________________
नामचतुष्टयाध्याये चतुर्वः कारकपादः
१२१ प्रधानभूत एव गृह्यते । प्राधान्यं हि विशेष्यत्वेन प्रतीयमानत्वमेव । तेन ‘राज्ञः पुरुषः' इत्यत्र संबन्धस्योभयनिष्ठत्वेन पुरुषशब्दादपि षष्ठीप्राप्तौ लिङ्गार्थस्य विशेष्यत्वेन प्रतीयमानात् षष्ठीबाधिका प्रथमैवेति । अन्यथा अपवादत्वात् षष्ठ्येव स्यात् । विशेष्यादपि राजन्शब्दात् पुनः संबन्धस्य विशेष्यत्वेन प्रतीयमानत्वात् षष्ट्येवेति ।
अत एव "द्विष्ठो यद्यपि संबन्धः षष्ठ्युत्पत्तिस्तु भेदकात्" इत्यपि संगच्छते । अथ तर्हि 'नीलमुत्पलम्' इत्यत्र नीलशब्दाद् विशेषणवाचकात् कथं प्रथमेति । नैवम्, सामानाधिकरण्यान्नीलशब्दस्योत्पलमेव वाच्यम् इति प्रथमा स्यादेव । तेन केवलम् इहार्थः कथ्यते इत्यत्रार्थशब्दस्य विशेष्यभूतेऽर्थे तात्पर्यमिति । ननु कथम् अव्यतिरिक्तमिति लिङ्गार्थस्य विशेषणं व्यवच्छेद्याभावात् । यो हि लिङ्गार्थः सोऽनधिक एवेत्याह - अथवेति । भेद इति । यद्यपि भिद्यतेऽनेनेति भेदो विशेषणम्, तथाप्यत्र धर्मपरत्वेन विवक्षितत्वाद् भेदशब्देन विशेषणत्वमुच्यते । अभिन्न इति विशेष्यस्वरूप इत्यर्थः । वचनम् अभिधानमित्यर्थः । कथं पुनरव्यतिरिक्त इति । वृक्षमानयेत्यादौ कमदिरर्थस्य विशेष्यत्वेन लिङ्गार्थतया प्रतीयमानत्वादत्रापि कथं प्रथमा न स्यादिति पत्रीकृतो हृदयम् । अन्वयव्यतिरेकाभ्यामिति प्रकृतेरिति शेषः । तथाहि वृक्षमित्यत्रैव प्रकृतिस्थितौ विभक्त्यर्थानुसन्धानं विना तदर्थप्रतीतिरन्वयः। प्रकृतिव्यतिरेकेण विभक्तिस्थितौ तदर्थप्रतीतेरभावो व्यतिरेकः । तथा च तथात्र प्रतीतेरित्यस्य द्वयमेवार्थः ।
तथाहि अन्वयपक्षे प्रतीतेवृक्षत्वादिविशिष्टस्यैव प्रतीतेरित्यर्थः । व्यतिरेकपक्षे च तन्मात्रस्य तदभावस्य प्रतीतेरित्यर्थः, सर्वनाम्नो बुद्धिस्थवाचित्वात् । यद् वा तन्मात्रप्रतीतेरित्यत्र तन्मात्राप्रतीतेश्चेत्युपस्करणीयम् । तथा चान्वयव्यतिरेकाभ्यां प्रतीत्यप्रतीती इति श्रीपतिः। तदुक्तम्,
यत्र योऽन्येति यं शब्दमर्थस्तस्य भवेदसौ।
अन्वयव्यतिरेकाभ्यां शक्तिस्तत्रावसीयते ॥ इति । तन्मात्रप्रतीतेरिति वस्तुमात्रप्रतीतेरित्यर्थः । तत्राव्यतिरेकज्ञानस्यान्वयज्ञानाधीनत्वात् । अन्वयमेवाह - तथाहीत्यादि । तत्र विभक्त्यर्थानुसन्धानाभावं दर्शयति- विभक्तिं विनेति । विभक्त्यर्थानुसन्धान विनेत्यर्थः । अन्यथा विभक्तिव्यतिरेकेणासाधुत्वादपप्रयोग एव । तथा चास्मन्मते प्रकृतेरेवान्वयो व्यतिरेकश्च । कुलचन्द्रस्तु वृक्षमित्यत्रान्वयो विभक्तेर्जायते । व्यतिरेकमाह - तथाहीति । एतन्मते विभक्तेरेवान्वयो व्यतिरेकोऽपि ।