________________
नामचतुष्टयाप्पाये चतुर्थः कारकपादः
११९ एवाव्यतिरिक्ते लिङ्गार्थवचने इति । लिङ्गार्थो हि अव्यतिरिक्तत्वेन विवक्षितः, न तु तद्वचनमिति । यदाह जिनेन्द्रबुद्धिः- 'अव्यतिरिक्त एव प्रातिपदिकार्थः' (का० वृ० २।३।४६) इति दुर्गसिंहोऽपि टीकायामाह तदा अनधिक एव लिङ्गार्थ इति । यदि पुनर्वृत्तौ बहुलपाठादवश्यं व्याख्येयमिदं तदा लिङ्गार्थस्याव्यतिरिक्तत्वात् तद्वचनमपि अव्यतिरिक्तम् उपचारादिति, कथं पुनरव्यतिरिक्त इति लभ्यते ? सत्यम् । लिग हि वस्तुमात्राभिधायकम्, अन्वयव्यतिरेकाभ्यां तन्मात्रप्रतीतेः। तच्च स्वभावादव्यतिरिक्तमेवोच्यते । तथाहि- वृक्षेति विभक्तिमन्तरेण वस्तुमात्रमनधिकमेव प्रतीयते शाखादिमदिति । अतिरिक्तास्तु कर्मादिशक्तयो विभक्तिवाच्या इति ।
वृक्ष इत्यादि । ननु कथमत्र प्रथमा पुंस्त्वादेर्लिङ्गार्थस्य व्यतिरिक्तहेतुत्वादभेदलक्षणा षष्ठी प्राप्नोति । तथा द्रोणादिशब्देभ्योऽपि मानमेयसंबन्धस्य व्यतिरिक्तत्वात षष्ठी स्यात् । एवमेक इत्यादौ चोक्तार्थत्वात् प्रथमा न प्राप्नोतीत्याह- सर्वे इत्यादि । ननु शब्देनानुपात्तत्वात् कथं पुंस्त्वादेर्लिङ्गार्थत्वम् । तथाहि वृक्षशब्दो विभक्तिं विना पुंस्त्वं नपुंसकत्वं व्याचष्टे इति सन्देह एव स्यात् । ततो यथा 'राज्ञः पुरुषः' इत्यादौ राजन्शब्देनानुपात्तस्य स्वस्वामिसंबन्धस्याभिधानार्थं षष्ठी प्रवर्तते, तथात्रापि स्यात् ? सत्यम् । तथापि वृक्षत्वादिलक्षणः साध्योऽन्वयी लिङ्गार्थोऽत्रापि विद्यते इति । तत्र प्रथमा स्यादेव, परत्वात् षष्ठी स्यादित्यपि न वक्तव्यम्, अन्तरङ्गत्वाल्लिङ्गार्थस्येति । यद्येवं 'राज्ञः पुरुषः' इत्यत्राप्यन्तरङ्गत्वात् कथन्न प्रथमेति । तदयुक्तम्, स्वेन संबन्धात् स्वामित्वमेव प्रधानम् । गुणभूतो लिङ्गार्थ इति कथम् अन्तरङ्गताऽस्येति । 'कुमारी' इत्यादौ च विभक्तिमन्तरेण स्त्रीत्वमुपात्तं शब्देनेति लिङ्गार्थत्वं न विहन्यते । तथा द्रोणादयोऽपि शब्दा यदा केवलपरिमाणवृत्तयः, तदा अव्यतिरिक्तलिङ्गार्थ इति तत्र प्रथमां लब्ध्वा तदन्ता एव मेयादिशब्दैः सोऽयमित्यभिसम्बन्धात् समानाधिकरणा भवन्ति । द्रोणो व्रीहिः, आढको व्रीहिः । द्रोणेन परिमितो व्रीहिरिति । एवमेक इत्यादावप्यदोषः।
विभक्तिमन्तरेण लिङ्गार्थविशिष्टकर्तृकर्मकरणादिप्रतिपत्तेरभावात् । एकादयो हि शब्दाः साधारणमेकत्वादिकमाचक्षते, न कर्तृकर्मकरणादिविशिष्टमिति । अतो विशेष्यस्याभिव्यक्तये विभक्तयो युक्ता इति । अत्र स्यादीनां त्रिकेषु लोकेषु प्रथमादिशब्दवाच्येषु प्रत्येकमेकवचनादिसंज्ञाप्रतिपादनार्थं "तान्येकवचन द्विवचनबहुवचनान्येकशः"