________________
१२०
कातन्त्रव्याकरणम्
(अ० १।४।१०२) इति सूत्रं केनचित् कृतम् । तथैकत्वादिष्वर्थेषु एकवचनादिकं भवतीति । एतदर्थं च यथा "स्येकयोर्द्धिवचनैकवचने, बहुषु बहुवचनम्" (अ० १।४।२२, २१) इति । तदिह सकलं न वक्तव्यम् अन्वर्थबलादेव सिध्यतीत्याहएकमित्यादि । अर्थशब्देनात्र संख्या अभिप्रेता, द्रव्यस्य लिङ्गवाच्यत्वात् । वक्तीति प्रत्येकमभिसंबध्यते । एकमर्थं वक्तीति एकवचनम् । द्वावर्थों वक्तीति द्विवचनम् . बहूनर्थान् वक्तीति बहुवचनम् । “कृत्ययुटोऽन्यत्रापि" (४।५।९२) इति कतरि युट् । जातेरेकत्वादेकवचनमेव प्राप्नोति । पक्षे बहुवचनार्थं “जात्याख्यायाम् एकस्मिन् बहुवचनमन्यतरस्याम्" (अ० १।२।५८) इति वक्तव्यम् इत्ययुक्तमित्याह - सम्पन्न इत्यादि । जातिशब्देन यवत्वादिजातिरभिधीयते, तद्योगाद् द्रव्यमपि । तत्र यदा जातिस्तदैकवचनम् । यदा तु द्रव्यं तदा तद्भेदविवक्षायां बहुवचनमिति न काचिद् वस्तुक्षतिरिति ।
तदा अस्मद एकार्थस्य द्वयर्थस्य च पक्षे बहुवचनार्थम् “अस्मदो द्वयोश्च" (अ० १।२।५९) इति न वक्तव्यमित्याह - वयम् इत्यादि । तत्र बाह्या रूपादयः, आध्यात्मिकाश्चक्षुरादयः, तदपेक्षया बहुवचनं कथमिवेत्याह - यथा गुरुषु इति । यथा हि गुरुशब्दाद् बहुवचनं वचनमन्तरेणापि सिद्धम्, तद्वदत्रापीत्यर्थः, एवं द्वयोरप्यर्थयोः पक्षे बहुवचनमुदाहर्तव्यम् । आवां पचावः, वयं पचामः' इति ।।३०२ ।
[क० च०]
प्रथमा द्विकपक्षे त्रिकपक्षे चैकवाक्यतामाश्रित्याह - तस्मादिति । शास्त्रान्तरेण विभक्तिविधानं शास्त्रान्तरेण तदर्थकथनमिति तु शिष्यव्युत्पत्त्यर्थमेव । ननु भिन्नप्रकरणयोरासत्त्यभावात् कथमेकवाक्यतान्वयः ? सत्यम् । यद्यप्यासत्तेरभावस्तथापि परस्परापेक्षया विभक्तीनामर्थनिश्चयाद् एकवाक्यताव्यवहार इति न दोषः । केवलम् इहार्थः कथ्यते इति । ननु किमर्थमिदम् – 'अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (पुरु० पा० ९०) इति न्यायात् "तस्मात् परा विभक्तयः" (२।१।२) इत्यनेन लिङ्गार्थ एव प्रथमा भविष्यति । न च आमन्त्रणार्थे प्रथमाविधानात् कथमस्या अनिर्दिष्टार्थत्वमिति वाच्यम्, “आमन्त्रणे च" (२।४।१८) इति प्रथमेति कृते चकारादन्यत्रापि प्रथमाया विधानात् कर्मादिष्वर्थेषु पुनः “शेषाः" (२।४।१९) इत्यादिना द्वितीयादिविधिरस्त्येवेति नात्र प्रथमाविषयः ? सत्यम् । अत एव वचनात् लिङ्गार्थः