________________
१२४
कातन्त्रव्याकरणम् नन्देकादिशब्दस्य संख्यानसंख्येयार्थस्यातिरिक्तत्वात् षष्ठीप्राप्तौ सर्वेऽप्यमी लिङ्गार्था इत्यनेनैव सिद्धान्तितम् । उक्तार्थत्वात् प्रथमा न स्यादिति पूर्वपक्षसिद्धान्तमाह - एवमेक इत्यादि | न कर्तृकर्मेत्यादि । अत्र विशेष्यत्वेन लिङ्गार्थमपि न चक्षते इत्यपि बोद्धव्यम् । ट्येकयोविचनैकवचने इति । ननु दयेकयोरिति कथं द्विवचनं द्विशब्दस्यैकशब्दस्य च बह्वर्थवाचित्वाद् बहुवचनम् प्राप्नोति । एकद्विशब्दयोः संख्येयवृत्तित्वात् । तथाहि, 'एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वमुच्यते' इति वृद्धैरुक्तम् । अमरसिंहोऽपि 'संख्येये ह्यादश त्रिषु' (अ० को० २।९।८३) इति । ___ बहुव्रीहिसूत्रेऽपि - ‘आदशभ्यः संख्याः संख्येये वर्तन्ते, अतः परं संख्याने संख्येये चेति दर्शितम्' इति वृद्धैरुक्तत्वाच्च ? सत्यम् । लक्षणया एकद्विशब्दयोर्दित्वैकत्वसंख्याने वृत्तिः । ततश्च द्वित्वैकत्वसंख्ययोर्द्वित्वसत्त्वाद् द्विवचनमिति । तथा च वृद्धैरुक्तम् - 'स्येकयोरिति निर्देशात् संख्यावृत्तित्वमिष्यते' इति । अथ तर्हि संख्यायाः एकत्वाद् द्विशब्दादेकवचनमपि स्यात् । नैवम् । अत्र प्रयोगसाध्वर्थमेव लक्षणा क्रियते । नहि सर्वत्र लक्षणां विधाय प्रयोगस्य साधुत्वं कल्पनीयमिति । द्वावर्थो, बहूनानिति । ननु यद्यर्थशब्देनात्र संख्याभिप्रेता, तदा संख्याया एकत्वादेकवचनं प्राप्नोति । तत्कथं द्वावर्थावित्यत्र द्विवचनम्, बहूनानित्यत्र च बहुवचनमिति ? सत्यम् । संख्येयगतं द्वित्वं बहुत्वं च संख्यायामारोप्य प्रयोगसाधुतेति न दोषः । तत्र यदेति यदा विशेष्यत्वेन जातिरभिधीयते तदैकवचनम् । यदा द्रव्यं विशेष्यत्वेनाभिधीयते तदा बहुवचनमिति भावः । तथा च 'क्वचिजातिः क्वचिद् व्यक्तिः पाणिनेस्तूभयं मतम्' इति । ___ अस्मन्मतेऽपि स एव न्याय्यः । आध्यात्मिका इति । आत्मनि अधितिष्ठन्ति ये भावाश्चक्षुरादयः पदार्था इत्यर्थः । गुरुष्विति । अत्र परेणापि अस्मदुक्तरीत्यैव समाधानं क्रियते । न हि एतदर्थं तन्मतेऽपि सूत्रमस्तीत्यर्थः। ननु विशेष्यभूते लिङ्गार्थे प्रथमाविधानार्थं सूत्रमिदं न क्रियताम्, गौणमुख्यन्यायेन तसिद्धेः ? सत्यम् ।द्विकत्रिकपक्षे सुखार्थमेवेदं सूत्रमिति | पञ्चकपक्षे तु सूत्रं कर्तव्यमेव । न ५ वक्ष्यमाणसूत्रे कर्मादिषु द्वितीयादय एवेति नियमात् कर्मादिषु प्रथमा न भविष्यतीति नियमार्थमेतत् क्रियते, लिङ्गार्थ एव प्रथमेति । अपि तु “आमन्त्रणे च प्रथमा" (२।४।१८) इति सूत्रे कृते चकारसामर्थ्याद् अन्यत्रापि प्रथमा भवतीति गौणमुख्यन्यायाद् विशेष्यभूते लिङ्गार्थे भविष्यति, किमनेनेति वाच्यम् । कर्मादिष्वेव द्वितीयादय इति विपरीतनियमे विशेष्यभूते कर्मादावपि पर्यायेण प्रथमाप्राप्तेरिति । हेमकरस्याप्ययमाशयः इति चिन्त्यमन्यत् सुधीभिः ||३०२।