________________
३८६
कातन्त्रव्याकरणम्
विकारश्च रक्तविकारार्थत्वाद् रक्तविकार उच्यते । न रक्तविकारोऽरक्तविकारः । तदन्तस्य वद्भावो न दृश्यते इति । नद्यां भवा नादेयी सा भार्या यस्य स नादेयीभार्यः, एवं सौनीभार्यः । बहुव्रीह्याश्रयणम् आगमिकावृद्धिनिवृत्त्यर्थम्, तेन वैयाकरणी भार्या यस्य स वैयाकरणभार्यः । रक्तविकारयोस्तु कषायेण रक्ता काषायी सा बृहतिका यस्य स काषायबृहतिकः पटः । लोहस्य विकारो लौही सा ईशा यस्य स लौहेशः । एवं सौनीयते, सौनीमानिनी । ईदन्तस्य स्वाङ्गस्य दीर्घकशीभार्यः, दीर्घकशीयते । मानिनि तु पुंवद्भाव एव । दीर्घकशमानिनी । तथा जातेरिति । कठीभार्यः, बढचीभार्यः, कठीयते, बढचीयते | अमानिनीत्येव-कठमानिनी, बढ्चमानिनी । तसादिष्वेषां यथासंभवं स्त्रीत्वविवक्षैव ।। ३५६ ।
[वि० प०]
संज्ञा० । इहेत्यादि । एतेन कृदाख्यातयोरपि पुंवद्भावस्य प्रतिषेधो न तु प्रस्तुतस्यैवेति दर्शयति- पञ्चमीयते इति । कथमेतद् यावता अनन्तरस्यैव प्रतिषेधः स्यात् ? सत्यम्, पृथग्वचनात् । अन्यथा ह्यसंज्ञापूरणीकोपधं पुंवद्भाषितेत्याद्येकयोगेऽपि कृते सिध्यतीति । दत्ता-गुप्ताशब्दौ संज्ञायामपि वर्तमानौ दानगोपनक्रियाप्रवृत्तिनिमित्ताविति भाषितपुंस्कता । पञ्चमीयत इति | पञ्चमीवाचरतीति "कर्तुरायिः सलोपश्च" (३/२/८) इत्यायौ कृते नामिव्यञ्जनान्ताद् इत्यनेन आयेरादिलोपे “भाषितपुंस्कं पुंवद्" (३/६/६१) इति पुंवद्भावः प्राप्तः प्रतिषिध्यते । पञ्चमीमानिनीति "मनः पुंवच्चार" (४/३/७९) इति णिनि पुंवद्भावे प्राप्ते प्रतिषिध्यते । वृद्धीत्यादि । वृद्धेर्निमित्तं वृद्धिनिमित्तम्, रक्तविकारार्थे विहितस्तद्धितो रक्तविकार उच्यते, उपचारात् । पश्चान्नसमासः । एवम्भूतस्य तद्धितान्तस्यापि पुंवद्भावो नैवेत्यर्थः । नद्यां भवा नादेयी । “स्त्रीभ्य एयण" इति तमादित्वाद् एयणप्रत्ययः । नादेयी भार्या यस्य स नादेयीभार्यः । तथा मुघ्ने भवेत्यण् । स्रौनी भार्या यस्यासौ सौघ्नीभार्यः । एवं सौनीयते, सौघ्नीमानिनी । वृद्धेनिमित्तं यस्मिन्निति बहुव्रीह्याश्रयणमागमिकावृद्धिनिवृत्त्यर्थमिति कश्चित् । तदयुक्तम् । एवमप्यणो वृद्धेर्निमित्तत्वस्य सम्भवात् । न खल्विह बहुव्रीहिणा कश्चिदुपार्जितोऽर्थविशेषो येनैवं स्यात् । तस्मादिह स्वरस्य इत्यध्याहारात् स्वरस्य स्थाने या वृद्धिस्तस्या निमित्तम् ।