________________
१२२
कातन्त्रव्याकरणम्
तत्र वृक्षं वृक्षणेत्यादौ प्रत्येकं विभक्तेर्व्यतिरेक इति । तथा चास्य मते विभक्तिविशेषव्यतिरेक इत्यर्थः, विभक्तिं विना प्रयोगस्याभावात् । तदा कर्मादि केन प्रत्याय्यताम् इत्यत आह - कर्मादीति । वृक्ष इत्यादि । ननु “प्रातिपदिकार्थलिगपरिमाणवचनमात्रे प्रथमा" (अ० २।३।४६) इति परसूत्रम् । तत्र पुंस्त्वादिकं न प्रकृत्यर्थः, किन्तु विभक्त्यर्थ एव, यतो विभक्तिं विना तटशब्दे लिङ्गसन्देहः स्यात् । ततश्च ‘राज्ञः पुरुषः' इत्यत्र प्रकृत्यनुपात्तसंबन्धाभिधानाय यथा षष्ठी तथा वृक्षादिशब्दादपि लिङ्गसंबन्धाभिधानाय षष्ठी स्यादिति तदर्थं लिङ्गग्रहणम् । तथा द्रोणादयः शब्दा यदा परिमाणमात्रविशेषे वर्तन्ते तदा ततः प्रथमासिद्धावपि यदा सोऽयमित्यभिसंबन्धाद् द्रोणादिपरिमितो ब्रीह्यादिोण इत्युच्यते । तदा मुख्यप्रातिपदिकार्थस्वभावाद् गौणस्य चात्राग्रहणात् प्रथमा न सिध्यतीति परिमाणग्रहणम् । तथा एकादिशब्देनैव संख्याया उक्तार्थत्वात् प्रथमा न सिध्यतीति तदर्थं वचनग्रहणम् । एवं च सति प्रातिपदिकार्थग्रहणं लिङ्गसंख्यारहिताव्ययार्थमेव पर्यवस्यति ।
यद्यपि सर्वविभक्त्युत्पत्तिपक्षे षष्ठीविधानेनापि पदसंज्ञा सिद्धा, तथापि "वाऽसपूर्वात् प्रथमान्तात्" (कात० परि०-नाम० ६५) इत्यनेन विकल्पनेन वस्नसाधादेशार्थं प्रथमाविधानम् ।अत एव उच्चैः,नीचैः' इति प्रातिपदिकार्थस्यैवोदाहरणम् । ततश्चास्मन्मते लिङ्गादिग्रहणाभावे विभक्तिवाच्यपुंस्त्वाद्यर्थस्य तत्संबन्धस्य चाधिक्यात् षष्ठी स्यादित्येतदेव द्विकपक्षमादाय पूर्वपक्षयति- नन्वित्यादि। एवं द्विकपक्षेऽपि संख्याया आधिक्यात् पूर्वपक्षो बोध्यः । चतुष्कपक्षेऽपि अन्तरालसंबन्धे षष्ठी स्याद् इत्यपि पूर्वपक्षो युज्यते, तथापि द्विकपक्षे ग्रन्थकारस्य यथाश्रुतस्वरसात् । तन्मतेनैव ग्रन्थो व्याख्यायते इति भावः इति पाठान्तरम् । पुंस्त्वादेर्लिङ्गार्थस्येति लिङ्गार्थसम्बन्धी यो विभक्तिवाच्यः पुंस्त्वादिः स व्यतिरेकहेतुरिति व्यधिकरणान्वयः । नतु य एव पुंस्त्वादिः स एव लिङ्गार्थ इति सामानाधिकरण्येनान्वयः।
व्यतिरेकहेतुत्वादित्यादि, हेतुत्वासङ्गतेः । अस्मिन्पक्षे पुंस्त्वादेविभक्त्यर्थत्वात् संबन्धस्यातिरिक्तत्वेन पूर्वपक्षो घटते इति । पुंस्त्वादेरलिङ्गार्थस्येति पाठे सुतरामेव संगच्छते इति । एवमिति । यथा द्रोणादिशब्दे मानमेयसंबन्धोऽतिरिक्तस्तथा एक इत्यादौ संख्यानसंख्येयस्यातिरिक्तत्वात् षष्ठी स्यात् । चकारोऽत्र भिन्नक्रमे उक्तार्थत्वाच्च प्रथमा न प्राप्नोतीत्यर्थः, तथा चैकशब्देन द्वयार्थानुपपत्तेः । यदुक्तम् -