________________
१२३
नामचतुष्टयाप्याये चतुर्थः कारकपादः अर्थान्तरैरसंश्लिष्टो लिङ्गस्यार्थो भवेद् यदि।
प्रथमा स्यात् तदा तत्र तावन्मात्रविवक्षया ॥ इति । त्रिकपक्षमवलम्ब्य वृत्तिकृता यत् सिद्धान्तितम्, तदुत्थापयति - सर्व इत्यादीति । अयमर्थः- अमी पुंस्त्वादयोऽपि लिङ्गार्था अन्वयित्वात् । विशेष्ये स्वार्थविशिष्टद्रव्यादावन्वितत्वेन प्रतीयमानत्वात् । अतः प्रथमा न विहन्यते इति । द्विकपक्षम् आश्रित्य पुनः पूर्वपक्षयति- नन्विति । शब्देनानुपात्तत्वादिति । अन्वयव्यतिरेकाभ्यां शब्देनानुपस्थापितत्वादित्यर्थः । तदुक्तं वार्तिके
यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ।
अन्वयव्यतिरेकाभ्यां नान्यस्तत्र प्रतीयते ॥ अन्वयव्यतिरेकेण पुंस्त्वादेर्लिङ्गार्थत्वाभावं दर्शयति - तथाहीत्यादि । द्विकपक्ष एव सिद्धान्तयति- सत्यमित्यादि । वृक्षत्वादिलक्षण इति वृक्षत्वादिना प्रवृत्तिनिमित्तेन लक्ष्यते यो द्रव्यादिस्वरूपोऽर्थः स वृक्षत्वादिलक्षणः । यद् वा वृक्षत्वादिलक्षणं नियामकं यस्य स तथा साध्यो विशेष्यत्वेन प्रतीयमानोऽन्वयी शब्दाभिधेयोऽव्यभिचारीति यावद् एतेन पुंस्त्वाद्यर्थाधिक्येऽपि यत्र लिङ्गार्थो विशेष्यत्वेन प्रतीयते तत्रैव प्रथमेति भावः । एवं च सति द्विकपक्षेऽपि वृत्तिरेवं व्याख्येया । तथापि अन्वयित्वाद् विशेषणत्वेनान्वितत्वाद् विशेष्यत्वादिति यावत् । अपि अभ्युपगमेऽन्वयित्वात् तावद् अमी वृक्षादयो लिङ्गार्थाः । अतः प्रथमा न विहन्यते इत्यर्थः । नन्वत्र लिङ्गार्थस्य विशेष्यत्वमस्तु सम्बन्धस्यापि विद्यमानत्वात् षष्ठी स्यादित्याह - परत्वादिति । परत्वं च "उच्चैः, नीचैः' इत्यादौ प्रथमायाः सावकाशत्वान्न ‘राज्ञः पुरुषः' इत्यादौ षष्ट्याः सावकाशत्वादिति घटते । अन्तरङ्गत्वादिति । लिङ्गार्थस्य विशेष्यत्वेनान्तरङ्गत्वादिति भावः । स्वेन पुरुषादिनेत्यर्थः । प्रधानमिति प्रतिपाद्यत्वादित्यर्थः । गुणभूत इति विशेषणत्वादित्यर्थः । कुमारीत्यादौ चेति ।
अयमाशयः। अन्वयव्यतिरेकाभ्यां यत्र स्त्रीत्वादिरपि प्रतीयते, सोऽपि लिङ्गार्थ एव, किन्तु अत्रान्तरङ्गत्वव्याख्यानेन । एतेन व्याकरणस्य सर्वपारिषदत्वात् त्रिकपक्षोऽपि आदृत एव । ननु पाणिनिना द्रोणो व्रीहिरित्यादौ औपचारिक प्रयोगसाधनार्थं परिमाणग्रहणं क्रियते । तदभावादस्मन्मते किं स्यादित्याह - तथा द्रोणादयोऽपीत्यादि ।