनचन्द्रिका अहमदाबाद
०
जोधपुर
०
०
०
जोधपुर
०
०
देवनागरी उत्कल देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी . शारदा शारदा देवनागरी
०
०
जोधपुर जोधपुर
०
०
५३. दुर्गपदप्रबोधः ५४. धातुमञ्जरी ५५. पञ्चसन्धिव्याख्या ५६. परिभाषाशिक्षासूत्राणि ५७. बालबोधिनी
०
जयपुर जयपुर अहमदाबाद श्रीनगर
०
०
दिल्ली
०
जम्मू
०
५८. बालबोधिनीन्यासः
०
शारदा
दिल्ली श्रीनगर
शारदा
०
Page #801
--------------------------------------------------------------------------
________________
:
ܩ
ܩ
ܩ
ܚ
शारदा देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी शारदा
ܚ
ܩ
ܩ
उत्कल
ܩ
परिशिष्टम् - ११ ५९. बालबोधिनीवृत्तिः जम्मू
जोधपुर ६०. बालावबोधः
बीकानेर ६१. बालावबोधटीका जोधपुर ६२. बालावबोधवृत्तिः अहमदाबाद
जोधपुर ६३. लघुललितवृत्तिः जोधपुर ६४. वर्धमानप्रकाशः भुवनेश्वर ६५. वर्धमानप्रक्रिया
भुवनेश्वर ६६. वर्धमानप्रक्रियासारः भुवनेश्वर ६७. वर्धमानव्याकरणम् भुवनेश्वर ६८. वर्धमानसंग्रहः भुवनेश्वर ६९. वैयाकरणसिद्धान्ततत्त्वविवेकः अहमदाबाद ७०. शिष्यहितान्यासः दिल्ली
श्रीनगर ७१. षट्कारकखण्डनमण्डनम् जोधपुर ७२. षट्कारकव्याख्यानम् • जयपुर ७३. सारस्वतटिप्पणम् बीकानेर
उत्कल
ܚ
ܩ
उत्कल उत्कल
ܩ
उत्कल
ܩ
देवनागरी
ܩ
शारदा
ܩ
REEEEEEEEEEEEEEEEEEEE •
ܩ
ܩ
ܩ
शारदा देवनागरी देवनागरी देवनागरी देवनागरी देवनागरी
ܩ
ܟ
जयपुर जयपुर
ܩ
७४. सिद्धसूत्रव्याख्या
(अन्येऽपि केचन हस्तलेखाः) ७५. कातन्त्रपरिशिष्टम् वाराणसी
अलवर ७६. कातन्त्रीयविकृतसूत्राणि उज्जैन
ܩ
वङ्ग
ܚ
देवनागरी देवनागरी
ܩ
|
योगः
ܬ
Page #802
--------------------------------------------------------------------------
________________
सङ्केतः
अ०
अं०
अ० को०
अनु०
उत्तर०
उद्योत ०
क० च०
कलाप०
का०
का०
कात० प०
कात० परि०
कातन्त्रपरिशिष्टम्
कात० परि० का ० कातन्त्रपरिशिष्टम्
कात० वृ० कात० शि०
का० धा० व्या०
॥ श्रीः ॥ परिशिष्टम् - १२ साङ्केतिकशब्दपरिचयः
का० परि०
का० प्र०
ग्रन्थाः
अष्टाध्यायी
अङ्कः
अमरकोशः | कु० सं० अनुशासनपर्व | चा०
उत्तरमेघभागः
महाभाष्यप्रदीपोद्योतः
सङ्केतः
का० वृ०
का० वृ० न्या०
चा० परि० पा०
जै० परि० वृ०
ण०
कलापचन्द्रः
कलापव्याकरणम् दु० टी०
कारकप्रकरणम्
दु० भा०
कारिका
दु० वृ०
दु० स० श०
कातन्त्र परिभाषा
द्र०
नाम०
ना० शा०
न्यास०
कारकप्रकरणम्
कातन्त्रवृत्तिः
कातन्त्रशिक्षा
काशकृत्स्नधातु
व्याख्यानम्
कातन्त्र परिभाषा
काव्यप्रकाशः
पा०
पा० वा०र०
पुरु० परि०
पुरु० परि० पा०
ग्रन्थाः
काशिकावृत्तिः
काशिकावृत्तिन्यासः
कुमारसंभवम्
चान्द्रव्याकरणम्
चान्द्रपरिभाषापाठः
जैनेन्द्रपरिभाषावृत्तिः
णत्वप्रकरणम्
दुर्गटीका
दुर्गभाष्यम्
दुर्गवृत्तिः
दुर्गासप्तशती
द्रष्टव्यम्
नामप्रकरणम्
नाट्यशास्त्रम्
काशिकावृत्तिन्यासः
पाणिनीयाष्टाध्यायी
पुरुषोत्तमदेवीय
परिभाषावृत्तिः
पुरुषोत्तमदेवीय
परिभाषापाठः
Page #803
--------------------------------------------------------------------------
________________
भा० वृ० सं० मनु० म०भा०
म०भा०प्र०
मभार०
परिशिष्टम् - १२
७६१ पृष्ठम् | वि०प० विवरणपञ्जिका भागवृत्तिसंकलनम् | वै० भू० सा? वैयाकरणभूषणसारः
मनुस्मृतिः | व्या० द० इति० व्याकरणदर्शनेर महाभाष्यम्
इतिहास महाभाष्यप्रदीपः व्या० परि० पा० व्याडिपरिभाषापाठः
महाभारतम् व्या० परि० वृ० व्याडिपरिभाषावृत्तिः मुग्धबोधव्याकरणम् श० श० प्र० शब्दशक्तिप्रकाशिका मेघदूतकाव्यम्
श्लोकः मेदिनीकोशः ष०
षत्वप्रकरणम् रघुवंशकाव्यम् स० प्र०
समासप्रकरणम् वर्षम् सं० संख्या, सन्धिप्रकरणम् वङ्गभाष्यम् सीर० परि० सीरदेवपरिभाषावृत्तिः वार्त्तिकसूत्रम् सुबर्थ०
सुबर्थप्रकरणम् वाक्यपदीयम् | सि० च० सिद्धान्तचन्द्रिका वाल्मीकीयरामायणम् | सू०
सूत्रम्
मुग्ध० मेघ० मेदिनी० रघु०
श्लो०
वं० भा० वा० वा०प वा०रा०
Page #804
--------------------------------------------------------------------------
Page #805
--------------------------------------------------------------------------
Page #806
--------------------------------------------------------------------------
________________ संस्कृत-कि विश्ववि निन्द-संरक्ष Celce असम मे गोवा श्रुतम. श्रीजी कम्प्यूटर प्रिण्टर्स, वाराणसी